Skip to content

Advocatetanmoy Law Library

Research & Library Database

Yuddha Gita (1st Vol): The First Question of Human Civilization

Search

  • Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System
  • West Bengal Govt Budget Statement In Bengali (2026-2027) by Swapan Dasgupta
  • Encyclopedia of Physical Measurement (3-Volume)
  • West Bengal Day, 20 June: History of the Formation of West Bengal in 1947
  • Noble Bengali Families of Kolkata (1760–1860): Rise of Abhijat Bhadralok in Colonial Bengal
  • Bishop’s College Kolkata: India’s Oldest Anglican Theological Institution (1820–2026)
  • Deep Grammar of Civilization (13-Volume): What Are the Irreducible Components of Civilization?
  • Good Life (3-Volume): An encyclopedia of everything humanity seeks when it speaks of “a better life”
  • Smallest Library for the Largest Understanding: 10 Books that give the Highest Intellectual Return per page read
  • Life After Death (Part-III)
Primary Menu
  • News
    • Editorial
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • JudgmentSupreme Court
  • Podcast
  • Legal Brief
    • Legal Eagal
  • HLJLaw Digests
    • Supreme Court Case Notes
    • Daily Digest
  • SarvarthapediaKnowledgebase
    • Sarvarthapedia (Twelve Core Areas): Macro Structure
    • Systemic-and-systematic
    • Volume One
    • Volume Two
    • Volume Three
    • Volume Four
    • Volume Five
    • Volume Six
  • Subjects
    • Knowledge Graph
    • Glossary
  • Indian Law
  • EncyclopediaCollection
Home » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » Vedic Sanskrit Culture » Parārthānumānam -in Evidence of Inference
  • Vedic Sanskrit Culture

Parārthānumānam -in Evidence of Inference

advtanmoy 10/02/2019 1 minute read

© Advocatetanmoy Law Library

  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on Telegram (Opens in new window) Telegram

परार्थानुमानम्

परार्थानुमानलक्षणम्

त्रिरुपलिङ्गाख्यानं परार्थानुमानम्। अन्वयव्यतिरेकपक्षधर्मतासंज्ञकानि त्रीणि रुपाणि, येन वचनेन प्रख्याप्यन्ते तद्वचनमुपचारादनुमानशब्देनोच्यते॥

तस्य द्वैविध्यम्

तद् द्विविधम् साधर्म्यवद्वैधर्म्यवच्च। साध्यधर्मिदृष्टान्तधमिणोर्हेतु सत्ताकृतं सादृश्यं साधर्म्यम्। तद्यस्यास्ति तत् साधर्म्यवत् साधनवाक्यम्। साध्यधर्मिदृष्टान्तधर्मिणोर्हेतुसत्ताकृतं वैसादृश्यं वैधर्म्यम्। तद्यस्यास्ति तद्वैधर्म्यवत साधनवाक्यम्।

स्वभावहेतोस्साधर्म्यवत्प्रयोगनिरुपणम् , संस्कृतस्य सर्वस्य क्षणिक त्वसमर्थनं च

तत्र स्वभावहेतोः साधर्म्यवन्तं प्रयोगं दर्शयितुं सौत्रान्तिकमतमाश्रित्य भगवता यदुक्तं –

‘संस्कृतं क्षणिकं सर्वं ‘ इति।

तद् व्युत्पाद्यते। समेत्य सम्भूय हेतुप्रत्ययैः कृतं वस्तुजातं संस्कृतम्। क्षणिकमिति उत्पत्तिक्षण एव सत्त्वात्।

सर्वसंकृतविनाशनिरुपणम्

‘ सर्वं तावत् घटादिकं वस्तु मुद्गरादिसन्निधौ नाशं गच्छत् दृश्यते। तत्र येन स्वरुपेण अन्त्यावस्थायां घटादिकं विनश्यति तच्चेत् स्वरुपमुत्पन्नमात्रस्य विद्यते तदानीमुत्पादानन्तरमेव तेन विनष्टव्यमिति व्यक्तमस्य क्षणिकत्वम्।’

अथेदृश एव स्वभावस्तस्य स्वहेतोर्जातः , यत् कियन्तं कालं स्थित्वा विनश्यतीति।

‘ एवं तर्हि मुद्गरादिसन्निधाने च एष एव अस्य स्वभव इति पुनरप्यनेन तावन्तमेव कालं स्थातव्यम् , पुनरप्येवमिति नैव विनश्येदिति। तस्मात् क्षणद्वयस्थायित्वेनाप्युत्पत्तौ प्रथमक्षणवद् द्वितीयक्षणेऽपि क्षणद्वयस्थायित्वात् पुनरपरं क्षणद्वयमवतिष्ठेत। एवं तृतीयेऽपि क्षणे तत्स्वभावत्वान्नैव विनश्यतीति।’

स्यादेतत् , स्थावरमेव तद्वस्तु स्वहेतोर्जातम् , बलेन विरोधकेन मुद्गरादिना विनाश्यत इति ? तदसत् , कथं पुनरेतद्युज्यते, न च तद्विनश्यति स्थावरत्वात् , विनाशश्च तस्य विरोधिन बलेन क्रियत इति ? न ह्येतत्सम्भवति जीवति देवदत्तो मरणं चास्य भवतीति।

अथ विनश्यति , कथं तर्ह्यविनश्वरं तद्वस्तु स्वहेतोर्जातम् ? न हि म्रियते चामरणधर्मा चेति युज्यते वक्तुम्। तस्मादनश्वरत्वे कदाचिदपि नशायोगात् , दृष्टत्वाच्च नाशस्य , नश्वरमेव तद्वस्तु स्वहेतोरुपजात इत्यङ्गीकुर्मः। तस्मादुत्पन्नमात्रमेव विनश्यति। तथ च क्षणक्षयित्वं सिध्दं भवति। प्रयोगः पुनरेवं कर्तव्यः – यद्यत् विनश्वरस्वरुपं तत्तदनन्तरानवस्थायि यथा अन्त्यक्षणवर्तिघटस्य स्वरुपम्। विनश्वररुपं च रुपादिकमुदयकाल इति स्वभावहेतुः।

निर्विशेषणस्वभावहेतोः प्रयोगः

यदि क्षणक्षयिणो भावाः, कथं तर्हि स एवायमिति प्रत्यभिज्ञानं स्यात् ? उच्यते – निरन्तरसदृशापरापरोत्पादादविद्यानुबन्धाच्च पूर्वक्षणविनाशकाल एव तत्सदृशं क्षणान्तरमुदयते। तेनाकारेण वैलक्षण्यस्याभावाद् भावेन चाव्यवधानात् भेदेऽपि स एवायमित्यभेदाध्यवसायप्रत्ययः पृथग्जनानां प्रसूयते। अत्यन्तभिन्नेष्वपि च लूनपुनर्जातकुशकेशादिष्वपि दृष्ट एव स एवायमिति प्रत्ययः। तथेहापि किं न सम्भाव्यते? तस्मात्सर्व संस्कृतं क्षणिकमिति सिध्दमेवैतत् निर्विशेषणस्य स्वभावहेतोरयं प्रयोग इति॥

तथाऽपरोऽपि निर्विशेषणप्रयोगः – यत्सत् तत्सर्वमनित्यं , यथा घटः। सन्तश्चामी प्रमाणप्रतीताः। तथाऽपरोऽपि वेदस्य पौरुषयत्वसाधनाय स्वभावहेतुः। यद्वाक्यं तत्पौरुषेयं , यथा रथ्यापुरुष वाक्यम्। वाक्यं चेदम् –

‘अग्निहोत्रं जुहुयात्स्वर्गकाम’ इति।

सविशेषणस्वभावहेतोः प्रयोगः

सविशेषणप्रयोगो यथा – यद्यदुत्पत्तिमत् तत्सर्वमनित्यं , यथा घटः। उत्पत्तिमांश्च शब्दः। अनुत्पन्नेभ्यो व्यावृत्तो भाव उत्पन्न उच्यते। यदा सैव व्यावृत्तिर्व्यावृत्त्यन्तरव्यवच्छेदेन व्यतिरिक्तोच्यते भावस्योत्पत्तिरिति तदा कल्पितेन भेदेन स्वभावभूतधर्मेण विशिष्टः स्वभावो हेतुः।

भिन्नविशेषणस्वभावहेतोः प्रयोगः

तथा भिन्नविशेषणस्य प्रयोगः – यत्कृतकं तदनित्यं यथा घटः, कृतकश्च शब्दः।

ननु चित्रगुरिति भिन्नविशेषणस्य प्रयोगः , यथा चात्र चित्रगोशब्दे भिन्नविशेषणवाचकोऽस्ति न तथा कृतकशब्दे भिन्नविशेषणवाचकं किमप्यस्ति। तत्कथं भिन्नविशेषणस्योदाहरणमिति चेद् ? उच्यते – अपेक्षितपरव्यापारो हि स्वभावनिष्पत्तौ भावः कृतकः इत्युच्यते। तत्रः कृतकशब्दः परव्यापारसापेक्षं स्वभाबं प्रकृत्यैव वदन् भिन्नविशेषणमेवाह॥

प्रयुक्तभिन्नविशेषणस्वभावहेतोः प्रयोगः

प्रयुक्तभिन्नविशेषणस्य स्वभावस्य प्रयोगः – यः प्रत्ययभेदभेदी स कृतकः , यथा धूमः , प्रत्ययभेदभेदी च शब्दः। प्रत्ययः कारणं , तस्य भेदस्तेन भेत्तुं शीलं यस्य स प्रत्ययभेदभेदी। कारणमहत्त्वेन महत्त्वं कारणाल्पत्वेनाल्पत्वं यस्येत्यर्थः।प्रत्ययभेदभेदिशब्दस्य भिन्नविशेषणवाचकस्यात्र प्रयुक्तत्वात् प्रयुक्तभिन्नविशेषणोऽयम्। स्वभावहेतोः नानाप्रभेददर्शनं च व्यामोहनिवृत्तये धर्मभेदकल्पनयापि स्वभावहेतुरेव प्रयुज्यत इति प्रतिपादयितुम्।

स्वभावहेतोर्वैधर्म्यवत्प्रयोगनिरुपणम्

स्वभावहेतोर्वैधर्म्यवान् प्रयोगो यथा – यद्यदाऽनन्तरानवस्थायि न भवति न तत्तदा विनश्वररुपं , यथाऽऽकाशम्। विनश्वररुपं च रुपादिकमुदयकाले। व्यतिरेकप्रयोगे साधनाभावेन साध्याभावस्य व्याप्तत्वात् साध्याभावः साधनाभावे नियतो भवतीति बोध्दव्यम्। तथाऽपरोऽपि वैधर्म्यवान् प्रयोगः – यत्र क्षणिकत्वं नास्ति तत्र सत्त्वमपि नास्ति, यथा गगनारविन्दे। संश्च शब्दः। तथा यत्रानित्यत्वं निवृत्तं तत्रोत्पत्तिमत्त्वमपि, यथा कूर्मरोम्णि। उत्पत्तिमांश्च शब्दः। यत्रानित्यत्वं निवृत्तं तत्र कृतकमपि, यथा शशश्रिङ्गे। कृतकश्च शब्दः। यत्र कृतकत्वं नास्ति तत्र प्रत्ययभेदभेदित्वमपि नास्ति, यथा गगने। प्रत्ययभेदभेदी च शब्द इति॥

कार्यहेतोः साधर्म्यवद्वैधर्म्यवत्प्रयोगनिरुपणम्

कार्यहेतोः साधर्म्यवान् प्रयोगो यथा – यत्र यत्र धूमस्तत्र तत्राग्निः, यथा महानसे , धूमश्चात्र। कार्यहेतुरपि प्रत्यक्षानुपलम्भाभ्यां सिध्द एव कार्यकारणभावे सति कारणे साध्ये प्रयोक्तव्यः। वैधर्म्यप्रयोगो यथा असत्यग्नौ न भवत्येव धूमः यथा – महाह्रदे। अस्ति चेह धूम इति।

अनुपलब्धेस्साधर्म्यवद् प्रयोगः

अनुपलब्धेः साधर्म्यवन् प्रयोगोऽवयविनिराकरणाय यथा – यद्यत्रोपलव्धिलक्षणप्राप्तं सन्नोपलभ्यते तत्तत्रासद्व्यवहारयोग्यम् , यथा नरशिरसि शृङ्गम्। नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तः पराभिमतोऽवयवी घटशब्दवाच्येषु कपालेषु।

वैधर्म्यवत्प्रयोगनिरुपणम्

अनुपलब्धेर्वैधर्म्यवान् प्रयोगो यथा – यत्सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत एव, यथा नीलादिविशेषः। नेह उपलब्धिलक्षणप्राप्तस्य सत उपलब्धिर्घटस्येति।

साध्यसाधनयोर्व्याप्तिः

सर्वत्र साधर्म्यवति साधनवाक्ये साध्येन साधनं व्याप्तम्। बैधर्म्यवति [पुनः] साधनवाक्ये साधनाभावेन साध्याभावो व्याप्त इति प्रतिपत्तव्यम्। साधनस्य च साध्ये

नियतत्वकथनं साध्याभावस्य साधनाभावे नियतत्वकथनं नाम व्याप्तिरभिधीयते। ततः प्रमाणेन व्याप्तिसिध्दौ सत्यां नेदं क्वापि शङ्कनीयं साधनं च स्यात, साध्यं च तत्र धर्मिणि न स्यादिति।

पराङ्गीकृतेश्वरसाधकानुमानस्य निरसनम्

यत्र प्रमाणेन सर्वोपसंहारवती व्याप्तिरेव न सिध्दा , तत्र शङ्काप्रसरोऽनिवार्यः। यथेश्वरसिध्दौ कार्यत्वानुमाने। तथा हि तेषां साधनोपन्यासः। इहान्यः सर्वज्ञो भगवान् भवतु वा मा भूत् , ईश्वरः पुनस्सर्वज्ञः शक्यते साधयितुम्। तथा हि , लोके त्रयः खलु भावाः केचिन्निश्चितकर्तृकाः , यथा घटादयः। केचिन्निश्चित- कर्तृनिवृत्तयः , यथा व्योमादयः। अन्ये पुनः सन्दिग्धकर्तृकाः , यथा क्षित्यादयः। न पुनरेतेभ्योऽन्यः प्रकारोऽस्ति। तत्र ये दृश्यमानोत्पत्तयो वनस्पत्यादयो ये च चिरोत्पन्ना विश्वम्भरादयः ते सर्वे सन्दिग्धकर्तृत्वेन व्यवतिष्ठमाना बुध्दिमत्कर्तृकाः कार्यत्वात् , घटादिवत्। नायमसिध्दो हेतुः , कार्यत्वस्य सर्वोषां प्रमाणसिध्दत्वात्। नापि विरुध्दः , सपक्षे भावात्। न चानैकान्तः , साध्यविपर्यये बाधकप्रमाणसद्भावात्। तथाहि – कार्य तावत् बुध्दिमतः कुम्भकारादुपजायमानं भूयोदर्शनसहायेन मानस प्रत्यक्षेणोपलब्धम्।

तद्यदि बुध्दिमन्तरेणापि स्यात् तदानीं बुध्दिमतः सकाशात्कदाचिदपि नोपजायेत। कारणाभावे कार्यस्य सकृदप्युत्पादायोगात्। तस्मान्नेदं क्वापि शङ्कनीयं कार्यं च स्यात् न बुध्दिमद्धेतुकमिति। अत्रेदमभिधीते – साधनं खलु सर्वत्र साध्यसाधनयोः सर्वोपसंहरेण प्रमाणेन व्याप्तौ सिध्दायां साध्यं गमयेदिति सर्ववादिसम्मतम्। तत्र यदि दृस्यशरीरविशिष्टेन बुध्दिमता व्याप्तिर्गृह्यते तदा तथाभूतसाध्यमन्तरेणापि जायमाने तृणादौ कार्यत्वस्य दर्शनात् प्रमेयत्वादिवत् साधारणानैकान्तिकोऽयं हेतुः। तृणादयः पक्षीकृता इत्यपि न वक्तव्यम्। न हि व्यभिचारविषय एव पक्षो भवितुमर्हति-

‘सन्दिग्धे हेतुवचनात् व्यस्तो हेतोरनाश्रय’ इति न्यायात्।

अथाशक्यारोहणेऽपि पर्वते दहनमन्तरेण च धूमदर्शनात् , एवं धूमेऽपि व्यभिचारो वक्तुं सुलभ एव? तन्न। अशक्यारोहणत्वेन पर्वते दहनस्य द्रष्टुमशक्यत्वात् युक्तं तत्र सन्दिग्धविषयत्वम्। प्रस्तुते तु दृश्यशरीरविशिष्टेन बुध्दिमता व्याप्तौ गृह्यमाणायां दृश्यानुपलम्भेन बुध्दिमतो बाधो भवतीति युक्तम्। अथ दृश्यशरीरेण बुध्दिमन्मात्रेण वा व्याप्तिरवगम्यते तदा अदृश्यस्य बुध्दिमन्मात्रस्य वा साध्यस्य दृश्यानुपलम्भेन व्यतिरेकासिध्देः सन्दिग्धविपक्षव्यावृत्तिकोऽयं हेतुः।

साध्याभावप्रयुक्तस्य साधानाभावस्य [काशदाव] सिध्दत्वेन व्याप्तेरभावात् तथा चोक्तम् ज्ञानश्रीमित्रपादैः।

कार्यत्वस्य विपक्षवृत्तिहतये सम्भाव्यतेऽतीन्द्रियः।

कर्ता चेद्वयतिरेकसिध्दिविधुरा व्याप्तिः कथं सिध्यति॥

दृश्योऽथ व्यतिरेकसिध्दिमनसा कर्ता समाश्रीयते।

तत्त्योगोऽपि तदा तृणादिकमिति व्यक्तं विपक्षेक्षणम्॥

त्रिलोचनाभ्युपगतस्य वह्निधूमयोः स्वाभावविक सम्बन्धवादस्य निरसनम्

यच्च त्रिलोचनेनोक्तम्-

‘यथा स्वाभाविकः सम्बन्धो धूमादीनां वह्नयादिभिस्सह तथा

कार्यत्वस्य बुध्दिमता सार्धम् , तदुपाधेरनुपलभ्यमानत्वात् ,

क्वचिद्व्यभिचारस्यादर्शनात् ‘ इति।

तन्न युक्तम्। यतोऽर्थान्तरं किञ्चिदपेक्षणीयमुपाधिशब्देनाभिधीयते । न चार्थान्तरमवश्यं दृश्यं स्यात्। अदृश्यमपि देशकालस्वभावविप्रकृस्टम् सम्भाव्यते। अतो धूमस्य दहनेन सह सम्बन्धे भविष्यत्युपाधिः । न चोपलभ्यत इति कथमदर्शनमात्रेण नास्त्येवेत्युच्यते। यदप्युक्तं व्यभिचारस्यादर्शनादिति साधनं , तदपि सन्दिग्धासिध्दम्। प्रत्ययान्तरवैकल्येनाहत्य व्यभिचारस्यादर्शनेऽपि सर्वत्र निषेद्धुमशक्यत्वात्। न चैतावता प्रामणिकलोकयात्रातिक्रमः। प्रामाणिकैरेव साधकबाधकप्रमाणाभावे संशयस्य विहितत्वात्। न च चैवं संशयेन सर्वत्रप्रवृत्तिप्रसङ्गः , प्रमाणादर्थसन्देहाच्च प्रवृत्तेरुपपत्तेः। यदप्युक्तम् –

‘यथाऽन्यत्वाविशेषेऽपि बौध्दानां किञ्चिदेव वस्तु कार्यं स्यात् ,

किञ्चिदेव कारणं , न सर्व, तथा ममाप्यन्यत्वाविशेषेऽपि किञ्चिदेव

धूमादिकं वस्तु स्वाभाविक सम्बन्धेन सम्बध्दं न सर्वम्’ इति।

तन्न युक्तम्।यथा धूमाख्यं वस्तु दहनायत्तमिति प्रमाणसिध्दिं तथा किं स्वाभाविकसम्बन्धोऽपि प्रमाणसिध्दः , येनैवमुच्यते ? किञ्च स्वाभाविकसम्बन्ध इति कोऽर्थः ? किं स्वतो भूतः , स्वहेतोर्वा भूतः अहेतुको वा इति त्रयो विकल्पाः। तत्र न तावदाद्यः पक्षः, स्वात्मनि क्रियाविरोधात्। नापि द्वितीयः , तदुत्पत्तिसम्बन्धस्वीकारप्रसङ्गात्। अथाहेतुकः , तदा देशकालस्वभावनियमाभावादतीवासङ्गतः स्वाभाविकसम्बन्धवादः।

किञ्च साधर्म्येण वैधर्म्येण वा दृष्टान्तमात्रमस्तीति न व्याप्तिसिध्दिः। यदृच्छया मिलितयोरपि करभगदर्भयोस्तथाभावप्रसङ्गात्। तस्मान्निदर्शनं नाम [ दृष्टान्त उच्यते। स च ] गृहीतविस्मृतप्रतिबन्धसाधक प्रमाणस्मरणद्वारेणैव हेतावुपयुज्यते , न स्वसन्निधिमात्रेण। तथाहि -न तावदाकाशे साध्याभावेन सधनाभावः प्रतीयते। आकाशे हि यथा बुध्दिमत्कारणनिवृत्तिस्तथा अचेतनस्यापि कारणस्य निवृत्तिर्नास्त्येव। तत्कस्याभावप्रयुक्तकार्यत्वाभावः प्रतीयतां , येन साध्याभावप्रयुक्तसाधनाभाव व्यतिरेकः सिध्यतीति। नापि घटे कार्यत्वस्य बुध्दिमदन्वयदर्शनादाकाशेऽपि बुध्दिमदभावादेव कार्यत्वाभावो वक्तुं युज्यते, यस्मादनयोस्तादात्म्यं तदुत्पत्तिरन्यो वा स्वाभाविकादिसम्बन्धः पूर्वप्रमाणेन न प्रसाधितः स्यादित्युक्तम्।

अदर्शनमात्रेण व्यतिरेकोऽसिध्दः

किञ्चादर्शनमात्रेन व्यतिरेको न सिध्यति। तथा हि , विपक्षे हेतुर्नोपलभ्यत इत्यनेन तदुपलम्भकप्रमाण निवृत्तिरुच्यते। प्रमाणं च प्रमेयस्य कार्यम् , ‘ नाकारणं विषय ‘ इति न्यायात्। न च कार्यनिवृत्तौ कारणनिवृत्तिर्युज्यते , निर्धूमस्यापि वह्नेर्भानात्। यदि पुनः प्रमाणसत्तया प्रमेयसत्ता व्याप्ता स्यात् , तदा युक्तमेवैतत्। केवलमियमेव व्याप्तिरसम्भाविनी , सर्वस्य सर्वदर्शित्वप्रसङ्गात्। तस्मान्नादर्शनमात्रेण व्यतिरेकः सिध्यति।यथोक्तम् –

‘सर्वाऽदृष्टिश्च सन्दिग्धा स्वाऽदृष्टिर्व्यभिचारिणी।

भूजलान्तर्गतस्यापि बीजस्यासत्त्वदर्शनात्॥’ इति॥

वाचस्पतिमतनिरसनम्

यदपि वाचस्पतिराह –

‘ विशेषस्मृत्यपेक्ष एव संशयो भवति ततो यथादर्शनमेव शङ्कितुमुचितम् ‘ इति।

अत्रोच्यते – नायं न्यायः सार्वत्रिकः। तथा चाभ्युपगम्यापि ब्रूमः। तथा हि – [ कार्यत्वधूमत्वयोः ] तादात्म्यतदुत्पत्तिसम्बन्ध वियोगित्वेन साधारणेन धर्मेण प्रमेयत्वधूमत्वकार्यत्वादीनां तन्मतेनापि सजातीयत्वम्। तत्र प्रमेयत्वस्यव्यभिचारदर्शनमेवान्यत्रापि शङ्कामुपस्थापयतीति यथादर्शनमेवेदमाशङ्कितम्। अतः सन्दिग्धविपक्षव्यावृत्तिकत्वं नाम हेतुदूषणं दुर्वारमेव। एतच्च सद्दूषणमेव। अतो यदनेनोक्तम् – ‘ नायं हेतुदोषः , अतो न परिहर्तव्यः, तस्य चोपन्यासोऽदोषोद्भावनं नाम निग्रहस्थानम् ‘ इति। तदिदानीं स्वमतेनैवानेन वादिना निरनुयोज्यानुयोगलक्षणेन निग्रहस्थानेनात्मा बाधित इत्युपेक्षणियोऽयं देवानां प्रियः॥

ईश्वरसाधकानुमाने अनुपपत्तिः

ननु यदि दृश्याग्निधूमसामान्ययोरिव दृश्यात्मनोरेव कार्यकारणसामान्ययोः प्रत्यक्षानुलम्भतो व्याप्तिस्तदा सन्तानान्तरानुमानं न स्यात् , परचित्तस्यादृश्यात्मकतया व्याप्तिग्रहणकालेऽनन्तर्भावादिति चेत् ? न। स्वसंवेदनं हि तत्र व्याप्तिग्राहकम्। स्वसंवेदनमात्रापेक्षया परिचित्तस्यापि दृश्यत्वात्। न चैवं व्यावहारिकेन्द्रियप्रत्यक्षमात्रबुध्दिमन्मात्रं जठरचित्रसाधारणं वह्निमात्रं वा गोचरो युज्यते , येनास्यापि दृश्यता स्यात्। तस्मात् दृश्येनैव वह्निना धूमस्य प्रत्यक्षानुपलम्भाभ्यां व्याप्तिरिति न्यायः॥

किञ्च यदि बुध्दिमन्मात्रपूर्वकत्वमनेन साध्यते , तदा सिध्दसाधनतादूषणं साधनस्य। अथ एको नित्यः सर्वज्ञ इत्यादिविशेषणविशिष्टबुध्दिमत्पूर्वकत्वं साध्यते, तदा एवं विशेषणविशिष्टेन साध्येन सह कार्यत्वस्य साधनस्य दृष्टान्तधर्मिणि प्रमाणेन व्याप्तेरसिध्देरनैकान्तिकत्वम्। अथ सामान्येन व्याप्तिमादाय विशेषस्य पक्षधर्मताबलात् सिध्दिरुच्यते ? तन्न युक्तम्। येन साध्यगतेन विशेषणेन विना हेतोर्वृत्तिर्धर्मिणि न घटते, तस्य विशेषस्य पक्षधर्मबलाद्युक्ता सिध्दिः। यथा धूमात् पर्वतदेशवृत्तित्वस्य दहनधर्मस्य , न तु तार्णत्वादीनां विशेषाणाम्। तार्णतामन्तरेणापि पर्वते धूमदर्शनात्। तद्वद् बुध्दिमतोऽपि शरीरादिवृत्तित्वं यदि सिध्यति, सिद्ध्यतु। न पुनरत्यन्तविलक्षणं सर्वज्ञत्वम्। असर्वज्ञत्वेऽपि कार्यत्वस्य सम्भवात्। उपादानाद्यभिज्ञत्वादपि न सर्वज्ञत्वसिध्दिः , एकत्वसिध्दौ सिध्त्येतत्। न चैकत्वं सिध्दम्। अनेककर्तृपूर्वकत्वेऽपि कार्यत्वस्य सम्भवात्। यथाऽनेककीटिकानिष्पादितः शक्रमूर्धा। अथ शक्रमूर्ध्नोऽपीश्वरपूर्वकत्वं साध्यं , तर्हि घटस्यापीश्वरपूर्वकत्वसिध्दौ कुतो दृष्टान्तत्वम् ? अथ कुम्भकारस्य कर्तृत्वं दृष्टं कथमपाक्रियते ? कीटकादीनां च हेतुत्वं दृष्टं तदपि कथं वार्यते ? नापि बहूनां कारणत्वे विप्रतिपत्तिसम्भावना , दृष्टत्वादेवेति। तस्मात् साध्यसाधनयोः सर्वोपसंहारवती व्याप्तिर्दृष्टान्तधर्मिणि प्रमाणेनावश्यं दर्शयितव्येति स्थितम्। किञ्च नित्यैकसर्वज्ञे बुध्दिमति साध्ये विरुध्दोऽप्येषः। अनित्यानेकासर्वज्ञेन बुध्दिमता व्याप्तत्वात् कार्यत्वस्य। तथा हि , साध्यविपर्ययसाधनादिह विरुध्द उच्यते। अयं च साध्यविपरीतं साध्यतीत्यास्तां तावत् प्रस्तावायातेश्वरदूषणोद्भावनानिबन्धकरणम्॥

साधर्म्यवैधर्म्यप्रयोगेषु त्रैरुप्यासिद्ध्याशंङ्का तन्निरसनञ्च

ननु साधर्म्यवति साधनवाक्ये अन्वय एवोक्तः न तु व्यतिरेकः। वैधर्म्यवति च व्यतिरेक एवोक्तः , न त्वन्वयः। तत्कथमाभ्यां त्रिरुपं लिङ्गं कथ्यत इति चेत् , नैष दोषः। यस्मात् साधर्म्यवति च साधनवाक्ये , उपन्यस्ते सामर्थ्यादेव व्यतिरेकोऽवगम्यते। व्यतिरेकागृहीतौ च साध्याभावेऽपि न साधनाभाव इति विपर्ययः सम्भावयितव्यः। एवं चान्वयस्यैवाभावः स्यात्। सत्यपि साधने साध्याभावादिति सामर्थ्यम्। तथा वैधर्म्यवति साधनवाक्ये उपन्यस्ते सामर्थ्यादेवान्वयोऽवगम्यते, अन्वयगृहीतौ हि साधनं च स्यात् साध्यं च न भवेदिति विपर्ययः सम्भावयितव्यः। एवं च व्यतिरेक एव न भवेत्। साध्याभावेऽपि साधनस्य भावादिति सामर्थ्यम्। तस्मात् द्वावपि प्रयोगौ त्रिरुपलिङ्गप्रकाशकावित्यदोषः॥

व्यप्तिग्राहक प्रमाणनिरुपणम्

सम्प्रति साध्यसाधनयोर्व्याप्तिः यत्र धर्मिणि ग्रहीतव्या ,येन च प्रमाणेन, तदुभयं सुखावबोधार्थ कथ्यते – स्वभावहेतोः सत्त्वलक्षणस्य क्षणिकत्वेन व्याप्तिः साध्यधर्मिण्येव ग्रहीतव्येति केचित्। तेषामन्तर्व्याप्तिपक्षोऽभिमतः। प्रसङ्गप्रसङ्गविपर्ययाभ्यां दृष्टान्तधर्मिणि घटादौ व्याप्तिर्ग्रहीतव्येत्यन्ये। तेषां बहिर्व्याप्तिपक्षोऽभिमतः। सत्त्वादन्येषां स्वभावहेतूनां कार्यहेतूनामनुपलम्भहेतूनां च दृष्टान्त एव व्याप्तिर्ग्रहीतव्या। तत्र शिंशिपात्वस्य वृक्षत्वव्यवहारे, साध्ये दृष्टान्ते प्रत्यक्षानुपलम्भाभ्यां व्याप्तिर्ग्राह्या। सत्त्वक्षणिकत्वयोस्तु प्रसङ्गप्रसङ्गविपर्ययाभ्यां प्रमाणाभ्यां , साध्यविपर्ययबाधकप्रमाणेन वा क्रमयौगपद्यनिवृत्तिलक्षणेन स्वसंवेदनसामर्थ्यसिध्देर्विकल्पसिध्देर्वा वस्तुत्वावस्तुत्वाभ्यां सन्दिह्यमाने विपक्षे धर्मिणि, कार्यहेतोर्धूमादेर्वह्न्यादिना महानसादौ दृष्टान्तधर्मिणि त्रिविधप्रत्यक्षानुपलम्भतः , पञ्चविधप्रत्यक्षानुपलम्भतो वा व्याप्तिर्ग्रहीतव्या।, अनुपलम्भस्य तु असद्व्यवहारयोग्यत्वेन सह व्याप्तिः प्रत्यक्षेणैव। , अन्येषां तु स्वभावहेतूनां कार्यहेतूनां वा केषाञ्चित् , यथास्वभावं प्रमाणेनोन्नीय ग्रहीतव्येति॥

हेत्वाभासनिरुपणम्

व्याप्त्यनिश्चये हेतोरनैकान्तिको दोषः। स च त्रिविधः – असाधारणानैकान्तिकः साधारणानैकान्तिकः , सन्धिग्धविपक्षव्यावृत्तिकश्चेति। तत्र

असाधारणानैकान्तिको यथा – सात्मकं जीवच्छरीरम् , प्राणादिमत्त्वात् अपरजीवच्छरीरवत् , घटवत्। अयं हेतुरपरजीवच्छरीरे आत्मना व्याप्त इति न निश्चितः।घटे च विपक्षे आत्मनोऽभावान्निवृत्त इति न निश्चितः। धर्मिणि तु जीवच्छरीरे विद्यत इति असाधारणानैकान्तिक उच्यते। अपरश्चासाधारणो यथा – अनित्यशब्दः श्रावणत्वात् , घटवत् , आकाशवदिति। साधारणनैकान्तिको यथा – नित्यः शब्दः प्रमेयत्वात् , घटवत् आकाशवत्। , सन्दिग्धविपक्षव्यावृत्तिको यथा – सः श्यामस्तत्पुत्रत्वात् , परिदृश्यमानतत्पुत्रवदिति॥

यदुक्तं प्राक् , सत्त्वस्य क्षणिकत्वेन सह व्याप्तिः प्रसङ्गप्रसङ्गविपर्पयाभ्यां ग्रहीतव्येति , तत्र कोऽयं प्रसङ्गो नाम ? प्रमाणप्रसिध्दव्याप्तिकेन वाक्येन परस्यानिष्टत्वापादनाय प्रसञ्जनम् प्रसङ्गः , यथा – सामान्यस्य , अनेकवृत्तित्वाभ्युपगमे अनेकत्वप्रसञ्जनम्। तथा हि – यदनेकवृत्ति तदनेकं यथा अनेकभाजनगतं तालफ़म्। अनेकवृत्ति च सामान्यम्। तस्मादनेनाप्यनेकेन भवितव्यमिति प्रसङ्गः।

प्रसङ्गस्य कार्यम्

अथानेकत्वं नेष्यते, तदाऽनेकवृत्तित्वं च मा स्वीकुर्वीथाः।

ननु यद्येतत् प्रसङ्गाख्यं साधनं प्रमाण , न भवति [त्रैरुप्याभावात् ] कथमस्योपन्यास इति , व्याप्तिस्मरणार्थं व्याप्यैकदेशकथनवदिति। यदुक्तम् –

‘ प्रसङ्गो द्वयसम्बन्धादेकाभावेऽन्यहानये ‘ इति।

अस्यायमर्थः – व्याप्यव्यापकयोः सम्बन्धे सति यदि व्यापकं नेष्यते तदा व्याप्यमपि नेष्यताम्। अथ व्याप्यमिष्यते तदा व्यापकमपीष्यतामिति।

वादिना साधना उपन्यस्ते प्रतिवादिना तत्र दूषणं वक्तव्यमिति न्यायः। असिध्दविरुध्दानैकान्तिकानामन्यतमस्योद्भावनं दूषणम्। यथोक्तम् –

‘दूषणानि न्यूनताद्युक्ति’ इति।

हेतुदूषणम्

नन्वेषामेवोद्भावनं यदि दूषणं ,क्व तर्हि वैयर्थ्यासामर्थ्यातिप्रसङ्गादीनामन्तर्भावः ? अत्रैव त्रिषु। तत्र वैयर्थ्यं तावदसिध्देऽन्तर्भवति। सन्दिग्धसाध्यधर्मो हि

हेतुरुच्यते। वैयर्थ्यं तु यत्रोपन्यस्यते तत्र सन्दिग्धसाध्यधर्मकत्वं हेतोर्लक्षणं हेतौ न सम्भवतीति असिध्द उच्यते। [ हेतोर्लक्षणस्यासिध्देः] यदुक्तम् –

‘ सन्दिग्धे हेतुवचनात् व्यस्तो हेतोरनाश्रयः ‘ इति।

असामर्थ्यं तु स्वरुपासिध्दावन्तर्भवति। न हि हेतोः सामर्थ्य नाम हेतुस्वरुपादन्यत्। हेतोरवस्तुत्वप्रसङ्गात्। अतिप्रसङ्गश्चानैकान्तिकेऽन्तर्भाव्यः , साध्यधर्ममतिक्रम्य विपक्षेऽपि प्रसक्तेरिति॥

आत्मनिरसनम्

यत्र तु धर्मिणि साध्यं साधयितुमारब्धं तस्य धर्मिणः प्रमाणबाधित्वे आश्रयासिध्दिर्हेतोर्दूषणम्। यथा सर्वगत आत्मा सर्वत्रोपलभ्यमानगुणत्वात्। तदिह बौध्दस्यात्मैव न सिध्दः , किं पुनसस्य सर्वदेशोपलभ्यमानगुणत्वं सेत्स्यति। तथा हि , तैर्थिकाः खल्वेवं ब्रुवन्ति। शरीरादिवस्तुव्यतिरिक्तं शुभाशुभकर्मकर्तृतत्फ़लभोक्तृ नित्यव्यापिरुपमात्माख्यं द्रव्यान्तरमस्ति। तेन च यदि नाम विश्वं व्याप्तं तदपि यदुपभोगायतनतया परेण परिगृहीतं जीवच्छरीरं तदेव सात्मकमभिधीयत इति। एतच्चायुक्तम्। आत्मनः सिध्दये प्रमाणाभावात्। न हि प्रत्यक्षेण आत्मा प्रतीयते।

चक्षुरादिज्ञानानां रुपादिविषयपञ्चकनियतत्वात्। मानसस्याप्यहंप्रत्ययस्य शरीरादिविषयत्वात् गौरोऽहं स्थूलोऽहं गच्छाम्यहमित्याद्याकारेण अहं प्रत्यय उत्पद्यते यदाह अलङ्कारकारः –

अहमित्यपि यज्ज्ञानं तच्छरीरेन्द्रियांशवित्।

अहं काणस्सुखी गौरः समानाधारवेदनात्॥

न चास्य शरीरव्यतिरिक्तस्य तद्धर्मो गौरत्वं स्थूलत्वं वा। न च विभोरमूर्त्तस्य मूर्तद्रव्यानुविधायिनी गमनक्रिया युक्तिमती। न चायं माणवके सिंहप्रत्यय एव भाक्तो युक्तः , स्खलद्वृत्तिप्रसङ्गात्। नाप्यनुमानेन प्रतीयते , कार्यस्वभावलिङ्गाभावात्। नित्यपरोक्षेण देशकालाकारव्यतिरेकविकलेनात्मना सह कस्यचिदन्वयव्यतिरेकात्मकार्यकारणभावासिध्देः कार्यलिङ्गायोगत्। धर्मिसत्तायाश्चासिध्दत्वात् स्वभावलिङ्गानुपपत्तेः। न चान्यल्लिङ्गमस्ति। अन्येनापि लिङ्गेन भवता साध्यव्याप्तेन भवितव्यम्। तस्य च सर्वथाऽसिध्देः, कथं तेन व्याप्तत्वं लिङ्गस्य निश्चीयताम् ? किञ्च , कियमात्मा बोधरुपः , अबोधरुपो वा ? यदि बोधरुपो नित्यश्च तदा चक्षुरादिवैफ़ल्यप्रसङ्गो दुर्वारः। अथानित्यो बोधरुपस्तदाज्ञानस्यैवात्मेति नाम कृतम् , न विप्रतिपत्तिः। अथाबोधरुपो दृश्यश्च तदाऽनुपलम्भोऽस्य सत्तां न क्षमत इति निरात्मसिध्दिरनवद्या। तस्मात् सर्वं संस्कृतं वस्तु निरात्मकमिति॥

स्वरुपासिद्ध्यापि हेत्वभासनिरुपणम्

स्वरुपासिध्दयाऽप्यसिध्दो हेत्वाभासो भवति। यथा अनित्यश्शब्दः चाक्षुषत्वादिति। ननु व्याप्त्यसिध्दिरपि दूषणम् , तेनापि परेष्टार्थासिध्देः। तत्किं नोच्यते? अनैकान्तिकदूषणेनैव गतार्थत्वात् पृथड्नोक्तम्। तथा हि – न स्वलक्षणाभ्यां व्याप्तिर्ग्रहीतुं शक्या।स्वलक्षणस्य देशकालाकारनियतत्वेनाप्यन्यत्रानुगमाभावात्। अपि तु साध्यसाधनसामान्याभ्यामेव व्याप्तिर्ग्रहीतव्या। तत्र च यदि साधनं साध्येन व्याप्तं न प्रतीयते तदा साधनं च स्यात् साध्यं च न स्यादित्यनैकान्तिकमेव भवति॥

अपोहनिरुपणम् , सामान्यनिरसनं च

ननु सामान्यं चेदप्रसिध्दं , तत्कथं साध्यसाधनसामान्याभ्यां सर्वोपसंहारवती व्याप्तिः प्रमाणेन गृह्यते ? नैष दोषः। यतो यादृशं सामान्यं परैः परिकल्प्यते तादृशं प्रमाणेन बाध्यत इति नाभ्युपेयते तत्सौगतैः। न तु व्यवहारप्रसिध्दमन्यव्यावृत्तिलक्षणमपोहसंज्ञितमपि। ननु कोऽयमपोहो नाम ? यथाध्यवसायं बाह्य एव घटादिरर्थ अपोह इत्यभिधीयते , अपोह्यतेऽस्मादन्यद्विजातीयमिति कृत्वा। यथाप्रतिभासं बुद्ध्याकारो वाऽपोहः , अपोह्यते पृथक् क्रियतेऽस्मिन् बुद्ध्याकारे विजातीयमिति कृत्वा। यथातत्त्वं निवृत्तिमात्रं प्रसज्यरुपो वाऽपोहः , अपोहनमपोह इति कृत्वा।

ननु यथाध्यवसायं विधिरेव , तर्हि केवलो विसाय इत्यागतम्। न अपोहविशिष्टो विधिरभिप्रेतः। यत्तु गोप्रतीतौ न गवात्मा अगवात्मेति सामर्थ्यादपोहः पश्चान्निश्चीयत इति विधिवादिनां मतम्। अन्यापोहप्रतिपत्तौ च सामर्थ्यादन्यपोढो गवादिरर्थोऽवधार्यत इति निवृत्त्यपोहवादिनां मतम्। तन्न युक्तम् , व्यवहारकाले प्रथमं वर्तमानस्यापि प्रतीतिक्रमादर्शनात्। न हि विधिं प्रतिपद्य कश्चिदर्थापत्तितः पश्चादपोहमवगच्छति , अपोहं वा प्रतिपद्य पश्चादन्यापोढमवगच्छति। तस्मात् गोप्रतिपत्तिरेव अन्यापोढ प्रतिपत्तिरुच्यते। यद्यपि गोशब्दादुच्चरितादन्यापोढशब्दानुल्लेख उक्तः , तथाऽपि नाप्रतिपत्तिरेव विशेषणभूतस्यान्यापोहस्य। अगवापोढ एव वस्तुनि गोशब्दस्य संकेतितत्वात्। यथा नीलोत्पलसंकेतितेन्दीवरशब्दात् उत्पलप्रतीतौ तत्काल एव नीलमस्फ़ुरणमनिवार्यं तथा गोशब्दादप्यगवापोढ एव वस्तुनि संकेतितात् गोप्रतीतौ तुल्यकालमेव विशेषणत्वात् अपोहस्य अगवापोह- स्फ़ुरणमनिवार्यम्। यथा च प्रत्यक्षस्य प्रसज्यप्रतिषेधरुपाभावग्रहणमभाव विकल्पोत्पादनशक्तिरेव , तथा विधिविकल्पानामपि तदनुरुपानुष्ठानशक्तिरेवाभाव – ग्रहणमभिधीयते। अन्यथा यदि गोशब्दादर्थप्रतिपत्तिकाले नावगतः परापोहः , कथं तर्हि अन्यपरिहारेण प्रतिपत्ता गवि वर्तताम्। तत्तो गां बधानेति चोदितोऽश्वानपि बध्नीयादिति। तस्मात् स्थितमेतत् ,बाह्यार्थोऽध्यवसायादेव शब्दवाच्ये व्यवस्थाप्यते, न तु स्वलक्षणपरिस्फ़ूर्त्या , प्रत्यक्षद्द्येशकालाकारावस्थानियत प्रव्यक्तस्वलक्षणास्फ़ुरणात्। यदाह न्यायपरमेश्वरः –

‘ शब्देनाव्यापृताक्षस्य बुध्दावप्रतिभासनात्।

अर्थस्य दृष्टाविव ‘ इति॥

किञ्च स्वलक्षणात्मनि वस्तुनि वाच्ये सर्वात्मना प्रतिपत्तेः विधिनिषेधयोरयोगः। तस्य हि सद्भावे अस्तीति व्यर्थम् , नास्तीत्यसमर्थम्। असद्भावे तु नास्तीति व्यर्थम् ,अस्तित्य समर्थम्। अस्ति चास्त्यादिपदप्रयोगः। तस्मात् परमार्थतो न स्वलक्षणं शब्दैरभिधीयत इति स्थितम्॥

ननु यथा प्रत्यक्षेण घटस्वरुपे गृहीतेऽपश्चात्तत्रैव क्षणिकत्वादिनिश्चयार्थ प्रमाणान्तरं प्रवर्तते , तथा वृक्षशब्देन वृक्षत्वांशे प्रतिपादिते सत्वांशनिश्चयार्थमेव सदादिपदप्रयोगो भविष्यतीति चेत् , न। प्रत्यक्षस्यानिश्यात्मकत्वादनभ्यस्तस्वरुपविषये प्रमाणान्तरं वर्तत इति युक्तम्। विकल्पस्य तु स्वयं निश्यात्मकत्वात् , गृहीते स्वरुपे किं प्रमाणान्तरेण परं ग्रहीतव्यमिति॥

परपरिकल्पितसामान्यनिरसनम्

यादृशं सामान्यं परैः परिकल्प्यते , अनेकव्यक्तिसमवेतं दृश्यमेकं नित्यं तादृशस्य सत्तासाधकं न किञ्चित्प्रमाणामुपलभामहे। ततः सदिति व्यवस्थापयितुं तन्न युक्तम्। तथा हि – गवादिव्यक्त्यनुभवकाले वर्णासंस्थानाद्यात्मकं व्यक्तिस्वरुपमपहाय नान्यत् किञ्चिदेकमनुयायि प्रत्यक्षे भासते। तादृशस्यानुभवाभावात्। नापि स्वलक्षणानुभानन्तरमेकाकारपरामर्शप्रत्ययात् अन्यथाऽनुपपत्त्या सामान्यपरिकल्पनं युक्तिसङ्गतम्। व्यक्तिभ्य एव स्वहेतुदत्तशक्तिभ्योऽस्य प्रत्ययस्य परम्परयोत्पत्तेः। भेदेऽपि काश्चिदेव व्यक्तयोऽस्य जननाय समर्थाः, न सर्वाः , इत्यत्र कार्यकारणभावस्य प्रत्यक्षानुपलम्भाभ्यां दृष्टस्यातिवर्तयितुमशक्यत्वात्। दृष्टं चेदं सामर्थ्यं भेदाविशेषेऽपि कासाञ्चिदेव व्यक्तीनाम्। यथा ज्वरादिप्रशमने गुडूचीनिम्बादीनाम्। यथोक्तम् –

‘ एकप्रत्यवमर्शार्थज्ञानाद्येकार्थसाधने।

भेदेऽपि नियताः केचित्स्वभावेनेन्द्रियादिवत्’॥इति॥

किञ्च सर्वगते विजातीयाद् व्यावृत्ते सत्यपि सामान्ये किं भेदाविशेषेऽपि गोव्यक्तिष्वेव समवेतं तत् सामान्यं तत्रैव चैकाकारां बुध्दिं जनयतीति प्रश्ने स्वभावेनैवेत्युत्तरं परस्य। तच्च प्रमाणासङ्गतम्। अस्माकं तु स्वभावेनोत्तरं प्रमाणासिध्दत्वात् युक्तिसङ्गतमेव॥

तथेदमपरं जातिसाधनाय साधनं परस्य। यद् विशिष्टं ज्ञानं तद् विशेषणग्रहणनान्तरीयकम् , यथा दण्डिज्ञानम्। विशिष्टज्ञानं चेदं गौरयमित्यर्थतः कार्यहेतुः। अत्रोच्यते – विशिष्टबुध्देर्भिन्नविशेषणग्रहणनान्तरीयकत्वं साध्यं , विशेषणमात्रानुभवनान्तरीयकत्वं वा। प्रथमपक्षे प्रत्यक्षबाधा।वस्तुग्राहिणि प्रत्यक्षे उभयप्रतिभासाभावात्। विशिष्टबुध्दित्वं च सामान्यमित्यनैकान्तिको हेतुः स्यात् ,भिन्नविशेषणग्रहणमन्तरेणापि तस्य दर्शनात्। यथा स्वरुपवानयं घटः , गोत्वसामान्यमिति वा। द्वितीयपक्षे तु सिध्दसाधनम् , स्वरुपवान् घट इत्यादिवत् गोत्वादिजातिमान् पिण्ड इति परिकल्पितभेदमुपादाय विशेषणविशेष्य भावस्येष्टत्वात्।

अगोव्यावृत्त्यनुभवभावित्वात् गौरयमिति व्यवहारस्य। तदेवं अतोऽपि साधनान्न सामान्यसिध्दिरिति। तदेवं परपरिकल्पितसामान्यस्य विचारासहत्वात् , अतद्रूपपरावृत्तवस्तुमात्रमेव सामान्यमपोहशब्दवाच्यं व्यवहाराङ्गं यथाध्यवसायमनवद्यमिति स्थितम्।

सामान्यस्य निषेधाय प्रयोगः पुनरेवं कर्तव्यः – यद्यत्रोपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तत्तत्र असद्व्यवहारविषयः ,यथा तुरङ्गमोत्तमांगे शृङ्गं , नोपलभ्यते चोपलब्धिलक्षणप्राप्तं सामान्यं परिदृश्यमानासु व्यक्तिष्विति स्वभावानुपलब्धिः। न चासिध्दसम्भावना। वर्णसंस्थानलक्षणं व्यक्तिस्वरुपमपहाय द्वितीयस्यानुयायिनो रुपस्य निपुणमपि निरुप्यमाणस्य सर्वथा दर्शनाभावात् , नापि ज्ञानवद्दर्शनाभावेऽपि प्रत्यक्षसिध्दत्वमस्याभिधातुमुचितम्। ज्ञानं हि स्वसंवेदनप्रमाणसिध्दम् , न तु चक्षुर्विज्ञानग्राह्यम्। इदं [ तु सामान्यं ] चक्षुर्विज्ञानग्राह्यमर्थधर्मत्वात्। प्रत्यक्षं च परैरिष्टमिति। तदेवं परपरिकल्पितसामान्यस्य विचारासहत्वात् , अतद्रूपपरावृत्तवस्तुमात्रमेव सामान्यमुक्तम्। तस्मात् सर्वं संस्कृतं वस्तु परपरिकल्पितसामान्येन शून्यमिति स्थितम्॥

ईश्वरसाधननिरसनम्

नापि केनचिद्बुध्दिमतोपरचित्तमित्यपि विज्ञेयम्। तथा हि – अस्य जगतः कर्त्ता भवन् नित्यो वा भवेदनित्यो वा। तत्र न तावन्नित्यो युक्तः , नित्ये कर्त्तरि समर्थे सति सर्गस्थितिप्रलयानां नियमेन यौगपद्यप्रसङ्गात्। येन हि स्वरुपेण स्थितिप्रलययोः स कर्त्ता तदस्य स्वरुपं सर्गकालेऽपि सन्निहितमिति तदैव स्थितिप्रलयौ कुर्यात्। सहकारिविरहान्न करोतीति चेत् , तदसत्। न हि नित्येन सहकारिणा कदाचिदप्ययं विरहितः सदा सन्निहितत्वात्। नाप्यनित्येन सहकारिणा विरहितः , अनित्यसहकारिणोऽपि तदायत्तजन्मत्वात्। तत एकदा सर्वकरणादिप्रसङ्गः॥

ननु बुध्दिमत्त्वादीश्वरस्य नैष दोषः। बुध्दिशून्यो हि स्वसत्तामात्रजन्यं कार्यमक्रमेणैव कुर्यात्। बुध्दिमांस्तु कर्त्तुमीशानोऽपि अनिच्छन्न करोतीति कस्तस्योपालम्भः ? उच्यते – ता अपीच्छाः स्वसत्तामात्रनिबन्धनाः किं न करोतीति स एवास्योपालम्भः। अथ स्वरुपेण सामर्थ्ये सत्यपि एष एव तस्य स्वभावः , यत्सहकारिलक्षणयाऽगन्तुकशक्त्या विना न करोतीति चेत् , तर्हि माताऽपि सति वन्ध्या सा प्रकृत्यैवैतदपि वक्तव्यं भवेद्भवतामिति यत्किञ्चिदेतत्॥

नन्वेष एव कार्यस्वभावः , केवलात् समर्थादपि नोदेति , सहकारिणमपेक्ष्यैव पश्चाद्भवति [ नास्योपालम्भ इति ] तन्न युक्तम्। समर्थो हि सहकार्यपेक्षामनादृत्य बलादेव कार्यं कुर्यात्। अन्यथा [ ह्यस्य ] असमर्थत्वप्रसङ्गात्।

नित्यस्य क्रमकारित्वनिषेधनम्

नापि नित्यः क्रमेण कार्यकारीति युक्तम् , निरपेक्षत्वात्। यदाह दिङ्मण्डलविख्यातकीर्तिर्धर्मकीर्तिः –

नित्यस्य निरपेक्षत्वात् क्रमोत्पत्तिर्न युज्यते।

क्रियायामक्रियायां च कालयोः सदृशात्मनः॥इति॥

एतेन आत्मादीनामक्षणिकानां घटादीनां क्षणिकानां च क्रमेण कार्यकरणं प्रत्युक्तम्। न चात्र प्रत्यक्षविरोधः , प्रत्यक्षेणाक्षणिकस्य ग्रहणायोगात्। न हि क्षणिकं प्रत्यक्षमक्षणिकमीक्षितुं क्षमते। अनिकक्षणव्यापारो ह्यक्षणिकः। स कथमेकक्षणभाविनाध्यक्षेण ग्रहीतुं शक्यः। न हि प्रागूर्ध्वं चावस्थानमधुना प्रकाशते। तस्याप्यधुनातनताप्रसङ्गात्। जन्मविनाशावधिप्रतिभासप्रसङ्गादिति नेदं प्रत्यक्षं पूर्वापरकालव्याप्तमर्थं कञ्चिदपि ग्रहीतुमलम्।

प्रत्यभिज्ञानस्य प्रत्यक्षत्वं निरसनम्

एतेन प्रत्यभिज्ञानस्याप्रत्यक्षत्वमाख्यातम्। साक्षात्कारि हि ज्ञानं प्रत्यक्षम्। न च प्रागवस्थमधुना साक्षात्कर्तव्यम् , अपि तु स्मर्तव्यम्। न च स्मरणस्वरुपम् प्रत्यक्षम्।

अथ मतं भवेदिदं स्मरणं यदिदानीन्तनमवस्थानं न साक्षात्कुर्यात् , तत्साक्षात्करणप्रवणं कथमिदं स्मरणं नाम ? यदाह भट्टः-

‘ पूर्वप्रमितमात्रे हि जायते स इति स्मृतिः।

स एवायमितीयं तु प्रत्यभिज्ञाऽतिरेकिणि॥’ इति॥

स्मरणग्रहणस्वरुपं तर्हि प्रत्यभिज्ञानं स्यात् , न तु ग्रहणस्वरुपमेव। स्मर्यमाणे ग्रहणायोगात् , गृह्यमाणे च स्मरणायोगात्। न चैकस्य स्मरणग्रहणे सम्भवतः , परस्परविरोधात्। येन हि स्वरुपेण स्मरणं न तेन स्वरुपेण ग्रहणमित्यनुन्मत्तेन शक्यते वक्तुम्। रुपान्तरेण चैकस्य स्मरणग्रहणे न स्याताम्। भावेऽपि प्रत्यक्षाप्रत्यक्षे स्याताम्। न तु स्मर्यमाणे प्रत्यक्षमेव , प्रत्यक्षायोगात्। तस्मात् प्रत्यभिज्ञाप्रत्ययो भ्रान्त एव ,निर्विषयत्वात्।

प्रयोगश्चैवम् -यः प्रत्यभिज्ञाप्रत्ययः स तत्त्वतो नैकालम्बनः , यथा लूनपुनर्जाततृणादिषु। प्रत्यभिज्ञा प्रत्ययश्चायं तदेवेदं नीलादीति प्रत्यय इति विरुध्दव्याप्तोपलब्धिः। एकत्वानेकत्वयोः परस्परविरोधात् तद्विषयकसंवेदनयोरपि विरोधः तेनैकालम्बनत्वेन अनेकालम्बनत्वविरुध्देन अनेकालम्बनत्वेन पूर्वोक्त्या नीत्या प्रत्यभिज्ञाप्रत्ययो व्याप्त इति न प्रत्यभिज्ञानं क्षणिकानुमानबाधकम्। न च केशादिष्वपि सामान्यालम्बनतया एकालम्बनत्वम्।केशादिव्यक्तेरेव प्रत्यभिज्ञायमानत्वात्। सामान्ये प्रत्यभिज्ञायमाने तदेवेदं केशादीति स्यात् , न तदेवेदं केशादीति। अत एवैकालम्बनत्वे प्रत्यभिज्ञाप्रत्ययस्य क्रमेतराभ्यामुत्पत्तिविरोधात् , विरुध्दानैकान्तिकत्वे नाशङ्कनीये। न च प्रत्यभिज्ञानमेव तदवस्थापकम् , यस्यैव विचार्यमाणत्वात्। तस्मात् स्थितमेतत् नित्यः कर्ता नास्तीति। यदि नित्यः कर्ता जगतो न कारणं , किमस्य तर्हि कारणम् ?

सत्त्वानां शुभकर्मणः जगतः कारणत्वसमर्थनम्

सत्त्वानां शुभाशुभाख्यं कर्म। यथोक्तम् –

सत्त्वलोकमथ भाजनलोकं

चित्तमेव रचयत्यतिचित्रम्।

कर्मजं हि जगदुक्तमशेषं

कर्म चित्तमवधूय न चास्ति॥इति॥

वैभाषिकमाश्रित्य पुनर्भगवता सर्वज्ञेन चोक्तम् –

‘ आकाशं द्वौ निरोधौ च नित्यं त्रयमसंस्कृतम्।

संस्कृतं क्षणिकं सर्वमात्मशून्यमकर्तृकम्॥’ इति॥

सर्वज्ञसमर्थनम् भवपरम्परासमर्थनं च

ननु सर्वज्ञसिध्दौ हि तद्वचनं निदर्शनीकर्तुमुचितम्। सर्वज्ञसिध्दये किं प्रमाणमिति चेत् ? उच्यते। यो यः सादरनिरन्तरदीर्घकालाभ्यासकलितचेतोगुणः स सर्वः स्फुटीभावयोग्यः , यथा युवत्याकारः कामिनः पुरुषस्य। यथोक्ताभ्यासकलितचेतोगुणाश्चामी चतुरार्यसत्यविषयाकारा इति स्वभावहेतुः।

न तावदाश्रयद्वारेण हेतुद्वारेण वासिध्दसम्भावना। सङ्कल्परुढानां चतुरार्यसत्यविषयाकाराणां धर्मिणां चेतोगुणमात्रस्य च हेतोः प्रत्यात्मवेद्यत्वात्। न चैष विरुध्दः , सपक्षे कामिन्याकारे सम्भवात्। न चानैकान्तिकः , अभ्यासेन सहितचेतोगुणस्फ़ुटप्रतिभासयोः कारणकार्ययोः कुम्भकारघटयोरिव सर्वोपसंहारेण प्रत्यक्षानुपलम्भतः कार्यकारणभावसिध्दौ अभ्याससहितचेतोगुणत्वस्य साधनस्य स्फ़ुटप्रतिभासकारणयोग्यतया व्याप्तिसिध्देः। तथा हि – व्याप्त्यधिकरणे कामातुरवर्तिनि युवत्याकारे सादरनिरन्तरदीर्घकालाभ्याससहितचेतोगुणात् पूर्वमनुपलब्धिः स्फ़ुटाभत्वस्य पश्चादभ्याससंवेदनं ,स्फ़ुटाभसंवेदनमिति त्रिविधप्रत्यक्षानुपलम्भसाध्यः कार्यकारणभावः स्फ़ुटप्रतिभासाभ्यास सहितचित्ताकारयोरित्युपपन्ना सर्वोपसंहारवती व्याप्तिः। अतोऽनैकान्तिकत्वाभावात् अनवद्यो हेतुः ॥

नन्वनेन साधनेन चतुरार्यसत्याकाराणां साक्षात्करणात् चतुरार्यसत्याकारसाक्षत्कारी विवक्षितस्सर्वज्ञः सिध्यति , न त्वविशेषेण सर्वधर्मसाक्षत्कारी , ततस्तत्सिध्दये साधनान्तरमभिधेयम्। उच्यते – यत्प्रमाणसंवादि निश्चितार्थं वचनं , तत् साक्षात् पारम्पर्येण वा तदर्थसाक्षत्कारिज्ञानपूर्वकं , यथा दहनो दाहक इति वचनम् , प्रमाणसंवादि निश्चितार्थ चेदं वचनं , क्षणिकाः सर्वसंस्कारा इति अर्थतः कार्यहेतुः। नास्यासिध्दिः , सर्वधर्मक्षणभङ्गप्रसाधनादस्य वचनस्य सत्यार्थत्वात्। नापि विरुध्दः , सपेक्षे भावात्। न चानैकान्तिकता , वचनमात्रस्य संशयविपर्यासपूर्वकत्वेऽपि प्रमाण संवादि ] निश्चितार्थस्य [ वचनस्य ] साक्षात् पारम्पर्येण वा तदर्थसाक्षात्कारिज्ञानपूर्वकत्वेन प्रत्यक्षानुपलम्भाभ्यामुपलम्भात्। अन्यथा धूमादावपि हेतुत्यागप्रसङ्गादशेषकार्यहेतूच्छेदप्रसङ्गः॥

भवपरम्परानिरुपणम्

स्यादेतत्। अनेकभवपरम्परालक्षणेन दीर्घकालेन भाव्यस्य सङ्कल्पारुढस्य स्फ़ुटाभत्वं सम्भाव्यते। भवपरम्परासिध्दये तु किं प्रमाणम् ? उच्यते। यच्चित्तं तत् चित्तान्तरं प्रतिसन्धत्ते , यथेदानीन्तनं चित्तम्। चित्तं च मरणकालभावीति स्वभावहेतुः। न चार्हच्चरमचित्तेन व्यभिचारः। तस्यागममात्रप्रतीतत्वात् निः क्लेशचित्तान्तरजननाद्वा। हेतोः क्लेशे सति। विशेषापेक्षणादि त्यनागतभवसिध्दिः। इह पूर्वजन्माभ्यासात् तपोदानाध्ययनादौ सर्वसत्त्वानामभ्यासे प्रवृत्तिरिति प्रवादः। ततस्तत्सिध्दये प्रमाणमुच्यते – यच्चित्तं तत् चित्तान्तरपूर्वकं यथेदानीन्तनं चित्तम्। चित्तं च जन्मसमयभावीत्यर्थतः कार्यहेतुः॥

वैभाषिकमतनिरुपणम्

ननु तत्त्वसाक्षात्कारणान्मुक्तिः। तत्त्वं चैकमेव, यथोक्तम् –

‘ मुक्तिस्तु शून्यतादृष्टिस्तदर्थाशेषभावना ‘ इति।

तत्कथं सर्वज्ञद्वैतं, बौध्दप्रभेदश्चेति ? नैष दोषः। यस्मात्सर्वमेतद् भूतार्थे सत्त्वानवतारयितुं भगवता प्रतिपादितम्। तथा हि वैभाषिकाणां मतम् –

‘ आकाशं द्वौ निरोधौ च नित्यं त्रयमसंस्कृतम्।

संस्कृतं क्षणिकं सर्वमात्मशून्यमकर्तृकम्॥’इति॥

सौत्रान्तिकानां मतम्

ज्ञानमेवेदं सर्वं नीलाद्याकारेण प्रतिभासते, न बाह्योऽर्थः , जडस्य प्रकाशायोगात्। यथोक्तम् –

‘स्वकारज्ञानजनका दृश्या नेन्द्रियगोचाराः ‘॥इति॥

अलङ्कारेणाप्युक्तम् –

यदि संवेद्यते नीलं कथं बाह्यं तदुच्यते।

न चेत्संवेद्यते नीलं कथं बाह्यं तदुच्यते॥

ननु यदि प्रकाशमानं ज्ञानमेवदं , तदाऽस्ति बाह्योऽर्थ इति कुतः ? बाह्यार्थसिध्दिस्तु स्याद्वयतिरेकतः। न हि सर्वत्र सर्वदा नीलादय आकाराः प्रकाशन्ते।

न चैतत् स्वोपादानमात्रबलभावित्वे सति युज्यते। नियतविषये प्रवृत्त्ययोगात्। तस्मादस्ति किञ्चिदेषां समनन्तरप्रत्ययव्यतिरिक्तं यद्बलेन क्वचित् कदाचित् भवन्तीति शक्यमवसातुम्। स एव बाह्योऽर्थ इति , न पुनरसौ बाह्योऽर्थः अवयवी , गुणादयो धर्माः द्रव्याश्रयिणः पराभिमताः, नवविधं द्रव्यं परमाणावो वेति। तत्र न तावत् गुणादयः , द्रव्यनिषेधेनैव तेषां निषेधात्। न चासति समवायिनि द्रव्ये समवाय इति तद्दुषणमत्र नाद्रियते। द्रव्यं च पृथिव्यापस्तेजोवायुराकाशं कालो दिगात्मा मन इति नवविधम्।

आत्माकाशकालदिङ्मनसां निरसनम्

तत्रात्मनिषेधायेदमपि साधनम् – यत्कादाचित्कं ज्ञानं तत्कादाचित्ककारणपूर्वकम् , यथा सौदामिनीज्ञानम्। कादाचित्कं चेदमहंकारज्ञानमित्यर्थतः कार्यहेतुः। नायमसिध्दः अहंकारे धर्मिणि ज्ञानत्वस्य प्रत्यक्षसिध्दत्वात्। नापि कादाचित्कविशेषणमसिध्दम् , सर्वदाऽहमिति ज्ञानाभावात्। नापि विरुध्दः , सपक्षे दर्शनात्। न चानैकान्तिकः , धूमपावकयोरिव कादाचित्कज्ञानकादाचित्ककारणयोः प्रत्यक्षानुपलम्भाभ्यां व्याप्तिसिध्देः। कादाचित्कज्ञानस्य चाकादाचित्ककारणादुत्पत्तौ कादाचित्ककारणादनुत्पत्तिप्रसङ्गः। अनियतहेतुकतायां चाहेतुकताप्रसङ्गः , तथाऽप्यनैकान्तिकत्वे प्रसिध्दधूमादिहेतुरप्यनैकान्तिकः स्यात् , विशेषाभावात्। अपि चाहंकारस्य अकादाचित्ककारणपूर्वकत्वे सदैवोदयप्रसङ्गः। कारणस्य कुर्वद्रूपत्वात् , अकुर्वतश्चोपचारतः कारणत्वात् , कुर्वदकुर्वतोरैक्याभावात्। भावे वा कुर्वतोऽप्यकुर्वद्रूपतापत्तिः , तत्स्वभावत्वात्। किञ्चाहंकारस्य अकादाचित्क कारणादुत्पादे युगपदेवोत्पादप्रसङ्गः , अव्यग्रसामग्रीकत्वात्। नन्वहंकारस्यालम्बनमात्मा न कारणमिति चेन्न। अकारणस्यालम्बनत्वायोगादतिप्रसङ्गादिति॥

अथ किमाकाशं नाम किञ्चिद्वस्तुभूतमस्ति? उत नास्ति वा ? नास्त्येवैतत्। यत्र हि सप्रतिघं द्रव्यमस्ति न तत्राकाशमवकाशं वा ददाति। यत्र नास्ति तत्र तदभावादेवावकाशः सिध्द इति क्व वाऽऽकाशमवकाशं दद्यात् ? [ यस्मादवकाशप्रदमाकाशं भण्यते ] तस्मात् सत्यस्मिन् सर्वदा सर्वथा सर्वत्रावकाशः स्यात्। न चैतदस्ति। तस्मान्नास्त्येवाकाशमिति प्रतीमः। एतच्च वैभाषीकमतपेक्ष्य दूषणमुक्तम्।

परैस्त्वाकाशं शब्दगुणकमिष्यते। तच्चैकमिति चेत् समानदेशत्वात् सर्वशब्दानां विभागेन श्रवणं न स्यात्। ततस्सन्निहितदेश इव दूरदेशाभिमतोऽपि शब्दः श्रूयेत। न वान्योऽपीत्येकान्तः। दिक्कालयोश्चैकत्वात् पूर्वापरादिप्रत्ययानुपपत्तिः। एतेन नित्यस्यापि मनसोऽसम्भव एव। तथा हि – युगपज्ज्ञानानुत्पत्त्या मनोऽनुमीयते तद्वादिभिः। अनुभूयन्त एव युगपद्बहूनि ज्ञानानि नर्त्तकीदर्शनादौ। यदि पुनर्मनो [ नित्यं ] स्यात्तदानीमेतानि ज्ञानानि न युज्यन्ते। तस्मान्नास्त्येव मनोऽपि॥

अवयविनिरसनपूर्वकं परमाणुमात्रसमर्थनम्

पृथिव्यादयोऽवशिष्यन्ते। ते चावयविपरमाणुभेदेन द्विधा इष्यन्ते। तत्र योऽवयवी घटादिः परमाणुभिद्वर्यणुकादि क्रमेणारब्धः प्रसिध्दः , तस्य उपलब्धि लक्षणप्राप्तस्यानुपलम्भो बाधक इत्युक्तम्। यद्यवयवी नास्ति कथं तर्ह्ययमेकत्वेन प्रतिभासत इति चेत् –

भागा एव भासन्ते सन्निविष्टास्तथा तथा।

तद्वान्नैव पुनः कश्चिन्निर्भागः सम्प्रतीयते॥

इत्युक्तम्। ननु कोऽयं भागप्रतिभासो नाम ? नानादिग्देशावष्ष्टम्भेन सञ्चितः परमाणुप्रतिभास एव। यद्येवं कथं ‘ प्रतिभासधर्मः स्थौल्यम् ‘ इत्युक्तं धर्मोत्तरेण,तत्राप्ययमेवार्थः अर्थस्य स्वरुपेण नास्ति वेदनम्, ‘भाक्तं स्यादर्थवेदनम्’ इति वचनात्। तस्माद्योऽयं नीलादिप्रभासो नानादेशव्यापित्वेनानुभूयते स एव स्थूलप्रतिभास इत्यदोषः येऽपि तदारम्भकाः परमाणवो वैशेषिकाणां , साक्षादध्यक्ष्यगोचरा वैभाषिकाणां दर्शने, स्वस्वाकारसमर्पणप्रवणाः सौत्रान्तिकानां मते , तेऽपि योगाचाराणां दर्शने न सम्भवन्ति। न खल्वेकः परमाणुः प्रसिध्दिमध्यास्ते। तस्याधरोत्तरचतुर्दिक्षु परमाणुमध्यासीनस्य नियमेन षडंशतापत्तेः।यो ह्यस्य स्वभावः पूर्वपरमाणुप्रत्यासन्नः न स एवापरपरमाणुप्रत्यासन्नो घटते। तयोरेकदेशताप्राप्तेः। एवं च स पूर्वपरमाणुसन्निहितस्वभावोऽपरपरमाणुं प्रत्यासीदेद्यदि सोऽपि तत्र स्यात्। असत्यामपि प्रत्यासत्तावाभिमुख्यमात्रेऽप्ययमेव वृत्तान्तः। ततश्च परमाणुमात्रं पिण्डः प्रसक्तः॥

योगाचारस्य मतम्

अथवाऽयं विचारः , यदेतत्प्रतिभासमानं तदेकं तावन्न युक्तम् , अनन्तरोक्तविचारात्। नाप्यनेकं , परमाणुशः परमाणोरयोगात्। तथा हि – यद्यसौ सांशः कथं परमाणुः ? अथ निरंशः तदा संयुक्ताः परमाणावः सर्वात्मना संयोगात् परस्परमभिन्नदेशाः स्युरिति सर्वः पिण्डः परमाणुमात्रं स्यात् , पर्वतोऽपि क्षितिरपीति। तस्मादवश्यं तयोः स्वभावयोर्भेदोऽभ्युपेतव्यः। यथा चानयोस्तथा ऽधरोत्तरदक्षिणोत्तरपरमाणुप्रत्यासन्नानां स्वभाबानां च भेद इति षडंशतैव परमाणोर्न्यायबलादापतति। यदाह –

षट्केन युगपद्योगात् परमाणोः षडांशता।

षण्णां समानदेशत्वात् पिण्डः स्यादणुमात्रकः॥इति।

न चैकासिद्धौ अनेकस्यापि सिध्दिरिति न सन्ति परमाणवः। यदि बाह्योऽर्थो नास्ति किं विषयस्तर्ह्ययं प्रतिभासः ? प्रतिभासः खल्वेषोऽनादिवितथवासनातः प्रवर्तमानो निरालम्बन एव लक्ष्यते। तथा हि -सति विषये सालम्बनता स्यात्। तेन चावयविना भवितव्यम् , परमाणुप्रचयेन वा। स चायमुभयोऽप्यनन्तरोक्त बाधकप्रमाण [ ग्राह ] ग्रस्तविग्रहो न व्योमतामरसमतिशेते यथोक्तम् –

न सन्नावयवी नाम न सन्ति परमाणवः।

प्रतिभासो निरालम्भः स्वप्नानुभवसन्निभः॥इति॥

निरालम्बनवादः

स्वप्नज्ञानं निरालम्बनं विदितमेव। न च स्वप्रजाग्रदनुभवयोर्भेदः कश्चिदप्यस्ति। सर्वप्रकारसाधर्म्यदर्शनात्। न चानालम्बनादनवाप्तरुपविशेषं विज्ञानं सालम्बनसम्बन्धमनुभवितुमुत्सहते। यदनालम्बनादविशिष्टं तदनालम्बनम् , यथैकस्मादाकाशकेशदर्शनात् द्वितीयम् [ ज्ञानं ] अनालम्बनाच्च स्वप्नज्ञानादविशिष्टं विवादास्पदीभूतं जाग्रद्विज्ञानमिति स्वभावहेतुः॥

विज्ञानस्यस्य साकारत्वनिराकारत्वपक्षभेदः

यदि बाह्योऽर्थो नास्ति किं तर्हि परमार्थसत् ? ग्राह्यग्राहकादिकलङ्कानङ्कितं निष्प्रपञ्चविज्ञानमात्रं परमार्थसत्। यथोक्तम् –

‘ ग्राह्यग्राहकनिर्मुक्तं विज्ञानं परमार्थसत् ‘ इति।

पुनश्चोक्तम् –

‘ नान्योऽनुभाव्यो बुध्द्याऽस्ति तस्या नानुभवोऽपरः।

ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते॥’

उक्तं चैतद्भगवता –

‘ बाह्यो न विद्यते ह्यर्थो यथा बालैर्विकल्प्यते।

वासनालुठितं चित्तमर्थाभासं प्रवर्त्तते॥’इति॥

साकारवादिनां मतम्

तत्र केचिदेवमाहुः – विज्ञानमेवेदं सर्व सर्वशरीरविषयभावेन प्रसिध्दम् , तच्च स्वसंवेदनमिति न कस्यचित् ग्राह्यं ग्राहकं वा। कल्पनया तु ग्राह्यग्राहकभाव इति व्यवस्थाप्यते। ततः परिकल्पितग्राह्यग्राहकभावरहितं विज्ञानं [ साकारं ] सत्यमिति।

निराकारवादिनां मतम्

अन्ये तु सकलाकारकलङ्कानङ्कितं शुध्दस्फ़टिकसंकाशं वास्तवं विज्ञानम्। आकारास्त्वमी वितथा एवाविद्यया दर्शिताः प्रकाशन्ते। तस्मात् ग्राह्यं नाम नास्त्येव ग्राह्याभावात् तदपेक्षया यद्ग्राहकत्वं विज्ञानस्य तदपि नास्तीति। माध्यमिकानां तु दर्शने तदपि विज्ञानं न परमार्थसत् , विचारासहत्वात्। स्वभावेन हि युक्तं पारमार्थिक मुच्यते लोके। न चास्य विचारतः कश्चित्स्वभावो घटते, एको वाऽनेको वा , पूर्वविचारासहत्वात्। यथोक्तम् –

‘ नेष्टं तदपि धीराणा विज्ञानं पारमार्थिकम्।

एकानेकस्वभावेन वियोगाद्गनाब्जवत्॥’इति॥

कीर्तिपादैरप्युक्तम् –

‘ भावा येन निरुप्यन्ते तद्रूपं नास्ति तत्त्वतः।

यस्मादेकमनेकं वा रुपं तेषु न विद्यते॥’ इति॥

तथाऽलङ्कारकारेणाप्युक्तम् –

‘ यदा तु न विकल्पस्य न चान्यस्य प्रमाणता।

तदा विशीर्यमाणेऽपि सर्वस्मिन् कोऽपराध्यतु॥’

‘बध्दमुक्तादि भेदोऽपि नैवास्ति परमार्थतः।

भेदो हि नावभात्येव सर्वत्र समदर्शिनाम्॥’इति॥

प्रयोगः पुनरेवम् – यदेकानेकस्वभावं न भवति न तत्परमार्थसत् , यथा व्योमकमलम् ,एकानेकस्वभावं च न भवति विज्ञानमिति व्यापकानुपलब्धिः। न तावदयमसिध्दो हेतुः। साकारे ज्ञाने बहिरर्थ इव एकानेस्वभावायोग्यत्वस्य परिस्फ़ुटत्वात्। यत्र हि लोकस्य बाह्यार्थव्यवहारस्तदेव साकारवादिनो ज्ञानम् , ततो यत्तस्य बहिर्भावे बाधकं तदेवान्तर्भावेऽपि बाधकम्। न हि स्थूलमेकमनेकं च परमाणुरुपमपीष्यते। विज्ञानात्मकानामयमाकारो यद्येकः स्थूलो यति वाऽनेकः परमाणुशो भिन्नः , उभयथाऽपि बाह्यार्थपक्षभावि दूषणमशक्यमुर्ध्दतुम्। न हि तद्विज्ञाने बहिर्भावनिबन्धनं दूषणम्! येन तद्भावेन भवेत्। मूर्तिनिमित्तं बाधकम्,

नामूर्ते विज्ञानात्मनि इत्यपि निस्सारम्। साकारतायां विज्ञानस्यापि मूर्तत्वात्। अयमेव हि देशावितानवा  नाकारो मूर्तिरिति॥

श्रीमन्महाजगद्दलविहारीय महापण्डित भिक्षु मोक्षाकरगुप्तविरचितायां तर्कभाषायं परार्थानुमानपरिच्छेदः तृतीयः समाप्तः॥

 

Tags: EVIDENCE

Post navigation

Previous: Anumānam – Evidence of Inference
Next: Who is Hindu?

Related Stories

Acharya Narad
  • Vedic Sanskrit Culture

Naradaparivrajaka Upanishad: Ancient Text of Vedic Sannyasa (नारदपरिव्राजकोपनिषद्: 1200 BCE)

advtanmoy 15/02/2026
The Story of Varanasi (1993–2000): A Saga of the Celebration of Life
  • Vedic Sanskrit Culture

The Story of Varanasi (1993–2000): A Saga of the Celebration of Life

advtanmoy 22/01/2026
  • Vedic Sanskrit Culture

Yad (यद् )

advtanmoy 20/04/2025
The Encyclopedia of Chaitanya Mahaprabhu

Encyclopedia of Sree Krishna Chaitanya (12-Volume): The Golden Gouranga of Bengal

Encyclopedia of Macroscopic Human Social System Analysis

Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System

Encyclopedia of European Invasions in India

Encyclopedia of European Invasions in India (11-Volume): Colonialism, Resistance, and Restoration

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Deep Grammar of Civilization (13-Volume): What Are the Irreducible Components of Civilization?

Encyclopedia of Begging

Encyclopedia of Begging (6-Volume): A Global History of Asking, Giving, and Resource Acquisition

Encyclopedia of the Communist Party of China

Encyclopedia of the Communist Party of China (31-Volume): Making of Modern Chinese Civilization

Indo-Pakistan war 1971

Encyclopedia of the Indo–Pakistan War of 1971 (5-Volume): The Creation of Bangladesh

Sarvarthapedia

Encyclopedia of India’s Internal and External Intelligence System: Special Emphasis on the (R&AW)

The Encyclopedia of Political History of Bangladesh

Encyclopedia of Political History of Bangladesh (18-Volume): Identity, Liberation, And Democracy

Encyclopedia of Ecumenical Movements

Encyclopedia of Ecumenical Movements (21-Volume): History, Theology, Institutions and Dialogues

Encyclopedia of Dalit Christians and Their Theology

Encyclopedia of Dalit Christians and Their Theology (5-Volume): Crisis of Caste Culture within Christians in India

Encyclopedia of Indian Military Civilization

Encyclopedia of Indian Military Civilization (55-Volume): War Strategy and Armed Institutions From Antiquity to 2026

Sarvarthapedia

Ontology (25-Volume): Encyclopedia of All Known Conceptions of Reality and Existence

Synthesis-of-Greco-Roman-Ideologies-Shaping-Christianity and Historical Critiques of Christianity and Christian Theology

Encyclopedia of Historical Critiques of Christianity and Christian Theology: A (50-Volume) Research and Documentation

Sarvarthapedia Astronautical Engineering Knowledge Universe (SAEKU): A 250-Volume Master Reference for Space Science and Engineering

Astronautical Engineering Knowledge Universe: A 250-Volume Reference for Space Science and Engineering

Encyclopedia of Indian Economy

Encyclopedia of Indian Economy (56-Volume): A Civilisational Perspective

Encyclopedia of Astrology

Encyclopedia of Astrology (15-Volume): The Human Quest to Predict the Future

The Governing of America: A Civilizational Study of the United States Government

Governing the American Government (100-Volume): The Civilizational Encyclopedia of American Governance

Human rights conditions in the United States

Human Rights and United States (15-Volume): Violations, Resistance, and Global Impact

Civilizational History of North America

Civilizational History of North America (315-Volume): The Turtle Island and the American Imperium

Sarvarthapedia

Encyclopedia of Human Technological Civilization (12-Volume)

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Ultimate-Order Concepts (17-Volume): Fundamental Reason for Existence of Intelligence System

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Meta-Civilizational Architecture: How Complex Systems Survive

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Global Encyclopedia (180-Volume) of Intelligence, Espionage, and Counterintelligence

British Parliament

Encyclopedia of the British Parliamentary System: A 100-Volume Statement on British Politics

Encyclopedia of Global Capital Markets (100 Volumes): A Comprehensive Reference to Banking, Securities, Finance, and Investment Systems

The Global Capital Markets Encyclopedia (100-Volume): Reference on Finance, Banking, and Investment Systems

The Atlas of Self-Sabotage: A 12-Volume Encyclopedia of How Lives Quietly Go Wrong

The Atlas of Self-Sabotage: A 12-Volume Encyclopedia of How Lives Quietly Go Wrong

Encyclopedia of History of Ancient and Modern India

Encyclopedia of Ancient and Modern India: A 120-Volume Civilizational Knowledge System

Contemporary World History

Encyclopedia of Contemporary World History (2001–Present): A 100-Volume Statement on World System

Non-Proliferation of Nuclear Weapons: 12-Volume Reference and Research Architecture

Non-Proliferation of Nuclear Weapons: 12-Volume Reference and Research Architecture

Encyclopedia of American Law

Encyclopedia of American Law: 180‑Volume Statement on American Law

Roman empire and Law

Roman Empire Political History (15-Volume): Rise and Destruction (300 BCE – 1453 CE)

India

Encyclopedia of Contemporary Indian Politics: 111-Volume Statement on Indian Politics (1857–2026)

Encyclopedia of Psychology

Encyclopedia of Psychology (12-Volume): Of Mind, Behavior, and Society

The History of Pakistan

History of Pakistan (12-Volume): From Hindustan to an Islamic Republic

Africa and African Union

Encyclopedia of African Studies (10-Volume): History, Culture, and Development

African Studies

African Studies, Synopsis (10-Volume) and How to Study Africa

Encyclopedia of Disease and Disease Detection

Encyclopedia of Disease and Disease Detection (12-Volume): Foundations, Technologies, and Clinical Applications

Sarvarthapedia

Encyclopedia of Religion, Faith, and Beliefs (12-Volume): History, Theology, Politics, and Conflict with Science 

Cyber Security

Cybersecurity Encyclopedia (Volume-8): From ENIAC to Modern Cyber Warfare and Data Protection Laws

Sanatan Dharma

Hindu Scriptures and Interpretation (10-Volume): From Vedic Period up to 2026

Sarvarthapedia

Encyclopedia of Strategic Geography (13-Volume): Spatial Logic of Civilization 

Encyclopedia of Medical Science and Research

Encyclopedia of Medical Science and Research (7-Volume): Early Civilizations to Modern Healthcare Systems

Computer Science

Computer Science Encyclopedia (13-Volume): From Its Theoretical Origins Up To 2026

Sarvarthapedia

Anthropology (12-Volume): The Study of Humankind – From Origins to 2026

Sanatan Dharma

Encyclopedia of Sanatan Dharma: Society, Politics, Militia, Rituals, and Philosophy of Vedic Civilization

ISRAEL

Jewish Encyclopedia Library (52-Volume): Jewish Canon, Israel, and Diaspora Life

Encyclopedia of Indian Law

Indian Law Encyclopedia: 101-Volume Statement on Indian Law

  • Anosh Ekka v. CBI (2026 INSC 357): SC Grants Bail to Former Jharkhand Minister in CBI DA Case
  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Ram v. Sukhram: Tribal women’s right in ancestral property [2025] 8 SCR 272
  • Indian Constitution
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders

Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System

West Bengal Govt Budget Statement In Bengali (2026-2027) by Swapan Dasgupta

Encyclopedia of Physical Measurement (3-Volume)

West Bengal Day, 20 June: History of the Formation of West Bengal in 1947

Noble Bengali Families of Kolkata (1760–1860): Rise of Abhijat Bhadralok in Colonial Bengal

Bishop’s College Kolkata: India’s Oldest Anglican Theological Institution (1820–2026)

Sarvarthapedia

  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subjects
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia Meta-Concept
  • Contact Us
  • Privacy Policy
  • FAQs
  • NEET
  • Library Updates
2026 All rights reserved © Advocatetanmoy Law Library by advocatetanmoy.