आगम – AAgama
आगम पु० आ + गम–घञ् । १ आगतौ २ प्राप्तौ
३ उत्पत्तौ च “आगमापायिनोऽनित्यास्तांस्तितिक्षस्व
भारत!” गीता, आगम्यते प्राप्यतेऽनेन करणे
घञ् । ४ सामाद्युपाये “आगमैः सदृशारम्भ आरम्भसदृ-
शोदयः” रघुः आगम्यते स्वत्वभनेन । स्वत्वप्रापके
५ क्रयप्रतिग्रहादौ “आगमोनिष्फलस्तत्र भुक्तिःस्तोकापि
यत्र नो” या० स्मृतिः “अनागमन्तु यो भुङ्क्ते बहून्य-
ब्दशतान्यपि” स्मृतिः” यादशागमस्व प्रामाण्यं तन्नि-
रूपितम् मिता० । “भोगमात्रस्य स्वत्वव्यभिचारात्
कीदृशोभोगः प्रमाणमित्यत आह । “आगमोऽभ्यधिकोभो-
गाद्विना पूर्व्वेक्रमागतात्” या० स्वत्वहेतुः प्रतिग्रहक्रेयादि-
रागमः । स भोगादभ्यधिकोबलीयान् स्वत्वबोधने०
भोगस्यागमसापेक्षत्वात् । यथाह नारदः । “आगमेन विशुद्धेन
भोगोयाति प्रमाणताम् । अविशुद्धागमो भोगः प्रामाण्यं
नैव गच्छतीति” । न च भोगमात्रात्स्वत्वावगमः परकीय-
स्याप्यपहारादिनोपभोगसम्भवात् । अतएव “भोग तु केवलं-
यस्तु कीर्त्तयेन्नागमं क्वचित् । भोगच्छलापदेशेन विज्ञेयः
स तु तस्कर” इति स्मर्य्यते । अतश्च सागमोदीर्घकालो
निरन्तरो निराक्रोशः प्रत्यर्थिप्रत्यक्षश्चेति पञ्चविशेषणयुक्तो
भोगः प्रमाणमित्युक्तम्भवति । तथा च स्मर्य्यते । “सागमो
दीर्घकालश्चाविच्छेदोऽन्यरवोज्झितः । प्रत्यर्थिसन्निधानश्च
परिभोगोऽपि पञ्चधेति” । क्वचिच्चागमनिरपेक्षस्यापि
भोगस्य प्रामाण्यमित्याह । विना पूर्व्वक्रमागतादिति ।
पूर्ब्बेषां पित्रादीनां त्रयाणां क्रमः पूर्बक्रमस्तेनागतो यो
भोगस्तस्माद्विना आगमोऽभ्यधिक इति सम्बन्धः । स पुनरागमाद-
भ्यधिकः आगमनिरपेक्षः प्रमाणमित्यर्थः तत्राप्यागमज्ञान-
निरपेक्षो न सत्त्वनिरपेक्षः सत्ता तु तेनैवावगम्यत इति बोद्ध-
व्यम् । विना पूर्ब्बक्रमागतादित्येतच्च स्मार्त्तकालप्रदर्शनार्थम् ।
“आगमोऽभ्यधिकोभोगादिति” च स्मार्त्तकालविषयम् । अतश्च
स्मरणयोग्येकाले योग्यानुपलब्ध्यागमाभावनिश्चयसम्भवादा-
गम ज्ञानसापेक्षस्यैव भोगस्य प्रामाण्यम् । स्मार्त्ते तु काले
योग्यानुपलब्ध्यभावेनागमाभावनिश्चयासम्भवादागमज्ञान
निरपेक्ष एव सन्ततो भोगः प्रमाणम् । एतदेव स्यष्टीकृत-
ङ्कात्यायनेन । “स्मार्त्तेकाले क्रिया भूमेः सागमा भुक्तिरिष्यते
स्मार्त्तेत्वनुगमाभावात् क्रमात् त्रिषुरुषागता” । स्मार्त्तश्च
कालो वर्षंशतपर्य्यन्तः “शतायुर्वै पुरुष इति” श्रुतेः ।
अनुगमाभावादिति योग्यानुपलब्ध्यभावेनागमाभावनिश्चया-
भावादिति । अतश्च वर्षशताधिको भोगः सन्ततोऽप्रतिरवः
प्रत्यर्थिप्रत्यक्षश्चागमाभावे चानिश्चिते अव्यभिचारादाक्षि-
प्तागमः स्वत्वं गमयति । स्मार्त्तेऽपि कालेऽनागमस्मृति-
परम्परायां सत्यां न भोगः प्रमाणम् । अतएव “अनागमन्तु
यो भुङ्क्ते बहून्यब्दशतान्यपि । चौरदण्डेनतम्पापन्दण्डयेत्-
पृथिवीपति” रित्युक्तम् । न चानागमन्तु यो भुङ्क्तैत्येकवचन-
निर्द्देशाद्बहून्यब्दशतान्यपीत्यपिशब्दप्रयोगात् प्रथमस्य पुरुषस्य
निरागमे चिरकालोपभोगेऽपि दण्डविधानमिति मन्तव्यं
द्वितीये तृतीये वा पुरुषे निरागमस्य भोगस्य प्रामाण्यप्रस-
ङ्गात् नचैतदिष्यते “आदौ तु कारणन्दानं मध्ये भुक्तिस्तु
सागमेति” नारदस्मरणात् । तस्मात् सर्वत्र निरागमोपभोगे
“अनागमन्तु योभुङ्क्त इत्येतद्द्रष्टव्यम् यदपि “अन्यायेनापि
यद्भुक्तं पित्रा पूर्बतरैस्त्रिभिः । न तच्छक्यमपाहर्त्तुं क्रमात्त्रि-
पुरुषागतमिति” । पित्रा सह पूर्बतरैस्त्रिभिरिति योज्यम् ।
तत्रापि क्रमात् त्रिपुरुषागतमित्यस्मार्त्तकालोपलक्षणम् ।
त्रिपुरुषविवक्षायामेकवर्षाभ्यन्तरेऽपि पुरुषत्रयातिक्रमसम्भ-
वाद्द्वितीये वर्षे निरागमस्य भोगस्य प्रामाण्यप्रसङ्गः
तथा सति “स्मार्त्ते काले क्रिया भूमेः सागमा भुक्तिरिष्यत”
इति स्मृतिविरोधः । “अन्यायेनापि यद्भुक्तमित्येतच्चा-
न्यायेनापि भुक्तमपहर्त्तुन्न शक्यं किम्पुनरन्यायानिश्चय-
इति व्याख्येयमपिशब्द श्रवणात् । यच्चोक्तम् । “यद्विनाग-
ममत्यन्तम्भुक्तं पूर्ब्बैस्त्रिभिर्भवेत् । न तच्छक्यमपाकर्त्तुं
क्रमात् त्रिपुरुषागतमिति” तत्राप्यत्यन्तमागमं विनेत्यत्यन्त
मुपलभ्यमानमागमं विनेति व्याख्येयम् । न पुनरागम
स्वरूपं विनेति आगमस्वरूपाभावे भोगशतेनापि न स्वत्वं
भवतीत्युक्तं क्रमात्त्रिपुरुषागतमित्येतदुक्तार्थम् । ननु स्मरणयोग्ये
काले भोगस्यागमसापेक्षस्य प्रामाण्यमनुपपन्नम् । तथाहि ।
यद्यागमः प्रमाणान्तरेणावगतस्तदा तेनैव स्वत्वावगमान्न भोगस्य
स्वत्वे आगमे वा प्रामाण्यम् अथ प्रामाणान्तरेण नागमोऽवगतः
कथन्तद्विशिष्टोभोगः प्रमाणम् । उच्यते । प्रामाणान्तरेणावग-
तागमसहित एव निरन्तरोभोगः कालान्तरे स्वत्वङ्गमयति ।
अवगतोऽप्यागमोभोगरहितो न कालान्तरे स्वत्वङ्गमयितुमलं
मध्ये दानविक्रयादिना स्वत्वापगमसम्भवादिति सर्वमनवद्यम् ।
आगमसापेक्षो भोगः प्रमाणमित्युक्तम् । आगमस्तर्हि-
भोगनिरपेक्ष एव प्रमाणमित्यत आह । “आगमेऽपि बलं
नैव भुक्तिस्तोकापि यत्र नो” या० यस्मिन्नागमे स्वल्पापिभु-
क्तिर्नोनास्ति तस्मिन्नागमे बलं सम्पूर्णं नैवास्ति । अयमभि
सन्धिः स्वत्वनिवृत्तिपरस्वत्वापादनञ्च दानम् । परस्वत्वापा-
दानं च परो यदि स्वीकरोति तदा सम्पद्यते नान्यथा । स्वीका-
रस्त्रिविधोमानसो वाचिकः कायिकश्चेति । तत्र मानसो-
ममेदमिति संकल्परूपः । वाचिकस्तु ममेदमित्याद्यभि-
व्यवहारोल्लेखी स विकल्पकः प्रत्ययः । कायिकः पुनरुपा-
दानाभिमर्शनादिरूपोऽनेकविधः तत्र च नियमः स्मर्य्यते
“दद्यात्कृष्णाजिनम्पुच्छे गां पुच्छे करिणङ्करे । केशरेषु
तथैवाश्वन्दासींशिरसि दापयेदिति” । आश्वलायनोऽप्याह ।
“अनुमन्त्रयेत् पाणिनाभिमृशेत् प्राणिनं कन्यां चेति” । तत्र
हिंरण्यवस्त्रादावुदकदानान्तमेवोपादानादिसम्भवात् त्रि-
विधोऽपि स्वीकारः सम्पद्यते । क्षेत्रादौ पुनः फलोपभोग
व्यतिरेकेण कायिकस्वीकारासम्भवात् स्वल्पेनाप्यपभोगे-
न भवितव्यम् । अन्यथा दानक्रयादेः सम्पूर्णतान
भकतीति फलोपभोगलक्षणकायिकस्वीकारविकलश्चागमो दुर्ब-
लो भवति तत्सहितादागमात् । एतच्च द्वयोः पूर्ब्बा-
परकालापरिज्ञाने । पूर्वापरकालज्ञाने तु विगुणोऽपि पूर्व्व-
कालागम एव बलीयानिति । अथ वा “लिखितं साक्षिणो-
भुक्तिः प्रमाणं त्रिविधं स्मृत” मित्युक्तम् । एतेषां समवाये-
कुत्र कस्य प्राबल्यमित्यत्रेदमुपतिष्ठते । “आगमोऽभ्यधिको
भोगाद्विनापूर्व्वक्रमागतात् । आगमेऽपि बलं नैव भुक्तिः स्तो-
कापि यत्र नो” इति अयमर्थः । आद्ये पुरुषे साक्षिभि-
र्भावितश्चागमो भोगादभ्यधिकोबलवान्पूर्वक्रमागताद् भोगा
द्विना । स पुन पूर्व्वक्रमागतो भोगश्चतुर्थे पुरुषे लिखिते-
न भावितादागमात्बलवान् मध्यमे तु भोगरहितादाग-
मात् स्तोकभोगसहितोऽप्यागमो बलवानिति ।
एतदेव नारदेन स्पष्टीकृतं “आदौ तु कारणन्दानं मध्ये भुक्तिस्तु
सागमा । कारणं भुक्तिरेवैका सन्तता या चिरन्तनीति”
“पश्यतो ब्रुवत इत्यत्र विंशतिवर्षभोगादूर्द्ध्वं भूमेर्द्धनस्यापि
दशवर्षभोगादूर्द्धं फलानुसरणं न भवतीत्युक्तम् । तत्र
फलानुसरणवद्दण्डानुसरणमपि न भविष्यतीत्याशङ्क्य
पुरुषव्यवस्थया प्रमाणव्यवस्थया च दण्डव्यवस्थां दर्शयि-
तुमाह । “आगमस्तु कृतोयेन सोऽभियुक्तस्तमुद्धरेत् । न
तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसो” या० । येन पुरुषेण
भूम्यादेरागमःस्वीकारः कृतः । स पुरुषः कुतस्ते क्षेत्रादि-
कमित्यभियुक्तस्तमागमं प्रतिग्रहादिकं लिखितादिभिरुद्ध-
रेत् भावयेत् । अनेनचाद्यपुरुषस्यागममनुद्धरतोदण्ड इत्युक्तं
भवति तत्सुतो द्वितीयोऽभियुक्तोनागममुद्धरेत्, किन्तु
अविच्छिन्नाप्रतिरवसमक्षभोगम् । अनेनचागममनुद्धरतो द्विती
यस्य न दण्डोऽपि तु विशिष्टम्भोगमनुद्धरतो दण्ड इति
प्रतिपादितम् । तत्सुतस्तृतीयोनागमं नापि विशिष्टम्भो-
गमुद्धरेदपि तु क्रमागतम्भोगमात्रम् । अनेनापि तृतीयस्य
क्रमायातभोगानुद्धरणे दण्डोनागमानुद्धरणे न विशिष्ट-
भोगानुद्धरणे वेत्यभिहितम् । तत्र तयोर्द्वितीययोर्भु-
क्तिरेव गरीयसी । तत्रापि द्वितीये गुरुः तृतीये
गरोयसीति विवेक्तव्यम् । त्रिष्वप्यागमानुद्धंरणेऽर्थहानिः
समानैव दण्डे तु विशेष इति तात्पय्यार्थः । उक्तञ्च ।
“आगमस्तु कृतोयेन स दण्ड्यस्तमनुद्धरन् । न तत्सुत-
स्ततसुतो वा भोगहानिस्तयोरपि” । अस्मार्त्तकालोपभो-
गस्यागमज्ञाननिरपेक्षस्य प्रामाण्यमुक्तं विना पूर्ब्बक्रमागता
दित्यत्र तस्यापवाद माह । “योऽभियुक्तः परेतः स्यात्तस्य
रिक्थी तमुद्धरेत् । न तत्र कारणम्भुक्तिरागमेन विनाकृता”
या० यदा पुनराहर्त्त्रादिरभियुक्तोऽकृतव्यवहारनिर्णय एव
परेतःस्यात्परलोकगतोभवेत्तदा तस्य रिक्थी पुत्रादि
स्तमागममुद्धरेत् । यस्मात्तत्र तस्मिन् व्यवहारे भुक्तिरा-
गमरहिता साश्यादिभिः साधितापि न प्रमाणम् ।”
व्यव० त० रघुनन्दनेन तु षष्ट्यब्दएव स्मार्त्तकालतया उक्तः ।
यथा तद्धृतं व्यासवाक्यम् “वर्षाणि विंशतिं भुक्ता
स्वामिनाऽव्याहता मही । भुक्तिः सा पौरुषी भूमेर्द्विगुणा
तु द्विपौरुषो । त्रिपौरुषी तु त्रिगुणा न तत्रान्वेष्य आगम”
इति । त्रिपुरुषभोगे विशेषमाह तत्रैव व्यासः ।
प्रपितामहभुक्त यत् तत्पुत्रेण विना च तम् । तौ
विना यस्य पित्रा च तस्य भोगस्त्रिपौरुषः । पिता पिताम-
होयस्य जोवेच्च प्रपितामहः । त्रयाणां जीवतां भोगो
विज्ञेयस्त्वेकपुरुषः” इति एवञ्च शतषष्टिवर्षयोः स्मार्त्त-
कालत्वं देशभेदात् व्यवस्थापनीयम् । अत्राप-
वादः । “भुक्तिस्त्रैपौरुषी सिध्येदपरेषां न संशयः ।
अनिवृत्ते सपिण्डत्वे सकुल्यानां न सिध्यति । अस्वामिना
च यद्भुक्तं गृहक्षेत्रापणादिकम् । सुहृद्बन्धुसकुल्यस्य
न तद्भोगेन होयते । विवाह्यश्रोत्रिवैर्भुक्तं राज्ञाऽमात्यै-
स्तथैव च । सुदीर्घेणापि कालेन तेषां स्वत्वं न सिध्यति”
वृह० । अत्रापि विशेषमाह तत्रैव “स्त्रीधनञ्च नृपेन्द्राणां
कदाचन न जीर्य्यति । अनागमं भुज्यमामपि वर्षशतै-
रपि” आगम्यते तत्त्वमनेन । ६ तत्त्वावेदकशास्त्रे “तस्मा-
दपि चासिद्धं परोक्षमाप्तागमात् सिद्धम्” सा० का० ।
“सिद्धं सिद्धैः प्रमाणैस्तु हितं वात्र परत्र वा
आगमः शास्त्रमाप्तानामाप्तास्तत्त्वार्थवेदिनः” इत्युक्ते
७ शास्त्रमात्रे “शृण्वतां जायते भक्तिस्ततो गुरु-
मुपासते । स च विद्यागमान् वक्ति विद्यायुक्स्वाश्रितो
नृप!” देवीषु० । स च गुरुः विद्यासाधनमागमं वक्ति
उपदिशतीत्यर्थः । ८ वेदे च “रक्षोहागमलघ्वसन्देहाः
प्रयोजनम्” “आगमः खल्वपि ब्राह्मणेन निष्फारणो-
धर्मः षड़ङ्गोवेदोऽध्येयः ज्ञेयश्चेति” फ० भा० । “आगमः
प्रयोजकः प्रवर्त्तकः नित्यकर्मतां व्याकरणाध्ययनस्य
दर्शयति प्रयोजनशब्देन फलं प्रयोजकश्चेति कैयठः ।
“आगमपदेन श्रुतिरिति” उद्द्योतः । “बहवोप्यागमैर्भिन्नाः
पन्थानः सिद्धिहेतवः” रघुः । ९ मन्त्रे च “सर्ववेदः
क्रियामूलं ऋषिभिर्बहुधोदितः । कालोदेशः क्रिया कर्त्ता
कारणं कार्य्यमागमः । द्रव्यं फलमिदं ब्रह्मन्नवरोक्तोऽजया-
हरिः” । भा० १२, ११ अध्या० “तत्र कालः प्रातरादिः
देशः समादिः क्रियाऽनुष्टानं कर्त्ता ब्राह्मणादि, कारणं
स्त्रुवादि कार्य्यं यागादि आगमोमन्त्रादिः द्रव्यं व्रीह्यादि
फलं स्वर्गादि” इति श्रीधरः ।
आ + गम–गत्यर्थत्वात् ज्ञाने भावे घञ् । १० शब्दजन्यबोधे
“प्रत्यक्षमनुनानञ्च शास्त्रञ्च विविघागमम् । त्रयं सुविदितं
कार्य्यं धर्म्मशुद्धिमभीप्सुना” मनुः । विविधानां धर्म्माणा-
मागमोयस्मात्विविधागमम् । करणे घञ् । ११ शाब्दबोध-
साधने शब्दरूपप्रमाणे च “ऐन्द्रिह्यमनुमानञ्च प्रत्यक्षमपि
चागमम् । येतु सम्यक्परीक्षन्ते कुतस्तेषामबुद्धिता” रामा०
“आगतः शिववक्त्रेभ्यो गतश्च गिरिजानने । मग्नश्च
हृदयाम्भोजे तस्मादागम उच्यते” यामलोक्ते ११ तन्त्र-
शास्त्रे पुं न० तथा च आगतादीतामाद्यक्षरयुक्तत्वात् तथात्वम् रुद्रयामले तु मतं श्रीवासुदेवस्येति पाठः क्लीवत्वेन
“आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः न हि देवाः
प्रसीदन्ति कलौ चान्यविधानतः । पञ्चवर्ण्णैर्भवेद्दीक्षा-
ह्यागमोक्तैः शृणुप्रिये! । यां कृत्वा कलिकाले च सर्वाभीष्टं
लभेन्नरः” तन्त्रसारे यामलम्” प्रसङ्गात्तन्त्ररूपागमस्य
प्रामाण्यं तदुपासनादिषु कलौ अधिकारिविशेषस्य कर्त्तव्यता
च प्रदर्श्यते । निजनिजकर्मवासनारूपपाशबद्धान् अनात्मज्ञान्
जन्ममरणादिक्लेशभाजः संसारपारं गन्तुमसमर्थान् प्राणिनो
बिलोक्य परमेश्वरः वेदेन कर्मकाण्डोपासनाकाण्डब्रह्म-
काण्डात्मकार्थान् समुपदिदेश । तत्र वेदानाम् उच्छिन्न-
प्रायतया क्रमशो रागबाहुल्येन तदुक्तधर्मेषु उच्छिन्नप्रायेषु
सत्सु अनुच्छिन्नानामप्यर्थस्य दुर्मेधसामिदानीन्तनादोनां
दुरधिगमतया आयासबाहुल्येन च तत्राप्रवर्त्त मानानां
क्रमशोविलप्तेषु श्रौतधर्म्मेषु कथङ्कारमुद्धारः स्यादित्या-
कलय्य कारुण्योदयेन वेदार्थप्रकाशनार्थं सुगमोपायेन
जैमिनिव्यासनारदादिरूपोपधिभिरुपहितः सन् तत्त-
द्ग्रन्थान् प्रणीतवान् । तत्र कर्म्मकाण्डार्थो जैमिना
सन्वादिभिश्च सम्यक्तया व्याकृतः उपासनाकाण्डार्थः स्वयं
शिवमूर्त्त्या तन्त्रशास्त्रं, नारदादिमूर्त्त्या च पञ्चरात्रादिकं
विधाय विवृतः ब्रह्मकाण्डार्थश्च वेदव्यासमूर्त्त्येति विवेकः ।
ततश्च धर्मे वेदस्यैव स्वतःप्रमाणत्वेन वेदमूलकत्वादन्येषां
प्रामाण्यंतत्र स्मृतीनामिव आगमस्यापि वेदमूलकत्वमनुमी-
यते । वेदएव रामतापनीयनृसिंहतापनीयाद्यात्मके
आगमोक्तोपसनादिसंवादात् तन्मूलकत्वाधिगमात् येषां च मूलानि
नाधिगम्यन्ते तेषामपि प्रामाण्यं स्मृति वाक्यवत् अनुमा-
तव्यम् भ्रमप्रमादादिशून्यत्वहेतोः स्मृतिकर्त्तॄणामिव
आगमकर्त्तुः शिवस्य सत्त्वात् तन्त्रवाक्यस्य स्मृतिबाक्यवत्
प्रामाण्यम् न च बौद्धागमादिवत् विप्रलम्भकवाक्यत्वं
रागद्वेषादेस्तस्मिन्नसत्त्वात् । तत्रृ कृर्मकाण्डार्थे सर्वेषाम-
पर्य्युदस्तानामधिकारः मुमुक्षोरपि तत्त्वज्ञानपर्य्यन्तं
चित्तशोधनार्थं प्रत्यवायपरिहारार्थं च कर्म्मणां कर्त्तव्य-
तोपदेशात् “तमेतं ब्राह्मणा विविदिषन्ति वेदानुवचनेन
यज्ञेन तपसेत्यादि” श्रुतेः “आरुरुक्षोर्मुनेर्योगम्
कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारण-
मुच्यते” गीतावाक्याच्च । ततोऽन्येषामपि ईश्वरार्पणेन
फलानभिसन्धानेन च कृतानां कर्म्मणां बन्धाहेतुत्वात् क्रम-
शोमुक्तिः फलम् । एवमुपासनाकाण्डार्थेऽपि सर्वेषामधिकारः
श्रुतौ तपसेति निर्द्देशात् “सर्वं खल्विदं ब्रह्म तज्जला-
निति शान्त उपासीत स क्रतुं कुर्व्वीतेति” श्रुत्या सोपाधिकस्ये
श्वस्योपासनाविधानाच्च । उपासना च मानसी क्रिया ध्या-
नपरपर्य्याया तत्र निराकारस्य ब्रह्मणोऽसम्भवात् सोभाधि-
केश्वरविषयैवोपासना कर्त्तव्या । सा च गुणोपाधिविशिष्ट-
स्येव तत्तदाकारोपहितस्यापि सम्भवति “चिन्मयस्याद्विती-
यस्य निष्कलस्याशरीरिणः । उपासकानां सिड्यथे
ब्रह्मणोरूपकल्पना” इत्युक्तेः । कल्पना च न स्वेच्चया
किन्तु शास्त्रादिसिद्धैव । तथा चागमपुराणादिषु यानि
यानि रूपाणि वर्णितानि तद्रूपेणैव । उपासना
कर्त्तव्या । ब्रह्मकाण्डार्थे तु कर्मभिश्चित्तशुद्धौ साकारो-
पासनेन तदैकाग्र्यवतः वेदान्तोक्तसाधनचतुष्ठयवत एवाधि-
कार इति भेदः । तत्र तान्त्रिकोपासने कर्त्तव्येऽपि देवोभूत्वा
देवं यजेत्” इत्युक्तेः भूतशुद्ध्यादिना आत्मानं शोधयित्वा
उपास्यदेवेनैकोभूतमात्मानं ध्यात्वैवोपासनं कार्य्यम् “अथयो-
ऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मि न स वद यथा
पशुरेव स देवानामिति” श्रुत्या भेदेनोपासानाया निन्दनात्
तान्त्रिकोपासनेऽपि कर्त्तव्ये वैदिककर्म्मसु सावित्रजत्मरूपो
पनयनसंस्कारस्येव तन्त्रोक्तदीक्षायाएवाधिकारप्रयोज-
कत्वम् तत्र दीक्षायाञ्च सर्वेऽपि वर्ण्णा अनुलोम्
प्रतिलोमजाश्चाधिकारिणः “मां हि पार्थ! व्यपाश्रित्य
येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा
शूद्रास्तेऽपि यान्ति परां गतिमिति” गीतायां
भगवदुपासने सर्वेषामधिकारस्य पतिपादनात् । अत्र “पुरा
णादौ कश्चित् विशेषो दर्शितः यथा “यानि शास्त्राणि
दृश्यन्ते लोकेऽस्मिन् विविधानि च । श्रुतिस्मृतिविरुद्धानि
तेषां निष्ठा तुतामसी । करालभैरवञ्चापि यामल वाममाश्रि-
तम् । एवंविघानि चान्यानि मोहनार्थानि तानि तु । मया
सृष्टानि चान्यानि मोहायैव भवार्ण्णवे” इति देवी-
पुराणवचने वाममाश्रितमिति विशेषणात् श्रुतिस्मृति
विरुद्धानीति निर्द्देशाच्च श्रुतिस्मृतिविरुद्धवाममार्ग
स्यैव निन्दनात् तत्रैवाधिकारिविशेषस्यानधिकारो न तु
तन्त्रोक्तेष्वपि इतरांशेषु वेदाविरुद्धेषु इति निर्णयः ।
वस्तुतः “सौत्रामण्यां सुरां पिबेत्” इति श्रुत्या
विहितस्य सौत्रमण्यां सुरासेवनस्येव वामदेवसामोपासकस्य
“न काञ्चन परिहरेदिति” सर्व्वस्त्रीगमनस्येव
अधिकारिविशेषविषये तस्यापि ग्राह्यता । अतएव
मनुना “न मांसभक्षणे दोषो न मद्ये न च मैथुने ।
प्रवृत्तिरेषा भूतानां निवृत्तिश्च महाफलेति” सामान्यतो विहितमद्यादौ न दोष इत्युक्तम् ।
कुलाचारशब्दे वक्ष्यमाणस्य कुलाचारधर्म्मस्य प्रायेणेदानीन्तनानां दुष्कर
त्वेन सुतरां तन्मार्गस्य तन्त्रनिर्द्दिष्टाधिकारिणामिदानी-
मसत्त्वात् नैव कर्त्तव्यता । अथ कश्चित् प्राग्भववासनाव
शादधिकारी सम्पद्यते तथापि कूलचूड़ामणौ “यत्रासवं
तु देयं स्यात् ब्राह्मणस्तु विशेषतः । तत्रार्द्रकरसं दद्यात्
ताम्रे वा विसृजेन्मधु । देव्यास्तु दक्षिणे भागे चक्रपार्श्वे
निवेदयेत् । मद्यद्रव्यं तु शूद्रस्य नान्येषान्तु कदाचन” ।
“वैश्यस्य माक्षिकं शुद्धं क्षत्रियस्य तु साज्यकम् । ब्राह्म-
णस्य गवां क्षीरं ताम्रे वा विसृजेन्मधु । नारिकेलोदकं
कांस्ये सर्वेषां चैव शोधनम् इति” च द्विजातीनामासवदान-
निषेधेन गौणकल्प एवाधिक्रियते न मुख्यकल्पे । “पीत्वा-
पीत्वा पुनः पीत्वा पतितोधरणीतले! उत्थाय च पुनः
पीत्वा पुनर्जन्म न विद्यते” इति वचनन्तु चतुर्थाश्रमविषय-
मिति तन्त्रसारः । “निस्त्रैगुण्येपथि विचरतां को विधिः को
निषेध” इत्युक्तेश्चतुर्थाश्रमस्य विधिनिषेधातिक्तान्तत्वेऽपि
परमहंसाश्रमस्येव दोषाभाव इति युक्तमुत्पश्याभः ।
“वरं प्राणाः प्रगच्छन्तु ब्राह्मणोनार्पयेत् सुराम्” ब्राह्मणो
मद्यदानेन ब्राह्मण्यादेव हीयते” वृहत्सङ्गमतन्त्रम् ।
अतएव कालिका पु० “अवश्यं विहितं यत्र मद्यं तत्र
द्विजः पुनः । नारिकेलोदकं कांस्ये ताम्रे वा
विसृजेन्मधु” इत्यनुकल्पो गृहस्थद्विजातिमात्रे विहितः
एवं मत्स्यमांसयोर्निषिद्धयोरपि वाममार्गिणां दाना
दिकं न स्मृतिविरुद्धं “देवान् पितॄन् समभ्यर्च्य खादन् सांसं
न दोषभाक्” इति मनुनां देवार्चनावशिष्टमांसभोजनस्य
विधानात् । एतदपि दिव्यभावविषयमिति तन्त्रसारः “मादकं
सर्वदा वर्ज्यं मद्यं मांसं सुलोचने! । ज्ञानेन संस्कृतं तत्तु
महापातककनाशनमिति” कुलार्ण्णवोक्तेः । ज्ञानेन
सर्वनरेषु आत्मत्वज्ञानेनेत्यर्थः । तदपि न श्रुतिविरुद्धं
विश्वनरेषु आत्मदृष्टिमतो वैश्वानरसामोपासकस्य सर्वान्नभक्षण
विधानवत् तस्यापि तादृशज्ञानमाहात्म्येन तत्र पापानुत्
पत्तिसम्भवात् यथा वैश्वानरसामोपासकं प्रकृत्य “न किञ्च-
नानन्नं भवति आश्वभ्य आशकुनिभ्य इति” छा० उ० सर्व्वा-
न्नभोजनं विहितमेवमस्यापि ज्ञानेन पूतत्वान्न तद्भक्षणं
दोषावहमिति । “कृते श्रुत्युदितोमार्गस्त्रेतायां श्रुति-
नोदितः । द्वापरे तु पुराणोक्तः कलावागमसम्मतः”
इत्यागमवचनं तु प्रशंसापरम् रागादिबाहुल्येन
श्रौतादिघर्मस्य कलावसम्भवैति तादृशानां तन्त्राधिका-
रित्वसूचनार्थञ्च “चकार मोहशास्त्राणि केशवः
सशिवस्तथा । कापिलं नाकुलं वामं भैरवं पूर्ब्बपश्चि-
मम् । पाञ्चरात्रं पाशुपतं तथान्यानि सहस्रशः,
कर्म्म पु० “शृणु देवि प्रवक्ष्यामि तामसानि यथाक्रमम् ।
येषां श्रवणमात्रेण पातित्यं ज्ञानिनामपि । प्रथमं
हि मयैवोक्तं शैवं पाशुपतादिकम्” पद्मपु० इत्या-
दिवचनैरागमस्य तामसत्वेन मोहशास्त्रत्वेन निषिद्धत्वेऽपि
वेदाविरुद्धांशस्यग्राह्यतैव । “तथापि योऽंशोमार्गाणां वेदेन
न विरुध्यते । सोऽंशः प्रमाणमित्युक्तः केषाञ्चिदधिकारि-
णाम्” सूतसंहितावचनात् अत्र केषाञ्चिदित्युक्तेः न
सर्वेषायधिकारितेति सूचितम् तत्राधिकारिणः शाम्बपु०
दर्शिताः । “श्रुतिभ्रष्टः स्मृतिप्रोक्तप्रायश्चित्तपराङ्मुखः ।
क्रमेण श्रौतसिद्ध्यर्थं ब्राह्मणस्तन्त्रमाश्रयेत्” “पाञ्चरात्रं
भागवतं तन्त्रं वैखानसाभिधम् । वेदभ्रष्टान् समुद्दिश्य
कमलापतिरुक्तवान्” इति च । ततश्च इदानीन्तनानां विशे-
षतो गौड़देशवासिनां श्रौतधर्म्माग्निहोत्रादिधर्म्मो-
च्छेददर्शनेन तत्पापनाशाय प्रायश्चित्तपराङ्मुखताद-
र्शनेन च श्रौतमार्गभ्रष्टतया क्रमेण श्रौताधिकारस्य
प्राप्त्यर्थं तन्त्रोक्तोपासनादिषु वेदाविरुद्धेषु अधिकारः ।
वेदविरुद्धेषु वाममार्गेषु तु चतुर्थाश्रमस्य तन्त्रोक्ताद्भुता-
श्रमस्यैवाधिकारः न गृहस्थद्विजानाम् प्रागुक्तैः वचनजातै
र्ब्राह्मणादिषु मुख्यमद्यदानसेवनयोर्निषेधात् गृहस्थशूद्रस्य
तु मुख्येऽप्यधिकारः द्विजानामनुकल्पाचरणेन तन्मार्गा-
श्रयणेऽप्यधिकार इतिविवेकः । तल्लक्षणन्तु “सृष्टिश्च प्रलय-
श्चैव देवानां च तथार्च्चनम् । साधनञ्चैव सर्व्वेषां
पुरश्चरणमेव च । षट्कर्म्मसाधनञ्चैव ध्यानयोगश्चतुर्विधः
सप्तभिर्लक्षणैर्युक्तं त्वागमं तद्विदोविदुः” इति आगमभेदाश्च
तन्त्रशब्दे वक्ष्यन्ते । अतएव कलिधर्म्म प्रकरणे” एवं क्रिया-
योगपरैः पुमान् वैदिकतान्त्रिकैः । अर्च्चन्नुभयतः सिद्धिम्
मत्तोविन्दत्यभीप्सितम्” भाग० १२ स्कन्धे२७ अध्याये तान्त्रिक-
पथेनाप्यर्चनं विहितम् । “अथ सूतकिनः पूजां वक्ष्याम्यागमनो-
दिताम्” शा० रा० । आगच्छति प्रकृतिप्रत्ययावनुपहत्य
उत्पद्यते कर्त्तरि संज्ञायां घ । १३ व्याकरणोक्ते प्रकृतिप्रत्ययानु-
पघातके अट् इट् इत्यादौ शब्दभेदे “आगमादेशयोर्मध्ये
बलीयानागमोविधिः” व्याकरणान्तरपरि० “यदागमा-
स्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते” । “आगमशास्त्रमनित्यम्” इति च परिभा० । “आगमा आद्युदात्ताः” “आगमा अविद्यमानवद्भवन्तीति” च का० वा०
वाचस्पत्यम्