आचार्य्यः- Acharyya
आचार्य्यः, पुं, (आङ् + चर् + ण्यत् ।) वेदाध्या-
पकः । वैदिकमन्त्रव्याख्याकर्त्ता । तत्पर्य्यायः ।
मन्त्रव्याख्याकृत् २ । इत्यमरः ॥ द्रोणाचार्य्यः । इति त्रिकाण्डशेषः ॥
तल्लक्षणं यथा, —
“उपनीय तु यः शिष्यं वेदमध्यापयेत् द्विजः ।
सकल्पं सरहस्यञ्च तमाचार्य्यं प्रचक्षते” ॥
इति मानवे २ । २४० ॥
(ततोऽनन्तरमाचार्य्यं परीक्षेत । तद्यथा, —
“पर्य्यवदातश्रुतं परिदृष्टकर्म्भाणं दक्षं दक्षिणं शुचिं
जितहस्तमुपकरणवन्तं सर्व्वेन्द्रियोपपन्नं प्रकृतिज्ञं
प्रतिपत्तिज्ञमनुपस्कृतविद्यमनसूयकमकोपनं क्ले-
शक्षमं शिष्यवत्सलमध्यापकं ज्ञानदानसमर्थमि-
त्येवंगुणो ह्याचार्य्यः सुक्षेत्रमार्त्तवो मेघ इव
शस्यगुणैः सुशिष्यमाशु वैद्यगुणैः सम्पादयति ।
तमुपसृत्यारिराधयिषुरुपचरेदग्निवच्च देववच्च
राजवच्च पितृवच्च भर्त्तृवच्चाप्रमत्तस्ततस्तत्प्रसादात्
कृत्स्नं शास्त्रमधिगम्य शास्त्रस्य दृढतायामभि-
धानसौष्ठवस्यार्थस्य विज्ञाने वचनशक्तौ च भूयः पयतेत सम्यक्” । इति चरकः ॥)
शब्दकल्पद्रुमः