प्रमेय लक्षणम – Prameya lakshanam
आत्म शरीरेन्द्रियार्थ बुद्धि मनः प्रवृत्ति दोष प्रेत्यभाव फल दुःखापवर्गाः तु प्रमेयम् ।। ९ ।।
इच्छाद्वेष प्रयत्न सुख दुःखज्ञानानि आत्मनः लिङ्गं इति ।। १० ।।
चेष्टेन्द्रियार्थाश्रयः शरीरम् ।। ११ ।।
Read Next
घ्राणरसनचक्षुस्त्वक्श्रोत्राणि इन्द्रियाणि भूतेभ्यः ।। १२ ।।
पृथिवी आपः तेजः वायुः आकाशं इति भूतानि ।। १३ ।।
गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणाः तदर्थाः ।। १४ ।।
बुद्धिः उपलब्धिः ज्ञानं इति अनर्थान्तरम् ।। १५ ।।
Read Next
युगपत्ज्ञानानुत्पत्तिः मनसः लिङ्गम् ।। १६ ।।
प्रवृत्तिः वाग्बुद्धिशरीरारम्भः ।। १७ ।।
प्रवर्त्तनालक्षणाः दोषाः ।। १८ ।।
Read Next
पुनरुत्पत्तिः प्रेत्यभावः ।। १९ ।।
प्रवृत्तिदोषजनितः अर्थः फलम् ।। २० ।।
बाधनालक्षणं दुःखम् ।। २१ ।।
तदत्यन्त विमोक्षः अपवर्गः ।। २२ ।।
न्यायसूत्राणि [अध्यायः१- प्रथमभागः]