अलक्ष्मीघ्नं (Removal of bad luck)
Home » Law Library Updates » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » Vedic Sanskrit Culture » Sarvarthapedia Vedic Dictionary » अलक्ष्मीघ्नं (Removal of bad luck)
ALakshmighnam–ऋग् १०.१५५.१
Removal of bad luck
सूक्तम् अश्रीनाशकरम्
अरा॑यि॒ काणे॒ विक॑टे गि॒रिं ग॑च्छ सदान्वे ।
शि॒रिम्बि॑ठस्य॒ सत्व॑भि॒स्तेभि॑ष्ट्वा चातयामसि ॥
अरा॑यि । काणे॑ । विऽक॑टे । गि॒रिम् । ग॒च्छ॒ । स॒दा॒न्वे॒ ।
शि॒रिम्बि॑ठस्य । सत्व॑ऽभिः । तेभिः॑ । त्वा॒ । चा॒त॒या॒म॒सि॒ ॥
Read Next
सायणभाष्यम्
अरायीति प्र्ञ्चर्चं चतुर्थं सूक्तं भरद्वाजपुत्रस्य शिरिम्बिठस्यार्षमानुष्टुभम्। जपहोमादिभिरिदं सूक्तमश्रीनाशकरम्। तत्राद्योपांत्ययोस्तादृशोऽर्थ एव देवता। द्वितीयातृतीये ब्राह्मणस्पत्ये। पञ्चमी वैश्वदेवी। अनुक्रम्यते हि। अरायि श्रिम्बिठो भारद्वाजोऽलक्ष्मीघ्नम् द्वितीयातृतीये ब्राह्मणस्पत्ये अन्त्या वैश्वदेवीति। गतो विनियोगः॥
हे अराय्यदायिनि दानविरोधिनि हे काणे कुत्सितशब्दकारिणि कुत्सितदर्शने वा हे विकटे विकृतगमने विकृताङ्गे वा हे सदान्वे सदानोनुवे सर्वदा क्रोशकारिणि दुर्भिक्षादिदेवते गिरिं पर्वतं निर्जनदेशं गच्छ। अस्मान्मा बाधिष्ठाः। शिरिम्बिथस्य। भिठमन्तरिक्षम्। शीर्यते बिठेऽन्तरिक्ष इति शिरिम्बिठो मेघः। तस्य स्वथिरन्तर्वर्तमानैरुदकैस्तॆभिस्तैस्त्वा त्वाम् चातयामसि। चातयामः। विनाशयामः। यद्वा। शिरिम्बठस्यैतत्संज्ञकस्य भरद्वाजपुत्रस्य तेभिस्तैरनुष्ठितैः सत्वभिः कर्मभिर्हे अलक्ष्मि त्वां विनाशयामः। इतस्त्वमेव शीघ्रं गिरिं गच्छ॥१॥
अलक्ष्मीघ्नं- सत्वभिः कर्मभिर्हे अलक्ष्मि त्वां विनाशयामः, इतस्त्वमेव शीघ्रं गिरिं गच्छ ।