Advocatetanmoy Law Library

Policy Research and Legal Database

Library Home » Light Page » General interpretation in Chanakya Artha Sastra

General interpretation in Chanakya Artha Sastra

image_print

॥ कौटिलीय अर्थशास्त्रं ॥

तन्त्रयुक्तयः [ch 15]

मनुष्याणां वृत्तिरर्थः, मनुष्यवती भूमिरित्यर्थः

तस्याः पृथिव्या लाभपालन उपायः शास्त्रं अर्थशास्त्रं इति
तद्द्वात्रिंशद् युक्तियुक्तं – अधिकरणं, विधानं, योगः, पदार्थः, हेत्व्ऽर्थः, उद्देशः, निर्देशः, उपदेशः, अपदेशः, अतिदेशः, प्रदेशः, उपमानं, अर्थापत्तिः, संशयः, प्रसङ्गः, विपर्ययः, वाक्यशेषः, अनुमतं, व्याख्यानं, निर्वचनं, निदर्शनं, अपवर्गः, स्वसंज्ञा, पूर्वपक्षः, उत्तरपक्षः, एकान्तः, अनागतावेक्षणं, अतिक्रान्तावेक्षणं, नियोगः, विकल्पः, समुच्चयः ऊह्यं इति
यं अर्थं अधिकृत्य उच्यते तद् अधिकरणम्
पृथिव्या लाभे पालने च यावन्त्यर्थशास्त्राणि पूर्वाचार्यैः प्रस्थापितानि प्रायशः तानि संहृत्य एकं इदं अर्थशास्त्रं कृतम् इति

शास्त्रस्य प्रकरणानुपूर्वी विधानम्
विद्यासमुद्देशः, वृद्धसम्योगः, इन्द्रियजयः, अमात्य उत्पत्तिः इत्येवं।आदिकं इति
वाक्ययोजना योगः
चतुर्वर्णाश्रमो लोकः इति
पदावधिकः पदार्थः
मूलहर इति पदम्
यः पितृपैतामहं अर्थं अन्यायेन भक्षयति स मूलहरः इत्यर्थः
हेतुरर्थसाधको हेत्व्ऽर्थः
अर्थमूलौ हि धर्मकामौ इति
समासवाक्यं उद्देशः
विद्याविनयहेतुरिन्द्रियजयः इति
व्यासवाक्यं निर्देशः
कर्णत्वग्ऽक्षिजिह्वाघ्राण इन्द्रियाणां शब्दस्पर्शरूपरसगन्धेष्वविप्रतिपत्तिरिन्द्रियजयःइति
एवं वर्तितव्यं इत्युपदेशः
धर्मार्थविरोधेन कामं सेवेत, न निह्सुखः स्यात् इति
एवं असावाह इत्यपदेशः
मन्त्रिपरिषदं द्वादशामात्यान् कुर्वीत इति मानवाः – षोडश इति बार्हस्पत्याः – विंशतिं इत्यौशनसाः – यथासामर्थ्यं इति कौटिल्यः इति
उक्तेन साधनं अतिदेशः
दत्तस्याप्रदानं ऋणादानेन व्याख्यातम् इति
वक्तव्येन साधनं प्रदेशः
सामदानभेददण्डैर्वा, यथाऽऽपत्सु व्याख्यास्यामः इति

दृष्टेनादृष्टस्य साधनं उपमानम्
निवृत्तपरिहारान् पिता इवानुगृह्णीयात् इति
यद् अनुक्तं अर्थाद् आपद्यते साऽर्थापत्तिः
लोकयात्राविद् राजानं आत्मद्रव्यप्रकृतिसम्पन्नं प्रियहितद्वारेणाश्रयेत
नाप्रियहितद्वारेणाश्रयेत इत्यर्थाद् आपन्नं भवति इति
उभयतोहेतुमान् अर्थः संशयः
क्षीणलुब्धप्रकृतिं अपचरितप्रकृतिं वा इति
प्रकरणान्तरेण समानोऽर्थः प्रसङ्गः
कृषिकर्मप्रदिष्टायां भूमौ – इति समानं पूर्वेण इति
प्रतिलोमेन साधनं विपर्ययः
विपरीतं अतुष्टस्य इति
येन वाक्यं समाप्यते स वाक्यशेषः
छिन्नपक्षस्य इव राज्ञश्चेष्टानाशश्च इति
तत्र शकुनेः इति वाक्यशेषः
परवाक्यं अप्रतिषिद्धं अनुमतम्
पक्षावुरस्यं प्रतिग्रह इत्यौशनसो व्यूहविभागः इति
अतिशयवर्णना व्याख्यानम्
विशेषतश्च सङ्घानां सङ्घधर्मिणां च राजकुलानां द्यूतनिमित्तो भेदः तन्निमित्तो विनाश इत्यसत्प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्रदौर्बल्यात् इति
गुणतः शब्दनिष्पत्तिर्निर्वचनम्
व्यस्यत्येनं श्रेयस इति व्यसनम् इति
दृष्टान्तो दृष्टान्तयुक्तो निदर्शनम्
विगृहीतो हि ज्यायसा हस्तिना पादयुद्धं इवाभ्युपैति इति
अभिप्लुतव्यपकर्षणं अपवर्गः
नित्यं आसन्नं अरिबलं वासयेद् अन्यत्राभ्यन्तरकोपशङ्कायाः इति
परैरसमितः शब्दः स्वसंज्ञा
प्रथमा प्रकृतिः, तस्य भूम्य्ऽनन्तरा द्वितीया, भूम्य्।एकान्तरा तृतीया इति

प्रतिषेद्धव्यं वाक्यं पूर्वपक्षः
स्वाम्य्ऽमात्यव्यसनयोरमात्यव्यसनं गरीयः इति
तस्य निर्णयनवाक्यं उत्तरपक्षः
तद्।आयत्तत्वात्, तत्कूटस्थानीयो हि स्वामी इति
सर्वत्रायत्तं एकान्तः
तस्माद् उत्थानं आत्मनः कुर्वीत इति
पश्चाद् एवं विहितं इत्यनागतावेक्षणम्
तुलाप्रतिमानं पौतवाध्यक्षे वक्ष्यामः इति
पुरस्ताद् एवं विहितं इत्यतिक्रान्तावेष्कणम्
अमात्यसम्पद् उक्ता पुरस्तात् इति
एवं नान्यथा इति नियोगः
तस्माद् धर्म्यं अर्थ्यं चास्य उपदिशेत्, नाधर्म्यं अनर्थय्ं च इति
अनेन वाऽनेन वा इति विकल्पः
दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः इति
अनेन चानेन च इति समुच्चयः
स्वयञ्जातः पितुर्बन्धूनां च दायादः इति
अनुक्तकरणं ऊह्यम्
यथा च दाता प्रतिग्रहीता च न उपहतौ स्यातां तथाऽनुशयं कुशलाः कल्पयेयुः इति
एवं शास्त्रं इदं युक्तं एताभिः तन्त्रयुक्तिभिः ।
अवाप्तौ पालने च उक्तं लोकस्यास्य परस्य च
धर्मं अर्थं च कामं च प्रवर्तयति पाति च ।
अधर्मानर्थविद्वेषान् इदं शास्त्रं निहन्ति च

येन शास्त्रं च शस्त्रं च नन्दराजगता च भूः ।
अमर्षेण उद्धृतान्याशु तेन शास्त्रं इदं कृतम् (इति)

 


 

image_print
%d bloggers like this: