Ramayana Uttar Kandam

श्रीमद्रामायण उत्तरकाण्डम् Ramayana Uttar Kandam in Sanskrit Language

Total 111 Chapters

Comment: The Book called ‘Ramayana Uttar Kandam’ is an independent book, was written by some unknown person. Balmiki Ramayan, written by Maharshi Balmiki has only six chapters and finished with the coronation or Lord Rama.

प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते
आजग्मुरृषयःसर्वे राघवं प्रतिनन्दितुम् 1
कौशिकोऽथ यवक्रीतो रैभ्यश्च्यवन एव च
कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः2
स्वस्त्यात्रेयश्च भगवान्नमुचुः प्रमुचुस्तथा
आजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम् 3
पृषद्गुः कवषो धौम्यो रौद्रे यश्च महानृषिः
तेऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् 4
वसिष्ठः कश्यपोऽथात्रिर्विश्वामित्रोऽथ गौतमः
जमदग्निर्भरद्वाजस्तेऽपि सप्त महर्षयः 5
संप्राप्यैते महात्मानो राघवस्य निवेशनम्
विष्ठिताः प्रतिहारार्थं हुताशनसमप्रभाः6
प्रतिहारस्ततस्तूर्णमगस्त्यवचनादथ
समीपं राघवस्याशु प्रविवेश महात्मनः 7
स रामं दृश्य सहसा पूर्णचन्द्र समद्युतिम्
अगस्त्यं कथयामास संप्राप्तमृषिभिः सह 8
श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान्
तदोवाच नृपो द्वाःस्थं प्रवेशय यथासुखम् 9
दृष्ट्वा प्राप्तान्मुनींस्तांस्तु प्रत्युत्थाय कृताञ्जलि
रामोऽभिवाद्य प्रयत आसनान्यादिदेश ह 10
तेषु काञ्चनचित्रेषु स्वास्तीर्णेषु सुखेषु च
यथार्हमुपविष्टास्ते आसनेष्वृषिपुंगवाः 11
रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः
महर्षयो वेदविदो रामं वचनमब्रुवन् 12
कुशलं नो महाबाहो सर्वत्र रघुनन्दन
त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् 13
न हि भारः स ते राम रावणो राक्षसेश्वरः
सधनुस्त्वं हि लोकांस्त्रीन्विजयेथा न संशयः 14
दिष्ट्या त्वया हतो राम रावणः पुत्रपौत्रवान्
दिष्ट्या विजयिनं त्वाद्य पश्यामः सह भार्यया 15
दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः
अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः 16
यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते
दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः 17
दिष्ट्या त्वं राक्षसेन्द्रे ण द्वंद्वयुद्धमुपागतः
देवतानामवध्येन विजयं प्राप्तवानसि 18
संख्ये तस्य न किंचित्तु रावणस्य पराभवः
द्वंद्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः 19
दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः
मुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया 20
विस्मयस्त्वेष नः सौम्य संश्रुत्येन्द्र जितं हतम्
अवध्यः सर्वभूतानां महामायाधरो युधि 21
दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम्
दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन 22
श्रुत्वा तु वचनं तेषामृषीणां भावितात्मनाम्
विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् 23
भवन्तः कुम्भकर्णं च रावणं च निशाचरम्
अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् 24
महोदरं प्रहस्तं च विरूपाक्षं च राक्षसम्
अतिक्रम्य महावीर्यान्किं प्रशंसथ रावणिम् 25
कीदृशो वै प्रभावोऽस्य किं बलं कः पराक्रमः
केन वा कारणेनैष रावणादतिरिच्यते 26
शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः
यदि गुह्यं न चेद्वक्तुं श्रोतुमिच्छामि कथ्यताम्
कथं शक्रो जितस्तेन कथं लब्धवरश्च सः 27
इति श्रीरामायणे उत्तरकाण्डे प्रथमः सर्गः 1

7-2
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः
कुम्भयोनिर्महातेजा वाक्यमेतदुवाच ह 1
शृणु राजन्यथा वृत्तं तस्य तेजोबलं महत्
जघान च रिपून्युद्धे यथावध्यश्च शत्रुभिः 2
अहं ते रावणस्येदं कुलं जन्म च राघव
वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते 3
पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः
पुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः 4
नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा
प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः 5
स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः
तृणबिन्द्वाश्रमं गत्वा न्यवसन्मुनिपुंगवः6
तपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रि यः
गत्वाश्रमपदं तस्य विघ्नं कुर्वन्तिकन्यकाः 7
देवपन्नगकन्याश्च राजर्षितनयाश्चिय्!इ!
क्रीडन्त्योऽप्सरसश्चैव तं देशमुपपेदिरे 8
सर्वर्तुषूपभोग्यत्वाद्र म्यत्वात्काननस्य च
नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः 9
अथ रुष्टो महातेजा व्याजहार महामुनिः
या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति 10
तास्तु सर्वाः प्रतिगताः श्रुत्वा वाक्यं महात्मनः
ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः 11
तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत्
गत्वाश्रमपदं तस्य विचचार सुनिर्भया 12
तस्मिन्नेव तु काले स प्राजापत्यो महानृषिः
स्वाध्यायमकरोत्तत्र तपसा द्योतितप्रभः 13
सा तु वेदध्वनिं श्रुत्वा दृष्ट्वा चैव तपोधनम्
अभवत्पाण्डुदेहा सा सुव्यञ्जितशरीरजा 14
दृष्ट्वा परमसंविग्ना सा तु तद्रू पमात्मनः
इदं मे किं न्विति ज्ञात्वा पितुर्गत्वाग्रतः स्थिता 15
तां तु दृष्ट्वा तथाभूतां तृणबिन्दुरथाब्रवीत्
किं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः 16
सा तु कृत्वाञ्जलि दीना कन्योवाच तपोधनम्
न जाने कारणं तात येन मे रूपमीदृशम् 17
किं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः
पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् 18
न च पश्याम्यहं तत्र कांचिदप्यागतां सखीम्
रूपस्य तु विपर्यासं दृष्ट्वा चाहमिहागता 19
तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः
ध्यानं विवेश तच्चापि अपश्यदृषिकर्मजम् 20
स तु विज्ञाय तं शापं महर्षेर्भावितात्मनः
गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् 21
भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम्
भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् 22
तपश्चरणयुक्तस्य श्राम्यमाणेन्द्रि यस्य ते
शुश्रूषातत्परा नित्यं भविष्यति न संशयः 23
तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा
जिघृक्षुरब्रवीत्कन्यां बाढमित्येव स द्विजः 24
दत्त्वा तु स गतो राजा स्वमाश्रमपदं तदा
साऽपि तत्राऽवसत्कन्या तोषयन्ती पतिं गुणैः
प्रीतः स तु महातेजा वाक्यमेतदुवाच ह 25
परितुष्टोऽस्मि भद्रं ते गुणानां संपदा भृशम्
तस्मात्ते वितराम्यद्य पुत्रमात्मसमं गुणैः
उभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम् 26
यस्मात्तु विश्रुतो वेदस्त्वयेहाभ्यस्यतो मम
तस्मात्स विश्रवा नाम भविष्यति न संशयः 27
एवमुक्ता तु सा कन्या प्रहृष्टेनान्तरात्मना
अचिरेणैव कालेन सूता विश्रवसं सुतम् 28
स तु लोकत्रये ख्यातः शौचधर्मसमन्वितः
पितेव तपसा युक्तो विश्रवा मुनिपुंगवः 29
इति श्रीरामायणे उत्तरकाण्डे द्वितीयः सर्गः 2
7-3
अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुंगवः
अचिरेणैव कालेन पितेव तपसि स्थितः 1
सत्यवाञ्शीलवान्दक्षः स्वाध्यायनिरतः शुचिः
सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः 2
ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महानृषि
ददौ विश्रवसे भार्यां स्वां सुतां देववर्णिनीम् 3
प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा
मुदा परमया युक्तो विश्रवा मुनिपुंगवः 4
स तस्यां वीर्यसम्पन्नमपत्यंपरमाद्भुतम्
जनयामास धर्मात्मा सर्वैर्ब्रह्मगुणैर्युतम् 5
तस्मिञ्जाते तु संहृष्टः स बभूव पितामहः
नाम चास्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा6
यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इव
तस्माद्वैश्रवणो नाम भविष्यत्येष विश्रुतः 7
स तु वैश्रवणस्तत्र तपोवनगतस्तदा
अवर्धत महातेजा हुताहुतिरिवानलः 8
तस्याश्रमपदस्थस्य बुद्धिर्जिज्ञे महात्मनः
चरिष्ये नियतो धर्मं धर्मो हि परमा गतिः 9
स तु वर्षसहस्राणि तपस्तप्त्वा महावने
पूर्णे वर्षसहस्रे तु तं तं विधिमवर्तत 10
जलाशी मारुताहारो निराहारस्तथैव च
एवं वर्षसहस्राणि जग्मुस्तान्येकवर्षवत् 11
अथ प्रीतो महातेजाः सेन्द्रै ः! सुरगणैः सह
गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत् 12
परितुष्टोऽस्मि ते वत्स कर्मणानेन सुव्रत
वरं वृणीष्व भद्रं ते वरार्हस्त्वं हि मे मतः 13
अथाब्रवीद्वैश्रवणः पितामहमुपस्थितम्
भगवँ ल्लोकपालत्वमिच्छेयं वित्तरक्षणम् 14
ततोइ!ऽब्रवीद्वैश्रवणं परितुष्टेन चेतसा
ब्रह्मा सुरगणैःसार्धं बाढमित्येव हृष्टवत् 15
अहं हि लोकपालानां चतुर्थं स्रष्टुमुद्यतः
यमेन्द्र वरुणानां हि पदं यत्तव चेप्सितम् 16
तत्कृतं गच्छ धर्मज्ञ धनेशत्वमवाप्नुहि
यमेन्द्र वरुणानां हि चतुर्थोऽद्य भविष्यसि 17
एतच्च पुष्पकं नाम विमानं सूर्यसंनिभम्
प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज 18
स्वस्ति तेऽस्तु गमिष्यामः सर्व एव यथागतम्
कृतकृत्या वयं तात दत्त्वा तव महावरम् 19
गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्तलम्
धनेशः पितरं प्राह विनयात्प्रणतोवचः 20
भगवँ ल्लब्धवानस्मि वरं कमलयोनितः
निवासं न तु मे देवो विदधे स प्रजापतिः 21
तत्पश्य भगवन्कंचिद्देशं वासाय नः प्रभो
न च पीडा भवेद्यत्र प्राणिनो यस्य कस्यचित् 22
एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुंगवः
वचनं प्राह धर्मज्ञ श्रूयतामिति धर्मवित् 23
लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा
राक्षसानां निवासार्थं यथेन्द्र स्यामरावती 24
रमणीया पुरी सा हि रुक्मवैदूर्यतोरणा
राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः
शून्या रक्षोगणैः सर्वै रसातलतलं गतैः 25
स त्वं तत्र निवासाय रोचयस्व मतिं स्वकाम्
निर्दोषस्तत्र ते वासो न च बाधास्ति कस्यचित् 26
एतच्छ्रुत्वा तु धर्मात्माधर्मिष्ठं वचनं पितुः
निवेशयामास तदा लङ्कां पर्वतमूर्धनि 27
नैरृतानां सहस्रैस्तु हृष्टैः प्रमुदितैः सदा
अचिरेणैवकालेन संपूर्णा तस्य शासनात् 28
अथ तत्रावसत्प्रीतो धर्मात्मा नैरृताधिपः
समुद्र परिधानायां लङ्कायां विश्रवात्मजः 29
काले काले विनीतात्मा पुष्पकेण धनेश्वरः
अभ्यगच्छत्सुसंहृष्टः पितरं मातरं च सः 30
स देवगन्धर्वगणैरभिष्टुत
स्तथैव सिद्धैः सह चारणैरपि
गभस्तिभिः सूर्य इवौजसा वृतः
पितुः समीपं प्रययौ श्रिया वृतः 31
इति श्रीरामायणे उत्तरकाण्डे तृतीयः सर्गः 3

7-4
श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयमागतः
पूर्वमासीत्तु लङ्कायां रक्षसामिति संभवः 1
ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम्
अगस्त्यं तं मुर्हुर्दृष्ट्वा स्मयमानोऽभ्यभाषत 2
भगवन्पूर्वमप्येषा लङ्कासीत्पिशिताशिनाम्
इतीदं भवतः श्रुत्वा विस्मयो जनितो मम 3
पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम्
इदानीमन्यतश्चापि संभवः कीर्तितस्त्वया 4
रावणात्कुम्भकर्णाच्च प्रहस्ताद्विकटादपि
रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः 5
क एषां पूर्वको ब्रह्मन्किंनामा किंतपोबलः
अपराधं च कं प्राप्य विष्णुना द्रा विताः पुरा6
एतद्विस्तरतः सर्वं कथयस्व ममानघ
कौतूहलं कृतं मह्यं नुद भानुर्यथा तमः 7
राघवस्य तु तच्छ्रुत्वा संस्कारालंकृतं वचः
ईषद्विस्मयमानस्तमगस्त्यः प्राह राघवम् 8
प्रजापतिः पुरा सृष्ट्वा अपः सलिलसंभवः
तासां गोपायने सत्त्वानसृजत्पद्मसंभवः 9
ते सत्त्वाः सत्त्वकर्तारं विनीतवदुपस्थिताः
किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः 10
प्रजापतिस्तु तान्याह सत्त्वानि प्रहसन्निव
आभाष्युवाचा यत्नेन रक्षध्वमिति मानदः 11
रक्षाम इति तत्रान्यैर्यक्षामेति तथापरैः
भुङ्क्षिताभुङ्क्षितैरुक्तस्ततस्तानाह भूतकृत् 12
रक्षाम इति यैरुक्तं राक्षसास्ते भवन्तु वः
यक्षाम इति यैरुक्तं ते वै यक्षा भवन्तु वः 13
तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसर्षभौ
मधुकैटभसंकाशौ बभूवतुररिंदमौ 14
प्रहेतिर्धार्मिकस्तत्र न दारान्सोऽभिकाङ्क्षति
हेतिर्दारक्रियार्थं तु यत्नं परमथाकरोत् 15
स कालभगिनीं कन्यां भयां नाम भयावहाम्
उदावहदमेयात्मा स्वयमेव महामतिः 16
स तस्यां जनयामास हेती राक्षसपुंगवः
पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् 17
विद्युत्केशो हेतिपुत्रः प्रदीप्ताग्निसमप्रभः
व्यवर्धत महातेजास्तोयमध्य इवाम्बुजम् 18
स यदा यौवनं भद्र मनुप्राप्तो निशाचरः
ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता 19
संध्यादुहितरं सोऽथ संध्यातुल्यां प्रभावतः
वरयामास पुत्रार्थं हेती राक्षसपुंगवः 20
अवश्यमेव दातव्या परस्मै सेति संध्यया
चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव 21
संध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः
रमते स तया सार्धं पौलोम्या मघवानिव 22
केनचित्त्वथ कालेन राम सालकटंकटा
विद्युत्केशाद्गर्भमाप घनराजिरिवार्णवात् 23
ततः सा राक्षसी गर्भं घनगर्भसमप्रभम्
प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्निजम् 24
तमुत्सृज्य तु सा गर्भं विद्युत्केशाद्र तार्थिनी
रेमे सा पतिना सार्धं विस्मृत्य सुतमात्मजम् 25
तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः
पाणिमास्ये समाधाय रुरोद घनराडिव 26
अथोपरिष्टाद्गच्छन्वै वृषभस्थो हरः प्रभुः
अपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम् 27
कारुण्यभावात्पार्वत्या भवस्त्रिपुरहा ततः
तं राक्षसात्मजं चक्रे मातुरेव वयःसमम् 28
अमरं चैव तं कृत्वा महादेवोऽक्षयोऽव्ययः
पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया 29
उमयापि वरो दत्तो राक्षसीनां नृपात्मज
सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च
सद्य एव वयःप्राप्तिर्मातुरेव वयःसमम् 30
ततः सुकेशो वरदानगर्वितः
श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः
चचार सर्वत्र महामतिः खगः
खगं पुरं प्राप्य पुरंदरो यथा 31
इति श्रीरामायणे उत्तरकाण्डे चतुर्थः सर्गः 4

7-5
सुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसम्
ग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः 1
तस्य देववती नाम द्वितीया श्रीरिवात्मजा
तां सुकेशाय धर्मेण ददौ दक्षः श्रियं यथा 2
वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम्
आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः 3
स तया सह संयुक्तो रराज रजनीचरः
अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः 4
देववत्यां सुकेशस्तु जनयामास राघव
त्रींस्त्रिनेत्रसमान्पुत्रान्राक्षसान्राक्षसाधिपः
माल्यवन्तं सुमालि च मालि च बलिनां वरम् 5
त्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयः
त्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः6
त्रयः सुकेशस्य सुतास्त्रेताग्निसमवर्चसः
विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव 7
वरप्राप्तिं पितुस्ते तु ज्ञात्वैश्वर्यं ततो महत्
तपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः 8
प्रगृह्य नियमान्घोरान्राक्षसा नृपसत्तम
विचेरुस्ते तपो घोरं सर्वभूतभयावहम् 9
सत्यार्जवदमोपेतैस्तपोभिर्भुवि दुष्करैः
संतापयन्तस्त्रीँ ल्लोकान्सदेवासुरमानुषान् 10
ततो विभुश्चतुर्वक्त्रो विमानवरमास्थितः
सुकेशपुत्रानामन्त्र्! य वरदोऽस्मीत्यभाषत 11
ब्रह्माणं वरदं ज्ञात्वा सेन्द्रै र्देवगणैर्वृतम्
ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः 12
तपसाराधितो देव यदि नो दिशसे वरम्
अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः
प्रभविष्णवो भवामेति परस्परमनुव्रताः 13
एवं भविष्यतीत्युक्त्वा सुकेशतनयान्प्रभुः
प्रययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः 14
वरं लब्ध्वा ततः सर्वे राम रात्रिंचरास्तदा
सुरासुरान्प्रबाधन्ते वरदानात्सुनिर्भयाः 15
तैर्वध्यमानास्त्रिदशाः सर्षिसंघाः सचारणाः
त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः 16
अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम्
ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम 17
गृहकर्ता भवानेव देवानां हृदयेप्सितम्
अस्माकमपि तावत्त्वं गृहं कुरु महामते 18
हिमवन्तं समाश्रित्य मेरुं मन्दरमेव वा
महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत् 19
विश्वकर्मा ततस्तेषां राक्षसानां महाभुजः
निवासं कथयामास शक्रस्येवामरावतीम् 20
दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः
शिखरे तस्य शैलस्य मध्यमेऽम्बुदसंनिभे
शकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि 21
त्रिंशद्योजनविस्तीर्णा स्वर्णप्राकारतोरणा
मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता 22
तस्यां वसत दुर्धर्षाः पुर्यां राक्षससत्तमाः
अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः 23
लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः
भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः 24
विश्वकर्मवचः श्रुत्वा ततस्ते राम राक्षसाः
सहस्रानुचरा गत्वा लङ्कां तामवसन्पुरीम् 25
दृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम्
लङ्कामवाप्य ते हृष्टा विहरन्ति निशाचराः 26
नर्मदा नाम गन्धर्वी नानाधर्मसमेधिता
तस्याः कन्यात्रयं ह्यासीद्ध्रीश्रीकीर्तिसमद्युति 27
ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी
कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्र निभाननाः 28
त्रयाणां राक्षसेन्द्रा णां तिस्रो गन्धर्वकन्यकाः
मात्रा दत्ता महाभागा नक्षत्रे भगदैवते 29
कृतदारास्तु ते राम सुकेशतनयाः प्रभो
भार्याभिः सह चिक्रीडुरप्सरोभिरिवामराः 30
तत्र माल्यवतो भार्या सुन्दरी नाम सुन्दरी
स तस्यां जनयामास यदपत्यं निबोध तत् 31
वज्रमुष्टिर्विरूपाक्षो दुर्मुखश्चैव राक्षसः
सुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च
अनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी 32
सुमालिनोऽपि भार्यासीत्पूर्णचन्द्र निभानना
नाम्ना केतुमती नाम प्राणेभ्योऽपि गरीयसी 33
सुमाली जनयामास यदपत्यं निशाचरः
केतुमत्यां महाराज तन्निबोधानुपूर्वशः 34
प्रहस्तोऽकम्पनश्चैव विकटः कालकार्मुकः
धूम्राक्षश्चाथ दण्डश्च सुपार्श्वश्च महाबलः 35
संह्रादिः प्रघसश्चैव भासकर्णश्च राक्षसः
राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता
कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः 36
मालेस्तु वसुदा नाम गन्धर्वी रूपशालिनी
भार्यासीत्पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा 37
सुमालेरनुजस्तस्यां जनयामास यत्प्रभो
अपत्यं कथ्यमानं तन्मया त्वं शृणु राघव 38
अनलश्चानिलश्चैव हरः संपातिरेव च
एते विभीषणामात्या मालेयास्ते निशाचराः 39
ततस्तु ते राक्षसपुंगवास्त्रयो
निशाचरैः पुत्रशतैश्च संवृताः
सुरान्सहेन्द्रा नृषिनागदानवा
न्वबाधिरे ते बलवीर्यदर्पिताः 40
जगद्भ्रमन्तोऽनिलवद्दुरासदा
रणे च मृत्युप्रतिमाः समाहिताः
वरप्रदानादभिगर्विता भृशं
क्रतुक्रियाणां प्रशमंकराः सदा 41
इति श्रीरामायणे उत्तरकाण्डे पञ्चमः सर्गः 5

7-6
तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः
भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम् 1
ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम्
ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः 2
सुकेशपुत्रैर्भगवन्पितामहवरोद्धतैः
प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधन 3
शरण्यान्यशरण्यानि आश्रमाणि कृतानि नः
स्वर्गाच्च च्यावितः शक्रः स्वर्गे क्रीडन्ति शक्रवत् 4
अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम्
अहं यमोऽह वरुणश्चन्द्रो ऽह रविरप्यहम् 5
इति ते राक्षसा देव वरदानेन दर्पिताः
बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः6
तन्नो देव भयार्तानामभयं दातुमर्हसि
अशिवं वपुरास्थाय जहि दैवतकण्टकान् 7
इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः
सुकेशं प्रति सापेक्ष आह देवगणान्प्रभुः 8
नाहं तान्निहनिष्यामि अवध्या मम तेऽसुराः
किं तु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति 9
एवमेव समुद्योगं पुरस्कृत्य सुरर्षभाः
गच्छन्तु शरणं विष्णुं हनिष्यति स तान्प्रभुः 10
ततस्ते जयशब्देन प्रतिनन्द्य महेश्वरम्
विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः 11
शङ्खचक्रधरं देवं प्रणम्य बहु मान्य च
ऊचुः संभ्रान्तवद्वाक्यं सुकेशतनयार्दिताः 12
सुकेशतनयैर्देव त्रिभिस्त्रेताग्निसंनिभैः
आक्रम्य वरदानेन स्थानान्यपहृतानि नः 13
लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता
तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः 14
स त्वमस्मत्प्रियार्थं तु जहि तान्मधुसूदन
चक्रकृत्तास्यकमलान्निवेदय यमाय वै 15
भयेष्वभयदोऽस्माकं नान्योऽस्ति भवता समः
नुद त्वं नो भयं देव नीहारमिव भास्करः 16
इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः
अभयं भयदोऽरीणां दत्त्वा देवानुवाच ह 17
सुकेशं राक्षसं जाने ईशानवरदर्पितम्
तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान् 18
तानहं समतिक्रान्तमर्यादान्राक्षसाधमान्
सूदयिष्यामि संग्रामे सुरा भवत विज्वराः 19
इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना
यथावासं ययुर्हृष्टाः प्रशंसन्तो जनार्दनम् 20
विबुधानां समुद्योगं माल्यवान्स निशाचरः
श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत् 21
अमरा ऋषयश्चैव संहत्य किल शंकरम्
अस्मद्वधं परीप्सन्त इदमूचुस्त्रिलोचनम् 22
सुकेशतनया देव वरदानबलोद्धताः
बाधन्तेऽस्मान्समुद्युक्ता घोररूपाः पदे पदे 23
राक्षसैरभिभूताः स्म न शक्ताः स्म उमापते
स्वेषु वेश्मसु संस्थातुं भयात्तेषां दुरात्मनाम् 24
तदस्माकं हितार्थे त्वं जहि तांस्तांस्त्रिलोचन
राक्षसान्हुंकृतेनैव दह प्रदहतां वर 25
इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः
शिरः करं च धुन्वान इदं वचनमब्रवीत् 26
अवध्या मम ते देवाः सुकेशतनया रणे
मन्त्रं तु वः प्रदास्यामि यो वै तान्निहनिष्यति 27
यः स चक्रगदापाणिः पीतवासा जनार्दनः
हनिष्यति स तान्युद्धे शरणं तं प्रपद्यथ 28
हरान्नावाप्य ते कामं कामारिमभिवाद्य च
नारायणालयं प्राप्तास्तस्मै सर्वं न्यवेदयन् 29
ततो नारायणेनोक्ता देवा इन्द्र पुरोगमाः
सुरारीन्सूदयिष्यामि सुरा भवत विज्वराः 30
देवानां भयभीतानां हरिणा राक्षसर्षभौ
प्रतिज्ञातो वधोऽस्माकं तच्चिन्तयथ यत्क्षमम् 31
हिरण्यकशिपोर्मृत्युरन्येषां च सुरद्विषाम्
दुःखं नारायणं जेतुं यो नो हन्तुमभीप्सति 32
ततः सुमाली माली च श्रुत्वा माल्यवतो वचः
ऊचतुर्भ्रातरं ज्येष्ठं भगांशाविव वासवम् 33
स्वधीतं दत्तमिष्टं च एश्वर्यं परिपालितम्
आयुर्निरामयं प्राप्तं स्वधर्मः स्थापितश्च नः 34
देवसागरमक्षोभ्यं शस्त्रौघैः प्रविगाह्य च
जिता देवा रणे नित्यं न नो मृत्युकृतं भयम् 35
नारायणश्च रुद्र श्च शक्रश्चापि यमस्तथा
अस्माकं प्रमुखे स्थातुं सर्व एव हि बिभ्यति 36
विष्णोर्दोषश्च नास्त्यत्र कारणं राक्षसेश्वर
देवानामेव दोषेण विष्णोः प्रचलितं मनः 37
तस्मादद्य समुद्युक्ताः सर्वसैन्यसमावृताः
देवानेव जिघांसामो येभ्यो दोषः समुत्थितः 38
इति माली सुमाली च माल्यवानग्रजः प्रभुः
उद्योगं घोषयित्वाथ राक्षसाः सर्व एव ते
युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव 39
स्यन्दनैर्वारणेन्द्रै श्च हयैश्च गिरिसंनिभैः
खरैर्गोभिरथोष्ट्रैश्च शिंशुमारैर्भुजंगमैः 40
मकरैः कच्छपैर्मीनैर्विहंगैर्गरुडोपमैः
सिंहैर्व्याघ्रैर्वराहैश्च सृमरैश्चमरैरपि 41
त्यक्त्वा लङ्कां ततः सर्वे राक्षसा बलगर्विताः
प्रयाता देवलोकाय योद्धुं दैवतशत्रवः 42
लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्यथ
भूतानि भयदर्शीनि विमनस्कानि सर्वशः 43
भौमास्तथान्तरिक्षाश्च कालाज्ञप्ता भयावहाः
उत्पाता राक्षसेन्द्रा णामभावायोत्थिता द्रुतम् 44
अस्थीनि मेघा वर्षन्ति उष्णं शोणितमेव च
वेलां समुद्रो ऽप्युत्क्रान्तश्चलन्ते चाचलोत्तमाः 45
अट्टहासान्विमुञ्चन्तो घननादसमस्वनान्
भूताः परिपतन्ति स्म नृत्यमानाः सहस्रशः 46
गृध्रचक्रं महच्चापि ज्वलनोद्गारिभिर्मुखैः
राक्षसानामुपरि वै भ्रमते कालचक्रवत् 47
तानचिन्त्य महोत्पातान्राक्षसा बलगर्विताः
यान्त्येव न निवर्तन्ते मृत्युपाशावपाशिताः 48
माल्यवांश्च सुमाली च माली च रजनीचराः
आसन्पुरःसरास्तेषां क्रतूनामिव पावकाः 49
माल्यवन्तं तु ते सर्वे माल्यवन्तमिवाचलम्
निशाचरा आश्रयन्ते धातारमिव देहिनः50
तद्बलं राक्षसेन्द्रा णां महाभ्रघननादितम्
जयेप्सया देवलोकं ययौ मालीवशे स्थितम् 51
राक्षसानां समुद्योगं तं तु नारायणः प्रभुः
देवदूतादुपश्रुत्य दध्रे युद्धे ततो मनः 52
स देवसिद्धर्षिमहोरगैश्च
गन्धर्वमुख्याप्सरसोपगीतः
समाससादामरशत्रुसैन्यं
चक्रासिसीरप्रवरादिधारी 53
सुपर्णपक्षानिलनुन्नपक्षं
भ्रमत्पताकं प्रविकीर्णशस्त्रम्
चचाल तद्रा क्षसराजसैन्यं
चलोपलो नील इवाचलेन्द्र ः! 54
ततः शितैः शोणितमांसरूषितै
र्युगान्तवैश्वानरतुल्यविग्रहैः
निशाचराः संपरिवार्य माधवं
वरायुधैर्निर्बिभिदुः सहस्रशः 55
इति श्रीरामायणे उत्तरकाण्डे षष्ठः सर्गः6

7-7
नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः
अवर्षन्निषुवर्षेण वर्षेणाद्रि मिवाम्बुदाः 1
श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तंचरोत्तमैः
वृतोऽञ्जनगिरीवासीद्वर्षमाणैः पयोधरैः 2
शलभा इव केदारं मशका इव पर्वतम्
यथामृतघटं जीवा मकरा इव चार्णवम् 3
तथा रक्षोधनुर्मुक्ता वज्रानिलमनोजवाः
हरिं विशन्ति स्म शरा लोकास्तमिव पर्यये 4
स्यन्दनैः स्यन्दनगता गजैश्च गजधूर्गताः
अश्वारोहाः सदश्वैश्च पादाताश्चाम्बरेचराः 5
राक्षसेन्द्रा गिरिनिभाः शरशक्त्यृष्टितोमरैः
निरुच्छ्वासं हरिं चक्रुः प्राणायाम इव द्विजम्6
निशाचरैस्तुद्यमानो मीनैरिव महातिमिः
शार्ङ्गमायम्य गात्राणि राक्षसानां महाहवे 7
शरैः पूर्णायतोत्सृष्टैर्वज्रवक्त्रैर्मनोजवैः
चिच्छेद तिलशो विष्णुः शतशोऽथ सहस्रशः 8
विद्रा व्य शरवर्षं तं वर्षं वायुरिवोत्थितम्
पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः 9
सोऽम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट्
ररास भीमनिह्रादो युगान्ते जलदो यथा 10
शङ्खराजरवः सोऽथ त्रासयामास राक्षसान्
मृगराज इवारण्ये समदानिव कुञ्जरान् 11
न शेकुरश्वाः संस्थातुं विमदाः कुञ्जराभवन्
स्यन्दनेभ्यश्च्युता योधाः शङ्खरावितदुर्बलाः 12
शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः
विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम् 13
भिद्यमानाः शरैश्चान्ये नारायणधनुश्च्युतैः
निपेतू राक्षसा भीमाः शैला वज्रहता इव 14
व्रणैर्व्रणकरारीणामधोक्षजशरोद्भवैः
असृक्क्षरन्ति धाराभिः स्वर्णधारामिवाचलाः 15
शङ्खराजरवश्चापि शार्ङ्गचापरवस्तथा
राक्षसानां रवांश्चापि ग्रसते वैष्णवो रवः 16
सूर्यादिव करा घोरा ऊर्मयः सागरादिव
पर्वतादिव नागेन्द्रा वार्योघा इव चाम्बुदात् 17
तथा बाणा विनिर्मुक्ताः शार्ङ्गान्नारायणेरिताः
निर्धावन्तीषवस्तूर्णं शतशोऽथ सहस्रशः 18
शरभेण यथा सिंहाः सिंहेन द्विरदा यथा
द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा 19
द्वीपिना च यथा श्वानः शुना मार्जारका यथा
मार्जारेण यथा सर्पाः सर्पेण च यथाखवः 20
तथा ते राक्षसा युद्धे विष्णुना प्रभविष्णुना
द्र वन्ति द्रा विताश्चैव शायिताश्च महीतले 21
राक्षसानां सहस्राणि निहत्य मधुसूदनः
वारिजं नादयामास तोयदं सुरराडिव 22
नारायणशरग्रस्तं शङ्खनादसुविह्वलम्
ययौ लङ्कामभिमुखं प्रभग्नं राक्षसं बलम् 23
प्रभग्ने राक्षसबले नारायणशराहते
सुमाली शरवर्षेण आववार रणे हरिम् 24
उत्क्षिप्य हेमाभरणं करं करमिव द्विपः
ररास राक्षसो हर्षात्सतडित्तोयदो यथा 25
सुमालेर्नर्दतस्तस्य शिरो ज्वलितकुण्डलम्
चिच्छेद यन्तुरश्वाश्च भ्रान्तास्तस्य तु रक्षसः 26
तैरश्वैर्भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः
इन्द्रि याश्वैर्यथा भ्रान्तैर्धृतिहीनो यथा नरः 27
माली चाभ्यद्र वद्यिउ!द्धेइ! प्रगृह्य सशरं धनुः
मालेर्धनुश्च्युता बाणाः कार्तस्वरविभूषिताः
विविशुर्हरिमासाद्य क्रौञ्चं पत्ररथा इव 28
अर्द्यमानः शरैः सोऽथ मालिमुक्तैः सहस्रशः
चुक्षुभे न रणे विष्णुर्जितेन्द्रि य इवाधिभिः 29
अथ मौर्वीस्वनं कृत्वा भगवान्भूतभावनः
मालिनं प्रति बाणौघान्ससर्जासिगदाधरः 30
ते मालिदेहमासाद्य वज्रविद्युत्प्रभाः शराः
पिबन्ति रुधिरं तस्य नागा इव पुरामृतम् 31
मालिनं विमुखं कृत्वा मालिमौलि हरिर्बलात्
रथं च सध्वजं चापं वाजिनश्च न्यपातयत् 32
विरथस्तु गदां गृह्य माली नक्तंचरोत्तमः
आपुप्लुवे गदापाणिर्गिर्यग्रादिव केसरी 33
स तया गरुडं संख्ये ईशानमिव चान्तकः
ललाटदेशेऽभ्यहनद्वज्रेणेन्द्रो यथाचलम् 34
गदयाभिहतस्तेन मालिना गरुडो भृशम्
रणात्पराङ्मुखं देवं कृतवान्वेदनातुरः 35
पराङ्मुखे कृते देवे मालिना गरुडेन वै
उदतिष्ठन्महानादो रक्षसामभिनर्दताम् 36
रक्षसां नदतांनादं श्रुत्वा हरिहयानुजः
पराङ्मुखोऽप्युत्ससर्ज चक्रं मालिजिघांसया 37
तत्सूर्यमण्डलाभासं स्वभासा भासयन्नभः
कालचक्रनिभं चक्रं मालेः शीर्षमपातयत् 38
तच्छिरो राक्षसेन्द्र स्य चक्रोत्कृत्तं विभीषणम्
पपात रुधिरोद्गारि पुरा राहुशिरो यथा 39
ततः सुरैः सुसंहृष्टैः सर्वप्राणसमीरितः
सिंहनादरवो मुक्तः साधु देवेति वादिभिः 40
मालिनं निहतं दृष्ट्वा सुमाली माल्यवानपि
सबलौ शोकसंतप्तौ लङ्कां प्रति विधावितौ 41
गरुडस्तु समाश्वस्तः संनिवृत्य महामनाः
राक्षसान्द्रा वयामास पक्षवातेन कोपितः 42
नारायणोऽपीषुवराशनीभि-
र्विदारयामास धनुःप्रमुक्तैः
नक्तंचरान्मुक्तविधूतकेशा
न्यथाशनीभिः सतडिन्महेन्द्र ः! 43
भिन्नातपत्रं पतमानशस्त्रं
शरैरपध्वस्तविशीर्णदेहम्
विनिःसृतान्त्रं भयलोलनेत्रं
बलं तदुन्मत्तनिभं बभूव 44
सिंहार्दितानामिव कुञ्जराणां
निशाचराणां सहकुञ्जराणाम्
रवाश्च वेगाश्च समं बभूवुः
पुराणसिंहेन विमर्दितानाम् 45
संछाद्यमाना हरिबाणजालैः
स्वबाणजालानि समुत्सृजन्तः
धावन्ति नक्तंचरकालमेघा
वायुप्रणुन्ना इव कालमेघाः 46
चक्रप्रहारैर्विनिकृत्तशीर्षाः
संचूर्णिताङ्गाश्च गदाप्रहारैः
असिप्रहारैर्बहुधा विभक्ताः
पतन्ति शैला इव राक्षसेन्द्रा ः! 47
चक्रकृत्तास्यकमला गदासंचूर्णितोरसः
लाङ्गलग्लपितग्रीवा मुसलैर्भिन्नमस्तकाः 48
केचिच्चैवासिना छिन्नास्तथान्ये शरताडिताः
निपेतुरम्बरात्तूर्णं राक्षसाः सागराम्भसि 49
तदाम्बरं विगलितहारकुण्डलै
र्निशाचरैर्नीलबलाहकोपमैः
निपात्यमानैर्ददृशे निरन्तरं
निपात्यमानैरिव नीलपर्वतैः 50
इति श्रीरामायणे उत्तरकाण्डे सप्तमः सर्गः 7

7-8
हन्यमाने बले तस्मिन्पद्मनाभेन पृष्ठतः
माल्यवान्संनिवृत्तोऽथ वेलातिग इवार्णवः 1
संरक्तनयनः कोपाच्चलन्मौलिर्निशाचरः
पद्मनाभमिदं प्राह वचनं परुषं तदा 2
नारायण न जानीषे क्षत्रधर्मं सनातनम्
अयुद्धमनसो भग्नान्योऽस्मान्हंसि यथेतरः 3
पराङ्मुखवधं पापं यः करोति सुरेश्वर
स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् 4
युद्धश्रद्धाथ वा तेऽस्ति शङ्खचक्रगदाधर
अहं स्थितोऽस्मि पश्यामि बलं दर्शय यत्तव 5
उवाच राक्षसेन्द्रं तं देवराजानुजो बली
युष्मत्तो भयभीतानां देवानां वै मयाभयम्
राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते6
प्राणैरपि प्रियं कार्यं देवानां हि सदा मया
सोऽह वो निहनिष्यामि रसातलगतानपि 7
देवमेवं ब्रुवाणं तु रक्ताम्बुरुहलोचनम्
शक्त्या बिभेद संक्रुद्धो राक्षसेन्द्रो ररास च 8
माल्यवद्भुजनिर्मुक्ता शक्तिर्घण्टाकृतस्वना
हरेरुरसि बभ्राज मेघस्थेव शतह्रदा 9
ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः
माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः 10
स्कन्दोत्सृष्टेव सा शक्तिर्गोविन्दकरनिःसृता
काङ्क्षन्ती राक्षसं प्रायान्महोल्केवाञ्जनाचलम् 11
सा तस्योरसि विस्तीर्णे हारभासावभासिते
अपतद्रा क्षसेन्द्र स्य गिरिकूट इवाशनिः 12
तया भिन्नतनुत्राणः प्राविशद्विपुलं तमः
माल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः 13
ततः कार्ष्णायसं शूलं कण्टकैर्बहुभिश्चितम्
प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् 14
तथैव रणरक्तस्तु मुष्टिना वासवानुजम्
ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः 15
ततोऽम्बरे महाञ्शब्दः साधु साध्विति चोत्थितः
आहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत् 16
वैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसम्
व्यपोहद्बलवान्वायुः शुष्कपर्णचयं यथा 17
द्विजेन्द्र पक्षवातेन द्रा वितं दृश्य पूर्वजम्
सुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ 18
पक्षवातबलोद्धूतो माल्यवानपि राक्षसः
स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः 19
एवं ते राक्षसा राम हरिणा कमलेक्षण
बहुशः संयुगे भग्ना हतप्रवरनायकाः 20
अशक्रुवन्तस्ते विष्णुं प्रतियोद्धुं भयार्दिताः
त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः 21
सुमालिनं समासाद्य राक्षसं रघुनन्दन
स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे 22
ये त्वया निहतास्ते वै पौलस्त्या नाम राक्षसाः
सुमाली माल्यवान्माली ये च तेषां पुरःसराः
सर्व एते महाभाग रावणाद्बलवत्तराः 23
न चान्यो रक्षसां हन्ता सुरेष्वपि पुरंजय
ऋते नारायणं देवं शङ्खचक्रगदाधरम् 24
भवान्नारायणो देवश्चतुर्बाहुः सनातनः
राक्षसान्हन्तुमुत्पन्नो अजेयः प्रभुरव्ययः 25
इति श्रीरामायणे उत्तरकाण्डे अष्टमः काण्डे सर्गः 8

7-9
कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः
रसातलान्मर्त्यलोकं सर्वं वै विचचार ह 1
नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः
कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम्
अथापश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम् 2
तं दृष्ट्वामरसंकाशं गन्छन्तं पावकोपमम्
अथाब्रवीत्सुतां रक्षः कैकसीं नाम नामतः 3
पुत्रि प्रदानकालोऽय यौवनं तेऽतिवर्तते
त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः 4
त्वं हि सर्वगुणोपेता श्रीः सपद्मेव पुत्रिके
प्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे 5
कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम्
न ज्ञायते च कः कन्यां वरयेदिति पुत्रिके6
मातुः कुलं पितृकुलं यत्र चैव प्रदीयते
कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति 7
सा त्वं मुनिवरश्रेष्ठं प्रजापतिकुलोद्भवम्
गच्छ विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् 8
ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः
तेजसा भास्करसमा यादृशोऽय धनेश्वरः 9
एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः
अग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः 10
सा तु तां दारुणां वेलामचिन्त्य पितृगौरवात्
उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता 11
स तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्र निभाननाम्
अब्रवीत्परमोदारो दीप्यमान इवौजसा 12
भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता
किं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने 13
एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत्
आत्मप्रभावेन मुने ज्ञातुमर्हसि मे मतम् 14
किं तु विद्धि हि मां ब्रह्मन्शासनात्पितुरागताम्
कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि 15
स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह
विज्ञातं ते मया भद्रे कारणं यन्मनोगतम् 16
दारुणायां तु बेलायां यस्मात्त्वं मामुपस्थिता
शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि 17
दारुणान्दारुणाकारान्दारुणाभिजनप्रियान्
प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः 18
सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः
भगवन्नेदृशाः पुत्रास्त्वत्तोऽहा ब्रह्मयोनितः 19
अथाब्रवीन्मुनिस्तत्र पश्चिमो यस्तवात्मजः
मम वंशानुरूपश्च धर्मात्मा च भविष्यति 20
एवमुक्ता तु सा कन्या राम कालेन केनचित्
जनयामास बीभत्सं रक्षोरूपं सुदारुणम् 21
दशशीर्षं महादंष्ट्रं नीलाञ्जनचयोपमम्
ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् 22
जातमात्रे ततस्तस्मिन्सज्वालकवलाः शिवाः
क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रिरे 23
ववर्ष रुधिरं देवो मेघाश्च खरनिस्वनाः
प्रबभौ न च खे सूर्यो महोल्काश्चापतन्भुवि 24
अथ नामाकरोत्तस्य पितामहसमः पिता
दशशीर्षः प्रसूतोऽय दशग्रीवो भविष्यति 25
तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः
प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते 26
ततः शूर्पणखा नाम संजज्ञे विकृतानना
विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः 27
ते तु तत्र महारण्ये ववृधुः सुमहौजसः
तेषां क्रूरो दशग्रीवो लोकोद्वेगकरोऽभवत् 28
कुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मसंश्रितान्
त्रैलोक्यं त्रासयन्दुष्टो भक्षयन्विचचार ह 29
विभीषणस्तु धर्मात्मा नित्यं धर्मपथे स्थितः
स्वाध्यायनियताहार उवास नियतेन्द्रि यः 30
अथ वित्तेश्वरो देवस्तत्र कालेन केनचित्
आगच्छत्पितरं द्र ष्टुं पुष्पकेण महौजसम् 31
तं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा
आस्थाय राक्षसीं बुद्धिं दशग्रीवमुवाच ह 32
पुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम्
भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् 33
दशग्रीव तथा यत्नं कुरुष्वामितविक्रम
यथा भवसि मे पुत्र शीघ्रं वैश्रवणोपमः 34
मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान्
अमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा 35
सत्यं ते प्रतिजानामि तुल्यो भ्रात्राधिकोऽपि वा
भविष्याम्यचिरान्मातः संतापं त्यज हृद्गतम् 36
ततः क्रोधेन तेनैव दशग्रीवः सहानुजः
प्राप्स्यामि तपसा काममिति कृत्वाध्यवस्य च
आगच्छदात्मसिर्द्ध्य्थं गोकर्णस्याश्रमं शुभम् 37
इति श्रीरामायणे उत्तरकाण्डे नवमः सर्गः 9

7-10
अथाब्रवीद्द्विजं रामः कथं ते भ्रातरो वने
कीदृशं तु तदा ब्रह्मंस्तपश्चेरुर्महाव्रताः 1
अगस्त्यस्त्वब्रवीत्तत्र रामं प्रयतमानसम्
तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन् 2
कुम्भकर्णस्तदा यत्तो नित्यं धर्मपरायणः
तताप ग्रैष्मिके काले पञ्चस्वग्निष्ववस्थितः 3
वर्षे मेघोदकक्लिन्नो वीरासनमसेवत
नित्यं च शैशिरे काले जलमध्यप्रतिश्रयः 4
एवं वर्षसहस्राणि दश तस्यातिचक्रमुः
धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च 5
विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः
पञ्च वर्षसहस्राणि पादेनैकेन तस्थिवान्6
समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः
पपात पुष्पवर्षं च क्षुभिताश्चापि देवताः 7
पञ्च वर्षसहस्राणि सूर्यं चैवान्ववर्तत
तस्थौ चोर्ध्वशिरोबाहुः स्वाध्यायधृतमानसः 8
एवं विभीषणस्यापि गतानि नियतात्मनः
दश वर्षसहस्राणि स्वर्गस्थस्येव नन्दने 9
दश वर्षसहस्रं तु निराहारो दशाननः
पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः 10
एवं वर्षसहस्राणि नव तस्यातिचक्रमुः
शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम् 11
अथ वर्षसहस्रे तु दशमे दशमं शिरः
छेत्तुकामः स धर्मात्मा प्राप्तश्चात्र पितामहः 12
पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः
वत्स वत्स दशग्रीव प्रीतोऽस्मीत्यभ्यभाषत 13
शीघ्रं वरय धर्मज्ञ वरो यस्तेऽभिकाङ्क्षितः
किं ते कामं करोम्यद्य न वृथा ते परिश्रमः 14
ततोऽब्रवीद्दशग्रीवः प्रहृष्टेनान्तरात्मना
प्रणम्य शिरसा देवं हर्षगद्गदया गिरा 15
भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम्
नास्ति मृत्युसमः शत्रुरमरत्वमतो वृणे 16
सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम्
अवध्यः स्यां प्रजाध्यक्ष देवतानां च शाश्वतम् 17
न हि चिन्ता ममान्येषु प्राणिष्वमरपूजित
तृणभूता हि मे सर्वे प्राणिनो मानुषादयः 18
एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा
उवाच वचनं राम सह देवैः पितामहः 19
भविष्यत्येवमेवैतत्तव राक्षसपुंगव
शृणु चापि वचो भूयः प्रीतस्येह शुभं मम 20
हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ
पुनस्तानि भविष्यन्ति तथैव तव राक्षस 21
एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः
अग्नौ हुतानि शीर्षाणि यानि तान्युत्थितानि वै 22
एवमुक्त्वा तु तं राम दशग्रीवं प्रजापतिः
विभीषणमथोवाच वाक्यं लोकपितामहः 23
विभीषण त्वया वत्स धर्मसंहितबुद्धिना
परितुष्टोऽस्मि धर्मज्ञ वरं वरय सुव्रत 24
विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलि
वृतः सर्वगुणैर्नित्यं चन्द्र मा इव रश्मिभिः 25
भगवन्कृतकृत्योऽह यन्मे लोकगुरुः स्वयम्
प्रीतो यदि त्वं दातव्यं वरं मे शृणु सुव्रत 26
या या मे जायते बुद्धिर्येषु येष्वाश्रमेष्विह
सा सा भवतु धर्मिष्ठा तं तं धर्मं च पालये 27
एष मे परमोदार वरः परमको मतः
न हि धर्माभिरक्तानां लोके किंचन दुर्लभम् 28
अथ प्रजापतिः प्रीतो विभीषणमुवाच ह
धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति 29
यस्माद्रा क्षसयोनौ ते जातस्यामित्रकर्षण
नाधर्मे जायते बुद्धिरमरत्वं ददामि ते 30
कुम्भकर्णाय तु वरं प्रयच्छन्तमरिंदम
प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयोऽब्रुवन् 31
न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया
जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः 32
नन्दनेऽप्सरसः सप्त महेन्द्रा नुचरा दश
अनेन भक्षिता ब्रह्मन्नृषयो म्निउ!षासतिथा 33
वरव्याजेन मोहोऽस्मै दीयताममितप्रभ
लोकानां स्वस्ति चैव स्याद्भवेदस्य च संनतिः 34
एवमुक्तः सुरैर्ब्रह्माचिन्तयत्पद्म्नसंभवः
चिन्तिता चोपतस्थेऽस्य पार्श्वं देवी सरस्वती 35
प्राञ्जलि सा तु पार्श्वस्था प्राह वाक्यं सरस्वती
इयमस्म्यागता देव किं कार्यं करवाण्यहम् 36
प्रजापतिस्तु तां प्राप्तां प्राह वाक्यं सरस्वतीम्
वाणि त्वं राक्षसेन्द्र स्य भव या देवतेप्सिता 37
तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत्
कुम्भकर्ण महाबाहो वरं वरय यो मतः 38
कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत्
स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् 39
एवमस्त्विति तं चोक्त्वा सह देवैः पितामहः
देवी सरस्वती चैव मुक्त्वा तं प्रययौ दिवम् 40
कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः
कीदृशं किं न्विदं वाक्यं ममाद्य वदनाच्च्युतम् 41
एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः
श्लेष्मातकवनं गत्वा तत्र ते न्यवसन्सुखम् 42
इति श्रीरामायणे उत्तरकाण्डे दशमः सर्गः 10

7-11
सुमाली वरलब्धांस्तु ज्ञात्वा तान्वै निशाचरान्
उदतिष्ठद्भयं त्यक्त्वा सानुगः स रसातलात् 1
मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः
उदतिष्ठन्सुसंरब्धाः सचिवास्तस्य रक्षसः 2
सुमाली चैव तैः सर्वैर्वृतो राक्षसपुंगवैः
अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत् 3
दिष्ट्या ते पुत्र संप्राप्तश्चिन्तितोऽय मनोरथः
यस्त्वं त्रिभुवनश्रेष्ठाल्लब्धवान्वरमीदृशम् 4
यत्कृते च वयं लङ्कां त्यक्त्वा याता रसातलम्
तद्गतं नो महाबाहो महद्विष्णुकृतं भयम् 5
असकृत्तेन भग्ना हि परित्यज्य स्वमालयम्
विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम्6
अस्मदीया च लङ्केयं नगरी राक्षसोषिता
निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता 7
यदि नामात्र शक्यं स्यात्साम्ना दानेन वानघ
तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत् 8
त्वं च लङ्केश्वरस्तात भविष्यसि न संशयः
सर्वेषां नः प्रभुश्चैव भविष्यसि महाबल 9
अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम्
वित्तेशो गुरुरस्माकं नार्हस्येवं प्रभाषितुम् 10
उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः
प्रहस्तः प्रश्रितं वाक्यमिदमाह सकारणम् 11
दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम्
सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम 12
अदितिश्च दितिश्चैव भगिन्यौ सहिते किल
भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः 13
अदितिर्जनयामास देवांस्त्रिभुवनेश्वरान्
दितिस्त्वजनयद्दैत्यान्कश्यपस्यात्मसंभवान् 14
दैत्यानां किल धर्मज्ञ पुरेयं सवनार्णवा
सपर्वता मही वीर तेऽभवन्प्रभविष्णवः 15
निहत्य तांस्तु समरे विष्णुना प्रभविष्णुना
देवानां वशमानीतं त्रैलोक्यमिदमव्ययम् 16
नैतदेको भवानेव करिष्यति विपर्ययम्
सुरैराचरितं पूर्वं कुरुष्वैतद्वचो मम 17
एवमुक्तो दशग्रीवः प्रहस्तेन दुरात्मना
चिन्तयित्वा मुहूर्तं वै बाढमित्येव सोऽब्रवीत् 18
स तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान्
वनं गतो दशग्रीवः सह तैः क्षणदाचरैः 19
त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः
प्रेषयामास दौत्येन प्रहस्तं वाक्यकोविदम् 20
प्रहस्त शीघ्रं गत्वा त्वं ब्रूहि नैरृतपुंगवम्
वचनान्मम वित्तेशं सामपूर्वमिदं वचः 21
इयं लङ्का पुरी राजन्राक्षसानां महात्मनाम्
त्वया निवेशिता सौम्य नैतद्युक्तं तवानघ 22
तद्भवान्यदि साम्नैतां दद्यादतुलविक्रम
कृता भवेन्मम प्रीतिर्धर्मश्चैवानुपालितः 23
इत्युक्तः स तदा गत्वा प्रहस्तो वाक्यकोविदः
दशग्रीववचः सर्वं वित्तेशाय न्यवेदयत् 24
प्रहस्तादपि संश्रुत्य देवो वैश्रवणो वचः
प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः 25
ब्रूहि गच्छ दशग्रीवं पुरी राज्यं च यन्मम
तवाप्येतन्महाबाहो भुङ्क्ष्वैतद्धतकण्टकम् 26
सर्वं कर्तास्मि भद्रं ते राक्षसेशवचोऽचिरात्
किं तु तावत्प्रतीक्षस्व पितुर्यावन्निवेदये 27
एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम्
अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम् 28
एष तात दशग्रीवो दूतं प्रेषितवान्मम
दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता
मयात्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रत 29
ब्रह्मर्षिस्त्वेवमुक्तोऽसौ विश्रवा मुनिपुंगवः
उवाच धनदं वाक्यं शृणु पुत्र वचो मम 30
दशग्रीवो महाबाहुरुक्तवान्मम संनिधौ
मया निर्भर्त्सितश्चासीद्बहुधोक्तः सुदुर्मतिः 31
स क्रोधेन मया चोक्तो ध्वंसस्वेति पुनः पुनः
श्रेयोभियुक्तं धर्म्यं च शृणु पुत्र वचो मम 32
वरप्रदानसंमूढो मान्यामान्यं सुदुर्मतिः
न वेत्ति मम शापाच्च प्रकृतिं दारुणां गतः 33
तस्माद्गच्छ महाबाहो कैलासं धरणीधरम्
निवेशय निवासार्थं त्यज लङ्कां सहानुगः 34
तत्र मन्दाकिनी रम्या नदीनां प्रवरा नदी
काञ्चनैः सूर्यसंकाशैः पङ्कजैः संवृतोदका 35
न हि क्षमं त्वया तेन वैरं धनद रक्षसा
जानीषे हि यथानेन लब्धः परमको वरः 36
एवमुक्तो गृहीत्वा तु तद्वचः पितृगौरवात्
सदारपौरः सामात्यः सवाहनधनो गतः 37
प्रहस्तस्तु दशग्रीवं गत्वा सर्वं न्यवेदयत्
शून्या सा नगरी लङ्का त्रिंशद्योजनमायता
प्रविश्य तां सहास्माभिः स्वधर्मं तत्र पालय 38
एवमुक्तः प्रहस्तेन रावणो राक्षसस्तदा
विवेश नगरीं लङ्कां सभ्राता सबलानुगः 39
स चाभिषिक्तः क्षणदाचरैस्तदा
निवेशयामास पुरीं दशाननः
निकामपूर्णा च बभूव सा पुरी
निशाचरैर्नीलबलाहकोपमैः 40
धनेश्वरस्त्वथ पितृवाक्यगौरवा
न्न्यवेशयच्छशिविमले गिरौ पुरीम्
स्वलंकृतैर्भवनवरैर्विभूषितां
पुरंदरस्येव तदामरावतीम् 41
इति श्रीरामायणे उत्तरकाण्डे एकादशः सर्गः 11

7-12
राक्षसेन्द्रो ऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा
ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत् 1
ददौ तां कालकेयाय दानवेन्द्रा य राक्षसीम्
स्वसां शूर्पणखां नाम विद्युज्जिह्वाय नामतः 2
अथ दत्त्वा स्वसारं स मृगयां पर्यटन्नृपः
तत्रापश्यत्ततो राम मयं नाम दितेः सुतम् 3
कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः
अपृच्छत्को भवानेको निर्मनुष्यमृगे वने 4
मयस्त्वथाब्रवीद्रा म पृच्छन्तं तं निशाचरम्
श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम 5
हेमा नामाप्सरास्तात श्रुतपूर्वा यदि त्वया
दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः6
तस्यां सक्तमनास्तात पञ्च वर्षशतान्यहम्
सा च दैवतकार्येण गता वर्षं चतुर्दशम् 7
तस्याः कृते च हेमायाः सर्वं हेमपुरं मया
वज्रवैदूर्यचित्रं च मायया निर्मितं तदा 8
तत्राहमरतिं विन्दंस्तया हीनः सुदुःखितः
तस्मात्पुराद्दुहितरं गृहीत्वा वनमागतः 9
इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता
भर्तारमनया सार्धमस्याः प्राप्तोऽस्मि मार्गितुम् 10
कन्यापितृत्वं दुःखं हि नराणां मानकाङ्क्षिणाम्
कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति 11
द्वौ सुतौ तु मम त्वस्यां भार्यायां संबभूवतुः
मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरम् 12
एतत्ते सर्वमाख्यातं याथातथ्ये न पृच्छतः
त्वामिदानीं कथं तात जानीयां को भवानिति 13
एवमुक्तो राक्षसेन्द्रो विनीतमिदमब्रवीत्
अहं पौलस्त्यतनयो दशग्रीवश्च नामतः 14
ब्रह्मर्षेस्तं सुतं ज्ञात्वा मयो हर्षमुपागतः
दातुं दुहितरं तस्य रोचयामास तत्र वै 15
प्रहसन्प्राह दैत्येन्द्रो राक्षसेन्द्र मिदं वचः
इयं ममात्मजा राजन्हेमयाप्सरसा धृता
कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम् 16
बाढमित्येव तं राम दशग्रीवोऽभ्यभाषत
प्रज्वाल्य तत्र चैवाग्निमकरोत्पाणिसंग्रहम् 17
न हि तस्य मयो राम शापाभिज्ञस्तपोधनात्
विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् 18
अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम्
परेण तपसा लब्धां जघ्निवाँ ल्लक्ष्मणं यया 19
एवं स कृतदारो वै लङ्कायामीश्वरः प्रभुः
गत्वा तु नगरं भार्ये भ्रातृभ्यां समुदावहत् 20
वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः
तां भार्यां कुम्भकर्णस्य रावणः समुदावहत् 21
गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः
सरमां नाम धर्मज्ञो लेभे भार्यां विभीषणः 22
तीरे तु सरसः सा वै संजज्ञे मानसस्य च
मानसं च सरस्तात ववृधे जलदागमे 23
मात्रा तु तस्याः कन्यायाः स्नेहनाक्रन्दितं वचः
सरो मा वर्धतेत्युक्तं ततः सा सरमाभवत् 24
एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः
स्वां स्वां भार्यामुपादाय गन्धर्वा इव नन्दने 25
ततो मन्दोदरी पुत्रं मेघनादमसूयत
स एष इन्द्र जिन्नाम युष्माभिरभिधीयते 26
जातमात्रेण हि पुरा तेन राक्षससूनुना
रुदता सुमहान्मुक्तो नादो जलधरोपमः 27
जडीकृतायां लङ्कायां तेन नादेन तस्य वै
पिता तस्याकरोन्नाम मेघनाद इति स्वयम् 28
सोऽवर्धत तदा राम रावणान्तःपुरे शुभे
रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः 29
इति श्रीरामायणे उत्तरकाण्डे द्वादशः सर्गः 12

7-13
अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित्
निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी 1
ततो भ्रातरमासीनं कुम्भकर्णोऽब्रवीद्वचः
निद्रा मां बाधते राजन्कारयस्व ममालयम् 2
विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत्
अकुर्वन्कुम्भकर्णस्य कैलाससममालयम् 3
विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम्
दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे 4
स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम्
वैदूर्यकृतशोभं च किङ्किणीजालकं तथा 5
दन्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम्
सर्वर्तुसुखदं नित्यं मेरोः पुण्यां गुहामिव6
तत्र निद्रा ं! समाविष्टः कुम्भकर्णो निशाचरः
बहून्यब्दसहस्राणि शयानो नावबुध्यते 7
निद्रा भिभूते तु तदा कुम्भकर्णे दशाननः
देवर्षियक्षगन्धर्वान्बाधते स्म स नित्यशः 8
उद्यानानि विचित्राणि नन्दनादीनि यानि च
तानि गत्वा सुसंक्रुद्धो भिनत्ति स्म दशाननः 9
नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन्
नगान्वज्र इवोत्सृष्टो विध्वंसयति नित्यशः 10
तथावृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः
कुलानुरूपं धर्मज्ञो वृत्तं संस्मृत्य चात्मनः 11
सौभ्रात्रदर्शनार्थं तु दूतं वैश्रवणस्तदा
लङ्कां संप्रेषयामास दशग्रीवस्य वै हितम् 12
स गत्वा नगरीं लङ्कामाससाद विभीषणम्
मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति 13
पृष्ट्वा च कुशलं राज्ञो ज्ञातीनपि च बान्धवान्
सभायां दर्शयामास तमासीनं दशाननम् 14
स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा
जयेन चाभिसंपूज्य तूष्णीमासीन्मुहूर्तकम् 15
तस्योपनीते पर्यङ्के वरास्तरणसंवृते
उपविश्य दशग्रीवं दूतो वाक्यमथाब्रवीत् 16
राजन्वदामि ते सर्वं भ्राता तव यदब्रवीत्
उभयोः सदृशं सौम्य वृत्तस्य च कुलस्य च 17
साधु पर्याप्तमेतावत्कृतश्चारित्रसंग्रहः
साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते 18
दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः
देवानां तु समुद्योगस्त्वत्तो राजञ्श्रुतश्च मे 19
निराकृतश्च बहुशस्त्वयाहं राक्षसाधिप
अपराद्धा हि बाल्याच्च रक्षणीयाः स्वबान्धवाः 20
अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम्
रौद्रं व्रतं समास्थाय नियतो नियतेन्द्रि यः 21
तत्र देवो मया दृष्टः सह देव्योमया प्रभुः
सव्यं चक्षुर्मया चैव तत्र देव्यां निपातितम् 22
का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना
रूपं ह्यनुपमं कृत्वा तत्र क्रीडति पार्वती 23
ततो देव्याः प्रभावेन दग्धं सव्यं ममेक्षणम्
रेणुध्वस्तमिव ज्योतिः पिङ्गलत्वमुपागतम् 24
ततोऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम्
पूर्णं वर्षशतान्यष्टौ समवाप महाव्रतम् 25
समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरः
प्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः 26
प्रीतोऽस्मि तव धर्मज्ञ तपसानेन सुव्रत
मया चैतद्व्रतं चीर्णं त्वया चैव धनाधिप 27
तृतीयः पुरुषो नास्ति यश्चरेद्व्रतमीदृशम्
व्रतं सुदुश्चरं ह्येतन्मयैवोत्पादितं पुरा 28
तत्सखित्वं मया सार्धं रोचयस्व धनेश्वर
तपसा निर्जितत्वाद्धि सखा भव ममानघ 29
देव्या दग्धं प्रभावेन यच्च सव्यं तवेक्षणम्
एकाक्षिपिङ्गलेत्येव नाम स्थास्यति शाश्वतम् 30
एवं तेन सखित्वं च प्राप्यानुज्ञां च शंकरात्
आगम्य च श्रुतोऽय मे तव पापविनिश्चयः 31
तदधर्मिष्ठसंयोगान्निवर्त कुलदूषण
चिन्त्यते हि वधोपायः सर्षिसंघैः सुरैस्तव 32
एवमुक्तो दशग्रीवः कुद्धः संरक्तलोचनः
हस्तान्दन्तांश्च संपीड्य वाक्यमेतदुवाच ह 33
विज्ञातं ते मया दूत वाक्यं यत्त्वं प्रभाषसे
नैव त्वमसि नैवासौ भ्रात्रा येनासि प्रेषितः 34
हितं न स ममैतद्धि ब्रवीति धनरक्षकः
महेश्वरसखित्वं तु मूढ श्रावयसे किल 35
न हन्तव्यो गुरुर्ज्येष्ठो ममायमिति मन्यते
तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः 36
त्रील्लोँ कानपि जेष्यामि बाहुवीर्यमुपाश्रितः
एतन्मुहूर्तमेषोऽह तस्यैकस्य कृते च वै
चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम् 37
एवमुक्त्वा तु लङ्केशो दूतं खङ्गेन जघ्निवान्
ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम् 38
ततः कृतस्वस्त्ययनो रथमारुह्य रावणः
त्रैलोक्यविजयाकाङ्क्षी ययौ यत्र धनेश्वरः 39
इति श्रीरामायणे उत्तरकाण्डे त्रयोदशः सर्गः 13

7-14
ततः स सचिवैः सार्धं षड्भिर्नित्यं बलोत्कटैः
महोदरप्रहस्ताभ्यां मारीचशुकसारणैः 1
धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना
वृतः संप्रययौ श्रीमान्क्रोधाल्लोकान्दहन्निव 2
पुराणि स नदीः शैलान्वनान्युपवनानि च
अतिक्रम्य मुहूर्तेन कैलासं गिरिमाविशत् 3
तं निविष्टं गिरौ तस्मिन्राक्षसेन्द्रं निशम्य तु
राज्ञो भ्रातायमित्युक्त्वा गता यत्र धनेश्वरः 4
गत्वा तु सर्वमाचख्युर्भ्रातुस्तस्य विनिश्चयम्
अनुज्ञाता ययुश्चैव युद्धाय धनदेन ते 5
ततो बलस्य संक्षोभः सागरस्येव वर्धतः
अभून्नैरृतराजस्य गिरिं संचालयन्निव6
ततो युद्धं समभवद्यक्षराक्षससंकुलम्
व्यथिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः 7
तं दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरः
हर्षान्नादं ततः कृत्वा रोषात्समभिवर्तत 8
ये तु ते राक्षसेन्द्र स्य सचिवा घोरविक्रमाः
ते सहस्रं सहस्राणामेकैकं समयोधयन् 9
ततो गदाभिः परिघैरसिभिः शक्तितोमरैः
वध्यमानो दशग्रीवस्तत्सैन्यं समगाहत 10
तैर्निरुच्छ्वासवत्तत्र वध्यमानो दशाननः
वर्षमाणैरिव घनैर्यक्षेन्द्रै ः! संनिरुध्यत 11
स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम्
प्रविवेश ततः सैन्यं नयन्यक्षान्यमक्षयम् 12
स कक्षमिव विस्तीर्णं शुष्केन्धनसमाकुलम्
वातेनाग्निरिवायत्तोऽदहत्सैन्यं सुदारुणम् 13
तैस्तु तस्य मृधेऽमात्यैर्महोदरशुकादिभिः
अल्पावशिष्टास्ते यक्षाः कृता वातैरिवाम्बुदाः 14
केचित्त्वायुधभग्नाङ्गाः पतिताः समरक्षितौ
ओष्ठान्स्वदशनैस्तीक्ष्णैर्दंशन्तो भुवि पातिताः 15
भयादन्योन्यमालिङ्ग्य भ्रष्टशस्त्रा रणाजिरे
निषेदुस्ते तदा यक्षाः कूला जलहता इव 16
हतानां स्वर्गसंस्थानां युध्यतां पृथिवीतले
प्रेक्षतामृषिसंघानां न बभूवान्तरं दिवि 17
एतस्मिन्नन्तरे राम विस्तीर्णबलवाहनः
अगमत्सुमहान्यक्षो नाम्ना संयोधिइ!उ कण्टकः 18
तेन यक्षेण मारीचो विष्णुनेव समाहतः
पतितः पृथिवीं भेजे क्षीणपुण्य इवाम्बरात् 19
प्राप्तसंज्ञो मुहूर्तेन विश्रम्य च निशाचरः
तं यक्षं योधयामास स च भग्नः प्रदुद्रुवे 20
ततः काञ्चनचित्राङ्गं वैदूर्यरजतोक्षितम्
मर्यादां द्वारपालानां तोरणं तत्समाविशत् 21
ततो राम दशग्रीवं प्रविशन्तं निशाचरम्
सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत् 22
ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः
राक्षसो यक्षसृष्टेन तोरणेन समाहतः
न क्षतिं प्रययौ राम वरात्सलिलयोनिनः 23
स तु तेनैव तं यक्षं तोरणेन समाहनत्
नादृश्यत तदा यक्षो भस्म तेन कृतस्तु सः 24
ततः प्रदुद्रुवुः सर्वे यक्षा दृष्ट्वा पराक्रमम्
ततो नदीर्गुहाश्चैव विविशुर्भयपीडिताः 25
इतिः श्रीरामायणे उत्तरकाण्डे चतुर्दशः सर्गः 14

7-15
ततस्तान्विद्रुतान्दृष्ट्वा यक्षाञ्शतसहस्रशः
स्वयमेव धनाध्यक्षो निर्जगाम रणं प्रति 1
तत्र माणिचरो नाम यक्षः परमदुर्जयः
वृतो यक्षसहस्रैः स चतुर्भिः समयोधयत् 2
ते गदामुसलप्रासशक्तितोमरमुद्गरैः
अभिघ्नन्तो रणे यक्षा राक्षसानभिदुद्रुवुः 3
ततः प्रहस्तेन तदा सहस्रं निहतं रणे
महोदरेण गदया सहस्रमपरं हतम् 4
क्रुद्धेन च तदा राम मारीचेन दुरात्मना
निमेषान्तरमात्रेण द्वे सहस्रे निपातिते 5
धुम्राक्षेण समागम्य माणिभद्रो महारणे
मुसलेनोरसि क्रोधात्ताडितो न च कम्पितः6
ततो गदां समाविध्य माणिभद्रे ण राक्षसः
धूम्राक्षस्ताडितो मूर्ध्नि विह्वलो निपपात ह 7
धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम्
अभ्यधावत्सुसंक्रुद्धो माणिभद्रं दशाननः 8
तं क्रुद्धमभिधावन्तं युगान्ताग्निमिवोत्थितम्
शक्तिभिस्ताडयामास तिसृभिर्यक्षपुंगवः 9
ततो राक्षसराजेन ताडितो गदया रणे
तस्य तेन प्रहारेण मुकुटः पार्श्वमागतः
तदा प्रभृति यक्षोऽसौ पार्श्वमौलिरिति स्मृतः 10
तस्मिंस्तु विमुखे यक्षे माणिभद्रे महात्मनि
संनादः सुमहान्राम तस्मिञ्शैले व्यवर्धत 11
ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः
शुक्रप्रोष्ठपदाभ्यां च शङ्खपद्मसमावृतः 12
स दृष्ट्वा भ्रातरं संख्ये शापाद्विभ्रष्टगौरवम्
उवाच वचनं धीमान्युक्तं पैतामहे कुले 13
मया त्वं वार्यमाणोऽपि नावगच्छसि दुर्मते
पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः 14
यो हि मोहाद्विषं पीत्वा नावगच्छति मानवः
परिणामे स वै मूढो जानीते कर्मणः फलम् 15
दैवतानि हि नन्दन्ति धर्मयुक्तेन केनचित्
येन त्वमीदृशं भावं नीतस्तच्च न बुध्यसे 16
यो हि मातॄः पितॄन्भ्रातॄनाचार्यांश्चावमन्यते
स पश्यति फलं तस्य प्रेतराजवशं गतः 17
अध्रुवे हि शरीरे यो न करोति तपोर्जनम्
स पश्चात्तप्यते मूढो मृतो दृष्ट्वात्मनो गतिम् 18
कस्यचिन्न हि दुर्बुद्धेश्छन्दतो जायते मतिः
यादृशं कुरुते कर्म तादृशं फलमश्नुते 19
बुद्धिं रूपं बलं वित्तं पुत्रान्माहात्म्यमेव च
प्राप्नुवन्ति नराः सर्वं स्वकृतैः पूर्वकर्मभिः 20
एवं निरयगामी त्वं यस्य ते मतिरीदृशी
न त्वां समभिभाषिष्ये दुर्वृत्तस्यैष निर्णयः 21
एवमुक्त्वा ततस्तेन तस्यामात्याः समाहताः
मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः 22
ततस्तेन दशग्रीवो यक्षेन्द्रे ण महात्मना
गदयाभिहतो मूर्ध्नि न च स्थानाद्व्यकम्पत 23
ततस्तौ राम निघ्नन्तावन्योन्यं परमाहवे
न विह्वलौ न च श्रान्तौ बभूवतुरमर्षणौ 24
आग्नेयमस्त्रं स ततो मुमोच धनदोरणे
वारुणेन दशग्रीवस्तदस्त्रं प्रत्यवारयत् 25
ततो मायां प्रविष्टः स राक्षसीं राक्षसेश्वरः
जघान मूर्ध्नि धनदं व्याविध्य महतीं गदाम् 26
एवं स तेनाभिहतो विह्वलः शोणितोक्षितः
कृत्तमूल इवाशोको निपपात धनाधिपः 27
ततः पद्मादिभिस्तत्र निधिभिः स धनाधिपः
नन्दनं वनमानीय धनदो श्वासितस्तदा 28
ततो निर्जित्य तं राम धनदं राक्षसाधिपः
पुष्पकं तस्य जग्राह विमानं जयलक्षणम् 29
काञ्चनस्तम्भसंवीतं वैदूर्यमणितोरणम्
मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम् 30
तत्तु राजा समारुह्य कामगं वीर्यनिर्जितम्
जित्वा वैश्रवणं देवं कैलासादवरोहत् 31
इति श्रीरामायणे उत्तरकाण्डे पच्चदशः सर्गः 15

7-16
स जित्वा भ्रातरं राम धनदं राक्षसाधिपः
महासेनप्रसूतिं तु ययौ शरवणं ततः 1
अथापश्यद्दशग्रीवो रौक्मं शरवणं तदा
गभस्तिजालसंवीतं द्वितीयमिव भास्करम् 2
पर्वतं स समासाद्य किंचिद्र म्यवनान्तरम्
अपश्यत्पुष्पकं तत्र राम विष्टम्भितं दिवि 3
विष्टब्धं पुष्पकं दृष्ट्वा कामगं ह्यगमं कृतम्
राक्षसश्चिन्तयामास सचिवैस्तैः समावृतः 4
किमिदं यन्निमित्तं मे न च गच्छति पुष्पकम्
पर्वतस्योपरिस्थस्य कस्य कर्म त्विदं भवेत् 5
ततोऽब्रवीद्दशग्रीवं मारीचो बुद्धिकोविदः
नैतन्निष्कारणं राजन्पुष्पकोऽय न गच्छति6
ततः पार्श्वमुपागम्य भवस्यानुचरो बली
नन्दीश्वर उवाचेदं राक्षसेन्द्र मशङ्कितः 7
निवर्तस्व दशग्रीव शैले क्रीडति शंकरः 8
सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम्
प्राणिनामेव सर्वेषामगम्यः पर्वतः कृतः 9
स रोषात्ताम्रनयनः पुष्पकादवरुह्य च
कोऽय शंकर इत्युक्त्चा शैलमूलमुपागमत् 10
नन्दीश्वरमथापश्यदविदूरस्थितं प्रभुम्
दीप्तं शूलमवष्टभ्य द्वितीयमिव शंकरम् 11
स वानरमुखं दृष्ट्वा तमवज्ञाय राक्षसः
प्रहासं मुमुचे मौर्ख्यात्सतोय इव तोयदः 12
संक्रुद्धो भगवान्नन्दी शंकरस्यापरा तनुः
अब्रवीद्रा क्षसं तत्र दशग्रीवमुपस्थितम् 13
यस्माद्वानरमूर्तिं मां दृष्ट्वा राक्षस दुर्मते
मौर्ख्यात्त्वमवजानीषे परिहासं च मुञ्चसि 14
तस्मान्मद्रू पसंयुक्ता मद्वीर्यसमतेजसः
उत्पत्स्यन्ते वधार्थं हि कुलस्य तव वानराः 15
किं त्विदानीं मया शक्यं कर्तुं यत्त्वां निशाचर
न हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः 16
अचिन्तयित्वा स तदा नन्दिवाक्यं निशाचरः
पर्वतं तं समासाद्य वाक्यमेतदुवाच ह 17
पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः
तदेतच्छैलमुन्मूलं करोमि तव गोपते 18
केन प्रभावेन भवस्तत्र क्रीडति राजवत्
विज्ञातव्यं न जानीषे भयस्थानमुपस्थितम् 19
एवमुक्त्वा ततो राजन्भुजान्प्रक्षिप्य पर्वते
तोलयामास तं शैलं समृगव्यालपादपम् 20
ततो राम महादेवः प्रहसन्वीक्ष्य तत्कृतम्
पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया 21
ततस्ते पीडितास्तस्य शैलस्याधोगता भुजाः
विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः 22
रक्षसा तेन रोषाच्च भुजानां पीडनात्तथा
मुक्तो विरावः सुमहांस्त्रैलोक्यं येन पूरितम् 23
मानुषाः शब्दवित्रस्ता मेनिरे लोकसंक्षयम्
देवताश्चापि संक्षुब्धाश्चलिताः स्वेषु कर्मसु 24
ततः प्रीतो महादेवः शैलाग्रे विष्ठितस्तदा
मुक्त्वा तस्य भुजान्राजन्प्राह वाक्यं दशाननम् 25
प्रीतोऽस्मि तव वीर्याच्च शौण्डीर्याच्च निशाचर
रवतो वेदनामुक्तः स्वरः परमदारुणः 26
यस्माल्लोकत्रयं त्वेतद्रा वितं भयमागतम्
तस्मात्त्वं रावणो नाम नाम्ना तेन भविष्यसि 27
देवता मानुषा यक्षा ये चान्ये जगतीतले
एवं त्वामभिधास्यन्ति रावणं लोकरावणम् 28
गच्छ पौलस्त्य विस्रब्धः पथा येन त्वमिच्छसि
मया त्वमभ्यनुज्ञातो राक्षसाधिप गम्यताम् 29
साक्षान्महेश्वरेणैवं कृतनामा स रावणः
अभिवाद्य महादेवं विमानं तत्समारुहत् 30
ततो महीतले राम परिचक्राम रावणः
क्षत्रियान्सुमहावीर्यान्बाधमानस्ततस्ततः 31
इति श्रीरामायणे उत्तरकाण्डे षोडशं सर्गः 16

7-17
अथ राजन्महाबाहुर्विचरन्स महीतलम्
हिमवद्वनमासाद्य परिचक्राम रावणः 1
तत्रापश्यत वै कन्यां कृष्णाजिनजटाधराम्
आर्षेण विधिना युक्तां तपन्तीं देवतामिव 2
स दृष्ट्वा रूपसम्पन्नां कन्यां तां सुमहाव्रताम्
काममोहपरीतात्मा पप्रच्छ प्रहसन्निव 3
किमिदं वर्तसे भद्रे विरुद्धं यौवनस्य ते
न हि युक्ता तवैतस्य रूपस्येयं प्रतिक्रिया 4
कस्यासि दुहिता भद्रे को वा भर्ता तवानघे
पृच्छतः शंस मे शीघ्रं को वा हेतुस्तपोऽजने 5
एवमुक्ता तु सा कन्या तेनानार्येण रक्षसा
अब्रवीद्विधिवत्कृत्वा तस्यातिथ्यं तपोधना6
कुशध्वजो नाम पिता ब्रह्मर्षिर्मम धार्मिकः
बृहस्पतिसुतः श्रीमान्बुद्ध्या तुल्यो बृहस्पतेः 7
तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः
संभूता वाङ्मयी कन्या नाम्ना वेदवती स्मृता 8
ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः
ते चापि गत्वा पितरं वरणं रोचयन्ति मे 9
न च मां स पिता तेभ्यो दत्तवान्राक्षसेश्वर
कारणं तद्वदिष्यामि निशामय महाभुज 10
पितुस्तु मम जामाता विष्णुः किल सुरोत्तमः
अभिप्रेतस्त्रिलोकेशस्तस्मान्नान्यस्य मे पिता 11
दातुमिच्छति धर्मात्मा तच्छ्रुत्वा बलदर्पितः
शंभुर्नाम ततो राजा दैत्यानां कुपितोऽभवत्
तेन रात्रौ प्रसुप्तो मे पिता पापेन हिंसितः 12
ततो मे जननी दीना तच्छरीरं पितुर्मम
परिष्वज्य महाभागा प्रविष्टा दहनं सह 13
ततो मनोरथं सत्यं पितुर्नारायणं प्रति
करोमीति ममेच्छा च हृदये साधु विष्ठिता 14
अहं प्रेतगतस्यापि करिष्ये काङ्क्षितं पितुः
इति प्रतिज्ञामारुह्य चरामि विपुलं तपः 15
एतत्ते सर्वमाख्यातं मया राक्षसपुंगव
आश्रितां विद्धि मां धर्मं नारायणपतीच्छया 16
विज्ञातस्त्वं हि मे राजन्गच्छ पौलस्त्यनन्दन
जांनामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते 17
सोऽब्रवीद्रा वणस्तत्र तां कन्यां सुमहाव्रताम्
अवरुह्य विमानाग्रात्कन्दर्पशरपीडितः 18
अवलिप्तासि सुश्रोणि यस्यास्ते मतिरीदृशी
वृद्धानां मृगशावाक्षि भ्राजते धर्मसंचयः 19
त्वं सर्वगुणसम्पन्ना नार्हसे कर्तुमीदृशम्
त्रैलोक्यसुन्दरी भीरु यौवने वार्धकं विधिम् 20
कश्च तावदसौ यं त्वं विष्णुरित्यभिभाषसे
वीर्येण तपसा चैव भोगेन च बलेन च
न मयासौ समो भद्रे यं त्वं कामयसेऽङ्गने 21
मा मैवमिति सा कन्या तमुवाच निशाचरम्
मूर्धजेषु च तां रक्षः कराग्रेण परामृशत् 22
ततो वेदवती क्रुद्धा केशान्हस्तेन साच्छिनत्
उवाचाग्निं समाधाय मरणाय कृतत्वरा 23
धर्षितायास्त्वयानार्य नेदानीं मम जीवितम्
रक्षस्तस्मात्प्रवेक्ष्यामि पश्यतस्ते हुताशनम् 24
यस्मात्तु धर्षिता चाहमपापा चाप्यनाथवत्
तस्मात्तव वधार्थं वै समुत्पत्स्याम्यहं पुनः 25
न हि शक्यः स्त्रिया पाप हन्तुं त्वं तु विशेषतः
शापे त्वयि मयोत्सृष्टे तपसश्च व्ययो भवेत् 26
यदि त्वस्ति मया किंचित्कृतं दत्तं हुतं तथा
तेन ह्ययोनिजा साध्वी भवेयं धर्मिणः सुता 27
एवमुक्त्वा प्रविष्टा सा ज्वलन्तं वै हुताशनम्
पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः 28
पूर्वं क्रोधहतः शत्रुर्ययासौ निहतस्त्वया
समुपाश्रित्य शैलाभं तव वीर्यममानुषम् 29
एवमेषा महाभागा मर्त्येषूत्पद्यते पुनः
क्षेत्रे हलमुखग्रस्ते वेद्यामग्निशिखोपमा 30
एषा वेदवती नाम पूर्वमासीत्कृते युगे
त्रेतायुगमनुप्राप्य वधार्थं तस्य रक्षसः
सीतोत्पन्नेति सीतैषा मानुषैः पुनरुच्यते 31
इति श्रीरामायणे उत्तरकाण्डे सप्तदशः सर्गः 17

7-18
प्रविष्टायां हुताशं तु वेदवत्यां स रावणः
पुष्पकं तत्समारुह्य परिचक्राम मेदिनीम् 1
ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः
उशीरबीजमासाद्य ददर्श स तु राक्षसः 2
संवर्तो नाम ब्रह्मर्षिर्भ्राता साक्षाद्बृहस्पतेः
याजयामास धर्मज्ञः सर्वैर्ब्रह्मगणैर्वृतः 3
दृष्ट्वा देवास्तु तद्र क्षो वरदानेन दुर्जयम्
तां तां योनिं समापन्नास्तस्य धर्षणभीरवः 4
इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः
कृकलासो धनाध्यक्षो हंसो वै वरुणोऽभवत् 5
तं च राजानमासाद्य रावणो राक्षसाधिपः
प्राह युद्धं प्रयच्छेति निर्जितोऽस्मीति वा वद6
ततो मरुत्तो नृपतिः को भवानित्युवाच तम्
अवहासं ततो मुक्त्वा राक्षसो वाक्यमब्रवीत् 7
अकुतूहलभावेन प्रीतोऽस्मि तव पार्थिव
धनदस्यानुजं यो मां नावगच्छसि रावणम् 8
त्रिषु लोकेषु कः सोऽस्ति यो न जानाति मे बलम्
भ्रातरं येन निर्जित्य विमानमिदमाहृतम् 9
ततो मरुत्तो नृपतिस्तं राक्षसमथाब्रवीत्
धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः 10
नाधर्मसहितं श्लाध्यं न लोकप्रतिसंहितम्
कर्म दौरात्म्यकं कृत्वा श्लाघसे भ्रातृनिर्जयात् 11
किं त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान्वरम्
श्रुतपूर्वं हि न मया यादृशं भाषसे स्वयम् 12
ततः शरासनं गृह्य सायकांश्च स पार्थिवः
रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् 13
सोऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः
श्रोतव्यं यदि मद्वाक्यं संप्रहारो न ते क्षमः 14
माहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत्
दीक्षितस्य कुतो युद्धं क्रूरत्वं दीक्षिते कुतः 15
संशयश्च रणे नित्यं राक्षसश्चैष दुर्जयः
स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः
विसृज्य सशरं चापं स्वस्थो मखमुखोऽभवत् 16
ततस्तं निर्जितं मत्वा घोषयामास वै शुकः
रावणो जितवांश्चेति हर्षान्नादं च मुक्तवान् 17
तान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान्
वितृप्तो रुधिरैस्तेषां पुनः संप्रययौ महीम् 18
रावणे तु गते देवाः सेन्द्रा श्चैव दिवौकसः
ततः स्वां योनिमासाद्य तानि सत्त्वान्यथाब्रुवन् 19
हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम्
प्रीतोऽस्मि तव धर्मज्ञ उपकाराद्विहंगम 20
मम नेत्रसहस्रं यत्तत्ते बर्हे भविष्यति
वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणम् 21
नीलाः किल पुरा बर्हा मयूराणां नराधिप
सुराधिपाद्वरं प्राप्य गताः सर्वे विचित्रताम् 22
धर्मराजोऽब्रवीद्रा म प्राग्वंशे वायसं स्थितम्
पक्षिंस्तवास्मि सुप्रीतः प्रीतस्य च वचः शृणु 23
यथान्ये विविधै रोगैः पीड्यन्ते प्राणिनो मया
ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः 24
मृत्युतस्ते भयं नास्ति वरान्मम विहंगम
यावत्त्वां न वधिष्यन्ति नरास्तावद्भविष्यसि 25
ये च मद्विषयस्थास्तु मानवाः क्षुधयार्दिताः
त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः 26
वरुणस्त्वब्रवीद्धंसं गङ्गातोयविचारिणम्
श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर 27
वर्णो मनोहरः सौम्यश्चन्द्र मण्डलसंनिभः
भविष्यति तवोदग्रः शुक्लफेनसमप्रभः 28
मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि
प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् 29
हंसानां हि पुरा राम न वर्णः सर्वपाण्डुरः
पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः 30
अथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम्
हैरण्यं संप्रयच्छामि वर्णं प्रीतस्तवाप्यहम् 31
सद्र व्यं च शिरो नित्यं भविष्यति तवाक्षयम्
एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति 32
एवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः
निवृत्ते सह राज्ञा वै पुनः स्वभवनं गताः 33
इति श्रीरामायणे उत्तरकाण्डे अष्टादशः सर्गः 18

7-19
अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः
नगराणि नरेन्द्रा णां युद्धकाङ्क्षी दशाननः 1
स समासाद्य राजेन्द्रा न्महेन्द्र वरुणोपमान्
अब्रवीद्रा क्षसेन्द्र स्तु युद्धं मे दीयतामिति 2
निर्जिताः स्मेति वा ब्रूत एषो हि मम निश्चयः
अन्यथा कुर्वतामेवं मोक्षो वो नोपपद्यते 3
ततस्तु बहवः प्राज्ञाः पार्थिवा धर्मनिश्चयाः
निर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरबलं रिपोः 4
दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः
एते सर्वेऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः 5
अथायोध्यां समासाद्य रावणो राक्षसाधिपः
सुगुप्तामनरण्येन शक्रेणेवामरावतीम्6
प्राह राजानमासाद्य युद्धं मे संप्रदीयताम्
निर्जितोऽस्मीति वा ब्रूहि ममैतदिह शासनम् 7
अनरण्यः सुसंक्रुद्धो राक्षसेन्द्र मथाब्रवीत्
दीयते द्वंद्वयुद्धं ते राक्षसाधिपते मया 8
अथ पूर्वं श्रुतार्थेन सज्जितं सुमहद्धि यत्
निष्क्रामत्तन्नरेन्द्र स्य बलं रक्षोवधोद्यतम् 9
नागानां बहुसाहस्रं वाजिनामयुतं तथा
महीं संछाद्य निष्क्रान्तं सपदातिरथं क्षणात् 10
तद्रा वणबलं प्राप्य बलं तस्य महीपतेः
प्राणश्यत तदा राजन्हव्यं हुतमिवानले 11
सोऽपश्यत नरेन्द्र स्तु नश्यमानं महद्व्रलम्
महार्णवं समासाद्य यथा पञ्चापगाजलम् 12
ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन्स्वयम्
आससाद नरेन्द्र स्तं रावणं क्रोधमूर्छितः 13
ततो बाणशतान्यष्टौ पातयामास मूर्धनि
तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः 14
तस्य बाणाः पतन्तस्ते चक्रिरे न क्षतं क्वचित्
वारिधारा इवाभ्रेभ्यः पतन्त्यो नगमूर्धनि 15
ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा
तलेनाभिहतो मूर्ध्नि स रथान्निपपात ह 16
स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः
बज्रदग्ध इवारण्ये सालो निपतितो महान् 17
तं प्रहस्याब्रवीद्र क्ष इक्ष्वाकुं पृथिवीपतिम्
किमिदानीं त्वया प्राप्तं फलं मां प्रति युध्यता 18
त्रैलोक्ये नास्ति यो द्वंद्वं मम दद्यान्नराधिप
शङ्के प्रमत्तो भोगेषु न शृणोषि बलं मम 19
तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत्
किं शक्यमिह कर्तुं वै यत्कालो दुरतिक्रमः 20
न ह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना
कालेनेह विपन्नोऽह हेतुभूतस्तु मे भवान् 21
किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये
इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस 22
यदि दत्तं यदि हुतं यदि मे सुकृतं तपः
यदि गुप्ताः प्रजाः सम्यक्तथा सत्यं वचोऽस्तु मे 23
उत्पत्स्यते कुले ह्यस्मिन्निक्ष्वाकूणां महात्मनाम्
राजा परमतेजस्वी यस्ते प्राणान्हरिष्यति 24
ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः
तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्च्युता 25
ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम्
स्वर्गते च नृपे राम राक्षसः स न्यवर्तत 26
इति श्रीरामायणे उत्तरकाण्डे एकोनविंशतितमः सर्गः 19

7-20
ततो वित्रासयन्मर्त्यान्पृथिव्यां राक्षसाधिपः
आससाद घने तस्मिन्नारदं मुनिसत्तमम् 1
नारदस्तु महातेजा देवर्षिरमितप्रभः
अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम् 2
राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत
प्रीतोऽस्म्यभिजनोपेत विक्रमैरूर्जितैस्तव 3
विष्णुना दैत्यघातैश्च तार्क्ष्यस्योरगधर्षणैः
त्वया समरमर्दैश्च भृशं हि परितोषितः 4
किंचिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि
श्रुत्वा चानन्तरं कार्यं त्वया राक्षसपुगंव 5
किमयं वध्यते लोकस्त्वयावध्येन दैवतैः
हत एव ह्ययं लोको यदा मृत्युवशं गतः6
पश्य तावन्महाबहो राक्षसेश्वर मानुषम्
लोकमेनं विचित्रार्थं यस्य न ज्ञायते गतिः 7
क्वचिद्वादित्रनृत्तानि सेव्यन्ते मुदितैर्जनैः
रुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः 8
मातापितृसुतस्नेहैर्भार्याबन्धुमनोरमैः
मोहेनायं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते 9
तत्किमेवं परिक्लिश्य लोकं मोहनिराकृतम्
जित एव त्वया सौम्य मर्त्यलोको न संशयः 10
एवमुक्तस्तु लङ्केशो दीप्यमान इवौजसा
अब्रवीन्नारदं तत्र संप्रहस्याभिवाद्य च 11
महर्षे देवगन्धर्वविहार समरप्रिय
अहं खलूद्यतो गन्तुं विजयार्थी रसातलम् 12
ततो लोकत्रयं जित्वा स्थाप्य नागान्सुरान्वशे
समुद्र ममृतार्थं वै मथिष्यामि रसालयम् 13
अथाब्रवीद्दशग्रीवं नारदो भगवानृषिः
क्व खल्विदानीं मार्गेण त्वयानेन गमिष्यते 14
अयं खलु सुदुर्गम्यः पितृराज्ञः पुरं प्रति
मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन 15
स तु शारदमेघाभं मुक्त्वा हासं दशाननः
उवाच कृतमित्येव वचनं चेदमब्रवीत् 16
तस्मादेष महाब्रह्मन्वैवस्वतवधोद्यतः
गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः 17
मया हि भगवन्क्रोधात्प्रतिज्ञातं रणार्थिना
अवजेष्यामि चतुरो लोकपालानिति प्रभो 18
तेनैष प्रस्थितोऽह वै पितृराजपुरं प्रति
प्राणिसंक्लेशकर्तारं योजयिष्यामि मृत्युना 19
एवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च
प्रययौ दक्षिणामाशां प्रहृष्टैः सह मन्त्रिभिः 20
नारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः
चिन्तयामास विप्रेन्द्रो विधूम इव पावकः 21
येन लोकास्त्रयः सेन्द्रा ः! क्लिश्यन्ते सचराचराः
क्षीणे चायुषि धर्मे च स कालो हिंस्यते कथम् 22
यस्य नित्यं त्रयो लोका विद्र वन्ति भयार्दिताः
तं कथं राक्षसेन्द्रो ऽसौ स्वयमेवाभिगच्छति 23
यो विधाता च धाता च सुकृते दुष्कृते तथा
त्रैलोक्यं विजितं येन तं कथं नु विजेष्यति 24
अपरं किं नु कृत्वैवं विधानं संविधास्यति
कौतूहलसमुत्पन्नो यास्यामि यमसादनम् 25
इति श्रीरामायणे उत्तरकाण्डे विंशतितमः सर्गः 20

7-21
एवं संचिन्त्य विप्रेन्द्रो जगाम लघुविक्रमः
आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति 1
अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम्
विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् 2
स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम्
अब्रवीत्सुखमासीनमर्ध्यमावेद्य धर्मतः 3
कच्चित्क्षेमं नु देवर्षे कच्चिद्धर्मो न नश्यति
किमागमनकृत्यं ते देवगन्धर्वसेवित 4
अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः
श्रूयतामभिधास्यामि विधानं च विधीयताम् 5
एष नाम्ना दशग्रीवः पितृराज निशाचरः
उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम्6
एतेनकारणेनाहं त्वरितोऽस्म्यागतः प्रभो
दण्डप्रहरणस्याद्य तव किं नु करिष्यति 7
एतस्मिन्नन्तरे दूरादंशुमन्तमिवोदितम्
ददृशे दिव्यमायान्तं विमानं तस्य रक्षसः 8
तं देशं प्रभया तस्य पुष्पकस्य महाबलः
कृत्वा वितिमिरं सर्वं समीपं समवर्तत 9
स त्वपश्यन्महाबाहुर्दशग्रीवस्ततस्ततः
प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् 10
ततस्तान्वध्यमानांस्तु कर्मभिर्दुष्कृतैः स्वकैः
रावणो मोचयामास विक्रमेण बलाद्बली 11
प्रेतेषु मुच्यमानेषु राक्षसेन बलीयसा
प्रेतगोपाः सुसंरब्धा राक्षसेन्द्र मभिद्र वन् 12
ते प्रासैः परिघैः शूलैर्मुद्गरैः शक्तितोर्म्
पुष्पकं समवर्षन्त शूराः शतसहस्रशः 13
तस्यासनानि प्रासादान्वेदिकास्तोरणानि च
पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव 14
देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे
भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा 15
ततस्ते रावणामात्या यथाकामं यथाबलम्
अयुध्यन्त महावीर्याः स च राजा दशाननः 16
ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः
अमात्या राक्षसेन्द्र स्य चक्रुरायोधनं महत् 17
अन्योन्यं च महाभागा जघ्नुः प्रहरणैर्युधि
यमस्य च महत्सैन्यं राक्षसस्य च मन्त्रिणः 18
अमात्यांस्तांस्तु संत्यज्य राक्षसस्य महौजसः
तमेव समधावन्त शूलवर्षैर्दशाननम् 19
ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः
विमाने राक्षसश्रेष्ठः फुल्लाशोक इवाबभौ 20
स शूलानि गदाः प्रासाञ्शक्तितोमरसायकान्
मुसलानि शिलाबृक्षान्मुमोचास्त्रबलाद्बली 21
तांस्तु सर्वान्समाक्षिप्य तदस्त्रमपहत्य च
जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रशः 22
परिवार्य च तं सर्वे शैलं मेघोत्करा इव
भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमकारयन् 23
विमुक्तकवचः क्रुद्धो सिक्तः शोणितविस्रवैः
स पुष्पकं परित्यज्य पृथिव्यामवतिष्ठत 24
ततः स कार्मुकी बाणी पृथिव्यां राक्षसाधिपः
लब्धसंज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथान्तकः 25
ततः पाशुपतं दिव्यमस्त्रं संघाय कार्मुके
तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं व्यपकर्षत 26
ज्वालामाली स तु शरः क्रव्यादानुगतो रणे
मुक्तो गुल्मान्द्रुमांश्चैव भस्म कृत्वा प्रधावति 27
ते तस्य तेजसा दग्धाः सैन्याः वैवस्वतस्य तु
रणे तस्मिन्निपतिता दावदग्धा नगा इव 28
ततः स सचिवैः सार्धं राक्षसो भीमविक्रमः
ननाद सुमहानादं कम्पयन्निव मेदिनीम् 29
इति श्रीरामायणे उत्तरकाण्डे एकविंशः सर्गः 21

7-22
स तु तस्य महानादं श्रुत्वा वैवस्वतो यमः
शत्रुं विजयिनं मेने स्वबलस्य च संक्षयम् 1
स तु योधान्हतान्मत्वा क्रोधपर्याकुलेक्षणः
अब्रवीत्त्वरितं सूतं रथः समुपनीयताम् 2
तस्य सूतो रथं दिव्यमुपस्थाप्य महास्वनम्
स्थितः स च महातेजा आरुरोह महारथम् 3
पाशमुद्गरहस्तश्च मृत्युस्तस्याग्रतः स्थितः
येन संक्षिप्यते सर्वं त्र्लोक्यं सचराचरम् 4
कालदण्डश्च पार्श्वस्थो मूर्तिमान्स्यन्दने स्थितः
यमप्रहरणं दिव्यं प्रज्वलन्निव तेजसा 5
ततो लोकास्त्रयस्त्रस्ताः कम्पन्ते च दिवौकसः
कालं क्रुद्धं तदा दृष्ट्वा लोकत्रयभयावहम्6
दृष्ट्वा तु ते तं विकृतं रथं मृत्युसमन्वितम्
सचिवा राक्षसेन्द्र स्य सर्वलोकभयावहम् 7
लघुसत्त्वतया सर्वे नष्टसंज्ञा भयार्दिताः
नात्र योद्धुं समर्थाः स्म इत्युक्त्वा विप्रदुद्रुवुः 8
स तु तं तादृशं दृष्ट्वा रथं लोकभयावहम्
नाक्षुभ्यत तदा रक्षो व्यथा चैवास्य नाभवत् 9
स तु रावणमासाद्य विसृजञ्शक्तितोमरान्
यमो मर्माणि संक्रुद्धो राक्षसस्य न्यकृन्तत 10
रावणस्तु स्थितः स्वस्थः शरवर्ष मुमोच ह
तस्मिन्वैवस्वतरथे तोयवर्षभिवाम्बुदः 11
ततो महाशक्तिशतैः पात्यमानैर्महोरसि
प्रतिकर्तुं स नाशक्नोद्रा क्षसः शल्यपीडितः 12
नानाप्रहरणैरेवं यमेनामित्रकर्शिना
सप्तरात्रं कृते संख्ये न भग्नो विजितोऽपि वा 13
ततोऽभवत्पुनर्युद्धं यमराक्षसयोस्तदा
विजयाकाङ्क्षिणोस्तत्र समरेष्वनिवर्तिनोः 14
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः
प्रजापतिं पुरस्कृत्य ददृशुस्तद्र णाजिरम् 15
संवर्त इव लोकानामभवद्युध्यतोस्तयोः
राक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च 16
राक्षसेन्द्र स्ततः क्रुद्धश्चापमायम्य संयुगे
निरन्तरमिवाकाशं कुर्वन्बाणान्मुमोच ह 17
मृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरर्दयत्
यमं शरसहस्रेण शीघ्रं मर्मस्वताडयत् 18
ततः क्रुद्धस्य सहसा यमस्याभिविनिःसृतः
ज्वालामालो विनिश्वासो वदनात्क्रोधपावकः 19
ततोऽपश्यंस्तदाश्चर्यं देवदानवराक्षसाः
क्रोधजं पावकं दीप्तं दिधक्षन्तं रिपोर्बलम् 20
मृत्युस्तु परमक्रुद्धो वैवस्वतमथाब्रवीत्
मुञ्च मां देव शीघ्रं त्वं निहन्मि समरे रिपुम् 21
नरकः शम्बरो बृत्रः शंभुः कार्तस्वरो बली
नमुचिर्विरोचनश्चैव तावुभौ मधुकैटभौ 22
एते चान्ये च बहवो बलवन्तो दुरासदाः
विनिपन्ना मया दृष्टो का चिन्तास्मिन्निशाचरे 23
मुञ्च मां साधु धर्मज्ञ यावदेनं निहन्म्यहम्
न हि कश्चिन्मया दृष्टो मुहूर्तमपि जीवति 24
बलं मम न खल्वेतन्मर्यादैषा निसर्गतः
संस्पृष्टो हि मया कश्चिन्न जीवेदिति निश्चयः 25
एतत्तु वचनं श्रुत्वा धर्मराजः प्रतापवान्
अब्रवीत्तत्र तं मृत्युमयमेनं निहन्म्यहम् 26
ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः
कालदण्डममोघं तं तोलयामास पाणिना 27
यस्य पार्श्वेषु निश्छिद्रा ः! कालपाशाः प्रतिष्ठिताः
पावकस्पर्शसंकाशो मुद्गरो मूर्तिमान्स्थितः 28
दर्शनादेव यः प्राणान्प्राणिनामुरुध्यति
किं पुनस्ताडनाद्वापि पीडनाद्वापि देहिनः 29
स ज्वालापरिवारस्तु पिबन्निव निशाचरम्
करस्पृष्टो बलवता दण्डः क्रुद्धः सुदारुणः 30
ततो विदुद्रुवुः सर्वे सत्त्वास्तस्माद्र णाजिरात्
सुराश्च क्षुभिता दृष्ट्वा कालदण्डोद्यतं यमम् 31
तस्मिन्प्रहर्तुकामे तु दण्डमुद्यम्य रावणम्
यमं पितामहः साक्षाद्दर्शयित्वेदमब्रवीत् 32
वैवस्वत महाबाहो न खल्वतुलविक्रम
प्रहर्तव्यं त्वयैतेन दण्डेनास्मिन्निशाचरे 33
वरः खलु मया दत्तस्तस्य त्रिदशपुंगव
तत्त्वया नानृतं कार्यं यन्मया व्याहृतं वचः 34
अमोघो ह्येष सर्वासां प्रजानां विनिपातने
कालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः 35
तन्न खल्वेष ते सौम्य पात्यो राक्षसमूर्धनि
न ह्यस्मिन्पतिते कश्चिन्मुहूर्तमपि जीवति 36
यदि ह्यस्मिन्निपतिते न म्रियेतैष राक्षसः
म्रियेत वा दशग्रीवस्तथाप्युभयतोऽनृतम् 37
राक्षसेन्द्रा न्नियच्छाद्य दण्डमेनं वधोद्यतम्
सत्यं मम कुरुष्वेदं लोकांस्त्वं समवेक्ष्य च 38
एवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदा
एष व्यावर्तितो दण्डः प्रभविष्णुर्भवान्हि नः 39
किं त्विदानीं मया शक्यं कर्तुं रणगतेन हि
यन्मया यन्न हन्तव्यो राक्षसो वरदर्पितः 40
एष तस्मात्प्रणश्यामि दर्शनादस्य रक्षसः
इत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत 41
दशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनः
पुष्पकेण तु संहृष्टो निष्क्रान्तो यमसादनात् 42
ततो वैवस्वतो देवैः सह ब्रह्मपुरोगमैः
जगाम त्रिदिवं हृष्टो नारदश्च महामुनिः 43
इति श्रीरामायणे उत्तरकाण्डे द्वाविंशः सर्गः 22

7-23
स तु जित्वा दशग्रीवो यमं त्रिदशपुंगवम्
रावणस्तु जयश्लाघी स्वसहायान्ददर्श ह 1
जयेन वर्धयित्वा च मारीचप्रमुखास्ततः
पुष्पकं भेजिरे सर्वे सान्त्विता रावणेन ह 2
ततो रसातलं हृष्टः प्रविष्टः पयसो निधिम्
दैत्योरगगणाध्युष्टं वरुणेन सुरक्षितम् 3
स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम्
स्थाप्य नागान्वशे कृत्वा ययौ मणिमतीं पुरीम् 4
निवातकवचास्तत्र दैत्या लब्धवरा वसन्
राक्षसस्तान्समासाद्य युद्धेन समुपाह्वयत् 5
ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः
नानाप्रहरणास्तत्र प्रयुद्धा युद्धदुर्मदाः6
तेषां तु युध्यमानानां साग्रः संवत्सरो गतः
न चान्यतरयोस्तत्र विजयो वा क्षयोऽपि वा 7
ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः
आजगाम द्रुतं देवो विमानवरमास्थितः 8
निवातकवचानां तु निवार्य रणकर्म तत्
बूद्धः पितामहो वाक्यमुवाच विदितार्थवत् 9
न ह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः
न भवन्तः क्षयं नेतुं शक्याः सेन्द्रै ः! सुरासुरैः 10
राक्षसस्य सखित्वं वै भवद्भिः सह रोचते
अविभक्ता हि सर्वार्थाः सुहृदां नात्र संशयः 11
ततोऽग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणः
निवातकवचैः सार्धं प्रीतिमानभवत्तदा 12
अर्चितस्तैर्यथान्यायं संवत्सरसुखोषितः
स्वपुरान्निर्विशेषं च पूजां प्राप्तो दशाननः 13
स तूपधार्य मायानां शतमेकोनमात्मवान्
सलिलेन्द्र पुरान्वेषी स बभ्राम रसातलम् 14
ततोऽश्मनगरं नाम कालकेयाभिरक्षितम्
तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुःशतम् 15
ततः पाण्डुरमेघाभं कैलासमिव संस्थितम्
वरुणस्यालयं दिव्यमपश्यद्रा क्षसाधिपः 16
क्षरन्तीं च पयो नित्यं सुरभिं गामवस्थिताम्
यस्याः पयोविनिष्यन्दात्क्षीरोदो नाम सागरः 17
यस्माच्चन्द्र ः! प्रभवति शीतरश्मिः प्रजाहितः
यं समासाद्य जीवन्ति फेनपाः परमर्षयः
अमृतं यत्र चोत्पन्नं सुरा चापि सुराशिनाम् 18
यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः
प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम्
प्रविवेश महाघोरं गुप्तं बहुविधैर्बलैः 19
ततो धाराशताकीर्णं शारदाभ्रनिभं तदा
नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम् 20
ततो हत्वा बलाध्यक्षान्समरे तैश्च ताडितः
अब्रवीत्क्व गतो यो वो राजा शीघ्रं निवेद्यताम् 21
युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम्
वद वा न भयं तेऽस्ति निर्जितोऽस्मीति साञ्जलि 22
एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः
पुत्राः पौत्राश्च निष्क्रामन्गौश्च पुष्कर एव च 23
ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः
युक्त्वा रथान्कामगमानुद्यद्भास्करवर्चसः 24
ततो युद्धं समभवद्दारुणं लोमहर्षणम्
सलिलेन्द्र स्य पुत्राणां रावणस्य च रक्षसः 25
अमात्यैस्तु महावीर्यैर्दशग्रीवस्य रक्षसः
वारुणं तद्बलं कृत्स्नं क्षणेन विनिपातितम् 26
समीक्ष्य स्वबलं संख्ये वरुणस्य सुतास्तदा
अर्दिताः शरजालेन निवृत्ता रणकर्मणः 27
महीतलगतास्ते तु रावणं दृश्य पुष्पके
आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः 28
महदासीत्ततस्तेषां तुल्यं स्थानमवाप्य तत्
आकाशयुद्धं तुमुलं देवदानवयोरिव 29
ततस्ते रावणं युद्धे शरैः पावकसंनिभैः
विमुखीकृत्य संहृष्टा विनेदुर्विविधान्रवान् 30
ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम्
त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत् 31
तेन तेषां हया ये च कामगाः पवनोपमाः
महोदरेण गदया हतास्ते प्रययुः क्षितिम् 32
तेषां वरुणसूनूनां हत्वा योधान्हयांश्च तान्
मुमोचाशु महानादं विरथान्प्रेक्ष्य तान्स्थितान् 33
ते तु तेषां रथाः साश्वाः सह सारथिभिर्वरैः
महोदरेण निहताः पतिताः पृथिवीतले 34
ते तु त्यक्त्वा रथान्पुत्रा वरुणस्य महात्मनः
आकाशे विष्टिताः शूराः स्वप्रभावान्न विव्यथुः 35
धनूंषि कृत्वा सज्यानि विनिर्भिद्य महोदरम्
रावणं समरे क्रुद्धाः सहिताः समभिद्र वन् 36
ततः क्रुद्धो दशग्रीवः कालाग्निरिव विष्ठितः
शरवर्ष महावेगं तेषां मर्मस्वपातयत् 37
मुसलानि विचित्राणि ततो भल्लशतानि च
पट्टसांश्चैव शक्तीश्चशतघ्नीस्तोमरांस्तथा
पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः 38
अथ विद्धास्तु ते वीरा विनिष्पेतुः पदातयः 39
ततो रक्षो महानादं मुक्त्वा हन्ति स्म वारुणान्
नानाप्रहरणैर्घोरैर्धारापातैरिवाम्बुदः 40
ततस्ते विमुखा सर्वे पतिता धरणीतले
रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः 41
तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम्
रावणं चाब्रवीन्मन्त्री प्रभासो नाम वारुणः 42
गतः खलु महातेजा ब्रह्मलोकं जलेश्वरः
गान्धर्वं वरुणः श्रोतुं यं त्वमाह्वयसे युधि 43
तत्किं तव वृथा वीर परिश्राम्य गते नृपे
ये तु संनिहिता वीराः कुमारास्ते पराजिताः 44
राक्षसेन्द्र स्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः
हर्षान्नादं विमुञ्चन्वै निष्क्रान्तो वरुणालयात् 45
आगतस्तु पथा येन तेनैव विनिवृत्य सः
लङ्कामभिमुखो रक्षो नभस्तलगतो ययौ 46
इति श्रीरामायणे उत्तरकाण्डे त्रयोविंशः सर्गः 23

7-24
निवर्तमानः संहृष्टो रावणः स दुरात्मवान्
जह्ने पथि नरेन्द्र र्षिदेवगन्धर्वकन्यकाः 1
दर्शनीयां हि यां रक्षः कन्यां स्त्रीं वाथ पश्यति
हत्वा बन्धुजनं तस्या विमाने संन्यवेशयत् 2
तत्र पन्नगयक्षणां मानुषाणां च रक्षसाम्
दैत्यानां दानवानां च कन्या जग्राह रावणः 3
दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्र निभाननाः
शोकायत्तास्तरुण्यश्च समस्ता स्तननम्रिताः 4
तुल्यमग्न्यर्चिषां तत्र शोकाग्निभयसंभवम्
प्रवेपमाना दुःखार्ता मुमुचुर्बाष्पजं जलम् 5
तासां निश्वसमानानां निश्वासैः संप्रदीपितम्
अग्रिहोत्रमिवाभाति संनिरुद्धाग्नि पुष्पकम्6
काचिद्दध्यौ सुदुःखार्ता हन्यादपि हि मामयम्
स्मृत्वा मातॄः पितॄन्भ्रातॄन्पुत्रान्वै श्वशुरानपि
दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः 7
कथं नु खलु मे पुत्रः करिष्यति मया विना
कथं माता कथं भ्राता निमग्नाः शोकसागरे 8
हा कथं नु करिष्यामि भर्तारं दैवतं विना
मृत्यो प्रसीद याचे त्वां नय मां यमसादनम् 9
किं नु मे दुष्कृतं कर्म कृतं देहान्तरे पुरा
ततोऽस्मि धर्षितानेन पतिता शोकसागरे 10
न खल्विदानीं पश्यामि दुःखस्यान्तमिहात्मनः
अहो धिङ्मानुषाँ ल्लोकान्नास्ति खल्वधमः परः 11
यद्दुर्बला बलवता बान्धवा रावणेन मे
उदितेनैव सूर्येण तारका इव नाशिताः 12
अहो सुबलवद्र क्षो वधोपायेषु रज्यते
अहो दुर्वृत्तमात्मानं स्वयमेव न बुध्यते 13
सर्वथा सदृशस्तावद्विक्रमोऽस्य दुरात्मनः
इदं त्वसदृशं कर्म परदाराभिमर्शनम् 14
यस्मादेष परक्यासु स्त्रीषु रज्यति दुर्मतिः
तस्माद्धि स्त्रीकृतेनैव वधं प्राप्स्यति रावणः 15
शप्तः स्त्रीभिः स तु तदा हततेजाः सुनिष्प्रभः
पतिव्रताभिः साध्वीभिः स्थिताभिः साधुवर्त्मनि 16
एवं विलपमानासु रावणो राक्षसाधिपः
प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः 17
ततो राक्षसराजस्य स्वसा परमदुःखिता
पादयोः पतिता तस्य बक्तुमेवोपचक्रमे 18
ततः स्वसारमुत्थाप्य रावणः परिसान्त्वयन्
अब्रवीत्किमिदं भद्रे वक्तुमर्हसि मे द्रुतम् 19
सा बाष्पपरिरुद्धाक्षी राक्षसी वाक्यमब्रीत्
हतास्मि विधवा राजंस्त्वया बलवता कृता 20
एते वीर्यात्त्वया राजन्दैत्या विनिहता रणे
कालकेया इति ख्याता महाबलपराक्रमाः 21
तत्र मे निहतो भर्ता गरीयाञ्जीवितादपि
स त्वया दयितस्तत्र भ्रात्रा शत्रुसमेन वै 22
या त्वयास्मि हता राजन्स्वयमेवेह बन्धुना
दुःखं वैधव्यशब्दं च दत्तं भोक्ष्याम्यहं त्वया 23
ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि
तं निहत्य रणे राजन्स्वयमेव न लज्जसे 24
एवमुक्तस्तया रक्षो भगिन्या क्रोशमानया
अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः 25
अलं वत्से विषादेन न भेतव्यं च सर्वशः
मानदानविशेषैस्त्वां तोषयिष्यामि नित्यशः 26
युद्धे प्रमत्तो व्याक्षिप्तो जयकाङ्क्षी क्षिपञ्शरान्
नावगच्छामि युद्धेषु स्वान्परान्वाप्यहं शुभे
तेनासौ निहतः संख्ये मया भर्ता तव स्वसः 27
अस्मिन्काले तु यत्प्राप्तं तत्करिष्यामि ते हितम्
भ्रातुरैश्वर्यसंस्थस्य खरस्य भव पार्श्वतः 28
चतुर्दशानां भ्राता ते सहस्राणां भविष्यति
प्रभुः प्रयाणे दाने च राक्षसानां महौजसाम् 29
तत्र मातृष्वसुः पुत्रो भ्राता तव खरः प्रभुः
भविष्यति सदा कुर्वन्यद्वक्ष्यसि वचः स्वयम् 30
शीघ्रं गच्छत्वयं शूरो दण्डकान्परिरक्षितुम्
दूषणोऽस्य बलाध्यक्षो भविष्यति महाबलः 31
स हि शप्तो वनोद्देशः क्रुद्धेनोशनसा पुरा
राक्षसानामयं वासो भविष्यति न संशयः 32
एवमुक्त्वा दशग्रीवः सैन्यं तस्यादिदेश ह
चतुर्दश सहस्राणि रक्षसां कामरूपिणाम् 33
स तैः सर्वैः परिवृतो राक्षसैर्घोरदर्शनैः
खरः संप्रययौ शीघ्रं दण्डकानकुतोभयः 34
स तत्र कारयामास राज्यं निहतकण्टकम्
सा च शूर्पणखा प्रीता न्यवसद्दण्डकावने 35
इति श्रीरामायणे उत्तरकाण्डे चतुर्विंशः सर्गः 24

7-25
स तु दत्त्वा दशग्रीवो वनं घोरं खरस्य तत्
भगिनीं च समाश्वास्य हृष्टः स्वस्थतरोऽभवत् 1
ततो निकुम्भिला नाम लङ्कायाः काननं महत्
महात्मा राक्षसेन्द्र स्तत्प्रविवेश सहानुगः 2
तत्र यूपशताकीर्णं सौम्यचैत्योपशोभितम्
ददर्श विष्ठितं यज्ञं संप्रदीप्तमिव श्रिया 3
ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम्
ददर्श स्वसुतं तत्र मेघनादमरिंदमम् 4
रक्षःपतिः समासाद्य समाश्लिष्य च बाहुभिः
अब्रवीत्किमिदं वत्स वर्तते तद्ब्रवीहि मे 5
उशना त्वब्रवीत्तत्र गुरुर्यज्ञसमृद्धये
रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः6
अहमाख्यामि ते राजञ्श्रूयतां सर्वमेव च
यज्ञास्ते सप्त पुत्रेण प्राप्ताः सुबहुविस्तराः 7
अग्निष्टोमोऽश्वमेधश्च यज्ञो बहुसुवर्णकः
राजसूयस्तथा यज्ञो गोमेधो वैष्णवस्तथा 8
माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे
वरांस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरिह 9
कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम्
मायां च तामसीं नाम यया संपद्यते तमः 10
एतया किल संग्रामे मायया राक्षसेश्वर
प्रयुद्धस्य गतिः शक्या न हि ज्ञातुं सुरासुरैः 11
अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम्
अस्त्रं च बलवत्सौम्य शत्रुविध्वंसनं रणे 12
एतान्सर्वान्वराँ ल्लब्ध्वा पुत्रस्तेऽय दशानन
अद्य यज्ञसमाप्तौ च त्वत्प्रतीक्षः स्थितो अहम् 13
ततोऽब्रवीद्दशग्रीवो न शोभनमिदं कृतम्
पूजिताः शत्रवो यस्माद्द्र व्यैरिन्द्र पुरोगमाः 14
एहीदानीं कृतं यद्धि तदकर्तुं न शक्यते
आगच्छ सौम्य गच्छामः स्वमेव भवनं प्रति 15
ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः
स्त्रियोऽवतारयामास सर्वास्ता वाष्पविक्लवाः 16
लक्षिण्यो रत्नभूताश्च देवदानवरक्षसाम्
नानाभूषणसम्पन्ना ज्वलन्त्यः स्वेन तेजसा 17
विभीषणस्तु ता नारीर्दृष्ट्वा शोकसमाकुलाः
तस्य तां च मतिं ज्ञात्वा धर्मात्मा वाक्यमब्रवीत् 18
ईदृशैस्तैः समाचारैर्यशोऽथकुलनाशनैः
धर्षणं प्राणिनां दत्त्वा स्वमतेन विचेष्टसे 19
ज्ञातीन्वै धर्षयित्वेमास्त्वयानीता वराङ्गनाः
त्वामतिक्रम्य मधुना राजन्कुम्भीनसी हृता 20
रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं त्विदम्
को वायं यस्त्वयाख्यातो मधुरित्येव नामतः 21
विभीषणस्तु संक्रुद्धो भ्रातरं वाक्यमब्रवीत्
श्रूयतामस्य पापस्य कर्मणः फलमागतम् 22
मातामहस्य योऽस्माकं ज्येष्ठो भ्राता सुमालिनः
माल्यवानिति विख्यातो वृद्धः प्राज्ञो निशाचरः 23
पितुर्ज्येष्ठो जनन्याश्च अस्माकं त्वार्यकोऽभवत्
तस्य कुम्भीनसी नाम दुहितुर्दुहिताभवत् 24
मातृष्वसुरथास्माकं सा कन्या चानलोद्भवा
भवत्यस्माकमेषा वै भ्रातॄणां धर्मतः स्वसा 25
सा हृता मधुना रानन्राक्षसेन बलीयसा
यज्ञप्रवृत्ते पुत्रे ते मयि चान्तर्जलोषिते 26
निहत्य राक्षसश्रेष्ठानमात्यांस्तव संमतान्
धर्षयित्वा हृता राजन्गुप्ता ह्यन्तःपुरे तव 27
श्रुत्वा त्वेतन्महाराज क्षान्तमेव हतो न सः
यस्मादवश्यं दातव्या कन्या भर्त्रे हि दातृभिः
अस्मिन्नेवाभिसंप्राप्तं लोके विदितमस्तु ते 28
ततोऽब्रवीद्दशग्रीवः क्रुद्धः संरक्तलोचनः
कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु च 29
भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः
वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः 30
अद्य तं समरे हत्वा मधुं रावणनिर्भयम्
इन्द्र लोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः 31
ततो विजित्य त्रिदिवं वशे स्थाप्य पुरंदरम्
निर्वृतो विहरिष्यामि त्रैलोक्यैश्वर्यशोभितः 32
अक्षौहिणीसहस्राणि चत्वार्युग्राणि रक्षसाम्
नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम् 33
इन्द्र जित्त्वग्रतः सैन्यं सैनिकान्परिगृह्य च
रावणो मध्यतः शूरः कुम्भकर्णश्च पृष्ठतः 34
विभीषणस्तु धर्मात्मा लङ्कायां धर्ममाचरत्
ते तु सर्वे महाभागा ययुर्मधुपुरं प्रति 35
रथैर्नागैः खरैरुष्ट्रैर्हयैर्दीप्तैर्महोरगैः
राक्षसाः प्रययुः सर्वे कृत्वाकाशं निरन्तरम् 36
दैत्याश्च शतशस्तत्र कृतवैराः सुरैः सह
रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्त पृष्ठतः 37
स तु गत्वा मधुपुरं प्रविश्य च दशाननः
न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान् 38
सा प्रह्वा प्राञ्जलिर्भूत्वा शिरसा पादयोर्गता
तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी स्वसा 39
तां समुत्थापयामास न भेतव्यमिति ब्रुवन्
रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते 40
साब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाबल
भर्तारं न ममेहाद्य हन्तुमर्हसि मानद 41
सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम्
त्वया ह्युक्तं महाबाहो न भेतव्यमिति स्वयम् 42
रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम्
क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् 43
सह तेन गमिष्यामि सुरलोकं जयाय वै
तव कारुण्यसौहार्दान्निवृत्तोऽस्मि मधोर्वधात् 44
इत्युक्ता सा प्रसुप्तं तं समुत्थाप्य निशाचरम्
अब्रवीत्संप्रहृष्टेव राक्षसी सुविपश्चितम् 45
एष प्राप्तो दशग्रीवो मम भ्राता निशाचरः
सुरलोकजयाकाङ्क्षी सहाय्ये त्वां वृणोति च 46
तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस
स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितुम् 47
तस्यास्तद्ववचनं श्रुत्वा तथेत्याह मधुर्वचः
ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः 48
पूजयामास धर्मेण रावणं राक्षसाधिपम्
प्राप्तपूजो दशग्रीवो मधुवेश्मनि वीर्यवान्
तत्र चैकां निशामुष्य गमनायोपचक्रमे 49
ततः कैलासमासाद्य शैलं वैश्रवणालयम्
राक्षसेन्द्रो महेन्द्रा भः सेनामुपनिवेशयत् 50
इति श्रीरामायणे उत्तरकाण्डे पञ्चविंशः सर्गः 25

7-26
स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान्
अस्तं प्राप्ते दिनकरे निवासं समरोचयत् 1
उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि
स ददर्श गुणांस्तत्र चन्द्र पादोपशोभितान् 2
कर्णिकारवनैर्दिव्यैः कदम्बगहनैस्तथा
पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि 3
घण्टानामिव संनादः शुश्रुवे मधुरस्वनः
अप्सरोगणसंघानां गायतां धनदालये 4
पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः
शैलं तं वासयन्तीव मधुमाधवगन्धिनः 5
मधुपुष्परजःपृक्तं गन्धमादाय पुष्कलम्
प्रववौ वर्धयन्कामं रावणस्य सुखोऽनिलः6
गेयात्पुष्पसमृद्ध्या च शैत्याद्वायोर्गुणैर्गिरेः
प्रवृत्तायां रजन्यां च चन्द्र स्योदयनेन च 7
रावणः सुमहावीर्यः कामबाणवशं गतः
विनिश्वस्य विनिश्वस्य शशिनं समवैक्षत 8
एतस्मिन्नन्तरे तत्र दिव्य पुष्पविभूषिता
सर्वाप्सरोवरा रम्भा पूर्णचन्द्र निभानना 9
कृतैर्विशेषकैराद्रै रः! षडर्तुकुसुमोत्सवैः
नीलं सतोयमेघाभं वस्त्रं समवगुण्ठिता 10
यस्या वक्त्रं शशिनिभं भ्रुवौ चापनिभे शुभे
ऊरू करिकराकारौ करौ पल्लवकोमलौ
सैन्यमध्येन गच्छन्ती रावणेनोपलक्षिता 11
तां समुत्थाय रक्षेन्द्र ः! कामबाणबलार्दितः
करे गृहीत्वा गच्छन्तीं स्मयमानोऽभ्यभाषत 12
क्व गच्छसि वरारोहे कां सिद्धि भजसे स्वयम्
कस्याभ्युदयकालोऽय यस्त्वां समुपभोक्ष्यते 13
तवाननरसस्याद्य पद्मोत्पलसुगन्धिनः
सुधामृतरसस्येव कोऽद्य तृप्तिं गमिष्यति 14
स्वर्णकुभ्भनिभौ पीनौ शुभौ भीरु निरन्तरौ
कस्योरस्थलसंस्पर्शं दास्यतस्ते कुचाविमौ 15
सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु
अध्यारोक्ष्यति कस्तेऽद्य स्वर्गं जघनरूपिणम् 16
मद्विशिष्टः पुमान्कोऽन्य शक्रो विष्णुरथाश्विनौ
मामतीत्य हि यस्य त्वं यासि भीरु न शोभनम् 17
विश्रम त्वं पृथुश्रोणि शिलातलमिदं शुभम्
त्रैलोक्ये यः प्रभुश्चैव तुल्यो मम न विद्यते 18
तदेष प्राञ्जलि प्रह्वो याचते त्वां दशाननः
यः प्रभुश्चापि भर्ता च त्रैलोक्यस्य भजस्व माम् 19
एवमुक्ताब्रवीद्र म्भा वेपमाना कृताञ्जलि
प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः 20
अन्येभ्योऽपि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि
धर्मतश्च स्नुषा तेऽह तत्त्वमेतद्र् ब्रवीमि ते 21
अब्रवीत्तां दशग्रीवश्चरणाधोमुखीं स्थिताम्
सुतस्य यदि मे भार्या ततस्त्वं मे स्नुषा भवेः 22
बाढमित्येव सा रम्भा प्राह रावणमुत्तरम्
धर्मतस्ते सुतस्याहं भार्या राक्षसपुंगव 23
पुत्रः प्रियतरः प्राणैर्भ्रातुर्वैश्रवणस्य ते
ख्यातो यस्त्रिषु लोकेषु नलकूबर इत्यसौ 24
धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत्
क्रोधाद्यश्च भवेदग्निः क्षान्त्या च वसुधासमः 25
तस्यास्मि कृतसंकेता लोकपालसुतस्य वै
तमुद्दिश्य च मे सर्वं विभूषणमिदं कृतम् 26
यथा तस्य हि नान्यस्य भावो मां प्रति तिष्ठति
तेन सत्येन मां राजन्मोक्तुमर्हस्यरिंदम् 27
स हि तिष्ठति धर्मात्मा साम्प्रतं मत्समुत्सुकः
तन्न विघ्नं सुतस्येह कर्तुमर्हसि मुञ्च माम् 28
सद्भिराचरितं मार्गं गच्छ राक्षसपुंगव
माननीयो मया हि त्वं लालनीया तथास्मि ते 29
एवं ब्रुवाणां रम्भां तां धर्मार्थसहितं वचः
निर्भर्त्स्य राक्षसो मोहात्प्रतिगृह्य बलाद्र् बली
काममोहाभिसंरब्धो मैथुनायोपचक्रमे 30
सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा
गजेन्द्रा क्रीडमथिता नदीवाकुलतां गता 31
सा वेपमाना लज्जन्ती भीता करकृताञ्जलि
नलकूबरमासाद्य पादयोर्निपपात ह 32
तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः
अब्रवीत्किमिदं भद्रे पादयोः पतितासि मे 33
सा तु निश्वसमाना च वेपमानाथ साञ्जलि
तस्मै सर्वं यथातथ्यमाख्यातुमुपचक्रमे 34
एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम्
तेन सैन्यसहायेन निशेह परिणाम्यते 35
आयान्ती तेन दृष्टास्मि त्वत्सकाशमरिंदम
गृहीत्वा तेन पृष्टास्मि कस्य त्वमिति रक्षसा 36
मया तु सर्वं यत्सत्यं तद्धि तस्मै निवेदितम्
काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम 37
याच्यमानो मया देव स्नुषा तेऽहमिति प्रभो
तत्सर्वं पृष्ठतः कृत्वा बलात्तेनास्मि धर्षिता 38
एवं त्वमपराधं मे क्षन्तुमर्हसि मानद
न हि तुल्यं बलं सौम्य स्त्रियाश्च पुरुषस्य च 39
एवं श्रुत्वा तु संक्रुद्धस्तदा वैश्रवणात्मजः
धर्षणां तां परां श्रुत्वा ध्यानं संप्रविवेश ह 40
तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजः
मुहूर्ताद्रो षताम्राक्षस्तोयं जग्राह पाणिना 41
गृहीत्वा सलिलं दिव्यमुपस्पृश्य यथाविधि
उत्ससर्ज तदा शापं राक्षसेन्द्रा य दारुणम् 42
अकामा तेन यस्मात्त्वं बलाद्भद्रे प्रधर्षिता
तस्मात्स युवतीमन्यां नाकामामुपयास्यति 43
यदा त्वकामां कामार्तो धर्षयिष्यति योषितम्
मूर्धा तु सप्तधा तस्य शकलीभविता तदा 44
तस्मिन्नुदाहृते शापे ज्वलिताग्निसमप्रभे
देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता 45
प्रजापतिमुखाश्चापि सर्वे देवाः प्रहर्षिताः
ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः 46
श्रुत्वा तु स दशग्रीवस्तं शापं रोमहर्षणम्
नारीषु मैथुनं भावं नाकामास्वभ्यरोचयत् 47
इति श्रीरामायणे उत्तरकाण्डे षडिंवशः सर्गः 26

7-27
कैलासं लङ्घयित्वाथ दशग्रीवः सराक्षसः
आससाद महातेजा इन्द्र लोकं निशाचरः 1
तस्य राक्षससैन्यस्य समन्तादुपयास्यतः
देवलोकं ययौ शब्दो भिद्यमानार्णवोपमः 2
श्रुत्वा तु रावणं प्राप्तमिन्द्र ः! संचलितासनः
अब्रवीत्तत्र तान्देवान्सर्वानेव समागतान् 3
आदित्यान्सवसून्रुद्रा न्विश्वान्साध्यान्मरुद्गणान्
सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः 4
एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि
संनह्यन्त महासत्त्वा युद्धश्रद्धासमन्विताः 5
स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति
विष्णोः समीपमागत्य वाक्यमेतदुवाच ह6
विष्णो कथं करिष्यामो महावीर्यपराक्रम
असौ हि बलवान्रक्षो युद्धार्थमभिवर्तते 7
वरप्रदानाद्ब्रलवान्न खल्वन्येन हेतुना
तच्च सत्यं हि कर्तव्यं वाक्यं देव प्रजापतेः 8
तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौ
त्वन्मतं समवष्टभ्य यथा दग्धास्तथा कुरु 9
नह्यन्यो देव देवानामापत्सु सुमहाबल
गतिः परायणं वास्ति त्वामृते पुरुषोत्तम 10
त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनः
त्वयाहं स्थापितश्चैव देवराज्ये सनातने 11
तदाख्याहि यथातत्त्वं देवदेव मम स्वयम्
असिचक्रसहायस्त्वं युध्यसे संयुगे रिपुम् 12
एवमुक्तः स शक्रेण देवो नारायणः प्रभुः
अब्रवीन्न परित्रासः कार्यस्ते श्रूयतां च मे 13
न तावदेष दुर्वृत्तः शक्यो दैवतदानवैः
हन्तुं युधि समासाद्य वरदानेन दुर्जयः 14
सर्वथा तु महत्कर्म करिष्यति बलोत्कटः
रक्षः पुत्रसहायोऽसौ दृष्टमेतन्निसर्गतः 15
ब्रवीषि यत्तु मां शक्र संयुगे योत्स्यसीति ह
नैवाहं प्रतियोत्स्ये तं रावणं राक्षसाधिपम् 16
अनिहत्य रिपुं विष्णुर्न हि प्रतिनिवर्तते
दुर्लभश्चैष कामोऽद्य वरमासाद्य राक्षसे 17
प्रतिजानामि देवेन्द्र त्वत्समीपं शतक्रतो
राक्षसस्याहमेवास्य भविता मृत्युकारणम् 18
अहमेनं वधिष्यामि रावणं ससुतं युधि
देवतास्तोषयिष्यामि ज्ञात्वा कालमुपस्थितम् 19
एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षये
तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः 20
अथ युद्धं समभवद्देवराक्षसयोस्तदा
घोरं तुमुलनिर्ह्रादं नानाप्रहरणायुधम् 21
एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः
युद्धार्थमभ्यधावन्त सचिवा रावणाज्ञया 22
मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ
अकम्पनो निकुम्भश्च शुकः सारण एव च 23
संह्रादिर्धूमकेतुश्च महादंष्ट्रो महामुखः
जम्बुमाली महामाली विरूपाक्षश्च राक्षसः 24
एतैः सर्वैर्महावीर्यैर्वृतो राक्षसपुंगवः
रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह 25
स हि देवगणान्सर्वान्नानाप्रहरणैः शितैः
विध्वंसयति संक्रुद्धः सह तैः क्षणदाचरैः 26
एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः
सावित्र इति विख्यातः प्रविवेश महारणम् 27
ततो युद्धं समभवत्सुराणां राक्षसैः सह
क्रुद्धानां रक्षसां कीर्ति समरेष्वनिवर्तिनाम् 28
ततस्ते राक्षसाः शूरा देवांस्तान्समरे स्थितान्
नानाप्रहरणैघोरैर्जघ्नुः शतसहस्रशः 29
सुरास्तु राक्षसान्घोरान्महावीर्यान्स्वतेजसा
समरे विविधैः शस्त्रैरनयन्यमसादनम् 30
एतस्मिन्नन्तरे शूरः सुमाली नाम राक्षसः
नानाप्रहरणैः क्रुद्धो रणमेवाभ्यवर्तत 31
देवानां तद्ब्रलं सर्वं नानाप्रहरणैः शितैः
विध्वंसयति संक्रुद्धो वायुर्जलधरानिव 32
ते महाबाणवर्षैश्च शूलैः प्रासैश्च दारुणैः
पीड्यमानाः सुराः सर्वे न व्यतष्ठन्समाहिताः 33
ततो विद्रा व्यमाणेषु त्रिदशेषु सुमालिना
वसूनामष्टमो देवः सावित्रो व्यवतिष्ठत 34
संवृतः स्वैरनीकैस्तु प्रहरन्तं निशाचरम्
विक्रमेण महातेजा वारयामास संयुगे 35
सुमत्तयोस्तयोरासीद्युद्धं लोके सुदारुणम्
सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः 36
ततस्तस्य महाबाणैर्वसुना सुमहात्मना
महान्स पन्नगरथः क्षणेन विनिपातितः 37
हत्वा तु संयुगे तस्य रथं बाणशतैः शितैः
गदां तस्य बधार्थाय वसुर्जग्राह पाणिना 38
तां प्रदीप्तां प्रगृह्याशु कालदण्डनिभां शुभाम्
तस्य मूर्धनि सावित्रः सुमालेर्विनिपातयत् 39
तस्य मूर्धनि सोल्काभा पतन्ती च तदा बभौ
सहस्राक्षसमुत्सृष्टा गिराविव महाशनिः 40
तस्य नैवास्थि कायो वा न मांसं ददृशे तदा
गदया भस्मसाद्भूतो रणे तस्मिन्निपातितः 41
तं दृष्ट्वा निहतं संख्ये राक्षसास्ते समन्ततः
दुद्रुवुः सहिताः सर्वे क्रोशमाना महास्वनम् 42
इति श्रीरामायणे उत्तरकाण्डे सप्तविंशः सर्गः 27
7-28
सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम्
विद्रुतं चापि स्वं सैन्यं लक्षयित्वार्दितं शरैः 1
ततः स वलवान्क्रुद्धो रावणस्य सुतो युधि
निवर्त्य राक्षसान्सर्वान्मेघनादो व्यतिष्ठत 2
स रथेनाग्निवर्णेन कामगेन महारथः
अभिदुद्रा व सेनां तां वनान्यग्निरिव ज्वलन् 3
ततः प्रविशतस्तस्य विविधायुधधारिणः
विदुद्रुवुर्दिशः सर्वा देवास्तस्य च दर्शनात् 4
न तत्रावस्थितः कश्चिद्र णे तस्य युयुत्सतः
सर्वानाविध्य वित्रस्तान्दृष्ट्वा शक्रोऽभ्यभाषत 5
न भेतव्यं न गन्तव्यं निवर्तध्वं रणं प्रति
एष गच्छति मे पुत्रो युद्धार्थमपराजितः6
ततः शक्रसुतो देवो जयन्त इति विश्रुतः
रथेनाद्भुतकल्पेन संग्राममभिवर्तत 7
ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम्
रावणस्य सुतं युद्धे समासाद्य व्यवस्थिताः 8
तेषां युद्धं महदभूत्सदृशं देवरक्षसाम्
कृते महेन्द्र पुत्रस्य राक्षसेन्द्र सुतस्य च 9
ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः
सारथौ पातयामास शरान्काञ्चनभूषणान् 10
शचीसुतस्त्वपि तथा जयन्तस्तस्य सारथिम्
तं चैव रावणिं क्रुद्धः प्रत्यविध्यद्र णाजिरे 11
ततः क्रुद्धो महातेजा रक्षो विस्फारितेक्षणः
रावणिः शक्रपुत्रं तं शरवर्षैरवाकिरत् 12
ततः प्रगृह्य शस्त्राणि सारवन्ति महान्ति च
शतघ्नीस्तोमरान्प्रासान्गदाखड्गपरश्वधान्
सुमहान्त्यद्रि शृङ्गाणि पातयामास रावणिः 13
ततः प्रव्यथिता लोकाः संजज्ञे च तमो महत्
तस्य रावणपुत्रस्य तदा शत्रूनभिघ्नतः 14
ततस्तद्दैवतबलं समन्तात्तं शचीसुतम्
बहुप्रकारमस्वस्थं तत्र तत्र स्म धावति 15
नाभ्यजानंस्तदान्योन्यं शत्रून्वा दैवतानि वा
तत्र तत्र विपर्यस्तं समन्तात्परिधावितम् 16
एतस्मिन्नन्तरे शूरः पुलोमा नाम वीर्यवान्
दैतेयस्तेन संगृह्य शचीपुत्रोऽपवाहितः 17
गृहीत्वा तं तु नप्तारं प्रविष्टः स महोदधिम्
मातामहोऽयकस्तस्य पौलोमी येन सा शची 18
प्रणाशं दृश्य तु सुरा जयन्तस्यातिदारुणम्
व्यथिताश्चाप्रहृष्टाश्च समन्ताद्विप्रदुद्रुवुः 19
रावणिस्त्वथ संहृष्टो बलैः परिवृतः स्वकैः
अभ्यधावत देवांस्तान्मुमोच च महास्वनम् 20
दृष्ट्वा प्रणाशं पुत्रस्य रावणेश्चापि विक्रमम्
मातलि प्राह देवेन्द्रो रथः समुपनीयताम् 21
स तु दिव्यो महाभीमः सज्ज एव महारथः
उपस्थितो मातलिना वाह्यमानो मनोजवः 22
ततो मेघा रथे तस्मिंस्तडिद्वन्तो महास्वनाः
अग्रतो वायुचपला गच्छन्तो व्यनदंस्तदा 23
नानावाद्यानि वाद्यन्त स्तुतयश्च समाहिताः
ननृतुश्चाप्सरःसंघाः प्रयाते वासवे रणम् 24
रुद्रै र्वसुभिरादित्यैः साध्यैश्च समरुद्गणैः
वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः 25
निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ
भास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे 26
एतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान्
आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा 27
पन्नगैः सुमहाकायैर्वेष्टितं लोमहर्षणैः
येषां निश्वासवातेन प्रदीप्तमिव संयुगम् 28
दैत्यैर्निशाचरैः शूरै रथः संपरिवारितः
समराभिमुखो दिव्यो महेन्द्र मभिवर्तत 29
पुत्रं तं वारयित्वासौ स्वयमेव व्यवस्थितः
सोऽपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत् 30
ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह
शस्त्राभिवर्षणं घोरं मेघानामिव संयुगे 31
कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः
नाज्ञायत तदा युद्धे सह केनाप्ययुध्यत 32
दन्तैर्भुजाभ्यां पद्भ्यां च शक्तितोमरसायकैः
येन केनैव संरब्धस्ताडयामास वै सुरान् 33
ततो रुद्रै र्महाभागैः सहादित्यैर्निशाचरः
प्रयुद्धस्तैश्च संग्रामे कृत्तः शस्त्रैर्निरन्तरम् 34
ततस्तद्रा क्षसं सैन्यं त्रिदशैः समरुद्गणैः
रणे विद्रा वितं सर्वं नानाप्रहरणैः शितैः 35
केचिद्विनिहताः शस्त्रैर्वेष्टन्ति स्म महीतले
वाहनेष्ववसक्ताश्च स्थिता एवापरे रणे 36
रथान्नागान्खरानुष्ट्रान्पन्नगांस्तुरगांस्तथा
शिंशुमारान्वराहांश्च पिशाचवदनांस्तस्था 37
तान्समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रिताः
देवैस्तु शस्त्रसंविद्धा मम्रिरे च निशाचराः 38
चित्रकर्म इवाभाति स तेषां रणसंप्लवः
निहतानां प्रमत्तानां राक्षसानां महीतले 39
शोणितोदकनिष्यन्दा कङ्कगृध्रसमाकुला
प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी 40
एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान्
निरीक्ष्य तद्बलं सर्वं दैवतैर्विनिपातितम् 41
स तं प्रतिविगाह्याशु प्रवृद्धं सैन्यसागरम्
त्रिदशान्समरे निघ्नञ्शक्रमेवाभ्यवर्तत 42
ततः शक्रो महच्चापं विस्फार्य सुमहास्वनम्
यस्य विस्फारघोषेण स्वनन्ति स्म दिशो दश 43
तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि
निपातयामास शरान्पावकादित्यवर्चसः 44
तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः
शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत् 45
प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः
नाज्ञायत तदा किंचित्सर्वं हि तमसा वृतम् 46
इति श्रीरामायणे उत्तरकाण्डे अष्टाविंशः सर्गः 28

7-29
ततस्तमसि संजाते राक्षसा दैवतैः सह
अयुध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम् 1
ततस्तु देवसैन्येन राक्षसानां महद्बलम्
दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम् 2
तस्मिंस्तु तमसा नद्धे सर्वे ते देवराक्षसाः
अन्योऽन्य नाभ्यजानन्त युध्यमानाः परस्परम् 3
इन्द्र श्च रावणश्चैव रावणिश्च महाबलः
तस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः 4
स तु दृष्ट्वा बलं सर्वं निहतं रावणो रणे
क्रोधमभ्यागमत्तीव्रं महानादं च मुक्तवान् 5
क्रोधात्सूतं च दुर्धर्षः स्यन्दनस्थमुवाच ह
परसैन्यस्य मध्येन यावदन्तं नयस्व माम्6
अद्यैतांस्त्रिदशान्सर्वान्विक्रमैः समरे स्वयम्
नानाशस्त्रैर्महासारैर्नाशयामि नभस्तलात् 7
अहमिन्द्रं वधिष्यामि वरुणं धनदं यमम्
त्रिदशान्विनिहत्याशु स्वयं स्थास्याम्यथोपरि 8
विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम्
द्विः खलु त्वां ब्रवीम्यद्य यावदन्तं नयस्व माम् 9
अयं स नन्दनोद्देशो यत्र वर्तामहे वयम्
नय मामद्य तत्र त्वमुदयो यत्र पर्वतः 10
तस्य तद्वचनं श्रुत्वा तुरगान्स मनोजवान्
आदिदेशाथ शत्रूणां मध्येनैव च सारथिः 11
तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा
रथस्थः समरस्थांस्तान्देवान्वाक्यमथाब्रवीत् 12
सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते
जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम् 13
एष ह्यतिबलः सैन्ये रथेन पवनौजसा
गमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि 14
न ह्येष हन्तुं शक्योऽद्य वरदानात्सुनिर्भयः
तद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे 15
यथा बलि निगृह्यैतत्त्रैलोक्यं भुज्यते मया
एवमेतस्य पापस्य निग्रिहो मम रोचते 16
ततोऽन्य देशमास्थाय शक्रः संत्यज्य रावणम्
अयुध्यत महातेजा राक्षसान्नाशयन्रणे 17
उत्तरेण दशग्रीवः प्रविवेशानिवर्तितः
दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः 18
ततः स योजनशतं प्रविष्टो राक्षसाधिपः
देवतानां बलं कृत्स्नं शरवर्षैरवाकिरत् 19
ततः शक्रो निरीक्ष्याथ प्रविष्टं तं बलं स्वकम्
न्यवर्तयदसंभ्रान्तः समावृत्य दशाननम् 20
एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः
हा हताः स्मेति तं दृष्ट्वा ग्रस्तं शक्रेण रावणम् 21
ततो रथं समारुह्य रावणिः क्रोधमूर्छितः
तत्सैन्यमतिसंक्रुद्धः प्रविवेश सुदारुणम् 22
स तां प्रविश्य मायां तु दत्तां गोपतिना पुरा
अदृश्यः सर्वभूतानां तत्सैन्यं समवाकिरत् 23
ततः स देवान्संत्यज्य शक्रमेवाभ्ययाद्द्रुतम्
महेन्द्र श्च महातेजा न ददर्श सुतं रिपोः 24
स मातलि हयांश्चैव ताडयित्वा शरोत्तमैः
महेन्द्रं बाणवर्षेण शीघ्रहस्तो ह्यवाकिरत् 25
ततः शक्रो रथं त्यक्त्वा विसृज्य च स मातलिम्
एरावतं समारुह्य मृगयामास रावणिम् 26
स तु मायाबलाद्र क्षः संग्रामे नाभ्यदृश्यत
किरमाणः शरौघेन महेन्द्र ममितौजसम् 27
स तं यदा परिश्रान्तमिन्द्रं मेनेऽथ रावणिः
तदैनं मायया बद्ध्वा स्वसैन्यमभितोऽनयत् 28
तं दृष्ट्वाथ बलात्तस्मिन्माययापहृतं रणे
महेन्द्र ममराः सर्वे किं न्वेतदिति चुक्रुशुः
न हि दृश्यति विद्यावान्मायया येन नीयते 29
एतस्मिन्नन्तरे चापि सर्वे सुरगणास्तदा
अभ्यद्र वन्सुसंक्रुद्धा रावणं शस्त्रवृष्टिभिः 30
रावणस्तु समासाद्य वस्वादित्यमरुद्गणान्
न शशाक रणे स्थातुं न योद्धुं शस्त्रपीडितः 31
तं तु दृष्ट्वा परिश्रान्तं प्रर्ह्जा!र्जरच्छविम्
रावणिः पितरं युद्धेऽदर्शनस्थोऽब्रवीदिदम् 32
आगच्छ तात गच्छावो निवृत्तं रणकर्म तत्
जितं ते विदितं भोऽस्तु स्वस्थो भव गतज्वरः 33
अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः
स गृहीतो मया शक्रो भग्नमानाः सुराः कृताः 34
यथेष्टं भुङ्क्ष्व त्रैलोक्यं निगृह्य रिपुमोजसा
वृथा ते किं श्रमं कृत्वा युद्धं हि तव निष्फलम् 35
स दैवतबलात्तस्मान्निवृतो रणकर्मणः
तच्छ्रुत्वा रावणेर्वाक्यं स्वस्थचेता दशाननः 36
अथ रणविगतज्वरः प्रभु
र्विजयमवाप्य निशाचराधिपः
भवनमभि ततो जगाम हृष्टः
स्वसुतमवाप्य च वाक्यमब्रवीत् 37
अतिबलसदृशैः पराक्रमैस्तै
र्ममकुलमानविवर्धनं कृतम्
यदमरसमविक्रम त्वया
त्रिदशपतिस्त्रिदशाश्च निर्जिताः 38
त्वरितमुपनयस्व वासवं
नगरमितो व्रज सैन्यसंवृतः
अहमपि तव गच्छतो द्रुतं
सह सचिवैरनुयामि पृष्ठतः 39
अथ स बलवृतः सवाहन-
स्त्रिदशपतिं परिगृह्य रावणिः
स्वभवनमुपगम्य राक्षसो
मुदितमना विससर्ज राक्षसान् 40
इति श्रीरामायणे उत्तरकाण्डे एकोनत्रिंशः सर्गः 29
7-30
जिते महेन्द्रे ऽतिबले रावणस्य सुतेन वै
प्रजापतिं पुरस्कृत्य गता लङ्कां सुरास्तदा 1
तं रावणं समासाद्य पुत्रभ्रातृभिरावृतम्
अब्रवीद्गगने तिष्ठन्सान्त्वपूर्वं प्रजापतिः 2
वत्स रावण तुष्टोऽस्मि तव पुत्रस्य संयुगे
अहोऽस्य विक्रमौदार्यं तव तुल्योऽधिकोऽपि वा 3
जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा
कृता प्रतिज्ञा सफला प्रीतोऽस्मि स्वसुतेन वै 4
अयं च पुत्रोऽतिबलस्तव रावण रावणिः
इन्द्र जित्त्विति विख्यातो जगत्येष भविष्यति 5
बलवाञ्शत्रुनिर्जेता भविष्यत्येष राक्षसः
यमाश्रित्य त्वया राजन्स्थापितास्त्रिदशा वशे6
तन्मुच्यतां महाबाहो महेन्द्र ः! पाकशासनः
किं चास्य मोक्षणार्थाय प्रयच्छन्तु दिवौकसः 7
अथाब्रवीन्महातेजा इन्द्र जित्समितिजयः
अमरत्वमहं देव वृणोमीहास्य मोक्षणे 8
अब्रवीत्तु तदा देवो रावणिं कमलोद्भवः
नास्ति सर्वामरत्वं हि केषांचित्प्राणिनां भुवि 9
अथाब्रवीत्स तत्रस्थमिन्द्र जित्पद्मसंभवम्
श्रूयतां या भवेत्सिद्धिः शतक्रतुविमोक्षणे 10
ममेष्टं नित्यशो देव हव्यैः संपूज्य पावकम्
संग्राममवतर्तुं वै शत्रुनिर्जयकाङ्क्षिणः 11
तस्मिंश्चेदसमाप्ते तु जप्यहोमे विभावसोः
युध्येयं देव संग्रामे तदा मे स्याद्विनाशनम् 12
सर्वो हि तपसा चैव वृणोत्यमरतां पुमान्
विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम् 13
एवमस्त्विति तं प्राह वाक्यं देवः प्रजापतिः
मुक्तश्चेन्द्र जिता शक्रो गताश्च त्रिदिवं सुराः 14
एतस्मिन्नन्तरे शक्रो दीनो भ्रष्टाम्बरस्रजः
राम चिन्तापरीतात्मा ध्यानतत्परतां गतः 15
तं तु दृष्ट्वा तथाभूतं प्राहः देवः प्रजापतिः
शतक्रतो किमुत्कण्ठां करोषि स्मर दुष्कृतम् 16
अमरेन्द्र मया बह्यः प्रजाः सृष्टाः पुरा प्रभो
एकवर्णाः समाभाषा एकरूपाश्च सर्वशः 17
तासां नास्ति विशेषो हि दर्शने लक्षणेऽपि वा
ततोऽहमेकाग्रमनास्ताः प्रजाः पर्यचिन्तयम् 18
सोऽह तासां विशेषार्थं स्त्रियमेकां विनिर्ममे
यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम् 19
ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता
अहल्येत्येव च मया तस्या नाम प्रवर्तितम् 20
निर्मितायां तु देवेन्द्र तस्यां नार्यां सुरर्षभ
भविष्यतीति कस्यैषा मम चिन्ता ततोऽभवत् 21
त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो
स्थानाधिकतया पत्नी ममैषेति पुरंदर 22
सा मया न्यासभूता तु गौतमस्य महात्मनः
न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च सा 23
ततस्तस्य परिज्ञाय मया स्थैर्यं महामुनेः
ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा 24
स तया सह धर्मात्मा रमते स्म महामुनिः
आसन्निराशा देवास्तु गौतमे दत्तया तया 25
त्वं क्रुद्धस्त्विह कामात्मा गत्वा तस्याश्रमं मुनेः
दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव 26
सा त्वया धर्षिता शक्र कामार्तेन समन्युना
दृष्टस्त्वं च तदा तेन आश्रमे परमर्षिणा 27
ततः क्रुद्धेन तेनासि शप्तः परमतेजसा
गतोऽसि येन देवेन्द्र दशाभागविपर्ययम् 28
यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम्
तस्मात्त्वं समरे राजञ्शत्रुहस्तं गमिष्यसि 29
अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः
मानुषेष्वपि सर्वेषु भविष्यति न संशयः 30
तत्राधर्मं सुबलवान्समुत्थास्यति यो महान्
तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति 31
न च ते स्थावरं स्थानं भविष्यति पुरंदर
एतेनाधर्मयोगेन यस्त्वयेह प्रवर्तितः 32
यश्च यश्च सुरेन्द्र स्याःद्ध्रुवः स न भविष्यति
एष शापो मया मुक्त इत्यसौ त्वां तदाब्रवीत् 33
तां तु भार्यां विनिर्भर्त्स्य सोऽब्रवीत्सुमहातपाः
दुर्विनीते विनिध्वंस ममाश्रमसमीपतः 34
रूपयौवनसम्पन्ना यस्मात्त्वमनवस्थिता
तस्माद्रू पवती लोके न त्वमेका भविष्यसि 35
रूपं च तत्प्रजाः सर्वा गमिष्यन्ति सुदुर्लभम्
यत्तवेदं समाश्रित्य विभ्रमोऽयमुपस्थितः 36
तदाप्रभृति भूयष्ठिं प्रजा रूपसमन्विताः
शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपागतम् 37
तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम्
येन त्वं ग्रहणं शत्रोर्गतो नान्येन वासव 38
शीघ्रं यजस्व यज्ञं त्वं वैष्णवं सुसमाहितः
पावितस्तेन यज्ञेन यास्यसि त्रिदिवं ततः 39
पुत्रश्च तव देवेन्द्र न विनष्टो महारणे
नीतः संनिहितश्चैव आर्यकेण नहोदधौ 40
एतच्छ्रुत्वा महेन्द्र स्तु यज्ञभिष्ट्वा च वैष्णवम्
पुनस्त्रिदिवमाक्रामदन्वशासच्च देवताः 41
एतदिन्द्र जितो राम बलं यत्कीर्तितं मया
निर्जितस्तेन देवेन्द्र ः! प्राणिनोऽन्ये च किं पुनः 42
इति श्रीरामायणे उत्तरकाण्डे त्रिंशः सर्गः 30

7-31
ततो रामो महातेजा विस्मयात्पुनरेव हि
उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् 1
भगवन्किं तदा लोकाः शून्या आसन्द्विजोत्तम
धर्षणां यत्र न प्राप्तो रावणो राक्षसेश्वरः 2
उताहो हीनवीर्यास्ते बभूवुः पृथिवीक्षितः
बहिष्कृता वरास्त्रैश्च बहवो निर्जिता नृपाः 3
राघवस्य वचः श्रुत्वा अगस्त्यो भगवानृपिः
उवाच रामं प्रहसन्पितामह इवेश्वरम् 4
स एवं बाधमानस्तु पार्थिवान्पार्थिवर्षभ
चचार रावणो राम पृथिवीं पृथिवीपते 5
ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम्
संप्राप्तो यत्र सांनिध्यं परमं वसुरेतसः6
तुल्य आसीन्नृपस्तस्य प्रतापाद्वसुरेतसः
अर्जुनो नाम यस्याग्निः शरकुण्डेशयः सदा 7
तमेव दिवसं सोऽथ हैहयाधिपतिर्बली
अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः 8
रावणो राक्षसेन्द्र स्तु तस्यामात्यानपृच्छत
क्वार्जुनो वो नृपः सोऽद्य शीघ्रमाख्यातुमर्हथ 9
रावणोऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण तु
ममागमनमव्यग्रैर्युष्माभिः संनिवेद्यताम् 10
इत्येवं रावणेनोक्तास्तेऽमात्याः सुविपश्चितः
अब्रुवन्राक्षसपतिमसांनिध्यं महीपते 11
श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम्
अपसृत्यागतो विन्ध्यं हिमवत्संनिभं गिरिम् 12
स तमभ्रमिवाविष्टमुद्भ्रान्तमिव मेदिनीम्
अपश्यद्रा वणो विन्ध्यमालिखन्तमिवाम्बरम् 13
सहस्रशिखरोपेतं सिंहाध्युषितकन्दरम्
प्रपातपतितैः शीतैः साट्टहासमिवाम्बुभिः 14
देवदानवगन्धर्वैः साप्सरोगणकिंनरैः
सह स्त्रीभिः क्रीडमानैः स्वर्गभूतं महोच्छ्रयम् 15
नदीभिः स्यन्दमानाभिरगतिप्रतिमं जलम्
स्फुटीभिश्चलजिह्वाभिर्वमन्तमिव विष्ठितम् 16
उल्कावन्तं दरीवन्तं हिमवत्संनिभं गिरिम्
पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ 17
चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम्
महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः
उष्णाभितप्तैस्तृषितैः संक्षोभितजलाशयाम् 18
चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैः
सारसैश्च सदा मत्तैः कोकूजद्भिः समावृताम् 19
फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम्
विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम् 20
पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम्
जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम् 21
पुष्पकादवरुह्याशु नर्मदां सरितां वराम्
इष्टामिव वरां नारीमवगाह्य दशाननः 22
स तस्याः पुलिने रम्ये नानाकुसुमशोभिते
उपोपविष्टः सचिवैः सार्धं राक्षसपुंगवः
नर्मदादर्शजं हर्षमाप्तवान्राक्षसेश्वरः 23
ततः सलीलं प्रहसन्रावणो राक्षसाधिपः
उवाच सचिवांस्तत्र मारीचशुकसारणान् 24
एष रश्मिसहस्रेण जगत्कृत्वेव काञ्चनम्
तीक्ष्णतापकरः सूर्यो नभसो मध्यमास्थितः
मामासीनं विदित्वेह चन्द्रा यति दिवाकरः 25
नर्मदाजलशीतश्च सुगन्धिः श्रमनाशनः
मद्भयादनिलो ह्येष वात्यसौ सुसमाहितः 26
इयं चापि सरिच्छ्रेष्ठा नर्मदा नर्मवर्धिनी
लीनमीनविहंगोर्मिः सभयेवाङ्गना स्थिता 27
तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्र समैर्युधि
चन्दनस्य रसेनेव रुधिरेण समुक्षिताः 28
ते यूयमवगाहध्वं नर्मदां शर्मदां नृणाम्
महापद्ममुखा मत्ता गङ्गामिव महागजाः 29
अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ 30
अहमप्यत्र पुलिने शरदिन्दुसमप्रभे
पुष्पोपहारं शनकैः करिष्यामि उमापते 31
रावणेनैवमुक्तास्तु मारीचशुकसारणाः
समहोदरधूम्राक्षा नर्मदामवगाहिरे 32
राक्षसेन्द्र गजैस्तैस्तु क्षोभ्यते नर्मदा नदी
वामनाञ्जनपद्माद्यैर्गङ्गा इव महागजैः 33
ततस्ते राक्षसाः स्नात्वा नर्मदाया वराम्भसि
उत्तीर्य पुष्पाण्याजह्रुर्बल्यर्थं रावणस्य तु 34
नर्मदापुलिने रम्ये शुभ्राभ्रसदृशप्रभे
राक्षसेन्द्रै र्मुहूर्तेन कृतः पुष्पमयो गिरिः 35
पुष्पेषूपहृतेष्वेव रावणो राक्षसेश्वरः
अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः 36
तत्र स्नात्वा च विधिवज्जप्त्वा जप्यमनुत्तमम्
नर्मदासलिलात्तस्मादुत्ततार स रावणः 37
रावणं प्राञ्जलि यान्तमन्वयुः सप्त राक्षसाः
यत्र यत्र स याति स्म रावणो राक्षसाधिपः
जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते 38
बालुकावेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः
अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः 39
ततः सतामार्तिहरं हरं परं
वरप्रदं चन्द्र मयूखभूषणम्
समर्चयित्वा स निशाचरो जगौ
प्रसार्य हस्तान्प्रणनर्त चायतान् 40
इति श्रीरामायणे उत्तरकाण्डे एकत्रिंशः सर्गः 31

7-32
नर्मदापुलिने यत्र राक्षसेन्द्र ः! स रावणः
पुष्पोपहारं कुरुते तस्माद्देशाददूरतः 1
अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः
क्रीडते सह नारीभिर्नर्मदातोयमाश्रितः 2
तासां मध्यगतो राजा रराज स ततोऽजुनः
करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः 3
जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम्
रुरोधनर्मदावेगं बाहुभिः स तदार्जुनः 4
कार्तवीर्यभुजासेतुं तज्जलं प्राप्य निर्मलम्
कूलापहारं कुर्वाणं प्रतिस्नोतः प्रधावति 5
समीननक्रमकरः सपुष्पकुशसंस्तरः
स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ6
स वेगः कीर्तवीर्येण संप्रेषित इवाम्भसः
पुष्पोपहारं तत्सर्वं रावणस्य जहार ह 7
रावणोऽघसमाप्तं तु उत्सृज्य नियमं तदा
नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् 8
पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसंनिभम्
बर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु 9
ततोऽनुद्भ्रान्तशकुनां स्वाभाव्ये परमे स्थिताम्
निर्विकाराङ्गनाभासां पश्यते रावणो नदीम् 10
सव्येतरकराङ्गुल्या सशब्दं च दशाननः
वेगप्रभवमन्वेष्टुं सोऽदिशच्छुकसारणौ 11
तौ तु रावणसंदिष्टौ भ्रातरौ शुकसारणौ
व्योमान्तरचरौ वीरौ प्रस्थितौ पश्चिमोन्मुखौ 12
अर्धयोजनमात्रं तु गत्वा तौ तु निशाचरौ
पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम् 13
बृहत्सालप्रतीकाशं तोयव्याकुलमूर्धजम्
मदरक्तान्तनयनं मदनाकारवर्चसम् 14
नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम्
गरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम् 15
बालानां वरनारीणां सहस्रेणाभिसंवृतम्
समदानां करेणूनां सहस्रेणेव कुञ्जरम् 16
तमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ
संनिवृत्तावुपागम्य रावणं तमथोचतुः 17
बृहत्सालप्रतीकाशः कोऽप्यसौ राक्षसेश्वर
नर्मदां रोधवद्रुद्धा क्रीडापयति योषितः 18
तेन बाहुसहस्रेण संनिरुद्धजला नदी
सागरोद्गारसंकाशानुद्गारान्सृजते मुहुः 19
इत्येवं भाषमाणौ तौ निशाम्य शुकसारणौ
रावणोऽजुन इत्युक्त्वा उत्तस्थौ युद्धलालसः 20
अर्जुनाभिमुखे तस्मिन्प्रस्थिते राक्षसेश्वरे
सकृदेव कृतो रावः सरक्तः प्रेषितो घनैः 21
महोदरमहापार्श्वधूम्राक्षशुकसारणैः
संवृतो राक्षसेन्द्र स्तु तत्रागाद्यत्र सोऽजुनः 22
नातिदीर्घेण कालेन स ततो राक्षसो बली
तं नर्मदाह्रदं भीममाजगामाञ्जनप्रभः 23
स तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम्
नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम् 24
स रोषाद्र क्तनयनो राक्षसेन्द्रो बलोद्धतः
इत्येवमर्जुनामात्यानाह गम्भीरया गिरा 25
अमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वै
युद्धार्थं समनुप्राप्तो रावणो नाम नामतः 26
रावणस्य वचः श्रुत्वा मन्त्रिणोऽथार्जुनस्य ते
उत्तस्थुः सायुधास्तं च रावणं वाक्यमब्रुवन् 27
युद्धस्य कालो विज्ञातः साधु भोः साधु रावण
यः क्षीबं स्त्रीवृतं च्व योद्धुमिच्छसि नो नृपम्
वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम् 28
क्षमस्वाद्य दशग्रीव उष्यतां रजनी त्वया
युद्धश्रद्धा तु यद्यस्ति श्वस्तात समरेऽजुनम् 29
यदि वापि त्वरा तुभ्यं युद्धतृष्णासमावृता
निहत्यास्मांस्ततो युद्धमर्जुनेनोपयास्यसि 30
ततस्ते रावणामात्यैरमात्याः पार्थिवस्य तु
सूदिताश्चापि ते युद्धे भक्षिताश्च बुभुक्षितैः 31
ततो हलहलाशब्दो नर्मदातीर आबभौ
अर्जुनस्यानुयात्राणां रावणस्य च मन्त्रिणाम् 32
इषुभिस्तोमरैः शूलैर्वज्रकल्पैः सकर्षणैः
सरावणानर्दयन्तः समन्तात्समभिद्रुताः 33
हैहयाधिपयोधानां वेग आसीत्सुदारुणः
सनक्रमीनमकरसमुद्र स्येव निस्वनः 34
रावणस्य तु तेऽमात्याः प्रहस्तशुकसारणाः
कार्तवीर्यबलं क्रुद्धा निर्दहन्त्यग्नितेजसः 35
अर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः
क्रीडमानाय कथितं पुष्षैर्द्वाररक्षिभिः 36
उक्त्वा न भेतव्यमिति स्त्रीजनं स ततोऽजुनः
उत्ततार जलात्तस्माद्गङ्गातोयादिवाञ्जनः 37
क्रोधदूषितनेत्रस्तु स ततोऽजुनपावकः
प्रजज्वाल महाघोरो युगान्त इव पावकः 38
स तूर्णतरमादाय वरहेमाङ्गदो गदाम्
अभिद्र वति रक्षांसि तमांसीव दिवाकरः 39
बाहुविक्षेपकरणां समुद्यम्य महागदाम्
गारुडं वेगमास्थाय आपपातैव सोऽजुनः 40
तस्य मार्गं समावृत्य विन्ध्योऽकस्येव पर्वतः
स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः 41
ततोऽस्य मुसलं घोरं लोहबद्धं मदोद्धतः
प्रहस्तः प्रेषयन्क्रुद्धो ररास च यथाम्बुदः 42
तस्याग्रे मुसलस्याग्निरशोकापीडसंनिभः
प्रहस्तकरमुक्तस्य बभूव प्रदहन्निव 43
आधावमानं मुसलं कार्तवीर्यस्तदार्जुनः
निपुणं वञ्चयामास सगदो गजविक्रमः 44
ततस्तमभिदुद्रा व प्रहस्तं हैहयाधिपः
भ्रामयाणो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम् 45
तेनाहतोऽतिवेगेन प्रहस्तो गदया तदा
निपपात स्थितः शैलो वज्रिवज्रहतो यथा 46
प्रहस्तं पतितं दृष्ट्वा मारीचशुकसारणाः
समहोदरधूम्राक्षा अपसृप्ता रणाजिरात् 47
अपक्रान्तेष्वमात्येषु प्रहस्ते च निपातिते
रावणोऽभ्यद्र वत्तूर्णमर्जुनं नृपसत्तमम् 48
सहस्रबाहोस्तद्युद्धं विंशद्बाहोश्च दारुणम्
नृपराक्षसयोस्तत्र आरब्धं लोमहर्षणम् 49
सागराविव संक्षुब्धौ चलमूलाविवाचलौ
तेजोयुक्ताविवादित्यौ प्रदहन्ताविवानलौ 50
बलोद्धतौ यथा नागौ वाशितार्थे तथा वृषौ
मेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ 51
रुद्र कालाविव क्रुद्धौ तौ तथा राक्षसार्जुनौ
परस्परं गदाभ्यां तौ ताडयामासतुर्भृशम् 52
बज्रप्रहारानचला यथा घोरान्विषेहिरे
गदाप्रहारांस्तद्वत्तौ सहेते नरराक्षसौ 53
यथाशनिरवेभ्यस्तु जायते वै प्रतिश्रुतिः
तथा ताभ्यां गदापातैर्दिशः सर्वाः प्रतिश्रुताः 54
अर्जुनस्य गदा सा तु पात्यमानाहितोरसि
काञ्चनाभं नभश्चक्रे विद्युत्सौदामिनी यथा 55
तथैव रावणेनापि पात्यमाना मुहुर्मुहुः
अर्जुनोरसि निर्भाति गदोल्केव महागिरौ 56
नार्जुनः खेदमाप्नोति न राक्षसगणेश्वरः
सममासीत्तयोर्युद्धं यथा पूर्वं बलीन्द्र योः 57
शृङ्गैर्महर्षभौ यद्वद्दन्ताग्रैरिव कुञ्जरौ
परस्परं विनिघ्नन्तौ नरराक्षससत्तमौ 58
ततोऽजुनेन क्रुद्धेन सर्वप्राणेन सा गदा
स्तनयोरन्तरे मुक्ता रावणस्य महाहवे 59
वरदानकृतत्राणे स गदा रावणोरसि
दुर्बलेव यथा सेना द्विधाभूतापतत्क्षितौ60
स त्वर्जुनप्रमुक्तेन गदापातेन रावणः
अपासर्पद्धनुर्मात्रं निषसाद च निष्टनन्61
स विह्वलं तदालक्ष्य दशग्रीवं ततोऽजुनः
सहसा प्रतिजग्राह गरुत्मानिव पन्नगम्62
स तं बाहुसहस्रेण बलाद्गृह्य दशाननम्
बबन्ध बलवान्राजा बलि नारायणो यथा63
बध्यमाने दशग्रीवे सिद्धचारणदेवताः
साध्वीति वादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि64
व्याघ्रो मृगमिवादाय सिंहराडिव दन्तिनम्
ररास हैहयो राजा हर्षादम्बुदवन्मुहुः65
प्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम्
सह तै राक्षसैः क्रुद्ध अभिदुद्रा व पार्थिवम्66
नक्तंचराणां वेगस्तु तेषामापततां बभौ
उद्धूत आतपापाये समुद्रा णामिवाद्भुतः67
मुञ्च मुञ्चेति भाषन्तस्तिष्ठ तिष्ठेति चासकृत्
मुसलानि च शूलानि उत्ससर्जुस्तदार्जुने68
अप्राप्तान्येव तान्याशु असंभ्रान्तस्तदार्जुनः
आयुधान्यमरारीणां जग्राह रिपुसूदनः69
ततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैः
भित्त्वा विद्रा वयामास वायुरम्बुधरानिव 70
राक्षसांस्त्रासयित्वा तु कार्तवीर्यार्जुनस्तदा
रावणं गृह्य नगरं प्रविवेश सुहुद्वृतः 71
स कीर्यमाणः कुसुमाक्षतोत्करै
र्द्विजैः सपौरेः पुरुहूतसंनिभः
तदार्जुनः संप्रविवेश तां पुरीं
बलि निगृह्येव सहस्रलोचनः 72
इति श्रीरामायणे उत्तरकाण्डे द्वात्रिंशः सर्गः 32

7-33
रावणग्रहणं तत्तु वायुग्रहणसंनिभम्
ऋषिः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः 1
ततः पुत्रसुतस्नेहात्कम्प्यमानो महाधृतिः
माहिष्मतीपतिं द्र ष्टुमाजगाम महानृषिः 2
स वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः
पुरीं माहिष्मतीं प्राप्तो मनःसंपातविक्रमः 3
सोऽमरावतिसंकाशां हृष्टपुष्टजनावृताम्
प्रविवेश पुरीं ब्रह्मा इन्द्र स्येवामरावतीम् 4
पादचारमिवादित्यं निष्पतन्तं सुदुर्दृशम्
ततस्ते प्रत्यभिज्ञाय अर्जुनाय न्यवेदयन् 5
पुलस्त्य इति तं श्रुत्वा वचनं हैहयाधिपः
शिरस्यञ्जलिमुद्धृत्य प्रत्युद्गच्छद्द्विजोत्तमम्6
पुरोहितोऽस्य गृह्यार्ध्यं मधुपर्कं तथैव च
पुरस्तात्प्रययौ राज्ञ इन्द्र स्येव बृहस्पतिः 7
ततस्तमृषिमायान्तमुद्यन्तमिव भास्करम्
अर्जुनो दृश्य संप्राप्तं ववन्देन्द्र इवेश्वरम् 8
स तस्य मधुपर्कं च पाद्यमर्ध्यं च दापयन्
पुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा 9
अद्येयममरावत्या तुल्या माहिष्मती कृता
अद्याहं तु द्विजेन्द्रे न्द्रु यस्मात्पश्यामि दुर्दृशम् 10
अद्य मे कुशलं देव अद्य मे कुलमुद्धृतम्
यत्ते देवगणैर्वन्द्यौ वन्देऽह चरणाविमौ 11
इदं राज्यमिमे पुत्रा इमे दारा इमे वयम्
ब्रह्मन्किं कुर्म किं कार्यमाज्ञापयतु नो भवान् 12
तं धर्मेऽग्निषु भृत्येषु शिवं पृष्ट्वाथ पार्थिवम्
पुलस्त्योवाच राजानं हैहयानां तदार्जुनम् 13
राजेन्द्रा मलपद्माक्ष पूर्णचन्द्र निभानन
अतुलं ते बलं येन दशग्रीवस्त्वया जितः 14
भयाद्यस्यावतिष्ठेतां निष्पन्दौ सागरानिलौ
सोऽयमद्य त्वया बद्धः पौत्रो मेऽतीवदुर्जयः 15
तत्पुत्रक यशःस्फीतं नाम विश्रावितं त्वया
मद्वाक्याद्याच्यमानोऽद्य मुञ्च वत्स दशाननम् 16
पुलस्त्याज्ञां स गृह्याथ अकिंचनवचोऽजुनः
मुमोच पार्थिवेन्द्रे न्द्रो राक्षसेन्द्रं प्रहृष्टवत् 17
स तं प्रमुक्त्वा त्रिदशारिमर्जुनः
प्रपूज्य दिव्याभरणस्रगम्बरैः
अहिंसकं सख्यमुपेत्य साग्निकं
प्रणम्य स ब्रह्मसुतं गृहं ययौ 18
पुलस्त्येनापि संगम्य राक्षसेन्द्र ः! प्रतापवान्
परिष्वङ्गकृतातिथ्यो लज्जमानो विसर्जितः 19
पितामहसुतश्चापि पुलस्त्यो मुनिसत्तमः
मोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम सः 20
एवं स रावणः प्राप्तः कार्तवीर्यात्तु धर्षणाम्
पुलस्त्यवचनाच्चापि पुनर्मोक्षमवाप्तवान् 21
एवं बलिभ्यो बलिनः सन्ति राघवनन्दन
नावज्ञा परतः कार्या य इच्छेच्छ्रेय आत्मनः 22
ततः स राजा पिशिताशनानां
सहस्रबाहोरुपलभ्य मैत्रीम्
पुनर्नराणां कदनं चकार
चचार सर्वां पृथिवीं च दर्पात् 23
इति श्रीरामायणे उत्तरकाण्डे त्रयस्त्रिंशः सर्गः 33

7-34
अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः
चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः 1
राक्षसं वा मनुष्यं वा शृणुते यं बलाधिकम्
रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः 2
ततः कदाचित्किष्किन्धां नगरीं वालिपालिताम्
गत्वाह्वयति युद्धाय वालिनं हेममालिनम् 3
ततस्तं वानरामात्यस्तारस्तारापिता प्रभुः
उवाच रावणं वाक्यं युद्धप्रेप्सुमुपागतम् 4
राक्षसेन्द्र गतो वाली यस्ते प्रतिवलो भवेत्
नान्यः प्रमुखतः स्थातुं तव शक्तः प्लवंगमः 5
चतुर्भ्योऽपि समुद्रे भ्यः संध्यामन्वास्य रावण
इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम्6
एतानस्थिचयान्पश्य य एते शङ्खपाण्डुराः
युद्धार्थिनामिमे राजन्वानराधिपतेजसा 7
यद्वामृतरसः पीतस्त्वया रावण राक्षस
तथा वालिनमासाद्य तदन्तं तव जीवितम् 8
अथवा त्वरसे मर्तुं गच्छ दक्षिणसागरम्
वालिनं द्र क्ष्यसे तत्र भूमिष्ठमिव भास्करम्9
स तु तारं विनिर्भर्त्स्य रावणो राक्षसेश्वरः
पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम् 10
तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम्
रावणो वालिनं दृष्ट्वा संध्योपासनतत्परम् 11
पुष्पकादवरुह्याथ रावणोऽञ्जनसंनिभः
ग्रंहीतुं वालिनं तूर्ण निःशब्दपदमाद्र वत् 12
यदृच्छयोन्मीलयता वालिनापि स रावणः
पापाभिप्रायवान्दृष्टश्चकार न च संभ्रमम् 13
शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा
न चिन्तयति तं वाली रावणं पापनिश्चयम् 14
जिघृक्षमाणमद्यैनं रावणं पापबुद्धिनम्
कक्षावलम्बिनं कृत्वा गमिष्यामि महार्णवान् 15
द्र क्ष्यन्त्यरिं ममाङ्कस्थं स्रंसितोरुकराम्बरम्
लम्बमानं दशग्रीवं गरुडस्येव पन्नगम् 16
इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितः
जपन्वै नैगमान्मन्त्रांस्तस्थौ पर्वतराडिव 17
तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ
प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ 18
हस्तग्राह्यं तु तं मत्वा पादशब्देन रावणम्
पराङ्भुखोऽपि जग्राह वाली सर्पमिवाण्डजः 19
ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः
खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम् 20
स तं पीडयमानस्तु वितुदन्तं नखैर्मुहुः
जहार रावणं वाली पवनस्तोयदं यथा 21
अथ ते राक्षसामात्या ह्रियमाणे दशानने
मुमोक्षयिषवो घोरा रवमाणा ह्यभिद्र वन् 22
अन्वीयमानस्तैर्वाली भ्राजतेऽम्बरमध्यगः
अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान् 23
तेऽशक्नुवन्तः संप्राप्तुं वालिनं राक्षसोत्तमाः
तस्य बाहूरुवेगेन परिश्रान्ताः पतन्ति च 24
वालिमार्गादपाक्रामन्पर्वतेन्द्रा हि गच्छतः 25
अपक्षिगणसंपातो वानरेन्द्रो महाजवः
क्रमशः सागरान्सर्वान्संध्याकालमवन्दत 26
सभाज्यमानो भूतैस्तु खेचरैः खेचरो हरिः
पश्चिमं सागरं वाली आजगाम सरावणः 27
तत्र संध्यामुपासित्वा स्नात्वा जप्त्वा च वानरः
उत्तरं सागरं प्रायाद्वहमानो दशाननम् 28
उत्तरे सागरे संध्यामुपासित्वा दशाननम्
वहमानोऽगमद्वाली पूर्वमम्बुमहानिधिम् 29
तत्रापि संध्यामन्वास्य वासविः स हरीश्वरः
किष्किन्धाभिमुखो गृह्य रावणं पुनरागमत् 30
चतुर्ष्वपि समुद्रे षु संध्यामन्वास्य वानरः
रावणोद्वहनश्रान्तः किष्किन्धोपवनेऽपतत् 31
रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः
कुतस्त्वमिति चोवाच प्रहसन्रावणं प्रति 32
विस्मयं तु महद्गत्वा श्रमलोलनिरीक्षणः
राक्षसेशो हरीशं तमिदं वचनमब्रवीत् 33
वानरेन्द्र महेन्द्रा भ राक्षसेन्द्रो ऽस्मि रावणः
युद्धेप्सुरिह संप्राप्तः स चाद्यासादितस्त्वया 34
अहो बलमहो वीर्यमहो गम्भीरता च ते
येनाहं पशुवद्गृह्य भ्रामितश्चतुरोऽणवान् 35
एवमश्रान्तवद्वीर शीघ्रमेव च वानर
मां चैवोद्वहमानस्तु कोऽन्यो वीरः क्रमिष्यति 36
त्रयाणामेव भूतानां गतिरेषा प्लवंगम
मनोनिलसुपर्णानां तव वा नात्र संशयः 37
सोऽह दृष्टबलस्तुभ्यमिच्छामि हरिपुंगव
त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः 38
दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम्
सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर 39
ततः प्रज्वालयित्वाग्निं तावुभौ हरिराक्षसौ
भ्रातृत्वमुपसम्पनौ परिष्वज्य परस्परम् 40
अन्योन्यं लम्बितकरौ ततस्तौ हरिराक्षसौ
किष्किन्धां विशतुर्हृष्टौ सिंहौ गिरिगुहामिव 41
स तत्र मासमुषितः सुग्रीव इव रावणः
अमात्यैरागतैर्नीतस्त्रैलोक्योत्सादनार्थिभिः 42
एवमेतत्पुरावृत्तं वालिना रावणः प्रभो
धर्षितश्च कृतश्चापि भ्राता पावकसंनिधौ 43
बलमप्रतिमं राम वालिनोऽभवदुत्तमम्
सोऽपि त्वया विनिर्दग्धः शलभो वह्निना यथा 44
इति श्रीरामायणे उत्तराकाण्डे चतुस्त्रिंशः सर्गः 34

7-35
अपृच्छत ततो रामो दक्षिणाशालयं मुनिम्
प्राञ्जलिर्विनयोपेत इदमाह वचोऽथवत् 1
अतुलं बलमेताभ्यां वालिनो रावणस्य च
न त्वेतौ हनुमद्वीर्यैः समाविति मतिर्मम 2
शौर्य दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम्
विक्रमश्च प्रभावश्च हनूमति कृतालयाः 3
दृष्ट्वोदधिं विषीदन्तीं तदैष कपिवाहिनीम्
समाश्वास्य कपीन्भूयो योजनानां शतं प्लुतः 4
धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तथा
दृष्ट्वा संभाषिता चापि सीता विश्वासिता तथा 5
सेनाग्रगा मन्त्रिसुताः किंकरा रावणात्मजः
एते हनुमता तत्र एकेन विनिपातिताः6
भूयो बन्धाद्विमुक्तेन संभाषित्वा दशाननम्
लङ्का भस्मीकृता तेन पावकेनेव भेदिनी 7
न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च
कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः 8
एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः
प्राप्तो मया जयश्चैव राज्यं मित्राणि बान्धवाः 9
हनूमान्यदि मे न स्याद्वानराधिपतेः सखा
प्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् 10
किमर्थं वाली चैतेन सुग्रीवप्रियकाम्यया
तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा 11
न हि वेदितवान्मन्ये हनूमानात्मनो बलम्
यद्दृष्ट्ववाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् 12
एतन्मे भगवन्सर्वं हनूमति महामुने
विस्तरेण यथातत्त्वं कथयामरपूजित 13
राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्ततः
हनूमतः समक्षं तमिदं वचनमब्रवीत् 14
सत्यमेतद्र घुश्रेष्ठ यद्ब्रवीषि हनूमतः
न बले विद्यते तुल्यो न गतौ न मतौ परः 15
अमोघशापैः शापस्तु दत्तोऽस्य ऋषिभिः पुरा
न वेदिता बलं येन बली सन्नरिमर्दनः 16
बाल्येऽप्येतेन यत्कर्म कृतं राम महाबल
तन्न वर्णयितुं शक्यमतिबालतयास्य ते 17
यदि वास्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव
समाधाय मतिं राम निशामय वदाम्यहम् 18
सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः
यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता 19
तस्य भार्या बभूवेष्टा ह्यञ्जनेति परिश्रुता
जनयामास तस्यां वै वायुरात्मजमुत्तमम् 20
शालिशूकसमाभासं प्रासूतेमं तदाञ्जना
फलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा 21
एष मातुर्वियोगाच्च क्षुधया च भृशार्दितः
रुदोद शिशुरत्यर्थं शिशुः शरभराडिव 22
ततोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम्
ददृशे फललोभाच्च उत्पपात रविं प्रति 23
बालार्काभिमुखो बालो बालार्क इव मूर्तिमान्
ग्रहीतुकामो बालार्कं प्लवतेऽम्बरमध्यगः 24
एतस्मिन्प्लवमाने तु शिशुभावे हनूमति
देवदानवसिद्धानां विस्मयः सुमहानभूत् 25
नाप्येवं वेगवान्वायुर्गरुडो न मनस्तथा
यथायं वायुपुत्रस्तु क्रमतेऽम्बरमुत्तमम् 26
यदि तावच्छिशोरस्य ईदृशौ गतिविक्रमौ
यौवनं बलमासाद्य कथं वेगो भविष्यति 27
तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः
सूर्यदाहभयाद्र क्षंस्तुषारचयशीतलः 28
बहुयोजनसाहस्रं क्रमत्येष ततोऽम्बरम्
पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः 29
शिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः
कार्यं चात्र समायत्तमित्येवं न ददाह सः 30
यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः
तमेव दिवसं राहुर्जिघृक्षति दिवाकरम् 31
अनेन च परामृष्टो राम सूर्यरथोपरि
अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रा र्कमर्दनः 32
स इन्द्र भवनं गत्वा सरोषः सिंहिकासुतः
अब्रवीद्भ्रुकुटीं कृत्वा देवं देवगणैर्वृतम् 33
बुभुक्षापनयं दत्त्वा चन्द्रा र्कौ मम वासव
किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् 34
अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः
अथान्यो राहुरासाद्य जग्राह सहसा रविम् 35
स राहोर्वचनं श्रुत्वा वासवः संभ्रमान्वितः
उत्पपातासनं हित्वा उद्वहन्काञ्चनस्रजम् 36
ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम्
शृङ्गारकारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् 37
इन्द्र ः! करीन्द्र मारुह्य राहुं कृत्वा पुरःसरम्
प्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता 38
अथातिरभसेनागाद्रा हुरुत्सृज्य वासवम्
अनेन च स वै दृष्ट आधावञ्शैलकूटवत् 39
ततः सूर्यं समुत्सृज्य राहुमेवमवेक्ष्य च
उत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् 40
उत्सृज्यार्कमिमं राम आधावन्तं प्लवंगमम्
दृष्ट्वा राहुः परावृत्य मुखशेषः पराङ्मुखः 41
इन्द्र माशंसमानस्तु त्रातारं सिंहिकासुतः
इन्द्र इन्द्रे ति संत्रासान्मुहुर्मुहुरभाषत 42
राहोर्विक्क्रोशमानस्य प्रागेवालक्षितः स्वरः
श्रुत्वेन्द्रो वाच मा भैषीरयमेनं निहन्म्यहम् 43
एरावतं ततो दृष्ट्वा महत्तदिदमित्यपि
फलं तं हस्तिराजानमभिदुद्रा व मारुतिः 44
तदास्य धावतो रूपमैरावतजिघृक्षया
मुहूर्तमभवद्धोरमिन्द्रा ग्न्योरिव भास्वरम् 45
एवमाधावमानं तु नातिक्रुद्धः शचीपतिः
हस्तान्तेनातिमुक्तेन कुलिशेनाभ्यताडयत् 46
ततो गिरौ पपातैष इन्द्र वज्राभिताडितः
पतमानस्य च्तस्य वामो हनुरभज्यत 47
तस्मिंस्तु पतिते बाले वज्रताडनविह्वले
चुक्रोधेन्द्रा य पवनः प्रजानामशिवाय च 48
विण्मूत्राशयमावृत्य प्रजास्वन्तर्गतः प्रभुः
रुरोध सर्वभूतानि यथा वर्षाणि वासवः 49
वायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः
संधिभिर्भज्यमानानि काष्ठभूतानि जज्ञिरे 50
निःस्वधं निर्वषट्कारं निष्क्रियं धर्मवर्जितम्
वायुप्रकोपात्त्रैलोक्यं निरयस्थमिवाबभौ 51
ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः
प्रजापतिं समाधावन्नसुखार्ताः सुखैषिणः 52
ऊचुः प्राञ्जलयो देवा दरोदरनिभोदराः
त्वया स्म भगवन्सृष्टाः प्रजानाथ चतुर्विधाः 53
त्वया दत्तोऽयमस्माकमायुषः पवनः पतिः
सोऽस्मान्प्राणेश्वरो भूत्वा कस्मादेषोऽद्य सत्तम 54
रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः
तस्मात्त्वां शरणं प्राप्ता वायुनोपहता विभो 55
वायुसंरोधजं दुःखमिदं नो नुद शत्रुहन् 56
एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः
कारणादिति तानुक्त्वा प्रजाः पुनरभाषत 57
यस्मिन्वः कारणे वायुश्चुक्रोध च रुरोध च
प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् 58
पुत्रस्तस्यामरेशेन इन्द्रे णाद्य निपातितः
राहोर्वचनमाज्ञाय राज्ञा वः कोपितोऽनिलः 59
अशरीरः शरीरेषु वायुश्चरति पालयन्
शरीरं हि विना वायुं समतां याति रेणुभिः60
वायुः प्राणाः सुखं वायुर्वायुः सर्वमिदं जगत्
वायुना संपरित्यक्तं न सुखं विन्दते जगत्61
अद्यैव च परित्यक्तं वायुना जगदायुषा
अद्यैवेमे निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः62
तद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि वः
मा विनाशं गमिष्याम अप्रसाद्यादितेः सुतम्63
ततः प्रजाभिः सहितः प्रजापतिः
सदेवगन्धर्वभुजंगगुह्यकः
जगाम तत्रास्यति यत्र मारुतः
सुतं सुरेन्द्रा भिहतं प्रगृह्य सः64
ततोऽकवैश्वानरकाञ्चनप्रभं
सुतं तदोत्सङ्गगतं सदागतेः
चतुर्मुखो वीक्ष्य कृपामथाकरो
त्सदेवसिद्धर्षिभुजंगराक्षसः65
इति श्रीरामायणे उत्तरकाण्डे पञ्चत्रिंशः सर्गः 35

7-36
ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः
शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः 1
चलत्कुण्डलमौलिस्रक्तपनीयविभूषणः
पादयोर्न्यपतद्वायुस्तिस्रोऽवस्थाय वेधसे 2
तं तु वेदविदाद्यस्तु लम्बाभरणशोभिना
वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् 3
स्पृष्टमात्रस्ततः सोऽथ सलीलं पद्मजन्मना
जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान् 4
प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा
चचार सर्वभूतेषु संनिरुद्धं यथा पुरा 5
मरुद्रो गविनिर्मुक्ताः प्रजा वै मुदिताभवन्
शीतवातविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः6
ततस्त्रियुग्मस्त्रिककुत्त्रिधामा त्रिदशार्चितः
उवाच देवता ब्रह्मा मारुतप्रियकाम्यया 7
भो महेन्द्रा ग्निवरुणधनेश्वरमहेश्वराः
जानतामपि तत्सर्वं हितं वक्ष्यामि श्रूयताम् 8
अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति
ददतास्य वरान्सर्वे मारुतस्यास्य तुष्टिदान् 9
ततः सहस्रनयनः प्रीतिरक्तः शुभाननः
कुशेशयमयीं मालां समुत्क्षिप्येदमब्रवीत् 10
मत्करोत्सृष्टवज्रेण हनुरस्य यथा क्षतः
नाम्नैष कपिशार्दूलो भविता हनुमानिति 11
अहमेवास्य दास्यामि परमं वरमुत्तमम्
अतः प्रभृति वज्रस्य ममावध्यो भविष्यति 12
मार्ताण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः
तेजसोऽस्य मदीयस्य ददामि शतिकां कलाम् 13
यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति
तदास्य शास्त्र्रं दास्यामि येन वाग्मी भविष्यति 14
वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यति
वर्षायुतशतेनापि मत्पाशादुदकादपि 15
यमोऽपि दण्डावध्यत्वमरोगत्वं च नित्यशः
दिशतेऽस्य वरं तुष्ट अविषादं च संयुगे 16
गदेयं मामिका नैनुं संयुगेषु वधिष्यति
इत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः 17
मत्तो मदायुधानां च न वध्योऽय भविष्यति
इत्येवं शंकरेणापि दत्तोऽस्य परमो वरः 18
सर्वेषां ब्रह्मदण्डानामवध्योऽय भविष्यति
दीर्घायुश्च महात्मा च इति ब्रह्माब्रवीद्वचः 19
विश्वकर्मा तु दृष्ट्वैनं बालसूर्योपमं शिशुम्
शिल्पिनां प्रवरः प्राह वरमस्य महामतिः 20
विनिर्मितानि देवानामायुधानीह यानि तु
तेषां संग्रामकाले तु अवध्योऽय भविष्यति 21
ततः सुराणां तु वरैर्दृष्ट्वा ह्येनमलंकृतम्
चतुर्मुखस्तुष्टमुखो वायुमाह जगद्गुरुः 22
अमित्राणां भयकरो मित्राणामभयंकरः
अजेयो भविता तेऽत्र पुत्रो मारुत मारुतिः 23
रावणोत्सादनार्थानि रामप्रीतिकराणि च
रोमहर्षकराण्येष कर्ता कर्माणि संयुगे 24
एवमुक्त्वा तमामन्त्र्! य मारुतं तेऽमरैः सह
यथागतं ययुः सर्वे पितामहपुरोगमाः 25
सोऽपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत्
अञ्जनायास्तमाख्याय वरं दत्तं विनिःसृतः 26
प्राप्य राम वरानेष वरदानबलान्वितः
बलेनात्मनि संस्थेन सोऽपूर्यत यथार्णवः 27
बलेनापूर्यमाणो हि एष वानरपुंगवः
आश्रमेषु महर्षीणामपराध्यति निर्भयः 28
स्रुग्भाण्डानग्निहोत्रं च वल्कलानां च संचयान्
भग्नविच्छिन्नविध्वस्तान्सुशान्तानां करोत्ययम् 29
सर्वेषां ब्रह्मदण्डानामवध्यं ब्रह्मणा कृतम्
जानन्त ऋषयस्तं वै क्षमन्ते तस्य नित्यशः 30
यदा केसरिणा त्वेष वायुना साञ्जनेन च
प्रतिषिद्धोऽपि मर्यादां लङ्घयत्येव वानरः 31
ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः
शेपुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः 32
वाधसे यत्समाश्रित्य बलमस्मान्प्लवंगम
तद्दीर्घकालं वेत्तासि नास्माकं शापमोहितः 33
ततस्तु हृततेजौजा महर्षिवचनौजसा
एषोश्रमाणि नात्येति मृदुभावगतश्चरन् 34
अथ ऋक्षरजा नाम वालिसुग्रीवयोः पिता
सर्ववानरराजासीत्तेजसा इव भास्करः 35
स तु राज्यं चिरं कृत्वा वानराणां हरीश्वरः
ततस्त्वर्क्षरजा नाम कालधर्मेण संगतः 36
तस्मिन्नस्तमिते वाली मन्त्रिभिर्मन्त्रकोविदैः
पित्र्! ये पदे कृतो राजा सुग्रीवो वालिनः पदे 37
सुग्रीवेण समं त्वस्य अद्वैधं छिद्र वर्जितम्
अहार्यं सख्यमभवदनिलस्य यथाग्निना 38
एष शापवशादेव न वेद बलमात्मनः
वालिसुग्रीवयोर्वैरं यदा राम समुत्थितम् 39
न ह्येष राम सुग्रीवो भ्राम्यमाणोऽपि वालिना
वेदयानो न च ह्येष बलमात्मनि मारुतिः 40
पराक्रमोत्साहमतिप्रतापैः
सौशील्यमाधुर्यनयानयैश्च
गाम्भीर्यचातुर्यसुवीर्यधैर्यै
र्हनूमतः कोऽप्यधिकोऽस्ति लोके 41
असौ पुरा व्याकरणं ग्रहीष्!
न्सूर्योन्मुखः पृष्ठगमः कपीन्द्र ः!
उद्यद्गिरेरस्तगिरिं जगाम
ग्रन्थं महद्धारयदप्रमेयः 42
प्रवीविविक्षोरिव सागरस्य
लोकान्दिधक्षोरिव पावकस्य
लोकक्षयेष्वेव यथान्तकस्य
हनूमतः स्थाम्यति कः पुरस्तात् 43
एषोऽपि चान्ये च महाकपीन्द्रा ः!
सुग्रीवमैन्दद्विविदाः सनीलाः
सतारतारेयनलाः सरम्भा
स्त्वत्कारणाद्रा म सुरैर्हि सृष्टाः 44
तदेतत्कथितं सर्वं यन्मां त्वं परिपृच्छसि
हनूमतो बालभावे कर्मैतत्कथितं मया 45
दृष्टःसंभाषितश्चासि राम गच्छामहे वयम्
एवमुक्त्वा गताः सर्वे ऋषयस्ते यथागतम् 46
इति श्रीरामायणे उत्तरकाण्डे षट्त्रिंशः सर्गः 36

7-37
विमृश्य च ततो रामो वयस्यमकुतोभयम्
प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत् 1
दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम्
उद्योगश्च कृतो राजन्भरतेन त्वया सह 2
तद्भवानद्य काशेयीं पुरीं वाराणसीं व्रज
रमणीयां त्वया गुप्तां सुप्राकारां सुतोरणाम् 3
एतावदुक्त्वा उत्थाय काकुत्स्थः परमासनात्
पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम् 4
विसृज्य तं वयस्यं स स्वागतान्पृथिवीपतीन्
प्रहसन्राघवो वाक्यमुवाच मधुराक्षरम् 5
भवतां प्रीतिरव्यग्रा तेजसा परिरक्षिता
धर्मश्च नियतो नित्यं सत्यं च भवतां सदा6
युष्माकं च प्रभावेन तेजसा च महात्मनाम्
हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधिपः 7
हेतुमात्रमहं तत्र भवतां तेजसा हतः
रावणः सगणो युद्धे सपुत्रः सहबान्धवः 8
भवन्तश्च समानीता भरतेन महात्मना
श्रुत्वा जनकराजस्य कानने तनयां हृताम् 9
उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम्
कालो ह्यतीतः सुमहान्गमने रोचतां मतिः 10
प्रत्यूचुस्तं च राजानो हर्षेण महतान्विताः
दिष्ट्या त्वं विजयी राम राज्यं चापि प्रतिष्ठितम् 11
दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः
एष नः परमः काम एषा नः कीर्तिरुत्तमा 12
यत्त्वां विजयिनं राम पश्यामो हतशात्रवम्
उपपन्नं च काकुत्स्थ यत्त्वमस्मान्प्रशंससि 13
प्रशंसार्हा हि जानन्ति प्रशंसां वक्तुमीदृशीम्
आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान्
भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा 14
इति श्रीरामायणे उत्तरकाण्डे सप्तत्रिंशः सर्गः 37

7-38
ते प्रयाता महात्मानः पार्थिवाः सर्वतो दिशम्
कम्पयन्तो महीं वीराः स्वपुराणि प्रहृष्टवत् 1
अक्षौहिणीसहस्रैस्ते समवेतास्त्वनेकशः
हृष्टाः प्रतिगताः सर्वे राघवार्थे समागताः 2
ऊचुश्चैव महीपाला बलदर्पसमन्विताः
न नाम रावणं युद्धे पश्यामः पुरतः स्थितम् 3
भरतेन वयं पश्चात्समानीता निरर्थकम्
हता हि राक्षसास्तत्र पार्थिवैः स्युर्न संशयः 4
रामस्य बाहुवीर्येण पालिता लक्ष्मणस्य च
सुखं पारे समुद्र स्य युध्येम विगतज्वराः 5
एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः
कथयन्तः स्वराष्ट्राणि विविशुस्ते महारथाः6
यथापुराणि ते गत्वा रत्नानि विविधानि च
रामाय प्रियकामार्थमुपहारान्नृपा ददुः 7
अश्वान्रत्नानि वस्त्राणि हस्तिनश्च मदोत्कटान्
चन्दनानि च दिव्यानि दिव्यान्याभरणानि च 8
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महारथः
आदाय तानि रत्नानि अयोध्यामगमन्पुनः 9
आगताश्च पुरीं रम्यामयोध्यां पुरुषर्षभाः
ददुः सर्वाणि रत्नानि राघवाय महात्मने 10
प्रतिगृह्य च तत्सर्वं प्रीतियुक्तः स राघवः
सर्वाणि तानि प्रददौ सुग्रीवाय महात्मने 11
विभीषणाय च ददौ ये चान्ये ऋक्षवानराः
हनूमत्प्रमुखा वीरा राक्षसाश्च महाबलाः 12
ते सर्वे हृष्टमनसो रामदत्तानि तान्यथ
शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः 13
पपुश्चैव सुगन्धीनि मधूनि विविधानि च
मांसानि च सुमृष्टानि फलान्यास्वादयन्ति च 14
एवं तेषां निवसतां मासः साग्रो गतस्तदा
मुहूर्तमिव तत्सर्व रामभक्त्या समर्थयन् 15
रेमे रामः स तैः सार्धं वानरैः कामरूपिभिः
राजभिश्च महावीर्यै राक्षसैश्च महाबलैः 16
एवं तेषां ययौ मासो द्वितीयः शैशिरः सुखम्
वानराणां प्रहृष्टानां राक्षसानां च सर्वशः 17
इति श्रीरामायणे उत्तरकाण्डे अष्टात्रिंशः सर्गः 38

7-39
तथा स्म तेषां वसतामृक्षवानररक्षसाम्
राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत् 1
गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः
पालयस्व सहामात्यै राज्यं निहतकण्टकम् 2
अङ्गदं च महाबाहो प्रीत्या परमयान्वितः
पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् 3
सुषेणं श्वशुरं शूरं तारं च बलिनां वरम्
कुमुदं चैव दुर्घर्षं नीलं च सुमहाबलम् 4
वीरं शतबलि चैव मैन्दं द्विविदमेव च
गजं गवाक्षं गवयं शरभं च महाबलम् 5
ऋक्षराजं च दुर्धर्षं जाम्बवन्तं महाबलम्
पश्य प्रीतिसमायुक्तो गन्धमादनमेव च6य98शी8शी0
ये चान्ये सुमहात्मानो मदर्थे त्यक्तजीविताः
पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः 7
एवमुक्त्वा च सुग्रीवं प्रशस्य च पुनः पुनः
विभीषणमथोवाच रामो मधुरया गिरा 8
लङ्कां प्रशाधि धर्मेण संमतो ह्यसि पार्थिव
पुरस्य राक्षसानां च भ्रातुर्वैश्रवणस्य च 9
मा च बुद्धिमधर्मे त्वं कुर्या राजन्कथंचन
बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् 10
अहं च नित्यशो राजन्सुग्रीवसहितस्त्वया
स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः 11
रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः
साधु साध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः 12
तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च
माधुर्यं परमं राम स्वयंभोरिव नित्यदा 13
तेषामेवं ब्रुवाणानां वानराणां च रक्षसाम्
हनूमान्प्रणतो भूत्वा राघवं वाक्यमब्रवीत् 14
स्नेहो मे परमो राजंस्त्वयि नित्यं प्रतिष्ठितः
भक्तिश्च नियता वीर भावो नान्यत्र गच्छति 15
यावद्रा मकथां वीर श्रोष्येऽह पृथिवीतले
तावच्छरीरे वत्स्यन्तु मम प्राणा न संशयः 16
एवं ब्रुवाणं राजेन्द्रो हनूमन्तमथासनात्
उत्थाय च परिष्वज्य वाक्यमेतदुवाच ह 17
एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः
लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा 18
चरिष्यति कथा यावल्लोकानेषा हि मामिका
तावच्छरीरे वत्स्यन्ति प्राणास्तव न संशयः 19
ततोऽस्य हारं चन्द्रा भं मुच्य कण्ठात्स राघवः
वैदूर्यतरलं स्नेहादाबबन्धे हनूमति 20
तेनोरसि निबद्धेन हारेण स महाकपिः
रराज हेमशैलेन्द्र श्चन्द्रे णाक्रान्तमस्तकः 21
श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः
प्रणम्य शिरसा पादौ प्रजग्मुस्ते महाबलाः 22
सुग्रीवश्चैव रामेण परिष्वक्तो महाभुजः
विभीषणश्च धर्मात्मा निरन्तरमुरोगतः 23
सर्वे च ते बाष्पगलाः साश्रुनेत्रा विचेतसः
संमूढा इव दुःखेन त्यजन्ते राघवं तदा 24
इति श्रीरामायणे उत्तरकाण्डे एकोनचत्वारिंशः सर्गः 39

7-40
विसृज्य च महाबाहुरृक्षवानरराक्षसान्
भ्रातृभिः सहितो रामः प्रमुमोद सुखी सुखम् 1
अथापराह्णसमये भ्रातृभिः सह राघवः
शुश्राव मधुरां वाणीमन्तरिक्षात्प्रभाषिताम् 2
सौम्य राम निरीक्षस्व सौम्येन वदनेन माम्
कैलासशिखरात्प्राप्तं विद्धि मां पुष्पकं प्रभो 3
तव शासनमाज्ञाय गतोऽस्मि धनदं प्रति
उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत 4
निर्जितस्त्वं नरेन्द्रे ण राघवेण महात्मना
निहत्य युधि दुर्धर्षं रावणं राक्षसाधिपम् 5
ममापि परमा प्रीतिर्हते तस्मिन्दुरात्मनि श
रावणे सगणे सौम्य सपुत्रामात्यबान्धवे6
स त्वं रामेण लङ्कायां निर्जितः परमात्मना
वह सौम्य तमेव त्वमहमाज्ञापयामि ते 7
एष मे परमः कामो यत्त्वं राघवनन्दनम्
वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः 8
तच्छासनमहं ज्ञात्वा धनदस्य महात्मनः
त्वत्सकाशं पुनः प्राप्तः स एवं प्रतिगृह्ण माम् 9
बाढमित्येव काकुत्स्थः पुष्पकं समपूजयत्
लाजाक्षतैश्च पुष्पैश्च गन्धैश्च सुसुगन्धिभिः 10
गम्यतां च यथाकाममागच्छेस्त्वं यदा स्मरे
एवमस्त्विति रामेण विसृष्टः पुष्पकः पुनः
अभिप्रेतां दिशं प्रायात्पुष्पकः पुष्पभूषितः 11
एवमन्तर्हिते तस्मिन्पुष्पके विविधात्मनि
भरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम् 12
अत्यद्भुतानि दृश्यन्ते त्वयि राज्यं प्रशासति
अमानुषाणां सत्त्वानां व्याहृतानि मुहुर्मुहुः 13
अनामयाच्च मर्त्यानां साग्रो मासो गतो ह्ययम्
जीर्णानामपि सत्त्वानां मृत्युर्नायाति राघव 14
पुत्रान्नार्यः प्रसूयन्ते वपुष्मन्तश्च मानवाः
हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः 15
काले च वासवो वर्षं पातयत्यमृतोपमम्
वायवश्चापि वायन्ते स्पर्शवन्तः सुखप्रदाः 16
ईदृशो नश्चिरं राजा भवत्विति नरेश्वर
कथयन्ति पुरे पौरा जना जनपदेषु च 17
एता वाचः सुमधुरा भरतेन समीरिताः
श्रुत्वा रामो मुदा युक्तः प्रमुमोद सुखी सुखम् 18
इति श्रीरामायणे उत्तरकाण्डे चत्वारिंशः सर्गः 40

7-41
स विसृज्य ततो रामः पुष्पकं हेमभूषितम्
प्रविवेश महाबाहुरशोकविनकां तदा 1
चन्दनागरुचूतैश्च तुङ्गकालेयकैरपि
देवदारुवनैश्चापि समन्तादुपशोभिताम् 2
प्रियङ्गुभिः कदम्बैश्च तथा कुरबकैरपि
जम्बूभिः पाटलीभिश्च कोविदारैश्च संवृताम् 3
सर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैः
चारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसंकुलैः 4
कोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः
शोभितां शतशश्चित्रैश्चूतवृक्षावतंसकैः 5
शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः
नीलाञ्जननिभाश्चान्ये भान्ति तत्र स्म पादपाः6
दीर्घिका विविधाकाराः पूर्णाः परमवारिणा
महार्हमणिसोपानस्फटिकान्तरकुट्टिमाः 7
फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः
प्राकरैर्विविधाकारैः शोभिताश्च शिलातलैः 8
तत्र तत्र वनोद्देशे वैदूर्यमणिसंनिभैः
शाद्वलैः परमोपेताः पुष्पितद्रुमसंयुताः 9
नन्दनं हि यथेन्द्र स्य ब्राह्मं चैत्ररथं यथा
तथारूपं हि रामस्य काननं तन्निवेशितम् 10
बह्वासनगृहोपेतां लतागृहसमावृताम्
अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः 11
आसने तु शुभाकारे पुष्पस्तबकभूषिते
कुथास्तरणसंवीते रामः संनिषसाद ह 12
सीतां संगृह्य बाहुभ्यां मधुमैरेयमुत्तमम्
पाययामास काकुत्स्थः शचीमिन्द्रो यथामृतम् 13
मांसानि च विचित्राणि फलानि विविधानि च
रामस्याभ्यवहारार्थं किंकरास्तूर्णमाहरन् 14
उपनृत्यन्ति राजानं नृत्यगीतविशारदाः
बालाश्च रूपवत्यश्च स्त्रियः पानवशंगताः 15
एवं रामो मुदा युक्तः सीतां सुरुचिराननाम्
रमयामास वैदेहीमहन्यहनि देववत् 16
तथा तु रममाणस्य तस्यैवं शिशिरः शुभः
अत्यक्रामन्नरेन्द्र स्य राघवस्य महात्मनः 17
पूर्वाह्णे पौरकृत्यानि कृत्वा धर्मेण धर्मवित्
शेषं दिवसभागार्धमन्तःपुरगतोऽभवत् 18
सीता च देवकार्याणि कृत्वा पौर्वाह्णिकानि तु
श्वश्रूणामविशेषेण सर्वासां प्राञ्जलि स्थिता 19
ततो राममुपागच्छद्विचित्रबहुभूषणा
त्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची 20
दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम्
प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् 21
अपत्यलाभो वैदेहि ममायं समुपस्थितः
किमिच्छसि हि तद्ब्रूहि कः कामः क्रियतां तव 22
प्रहसन्ती तु वैदेही रामं वाक्यमथाब्रवीत्
तपोवनानि पुण्यानि द्र ष्टुमिच्छामि राघव 23
गङ्गातीरे निविष्टानि ऋषीणां पुण्यकर्मणाम्
फलमूलाशिनां वीर पादमूलेषु वर्तितुम् 24
एष मे परमः कामो यन्मूलफलभोजिषु
अप्येकरात्रं काकुत्स्थ वसेयं पुण्यशालिषु 25
तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा
विस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम् 26
एवमुक्त्वा तु काकुत्स्थो मैथिलद्यं जनकात्मजाम्
मध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः 27
इति श्रीरामायणे उत्तरकाण्डे एकचत्वारिंशः सर्गः 41

7-42
तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः
कथानां बहुरूपाणां हास्यकाराः समन्ततः 1
विजयो मधुमत्तश्च काश्यपः पिङ्गलः कुशः
सुराजिः कालियो भद्रो दन्तवक्रः समागधः 2
एते कथा बहुविधाः परिहाससमन्विताः
कथयन्ति स्म संहृष्टा राघवस्य महात्मनः 3
ततः कथायां कस्यांचिद्रा घवः समभाषत
काः कथा नगरे भद्र वर्तन्ते विषयेषु च 4
मामाश्रितानि कान्याहुं पौरजानपदा जनाः
किं च सीतां समाश्रित्य भरतं किं नु लक्ष्मणम् 5
किं नु शत्रुघ्नमाश्रित्य कैकेयीं मातरं च मे
वक्तव्यतां च राजानो नवे राज्ये व्रजन्ति हि6
मामाश्रितानि कान्याहुः पौरजानपदा जनाः
किं च सीतां समाश्रित्य भरतं किं नु लक्ष्मणम् 5
किं नु शत्रुघ्नमाश्रित्य कैकेयीं मातरं च मे
वक्तव्यतां च राजानो नवे राज्ये व्रजन्ति हि6
एवमुक्ते तु रामेण भद्र ः! प्राञ्जलिरब्रवीत्
स्थिताः कथाः शुभा राजन्वर्तन्ते पुरवासिनाम् 7
अयं तु विजयः सौम्य दशग्रीववधाश्रितः
भूयिष्ठं स्वपुरे पौरैः कथ्यते पुरुषर्षभ 8
एवमुक्तस्तु भद्रे ण राघवो वाक्यमब्रवीत्
कथयस्व यथातथ्यं सर्वं निरवशेषतः 9
शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः
श्रुत्वेदानीं शुभं कुर्यां न कुर्यामशुभानि च 10
कथयस्व च विस्रब्धो निर्भयो विगतज्वरः
कथयन्ते यथा पौरा जना जनपदेषु च 11
राघवेणैवमुक्तस्तु भद्र ः! सुरुचिरं वचः
प्रत्युवाच महाबाहुं प्राञ्जलि सुसमाहितः 12
शृणु राजन्यथा पौराः कथयन्ति शुभाशुभम्
चत्वरापणरथ्यासु वनेषूपवनेषु च 13
दुष्करं कृतवान्रामः समुद्रे सेतुबन्धनम्
अकृतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः 14
रावणश्च दुराधर्षो हतः सबलवाहनः
वानराश्च वशं नीता ऋक्षाश्च सह राक्षसैः 15
हत्वा च रावणं युद्धे सीतामाहृत्य राघवः
अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत् 16
कीदृशं हृदये तस्य सीतासंभोगजं सुखम्
अङ्कमारोप्य हि पुरा रावणेन बलाद्धृताम् 17
लङ्कामपि पुनर्नीतामशोकवनिकां गताम्
रक्षसां वशमापन्नां कथं रामो न कुत्सते 18
अस्माकमपि दारेषु सहनीयं भविष्यति
यथा हि कुरुते राजा प्रजा तमनुवर्तते 19
एवं बहुविधा वाचो वदन्ति पुरवासिनः
नगरेषु च सर्वेषु राजञ्जनपदेषु च 20
तस्यैतद्भाषितं श्रुत्वा राघवः परमार्तवत्
उवाच सर्वान्सुहृदः कथमेतन्निवेद्यताम् 21
सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च
प्रत्यूचू राघवं दीनमेवमेतन्न संशयः 22
श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम्
विसर्जयामास तदा सर्वांस्ताञ्शत्रुतापनः 23
इति श्रीरामायणे उत्तरकाण्डे द्विचत्वारिंशः सर्गः 42

7-43
विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः
समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत् 1
शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम्
भरतं च महाबाहुं शत्रुघ्नं चापराजितम् 2
रामस्य भाषितं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलि
लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः 3
उवाच च तदा वाक्यं वर्धयित्वा कृताञ्जलि
द्र ष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम् 4
बाढमित्येव सौमित्रिः श्रुत्वा राघवशासनम्
प्राद्र वद्र थमारुह्य राघवस्य निवेशनम् 5
प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात्
उवाच प्राञ्जलिर्वाक्यं राजा त्वां द्र ष्टुमिच्छति6
भरतस्तु वचः श्रुत्वा द्वाःस्थाद्रा मसमीरितम्
उत्पपातासनात्तूर्णं पद्भ्यामेव ततोऽगमत् 7
दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलि
शत्रुघ्नभवनं गत्वा ततो वाक्यं जगाद ह 8
एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्र ष्टुमिच्छति
गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः 9
श्रुत्वा तु वचनं तस्य शत्रुघ्नो रामशासनम्
शिरसा वन्द्य धरणीं प्रययौ यत्र राघवः 10
कुमारानागताञ्श्रुत्वा चिन्ताव्याकुलितेन्द्रि यः
अवाक्शिरा दीनमना द्वाःस्थं वचनमब्रवीत् 11
प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः
एतेषु जीवितं मह्यमेते प्राणा बहिश्चराः 12
आज्ञप्तास्तु नरेन्द्रे ण कुमाराः शुक्लवाससः
प्रह्वा प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः 13
ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा
संध्यागतमिवादित्यं प्रभया परिवर्जितम् 14
बाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः
हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते 15
ततोऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः
तस्थुः समाहिताः सर्वे रामश्चाश्रूण्यवर्तयत् 16
तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाभुजः
आसनेष्वाध्वमित्युक्त्वा ततो वाक्यं जगाद ह 17
भवन्तो मम सर्वस्वं भवन्तो मम जीवितम्
भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः 18
भवन्तः कृतशास्त्रार्था बुद्धौ च परिनिष्ठिताः
संभूय च मदर्थोऽयमन्वेष्टव्यो नरेश्वराः 19
इति श्रीरामायणे उत्तरकाण्डे त्रिचत्वारिंशः सर्गः 43

7-44
तेषां समुपविष्टानां सर्वेषां दीनचेतसाम्
उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता 1
सर्वे शृणुत भद्रं वो मा कुरुध्वं मनोऽन्यथा
पौराणां मम सीतायां यादृशी वर्तते कथा 2
पौरापवादः सुमहांस्तथा जनपदस्य च
वर्तते मयि बीभत्सः स मे मर्माणि कृन्तति 3
अहं किल कुले जात इक्ष्वाकूणां महात्मनाम्
सीतां पापसमाचारामानयेयं कथं पुरे 4
जानासि हि यथा सौम्य दण्डके विजने वने
रावणेन हृता सीता स च विध्वंसितो मया 5
प्रत्यक्षं तव सौमित्रे देवानां हव्यवाहनः
अपापां मैथिलीमाह वायुश्चाकाशगोचरः6
चन्द्रा दित्यौ च शंसेते सुराणां संनिधौ पुरा
ऋषीणां चैव सर्वेषामपापां जनकात्मजाम् 7
एवं शुद्धसमाचारा देवगन्धर्वसंनिधौ
लङ्काद्वीपे महेन्द्रे ण मम हस्ते निवेशिता 8
अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम्
ततो गृहीत्वा वैदेहीमयोध्यामहमागतः 9
अयं तु मे महान्वादः शोकश्च हृदि वर्तते
पौरापवादः सुमहांस्तथा जनपदस्य च 10
अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित्
पतत्येवाधमाँ ल्लोकान्यावच्छब्दः स कीर्त्यते 11
अकीर्तिर्निन्द्यते दैवैः कीर्तिर्देवेषु पूज्यते
कीर्त्यर्थं च समारम्भः सर्व एव महात्मनाम् 12
अप्यहं जीवितं जह्यां युष्मान्वा पुरुषर्षभाः
अपवादभयाद्भीतः किं पुनर्जनकात्मजाम् 13
तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे
न हि पश्याम्यहं भूयः किंचिद्दुःखमतोऽधिकम् 14
श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम्
आरुह्य सीतामारोप्य विषयान्ते समुत्सृज 15
गङ्गायास्तु परे पारे वाल्मीकेः सुमहात्मनः
आश्रमो दिव्यसंकाशस्तमसातीरमाश्रितः 16
तत्रैनां विजने कक्षे विसृज्य रघुनन्दन
शीघ्रमागच्छ सौमित्रे कुरुष्व वचनं मम 17
न चास्मि प्रतिवक्तव्यः सीतां प्रति कथंचन
अप्रीतिः परमा मह्यं भवेत्तु प्रतिवारिते 18
शापिताश्च मया यूयं भुजाभ्यां जीवितेन च
ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथंचन 19
मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः
इतोऽद्य नीयतां सीता कुरुष्व वचनं मम 20
पूर्वमुक्तोऽहमनया गङ्गातीरे महाश्रमान्
पश्येयमिति तस्याश्च कामः संवर्त्यतामयम् 21
एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहितेक्षणः
प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः 22
इति श्रीरामायणे उत्तरकाण्डे चतुश्चत्वारिंशः सर्गः 44

7-45
ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः
सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता 1
सारथे तुरगाञ्शीघ्रं योजयस्व रथोत्तमे
स्वास्तीर्णं राजभवनात्सीतायाश्चासनं शुभम् 2
सीता हि राजभवनादाश्रमं पुण्यकर्मणाम्
मया नेया महर्षीणां शीघ्रमानीयतां रथः 3
सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः
रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया 4
आदायोवाच सौमित्रिं मित्राणां हर्षवर्धनम्
रथोऽय समनुप्राप्तो यत्कार्यं क्रियतां प्रभो 5
एवमुक्तः सुमन्त्रेण राजवेश्म स लक्ष्मणः
प्रविश्य सीतामासाद्य व्याजहार नरर्षभः6
गङ्गातीरे मया देवि मुनीनामाश्रमे शुभे
शीघ्रं गत्वोपनेयासि शासनात्पार्थिवस्य नः 7
एवमुक्ता तु व्देही लक्ष्मणेन महात्मना
प्रहर्षमतुलं लेभे गमनं चाभ्यरोचयत् 8
वासांसि च महार्हाणि रत्नानि विविधानि च
गृहीत्वा तानि वैदेही गमनायोपचक्रमे 9
इमानि मुनिपत्नीनां दास्याम्याभरणान्यहम्
सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम्
प्रययौ शीघ्रतुरगो रामस्याज्ञामनुस्मरन् 10
अब्रवीच्च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम्
अशुभानि बहून्यद्य पश्यामि रघुनन्दन 11
नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते
हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये 12
औत्सुक्यं परमं चापि अधृतिश्च परा मम
शून्यामिव च पश्यामि पृथिवीं पृथुलोचन 13
अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृभिः सह
श्वश्रूणां चैव मे वीर सर्वासामविशेषतः 14
पुरे जनपदे चैव कुशलं प्राणिनामपि
इत्यञ्जलिकृता सीता देवता अभ्ययाचत 15
लक्ष्मणोऽथ तु तं श्रुत्वा शिरसा वन्द्य मैथिलीम्
शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता 16
ततो वासमुपागम्य गोमतीतीर आश्रमे
प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत् 17
योजयस्व रथं शीघ्रमद्य भागीरथीजलम्
शिरसा धारयिष्यामि त्र्! यम्बकः पर्वते यथा 18
सोऽश्वान्विचारयित्वाशु रथे युक्त्वा मनोजवान्
आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत् 19
सा तु सूतस्य वचनादारुरोह रथोत्तमम्
सीता सौमित्रिणा सार्धं सुमन्त्रेण च धीमता 20
अथार्धदिवसं गत्वा भागीरथ्या जलाशयम्
निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनम् 21
सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम्
उवाच वाक्यं धर्मज्ञ किमिदं रुद्यते त्वया 22
जाह्नवीतीरमासाद्य चिराभिलषितं मम
हर्षकाले किमर्थं मां विषादयसि लक्ष्मण 23
नित्यं त्वं रामपादेषु वर्तसे पुरुषर्षभ
कच्चिद्विनाकृतस्तेन द्विरात्रे शोकमागतः 24
ममापि दयितो रामो जीवितेनापि लक्ष्मण
न चाहमेवं शोचामि मैवं त्वं बालिशो भव 25
तारयस्व च मां गङ्गां दर्शयस्व च तापसान्
ततो धनानि वासांसि दास्याम्याभरणानि च 26
ततः कृत्वा महर्षीणां यथार्हमभिवादनम्
तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः 27
तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे
तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपाहरत् 28
इति श्रीरामायणे उत्तरकाण्डे पञ्चचत्वारिंशः सर्गः 45

7-46
अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः
आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् 1
सुमन्त्रं च्व सरथं स्थीयतामिति लक्ष्मणः
उवाच शोकसंतप्तः प्रयाहीति च नाविकम् 2
ततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः
उवाच मैथिलद्यं वाक्यं प्राञ्जलिर्बाष्पगद्गदः 3
हृद्गतं मे महच्छल्यं यदस्म्यार्येण धीमता
अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः 4
श्रेयो हि मरणं मेऽद्य मृत्योर्वा यत्परं भवेत्
न चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते 5
प्रसीद न च मे रोषं कर्तुमर्हसि सुव्रते
इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः6
रुदन्तं प्राञ्जलि दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः
मैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रबीत् 7
किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण
पश्यामि त्वां च न स्वस्थमपि क्षेमं महीपतेः 8
शापितोऽसि नरेन्द्रे ण यत्त्वं संतापमात्मनः
तद्ब्रूयाः संनिधौ मह्यमहमाज्ञापयामि ते 9
वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः
अवाङ्मुखो बाष्पगलो वाक्यमेतदुवाच ह 10
श्रुत्वा र्प्षदो मध्ये अपवादं सुदारुणम्
पुरे जनपदे चैव त्वत्कृते जनकात्मजे 11
न तानि वचनीयानि मया देवि तवाग्रतः
यानि राज्ञा हृदि न्यस्तान्यमर्षः पृष्ठतः कृतः 12
सा त्वं त्यक्ता नृपतिना निर्दोषा मम संनिधौ
पौरापवादभीतेन ग्राह्यं देवि न तेऽन्यथा 13
आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि
राज्ञः शासनमाज्ञाय तवैवं किल दौर्हृदम् 14
तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम्
पुण्यं च रमणीयं च मा विषादं कृथाः शुभे 15
राज्ञो दशरथस्यैष पितुर्मे मुनिपुंगवः
सखा परमको विप्रो वाल्मीकिः सुमहायशाः 16
पादच्छायामुपागम्य सुखमस्य महात्मनः
उपवासपरैकाग्रा वस त्वं जनकात्मजे 17
पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि
श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति 18
इति श्रीरामायणे उत्तरकाण्डे षट्चत्वारिंशः सर्गः 46

7-47
लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा
परं विषादमागम्य वैदेही निपपात ह 1
सा मुहूर्तमिवासंज्ञा बाष्पव्याकुलितेक्षणा
लक्ष्मणं दीनया वाचा उवाच जनकात्मजा 2
मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मण
धात्रा यस्यास्तथा मेऽद्य दुःखमूर्तिः प्रदृश्यते 3
किं नु पापं कृतं पूर्वं को वा दारैर्वियोजितः
याहं शुद्धसमाचारा त्यक्ता नृपतिना सती 4
पुराहमाश्रमे वासं रामपादानुवर्तिनी
अनुरुध्यापि सौमित्रे दुःखे विपरिवर्तिनी 5
सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता
आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा6
किं च वक्ष्यामि मुनिषु किं मयापकृतं नृपे
कस्मिन्वा कारणे त्यक्ता राघवेण महात्मना 7
न खल्वद्यैव सौमित्रे जीवितं जाह्नवीजले
त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते 8
यथाज्ञां कुरु सौमित्रे त्यज मां दुःखभागिनीम्
निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम 9
श्वश्रूणामविशेषेण प्राञ्जलि प्रग्रहेण च
शिरसा वन्द्य चरणौ कुशलं ब्रूहि पार्थिवम् 10
यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा
परमो ह्येष धर्मः स्यादेषा कीर्तिरनुत्तमा 11
यत्त्वं पौरजनं राजन्धर्मेण समवाप्नुयाः
अहं तु नानुशोचामि स्वशरीरं नरर्षभ
यथापवादं पौराणां तथैव रघुनन्दन 12
एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः
शिरसा धरणीं गत्वा व्याहर्तुं न शशाक ह 13
प्रदक्षिणं च कृत्वा स रुदन्नेव महास्वनम्
आरुरोह पुनर्नावं नाविकं चाभ्यचोदयत् 14
स गत्वा चोत्तरं कूलं शोकभारसमन्वितः
संमूढ इव दुःखेन रथमध्यारुहद्द्रुतम् 15
मुहुर्मुहुरपावृत्य दृष्ट्वा सीतामनाथवत्
वेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययावथ 16
दूरस्थं रथमालोक्य लक्ष्मणं च मुहुर्मुहुः
निरीक्षमाणामुद्विग्नां सीतां शोकः समाविशत् 17
सा दुःखभारावनता तपस्विनी
यशोधरा नाथमपश्यती सती
रुरोद सा बर्हिणनादिते वने
महास्वनं दुःखपरायणा सती 18
इति श्रीरामायणे उत्तरकाण्डे सप्तचत्वारिंशः सर्गः 47

7-48
सीतां तु रुदतीं दृष्ट्वा ये तत्र मुनिदारकाः
प्राद्र वन्यत्र भगवानास्ते वाल्मीकिरग्र्यधीः 1
अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये
सर्वे निवेदयामासुस्तस्यास्तु रुदितस्वनम् 2
अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः
पत्नी श्रीरिव संमोहाद्विरौति विकृतस्वरा 3
भगवन्साधु पश्येमां देवतामिव खाच्च्युताम्
न ह्येनां मानुषीं विद्मः सत्क्रियास्याः प्रयुज्यताम् 4
तेषां तद्वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित्
तपसा लब्धचक्षुष्मान्प्राद्र वद्यत्र मैथिली 5
तं तु देशमभिप्रेत्य किंचित्पद्भ्यां महामुनिः
अर्घ्यमादाय रुचिरं जाह्नवीतीरमाश्रितः
ददर्श राघवस्येष्टां पत्नीं सीतामनाथवत्6
तां सीतां शोकभारार्तां वाल्मीकिर्मुनिपुंगवः
उवाच मधुरां वाणीं ह्लादयन्निव तेजसा 7
स्नुषा दशरथस्य त्वं रामस्य महिषी सती
जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते 8
आयान्त्येवासि विज्ञाता मया धर्मसमाधिना
कारणं चैव सर्वं मे हृदयेनोपलक्षितम् 9
अपापां वेद्मि सीते त्वां तपोलब्धेन चक्षुषा
विशुद्धभावा वैदेहि साम्प्रतं मयि वर्तसे 10
आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः
तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः 11
इदमर्घ्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा
यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः 12
श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम्
शिरसा वन्द्य चरणौ तथेत्याह कृताञ्जलि 13
तं प्रयान्तं मुनिं सीता प्राञ्जलि पृष्ठतोऽन्वगात्
अन्वयाद्यत्र तापस्यो धर्मनित्याः समाहिताः 14
तं दृष्ट्वा मुनिमायान्तं वैदेह्यानुगतं तदा
उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन् 15
स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं प्रभो
अभिवादयामः सर्वास्त्वामुच्यतां किं च कुर्महे 16
तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत्
सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः 17
स्नुषा दशरथस्यैषा जनकस्य सुता सती
अपापा पतिना त्यक्ता परिपाल्या मया सदा 18
इमां भवत्यः पश्यन्तु स्नेहेन परमेण ह
गौरवान्मम वाक्यस्य पूज्या वोऽस्तु विशेषतः 19
मुहुर्मुहुश्च वैदेहीं परिसान्त्व्य महायशाः
स्वमाश्रमं शिष्यवृतः पुनरायान्महातपाः 20
इति श्रीरामायणे उत्तरकाण्डे अष्टचत्वारिंशः सर्गः 48

7-49
दृष्ट्वा तु मैथिलद्यं सीतामाश्रमं संप्रवेशिताम्
संतापमकरोद्घोरं लक्ष्मणो दीनचेतनः 1
अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम्
सीतासंतापजं दुःखं पश्य रामस्य धीमतः 2
अतो दुःखतरं किं नु राघवस्य भविष्यति
पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम् 3
व्यक्तं दैवादहं मन्ये राघवस्य विनाभवम्
वैदेह्या सारथे सार्धं दैवं हि दुरतिक्रमम् 4
यो हि देवान्सगन्धर्वानसुरान्सह राक्षसैः
निहन्याद्रा घवः क्रुद्धः स दैवमनुवर्तते 5
पुरा मम पितुर्वाक्यैर्दण्डके विजने वने
उषितो नव वर्षाणि पञ्च चैव सुदारुणे6
ततो दुःखतरं भूयः सीताया विप्रवासनम्
पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे 7
को नु धर्माश्रयः सूत कर्मण्यस्मिन्यशोहरे
मैथिलद्यं प्रति संप्राप्तः पौरैर्हीनार्थवादिभिः 8
एता बहुविधा वाचः श्रुत्वा लक्ष्मणभाषिताः
सुमन्त्रः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह 9
न संतापस्त्वया कार्यः सौमित्रे मैथिलद्यं प्रति
दृष्टमेतत्पुरा विप्रैः पितुस्ते लक्ष्मणाग्रतः 10
भविष्यति दृढं रामो दुःखप्रायोऽल्पसौख्यवान्
त्वां चैव मैथिलद्यं चैव शत्रुघ्नभरतौ तथा
संत्यजिष्यति धर्मात्मा कालेन महता महान् 11
न त्विदं त्वयि वक्तव्यं सौमित्रे भरतेऽपि वा
राज्ञा वोऽव्याहृतं वाक्यं दुर्वासा यदुवाच ह 12
महाराजसमीपे च मम चैव नरर्षभ
ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च संनिधौ 13
ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः
सूत न क्वचिदेवं ते वक्तव्यं जनसंनिधौ 14
तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितः
नैव जात्वनृतं कुर्यामिति मे सौम्य दर्शनम् 15
सर्वथा नास्त्यवक्तव्यं मया सौम्य तवाग्रतः
यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन 16
यद्यप्यहं नरेन्द्रे ण रहस्यं श्रावितः पुरा
तच्चाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम् 17
तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत्
तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत् 18
इति श्रीरामायणे उत्तरकाण्डे एकोनपञ्चाशः सर्गः 49

7-50
तथा संचोदितः सूतो लक्ष्मणेन महात्मना
तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे 1
पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः
वसिष्ठस्याश्रमे पुण्ये स वार्षिक्यमुवास ह 2
तमाश्रमं महातेजाः पिता ते सुमहायशाः
पुरोधसं महात्मानं दिदृक्षुरगमत्स्वयम् 3
स दृष्ट्वा सूर्यसंकाशं ज्वलन्तमिव तेजसा
उपविष्टं वसिष्ठस्य सव्ये पार्श्वे महामुनिम्
तौ मुनी तापसश्रेष्ठौ विनीतस्त्वभ्यवादयत् 4
स ताभ्यां पूजितो राजा स्वागतेनासनेन च
पाद्येन फलमूलैश्च सोऽप्यास्ते मुनिभिः सह 5
तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः
बभूवुः परमर्षीणां मध्यादित्यगतेऽहनि6
ततः कथायां कस्यांचित्प्राञ्जलि प्रग्रहो नृपः
उवाच तं महात्मानमत्रेः पुत्रं तपोधनम् 7
भगवन्किंप्रमाणेन मम वंशो भविष्यति
किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः 8
रामस्य च सुता ये स्युस्तेषामायुः कियद्भवेत्
काम्यया भगवन्ब्रूहि वंशस्यास्य गतिं मम 9
तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य तु
दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे 10
अयोध्यायाः पती रामो दीर्घकालं भविष्यति
सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य चानुजाः 11
कस्मिंश्चित्कारणे त्वां च मैथिलद्यं च यशस्विनीम्
संत्यजिष्यति धर्मात्मा कालेन महता किल 12
दश वर्षसहस्राणि दश वर्षशतानि च
रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति 13
समृद्धैर्हयमेधैश्च इष्ट्वा परपुरंजयः
राजवंशांश्च काकुत्स्थो बहून्संस्थापयिष्यति 14
स सर्वमखिलं राज्ञो वंशस्यास्य गतागतम्
आख्याय सुमहातेजास्तूष्णीमासीन्महाद्युतिः 15
तूष्णीं भूते मुनौ तस्मिन्राजा दशरथस्तदा
अभिवाद्य महात्मानौ पुनरायात्पुरोत्तमम् 16
एतद्वचो मया तत्र मुनिना व्याहृतं पुरा
श्रुतं हृदि च निक्षिप्तं नान्यथा तद्भविष्यति 17
एवं गते न संतापं गन्तुमर्हसि राघव
सीतार्थे राघवार्थे वा दृढो भव नरोत्तम 18
तच्छ्रुत्वा व्याहृतं वाक्यं सूतस्य परमाद्भुतम्
प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् 19
तयोः संवदतोरेवं सूतलक्ष्मणयोः पथि
अस्तमर्को गतो वासं गोमत्यां तावथोषतुः 20
इति श्रीरामायणे उत्तरकाण्डे पञ्चाशः सर्गः 50

7-51
तत्र तां रजनीमुष्य गोमत्यां रघुनन्दनः
प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा 1
ततोऽधदिवसे प्राप्ते प्रविवेश महारथः
अयोध्यां रत्नसंम्पूर्णां हृष्टपुष्टजनावृताम् 2
सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः
रामपादौ समासाद्य वक्ष्यामि किमहं गतः 3
तस्यैवं चिन्तयानस्य भवनं शशिसंनिभम्
रामस्य परमोदारं पुरस्तात्समदृश्यत 4
राज्ञस्तु भवनद्वारि सोऽवतीर्य नरोत्तमः
अवाङ्मुखो दीनमनाः प्रविवेशानिवारितः 5
स दृष्ट्वा राघवं दीनमासीनं परमासने
नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः6
जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः
उवाच दीनया वाचा प्राञ्जलि सुसमाहितः 7
आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम्
गङ्गातीरे यथोद्दिष्टे वाल्मीकेराश्रमे शुभे
पुनरस्म्यागतो वीर पादमूलमुपासितुम् 8
मा शुचः पुरुषव्याघ्र कालस्य गतिरीदृशी
त्वद्विधा न हि शोचन्ति सत्त्ववन्तो मनस्विनः 9
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् 10
शक्तस्त्वमात्मनात्मानं विजेतुं मनसैव हि
लोकान्सर्वांश्च काकुत्स्थ किं पुनर्दुःखमीदृशम् 11
नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः
यदर्थं मैथिली त्यक्ता अपवादभयान्नृप 12
स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः
त्यजेमां दुर्बलां बुद्धिं संतापं मा कुरुष्व ह 13
एवमुक्तस्तु काकुत्स्थो लक्ष्मणेन महात्मना
उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलम् 14
एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण
परितोषश्च मे वीर मम कार्यानुशासने 15
निर्वृतिश्च कृता सौम्य संतापश्च निराकृतः
भवद्वाक्यैः सुमधुरैरनुनीतोऽस्मि लक्ष्मण 16
इति श्रीरामायणे उत्तरकाण्डे एकपञ्चाशः सर्गः 51

7-52
ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत्
एते निवारिता राजन्द्वारि तिष्ठन्ति तापसाः 1
भार्गवं च्यवनं नाम पुरस्कृत्य महर्षयः
दर्शनं ते महाराज चोदयन्ति कृतत्वराः
प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः 2
तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित्
प्रवेश्यन्तां महात्मानो भार्गवप्रमुखा द्विजाः 3
राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलि
प्रवेशयामास ततस्तापसान्संमतान्बहून् 4
शतं समधिकं तत्र दीप्यमानं स्वतेजसा
प्रविष्टं राजभवनं तापसानां महात्मनाम् 5
ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बु सत्कृतम्
गृहीत्वा फलमूलं च रामस्याभ्याहरन्बहु6
प्रतिगृह्य तु तत्सर्वं रामः प्रीतिपुरस्कृतः
तीर्थोदकानि सर्वाणि फलानि विविधानि च 7
उवाच च महाबाहुः सर्वानेव महामुनीन्
इमान्यासनमुख्यानि यथार्हमुपविश्यताम् 8
रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः
बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते 9
उपविष्टानृषींस्तत्र दृष्ट्वा परपुरंजयः
प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत् 10
किमागमनकार्यं वः किं करोमि तपोधनाः
आज्ञाप्योऽह महर्षीणां सर्वकामकरः सुखम् 11
इदं राज्यं च सकलं जीवितं च हृदि स्थितम्
सर्वमेतद्द्विजार्थं मे सत्यमेतद्ब्रवीमि वः 12
तस्य तद्वचनं श्रुत्वा साधुवादो महानभूत्
ऋषीणामुग्रतपसां यमुनातीरवासिनाम् 13
ऊचुश्च ते महात्मानो हर्षेण महतान्विताः
उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः 14
बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः
कार्यगौरवमश्रुत्वा प्रतिज्ञां नाभ्यरोचयन् 15
त्वया पुनर्ब्राह्मणगौरवादियं
कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम्
कुरुष्व कर्ता ह्यसि नात्र संशयो
महाभयात्त्रातुमृषींस्त्वमर्हसि 16
इति श्रीरामायणे उत्तरकाण्डे द्विपञ्चाशः सर्गः 52

7-53
ब्रुवद्भिरेवमृषिभिः काकुत्स्थो वाक्यमब्रवीत्
किं कार्यं ब्रूत भवतां भयं नाशयितास्मि वः 1
तथा वदति काकुत्स्थे भार्गवो वाक्यमब्रवीत्
भयं नः शृणु यन्मूलं देशस्य च नरेश्वर 2
पूर्वं कृतयुगे राम दैतेयः सुमहाबलः
लोलापुत्रोऽभवज्ज्येष्ठो मधुर्नाम महासुरः 3
ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः
सुरैश्च परमोदारैः प्रीतिस्तस्यातुलाभवत् 4
स मधुर्वीर्यसम्पन्नो धर्मे च सुसमाहितः
बहुमानाच्च रुद्रे ण दत्तस्तस्याद्भुतो वरः 5
शूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम्
ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह6
त्वयायमतुलो धर्मो मत्प्रसादात्कृतः शुभः
प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् 7
यावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर
तावच्छूलं तवेदं स्यादन्यथा नाशमाप्नुयात् 8
यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः
तं शूलं भस्मसात्कृत्वा पुनरेष्यति ते करम् 9
एवं रुद्रा द्वरं लब्ध्वा भूय एव महासुरः
प्रणिपत्य महादेवं वाक्यमेतदुवाच ह 10
भगवन्मम वंशस्य शूलमेतदनुत्तमम्
भवेत्तु सततं देव सुराणामीश्वरो ह्यसि 11
तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः
प्रत्युवाच महादेवो नैतदेवं भविष्यति 12
मा भूत्ते विफला वाणी मत्प्रसादकृता शुभा
भवतः पुत्रमेकं तु शूलमेतद्गमिष्यति 13
यावत्करस्थः शूलोऽय भविष्यति सुतस्य ते
अवध्यः सर्वभूतानां शूलहस्तो भविष्यति 14
एवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम्
भवनं चासुरश्रेष्ठः कारयामास सुप्रभम् 15
तस्य पत्नी महाभागा प्रिया कुम्भीनसी हि या
विश्वावसोरपत्यं सा ह्यनलायां महाप्रभा 16
तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः
बाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् 17
तं पुत्रं दुर्विनीतं तु दृष्ट्वा दुःखसमन्वितः
मधुः स शोकमापेदे न चैनं किंचिदब्रवीत् 18
स विहाय इमं लोकं प्रविष्टो वरुणालयम्
शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् 19
स प्रभावेन शूलस्य दौरात्म्येनात्मनस्तथा
संतापयति लोकांस्त्रीन्विशेषेण तु तापसान् 20
एवंप्रभावो लवणः शूलं चैव तथाविधम्
श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः 21
बहवः पार्थिवा राम भयार्तैरृषिभिः पुरा
अभयं याचिता वीर त्रातारं न च विद्म्रहे 22
ते वयं रावणं श्रुत्वा हतं सबलवाहनम्
त्रातारं विद्महे राम नान्यं भुवि नराधिपम्
तत्परित्रातुमिच्छामो लवणाद्भयपीडिताः 23
इति श्रीरामायणे उत्तरकाण्डे त्रिपञ्चाशः सर्गः 53

7-54
तथोक्ते तानृषीन्रामः प्रत्युवाच कृताञ्जलि
किमाहारः किमाचारो लवणः क्व च वर्तते 1
राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते
ततो निवेदयामासुर्लवणो ववृधे यथा 2
आहारः सर्वसत्त्वानि विशेषेण च तापसाः
आचारो रौद्र ता नित्यं वासो मधुवने सदा 3
हत्वा दशसहस्राणि सिंहव्याघ्रमृगद्विपान्
मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम् 4
ततोऽपराणि सत्त्वानि खादते स महाबलः
संहारे समनुप्राप्ते व्यादितास्य इवान्तकः 5
तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन्
घातयिष्यामि तद्र क्षो व्यपगच्छतु वो भयम्6
तथा तेषां प्रतिज्ञाय मुनीनामुग्रतेजसाम्
स भ्रातॄन्सहितान्सर्वानुवाच रघुनन्दनः 7
को हन्ता लवणं वीराः कस्यांशः स विधीयताम्
भरतस्य महाबाहोः शत्रुघ्नस्याथवा पुनः 8
राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत्
अहमेनं वधिष्यामि ममांशः स विधीयताम् 9
भरतस्य वचः श्रुत्वा शौर्यवीर्यसमन्वितम्
लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम् 10
शत्रुघ्नस्त्वब्रवीद्वाक्यं प्रणिपत्य नराधिपम्
कृतकर्मा महाबाहुर्मध्यमो रघुनन्दनः 11
आर्येण हि पुरा शून्या अयोध्या रक्षिता पुरी
संतापं हृदये कृत्वा आर्यस्यागमनं प्रति 12
दुःखानि च बहूनीह अनुभूतानि पार्थिव
शयानो दुःखशय्यासु नन्दिग्रामे महात्मना 13
फलमूलाशनो भूत्वा जटाचीरधरस्तथा
अनुभूयेदृशं दुःखमेष राघवनन्दनः
प्रेष्ये मयि स्थिते राजन्न भूयः क्लेशमाप्नुयात् 14
तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत्
एवं भवतु काकुत्स्थ क्रियतां मम शासनम् 15
राज्ये त्वामभिषेक्ष्यामि मधोस्तु नगरे शुभे
निवेशय महाबाहो भरतं यद्यवेक्षसे 16
शूरस्त्वं कृतविद्यश्च समर्थः संनिवेशने
नगरं मधुना जुष्टं तथा जनपदाञ्शुभान् 17
यो हि वंशं समुत्पाट्य पार्थिवस्य पुनः क्षये
न विधत्ते नृपं तत्र नरकं स निगच्छति 18
स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम्
राज्यं प्रशाधि धर्मेण वाक्यं मे यद्यवेक्षसे 19
उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम
बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः 20
अभिषेकं च काकुत्स्थ प्रतीच्छस्व मयोद्यतम्
वसिष्ठप्रमुखैर्विप्रैर्विधिमन्त्रपुरस्कृतम् 21
इति श्रीरामायणे उत्तरकाण्डे चतुष्पञ्चाशः सर्गः 54

7-55
एवमुक्तस्तु रामेण परां व्रीडामुपागतः
शत्रुघ्नो वीर्यसम्पन्नो मन्दं मन्दमुवाच ह 1
अवश्यं करणीयं च शासनं पुरुषर्षभ
तव चैव महाभाग शासनं दुरतिक्रमम्
अयं कामकरो राजंस्तवास्मि पुरुषर्षभ 2
एवमुक्ते तु शूरेण शत्रुघ्नेन महात्मना
उवाच रामः संहृष्टो लक्ष्मणं भरतं तथा 3
संभारानभिषेकस्य आनयध्वं समाहिताः
अद्यैव पुरुषव्याघ्रमभिषेक्ष्यामि दुर्जयम् 4
पुरोधसं च काकुत्स्थौ नैगमानृत्विजस्तथा
मन्त्रिणश्चैव मे सर्वानानयध्वं ममाज्ञया 5
राज्ञः शासनमाज्ञाय तथाकुर्वन्महारथाः
अभिषेकसमारम्भं पुरस्कृत्य पुरोधसम्
प्रविष्टा राजभवनं पुरंदरगृहोपमम्6
ततोऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः
संप्रहर्षकरः श्रीमान्राघवस्य पुरस्य च 7
ततोऽभिषिक्तं शत्रुघ्नमङ्कमारोप्य राघवः
उवाच मधुरां वाणीं तेजस्तस्याभिपूरयन् 8
अयं शरस्त्वमोघस्ते दिव्यः परपुरंजयः
अनेन लवणं सौम्य हन्तासि रघुनन्दन 9
सृष्टः शरोऽय काकुत्स्थ यदा शेते महार्णवे
स्वयंभूरजितो देवो यं नापश्यन्सुरासुराः 10
अदृश्यः सर्वभूतानां तेनायं हि शरोत्तमः
सृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोः
मधुकैटभयोर्वीर विघाते वर्तमानयोः 11
स्रष्टुकामेन लोकाँ स्त्रींस्तौ चानेन हतौ युधि
अनेन शरमुख्येन ततो लोकांश्चकार सः 12
नायं मया शरः पूर्वं रावणस्य वधार्थिना
मुक्तः शत्रुघ्न भूतानां महांस्त्रासो भवेदिति 13
यच्च तस्य महच्छूलं त्र्! यम्बकेण महात्मना
दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम् 14
तत्संनिक्षिप्य भवने पूज्यमानं पुनः पुनः
दिशः सर्वाः समालोक्य प्राप्नोत्याहारमात्मनः 15
यदा तु युद्धमाकाङ्क्षन्कश्चिदेनं समाह्वयेत्
तदा शूलं गृहीत्वा तद्भस्म रक्षः करोति तम् 16
स त्वं पुरुषशार्दूल तमायुधविवर्जितम्
अप्रविष्टपुरं पूर्वं द्वारि तिष्ठ धृतायुधः 17
अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ
आह्वयेथा महाबाहो ततो हन्तासि राक्षसम् 18
अन्यथा क्रियमाणे तु अवध्यः स भविष्यति
यदि त्वेवं कृते वीर विनाशमुपयास्यति 19
एतत्ते सर्वमाख्यातं शूलस्य च विपर्ययम्
श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम् 20
इति श्रीरामायणे उत्तरकाण्डे पञ्चपञ्चाशः सर्गः 55

7-56
एवमुक्त्वा तु काकुत्स्थं प्रशस्य च पुनः पुनः
पुनरेवापरं वाक्यमुवाच रघुनन्दनः 1
इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ
रथानां च सहस्रे द्वे गजानां शतमेव च 2
अन्तरापणवीथ्यश्च नानापण्योपशोभिताः
अनुगच्छन्तु शत्रुघ्न तथैव नटनर्तकाः 3
हिरण्यस्य सुवर्णस्य अयुतं पुरुषर्षभ
गृहीत्वा गच्छ शत्रुघ्न पर्याप्तधनवाहनः 4
बलं च सुभृतं वीर हृष्टपुष्टमनुत्तमम्
संभाष्य संप्रदानेन रञ्जयस्व नरोत्तम 5
न ह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः
सुप्रीतो भृत्यवर्गस्तु यत्र तिष्ठति राघव6
अतो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम्
एक एव धनुष्पाणिस्तद्गच्छ त्वं मधोर्वनम् 7
यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम्
लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितः 8
न तस्य मृत्युरन्योऽस्ति कश्चिद्धि पुरुषर्षभ्
दर्शनं योऽभिगच्छेत स वध्यो लवणेन हि 9
स ग्रीष्मे व्यपयाते तु वर्षरात्र उपस्थिते
हन्यास्त्वं लवणं सौम्य स हि कालोऽस्य दुर्मतेः 10
महर्षींस्तु पुरस्कृत्य प्रयान्तु तव सैनिकाः
यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम् 11
ततः स्थाप्य बलं सर्वं नदीतीरे समाहितः
अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रम 12
एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान्
सेनामुख्यान्समानीय ततो वाक्यमुवाच ह 13
एते वो गणिता वासा यत्र यत्र निवत्स्यथ
स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित् 14
तथा तांस्तु समाज्ञाप्य निर्याप्य च महद्बलम्
कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् 15
रामं प्रदक्षिणं कृत्वा शिरसाभिप्रणम्य च
रामेण चाभ्यनुज्ञातःशत्रुघ्नः शत्रुतापनः 16
लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलि
पुरोधसं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान्
प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः 17
इति श्रीरामायणे उत्तरकाण्डे षट्पञ्चाशं सर्गः 56

7-57
प्रस्थाप्य तद्बलं सर्वं मासमात्रोषितः पथि
एक एवाशु शत्रुघ्नो जगाम त्वरितस्तदा 1
द्विरात्रमन्तरे शूर उष्य राघवनन्दनः
वाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम् 2
सोऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम्
कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह 3
भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतः
श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् 4
शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुंगवः
प्रत्युवाच महात्मानं स्वागतं ते महायशः
स्वमाश्रममिदं सौम्य राघवाणां कुलस्य ह
आसनं पाद्यमर्घ्यं च निर्विशङ्कः प्रतीच्छ मे6
प्रतिगृह्य ततः पूजां फलमूलं च भोजनम्
भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः 7
स तु भुक्त्वा महाबाहुर्महर्षिं तमुवाच ह
पूर्वं यज्ञविभूतीयं कस्याश्रमसमीपतः 8
तस्य तद्भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत्
शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा 9
युष्माकं पूर्वको राजा सुदासस्य महात्मनः
पुत्रो मित्रसहो नाम वीर्यवानतिधार्मिकः 10
स बाल एव सौदासो मृगयामुपचक्रमे
चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् 11
शार्दूलरूपिणौ घोरौ मृगान्बहुसहस्रशः
भक्षयानावसंतुष्टौ पर्याप्तिं च न जग्मतुः 12
स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम्
क्रोधेन महताविष्टो जघानैकं महेषुणा 13
विनिपात्य तमेकं तु सौदासः पुरुषर्षभः
विज्वरो विगतामर्षो हतं रक्षोऽभ्यवैक्षत 14
निरीक्षमाणं तं दृष्ट्वा सहायस्तस्य रक्षसः
संतापमकरोद्धोरं सौदासं चेदमब्रवीत् 15
यस्मादनपराधं त्वं सहायं मम जघ्निवान्
तस्मात्तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् 16
एवमुक्त्वा तु तं रक्षस्तत्रैवान्तरधीयत
कालपर्याययोगेन राजा मित्रसहोऽभवत् 17
राजापि यजते यज्ञं तस्याश्रमसमीपतः
अश्वमेधं महायज्ञं तं वसिष्ठोऽभ्यपालयत् 18
तत्र यज्ञो महानासीद्बहुवर्षगणायुतान्
समृद्धः परया लक्ष्म्या देवयज्ञसमोऽभवत् 19
अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन्
वसिष्ठरूपी राजानमिति होवाच राक्षसः 20
अद्य यज्ञावसानान्ते सामिषं भोजनं मम
दीयतामिति शीघ्रं वै नात्र कार्या विचारणा 21
तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा कामरूपिणा
भक्षसंस्कारकुशलमुवाच पृथिवीपतिः 22
हविष्यं सामिषं स्वादु यथा भवति भोजनम्
तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा गुरुः 23
शासनात्पार्थिवेन्द्र स्य सूदः संभ्रान्तमानसः
स च रक्षः पुनस्तत्र सूदवेषमथाकरोत् 24
स मानुषमथो मांसं पार्थिवाय न्यवेदयत्
इदं स्वादु हविष्यं च सामिषं चान्नमाहृतम् 25
स भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत्
मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम् 26
ज्ञात्वा तदामिषं विप्रो मानुषं भोजनाहृतम्
क्रोधेन महताविष्टो व्याहर्तुमुपचक्रमे 27
यस्मात्त्वं भोजनं राजन्ममैतद्दातुमिच्छसि
तस्माद्भोजनमेतत्ते भविष्यति न संशयः 28
स राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः
पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा 29
तच्छ्रुत्वा पार्थिवेन्द्र स्य रक्षसा विकृतं च तत्
पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् 30
मया रोषपरीतेन यदिदं व्याहृतं वचः
नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् 31
कालो द्वादशवर्षाणि शापस्यास्य भविष्यति
मत्प्रसादाच्च राजेन्द्र अतीतं न स्मरिष्यसि 32
एवं स राजा तं शापमुपभुज्यारिमर्दनः
प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत् 33
तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम्
आश्रमस्य समीपेऽस्मिन्यस्मिन्पृच्छसि राघव 34
तस्य तां पार्थिवेन्द्र स्य कथां श्रुत्वा सुदारुणाम्
विवेश पर्णशालायां महर्षिमभिवाद्य च 35
इति श्रीरामायणे उत्तरकाण्डे सप्तपञ्चाशः सर्गः 57

7-58
यामेव रात्रिं शत्रुघ्नः पर्णशालां समाविशत्
तामेव रात्रिं सीतापि प्रसूता दारकद्वयम् 1
ततोऽधरात्रसमये बालका मुनिदारकाः
वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम्
तस्य रक्षां महातेजः कुरु भूतविनाशिनीम् 2
तेषां तद्वचनं श्रुत्वा मुनिर्हर्षमुपागमत्
भूतघ्नीं चाकरोत्ताभ्यां रक्षां रक्षोविनाशिनीम् 3
कुशमुष्टिमुपादाय लवं चैव तु स द्विजः
वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम् 4
यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसंस्कृतैः
निर्मार्जनीयस्तु भवेत्कुश इत्यस्य नामतः 5
यश्चापरो भवेत्ताभ्यां लवेन सुसमाहितः
निर्मार्जनीयो वृद्धाभिर्लवश्चेति स नामतः6
एवं कुशलवौ नाम्ना तावुभौ यमजातकौ
मत्कृताभ्यां च नामभ्यां ख्यातियुक्तौ भविष्यतः 7
ते रक्षां जगृहुस्तां च मुनिहस्तात्समाहिताः
अकुर्वंश्च ततो रक्षां तयोर्विगतकल्मषाः 8
तथा तां क्रियमाणां तु रक्षां गोत्रं च नाम च
संकीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ 9
अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत्प्रियम्
पर्णशालां गतो रात्रौ दिष्ट्या दिष्ट्येति चाब्रवीत् 10
तथा तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः
व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमा 11
प्रभाते तु महावीर्यः कृत्वा पौर्वाह्णिकं क्रमम्
मुनिं प्राञ्जलिरामन्त्र्! य प्रायात्पश्चान्मुखः पुनः 12
स गत्वा यमुनातीरं सप्तरात्रोषितः पथि
ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात् 13
स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः
कथाभिर्बहुरूपाभिर्वासं चक्रे महायशाः 14
इति श्रीरामायणे उत्तरकाण्डे अष्टपञ्चाशः सर्गः 58

7-59
अथ रात्र्! यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम्
पप्रच्छ च्यवनं विप्रं लवणस्य बलाबलम् 1
शूलस्य च बलं ब्रह्मन्के च पूर्वं निपातिताः
अनेन शूलमुख्येन द्वंद्वयुद्धमुपागताः 2
तस्य तद्भाषितं श्रुत्वा शत्रुघ्नस्य महात्मनः
प्रत्युवाच महातेजाश्च्यवनो रघुनन्दनम् 3
असंख्येयानि कर्माणि यान्यस्य पुरुषर्षभ
इक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणुष्व मे 4
अयोध्यायां पुरा राजा युवनाश्वसुतो बली
मान्धाता इति विख्यातस्त्रिषु लोकेषु वीर्यवान् 5
स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः
सुरलोकमथो जेतुमुद्योगमकरोन्नृपः6
इन्द्र स्य तु भयं तीव्रं सुराणां च महात्मनाम्
मान्धातरि कृतोद्योगे देवलोकजिगीषया 7
अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः
वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत 8
तस्य पापमभिप्रायं विदित्वा पाकशासनः
सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम् 9
राजा त्वं मानुषे लोके न तावत्पुरुषर्षभ
अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि 10
यदि वीर समग्रा ते मेदिनी निखिला वशे
देवराज्यं कुरुष्वेह सभृत्यबलवाहनः 11
इन्द्र मेवं ब्रुवाणं तु मान्धाता वाक्यमब्रवीत्
क्व मे शक्र प्रतिहतं शासनं पृथिवीतले 12
तमुवाच सहस्राक्षो लवणो नाम राक्षसः
मधुपुत्रो मधुवने नाज्ञां ते कुरुतेऽनघ 13
तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम्
व्रीडितोऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह 14
आमन्त्र्! य तु सहस्राक्षं ह्रिया किंचिदवाङ्मुखः
पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः 15
स कृत्वा हृदयेऽमर्षं सभृत्यबलवाहनः
आजगाम मधोः पुत्रं वशे कर्तुमनिन्दितः 16
स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः
दूतं संप्रेषयामास सकाशं लवणस्य सः 17
स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम्
वदन्तमेवं तं दूतं भक्षयामास राक्षसः 18
चिरायमाणे दूते तु राजा क्रोधसमन्वितः
अर्दयामास तद्र क्षः शरवृष्ट्या समन्ततः 19
ततः प्रहस्य लवणः शूलं जग्राह पाणिना
वधाय सानुबन्धस्य मुमोचायुधमुत्तमम् 20
तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम्
भस्मीकृत्वा नृपं भूयो लवणस्यागमत्करम् 21
एवं स राजा सुमहान्हतः सबलवाहनः
शूलस्य च बलं वीर अप्रमेयमनुत्तमम् 22
श्वः प्रभाते तु लवणं वधिष्यसि न संशयः
अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव 23
इति श्रीरामायणे उत्तरकाण्डे एकोनषष्टितमः सर्गः 59

7-60
कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम्
व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः 1
ततः प्रभाते विमले तस्मिन्काले स राक्षसः
निर्गतस्तु पुराद्वीरो भक्षाहारप्रचोदितः 2
एतस्मिन्नन्तरे शूरः शत्रुघ्नो यमुनां नदीम्
तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत् 3
ततोऽधदिवसे प्राप्ते क्रूरकर्मा स राक्षसः
आगच्छद्बहुसाहस्रं प्राणिनामुद्वहन्भरम् 4
ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम्
तमुवाच ततो रक्षः किमनेन करिष्यसि 5
ईदृशानां सहस्राणि सायुधानां नराधम
भक्षितानि मया रोषात्कालमाकाङ्क्षसे नु किम्6
आहारश्चाप्यसंपूर्णो ममायं पुरुषाधम
स्वयं प्रविष्टो नु मुखं कथमासाद्य दुर्मते 7
तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः
शत्रुघ्नो वीर्यसम्पन्नो रोषादश्रूण्यवर्तयत् 8
तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः
तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् 9
उवाच च सुसंक्रुद्धःशत्रुघ्नस्तं निशाचरम्
योद्ध्मिच्छामि दुर्बुद्धे द्वंद्वयुद्धं त्वया सह 10
पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः
शत्रुघ्नो नाम शत्रुघ्नो वधाकाङ्क्षी तवागतः 11
तस्य मे युद्धकामस्य द्वंद्वयुद्धं प्रदीयताम्
शत्रुस्त्वं सर्वजीवानां न मे जीवन्गमिष्यसि 12
तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव
प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तोऽसि दुर्मते 13
मम मातृष्वसुर्भ्राता रावणो नाम राक्षसः
हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम 14
तच्च सर्वं मया क्षान्तं रावणस्य कुलक्षयम्
अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः 15
न हताश्च हि मे सर्वे परिभूतास्तृणं यथा
भूताश्चैव भविष्याश्च यूयं च पुरुषाधमाः 16
तस्य ते युद्धकामस्य युद्धं दास्यामि दुर्मते
ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम् 17
तमुवाचाथ शत्रुघ्नः क्व मे जीवन्गमिष्यसि
दुर्बलोऽप्यागतः शत्रुर्न मोक्तव्यः कृतात्मना 18
योहि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ
स हतो मन्दबुद्धित्वाद्यथा कापुरुषस्तथा 19
इति श्रीरामायणे उत्तरकाण्डे षष्टितमः सर्गः60

7-61
तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः
क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् 1
पाणौ पाणिं विनिष्पिष्य दन्तान्कटकटाय्य च
लवणो रघुशार्दूलमाह्वयामास चासकृत् 2
तं ब्रुवाणं तथा वाक्यं लवणं घोर विक्रमम्
शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत् 3
शत्रुघ्नो न तदा जातो यदान्ये निर्जितास्त्वया
तदद्य बाणाभिहतो व्रज त्वं यमसादनम् 4
ऋषयोऽप्यद्य पापात्मन्मया त्वां निहतं रणे
पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम् 5
त्वयि मद्बाणनिर्दग्धे पतितेऽद्य निशाचर
पुरं जनपदं चापि क्षेममेतद्भविष्यति6
अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः
प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः 7
एवमुक्तो महावृक्षं लवणः क्रोधमूर्छितः
शत्रुघ्नोरसि चिक्षेप तं शूरः शतधाच्छिनत् 8
तद्दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु
पादपान्सुबहून्गृह्य शत्रुघ्ने व्यसृजद्बली 9
शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून्
त्रिभिश्चतुर्भिरेकैकं चिच्छेद नतपर्वभिः 10
ततो बाणमयं वर्षं व्यसृजद्रा क्षसोरसि
शत्रुघ्नो वीर्यसम्पन्नो विव्यथे न च राक्षसः 11
ततः प्रहस्य लवणो वृक्षमुत्पाट्य् लीलया
शिरस्यभ्यहनच्छूरं स्रस्ताङ्गः स मुमोह वै 12
तस्मिन्निपतिते वीरे हाहाकारो महानभूत्
ऋषीणां देवसंघानां गन्धर्वाप्सरसामपि 13
तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम्
रक्षो लब्धान्तरमपि न विवेश स्वमालयम् 14
नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम्
ततो हत इति ज्ञात्वा तान्भक्षान्समुदावहत् 15
मुहूर्ताल्लब्धसंज्ञस्तु पुनस्तस्थौ धृतायुधः
शत्रघ्न्! राक्षसद्वारि ऋषिभिः संप्रपूजितः 16
ततो दिव्यममोघं तं जग्राह शरमुत्तमम्
ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश 17
वज्राननं वज्रवेगं मेरुमन्दरगौरवम्
नतं पर्वसु सर्वेषु संयुगेष्वपराजितम् 18
असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम्
दानवेन्द्रा चलेन्द्रा णामसुराणां च दारुणम् 19
तं दीप्तमिव कालाग्निं युगान्ते समुपस्थिते
दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् 20
सदेवासुरगन्धर्वं समुनिं साप्सरोगणम्
जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् 21
ऊचुश्च देवदेवेशं वरदं प्रपितामहम्
कच्चिल्लोकक्षयो देव प्राप्तो वा युगसंक्षयः 22
नेदृशं दृष्टपूर्वं न श्रुतं वा प्रपितामह
देवानां भयसंमोहो लोकानां संक्षयः प्रभो 23
तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः
भयकारणमाचष्टे देवानामभयंकरः 24
वधाय लवणस्याजौ शरः शत्रुघ्नधारितः
तेजसा यस्य सर्वे स्म संमूढाः सुरसत्तमाः 25
एषो हि पूर्वं देवस्य लोककर्तुः सनातनः
शरस्तेजोमयो वत्सा येन वै भयमागतम् 26
एष वै कैटभस्यार्थे मधुनश्च महाशरः
सृष्टो महात्मना तेन वधार्थं दैत्ययोस्तयोः 27
एवमेतं प्रजानीध्वं विष्णोस्तेजोमयं शरम्
एषा चैव तनुः पूर्वा विष्णोस्तस्य महात्मनः 28
इतो गच्छत पश्यध्वं वध्यमानं महात्मना
रामानुजेन वीरेण लवणं राक्षसोत्तमम् 29
तस्य ते देवदेवस्य निशम्य मधुरां गिरम्
आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ 30
तं शरं दिव्यसंकाशं शत्रुघ्नकरधारितम्
ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम् 31
आकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः
सिंहनादं मुहुः कृत्वा ददर्श लवणं पुनः 32
आहूतश्च ततस्तेन शत्रुघ्नेन महात्मना
लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः 33
आकर्णात्स विकृष्याथ तद्धनुर्धन्विनां वरः
स मुमोच महाबाणं लवणस्य महोरसि
उरस्तस्य विदार्याशु प्रविवेश रसातलम् 34
गत्वा रसातलं दिव्यः शरो विबुधपूजितः
पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम् 35
शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः
पपात सहसा भूमौ वज्राहत इवाचलः 36
तच्च दिव्यं महच्छूलं हते लवणराक्षसे
पश्यतां सर्वभूतानां रुद्र स्य वशमन्वगात 37
एकेषुपातेन भयं निहत्य
लोकत्रयस्यास्य रघुप्रवीरः
विनिर्बभावुद्यतचापबाण
स्तमः प्रणुद्येव सहस्ररश्मिः 38
इति श्रीरामायणे उत्तरकाण्डे एकषष्टितमः सर्गः61

7-62
हते तु लवणे देवाः सेन्द्रा ः! साग्निपुरोगमाः
ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम् 1
दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः
हतः पुरुषशार्दूल वरं वरय राघव 2
वरदाः स्म महाबाहो सर्व एव समागताः
विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः 3
देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलि
प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् 4
इमां मधुपुरीं रम्यां मधुरां देवनिर्मिताम्
निवेशं प्राप्नुयां शीघ्रमेष मेऽस्तु वरो मतः 5
तं देवाः प्रीतमनसो बाढमित्येव राघवम्
भविष्यति पुरी रम्या शूरसेना न संशयः6
ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा
शत्रुघ्नोऽपि महातेजास्तां सेनां समुपानयत् 7
सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्नशासनम्
निवेशनं च शत्रुघ्नः शासनेन समारभत् 8
सा पुरी दिव्यसंकाशा वर्षे द्वादशमे शुभा
निविष्टा शूरसेनानां विषयश्चाकुतोभयः 9
क्षेत्राणि सस्ययुक्तानि काले वर्षति वासवः
अरोगा वीरपुरुषा शत्रुघ्नभुजपालिता 10
अर्धचन्द्र प्रतीकाशा यमुनातीरशोभिता
शोभिता गृहमुख्यैश्च शोभिता चत्वरापणैः 11
यच्च तेन महच्छून्यं लवणेन कृतं पुरा
शोभयामास तद्वीरो नानापण्यसमृद्धिभिः 12
तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः
निरीक्ष्य परमप्रीतः परं हर्षमुपागमत् 13
तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम्
रामपादौ निरीक्षेयं वर्षे द्वादशमे शुभे 14
इति श्रीरामायणे उत्तरकाण्डे द्विषष्टितमः सर्गः62

7-63
ततो द्वादशमे वर्षे शत्रुघ्नो रामपालिताम्
अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः 1
मन्त्रिणो बलमुख्यांश्च निवर्त्य च पुरोधसम्
जगाम रथमुख्येन हययुक्तेन भास्वता 2
स गत्वा गणितान्वासान्सप्ताष्टौ रघुनन्दनः
अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः 3
स प्रविश्य पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः
प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः 4
सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा
उवाच प्राञ्जलिर्भूत्वा रामं सत्यपराक्रमम् 5
यदाज्ञप्तं महाराज सर्वं तत्कृतवानहम्
हतः स लवणः पापः पुरी सा च निवेशिता6
द्वादशं च गतं वर्षं त्वां विना रघुनन्दन
नोत्सहेयमहं वस्तुं त्वया विरहितो नृप 7
स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम
मातृहीनो यथा वत्सस्त्वां विना प्रवसाम्यहम् 8
एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत्
मा विषादं कृथा वीर नैतत्क्षत्रियचेष्टितम् 9
नावसीदन्ति राजानो विप्रवासेषु राघव
प्रजाश्च परिपाल्या हि क्षत्रधर्मेण राघव 10
काले काले च मां वीर अयोध्यामवलोकितुम्
आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव 11
ममापि त्वं सुदयितः प्राणैरपि न संशयः
अवश्यं करणीयं च राज्यस्य परिपालनम् 12
तस्मात्त्वं वस काकुत्स्थ पञ्चरात्रं मया सह
ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः 13
रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोनुगम्
शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत् 14
स पञ्चरात्रं काकुत्स्थो राघवस्य यथाज्ञया
उष्य तत्र महेष्वासो गमनायोपचक्रमे 15
आमन्त्र्! य तु महात्मानं रामं सत्यपराक्रमम्
भरतं लक्ष्मणं चैव महारथमुपारुहत् 16
दूरं ताभ्यामनुगतो लक्ष्मणेन महात्मना
भरतेन च शत्रुघ्नो जगामाशु पुरीं तदा 17
इति श्रीरामायणे उत्तरकाण्डे त्रिषष्टितमः सर्गः63

7-64
प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः
प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् 1
ततः कतिपयाहःसु वृद्धो जानपदो द्विजः
शवं बालमुपादाय राजद्वारमुपागमत् 2
रुदन्बहुविधा वाचः स्नेहाक्षरसमन्विताः
असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह 3
किं नु मे दुष्कृतं कर्म पूर्वं देहान्तरे कृतम्
यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम् 4
अप्राप्तयौवनं बालं पञ्चवर्षसमन्वितम्
अकाले कालमापन्नं दुःखाय मम पुत्रक 5
अल्पैरहोभिर्निधनं गमिष्यामि न संशयः
अहं च जननी चैव तव शोकेन पुत्रक6
न स्मराम्यनृतं ह्युक्तं न च हिंसां स्मराम्यहम्
केन मे दुष्कृतेनाद्य बाल एव ममात्मजः
अकृत्वा पितृकार्याणि नीतो वैवस्वतक्षयम् 7
नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम्
मृत्युरप्राप्तकालानां रामस्य विषये यथा 8
रामस्य दुष्कृतं किंचिन्महदस्ति न संशयः
त्वं राजञ्जीवयस्वैनं बालं मृत्युवशं गतम् 9
भ्रातृभिः सहितो राजन्दीर्घमायुरवाप्नुहि
उषिताः स्म सुखं राज्ये तवास्मिन्सुमहाबल 10
संप्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम्
रामं नाथमिहासाद्य बालान्तकरणं नृपम् 11
राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः
असद्वृत्ते तु नृपतावकाले म्रियते जनः 12
यदा पुरेष्वयुक्तानि जना जनपदेषु च
कुर्वते न च रक्षास्ति तदाकालकृतं भयम् 13
सुव्यक्तं राजदोषोऽय भविष्यति न संशयः
पुरे जनपदे वापि तदा बालवधो ह्ययम् 14
एवं बहुविधैर्वाक्यैर्निन्दयानो मुहुर्मुहुः
राजानं दुःखसंतप्तः सुतं तमुपगूहति 15
इति श्रीरामायणे उत्तरकाण्डे चतुःषष्टितमः सर्गः64

7-65
तथा तु करुणं तस्य द्विजस्य परिदेवितम्
शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् 1
स दुःखेन सुसंतप्तो मन्त्रिणः समुपाह्वयत्
वसिष्ठं वामदेवं च भ्रातॄंश्च सहनैगमान् 2
ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः
राजानं देवसंकाशं वर्धस्वेति ततोऽब्रुवन् 3
मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः
कात्यायनोऽथ जाबालिर्गौतमो नारदस्तथा 4
एते द्विजर्षभाः सर्वे आसनेषूपवेशिताः
मन्त्रिणो नैगमाश्चैव यथार्हमनुकूलतः 5
तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम्
राघवः सर्वमाचष्टे द्विजो यस्मात्प्ररोदिति6
तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः
प्रत्युवाच शुभं वाक्यमृषीणां संनिधौ नृपम् 7
शृणु राजन्यथाकाले प्राप्तोऽयं बालसंक्षयः
श्रुत्वा कर्तव्यतां वीर कुरुष्व रघुनन्दन 8
पुरा कृतयुगे राम ब्राह्मणा वै तपस्विनः
अब्राह्मणस्तदा राजन्न तपस्वी कथंचन 9
तस्मिन्युगे प्रज्वलिते ब्रह्मभूते 8अनावृते
अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः 10
ततस्त्रेतायुगं नाम मानवानां वपुष्मताम्
क्षत्रिया यत्र जायन्ते पूर्वेण तपसान्विताः 11
वीर्येण तपसा चैव तेऽधिकाः पूर्वजन्मनि
मानवा ये महात्मानस्तस्मिँ स्त्रेतायुगे युगे 12
ब्रह्म क्षत्रं तु तत्सर्वं यत्पूर्वमपरं च यत्
युगयोरुभयोरासीत्समवीर्यसमन्वितम् 13
अपश्यन्तस्तु ते सर्वे विशेषमधिकं ततः
स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सर्वतः 14
अधर्मः पादमेकं तु पातयत्पृथिवीतले
अधर्मेण हि संयुक्तास्तेन मन्दाभवन्द्विजाः 15
ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम्
शुभान्येवाचरँ ल्लोकाः सत्यधर्मपरायणाः 16
त्रेतायुगे त्ववर्तन्त ब्राह्मणाः क्षत्रियाश्च ये
तपोऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः 17
स धर्मः परमस्तेषां वैश्यशूद्र मथागमत्
पूजां च सवर्वर्णानां शूद्रा श्चक्रुर्विशेषतः 18
ततः पादमधर्मस्य द्वितीयमवतारयत्
ततो द्वापरसंख्या सा युगस्य समजायत 19
तस्मिन्द्वापरसंख्ये तु वर्तमाने युगक्षये
अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ 20
तस्मिन्द्वापरसंख्याते तपो वैश्यान्समाविशत्
न शूद्रो लभते धर्ममुग्रं तप्तुं नरर्षभ 21
हीनवर्णो नरश्रेष्ठ तप्यते सुमहत्तपः
भविष्या शूद्र योन्यां हि तपश्चर्या कलौ युगे 22
अधर्मः परमो राम द्वापरे शूद्र धारितः
स वै विषयपर्यन्ते तव राजन्महातपाः
शूद्र स्तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम् 23
यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य हि
करोति राजशार्दूल पुरे वा दुर्मतिर्नरः
क्षिप्रं हि नरकं याति स च राजा न संशयः 24
स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम्
दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर 25
एवं ते धर्मवृद्धिश्च नृणां चायुर्विवर्धनम्
भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम् 26
इति श्रीरामायणे उत्तरकाण्डे पञ्चषष्टितमः सर्गः65

7-66
नारदस्य तु तद्वाक्यं श्रुत्वामृतमयं यथा
प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत् 1
गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय लक्ष्मण
बालस्य च शरीरं तत्तैलद्रो ण्यां निधापय 2
गन्धैश्च परमोदारैस्तैलैश्च सुसुगन्धिभिः
यथा न क्षीयते बालस्तथा सौम्य विधीयताम् 3
यथा शरीरे बालस्य गुप्तस्याक्लिष्टकर्मणः
विपत्तिः परिभेदो वा भवेन्न च तथा कुरु 4
तथा संदिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम्
मनसा पुष्पकं दध्यावागच्छेति महायशाः 5
इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः
आजगाम मुहूर्तेन समीपं राघवस्य वै6
सोऽब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिप
वश्यस्तव महाबाहो किंकरः समुपस्थितः 7
भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः
अभिवाद्य महर्षींस्तान्विमानं सोऽध्यरोहत 8
धनुर्गृहीत्वा तूणीं च खड्गं च रुचिरप्रभम्
निक्षिप्य नगरे वीरौ सौमित्रिभरतावुभौ 9
प्रायात्प्रतीचीं स मरून्विचन्वंश्च समन्ततः
उत्तरामगमच्छ्रीमान्दिशं हिमवतावृताम् 10
अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम्
पूर्वामपि दिशं सर्वामथापश्यन्नराधिपः 11
दक्षिणां दिशमाक्रामत्ततो राजर्षिनन्दनः
शैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः 12
तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः
ददर्श राघवः श्रीमाँ ल्लम्बमानमधोमुखम् 13
अथैनं समुपागम्य तप्यन्तं तप उत्तमम्
उवाच राघवो वाक्यं धन्यस्त्वमसि सुव्रत 14
कस्यां योन्यां तपोवृद्ध वर्तसे दृढविक्रम
कौतूहलात्त्वां पृच्छामि रामो दाशरथिर्ह्यहम् 15
मनीषितस्ते को न्वर्थः स्वर्गलाभो वराश्रयः
यमाश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस 16
ब्राह्मणो वासि भद्रं ते क्षत्रियो वासि दुर्जयः
वैश्यो वा यदि वा शूद्र ः! सत्यमेतद्ब्रवीहि मे 17
इति श्रीरामायणे उत्तरकाण्डे षट्षष्टितमः सर्गः66

7-67
तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः
अवाक्शिरास्तथाभूतो वाक्यमेतदुवाच ह 1
शूद्र योन्यां प्रसूतोऽस्मि तप उग्रं समास्थितः
देवत्वं प्रार्थये राम सशरीरो महायशः 2
न मिथ्याहं वदे राजन्देवलोकजिगीषया
शूद्रं मां विद्धि काकुत्स्थ शम्बूकं नाम नामतः 3
भाषतस्तस्य शूद्र स्य खड्गं सुरुचिरप्रभम्
निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः 4
तस्मिन्मुहूर्ते बालोऽसौ जीवेन समयुज्यत 5
ततोऽगस्त्याश्रमपदं रामः कमललोचनः
स गत्वा विनयेनैव तं नत्वा मुमुदे सुखी6
सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा
आतिथ्यं परमं प्राप्य निषसाद नराधिपः 7
तमुवाच महातेजाः कुम्भयोनिर्महातपाः
स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव 8
त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः
अतिथिः पूजनीयश्च मम राजन्हृदि स्थितः 9
सुरा हि कथयन्ति त्वामागतं शूद्र घातिनम्
ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः 10
उष्यतां चेह रजनीं सकाशे मम राघव
प्रभाते पुष्पकेण त्वं गन्ता स्वपुरमेव हि 11
इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा
दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा
प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव 12
दत्तस्य हि पुनर्दानं सुमहत्फलमुच्यते
तस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नरर्षभ 13
तद्रा मः प्रतिजग्राह मुनेस्तस्य महात्मनः
दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् 14
प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम्
आगमं तस्य दिव्यस्य प्रष्टुमेवोपचक्रमे 15
अत्यद्भुतमिदं ब्रह्मन्वपुषा युक्तमुत्तमम्
कथं भगवता प्राप्तं कुतो वा केन वाहृतम् 16
कुतूहलतया ब्रह्मन्पृच्छामि त्वां महायशः
आश्चर्याणां बहूनां हि निधिः परमको भवान् 17
एवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत्
शृणु राम यथावृत्तं पुरा त्रेतायुगे गते 18
इति श्रीरामायणे उत्तरकाण्डे सप्तषष्टितम सर्गः67

7-68
पुरा त्रिए!त्!यिउ!गे ह्यासीदरण्यं बहुविस्तरम्
समन्ताद्योजनशतं निर्मृगं पक्षिवर्जितम् 1
तस्मिन्निर्मानुषेऽरण्ये कुर्वाणस्तप उत्तमम्
अहमाक्रमितुं सौम्य तदरण्यमुपागमम् 2
तस्य रूपमरण्यस्य निर्देष्टुं न शशाक ह
फलमूलैः सुखास्वादैर्बहुरूपैश्च पादपैः 3
तस्यारण्यस्य मध्ये तु सरो योजनमायतम्
पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम् 4
तदाश्चर्यमिवात्यर्थं सुखास्वादमनुत्तमम्
अरजस्कं तथाक्षोभ्यं श्रीमत्पक्षिगणायुतम् 5
तस्मिन्सरःसमीपे तु महदद्भुतमाश्रमम्
पुराणं पुण्यमत्यर्थं तपस्विजनवर्जितम्6
तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ
प्रभाते काल्यमुत्थाय सरस्तदुपचक्रमे 7
अथापश्यं शवं तत्र सुपुष्टमजरं क्वचित्
तिष्ठन्तं परया लक्ष्म्या तस्मिंस्तोयाशये नृप 8
तमर्थं चिन्तयानोऽह मुहूर्तं तत्र राघव
विष्ठितोऽस्मि सरस्तीरे किं न्विदं स्यादिति प्रभो 9
अथापश्यं मुहूर्तात्तु दिव्यमद्भुतदर्शनम्
विमानं परमोदारं हंसयुक्तं मनोजवम् 10
अत्यर्थं स्वर्गिणं तत्र विमाने रघुनन्दन
उपास्तेऽप्सरसां वीर सहस्रं दिव्यभूषणम्
गान्ति गेयानि रम्याणि वादयन्ति तथापराः 11
पश्यतो मे तदा राम विमानादवरुह्य च
तं शवं भक्षयामास स स्वर्गी रघुनन्दन 12
ततो भुक्त्वा यथाकामं मांसं बहु च सुष्ठु च
अवतीर्य सरः स्वर्गी संस्प्रष्टुमुपचक्रमे 13
उपस्पृश्य यथान्यायं स स्वर्गी पुरुषर्षभ
आरोढुमुपचक्राम विमानवरमुत्तमम् 14
तमहं देवसंकाशमारोहन्तमुदीक्ष्य वै
अथाहमब्रुवं वाक्यं तमेवं पुरुषर्षभ 15
को भवान्देवसंकाश आहारश्च विगर्हितः
त्वयायं भुज्यते सौम्य किमर्थं वक्तुमर्हसि 16
आश्चर्यमीदृशो भावो भास्वरो देवसंमतः
आहारो गर्हितः सौम्य श्रोतुमिच्छामि तत्त्वतः 17
इति श्रीरामायणे उत्तरकाण्डे अष्टषष्टितमःसर्गः68

7-69
श्रुत्वा तु भाषितं वाक्यं मम राम शुभाक्षरम्
प्राञ्जलि प्रत्युवाचेदं स स्वर्गी रघुनन्दन 1
शृणु ब्रह्मन्यथा वृत्तं ममैतत्सुखदुःखयोः
दुरतिक्रमणीयं हि यथा पृच्छसि मां द्विज 2
पुरा वैदर्भको राजा पिता मम महायशाः
सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान् 3
तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत
अहं श्वेत इति ख्यातो यवीयान्सुरथोऽभवत् 4
ततः पितरि स्वर्याते पौरा मामभ्यषेचयन्
तत्राहं कृतवान्राज्यं धर्मेण सुसमाहितः 5
एवं वर्षसहस्राणि समतीतानि सुव्रत
राज्यं कारयतो ब्रह्मन्प्रजा धर्मेण रक्षतः6
सोऽह निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम
कालधर्मं हृदि न्यस्य ततो वनमुपागमम् 7
सोऽह वनमिदं दुर्गं मृगपक्षिविवर्जितम्
तपश्चर्तुं प्रविष्टोऽस्मि समीपे सरसः शुभे 8
भ्रातरं सुरथं राज्ये अभिषिच्य नराधिपम्
इदं सरः समासाद्य तपस्तप्तं मया चिरम् 9
सोऽह वर्षसहस्राणि तपस्त्रीणि महामुने
तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम् 10
ततो मां स्वर्गसंस्थं वै क्षुत्पिपासे द्विजोत्तम
बाधेते परमोदार ततोऽह व्यथितेन्द्रि यः 11
गत्वा त्रिभुवनश्रेष्ठं पितामहमुवाच ह
भगवन्ब्रह्मलोकोऽय क्षुत्पिपासाविवर्जितः 12
कस्येयं कर्मणः प्राप्तिः क्षुत्पिपासावशोऽस्मि यत्
आहारः कश्च मे देव तन्मे ब्रूहि पितामह 13
पितामहस्तु मामाह तवाहारः सुदेवज
स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः 14
स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम्
अनुप्तं रोहते श्वेत न कदाचिन्महामते 15
दत्तं न तेऽस्ति सूक्ष्मोऽपि वने सत्त्वनिषेविते
तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया 16
स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम्
भक्षयस्वामृतरसं सा ते तृप्तिर्भविष्यति 17
यदा तु तद्वनं श्वेत अगस्त्यः सुमहानृषिः
आक्रमिष्यति दुर्धर्षस्तदा कृच्छ्राद्विमोक्ष्यसे 18
स हि तारयितुं सौम्य शक्तः सुरगणानपि
किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम् 19
सोऽह भगवतः श्रुत्वा देवदेवस्य निश्चयम्
आहारं गर्हितं कुर्मि स्वशरीरं द्विजोत्तम 20
बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदं मया
क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा 21
तस्य मे कृच्छ्रभूतस्य कृच्छ्रादस्माद्विमोक्षय
अन्येषामगतिर्ह्यत्र कुम्भयोनिमृते द्विजम् 22
इदमाभरणं सौम्य तारणार्थं द्विजोत्तम
प्रतिगृह्णीष्व ब्रह्मर्षे प्रसादं कर्तुमर्हसि 23
तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम्
तारणायोपजग्राह तदाभरणमुत्तमम् 24
मया प्रतिगृहीते तु तस्मिन्नाभरणे शुभे
मानुषः पूर्वको देहो राजर्षेः स ननाश ह 25
प्रनष्टे तु शरीरेऽसौ राजर्षिः परया मुदा
तृप्तः प्रमुदितो राजा जगाम त्रिदिवं पुनः 26
तेनेदं शक्रतुल्येन दिव्यमाभरणं मम
तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम् 27
इति श्रीरामायणे उत्तरकाण्डे एकोनसप्ततितमः सर्गः69

7-70
तदद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः
गौरवाद्विस्मयाच्चैव भूयः प्रष्टुं प्रचक्रमे 1
भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः
श्वेतो वैदर्भको राजा कथं तदमृगद्विजम् 2
निःसत्त्वं च वनं जातं शून्यं मनुजवर्जितम्
तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्त्वतः 3
रामस्य भाषितं श्रुत्वा कौतूहलसमन्वितम्
वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे 4
पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः
तस्य पुत्रो महानासीदिक्ष्वाकुः कुलवर्धनः 5
तं पुत्रं पूर्वके राज्ये निक्षिप्य भुवि दुर्जयम्
पृथिव्यां राजवंशानां भव कर्तेत्युवाच ह6
तथेति च प्रतिज्ञातं पितुः पुत्रेण राघव
ततः परमसंहृष्टो मनुः पुनरुवाच ह 7
प्रीतोऽस्मि परमोदार कर्ता चासि न संशयः
दण्डेन च प्रजा रक्ष मा च दण्डमकारणे 8
अपराधिषु यो दण्डः पात्यते मानवेषु वै
स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम् 9
तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक
धर्मो हि परमो लोके कुर्वतस्ते भविष्यति 10
इति तं बहु संदिश्य मनुः पुत्रं समाधिना
जगाम त्रिदिवं हृष्टो ब्रह्मलोकमनुत्तमम् 11
प्रयाते त्रिदिवे तस्मिन्निक्ष्वाकुरमितप्रभः
जनयिष्ये कथं पुत्रानिति चिन्तापरोऽभवत् 12
कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतः सुतान्
जनयामास धर्मात्मा शतं देवसुतोपमान् 13
तेषामवरजस्तात सर्वेषां रघुनन्दन
मूढश्चाकृतविद्यश्च न शुश्रूषति पूर्वजान् 14
नाम तस्य च दण्डेति पिता चक्रेऽल्पतेजसः
अवश्यं दण्डपतनं शरीरेऽस्य भविष्यति 15
स पश्यमानस्तं दोषं घोरं पुत्रस्य राघव
विन्ध्यशैलयोर्मध्ये राज्यं प्रादादरिंदम 16
स दण्डस्तत्र राजाभूद्र म्ये पर्वतरोधसि
पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम् 17
पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो
पुरोहितं चोशनसं वरयामास सुव्रतम् 18
एवं स राजा तद्रा ज्यं कारयत् सिपुरोहितः
प्रहृष्टमनुजाकीर्णं देवराज्यं यथा दिवि 19
इति श्रीरामायणे उत्तरकाण्डे सप्ततितमः सर्गः 70

7-71
एतदाख्याय रामाय महर्षिः कुम्भसंभवः
अस्यामेवापरं वाक्यं कथायामुपचक्रमे 1
ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम्
अकरोत्तत्र मन्दात्मा राज्यं निहतकण्टकम् 2
अथ काले तु कस्मिंश्चिद्रा जा भार्गवमाश्रमम्
रमणीयमुपाक्रामच्चैत्रे मासि मनोरमे 3
तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि
विचरन्तीं वनोद्देशे दण्डोऽपश्यदनुत्तमाम् 4
स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः
अभिगम्य सुसंविग्नः कन्यां वचनमब्रवीत् 5
कुतस्त्वमसि सुश्रोणि कस्य वासि सुता शुभे
पीडितोऽहमनङ्गेन पृच्छामि त्वां सुमध्यमे6
तस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः
भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् 7
भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः
अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् 8
गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः
व्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः 9
यदि वात्र मया कार्यं धर्मदृष्टेन सत्पथा
वरयस्व नृपश्रेष्ठ पितरं मे महाद्युतिम् 10
अन्यथा तु फलं तुभ्यं भवेद्घोराभिसंहितम्
क्रोधेन हि पिता मेऽसौ त्रैलोक्यमपि निर्दहेत् 11
एवं ब्रुवाणामरजां दण्डः कामशरार्दितः
प्रत्युवाच मदोन्मत्तः शिरस्याधाय सोऽञ्जलिम् 12
प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि
त्वत्कृते हि मम प्राणा विदीर्यन्ते शुभानने 13
त्वां प्राप्य हि वधो वापि पापं वापि सुदारुणम्
भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् 14
एवमुक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद्बली
विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे 15
तमनर्थं महाघोरं दण्डः कृत्वा सुदारुणम्
नगरं प्रययौ चाशु मधुमन्तमनुत्तमम् 16
अरजापि रुदन्ती सा आश्रमस्याविदूरतः
प्रतीक्षते सुसंत्रस्ता पितरं देवसंनिभम् 17
इति श्रीरामायणे उत्तरकाण्डे एकसप्ततितमः सर्गः 71

7-72
स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः
स्वमाश्रमं शिष्यवृतः क्षुधार्तः संन्यवर्तत 1
सोऽपश्यदरजां दीनां रजसा समभिप्लुताम्
ज्योत्स्नामिवारुणग्रस्तां प्रत्यूषे न विराजतीम् 2
तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः
निर्दहन्निव लोकांस्त्रीञ्शिष्यांश्चेदमुवाच ह 3
पश्यध्वं विपरीतस्य दण्डस्याविदितात्मनः
विपत्तिं घोरसंकाशां क्रुद्धामग्निशिखामिव 4
क्षयोऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः
यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति 5
यस्मात्स कृतवान्पापमीदृशं घोरदर्शनम्
तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः6
सप्तरात्रेण राजासौ सभृत्यबलवाहनः
पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः 7
समन्ताद्योजनशतं विषयं चास्य दुर्मतेः
धक्ष्यते पांसुवर्षेण महता पाकशासनः 8
सर्वसत्त्वानि यानीह स्थावराणि चराणि च
महता पांसुवर्षेण नाशं यास्यन्ति सर्वशः 9
दण्डस्य विषयो यावत्तावत्सर्वसमुच्छ्रयः
पांसुभूत इवालक्ष्यः सप्तरात्राद्भविष्यति 10
इत्युक्त्वा क्रोधसंतप्तस्तमाश्रमनिवासिनम्
जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत् 11
श्रुत्वा तूशनसो वाक्यं सोऽश्रमावसथो जनः
निष्क्रान्तो विषयात्तस्य स्थानं चक्रेऽथ बाह्यतः 12
स तथोक्त्वा मुनिजनमरजामिदमब्रवीत्
इहैव वस दुर्मेधे आश्रमे सुसमाहिता 13
इदं योजनपर्यन्तं सरः सुरुचिरप्रभम्
अरजे विज्वरा भुङ्क्ष्व कालश्चात्र प्रतीक्ष्यताम् 14
त्वत्समीपे च ये सत्त्वा वासमेष्यन्ति तां निशाम्
अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा 15
इत्युक्त्वा भार्गवो वासमन्यत्र समुपाक्रमत्
सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना 16
तस्यासौ दण्डविषयो विन्ध्यशैवलसानुषु
शप्तो ब्रह्मर्षिणा तेन पुरा वैधर्मके कृते 17
ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते
तपस्विनः स्थिता यत्र जनस्थानमथोऽभवत् 18
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव
संध्यामुपासितुं वीर समयो ह्यतिवर्तते 19
एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः
कृतोदका नरव्याघ्र आदित्यं पर्युपासते 20
स तैरृषिभिरभ्यस्तः सहितैर्ब्रह्मसत्तमैः
रविरस्तं गतो राम गच्छोदकमुपस्पृश 21
इति श्रीरामायणे उत्तरकाण्डे द्विसप्ततितमः सर्गः 72

7-73
ऋषेर्वचनमाज्ञाय रामः संध्यामुपासितुम्
उपाक्रामत्सरः पुण्यमप्सरोभिर्निषेवितम् 1
तत्रोदकमुपस्पृश्य संध्यामन्वास्य पश्चिमाम्
आश्रमं प्राविशद्रा मः कुम्भयोनेर्महात्मनः 2
तस्यागस्त्यो बहुगुणं फलमूलं तथौषधीः
शाकानि च पवित्राणि भोजनार्थमकल्पयत् 3
स भुक्तवान्नरश्रेष्ठस्तदन्नममृतोपमम्
प्रीतश्च परितुष्टश्च तां रात्रिं समुपावसत् 4
प्रभाते काल्यमुत्थाय कृत्वाह्निकमरिंदमः
ऋषिं समभिचक्राम गमनाय रघूत्तमः 5
अभिवाद्याब्रवीद्रा मो महर्षिं कुम्भसंभवम्
आपृच्छे त्वां गमिष्यामि मामनुज्ञातुमर्हसि6
धन्योऽस्म्यनुगृहीतोऽस्मि दर्शनेन महात्मनः
द्र ष्टुं चैवागमिष्यामि पावनार्थमिहात्मनः 7
तथा वदति काकुत्स्थे वाक्यमद्भुतदर्शनम्
उवाच परमप्रीतो धर्मनेत्रस्तपोधनः 8
अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरम्
पावनः सर्वलोकानां त्वमेव रघुनन्दन 9
मुहूर्तमपि राम त्वां ये नु पश्यन्ति केचन शं
पाविताः स्वर्गभूतास्ते पूज्यन्ते दिवि दैवतैः 10
ये च त्वां घोरचक्षुर्भिरीक्षन्ते प्राणिनो भुवि
हतास्ते यमदण्डेन सद्यो निरयगामिनः 11
गच्छ चारिष्टमव्यग्रः पन्थानमकुतोभयम्
प्रशाधि राज्यं धर्मेण गतिर्हि जगतो भवान् 12
एवमुक्तस्तु मुनिना प्राञ्जलि प्रग्रहो नृपः
अभ्यवादयत प्राज्ञस्तमृषिं पुण्यशीलिनम् 13
अभिवाद्य मुनिश्रेष्ठं तांश्च सर्वांस्तपोधनान्
अध्यारोहत्तदव्यग्रः पुष्पकं हेमभूषितम् 14
तं प्रयान्तं मुनिगणा आशीर्वादैः समन्ततः
अपूजयन्महेन्द्रा भं सहस्राक्षमिवामराः 15
स्वस्थः स ददृशे रामः पुष्पके हेमभूषिते
शशी मेघसमीपस्थो यथा जलधरागमे 16
ततोऽधदिवसे प्राप्ते पूज्यमानस्ततस्ततः
अयोध्यां प्राप्य काकुत्स्थो विमानादवरोहत 17
ततो विसृज्य रुचिरं पुष्पकं कामगामिनम्
कक्ष्यान्तरविनिक्षिप्तं द्वाःस्थं रामोऽब्रवीद्वचः 18
लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ
ममागमनमाख्याय शब्दापय च मा चिरम् 19
इति श्रीरामायणे उत्तरकाण्डे त्रिसप्ततितमः सर्गः 73

7-74
तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्टकर्मणः
द्वाःस्थः कुमारावाहूय राघवाय न्यवेदयत् 1
दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ
परिष्वज्य ततो रामो वाक्यमेतदुवाच ह 2
कृतं मया यथातथ्यं द्विजकार्यमनुत्तमम्
धर्मसेतुमतो भूयः कर्तुमिच्छामि राघवौ 3
युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम्
सहितो यष्टुमिच्छामि तत्र धर्मो हि शाश्वतः 4
इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः
सुहुतेन सुयज्ञेन वरुणत्वमुपागमत् 5
सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित्
प्राप्तश्च सर्वलोकानां कीर्तिं स्थानं च शाश्वतम्6
अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह
हितं चायतियुक्तं च प्रयतौ वक्तुमर्हथः 7
श्रुत्वा तु राघवस्यैतद्वाक्यं वाक्यविशारदः
भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह 8
त्वयि धर्मः परः साधो त्वयि सर्वा वसुंधरा
प्रतिष्ठिता महाबाहो यशश्चामितविक्रम 9
महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः
निरीक्षन्ते महात्मानो लोकनाथं यथा वयम् 10
प्रजाश्च पितृवद्रा जन्पश्यन्ति त्वां महाबल
पृथिव्यां गतिभूतोऽसि प्राणिनामपि राघव 11
स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप
पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते 12
पृथिव्यां ये च पुरुषा राजन्पौरुषमागताः
सर्वेषां भविता तत्र क्षयः सर्वान्तकोपमः 13
स त्वं पुरुषशार्दूल गुणैरतुलविक्रम
पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते 14
भरतस्य तु तद्वाक्यं श्रुत्वामृतमयं यथा
प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः 15
उवाच च शुभां वाणीं कैकेय्या नन्दिवर्धनम्
प्रीतोऽस्मि परितुष्टोऽस्मि तवाद्य वचनेन हि 16
इदं वचनमक्लीबं त्वया धर्मसमाहितम्
व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् 17
एष तस्मादभिप्रायाद्रा जसूयात्क्रतूत्तमात्
निवर्तयामि धर्मज्ञ तव सुव्याहृतेन वै 18
प्रजानां पालनं धर्मो राज्ञां यज्ञेन संमितः
तस्माच्छृणोमि ते वाक्यं साधूक्तं सुसमाहितम् 19
इति श्रीरामायणे उत्तरकाण्डे चतुःसप्ततितमः सर्गः 74

7-75
तथोक्तवति रामे तु भरते च महात्मनि
लक्ष्मणोऽपि शुभं वाक्यमुवाच रघुनन्दनम् 1
अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम्
पावनस्तव दुर्धर्षो रोचतां क्रतुपुंगवः 2
श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि
ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः 3
पुरा किल महाबाहो देवासुरसमागमे
वृत्रो नाम महानासीद्दैतेयो लोकसंमतः 4
विस्तीर्णो योजनशतमुच्छ्रितस्त्रिगुणं ततः
अनुरागेण लोकांस्त्रीन्स्नेहात्पश्यति सर्वतः 5
धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः
शशास पृथिवीं सर्वां धर्मेण सुसमाहितः6
तस्मिन्प्रशासति तदा सर्वकामदुघा मही
रसवन्ति प्रसूतानि मूलानि च फलानि च 7
अकृष्टपच्या पृथिवी सुसम्पन्ना महात्मनः
स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम् 8
तस्य बुद्धिः समुत्पन्ना तपः कुर्यामनुत्तमम्
तपो हि परमं श्रेयस्तपो हि परमं सुखम् 9
स निक्षिप्य सुतं ज्येष्ठं पौरेषु परमेश्वरम्
तप उग्रमुपातिष्ठत्तापयन्सर्वदेवताः 10
तपस्तप्यति वृत्रे तु वासवः परमार्तवत्
विष्णुं समुपसंक्रम्य वाक्यमेतदुवाच ह 11
तपस्यता महाबाहो लोका वृत्रेण निर्जिताः
बलवान्स हि धर्मात्मा नैनं शक्ष्यामि बाधितुम् 12
यद्यसौ तप आतिष्ठेद्भूय एव सुरेश्वर
यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः 13
त्वं चैनं परमोदारमुपेक्षसि महाबल
क्षणं हि न भवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर 14
यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः
तदा प्रभृति लोकानां नाथत्वमुपलब्धवान् 15
स त्वं प्रसादं लोकानां कुरुष्व सुमहायशः
त्वत्कृतेन हि सर्वं स्यात्प्रशान्तमजरं जगत् 16
इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः
वृत्रघातेन महता एषां साह्यं कुरुष्व ह 17
त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम्
असह्यमिदमन्येषामगतीनां गतिर्भवान् 18
इति श्रीरामायणे उत्तरकाण्डे पञ्चसप्ततितमः सर्गः 75
7-76
लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः
वृत्रघातमशेषेण कथयेत्याह लक्ष्मणम् 1
राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः
भूय एव कथां दिव्यां कथयामास लक्ष्मणः 2
सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम्
विष्णुर्देवानुवाचेदं सर्वानिन्द्र पुरोगमान् 3
पूर्वं सौहृदबद्धोऽस्मि वृत्रस्य सुमहात्मनः
तेन युष्मत्प्रियार्थं वै नाहं हन्मि महासुरम् 4
अवश्यं करणीयं च भवतां सुखमुत्तमम्
तस्मादुपायमाख्यास्ये येन वृत्रं हनिष्यथ 5
त्रिधाभूतं करिष्येऽहमात्मानं सुरसत्तमाः
तेन वृत्रं सहस्राक्षो हनिष्यति न संशयः6
एकॐऽशो वासवं यातु द्वितीयो वज्रमेव तु
तृतीयो भूतलं शक्रस्ततो वृत्रं हनिष्यति 7
तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन्
एवमेतन्न संदेहो यथा वदसि दैत्यहन् 8
भद्रं तेऽस्तु गमिष्यामो वृत्रासुरवध्!षिणः
भजस्व परमोदार वासवं स्वेन तेजसा 9
ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः
तदरण्यमुपाक्रामन्यत्र वृत्रो महासुरः 10
तेऽपश्यंस्तेजसा भूतं तपन्तमसुरोत्तमम्
पिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम् 11
दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन्
कथमेनं वधिष्यामः कथं न स्यात्पराजयः 12
तेषां चिन्तयतां तत्र सहस्राक्षः पुरंदरः
वज्रं प्रगृह्य बाहुभ्यां प्राहिणोद्वृत्रमूर्धनि 13
कालाग्निनेव घ्रेण दीप्तेनेव महार्चिषा
प्रतप्तं वृत्रशिरसि जगत्त्रासमुपागमत् 14
असंभाव्यं वधं तस्य वृत्रस्य विबुधाधिपः
चिन्तयानो जगामाशु लोकस्यान्तं महायशाः 15
तमिन्द्रं ब्रह्महत्याशु गन्छन्तमनुगच्छति
अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् 16
हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः
विष्णुं त्रिभुवनश्रेष्ठं मुहुर्मुहुरपूजयन् 17
त्वं गतिः परमा देव पूर्वजो जगतः प्रभुः
रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् 18
हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम्
बाधते सुरशार्दूल मोक्षं तस्य विनिर्दिश 19
तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत्
मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् 20
पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः
पुनरेष्यति देवानामिन्द्र त्वमकुतोभयः 21
एवं संदिश्य देवानां तां वाणीममृतोपमाम्
जगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम् 22
इति श्रीरामायणे उत्तरकाण्डे षट्सप्ततितमः सर्गः 76

7-77
तथा वृत्रवधं सर्वमखिलेन स लक्ष्मणः
कथयित्वा नरश्रेष्ठः कथाशेषमुपाक्रमत् 1
ततो हते महावीर्ये वृत्रे देवभयंकरे
ब्रह्महत्यावृतः शक्रः संज्ञां लेभे न वृत्रहा 2
सोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः
कालं तत्रावसत्कंचिद्वेष्टमानो यथोरगः 3
अथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत्
भूमिश्च ध्वस्तसंकाशा निःस्नेहा शुष्ककानना 4
निःस्रोतसश्चाम्बुवाहा ह्रदाश्च सरितस्तथा
संक्षोभश्चैव सत्त्वानामनावृष्टिकृतोऽभवत् 5
क्षीयमाणे तु लोकेऽस्मिन्संभ्रान्तमनसः सुराः
यदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन्6
ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः
तं देशं सहिता जग्मुर्यत्रेन्द्रो भयमोहितः 7
ते तु दृष्ट्वा सहस्राक्षं मोहितं ब्रह्महत्यया
तं पुरस्कृत्य देवेशमश्वमेधं प्रचक्रिरे 8
ततोऽश्वमेधः सुमहान्महेन्द्र स्य महात्मनः
ववृधे ब्रह्महत्यायाः पावनार्थं नरेश्वर 9
ततो यज्ञसमाप्तौ तु ब्रह्महत्या महात्मनः
अभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ 10
ते तामूचुस्ततो देवास्तुष्टाः प्रीतिसमन्विताः
चतुर्धा विभजात्मानमात्मनैव दुरासदे 11
देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम्
संनिधौ स्थानमन्यत्र वरयामास दुर्वसा 12
एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै
द्वितीयेन तु वृक्षेषु सत्यमेतद्ब्रवीमि वः 13
योऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु
त्रिरात्रं दर्पपूर्णासु वसिष्ये दर्पघातिनी 14
हन्तारो ब्राह्मणान्ये तु प्रेक्षापूर्वमदूषकान्
तांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः 15
प्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे
तथा भवतु तत्सर्वं साधयस्व यथेप्सितम् 16
ततः प्रीत्यान्विता देवाः सहस्राक्षं ववन्दिरे
विज्वरः पूतपाप्मा च वासवः समपद्यत 17
प्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठिते
यज्ञं चाद्भुतसंकाशं तदा शक्रोऽभ्यपूजयत् 18
ईदृशो ह्यश्वमेधस्य प्रभावो रघुनन्दन
यजस्व सुमहाभाग हयमेधेन पार्थिव 19
इति श्रीरामायणे उत्तरकाण्डे सप्तसप्ततितमः सर्गः 77

7-78
तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः
प्रत्युवाच महातेजाः प्रहसन्राघवो वचः 1
एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण
वृत्रघातमशेषेण वाजिमेधफलं च यत् 2
श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः
पुत्रो बाह्लीश्वरः श्रीमानिलो नाम सुधार्मिकः 3
स राजा पृथिवीं सर्वां वशे कृत्वा महायशाः
राज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत् 4
सुरैश्च परमोदारैर्दैतेयैश्च महासुरैः
नागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः 5
पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन
अबिभ्यंश्च त्रयो लोकाः सरोषस्य महात्मनः6
स राजा तादृशो ह्यासीद्धर्मे वीर्ये च निष्ठितः
बुद्ध्या च परमोदारो बाह्लीकानां महायशाः 7
स प्रचक्रे महाबाहुर्मृगयां रुचिरे वने
चैत्रे मनोरमे मासि सभृत्यबलवाहनः 8
प्रजघ्ने स नृपोऽरण्ये मृगाञ्शतसहस्रशः
हत्वैव तृप्तिर्नाभूच्च राज्ञस्तस्य महात्मनः 9
नानामृगाणामयुतं वध्यमानं महात्मना
यत्र जातो महासेनस्तं देशमुपचक्रमे 10
तस्मिस्तु देवदेवेशः शैलराजसुतां हरः
रमयामास दुर्धर्षः सर्वैरनुचरैः सह 11
कृत्वा स्त्रीभूतमात्मानमुमेशो गोपतिध्वजः
देव्याः प्रियचिकीर्षुः स तस्मिन्पर्वतनिर्झरे 12
ये च तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः
यच्च किंचन तत्सर्वं नारीसंज्ञं बभूव ह 13
एतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः
निघ्नन्मृगसहस्राणि तं देशमुपचक्रमे 14
स दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षिणम्
आत्मानं सानुगं चैव स्त्रीभूतं रघुनन्दन 15
तस्य दुःखं महत्त्वासीद्दृष्ट्वात्मानं तथागतम्
उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत् 16
ततो देवं महात्मानं शितिकण्ठं कपर्दिनम्
जगाम शरणं राजा सभृत्यबलवाहनः 17
ततः प्रहस्य वरदः सह देव्या महायशाः
प्रजापतिसुतं वाक्यमुवाच वरदः स्वयम् 18
उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल
पुरुषत्वमृते सौम्य वरं वरय सुव्रत 19
ततः स राजा शोकार्तः प्रत्याख्यातो महात्मना
न स जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात् 20
ततः शोकेन महता शैलराजसुतां नृपः
प्रणिपत्य महादेवीं सर्वेणैवान्तरात्मना 21
ईशे वराणां वरदे लोकानामसि भामिनि
अमोघदर्शने देवि भजे सौम्ये नमोऽस्तु ते 22
हृद्गतं तस्य राजर्षेर्विज्ञाय हरसंनिधौ
प्रत्युवाच शुभं वाक्यं देवी रुद्र स्य संमता 23
अर्धस्य देवो वरदो वरार्धस्य तथा ह्यहम्
तस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि 24
तदद्भुततमं श्रुत्वा देव्या वरमनुत्तमम्
संप्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत् 25
यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि
मासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः 26
ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना
प्रत्युवाच शुभं वाक्यमेवमेतद्भविष्यति 27
राजन्पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि
स्त्रीभूतश्चापरं मासं न स्मरिष्यसि पौरुषम् 28
एवं स राजा पुरुषो मासं भूत्वाथ कार्दमिः
त्रैलोक्यसुन्दरी नारी मासमेकमिलाभवत् 29
इति श्रीरामायणे उत्तरकाण्डे अष्टसप्ततितमः सर्गः 78

7-79
तां कथामिलसंबद्धां रामेण समुदीरिताम्
लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ 1
तौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः
विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः 2
कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिम्
पुरुषो वा यदा भूतः कां वृत्तिं वर्तयत्यसौ 3
तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम्
कथयामास काकुत्स्थस्तस्य राज्ञो यथागतम् 4
तमेव प्रथमं मासं स्त्री भूत्वा लोकसुन्दरी
ताभिः परिवृता स्त्रीभिर्येऽस्य पूर्वं पदानुगाः 5
तत्काननं विगाह्याशु विजह्रे लोकसुन्दरी
द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा6
वाहनानि च सर्वाणि संत्यक्त्वा वै समन्ततः
पर्वताभोगविवरे तस्मिन्रेमे इला तदा 7
अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः
सरः सुरुचिरप्रख्यं नानापक्षिगणायुतम् 8
ददर्श सा इला तस्मिन्बुधं सोमसुतं तदा
ज्वलन्तं स्वेन वपुषा पूर्णं सोममिवोदितम् 9
तपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम्
यशस्करं कामगमं तारुण्ये पर्यवस्थितम् 10
सा तं जलाशयं सर्वं क्षोभयामास विस्मिता
सह तैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन 11
बुधस्तु तां निरीक्ष्यैव कामबाणाभिपीडितः
नोपलेभे तदात्मानं चचाल च तदाम्भसि 12
इलां निरीक्षमाणः स त्रैलोक्याभ्यधिकां शुभाम्
चिन्तां समभ्यतिक्रामत्का न्वियं देवताधिका 13
न देवीषु न नागीषु नासुरीष्वप्सरःसु च
दृष्टपूर्वा मया काचिद्रू पेणैतेन शोभिता 14
सदृशीयं मम भवेद्यदि नान्यपरिग्रहा
इति बुद्धिं समास्थाय जलात्स्थलमुपागमत् 15
सोऽश्रमं समुपागम्य चतस्रः प्रमदास्ततः
शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे 16
स ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी
किमर्थमागता चेह सत्यमाख्यात माचिरम् 17
शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम्
श्रुत्वा तु ताः स्त्रियः सर्वा ऊचुर्मधुरया गिरा 18
अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा
अपतिः काननान्तेषु सहास्माभिरटत्यसौ 19
तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य तु
विद्यामावर्तनीं पुण्यामावर्तयत स द्विजः 20
सोऽथ विदित्वा निखिलं तस्य राज्ञो यथागतम्
सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुंगवः 21
अत्र किंपुरुषा भद्रा अवसञ्शैलरोधसि
वत्स्यथास्मिन्गिरौ यूयमवकाशो विधीयताम् 22
मूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा
स्त्रियः किंपुरुषान्नाम भर्तॄन्समुपलप्स्यथ 23
ताः श्रुत्वा सोमपुत्रस्य वाचं किंपुरुषीकृताः
उपासांचक्रिरे शैलं बह्व्यस्ता बहुधा तदा 24
इति श्रीरामायणे उत्तरकाण्डे एकोनाशीतितमः सर्गः 79

7-80
श्रुत्वा किंपुरुषोत्पत्तिं लक्ष्मणो भरतस्तदा
आश्चर्यमिति चाब्रूतामुभौ रामं जनेश्वरम् 1
अथ रामः कथामेतां भूय एव महायशाः
कथयामास धर्मात्मा प्रजापतिसुतस्य वै 2
सर्वास्ता विद्रुता दृष्ट्वा किंनरीरृषिसत्तमः
उवाच रूपसम्पन्नां तां स्त्रियं प्रहसन्निव 3
सोमस्याहं सुदयितः सुतः सुरुचिरानने
भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा 4
तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिता
इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् 5
अहं कामकरी सौम्य तवास्मि वशवर्तिनी
प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु6
तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षसमन्वितः
स वै कामी सह तया रेमे चन्द्र मसः सुतः 7
बुधस्य माधवो मासस्तामिलां रुचिराननाम्
गतो रमयतोऽत्यर्थं क्षणवत्तस्य कामिनः 8
अथ मासे तु संपूर्णे पूर्णेन्दुसदृशाननः
प्रजापतिसुतः श्रीमाञ्शयने प्रत्यबुध्यत 9
सोऽपश्यत्सोमजं तत्र तप्यन्तं सलिलाशये
ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत 10
भगवन्पर्वतं दुर्गं प्रविष्टोऽस्मि सहानुगः
न च पश्यामि तत्सैन्यं क्व नु ते मामका गताः 11
तच्छ्रुत्वा तस्य राजर्षेर्नष्टसंज्ञस्य भाषितम्
प्रत्युवाच शुभं वाक्यं सान्त्वयन्परया गिरा 12
अश्मवर्षेण महता भृत्यास्ते विनिपातिताः
त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः 13
समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः
फलमूलाशनो वीर वस चेह यथासुखम् 14
स राजा तेन वाक्येन प्रत्याश्वस्तो महायशाः
प्रत्युवाच शुभं वाक्यं दीनो भृत्यजनक्षयात् 15
त्यक्ष्याम्यहं स्वकं राज्यं नाहं भृत्यैर्विनाकृतः
वर्तयेयं क्षणं ब्रह्मन्समनुज्ञातुमर्हसि 16
सुतो धर्मपरो ब्रह्मञ्ज्येष्ठो मम महायशाः
शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते 17
न हि शक्ष्याम्यहं गत्वा भृत्यदारान्सुखान्वितान्
प्रतिवक्तुं महातेजः किंचिदप्यशुभं वचः 18
तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम्
सान्त्वपूर्वमथोवाच वासस्त इह रोचताम् 19
न संतापस्त्वया कार्यः कार्दमेय महाबल
संवत्सरोषितस्येह कारयिष्यामि ते हितम् 20
तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः
वासाय विदधे बुद्धिं यदुक्तं ब्रह्मवादिना 21
मासं स स्त्री तदा भूत्वा रमयत्यनिशं शुभा
मासं पुरुषभावेन धर्मबुद्धिं चकार सः 22
ततः सा नवमे मासि इला सोमसुतात्सुतम्
जनयामास सुश्रोणी पुरूरवसमात्मजम् 23
जातमात्रं तु सुश्रोणी पितुर्हस्ते न्यवेशयत्
बुधस्य समवर्णाभमिला पुत्रं महाबलम् 24
बुधोऽपि पुरुषीभूतं समाश्वास्य नराधिपम्
कथाभी रमयामास धर्मयुक्ताभिरात्मवान् 25
इति श्रीरामायणे उत्तरकाण्डे अशीतितमः सर्गः 80

7-81
तथोक्तवति रामे तु तस्य जन्म तदद्भुतम्
उवाच लक्ष्मणो भूयो भरतश्च महायशाः 1
सा प्रिया सोमपुत्रस्य संवत्सरमथोषिता
अकरोत्किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि 2
तयोस्तद्वाक्यमाधुर्यं निशम्य परिपृच्छतोः
रामः पुनरुवाचेमां प्रजापतिसुते कथाम् 3
पुरुषत्वं गते शूरे बुधः परमबुद्धिमान्
संवर्तं परमोदारमाजुहाव महायशाः 4
च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम्
प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् 5
एतान्सर्वान्समानीय वाक्यज्ञस्तत्त्वदर्शिनः
उवाच सर्वान्सुहृदो धैर्येण सुसमाहितः6
अयं राजा महाबाहुः कर्दमस्य इलः सुतः
जानीतैनं यथाभूतं श्रेयो ह्यस्य विधीयताम् 7
तेषां संवदतामेव तमाश्रममुपागमत्
कर्दमः सुमहातेजा द्विजैः सह महात्मभिः 8
पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च
ॐकारश्च महातेजास्तमाश्रममुपागमन् 9
ते सर्वे हृष्टमनसः परस्परसमागमे
हितैषिणो बाह्लिपतेः पृथग्वाक्यमथाब्रुवन् 10
कर्दमस्त्वब्रवीद्वाक्यं सुतार्थं परमं हितम्
द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि 11
नान्यं पश्यामि भैषज्यमन्तरेण वृषध्वजम्
नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः 12
तस्माद्यजामहे सर्वे पार्थिवार्थे दुरासदम्
कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः
रोचयन्ति स्म तं यज्ञं रुद्र स्याराधनं प्रति 13
संवर्तस्य तु राजर्षिः शिष्यः परपुरंजयः
मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत् 14
ततो यज्ञो महानासीद्बुधाश्रमसमीपतः
रुद्र श्च परमं तोषमाजगाम महायशाः 15
अथ यज्ञसमाप्तौ तु प्रीतः परमया मुदा
उमापतिर्द्विजान्सर्वानुवाचेदमिलां प्रति 16
प्रीतोऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः
अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम् 17
तथा वदति देवेशे द्विजास्ते सुसमाहिताः
प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला 18
ततः प्रीतमना रुद्र ः! पुरुषत्वं ददौ पुनः
इलायै सुमहातेजा दत्त्वा चान्तरधीयत 19
निवृत्ते हयमेधे तु गते चादर्शनं हरे
यथागतं द्विजाः सर्वे अगच्छन्दीर्घदर्शिनः 20
राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम्
निवेशयामास पुरं प्रतिष्ठानं यशस्करम् 21
शशबिन्दुस्तु राजासीद्बाह्ल्यां परपुरंजयः
प्रतिष्ठान इलो राजा प्रजापतिसुतो बली 22
स काले प्राप्तवाँ ल्लोकमिलो ब्राह्ममनुत्तमम्
एलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् 23
ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ
स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् 24
इति श्रीरामायणे उत्तरकाण्डे एकाशीतितमः सर्गः 81

7-82
एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः
लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः 1
वसिष्ठं वामदेवं च जाबालिमथ कश्यपम्
द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान् 2
एतान्सर्वान्समाहूय मन्त्रयित्वा च लक्ष्मण
हयं लक्षणसम्पन्नं विमोक्ष्यामि समाधिना 3
तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः
द्विजान्सर्वान्समाहूय दर्शयामास राघवम् 4
ते दृष्ट्वा देवसंकाशं कृतपादाभिवन्दनम्
राघवं सुदुराधर्षमाशीर्भिं समपूजयन् 5
प्राञ्जलिस्तु ततो भूत्वा राघवो द्विजसत्तमान्
उवाच धर्मसंयुक्तमश्वमेधाश्रितं वचः6
स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम्
अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतोऽभवत्तदा 7
विज्ञाय तु मतं तेषां रामो लक्ष्मणमब्रवीत्
प्रेषयस्व महाबाहो सुग्रीवाय महात्मने 8
शीघ्रं महद्भिर्हरिभिर्बहुभिश्च तदाश्रयैः
सार्धमागच्छ भद्रं ते अनुभोक्तुं मखोत्तमम् 9
विभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः
अश्वमेधं महाबाहुः प्राप्नोतु लघुविक्रमः 10
राजानश्च नरव्याघ्र ये मे प्रियचिकीर्षवः
सानुगाः क्षिप्रमायान्तु यज्ञभूमिमनुत्तमाम् 11
देशान्तरगता ये च द्विजा धर्मपरायणाः
निमन्त्रयस्व तान्सर्वानश्वमेधाय लक्ष्मण 12
ऋषयश्च महाबाहो आहूयन्तां तपोधनाः
देशान्तरगता ये च सदाराश्च महर्षयः 13
यज्ञवाटश्च सुमहान्गोमत्या नैमिषे वने
आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम् 14
शतं वाहसहस्राणां तण्डुलानां वपुष्मताम्
अयुतं तिलमुद्गस्य प्रयात्वग्रे महाबल 15
सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः
अग्रतो भरतः कृत्वा गच्छत्वग्रे महामतिः 16
अन्तरापणवीथ्यश्च सर्वांश्च नटनर्तकान्
नैगमान्बालवृद्धांश्च द्विजांश्च सुसमाहितान् 17
कर्मान्तिकांश्च कुशलाञ्शिल्पिनश्च सुपण्डितान्
मातरश्चैव मे सर्वाः कुमारान्तःपुराणि च 18
काञ्चनीं मम पत्नीं च दीक्षार्हां यज्ञकर्मणि
अग्रतो भरतः कृत्वा गच्छत्वग्रे महामतिः 19
इति श्रीरामायणे उत्तरकाण्डे द्व्यशीतितमः सर्गः 82

7-83
तत्सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः
हयं लक्षणसम्पन्नं कृष्णसारं मुमोच ह 1
ऋत्विग्भिर्लक्ष्मणं सार्धमश्वे च विनियुज्य सः
ततोऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिषम् 2
यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम्
प्रहर्षमतुलं लेभे श्रीमानिति च सोऽब्रवीत् 3
नैमिषे वसतस्तस्य सर्व एव नराधिपाः
आजग्मुः सर्वराष्ट्रेभ्यस्तान्रामः प्रत्यपूजयत् 4
उपकार्यान्महार्हांश्च पार्थिवानां महात्मनाम्
सानुगानां नरश्रेष्ठो व्यादिदेश महाद्युतिः 5
अन्नपानानि वस्त्राणि सानुगानां महात्मनाम्
भरतः संददावाशु शत्रुघ्नसहितस्तदा6
वानराश्च महात्मानः सुग्रीवसहितास्तदा
विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम् 7
विभीषणश्च रक्षोभिः स्रग्विभिर्बहुभिर्वृतः
ऋषीणामुग्रतपसां किंकरः पर्युपस्थितः 8
एवं सुविहितो यज्ञो हयमेधोऽभ्यवर्तत
लक्ष्मणेनाभिगुप्ता च हयचर्या प्रवर्तिता 9
नान्यः शब्दोऽभवत्तत्र हयमेधे महात्मनः
छन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाः
तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत 10
न कश्चिन्मलिनस्तत्र दीनो वाप्यथवा कृशः
तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते 11
ये च तत्र महात्मानो मुनयश्चिरजीविनः
नास्मरँ स्तादृशं यज्ञं दानौघसमलंकृतम् 12
रजतानां सुवर्णानां रत्नानामथ वाससाम्
अनिशं दीयमानानां नान्तः समुपदृश्यते 13
न शक्रस्य न सोमस्य यमस्य वरुणस्य वा
ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः 14
सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः
वासो धनानि कामिभ्यः पूर्णहस्ता ददुर्भृशम् 15
ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः
संवत्सरमथो साग्रं वर्तते न च हीयते 16
इति श्रीरामायणे उत्तरकाण्डे त्र्! यशीतितमः सर्गः 83

7-84
वर्तमाने तथाभूते यज्ञे परमकेऽद्भुते
सशिष्य आजगामाशु वाल्मीकिर्मुनिपुंगवः 1
स दृष्ट्वा दिव्यसंकाशं यज्ञमद्भुतदर्शनम्
एकान्ते ऋषिवाटानां चकार उटजाञ्शुभान् 2
स शिष्यावब्रवीद्धृष्टो युवां गत्वा समाहितौ
कृत्स्नं रामायणं काव्यं गायतां परया मुदा 3
ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च
रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च 4
रामस्य भवनद्वारि यत्र कर्म च वर्तते
ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः 5
इमानि च फलान्यत्र स्वादूनि विविधानि च
जातानि पर्वताग्रेषु आस्वाद्यास्वाद्य गीयताम्6
न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै
मूलानि च सुमृष्टानि नगरात्परिहास्यथ 7
यदि शब्दापयेद्रा मः श्रवणाय महीपतिः
ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम् 8
दिवसे विंशतिः सर्गा गेया वै परया मुदा
प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टं मया पुरा 9
लोभश्चापि न कर्तव्यः स्वल्पोऽपि धनकाङ्क्षया
किं धनेनाश्रमस्थानां फलमूलोपभोगिनाम् 10
यदि पृच्छेत्स काकुत्स्थो युवां कस्येति दारकौ
वाल्मीकेरथ शिष्यौ हि ब्रूतामेवं नराधिपम् 11
इमास्तन्त्रीः सुमधुराः स्थानं वा पूर्वदर्शितम्
मूर्छयित्वा सुमधुरं गायेतां विगतज्वरौ 12
आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम्
पिता हि सर्वभूतानां राजा भवति धर्मतः 13
तद्युवां हृष्टमनसौ श्वः प्रभाते समाधिना
गायेतां मधुरं गेयं तन्त्रीलयसमन्वितम् 14
इति संदिश्य बहुशो मुनिः प्राचेतसस्तदा
वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः 15
तामद्भुतां तौ हृदये कुमारौ
निवेश्य वाणीमृषिभाषितां शुभाम्
समुत्सुकौ तौ सुखमूषतुर्निशां
यथाश्विनौ भार्गवनीतिसंस्कृतौ 16
इति श्रीरामायणे उत्तरकाण्डे चतुरशीतितमः सर्गः 84

7-85
तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ
यथोक्तमृषिणा पूर्वं तत्र तत्राभ्यगायताम् 1
तां स शुश्राव काकुत्स्थः पूर्वचर्यां ततस्ततः
अपूर्वां पाठ्यजातिं च गेयेन समलंकृताम् 2
प्रमाणैर्बहुभिर्बद्धां तन्त्रीलयसमन्विताम्
बालाभ्यां राघवः श्रुत्वा कौतूहलपरोऽभवत् 3
अथ कर्मान्तरे राजा समानीय महामुनीन्
पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा 4
पौराणिकाञ्शब्दविदो ये च वृद्धा द्विजातयः
एतान्सर्वान्समानीय गातारौ समवेशयत् 5
हृष्टा ऋषिगणास्तत्र पार्थिवाश्च महौजसः
पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ6
परस्परमथोचुस्ते सर्व एव समं ततः
उभौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोद्धृतौ 7
जटिलौ यदि न स्यातां न वल्कलधरौ यदि
विशेषं नाधिगच्छामो गायतो राघवस्य च 8
तेषां संवदतामेवं श्रोतॄणां हर्षवर्धनम्
गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ 9
ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम्
न च तृप्तिं ययुः सर्वे श्रोतारो गेयसम्पदा 10
प्रवृत्तमादितः पूर्वं सर्गान्नारददर्शनात्
ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम् 11
ततोऽपराह्णसमये राघवः समभाषत
श्रुत्वा विंशतिसर्गांस्तान्भरतं भ्रातृवत्सलः 12
अष्टादशसहस्राणि सुवर्णस्य महात्मनोः
ददस्व शीघ्रं काकुत्स्थ बालयोर्मा वृथा श्रमः 13
दीयमानं सुवर्णं तन्नागृह्णीतां कुशीलवौ
ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ 14
वन्येन फलमूलेन निरतौ स्वो वनौकसौ
सुवर्णेन हिरण्येन किं करिष्यावहे वने 15
तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः
श्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः 16
तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः
पप्रच्छ तौ महातेजास्तावुभौ मुनिदारकौ 17
किंप्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः
कर्ता काव्यस्य महतः को वासौ मुनिपुंगवः 18
पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ
वाल्मीकिर्भगवान्कर्ता संप्राप्तो यज्ञसंनिधिम्
येनेदं चरितं तुभ्यमशेषं संप्रदर्शितम् 19
आदिप्रभृति राजेन्द्र पञ्च सर्गशतानि च
प्रतिष्ठा जीवितं यावत्तावद्रा जञ्शुभाशुभम् 20
यदि बुद्धिः कृता राजञ्श्रवणाय महारथ
कर्मान्तरे क्षणीभूतस्तच्छृणुष्व सहानुजः 21
बाढमित्यब्रवीद्रा मस्तौ चानुज्ञाप्य राघवम्
प्रहृष्टौ जग्मतुर्वासं यत्रासौ मुनिपुंगवः 22
रामोऽपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः
श्रुत्वा तद्गीतमाधुर्यं कर्मशालामुपागमत् 23
इति श्रीरामायणे उत्तरकाण्डे पञ्चाशीतितमः सर्गः 85

7-86
रामो बहून्यहान्येव तद्गीतं परमाद्भुतम्
शुश्राव मुनिभिः सार्धं राजभिः सह वानरैः 1
तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ
तस्याः परिषदो मध्ये रामो वचनमब्रवीत् 2
मद्वचो ब्रूत गच्छध्वमितो भगवतोऽन्तिकम् 3
यदि शुद्धसमाचारा यदि वा वीतकल्मषा
करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् 4
छन्दं मुनेस्तु विज्ञाय सीतायाश्च मनोगतम्
प्रत्ययं दातुकामायास्ततः शंसत मे लघु 5
श्वः प्रभाते तु शपथं मैथिली जनकात्मजा
करोतु परिषन्मध्ये शोधनार्थं ममेह च6
श्रुत्वा तु राघवस्यैतद्वचः परममद्भुतम्
दूताः संप्रययुर्वाटं यत्रास्ते मुनिपुंगवः 7
ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम्
ऊचुस्ते रामवाक्यानि मृदूनि मधुराणि च 8
तेषां तद्भाषितं श्रुत्वा रामस्य च मनोगतम्
विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत् 9
एवं भवतु भद्रं वो यथा तुष्यति राघवः
तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः 10
तथोक्ता मुनिना सर्वे रामदूता महौजसः
प्रत्येत्य राघवं सर्वे मुनिवाक्यं बभाषिरे 11
ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः
ऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत 12
भगवन्तः सशिष्या वै सानुगाश्च नराधिपाः
पश्यन्तु सीताशपथं यश्चैवान्योऽभिकाङ्क्षते 13
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः
सर्वेषामृषिमुख्यानां साधुवादो महानभूत् 14
राजानश्च महात्मानः प्रशंसन्ति स्म राघवम्
उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः 15
एवं विनिश्चयं कृत्वा श्वो भूत इति राघवः
विसर्जयामास तदा सर्वांस्ताञ्शत्रुसूदनः 16
इति श्रीरामायणे उत्तरकाण्डे षडशीतितमः सर्गः 86

7-87
तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः
ऋषीन्सर्वान्महातेजाः शब्दापयति राघवः 1
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः
विश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः 2
अगस्त्योऽथ तथा शक्तिर्भार्गवश्चैव वामनः
मार्कण्डेयश्च दीर्घायुर्मौद्गल्यश्च महातपाः 3
भार्गवश्च्यवनश्चैव शतानन्दश्च धर्मवित्
भरद्वाजश्च तेजस्वी अग्निपुत्रश्च सुप्रभः 4
एते चान्ये च मुनयो बहवः संशितव्रताः
राजानश्च नरव्याघ्राः सर्व एव समागताः 5
राक्षसाश्च महावीर्या वानराश्च महाबलाः
समाजग्मुर्महात्मानः सर्व एव कुतूहलात्6
क्षत्रियाश्चैव वैश्याश्च शूद्रा श्चैव सहस्रशः
सीताशपथवीक्षार्थं सर्व एव समागताः 7
तथा समागतं सर्वमश्मभूतमिवाचलम्
श्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत् 8
तमृषिं पृष्ठतः सीता सान्वगच्छदवाङ्मुखी
कृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम् 9
तां दृष्ट्वा श्रीमिवायान्तीं ब्रह्माणमनुगामिनीम्
वाल्मीकेः पृष्ठतः सीतां साधुकारो महानभूत् 10
ततो हलहलाशब्दः सर्वेषामेवमाबभौ
दुःखजेन विशालेन शोकेनाकुलितात्मनाम् 11
साधु सीतेति केचित्तु साधु रामेति चापरे
उभावेव तु तत्रान्ये साधु साध्विति चाब्रुवन् 12
ततो मध्यं जनौघानां प्रविश्य मुनिपुंगवः
सीतासहायो वाल्मीकिरिति होवाच राघवम् 13
इयं दाशरथे सीता सुव्रता धर्मचारिणी
अपापा ते परित्यक्ता ममाश्रमसमीपतः 14
लोकापवादभीतस्य तव राम महाव्रत
प्रत्ययं दास्यते सीता तामनुज्ञातुमर्हसि 15
इमौ च जानकीपुत्रावुभौ च यमजातकौ
सुतौ तवैव दुर्धर्षौ सत्यमेतद्ब्रवीमि ते 16
प्रचेतसोऽह दशमः पुत्रो राघवनन्दन
न स्मराम्यनृतं वाक्यं तथेमौ तव पुत्रकौ 17
बहुवर्षसहस्राणि तपश्चर्या मया कृता
तस्याः फलमुपाश्नीयामपापा मैथिली यथा 18
अहं पञ्चसु भूतेषु मनःषष्ठेषु राघव
विचिन्त्य सीतां शुद्धेति न्यगृह्णां वननिर्झरे 19
इयं शुद्धसमाचारा अपापा पतिदेवता
लोकापवादभीतस्य दास्यति प्रत्ययं तव 20
इति श्रीरामायणे उत्तरकाण्डे सप्ताशीतितमः सर्गः 87

7-88
वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत
प्राञ्जलिर्जगतो मध्ये दृष्ट्वा तां देववर्णिनीम् 1
एवमेतन्महाभाग यथा वदसि धर्मवित्
प्रत्ययो हि मम ब्रह्मंस्तव वाक्यैरकल्मषैः
प्रत्ययो हि पुरा दत्तो वैदेह्या सुरसंनिधौ
सेयं लोकभयाद्ब्रह्मन्नपापेत्यभिजानता
परित्यक्ता मया सीता तद्भवान्क्षन्तुमर्हति 3
जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ
शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिरस्तु मे 4
अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः
पितामहं पुरस्कृत्य सर्व एव समागताः 5
आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः
अश्विनावृषिगन्धर्वा अप्सराणां गणास्तथा
साध्याश्च देवाः सर्वे ते सर्वे च परमर्षयः6
ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः
तं जनौघं सुरश्रेष्ठो ह्लादयामास सर्वतः 7
तदद्भुतमिवाचिन्त्यं निरीक्षन्ते समाहिताः
मानवाः सर्वराष्ट्रेभ्यः पूर्वं कृतयुगे यथा 8
सर्वान्समागतान्दृष्ट्वा सीता काषायवासिनी
अब्रवीत्प्राञ्जलिर्वाक्यमधोदृष्टिरवाङ्मुखी 9
यथाहं राघवादन्यं मनसापि न चिन्तये
तथा मे माधवी देवी विवरं दातुमर्हति 10
तथा शपन्त्यां वैदेह्यां प्रादुरासीत्तदद्भुतम्
भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम् 11
ध्रियमाणं शिरोभिस्तन्नागैरमितविक्रमैः
दिव्यं दिव्येन वपुषा सर्वरत्नविभूषितम् 12
तस्मिंस्तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम्
स्वागतेनाभिनन्द्यैनामासने चोपवेशयत् 13
तामासनगतां दृष्ट्वा प्रविशन्तीं रसातलम्
पुष्पवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत् 14
साधुकारश्च सुमहान्देवानां सहसोत्थितः
साधु साध्विति वै सीते यस्यास्ते शीलमीदृशम् 15
एवं बहुविधा वाचो ह्यन्तरिक्षगताः सुराः
व्याजह्रुर्हृष्टमनसो दृष्ट्वा सीताप्रवेशनम् 16
यज्ञवाटगताश्चापि मुनयः सर्व एव ते
राजानश्च नरव्याघ्रा विस्मयान्नोपरेमिरे 17
अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः
दानवाश्च महाकायाः पाताले पन्नगाधिपाः 18
केचिद्विनेदुः संहृष्टाः केचिद्ध्य्नापरायणाः
केचिद्रा मं निरीक्षन्ते केचित्सीतामचेतनाः 19
सीताप्रवेशनं दृष्ट्वा तेषामासीत्समागमः
तं मुहूर्तमिवात्यर्थं सर्वं संमोहितं जगत् 20
इति श्रीरामायणे उत्तरकाण्डे अष्टाशीतितमः सर्गः 88

7-89
तदावसाने यज्ञस्य रामः परमदुर्मनाः
अपश्यमानो वैदेहीं मेने शून्यमिदं जगत्
शोकेन परमायत्तो न शान्तिं मनसागमत् 1
विसृज्य पार्थिवान्सर्वानृक्षवानरराक्षसान्
जनौघं ब्रह्ममुख्यानां वित्तपूर्णं व्यसर्जयत् 2
ततो विसृज्य तान्सर्वान्रामो राजीवलोचनः
हृदि कृत्वा तदा सीतामयोध्यां प्रविवेश सः 3
न सीतायाः परां भार्यां वव्रे स रघुनन्दनः
यज्ञे यज्ञे च पत्न्यर्थं जानकी काञ्चनी भवत् 4
दश वर्षसहस्राणि वाजिमेधमुपाकरोत्
वाजपेयान्दशगुणांस्तथा बहुसुवर्णकान् 5
अग्निष्टोमातिरात्राभ्यां गोसवैश्च महाधनैः
ईजे क्रतुभिरन्यैश्च स श्रीमानाप्तदक्षिणैः6
एवं स कालः सुमहान्राज्यस्थस्य महात्मनः
धर्मे प्रयतमानस्य व्यतीयाद्रा घवस्य तु 7
ऋक्षवानररक्षांसि स्थिता रामस्य शासने
अनुरज्यन्ति राजानो अहन्यहनि राघवम् 8
काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः
हृष्टपुष्टजनाकीर्णं पुरं जनपदस्तथा 9
नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तदा
नाधर्मश्चाभवत्कश्चिद्रा मे राज्यं प्रशासति 10
अथ दीर्घस्य कालस्य राममाता यशस्विनी
पुत्रपौत्रैः परिवृता कालधर्ममुपागमत् 11
अन्वियाय सुमित्रापि कैकेयी च यशस्विनी
धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता 12
सर्वाः प्रतिष्ठिताः स्वर्गे राज्ञा दशरथेन च
समागता महाभागाः सहधर्मं च लेभिरे 13
तासां रामो महादानं काले काले प्रयच्छति
मातॄणामविशेषेण ब्राह्मणेषु तपस्विषु 14
पित्र्! याणि बहुरत्नानि यज्ञान्परमदुस्तरान्
चकार रामो धर्मात्मा पितॄन्देवान्विवर्धयन् 15
इति श्रीरामायणे उत्तरकाण्डे एकोननवतितमः सर्गः 89

7-90
कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपः
स्वगुरुं प्रेषयामास राघवाय महात्मने 1
गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम्
दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम् 2
कम्बलानि च रत्निआ!नि चित्रवस्त्रमथोत्तमम्
रामाय प्रददौ राजा बहून्याभरणानि च 3
श्रुत्वा तु राघवो गार्ग्यं महर्षिं समुपागतम्
मातुलस्याश्वपतिनः प्रियं दूतमुपागतम् 4
प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुगः
गार्ग्यं संपूजयामास धनं तत्प्रतिगृह्य च 5
पृष्ट्वा च प्रीतिदं सर्वं कुशलं मातुलस्य च
उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे6
किमाह मातुलो वाक्यं यदर्थं भगवानिह
प्राप्तो वाक्यविदां श्रेष्ठः साक्षादिव बृहस्पतिः 7
रामस्य भाषितं श्रुत्वा ब्रह्मर्षिः कार्यविस्तरम्
वक्तुमद्भुतसंकाशं राघवायोपचक्रमे 8
मातुलस्ते महाबाहो वाक्यमाह नरर्षभ
युधाजित्प्रीतिसंयुक्तं श्रूयतां यदि रोचते 9
अयं गन्धर्वविषयः फलमूलोपशोभितः
सिन्धोरुभयतः पार्श्वे देशः परमशोभनः 10
तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः
शैलूषस्य सुता वीरास्तिस्रः कोट्यो महाबलाः 11
तान्विनिर्जित्य काकुत्स्थ गन्धर्वविषयं शुभम्
निवेशय महाबाहो द्वे पुरे सुसमाहितः 12
अन्यस्य न गतिस्तत्र देशश्चायं सुशोभनः
रोचतां ते महाबाहो नाहं त्वामनृतं वदे 13
तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य च
उवाच वाढमित्येवं भरतं चान्ववैक्षत 14
सोऽब्रवीद्रा घवः प्रीतः प्राञ्जलिप्रग्रहो द्विजम्
इमौ कुमारौ तं देशं ब्रह्मर्षे विजयिष्यतः 15
भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च
मातुलेन सुगुप्तौ तौ धर्मेण च समाहितौ 16
भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ
निहत्य गन्धर्वसुतान्द्वे पुरे विभजिष्यतः 17
निवेश्य ते पुरवरे आत्मजौ संनिवेश्य च
आगमिष्यति मे भूयः सकाशमतिधार्मिकः 18
ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम्
आज्ञापयामास तदा कुमारौ चाभ्यषेचयत् 19
नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरःसुतम्
भरतः सह सैन्येन कुमाराभ्यां च निर्ययौ 20
सा सेना शक्रयुक्तेव नगरान्निर्ययावथ
राघवानुगता दूरं दुराधर्षा सुरासुरैः 21
मांसाशीनि च सत्त्वानि रक्षांसि सुमहान्ति च
अनुजग्मुश्च भरतं रुधिरस्य पिपासया 22
भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः
गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः 23
सिंहव्याघ्रसृगालानां खेचराणां च पक्षिणाम्
बहूनि वै सहस्राणि सेनाया ययुरग्रतः 24
अध्यर्धमासमुषिता पथि सेना निरामया
हृष्टपुष्टजनाकीर्णा केकयं समुपागमत् 25
इति श्रीरामायणे उत्तरकाण्डे नवतितमः सर्गः 90

7-91
श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः
युधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत् 1
स निर्ययौ जनौघेन महता केकयाधिपः
त्वरमाणोऽभिचक्राम गन्धर्वान्देवरूपिणः 2
भरतश्च युधाजिच्च समेतौ लघुविक्रमौ
गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ 3
श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः
योद्धुकामा महावीर्या विनदन्तः समन्ततः 4
ततः समभवद्युद्धं तुमुलं लोमहर्षणम्
सप्तरात्रं महाभीमं न चान्यतरयोर्जयः 5
ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम्
संवर्तं नाम भरतो गन्धर्वेष्वभ्ययोजयत्6
ते बद्धाः कालपाशेन संवर्तेन विदारिताः
क्षणेनाभिहतास्तिस्रस्तत्र कोट्यो महात्मना 7
तं घातं घोरसंकाशं न स्मरन्ति दिवौकसः
निमेषान्तरमात्रेण तादृशानां महात्मनाम् 8
हतेषु तेषु वीरेषु भरतः कैकयीसुतः
निवेशयामास तदा समृद्धे द्वे पुरोत्तमे
तक्षं तक्षशिलायां तु पुष्करं पुष्करावतौ 9
गन्धर्वदेशो रुचिरो गान्धारविषयश्च सः
वर्षैः पञ्चभिराकीर्णो विषयैर्नागरैस्तथा 10
धनरत्नौघसंपूर्णे काननैरुपशोभिते
अन्योन्यसंघर्षकृते स्पर्धया गुणविस्तरे 11
उभे सुरुचिरप्रख्ये व्यवहारैरकल्मषैः
उद्यानयानौघवृते सुविभक्तान्तरापणे 12
उभे पुरवरे रम्ये विस्तरैरुपशोभिते
गृहमुख्यैः सुरुचिरैर्विमानैः समवर्णिभिः 13
शोभिते शोभनीयैश्च देवायतनविस्तरैः
निवेश्य पञ्चभिर्वर्षैर्भरतो राघवानुजः
पुनरायान्महाबाहुरयोध्यां कैकयीसुतः 14
सोऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम्
राघवं भरतः श्रीमान्ब्रह्माणमिव वासवः 15
शशंस च यथा वृत्तं गन्धर्ववधमुत्तमम्
निवेशनं च देशस्य श्रुत्वा प्रीतोऽस्य राघवः 16
इति श्रीरामायणे उत्तराकाण्डे एकनवतितमः सर्गः 91

7-92
तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह
वाक्यं चाद्भुतसंकाशं भ्रातॄन्प्रोवाच राघवः 1
इमौ कुमारौ सौमित्रे तव धर्मविशारदौ
अङ्गदश्चन्द्र केतुश्च राज्यार्हौ दृढधन्विनौ 2
इमौ राज्येऽभिषेक्ष्यामि देशः साधु विधीयताम्
रमणीयो ह्यसंबाधो रमेतां यत्र धन्विनौ 3
न राज्ञां यत्र पीडा स्यान्नाश्रमाणां विनाशनम्
स देशो दृश्यतां सौम्य नापराध्यामहे यथा 4
तथोक्तवति रामे तु भरतः प्रत्युवाच ह
अयं कारापथो देशः सुरमण्यो निरामयः 5
निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः
चन्द्र केतोश्च रुचिरं चन्द्र कान्तं निरामयम्6
तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः
तं च कृत्वा वशे देशमङ्गदस्य न्यवेशयत् 7
अङ्गदीया पुरी रम्या अङ्गदस्य निवेशिता
रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा 8
चन्द्र केतोस्तु मल्लस्य मल्लभूम्यां निवेशिता
चन्द्र कान्तेति विख्याता दिव्या स्वर्गपुरी यथा 9
ततो रामः परां प्रीतिं भरतो लक्ष्मणस्तथा
ययुर्युधि दुराधर्षा अभिषेकं च चक्रिरे 10
अभिषिच्य कुमारौ द्वौ प्रस्थाप्य सबलानुगौ
अङ्गदं पश्चिमां भूमिं चन्द्र केतुमुदङ्मुखम् 11
अङ्गदं चापि सौमित्रिर्लक्ष्मणोऽनुजगाम ह
चन्द्र केतोस्तु भरतः पार्ष्णिग्राहो बभूव ह 12
लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः
पुत्रे स्थिते दुराधर्षे अयोध्यां पुनरागमत् 13
भरतोऽपि तथैवोष्य संवत्सरमथाधिकम्
अयोध्यां पुनरागम्य रामपादावुपागमत् 14
उभौ सौमित्रिभरतौ रामपादावनुव्रतौ
कालं गतमपि स्नेहान्न जज्ञातेऽतिधार्मिकौ 15
एवं वर्षसहस्राणि दश तेषां ययुस्तदा
धर्मे प्रयतमानानां पौरकार्येषु नित्यदा 16
विहृत्य कालं परिपूर्णमानसाः
श्रिया वृता धर्मपथे परे स्थिताः
त्रयः समिद्धा इव दीप्ततेजसो
हुताग्नयः साधु महाध्वरे त्रयः 17
इति श्रीरामायणे उत्तरकाण्डे द्विनवतितमः सर्गः 92

7-93
कस्यचित्त्वथ कालस्य रामे धर्मपथे स्थिते
कालस्तापसरूपेण राजद्वारमुपागमत् 1
सोऽब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशस्विनम्
मां निवेदय रामाय संप्राप्तं कार्यगौरवात् 2
दूतो ह्यतिबलस्याहं महर्षेरमितौजसः
रामं दिदृक्षुरायातः कार्येण हि महाबल 3
तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरयान्वितः
न्यवेदयत रामाय तापसस्य विवक्षितम् 4
जयस्व राजन्धर्मेण उभौ लोकौ महाद्युते
दूतस्त्वां द्र ष्टुमायातस्तपस्वी भास्करप्रभः 5
तद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह
प्रवेश्यतां मुनिस्तात महोजास्तस्य वाक्यधृक्6
सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम्
ज्वलन्तमिव तेजोभिः प्रदहन्तमिवांशुभिः 7
सोऽभिगम्य रघुश्रेष्ठं दीप्यमानं स्वतेजसा
ऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम् 8
तस्मै रामो महातेजाः पूजामर्घ्यपुरोगमाम्
ददौ कुशलमव्यग्रं प्रष्टुं चैवोपचक्रमे 9
पृष्टश्च कुशलं तेन रामेण वदतां वरः
आसने काञ्चने दिव्ये निषसाद महायशाः 10
तमुवाच ततो रामः स्वागतं ते महामुने
प्रापयस्व च वाक्यानि यतो दूतस्त्वमागतः 11
चोदितो राजसिंहेन मुनिर्वाक्यमुदीरयत्
द्वंद्वमेतत्प्रवक्तव्यं न च चक्षुर्हतं वचः 12
यः शृणोति निरीक्षेद्वा स वध्यस्तव राघव
भवेद्वै मुनिमुख्यस्य वचनं यद्यवेक्षसे 13
तथेति च प्रतिज्ञाय रामो लक्ष्मणमब्रवीत्
द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय 14
स मे वध्यः खलु भवेत्कथां द्वंद्वसमीरिताम्
ऋषेर्मम च सौमित्रे पश्येद्वा शृणुयाच्च यः 15
ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारस्रंगहे
तमुवाच मुनिं वाक्यं कथयस्वेति राघवः 16
यत्ते मनीषितं वाक्यं येन वासि समाहितः
कथयस्व विशङ्कस्त्वं ममापि हृदि वर्तते 17
इति श्रीरामायणे उत्तरकाण्डे त्रिनवतितमः सर्गः 93

7-94
शृणु राम महाबाहो यदर्थमहमागतः
पितामहेन देवेन प्रेषितोऽस्मि महाबल 1
तवाहं पूर्वके भावे पुत्रः परपुरंजय
मायासंभावितो वीर कालः सर्वसमाहरः 2
पितामहश्च भगवानाह लोकपतिः प्रभुः
समयस्ते महाबाहो स्वर्लोकान्परिरक्षितुम् 3
संक्षिप्य च पुरा लोकान्मायया स्वयमेव हि
महार्णवे शयानोऽप्सु मां त्वं पूर्वमजीजनः 4
भोगवन्तं ततो नागमनन्तमुदकेशयम्
मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ 5
मधुं च कैटभं चैव ययोरस्थिचयैर्वृता
इयं पर्वतसंबाधा मेदिनी चाभवन्मही6
पद्मे दिव्यार्कसंकाशे नाभ्यामुत्पाद्य मामपि
प्राजापत्यं त्वया कर्म सर्वं मयि निवेशितम् 7
सोऽह संन्यस्तभारो हि त्वामुपासे जगत्पतिम्
रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान् 8
ततस्त्वमपि दुर्धर्षस्तस्माद्भावात्सनातनात्
रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् 9
अदित्यां वीर्यवान्पुत्रो भातॄणां हर्षवर्धनः
समुत्पन्नेषु कृत्येषु लोकसाह्याय कल्पसे 10
स त्वं वित्रास्यमानासु प्रजासु जगतां वर
रावणस्य वधाकाङ्क्षी मानुषेषु मनोऽदधाः 11
दश वर्षसहस्त्राणि दश वर्षशतानि च
कृत्वा वासस्य नियतिं स्वयमेवात्मनः पुरा 12
स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह
कालो नरवरश्रेष्ठ समीपमुपवर्तितुम् 13
यदि भूयो महाराज प्रजा इच्छस्युपासितुम्
वस वा वीर भद्रं ते एवमाह पितामहः 14
अथ वा विजिगीषा ते सुरलोकाय राघव
सनाथा विष्णुना देवा भवन्तु विगतज्वराः 15
श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम्
राघवः प्रहसन्वाक्यं सर्वसंहारमब्रवीत् 16
श्रुतं मे देवदेवस्य वाक्यं परममद्भुतम्
प्रीतिर्हि महती जाता तवागमनसंभवा 17
भद्रं तेऽस्तु गमिष्यामि यत एवाहमागतः
हृद्गतो ह्यसि संप्राप्तो न मेऽस्त्यत्र विचारणा 18
मया हि सर्वकृत्येषु देवानां वशवर्तिनाम्
स्थातव्यं सर्वसंहारे यथा ह्याह पितामहः 19
इति श्रीरामायणे उत्तरकाण्डे चतुर्नवतितमः सर्गः 94

7-95
तथा तयोः कथयतोर्दुर्वासा भगवानृषिः
रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत् 1
सोऽभिगम्य च सौमित्रिमुवाच ऋषिसत्तमः
रामं दर्शय मे शीघ्रं पुरा मेऽथोऽतिवर्तते 2
मुनेस्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा
अभिवाद्य महात्मानं वाक्यमेतदुवाच ह 3
किं कार्यं ब्रूहि भगवन्को वार्थः किं करोम्यहम्
व्यग्रो हि राघवो ब्रह्मन्मुहूर्तं वा प्रतीक्षताम् 4
तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः
उवाच लक्ष्मणं वाक्यं निर्दहन्निव चक्षुषा 5
अस्मिन्क्षणे मां सौमित्रे रामाय प्रतिवेदय
विषयं त्वां पुरं चैव शपिष्ये राघवं तथा6
भरतं चैव सौमित्रे युष्माकं या च संततिः
न हि शक्ष्याम्यहं भूयो मन्युं धारयितुं हृदि 7
तच्छ्रुत्वा घोरसंकाशं वाक्यं तस्य महात्मनः
चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम् 8
एकस्य मरणं मेऽस्तु मा भूत्सर्वविनाशनम्
इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत् 9
लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च
निष्पत्य त्वरितं राजा अत्रेः पुत्रं ददर्श ह 10
सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा
किं कार्यमिति काकुत्स्थः कृताञ्जलिरभाषत 11
तद्वाक्यं राघवेणोक्तं श्रुत्वा मुनिवरः प्रभुः
प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल 12
अद्य वर्षसहस्रस्य समाप्तिर्मम राघव
सोऽह भोजनमिच्छामि यथासिद्धं तवानघ 13
तच्छ्रुत्वा वचनं रामो हर्षेण महतान्वितः
भोजनं मुनिमुख्याय यथासिद्धमुपाहरत् 14
स तु भुक्त्वा मुनिश्रेष्ठस्तदन्नममृतोपमम्
साधु रामेति संभाष्य स्वमाश्रममुपागमत् 15
तस्मिन्गते महातेजा राघवः प्रीतमानसः
संस्मृत्य कालवाक्यानि ततो दुःखमुपेयिवान् 16
दुःखेन च सुसंतप्तः स्मृत्वा तद्घोरदर्शनम्
अवाङ्मुखो दीनमना व्याहर्तुं न शशाक ह 17
ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः
नैतदस्तीति चोक्त्वा स तूष्णीमासीन्महायशाः 18
इति श्रीरामायणे उत्तरकाण्डे पञ्चनवतितमः सर्गः 95

7-96
अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवाप्लुतम्
राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत् 1
न संतापं महाबाहो मदर्थं कर्तुमर्हसि
पूर्वनिर्माणबद्धा हि कालस्य गतिरीदृशी 2
जहि मां सौम्य विस्रब्धः प्रतिज्ञां परिपालय
हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः 3
यदि प्रीतिर्महाराज यद्यनुग्राह्यता मयि
जहि मां निर्विशङ्कस्त्वं धर्मं वर्धय राघव 4
लक्ष्मणेन तथोक्तस्तु रामः प्रचलितेन्द्रि यः
मन्त्रिणः समुपानीय तथैव च पुरोधसम् 5
अब्रवीच्च यथावृत्तं तेषां मध्ये नराधिपः
दुर्वासोभिगमं चैव प्रतिज्ञां तापसस्य च6
तच्छ्रुत्वा मन्त्रिणः सर्वे सोपाध्यायाः समासत
वसिष्ठस्तु महातेजा वाक्यमेतदुवाच ह 7
दृष्टमेतन्महाबाहो क्षयं ते लोमहर्षणम्
लक्ष्मणेन वियोगश्च तव राम महायशः 8
त्यजैनं बलवान्कालो मा प्रतिज्ञां वृथा कृथाः
विनष्टायां प्रतिज्ञायां धर्मो हि विलयं व्रजेत् 9
ततो धर्मे विनष्टे तु त्रैलोक्यं सचराचरम्
सदेवर्षिगणं सर्वं विनश्येत न संशयः 10
स त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनात्
लक्ष्मणस्य वधेनाद्य जगत्स्वस्थं कुरुष्व ह 11
तेषां तत्समवेतानां वाक्यं धर्मार्थसंहितम्
श्रुत्वा परिषदो मध्ये रामो लक्ष्मणमब्रवीत् 12
विसर्जये त्वां सौमित्रे मा भूद्धर्मविपर्ययः
त्यागो वधो वा विहितः साधूनामुभयं समम् 13
रामेण भाषिते वाक्ये बाष्पव्याकुलितेक्षणः
लक्ष्मणस्त्वरितः प्रायात्स्वगृहं न विवेश ह 14
स गत्वा सरयूतीरमुपस्पृश्य कृताञ्जलि
निगृह्य सर्वस्रोतांसि निःश्वासं न मुमोच ह 15
अनुच्छ्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः
देवाः सर्षिगणाः सर्वे पुष्पैरवकिरंस्तदा 16
अदृश्यं सर्वमनुजैः सशरीरं महाबलम्
प्रगृह्य लक्ष्मणं शक्रो दिवं संप्रविवेश ह 17
ततो विष्णोश्चतुर्भागमागतं सुरसत्तमाः
हृष्टाः प्रमुदिताः सर्वेऽपूजयनृषिभिः सह 18
इति श्रीरामायणे उत्तरकाण्डे षण्णवतितमः सर्गः 96

7-97
विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः
पुरोधसं मन्त्रिणश्च नैगमांश्चेदमब्रवीत् 1
अद्य राज्येऽभिषेक्ष्यामि भरतं धर्मवत्सलम्
अयोध्यायां पतिं वीरं ततो यास्याम्यहं वनम् 2
प्रवेशयत संभारान्मा भूत्कालात्ययो यथा
अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम् 3
तच्छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम्
मूर्धभिः प्रणता भूमौ गतसत्त्वा इवाभवन् 4
भरतश्च विसंज्ञोऽभूच्छ्रुत्वा रामस्य भाषितम्
राज्यं विगर्हयामास राघवं चेदमब्रवीत् 5
सत्येन हि शपे राजन्स्वर्गलोके न चैव हि
न कामये यथा राज्यं त्वां विना रघुनन्दन6
इमौ कुशीलवौ राजन्नभिषिञ्च नराधिप
कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् 7
शत्रुघ्नस्य तु गच्छन्तु दूतास्त्वरितविक्रमाः
इदं गमनमस्माकं स्वर्गायाख्यान्तु माचिरम् 8
तच्छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्यधोमुखान्
पौरान्दुःखेन संतप्तान्वसिष्ठो वाक्यमब्रवीत् 9
वत्स राम इमाः पश्य धरणीं प्रकृतीर्गताः
ज्ञात्वैषामीप्सितं कार्यं मा चैषां विप्रियं कृथाः 10
वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम्
किं करोमीति काकुत्स्थः सर्वान्वचनमब्रवीत् 11
ततः सर्वाः प्रकृतयो रामं वचनमब्रुवन्
गच्छन्तमनु गच्छामो यतो राम गमिष्यसि 12
एषा नः परमा प्रीतिरेष धर्मः परो मतः
हृद्गता नः सदा तुष्टिस्तवानुगमने दृढा 13
पौरेषु यदि ते प्रीतिर्यदि स्नेहो ह्यनुत्तमः
सपुत्रदाराः काकुत्स्थ समं गच्छाम सत्पथम् 14
तपोवनं वा दुर्गं वा नदीमम्भोनिधिं तथा
वयं ते यदि न त्याज्याः सर्वान्नो नय ईश्वर 15
स तेषां निश्चयं ज्ञात्वा कृतान्तं च निरीक्ष्य च
पौराणां दृढभक्तिं च बाढमित्येव सोऽब्रवीत् 16
एवं विनिश्चयं कृत्वा तस्मिन्नहनि राघवः
कोसलेषु कुशं वीरमुत्तरेषु तथा लवम् 17
अभिषिञ्चन्महात्मानावुभावेव कुशीलवौ
रथानां तु सहस्राणि त्रीणि नागायुतानि च 18
दश चाश्वसहस्राणि एकैकस्य धनं ददौ
बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ 19
अभिषिच्य तु तौ वीरौ प्रस्थाप्य स्वपुरे तथा
दूतान्संप्रेषयामास शत्रुघ्नाय महात्मने 20
इति श्रीरामायणे उत्तरकाण्डे सप्तनवतितमः सर्गः 97

7-98
ते दूता रामवाक्येन चोदिता लघुविक्रमाः
प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं न चाध्वनि 1
ततस्त्रिभिरहोरात्रैः संप्राप्य मधुरामथ
शत्रुघ्नाय यथावृत्तमाचख्युः सर्वमेव तत् 2
लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च
पुत्रयोरभिषेकं च पौरानुगमनं तथा 3
कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि
कुशावतीति नाम्ना सा कृता रामेण धीमता 4
श्राविता च पुरी रम्या श्रावतीति लवस्य च
अयोध्यां विजनां चैव भरतं राघवानुगम् 5
एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने
विरेमुस्ते ततो दूतास्त्वर राजन्निति ब्रुवन् 6
श्रुत्वा तं घोरसंकाशं कुलक्षयमुपस्थितम्
प्रकृतीस्तु समानीय काञ्चनं च पुरोहितम् 7
तेषां सर्वं यथावृत्तमाख्याय रघुनन्दनः
आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह 8
ततः पुत्रद्वयं वीरः सोऽभ्यषिञ्चन्नराधिपः
सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम् 9
द्विधा कृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः
धनधान्यसमायुक्तौ स्थापयामास पार्थिवौ 10
ततो विसृज्य राजानं वैदिशे शत्रुघातिनम्
जगाम त्वरितोऽयोध्यां रथेनैकेन राघवः 11
स ददर्श महात्मानं ज्वलन्तमिव पावकम्
क्षौमसूक्ष्माम्बरधरं मुनिभिः सार्धमक्षयैः 12
सोऽभिवाद्य ततो रामं प्राञ्जलि प्रयतेन्द्रि यः
उवाच वाक्यं धर्मज्ञो धर्ममेवानुचिन्तयन् 13
कृत्वाभिषेकं सुतयोर्युक्तं राघवयोर्धनैः
तवानुगमने राजन्विद्धि मां कृतनिश्चयम् 14
न चान्यदत्र वक्तव्यं दुस्तरं तव शासनम्
त्यक्तुं नार्हसि मां वीर भक्तिमन्तं विशेषतः 15
तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः
बाढमित्येव शत्रुघ्नं रामो वचनमब्रवीत् 16
तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः
ऋक्षराक्षससंघाश्च समापेतुरनेकशः 17
देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा
रामक्षयं विदित्वा ते सर्व एव समागताः 18
ते राममभिवाद्याहुः सर्व एव समागताः
तवानुगमने राजन्संप्राप्ताः स्म महायशः 19
यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषर्षभ
यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः 20
एवं तेषा वचः श्रुत्वा ऋक्षवानररक्षसाम्
विभीषणमथोवाच मधुरं श्लक्ष्णया गिरा 21
यावत्प्रजा धरिष्यन्ति तावत्त्वं वै विभीषण
राक्षसेन्द्र महावीर्य लङ्कास्थः स्वं धरिष्यसि 22
प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि 23
तमेवमुक्त्वा काकुस्थो हनूमन्तमथाब्रवीत्
जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय 24
मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर
तावत्त्वं धारयन्प्राणान्प्रतिज्ञामनुपालय 25
तथैवमुक्त्वा काकुत्स्थः सर्वांस्तान्नृक्षवानरान्
मया सार्धं प्रयातेति तदा तान्राघवोऽब्रवीत् 26
इति श्रीरामायणे उत्तरकाण्डे अष्टनवतितमः सर्गः 98

7-99
प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः
रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् 1
अग्निहोत्रं व्रजत्वग्रे सर्पिर्ज्वलितपावकम्
वाजपेयातपत्रं च शोभयानं महापथम् 2
ततो वसिष्ठस्तेजस्वी सर्वं निरवशेषतः
चकार विधिवद्धर्म्यं महाप्रस्थानिकं विधिम् 3
ततः क्षौमाम्बरधरो ब्रह्म चावर्तयन्परम्
कुशान्गृहीत्वा पाणिभ्यां प्रसज्य प्रययावथ 4
अव्याहरन्क्वचित्किंचिन्निश्चेष्टो निःसुखः पथि
निर्जगाम गृहात्तस्माद्दीप्यमानो यथांशुमान् 5
रामस्य पार्श्वे सव्ये तु पद्मा श्रीः सुसमाहिता
दक्षिणे ह्रीर्विशालाक्षी व्यवसायस्तथाग्रतः6
शरा नानाविधाश्चापि धनुरायतविग्रहम्
अनुव्रजन्ति काकुत्स्थं सर्वे पुरुषविग्रहाः 7
वेदा ब्राह्मणरूपेण सावित्री सर्वरक्षिणी
ॐकारोऽथ वषट्कारः सर्वे राममनुव्रताः 8
ऋषयश्च महात्मानः सर्व एव महीसुराः
अन्वगच्छन्त काकुत्स्थं स्वर्गद्वारमुपागतम् 9
तं यान्तमनुयान्ति स्म अन्तःपुरचराः स्त्रियः
सवृद्धबालदासीकाः सवर्षवरकिंकराः 10
सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ 11
रामव्रतमुपागम्य राघवं समनुव्रताः
ततो विप्रा महात्मानः साग्निहोत्राः समाहिताः
सपुत्रदाराः काकुत्स्थमन्वगच्छन्महामतिम् 12
मन्त्रिणो भृत्यवर्गाश्च सपुत्राः सहबान्धवाः
सानुगा राघवं सर्वे अन्वगच्छन्प्रहृष्टवत् 13
ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः
अनुजग्मुः प्रगच्छन्तं राघवं गुणरञ्जिताः 14
स्नातं प्रमुदितं सर्वं हृष्टपुष्टमनुत्तमम्
दृप्तं किलिकिलाशब्दैः सर्वं राममनुव्रतम् 15
न तत्र कश्चिद्दीनोऽभूद्व्रीडितो वापि दुःखितः
हृष्टं प्रमुदितं सर्वं बभूव परमाद्भुतम् 16
द्र ष्टुकामोऽथ निर्याणं राज्ञो जानपदो जनः
संप्राप्तः सोऽपि दृष्ट्वैव सह सर्वैरनुव्रतः 17
ऋक्षवानररक्षांसि जनाश्च पुरवासिनः
अगच्छन्परया भक्त्या पृष्ठतः सुसमाहिताः 18
इति श्रीरामायणे उत्तरकाण्डे नवनवतितमः सर्गः 99

7-100
अध्यर्धयोजनं गत्वा नदीं पश्चान्मुखाश्रिताम्
सरयूं पुण्यसलिलां ददर्श रघुनन्दनः 1
अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः
सर्वैः परिवृतो देवैरृषिभिश्च महात्मभिः 2
आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः
विमानशतकोटीभिर्दिव्याभिरभिसंवृतः 3
पपात पुष्पवृष्टिश्च वायुमुक्ता महौघवत् 4
तस्मिंस्तूर्यशताकीर्णे गन्धर्वाप्सरसंकुले
सरयूसलिलं रामः पद्भ्यां समुपचक्रमे 5
ततः पितामहो वाणीमन्तरिक्षादभाषत
आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तोऽसि राघव6
भ्रातृभिः सह देवाभैः प्रविशस्व स्वकां तनुम्
वैष्णवीं तां महातेजस्तदाकाशं सनातनम् 7
त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते
ऋते मायां विशालाक्ष तव पूर्वपरिग्रहाम् 8
त्वमचिन्त्यं महद्भूतमक्षयं सर्वसंग्रहम्
यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम् 9
पितामहवचः श्रुत्वा विनिश्चित्य महामतिः
विवेश वैष्णवं तेजः सशरीरः सहानुजः 10
ततो विष्णुगतं देवं पूजयन्ति स्म देवताः
साध्या मरुद्गणाश्चैव सेन्द्रा ः! साग्निपुरोगमाः 11
ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश्च याः
सुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः 12
सर्वं हृष्टं प्रमुदितं सर्वं पूर्णमनोरथम्
साधु साध्विति तत्सर्वं त्रिदिवं गतकल्मषम् 13
अथ विष्णुर्महातेजाः पितामहमुवाच ह
एषां लोकाञ्जनौघानां दातुमर्हसि सुव्रत 14
इमे हि सर्वे स्नेहान्मामनुयाता मनस्विनः
भक्ता भाजयितव्याश्च त्यक्तात्मानश्च मत्कृते 15
तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः
लोकान्सान्तानिकान्नाम यास्यन्तीमे समागताः 16
यच्च तिर्यग्गतं किंचिद्रा ममेवानुचिन्तयत्
प्राणांस्त्यक्ष्यति भक्त्या वै संताने तु निवत्स्यति
सर्वैरेव गुणैर्युक्ते ब्रह्मलोकादनन्तरे 17
वानराश्च स्वकां योनिमृक्षाश्चैव तथा ययुः 18
येभ्यो विनिःसृता ये ये सुरादिभ्यः सुसंभवाः
ऋषिभ्यो नागयक्षेभ्यस्तांस्तानेव प्रपेदिरे 19
तथोक्तवति देवेशे गोप्रतारमुपागताः
भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः 20
अवगाह्य जलं यो यः प्राणी ह्यासीत्प्रहृष्टवत्
मानुषं देहमुत्सृज्य विमानं सोऽध्यरोहत 21
तिर्यग्योनिगताश्चापि संप्राप्ताः सरयूजलम्
दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन् 22
गत्वा तु सरयूतोयं स्थावराणि चराणि च
प्राप्य तत्तोयविक्लेदं देवलोकमुपागमन् 23
तस्मिन् येऽपि समापन्ना ऋक्षवानरराक्षसाः
तेऽपि स्वर्गं प्रविविशुर्देहान् निक्षिप्य चाम्भसि 24
ततः समागतान् सर्वान् स्थाप्य लोकगुरुर्दिवि
हृष्टैः प्रमुदितैर्देवैर्जगाम त्रिदिवं महत् 25
इति श्रीरामायणे उत्तरकाण्डे शततमः सर्गः 100

एकादशाधिकशततमः सर्गः
एतावदेतदाख्यानं सोत्तरं ब्रह्मपूजितम्
रामायणमिति ख्यातं मुख्यं वाल्मीकिना कृतम् 1
ततः प्रतिष्ठितो विष्णुः स्वर्गलोके यथा पुरा
येन व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम् 2
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः
नित्यं शृण्वन्ति संहृष्टाः काव्यं रामायणं दिवि 3
इदमाख्यानमायुष्यं सौभाग्यं पापनाशनम्
रामायणं वेदसमं श्राद्धेषु श्रावयेद्बुधः 4
अपुत्रो लभते पुत्रमधनो लभते धनम्
सर्वपापैः प्रमुच्येत पादमप्यस्य यः पठेत् 5
पापान्यपि च यः कुर्यादहन्यहनि मानवः
पठत्येकमपि श्लोकं पापात्स परिमुच्यते 6
वाचकाय च दातव्युं वस्त्रं धेनुहिरण्यकम्
वाचके परितुष्टे तु तुष्टाः स्युः सर्वदेवताः 7
एतदाख्यानमायुष्यं पठन् रामयणं नरः
सपुत्रपौत्रो लोकेऽस्मिन्प्रेत्य चेह महीयते 8
रामायणं गोविसर्गे मध्याह्ने वा समाहितः
सायाह्ने वापराह्ने च वाचयन् नावसीदति9
अयोध्यापि पुरी रम्या शून्या वर्षगणान् बहून्
ऋषभं प्राप्य राजानं निवासमुपयास्यति 10
एतदाख्यानमायुष्यं सभविष्यं सहोत्तरम्
कृतवान् प्रचेतसः पुत्रस्तद्ब्रह्माप्यन्वमन्यत 11
अश्वमेधसहस्रस्य वाजपेयायुतस्य च
लभते श्रवणादेव सर्गस्यैकस्य मानवः 12
प्रयागादीनि तीर्थानि गङ्गाद्याः सरितस्तथा
नैमिषादीन्यरण्यानि कुरुक्षेत्रादिकान्यपि 13
गतानि तेन लोकेऽस्मिन् येन रामायणं श्रुतम्
हेमभारं कुरुक्षेत्रे ग्रस्ते भानौ प्रयच्छति 14
यश्च रामायणं लोके शृणोति सदृशावुभौ
सम्यक्श्रद्धासमायुक्तः शृणुते राघवीं कथा 15
सर्वपापात् प्रमुच्येत विष्णुलोकं स गच्छति
आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् 16
यः शृणोति सदा भक्त्या स गच्छेद्वैष्णवीं तनुम्
पुत्रदाराश्च वर्धन्ते सम्पदः संततिस्तथा 17
सत्वमेतद् विदित्वा तु श्रोतव्यं नियतात्मभिः
गायत्र्! याश्च स्वरूपं तद्रा मायणमनुत्तमम् 18
यः पठेच्छृणुयान्नित्यं चरितं राघवस्य ह
भक्त्या निष्कल्मषो भूत्वा दीर्घमायुरवाप्नुयात् 19
चिन्तयेद् राघवं नित्यं श्रेयः प्राप्तुं य इच्छति
श्रावयेदिदमाख्यानं ब्राह्मणेभ्यो दिने दिने 20
यस्त्विदं रघुनाथस्य चरितं सकलं पठेत्
सोऽसुक्षये विष्णुलोकं गच्छत्येव न संशयः 21
पिता पितामहस्तस्य तथैव प्रपितामहः
तत्पिता तत्पिता चैव विष्णुं यान्ति न संशयः 22
चतुर्वर्गप्रदं नित्यं चरितं राघवस्य तु
तस्माद्यत्नवता नित्यं श्रोतव्यं परमं सदा 23
शृण्वन् रामायणं भक्त्या यः पादं पदमेव वा
स याति ब्राह्मणः स्थानं ब्रह्मणा पूज्यते सदा 24
एतमेतत् पुरावृत्तमाख्यानं भद्र मस्तु वः
प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् 25
श्रीमद्रामायणे उत्तरकाण्डे एकादशाधिकशततमः सर्गः 111

समाप्तं उत्तरकाण्डम्