Skip to content

Advocatetanmoy Law Library

Research & Library Database

Yuddha Gita (1st Vol): The First Question of Human Civilization

Search

  • Genesis-1 (Bereshit-1) — Torah Reading: Bereshit Bara Elohim – The Creation of the World
  • An Introduction to the Rashtriya Swayamsevak Sangh
  • Swami Pranabananda and the Making of Shyama Prasad Mukherjee’s Early Political Outlook
  • 18th Lok Sabha Election 2024 in West Bengal: Party Position and Elected Members
  • Sarvarthapedia: The Knowledge Universe of Civilization
  • Dakshineswar Bhabatarini Kali: Three Kali Idols, Rani Rashmoni, and Temple History
  • Political Evolution of Bengal (1300–2000): A 700-Year History of State, Society and Power
  • Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System
  • West Bengal Govt Budget Statement In Bengali (2026-2027) by Swapan Dasgupta
  • Encyclopedia of Physical Measurement (3-Volume)
Primary Menu
  • News
    • Editorial
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • JudgmentSupreme Court
  • Podcast
  • Legal Brief
    • Legal Eagal
  • HLJLaw Digests
    • Supreme Court Case Notes
    • Daily Digest
  • SarvarthapediaKnowledgebase
    • Sarvarthapedia (Twelve Core Areas): Macro Structure
    • Systemic-and-systematic
    • Volume One
    • Volume Two
    • Volume Three
    • Volume Four
    • Volume Five
    • Volume Six
  • Subjects
    • Knowledge Graph
    • Glossary
  • Indian Law
  • EncyclopediaCollection
Home » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » Vedic Sanskrit Culture » Sahitya Darpan: Viswanath Kaviraja
  • Vedic Sanskrit Culture

Sahitya Darpan: Viswanath Kaviraja

advtanmoy 19/01/2020

© Advocatetanmoy Law Library

  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on Telegram (Opens in new window) Telegram
Viswamithra

विश्वनाथ कविराज साहित्यदर्पण

प्रथमः परिच्छेदः

ग्रन्थारम्भे निर्विन्घेन प्रारिप्सितपरिसमाप्तिकामो वाङ्भयाधिकृततया वाग्देवतायाः सांमुख्यमाधत्ते

शरदिन्दुसुन्दररुचिश्चेतसि सा मे गिरं देवी ।
अपहृत्य तमः संततमर्थानखिलान्प्रकाशयतु ॥11 ॥

अस्य ग्रन्थस्य काव्याङ्गतया काव्यफलैरेव फलवत्त्वमिति काव्यफलान्याह

चतुर्वर्गफलप्राप्तिः सुखादल्पधियामपि ।
काव्यादेव यतस्तेन तत्स्वरूपं निरूप्यते ॥12 ॥

चतुर्वर्गफलप्राप्तिहि कोव्यतो “रामादिवत्प्रवतितव्यं न रावणादिवत्” इत्यादिः कृत्याकृत्यप्रवृत्तिनिवृत्त्युपदेशद्वारेण सुप्रतीतैव ।
उक्तं च (भामहेन)
“धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ।
करोति कीर्तिं प्रीतिं च साधुकाव्यनिषेवणम्” ॥
इति ।


किञ्च काव्याद्धर्मप्राप्तिर्भगवन्नारायणचरणारविन्दस्तवादिना, “एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातः स्वर्गे लोके कामधुग्भवति” इत्यादिवेदवाक्येभ्यश्च सुप्रसिद्धैव ।
अर्थप्राप्तिश्च प्रत्यक्षसिद्धा ।
कामप्राप्तिश्चार्थद्वारैव ।
मोक्षप्राप्तिश्चैतज्जन्यधर्मफलाननुसंधानात्, मोक्षोपयोगिवाक्ये व्युत्पत्त्याधायकत्वाच्च ।
चतुर्वर्गप्राप्तिर्हि वेदशास्त्रेभ्यो नीरसतया दुःखादेव परिणतबुद्धीनामेव जायते ।
परमानन्दसदोहजनकतया सुखादेव सुकुमारबुद्धीनामपि पुनः काव्यादेव ।
ननु तहि परिणतबुद्धिभिः सत्सु वेदशास्त्रेषु किमिति काव्ये यत्नः करणीय इत्यपि न वक्तव्यम् ।
कटुकौषधोपशमनीयस्य रोगस्य सितशर्करोपशमनीयत्वे कस्य वा रोगिणः सितशर्कराप्रवृत्तिः साधीयसी न स्यात्? किञ्च काव्यस्योपादेयत्वमग्निपुराणेऽप्युक्तम्
“नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा ।
कवित्वं दुर्लभं तत्र शक्तिस्तत्र सुदुर्लभा” ॥
इति ।
“त्रिवर्गसाधनं नाट्यम्” इति च ।
विष्णुपुराणेऽपि
“काव्यालापाश्च ये केचिद्रीतकान्यखिलानि च ।
शब्दमूतिधरस्यैते विष्णोरंशा महात्मनः” ॥
इति ।
तेन हेतुना तस्य काव्यस्य स्वरूपं निरूप्यते ।
एतेनाभिधेयं च प्रदर्शितम् ।
तत्किस्वरूपं तावत्काव्यमित्यपेक्षायां कश्चिदाह
“तददोषौ शब्दार्थौ सगुणावनवालंकृती पुनः क्वपि” इति ।
एतच्चिन्त्यम् ।
तथाहि
यदि दोषरहितस्यैव काव्यत्वाङ्गीकारस्तदा
“न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः ।
धिग्धिक्छक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः” ॥
इति ।
अस्य शलोकस्य विधेयाविमर्शदोषदुष्टतया काव्यत्वं न स्यात् ।
प्रत्युत ध्वनि(स) त्वेनोत्तमकाव्यतास्याङ्गीकृता, तस्मादव्याप्तिर्लक्षणदोषः ।
ननु कश्चिदेवांशोऽत्र दुष्टो न पुनः सर्वोऽपीति चेत्, तर्हि यत्रांशे दोषः सोऽकाव्यत्वप्रयोजकः, यत्र ध्वनिः स उत्तमकाव्यत्वप्रयोजक इत्यंशाभ्यामुभयत आकृष्यमाणमिदं काव्यमकाव्यं वा किमपि न स्यात् ।
न च कंचिदेवांशं काव्यस्य दूषयन्तः श्रतिदुष्टादयो दोषाः, किं तर्हि सर्वमेव काव्यम् ।
तथाहि
काव्यात्मभूतस्य रसस्यानपकर्षकत्वे तेषां दोषत्वमपि नाङ्गीक्रियते ।
अन्यथा नित्यदोषानित्यदोषत्वव्यवस्थापि न स्यात् ।
यदुक्तं धवनिकृता
“श्रुतिदुष्टादयो दोषा अनित्या ये च दर्शिताः ।
ध्वन्यात्मन्येव शृङ्गारे ते हेया इत्युदाहृताः” ॥
इति ।
किञ्च एवं काव्यं प्रविरलविषयं निर्विषयं वा स्यात्, सर्वथा निर्देषस्यैकान्तमसंभवात् ।
नन्वीषदर्थे नञः प्रयोग इति चेत्तर्हि “ईषद्दोषौ शब्दार्थौ काव्यम्” इत्युक्ते निर्देषयोः काव्यत्वं न स्यात् ।
सति संभवे “ईषद्दोषौ” इति चेत्, एतदपि काव्यलक्षणो न वाच्यम् , रत्नादिलक्षणो कीटानुवेधादिपरिहारवत् ।
नही कीटानुवेधादयो रत्नस्य रत्नत्वं व्याहन्तुमीशाः किन्तूपादेयतारतम्यमेव कर्तुम् ।
तद्वदत्र श्रुतिदुष्टादयोऽपि काव्यस्य ।
उक्तं च
“कीटानुविद्धरत्नादिसाधारण्येन काव्यता ।
दुष्टेष्वपि मता यत्र रसाद्यनुगमः स्फुटः” ॥
इति ।

किञ्च ।
शब्दार्थयोः सगुणत्वविशेषणमुपपन्नम् ।
गुणानां रसैकधर्मत्वस्य “ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः” इत्यादिना तेनैव प्रतिपादितत्वात् ।
रसाभिव्यञ्जकत्वेनोपचारत उपपद्यत इति चेत्? तथाप्ययुक्तम् ।
तथाहि
तयोः काव्यस्वरूपेणाभिमतयोः शब्दार्थयो रसोऽस्ति, न वा ? नास्ति चेत्, गुणवत्त्वमपि नास्ति, गुणानां तदन्वयव्यतिरेकानुविधायित्वात् ।
अस्ति चेत्? कथं नोक्तं रसवन्ताविति विशेषणम् ।
गुणवत्त्वान्यथानुपपत्त्यैतल्लभ्यत इति चेत्? तर्हि सरसावित्येव वक्तुं युक्तम् , न सगुणाविति ।
नहि प्राणिमन्तो देशाइति केनाप्युच्यते ।
ननु “शब्दार्थौ सगुणौ” इत्यनेनगुणाभिव्यञ्जकौ शब्दार्थौ काव्ये प्रयोज्यावित्यभिप्राय इति चेत्? न, गुणाभिव्यञ्जकशब्दार्थवत्त्वस्य काव्ये उत्कषमात्राधायकत्वम् , न तु स्वरूपाधायकत्वम् ।
उक्तं हि
“काव्यस्य शब्दार्थौ शरीरम् , रसादिश्चात्मा, गुणाः शौर्यादिवत्, दोषाः काणत्वादिवत्, रीतयोऽवयवसंस्थानविशेषवत्, अलङ्काराः कटककुण्डलादिवत्” इति ।
एतेन “अनलङ्कृती पुनः क्वापि” इति यदुक्तम्, तदपि परास्तम् ।
अस्यार्थः सर्वत्र सालङ्कारौ क्वचित्त्वस्फुटालङ्कारावपि शब्दार्थौ काव्यमिति ।
तत्र सालङ्कारशब्दार्थयोरपि काव्ये उत्कर्षाधायकत्वात् ।
एतेन “वक्रोक्तिः काव्यजीवितम्” इति वक्रोक्तिजीवितकारोक्तमपि परास्तम् ।
वक्रोक्तेरलङ्काररूपत्वात् ।
यर्च्च क्वचिदस्फुटालङ्कारत्वे उदाहृतम्
यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः ।
सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥
इति ।
एतच्चिन्त्यम् ।
अत्र हि विभावनाविशेषोक्तमूलस्य संदेहसङ्करालङ्कारस्यस्फुटत्वम् ।
एतेन
“अदोषं गुणवत्काव्यमलङ्कारैरलङ्कृतम् ।
रसान्वितं कविः कुर्वन् कीर्तिं प्रीतिं च विन्दति” ॥
इत्यादीनामपि काव्यलक्षणत्वमपास्तम् ।
यत्तु ध्वनिकारेणोक्तम्
“काव्यस्यात्मा ध्वनिः” इति तत्किं वस्त्वलङ्काररसादिलक्षणास्तिरूपो ध्वनिः काव्यस्यात्मा, उत रसादिरूपमात्रो वा ? नाद्यः,प्रहेलिकादावतिव्याप्तेः ।
द्वितीयश्चेदोमिति ब्रूमः ।
ननु यदि रसादिरूपमात्रो ध्वनिः काव्यस्यात्मा, तदा
अत्ता एत्थ णिमज्जै एत्थ अहं दिअसअं पलोएहि ।
मा पहिअ रत्तिअन्धिअ सेज्जाए मह णिमज्जहिसि ॥
इत्यादौ वस्तुमात्रस्य व्यङ्ग्यत्वे कथं काव्यव्यवहार इति चेत्? न,अत्रापि रसाभासवत्तैवेति ब्रूमः, अन्यथा “देवदत्तो ग्रामं याति” इति वाक्ये तद्भृत्यस्य तदनुसरणरूपव्यङ्ग्यावगतेरपि काव्यत्वं स्यात् ।
अस्त्विति चेत्? न, रसवत एव काव्यत्वाङ्गीकारात् ।
काव्यस्य प्रयोजनं हि रसास्वादसुखपिण्डदानद्वारा वेदशास्त्रविमुखानां सुकुमारमतीनां राजपुत्रादीनां विनेयानां “रामादिवत्प्रवर्तितव्यं न रावणादिवत्” इत्यादिकृकत्याकृत्यप्रवृत्तिनिवृत्त्युपदेश इति चिरन्तनैरप्युक्तत्वात् ।
तथा चाग्नेयपुराणोऽप्युक्तम्
“वाग्वैदग्ध्यप्रधानेऽपि रस एवात्र जीवितम्” इति ।
व्यक्तिविवेककारेणाप्युक्तम्
“काव्यस्यात्मनि अङ्गिनि, रसादिरूपे न कस्यचिद्विमतिः” इति ।
ध्वनिकारेणाप्युक्तम्
“नहि कवेरितवृत्तमात्रनिर्वाहेणात्मपदलाभः, इतिहासादेरेव तत्सिद्धेः” इत्यादि ।
ननु तर्हि प्रबन्धान्तर्वर्तिनां केषांचिन्नीरसानां पद्यानां काव्यत्वं न स्यादिति चेत्? न, रसवत्पद्यान्तर्गतनीरसपदानामिव पद्यरसेन, प्रबन्धरसेनेव तेषां रसवत्ताङ्गीकारात् ।
यत्तु नीरसेष्वपि गुणाभिव्यञ्जकवर्णसद्भावद्दोषाभावादलङ्कारसद्भावाच्च काव्यव्यवहारः स रसादिमत्काव्यबन्धसामायाद्रौण एव ।
यत्तु वामनेनोक्तम्
“रीतिरात्मा काव्यस्य” इति, तन्न॑ रीतेः संघटनाविशेषत्वात् ।
संघटनायाश्चावयवसंस्थानरूपत्वात्, आत्मनश्च तद्भिन्नत्वात् ।
यच्च ध्वनिकारेणोक्तम्
“अर्थः सहृदयश्लाघ्यः काव्यात्मा यो व्यवस्थितः ।
वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ” ॥
इति ।
अत्र वाच्यात्मत्वं “काव्यस्यात्माध्वनिः” इति स्ववचनविरोधादेवापास्तम् ।

तत्किं पुनः काव्यमित्युच्यते

वाक्यं रसात्मकं

रसस्वरूपं निरूपयिष्यामः ।
रस एवात्मा साररूपतया जीवनाधायको यस्य ।
तेन विना तस्य काव्यत्वानङ्गीकारात् ।
“रस्यते इति रसः” इति व्युत्पत्तियोगाद्भावतदाभासादयोऽपि गृह्यन्ते तत्र रसो यथा
शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् ।
विस्त्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण इसता बाला चिरं चुम्बिता ॥
अत्र हि संभोगश्र्टङ्गाराख्यो रसः ।
भावो यथा महापात्रराघवानन्दसान्धिविग्रहिकाणाम्
यस्यालीयत शल्कसीम्नि जलधिः पटष्ठे जगन्मण्डलं, दंष्ट्रायां धरणी, नखे दितिसुताधीशः, पदे रोदसी ।
क्रोधे क्षअगणः, शरे दशमुखः, पाणौ प्रलम्बासुरो, ध्याने विश्वमसावधार्मिककुलं, कस्मैचिदस्मै नमः ॥
अत्र भगवद्विषयारतिर्भावः ।
रसाभासो यथा
मधु द्विरेफः कुसुमैकणत्रे पपौ प्रियां स्वामनुवर्तमानः ।
शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥
अत्र स्म्बोगशृङ्गारस्य तिर्यग्विषयत्वाद्रसाभासः ।
एवमन्यत् ।
दोषाः पुनः काव्ये किंस्वरूपा ? इत्युच्यन्ते

दोषास्तस्यापकर्षकाः ।

श्रुतिदुष्टापुष्टार्थत्वादयः काणत्वखञ्जत्वादय इव, शब्दार्थद्वारेण देहद्वारेणोव, व्यभिचारिभावादेः स्वशब्दवाच्यत्वादयो मूर्खत्वादय इव, साक्षात्काव्यस्यात्मभूतं रसमपकर्षयन्तः काव्यस्यापकर्षका इत्युच्यन्ते ।
एषां विशेषोदाहरणानि वक्षयामःगुणादयः किस्वरूपा इत्युच्यन्ते

उत्कर्षहेतवः प्रोक्ता गुणालङ्काररीतयः ॥13 ॥

गुणाः शौर्यादिवत्, अलङ्काराः कटककुण्डलादिवत्, रीतयोऽवयवसंस्थानविशेषवत्, देहद्वारेणोव शब्दार्थद्वारेण तस्यैव काव्यस्यात्मभूतं रसमुत्कर्षयन्तः काव्यस्योत्कर्षका इत्युच्यन्ते ।
इह यद्यपि गुणानां रसधर्मत्वं तथापिगुणशब्दोऽत्र गुणाभिव्यञ्जकशब्दार्थयोरुपचर्यते ।
अतश्च “गुणाभिञ्जकाः शब्दा रसस्योत्कर्षकाः” इत्युक्तं भवतीति प्रागेवोक्तम् ।
एषामपि विशेषोदाहरणानि वक्षयामः ।

इति श्रीमन्नारायणचरणारबिन्धमधुव्रत साहत्यार्णवकर्णधारध्वनिप्रस्थापनपरमाचार्यकविसूक्तिरत्नाकराष्टादशभाषावारविलासिनीभुजङ्गसान्धिविग्रहिकमहापात्रश्रीविश्वनाथकविराजकृतौ साहित्यदर्पणो काव्यस्वरूपनिरूपणो नाम प्रथमः परिच्छेदः ।


द्वितीयः परिच्छेदः

वाक्यस्वरूपमाह

वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः ।

योग्यता पदार्थानां परस्परसंबन्धे बाधाभावः ।
पदोच्चयस्यैतदभावेऽपि वाक्यत्वे “वह्निना सिञ्चिति” इत्याद्यपि वाक्यं स्यात् ।
आकाङ्क्षा प्रतीतिपर्यवसानविरहः ।
स च श्रोतुर्जिज्ञासारूपः ।
निराकाङ्क्षस्य वाक्यत्वे “गौरश्वः पुरुषो इस्ती” इत्यादीनामप वाक्यत्वं स्यात् ।
आसत्तिर्बुद्ध्यविच्छेदः ।
बुद्धिविच्छेदेऽपि वाक्यत्वे इदानीमुच्चारितस्य देवदत्तशब्दस्य दिनात्नरो च्चारितेन गच्छतीति पदेन सङ्गतिः स्यात् ।
अत्राकाङ्क्षायोग्यतयोरात्मार्थधर्मत्वेऽपि पदोच्चयधर्मत्वमपचारात् ।

वाक्योच्चयो महावाक्यम्

योग्यताकाङ्क्षासत्तियुक्त इत्येव ।

इत्थं वाक्यं द्विधा मतम् ॥ 2.1 ॥

इत्थमिति वाक्यत्वेन महावाक्यत्वेन च ।
उक्तं च तन्त्रवार्तिके
“स्वार्थबोधसमाप्तानामङ्गाङ्गित्वव्यपेक्षया ।
वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते” ॥
इति ।
तत्र वाक्यं यथा”शून्यं वासगृहम्ऽइत्यादि (22 पृ.) ।
महावाक्यं यथा
रामायणमहाभारतरघुवंशादि ।
पदोच्चयो वाक्यमित्युक्तम् ।
तत्र किं पदलक्षणमित्यत आह

वर्णाः पदं प्रयोगार्हानन्वितेकार्थबोधकाः ।

यथाघट. ।
प्रयोगार्हेति प्रातिपदिकस्य व्यवच्छेदः ।
अनन्वितेति वाक्यमहावाक्ययोः ।
एकेति साकाङ्क्षानेकपदवाक्यानाम् ।
अर्थबोधका इति कचटतपेत्यादीनाम् ।
वर्णा इति बहुवचनमविवक्षितम् ।

अर्थो वाच्यश्व लक्ष्यश्च व्यङ्ग्यश्चेति त्रिधा मतः ॥ 2.2 ॥

एषां स्वरूपमाह

वाच्योर्ऽथोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः ।
व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्त्रः शब्दस्य शक्तयः ॥ 2.3 ॥

ता अभिधाद्याः ।

तत्र संकेतितार्थस्य बोधनादग्रिमाभिधा ।

उत्तमवृद्धेन मध्यमवृद्धमुद्दिश्य “गामानय” इत्युक्ते तं गवानयनप्रवृत्तमुपलभ्य बालोऽस्य वाक्यस्य “सास्नादिमत्पिण्डानयनमर्थः” इति प्रथमं प्रतिपद्यते, अनन्तरं च “गां बधान” “अश्वमानय” इत्यादावावापोद्वापाभ्यां गोशब्दस्य “सास्नादिमानर्थः” आनयनपदस्य च “आहरणमर्थः” इति संकेतमवधारयति ।
क्वचिच्च प्रसीद्धपदसमभिव्याहरात्, यथा
“इह प्रभिन्नकमलोदरे मधूनि मधुकरः पिबति” इत्यत्र ।
क्वचिदाप्तोपदेशात्, यथा
“अयमश्वशब्दवाच्यः” इत्यत्र ।
तं च सङ्केतितमर्थं बोधयन्ती शब्दस्य शक्त्यन्तरानन्तरिता शक्तिरभिधा नाम ।

सङ्केतो गृह्यते जातौ गुणद्रव्यक्रियासु च ॥ 2.4 ॥

जातिर्गोपिण्डादिषु गोत्वादिका ।
गुणो विशेषाधानहेतुः सिद्धो वस्तुधर्मः ।
शुक्लादयो हि गवादिरं सजातीयेभ्यः कृष्णगवादिभ्यो व्यावर्तयन्ति ।
द्रव्यशब्दा एकव्यक्तिवाचिनो हरिहरडित्थडवित्थादयः ।
क्रियाः साध्यरूपा वस्तुधर्माः पाकादयः ।
एषु हि अधिश्रयणावश्रयणान्तादिपूर्वापरीभूतो व्यापारकलापः पाकादिशब्दवाच्यः ।
एष्वेव हि व्यक्तेरुपाधिषु संकेतो गृह्यते, न व्यक्तौः आनन्त्यव्यभिचारदोषापातात् ।
अथ लक्षणा

मुख्यार्थबाधे तद्युक्तो ययान्योर्ऽथः प्रतीयते ।
रूढेः प्रयोजनाद्वासौ लक्षणा शक्तिरर्पिता ॥ 2.5 ॥
“कलिङ्गः साहसिकः” इत्यादौ कलिङ्गादिशब्दो देशविशेषादिरूपे स्वार्थे ।
ञसंभवन् यया शब्दशक्त्या स्वसंयुक्तान् पुरुषादीन् प्रत्याययति, यया च “गङ्गायां घोषः” इत्यादौ गङ्गादिशब्दो जलमयादिरूपार्थवाचकत्वात्प्रकृतेऽसंभवन् स्वस्य सामीप्यादिसंबन्धसंबन्धिनं तटादिं बोधयति, सा शब्दस्यार्पिता स्वाभविकेतरा ईश्वरानुद्भाविता वा शक्तिर्लक्षणा नाम ।
पूर्वत्र हेतू रूढिः प्रसिद्धिरेव ।
उत्तरत्र “गङ्गातटे घोषः” इति प्रतिपादनालभ्यस्य शीतत्वपावनत्वातिशयस्य बोधनरूपं प्रयोजनम् ।
हेतुं विनापि यस्य कस्यचित्संबन्धिनो लक्षणोऽतिप्रसङ्गः स्यात्, इत्युक्तम्
“रूढेः प्रयोजनाद्वासौ” इति ।
केचित्तु “कर्मणि कुशलः” इति रूढावुदाहरन्ति ।
तेषामयमभिप्रायः
कुशांल्लातीति व्युत्पत्तिलभ्यः कुशग्राहिरूपो मुख्योर्ऽथः प्रकृतेऽसंभवन् विवेचकत्वादिसाधर्म्यसम्बन्धसम्बन्धिनं दक्षरूपमर्थं बोधयति ।
तदन्ये न मन्यन्ते ।
कुशग्राहिरूपार्थस्य व्युत्पत्तिलभ्यत्वेऽपि दक्षरूपस्यैव मुख्यार्थत्वात् ।
अन्यद्धि शब्दानां व्युत्पत्तिनिमित्तमन्यच्च प्रवृत्तिनिमित्तम् ।
व्युत्पत्तिलभ्यस्य मुख्यार्थत्वे “गौः शेते” इत्यत्रापि लक्षणा स्यात् ।
“गमेर्डेः” (उणादि2६7) इति गमधतोर्डेप्रत्ययेन व्युत्पादितस्य गोशब्दस्य शयनकाले प्रयोगात् ।
तद्भेदानाह

मुख्यार्थस्येतराक्षेपो वाक्यार्थेऽन्वयसिद्धये ।
स्यादात्मनोऽप्युपादानादेषोपादानलक्षणा ॥ 2.६ ॥

रूढावुपादानलक्षणा यथा
“श्वेतो धावति” ।
प्रयोजने यथा
“कुन्ताः प्रविशन्ति” ।
अनयोर्हि श्वेतादिभिः कुन्तादिभिश्चाचेतनतया केवलैर्धावनप्रवेशनक्रिययोः कर्तृतयान्वयमलभमानैरेतत्सिद्धये आत्मसम्बन्धिनोऽश्वादयः पुरुषाद यश्चाक्षिप्यन्ते ।
पूर्वत्र प्रयोजनाभावाद्रूढिः, उत्तरत्र तु कुन्तादीनामतिगहनत्वं प्रयोजनम् ।
अत्र च मुख्यार्थस्यात्मनोऽप्युपादानम् ।
लक्षणलक्षणायां तु परस्यैवोपलक्षणमित्यनयोर्भेदः ।
इयमेवाजहत्स्वार्थेत्युच्यते ।

अर्पणं स्वस्य वाक्यार्थे परस्यान्वयसिद्धये ।
उपलक्षणहेतुत्वादेषा लक्षणलक्षणा ॥ 2.7 ॥

रूढिप्रयोजनयोर्लक्षणलक्षणा यथा
“कलिङ्गः साहसिकः” “गङ्गायां घोषः” इति च ।
अनयोर्हि पुरुषतटयोर्वाक्यार्थेऽन्वयसिद्धये कलिङ्गगङ्गाशब्दावात्मानमर्पयतः ।
यथा वा
“अपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम् ।
विदधदीदृशमेव सदा सखे ! सुखितमास्स्व ततः शरदां शतम्” ॥
अत्रापकारादीनां वाक्यार्थेऽन्वयसिद्धये उपकृतादयः शब्दा आत्मानमर्पयन्ति ।
अपकारिणं प्रत्युपकारादिप्रतिपादनान्मुख्यार्थबाधो वैपरीत्यलक्षणः सम्बन्धः, फलमप्यपकारातिशयः ।
इयमेव जहत्स्वार्थेत्युच्यते ।

आरोपाध्यवसानाभ्यां प्रत्येकं ता अपि द्विधा ।

ताः पूर्वोक्ताश्चतुर्भेदलक्षणाः ।

विषयस्यानिगीर्णस्यान्यतादात्म्यप्रतीतिकृत ॥ 2.8 ॥

सारोपा स्यान्निगीर्णस्य मता साध्यवसानिका ।

विषयिणा अनिगीर्णस्य विषयस्य तेनैव सह तादात्म्यप्रतीतिकृत्सारोपा ।
इयमेव रूपकालङ्कारस्य बीजम् ।
रूढावुपादानलक्षणा सारोपा यथा
“अश्वः श्वेतो धावति” ।
अत्र हि श्वेतगुणवानश्वोऽनिगीर्णस्वरूपः स्वसमवेतगुणतादात्म्येन प्रतीयते ।
प्रयोजने यथा
“एते कुन्ताः प्रविशन्ति” ।
अत्र सर्वनाम्ना कुन्तधारिपुरुषनिर्देशात् ।
रूढौ लक्षणलक्षणा सारेपा यथा
“कलिङ्गः पुरुषो युध्यते” ।
अत्र कलिङ्ग पुरुषयोराधाराधेयभावः सम्बन्धः ।
प्रयोजने यथा
“आयुर्घृतम्” ।
अत्रायुष्कारणमपि घृतं कार्यकारणभावसम्बन्धसम्बन्ध्यायुस्तादात्म्येन प्रतीयते ।
अन्यवैलक्षण्येनाव्यभिचारेणायुष्करत्वं प्रयोजनम् ।
यथा वा
राजकीये पुरुषे गच्छति “राजासौ गच्छति” इति ।
अत्र स्वस्वामिभावलक्षणः सम्बन्धः ।
यथा वा
अग्रमात्रेऽवयवभागे “हस्तोऽयम्” ।
अत्रावयवावयवि भावलक्षणसम्बन्धः ।
“ब्राह्मणोऽपि तक्षासौ” ।
अत्र तात्कर्म्यलक्षणः ।
इन्द्रार्थासु स्थूणासु “अमी इन्द्राः” ।
अत्र तादर्थ्यलक्षणः सम्बन्धः ।
एवमन्यत्रापि ।
निगीर्णस्य पुनविषयस्यान्यतादात्म्यप्रतीतिकृत्साध्यवसाना ।
अस्याश्चतुर्षु भेदेषु पूर्वोदाहरणान्येव ।
तदेवमष्टप्रकारा लक्षणा ।

सादृश्येतरसंबन्धाः शुद्धास्ताः सकला अपि ॥ 2.9 ॥

सादृश्यात्तु मता गौण्यस्तेन षोडश भेदिताः ।

ताः पूर्वोक्ता अष्टभेदा लक्षणाः ।
सादृश्येतरसंबन्धाः कार्यकारणभावादयः ।
अत्र शुद्धानां पूर्वोदाहरणान्येव ।
रूढावुपादानलक्षणा सारेपा गौणी यथा
एतानि तैलानि हेमन्ते सुखानि” ।
अत्र तैलशब्दस्तिलभवस्नेहरूपं मुख्यार्थमुपादायैव सार्षपादिषु स्नेहेषु वर्तते ।
प्रयोजने यथा
राजकुमारेषु तत्सदृशेषु च गच्छत्सु”एते राजकुमारा गच्छन्ति” ।
रूढावुपादानलक्षणा साध्यवसाना गौणी यथा
“तैलानि हेमन्ते सुखानि” ।
प्रयोजने यथा
“राजकुमारा गच्छन्ति” रूढौ लक्षणलक्षणा सारेपा गौणी यथा
“राजा गौडेन्द्रं कण्टकं शोधयति” ।
प्रयोजने यथा
“गौर्वाहीकः” रूढौ लक्षणलक्षणा साध्यवसाना गौणी यथा
“राजा कण्टकं शोधयति” ।
प्रयोजने यथागौर्जल्पति” ।
अत्र केचिदाहुःगौसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यन्ते ।
ते च गोशब्दस्य वाहीकार्थाभिधाने निमित्तीभवन्ति ।
तदयुक्तम्
गोशब्दस्यागृहीतसङ्केतं वाहीकार्थमभिधातुमशक्यत्वाद्गोशब्दार्थमात्रबोधनाच्च ।
अभिधाया विरतत्वाद्विरतायाश्च पुनरुत्थानाभावात् ।
अन्ये च पुनर्गौशब्देन वाहीकार्थो नाभिधीयते, किन्तु स्वार्थसहचारिगुणसाजात्येन वाहीकार्थगता गुणा एव लक्ष्यन्ते ।
तदप्यन्ये न मन्यन्ते ।
तथाहि
अत्र गोशब्दाद्वाहीकार्थः प्रतीयते, न वा ? आद्ये गोशब्दादेव वा ? लक्षिताद्वा गुणाद्? अविनाभावाद्वा ? तत्र, न प्रथमः, वाहीकार्थेऽस्यासङ्केतित्वात् ।
न द्वितीयः,
अविनाभावलभ्यस्यार्थस्य शाब्देऽन्वये प्रवेशासंभवात् ।
शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते ।
न द्वितीयः,
यदि हि गोशब्दाद्वाहीकार्थो न प्रतीयते, तदास्य वाहीकशब्दस्य च सामानाधिकरण्यमसमञ्जसं स्यात् ।
तस्मादत्र गोशब्दो मुख्ययावृत्त्या वाहीकशब्देन सहान्वयमलभमानोऽज्ञत्वादिसाधर्म्यसंबन्धाद्वाहीकार्थं लक्षयति ।
वाहीकस्याज्ञत्वाद्यतिशयबोधनं प्रयोजनम् ।
इयं च गुणयोगाद्रौणीत्युच्यते ।
पूर्वा तूपचारामिश्रणाच्छुद्धा ।
उपचारो हि नामात्यन्तं विशकलितयोः शब्दयोः सादृश्यातिशयमहिम्ना भेदप्रतीतिस्थगनमात्रम् ।
यथाअग्रिमाणवकयोः” ।
शुक्लपटयोस्तु नात्यन्तं भेदप्रतीतिः, तस्मादेवमादिषु शुद्धैव लक्षणा ।

व्यङ्ग्यस्य गूढागूढत्वाद्द्विधा स्युः फललक्षणाः ॥ 2.10 ॥

प्रयोजने या अष्टभेदा लक्षणा दशितास्ताः प्रयोजनरूपव्यङ्ग्यस्य गूढागूढतया प्रत्येकं द्विधा भूत्वा षोढश भेदाः ।
तत्र गूढः, काव्यार्थभावनापरिपक्वबुद्धिविभवमात्रवेद्यः ।
यथा
“उपकृतं बहु तत्र” इति ।
अगूढः, अतिस्फुटतया सर्वजनसंवेद्यः ।
यथा
उपदिशतिं कामिनीनां यौवनमद एव ललितानि” ॥
अत्र”उपदिशति” इत्यनेन “आविष्करोति” इति लक्ष्यते ।
आविष्कारतिशयश्चाभिधेयवत्स्फुट प्रतीयते ।

धर्मिधर्मगतत्वेन फलस्यैता अपि द्विधा ।

एता अनन्तरोक्ताः षोडशभेदा लक्षणाः फलस्य धर्मिगतत्वेन धर्मगतत्वेन च प्रत्येकं द्विधा भूत्वा द्वात्रिंशद्भेदाः ।
दिङ्भात्रं यथा
“स्त्रिग्धश्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः ।
कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव” ॥
अत्रात्यन्तदुःखसहिष्णुरूपे रामे धर्मिणि लक्ष्ये तस्यैवातिशयः फलम् ।
“गङ्गायां घोषः” इत्यत्र तटे शीतत्वपावनत्वरूपधर्मस्यातिशयः फलम् ।

तदेवं लक्षणाभेदाश्चत्वारिंशन्मता बुधैः ॥ 2.11 ॥

रूढावष्टौ फले द्वात्रिंशदिति चत्वारिशल्लक्षणाभेदाः ।
किञ्च

पदवाक्यगतत्वेन प्रत्येकं ता अपि द्विधा ।

ता अनन्तरोक्ताश्च त्वारिंशद्भेदाः ।
तत्र पदगतत्वे यथा
“गङ्गायां घोषः” ।
वाक्यगतत्वे यथा
“उपकृतं बहु तत्रऽइति ।
एवमशीतिप्रकारा लक्षणा ।
अथ व्यञ्जना

विरतास्वभिधाद्यासु ययार्ऽथो बोध्यते परः ॥ 2.12 ॥

सा वृत्तिर्व्यञ्जना नाम शब्दस्यार्थादिकस्य च ।

“शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः” इति नयेनाभिधालक्षणातात्पर्याख्यासु तिसृषु वृत्तिषु स्वं स्वमर्थं बोधयित्वोपक्षीणासु यथा अपरोऽन्योऽन्योर्ऽथो बोध्यते सा शब्दस्यार्थस्य प्रकृतिप्रत्ययादेश्च शक्तिर्व्यञ्जनध्वननगमनप्रत्यायनादिव्यपदेशविषया व्यञ्जना नाम ।
तत्र

अभिधालक्षणामूला शब्दस्य व्यञ्जना द्विधा ॥ 2.13 ॥

अभिधामूलामाह

अनेकार्थस्य शब्दस्य संयोगाद्यैर्नियन्त्रिते ।
एकत्रार्थेऽन्यधीहेतुर्व्यञ्जना साभिधाश्रया ॥ 2.14 ॥

आदिशब्दाद्विप्रयोगादयः ।
उक्तं हि
“संयोगो विप्रयोगश्च साहचर्यं विरोधिता ।
अर्थः प्रकारणं लिङ्गंशब्दस्यान्यस्य संनिधिः ॥
सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः ।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः” ॥
इति ।
“सशङ्ख्चक्रो हरिः” इति शङ्ख्चक्रयोगेन हरिशब्दो विष्णुमेवाभिधत्ते ।
“अशङ्खचक्रो हरिः” इति तद्वियोगेन तमेव ।
“भीमार्जुनौ” इति अर्जुनः पार्थः ।
“कर्णार्जुनौ” इति कर्णः सूतपुत्रः ।
“स्थाणुं वन्दे” इति स्थाणुः शिवः ।
“सर्वं जानाति देवः” इति देवो भवान् ।
“कुपितो मकरध्वजः” इति मकरध्वजः कामः ।
“देवः पुरारिः” इति पुरारिः शिवः ।
“मधुना मत्तः पिकः” इति मधुर्वसन्तः ।
“यातु वो दयितामुखम्” इति मुखं सांमुख्यम् ।
“विभाति गगने चन्द्रः, इति चन्द्रः शशी ।
“निशि चित्रभानुः” इति चित्रभानुर्वाह्निः ।
“भाति रथाङ्गम्” रथाङ्गम्” इति नपुंसकव्यक्त्या रथाङ्गं चक्रम् ।
स्वरस्तु वेद एव विशेषप्रतीतिकृन्न काव्य इति तस्य विषयो नोदाहृतः ।
इदं च केऽप्यसहमाना आहुः
स्वरोऽपि काक्कादिरूपः काव्ये विशेषप्रतीतिकृदेव ।
उदात्तादिरूपोऽपि मुनेः पाठोक्तदिशा शृङ्गारादिरसविशेषप्रतीतिकृदेव” इति एतद्विषये उदाहरणमुचितमेव इति, तन्न॑ तथाहि
स्वराः काक्कादयः उदात्तादयो वा व्यङ्ग्यरूपमेव विशेषं प्रत्यायन्ति, न खलु प्रकृतोक्तमनेकार्थशब्दस्यैकार्थनियन्त्रणरूपं विशेषम् ।
किञ्च यदि यत्र क्वचिदनेकार्थशब्दानां प्रकरणादिनियमाभावादनियन्त्रितयोरप्यर्थयोरनुरूपस्वरवशेनैकत्र नियमनं वाच्यं, तदा तथाविधस्थले श्लेषानङ्गीकारप्रसङ्गः॑ न च तथा, अत एवाहुः श्लेषनिरूपणप्रस्तावे
“काव्यमार्गे स्वरो न गण्यते” इतिच नयः, इत्यलमुपजीव्यानं मान्यानां व्याख्यानेषु कटाक्षनिक्षेपेण ।
आदिशब्दात्”एतावन्मात्रस्तनी” इत्यादौ हस्तादिचेष्टादिभिः स्तनादीनां कमलकोरकाद्याकारत्वम् ।
एवमेकस्मिन्नर्थेऽभिधया नियन्त्रिते या शब्दार्थस्यान्यार्थबुद्धिहेतुः शक्तिः साभिधामूला व्यञ्जना ।
यथा मम तातपादान महापात्रचतुर्दशभाषाविलासिनीभुजङ्गमहाकवीश्वरश्रीचन्द्रशेखरसंधिविग्रहिकाणाम्
“दुर्गालङ्घितविग्रहो मनसिजं संमीलयंस्तेजसा प्रोद्यद्राजकलो गृहीतगरिमा विष्वग्वृतो भोगिभिः ।
नक्षत्रेशकृ तेक्षणो गिरिगुरौ गाढां रुचिं धारयन् गामाक्रम्य विभूतिभूषिततनू राजत्युमावल्लभः” ॥
अत्र प्रकरणोनाभिधया उमावल्लभशब्दस्योमानाम्नीमहादेवीवल्लभभानुदेवनृपतिरूपेर्ऽथे नियन्त्रिते व्यञ्जनयैव गौरीवल्लभरूपोर्ऽथो बोध्यते ।
एवमन्यत् ।
लक्षणामूलामाह

लक्षणोपास्यते यस्य कृते तत्तु प्रयोजनम् ।
यया प्रत्याय्यते सा स्याद्व्यञ्जना लक्षणाश्रया ॥ 2.15 ॥

“गङ्गायां घोषः” इत्यादौ जलमयाद्यर्थबोधनादभिधायां तटाद्यर्थबोधनाच्च लक्षणायां विरतायां यया शीतत्वपावनत्वाद्यतिशयादिर्बोध्यते सा लक्षणामूला व्यञ्जना ।
एवं शब्दीं व्यञ्जनामु कत्वार्थोमाह

वक्तृबोद्धव्यवाक्यानामन्यसंनिधिवाच्ययोः ।
प्रस्तावदेशकालानां काकोश्चेष्टादिकस्य च ॥ 2.1६ ॥

व्यञ्जनेति सम्बध्यते ।
तत्र वक्तृवाक्यप्रस्तावदेशकालवैशिष्ट्ये यथा मम
“कालो मधुः कुपित एष च पुष्पधन्वा धीरा वहन्ति रतिखेदहराः समीराः ।
केलीवनीयमपि वञ्जुलकुञ्जमञ्जुर्दूरे पतिः कथय किं करणीयमद्य” ॥
अत्रैतं देशं प्रति शीघ्रं प्रच्छन्नकामुकस्त्वया प्रेष्यतामिति सखीं प्रति कयाचिद्व्यज्यते ।
बोद्धव्यवैशिष्ट्ये यथा
“निः शेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः ।
मिथ्यावादिनि ! दूति ! बान्धवजनस्याज्ञातपीडागमे वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिक्म्” ॥
अत्र तदन्तिकमेव रन्तुं गतासीति विपरीतलक्षणया लक्ष्यम् ।
तस्य च रन्तुमिति व्यङ्ग्यं प्रतिपाद्यं दूतीवैशिष्ट्याद्बोध्यते ।
अन्यसंनिधिवैशिष्ट्ये यथा
“उअ णिच्चल णिप्पन्दा, भिसिणीपत्तम्मि रेहै बलाआ ।
णिम्मलमरगअभाअणपरिट्ठिआ (दा) सङ्खसुत्ति व्व” ॥
अत्र बलाकाया निस्पन्दत्वेन विश्वस्तत्वम्, तेनास्य देशस्य विजनत्वम्, अतः संकेतस्थानमेतदिति कयापि संनिहितं प्रच्छन्नकामुकं प्रत्युच्यते ।
अत्रैव स्थाननिर्जनत्वरूपं व्यङ्ग्यार्थवैशिष्ट्यं प्रयोजनम् ।

भिन्नकण्ठध्वनिर्धोरैः काकुरित्यभिधीयते ।

इत्युक्तप्रकारायाः काकोर्भेदा आकरेभ्यो ज्ञातव्याः ।
एतद्वैशिष्ट्ये यथा
“गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम् ।
अलिकुलकोकिलललिते नैष्यति सखि ! सुरभिसमयेऽसौ” ॥
अत्र नैष्यति, अपि तर्हि एष्यत्येवेति काक्का व्यज्यते
चेष्टावैशिष्ट्ये यथा
“संकेतकालमनसं विटं ज्ञात्वा विदग्धया ।
हसन्नेत्रार्पिताकूतं लीलापङ्मं निमीलितम्” ॥
अत्र संध्या संकेतकाल इति पङ्मनिमीलनादिचेष्टया कयाचिद्द्योत्यते ।
एवं वक्त्रादीनां व्यस्तसमस्तानां वैशिष्ट्ये बोद्धव्यम् ।

त्रैविध्यादियमर्थानां प्रत्येकं त्रिविधा मता ॥ 2.17 ॥

“अर्थानां वाच्यलक्ष्यव्यङ्ग्यत्वेन त्रिरूपतया सर्वा अप्यनन्तरोक्ता व्यञ्जनास्त्रिविधाः ।
तत्र वाच्यार्थस्य व्यञ्जना यथा”कालो मधुः” इत्यादि ।
लक्ष्यार्थस्य यथा”निः शेषच्युतचन्दनम्ऽइत्यादि ।
व्यङ्ग्यार्थस्य यथा”उअ णिच्चल” इत्यादि ।
प्रकृतिप्रत्ययादिव्यञ्जकत्वं तु प्रपञ्चयिष्यते ।

शब्दबोध्यो व्यनक्त्यर्थः शब्दोऽप्यर्थान्तराश्रयः ।
एकस्य व्यञ्जकत्वे तदन्यस्य सहकारिता ॥ 2.18 ॥

यतः शब्दो व्यञ्जकत्वेऽप्यर्थान्तरमपेक्षते, अर्थोऽपि शब्दम्, तदेकस्य व्यञ्जकत्वेऽन्यस्य सहकारितावश्यमङ्गीकर्तव्या ।

अभिधादित्रयोपाधिवैशिष्ट्यात्र्त्रिविधो मतः ।
शब्दोऽपि वाचकस्तद्वल्लक्षको व्यञ्जकस्तथा ॥ 2.19 ॥

अभिधोपाधिको वाचकः ।
लक्षणोपाधिको लक्षकः ।
व्यञ्जनोपाधिको व्ययञ्जकः ।
किञ्च

तात्पर्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने ।
तात्पर्यार्थं तदर्थं च वाक्यं तद्वोधकं परे ॥ 2.20 ॥

अभिधाया एकैकपदार्थबोधनविरामाद्वाक्यार्थरूपस्य पदार्थान्वयस्य बोधिका तात्पय नाम वृत्तिः ।
तदर्थश्च तात्पर्यार्थः ।
तद्वोधकं च वाक्यमित्यभिहितान्वयवादिनां मतम् ।
इहि साहित्यार्पणो वाक्यस्वरूपनिरूपणो नाम द्वितीयः परिच्छेदः ।


तृतीयः परिच्छेदः

अथ कोऽयं रस इत्युच्यते

विभावेनानुभावेन व्यक्तः संचारिणा तथा ।
रसतामेति रत्यादिः स्थायीभावः सचेतसाम् ॥ 3.1 ॥

विभावादयो वक्ष्यन्ते ।
सात्त्विकाश्चानुभावरूपत्वात्न पृथगुक्ताः, व्यक्तो दध्यादिन्यायेन रूपान्तरपरिणतो व्यक्तीकृत एव रसो न तु दीपेन घट इव पूर्वसिद्धो व्यज्यते ।
तदुक्तं लोचनकारैः
“रसाः प्रतीयन्त इति त्वोदनं पचतीतिवद्व्यवहारः” इति ।
अत्र च रत्यादिपदोपादानादेव प्राप्ते सथायित्वे पुनः स्थायिपदोपादानं रत्यादीनामपि रसान्तरष्वस्थायित्वप्रतिपादनार्थम् ।
ततश्च हासक्रोधादयः शृङ्गारवीरादौ व्यभिचारिण एव ।
तदुक्तम्
“रसावस्थः परम्भावः स्थायितां प्रतिपद्यते” इति ।
अस्य स्वरूपकथनगर्भ आस्वादनप्रकारः कथ्यते

सत्त्वोद्रेकादखण्डस्वप्रकाशानन्दचिन्मयः ।
वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वादसहोदरः ॥ 3.2 ॥

लोकोत्तरचकत्कारप्राणः कैश्चित्प्रमातृभिः ।
स्वाकारवदभिन्नत्वेनायमास्वाद्यते रसः ॥ 3.3 ॥

“रजस्तमोभ्यामस्पृष्टं मनः सत्वमिहोच्यते” इत्युक्तप्रकारो बाह्यमेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वम् ।
तस्योद्रेको रजस्तमसी अभिभूय आविर्भावः ।
अत्र च हेतुस्तथाविधालौकिकाव्यार्थपरिशीलनम् ।
अखण्ड इत्येक एवायं विभावादिरत्यादिप्रकाशसुखचमत्कारात्मकः अत्र हेतुं वक्ष्यामः ।
स्वप्रकाशत्वाद्यपि वक्ष्यमाणपरीत्या ।
चिन्मय इति स्वरूपार्थे मयट् ।
चमत्कारशिचत्तविस्ताररूपो विस्मयापरपर्य्यायः ।
तत्प्राणत्वञ्चास्मद्वृद्धप्रपितामहसहृदयगोष्ठीगरिष्ठकविपण्डितमुख्यश्रीमन्नारायणपादैरुक्तम् ।
तदाह धर्मदत्तः स्वग्रन्थे
रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते ।
तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः ।
तस्मादद्भुतमेवाह कृती नारायणो रसम्” ॥
इति ।
कैश्चिदिति प्राक्तनपुण्यशालिभिः ।
यदुक्तम्
“पुण्यवन्तः प्रमिण्वन्ति योगिवद्रससन्ततिम्” ।
इति ।
यद्यपि “स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः” इत्युक्तदिशा रसस्यास्वादानतिरिक्तत्वमुक्तम्, तथापि “रसः स्वाद्यते” इति काल्पनिकं भेदमुररी कृत्य कर्मकर्त्तरि वा प्रयोगः ।
तदुक्तम्”रस्यमानतामात्रसारत्वात्प्रकाशशरीरादनन्य एव हि रसः” इति ।
एकमन्यत्राप्येवंविधस्थलेषूपचारण प्रयोगो ज्ञेयः ।
नन्वेतावता रसस्याज्ञेयत्वमुक्तं भवतीति व्यञ्जनायाश्च ज्ञानविशेषत्वाद्द्वयोरैक्यमापतितम् ।
ततश्च
“स्वज्ञानेनान्यधीहेतुः सिद्धेर्ऽथे व्यञ्जको मतः ।
यथा दीपोऽन्यथाभावे को विशेषोऽस्य कारकात्” ॥
इत्युक्तदिशा घटप्रदीपवद्व्यङ्ग्यव्यञ्जकयोः पार्थक्यमेवेति कथं रसस्य व्यङ्ग्यतेति चेत्, सत्यमुक्तम् ।
अत एवाहुः
“विलक्षण एवायं कृतिज्ञप्तिभेदेभ्यः स्वादनाख्यः कश्चिद्व्यापारः ।
अत एव हि रसनास्वादनचमत्करणादयो विलक्षणा एव व्यपदेशाः” इति ।
अभिधादिविलक्षणव्यापारमात्रप्रसाधनग्रहिलैरस्माभी रसादीनां व्यङ्ग्यत्वमुक्तं भवतीति ।
ननु तर्हि करुणादीनां रसानां दुः खयत्वाद्रसत्वं (तदुन्मुखत्वं ) न स्यादत्युच्यते

करुणादावपि रसे जायते यत्परं सुखम् ।
सचेतसामनुभवः प्रमाणं तत्र केवलम् ॥ 3.4 ॥

आदिशब्दाद्बीभत्सभयानकादयः ।
तथाप्यसहृदयानां मुखमुद्रणाय पक्षान्तरमुच्यते

किञ्च तेषु यदा दुःखं न कोऽपि स्यात्तदुन्मुखः ।

नहि कश्चत्सचेता आत्मनो दुःखाय प्रवर्त्तते ।
करूणादिषु च सकलस्यापि साभिनिवेशप्रवृत्तिदर्शनात्सुखमयत्वमेव ।
अनुपपत्त्यन्तरमाह

तथा रामायणादीनां भविता दुःखहेतुता ॥ 3.5 ॥

करुणरसस्य दुः खहेतुत्वे करुणरसप्रधानरामायणादिप्रबन्धानामपि दुःखहेतुताप्रसङ्गः स्यात् ।
ननु कथं दुःखकारणोभ्यः सुखोत्पत्तिरित्याह

हेतुत्वं शोकहर्षादेर्गतेभ्यो लोकसंश्रयात् ।
शोकहर्षादयो लोके जायन्तां नाम लौकिकाः ॥ 3.६ ॥

अलौकिकविभावत्वं प्राप्तेभ्यः काव्यसंश्रयात् ।
सुखं सञ्जायते तेभ्यः सर्वेभ्योऽपीति का क्षतिः ॥ 3.7 ॥

ये खलु रामवनवासादयो लोके “दुःखारणानि” इत्युच्यन्ते त एव हि काव्यनाट्यसमर्पिता अलौकिकविभावनव्यापारवत्तया कारणशब्दवाच्यतां विहाय अलौकिकविभावशब्दवाच्यत्वं भजन्ते ।
तेभ्यश्च सुरते दन्तधातादिभ्य इव सुखमेव जायते ।
अतश्च “लौकिकशोकहर्षादिकारणोभ्यो लौकिकशोकहर्षादयो जायन्ते” इति लोक एव प्रतिनियमः ।
काव्ये पुन) “सर्वेभ्योऽपि विभावादिभ्यः सुखमेव जायते” इति नियमान्न कश्चिद्दोषः ।
कथं तर्हि हरिश्चन्द्रादिचरितस्य काव्यनाट्ययोरपि दर्शनश्रवणाभ्यामश्रुपाता दयो जायन्त इत्युच्यते

अश्रुपातादयस्तद्वद्द्रुतत्वाच्चेतसो मताः ।

तर्हि कथं काव्यतः सर्वेषामीदृशी रसाभिव्यक्तिर्न जायत इत्यत आह

न जायते तदास्वादो विना रत्यादिवासनाम् ॥ 3.8 ॥

वासना चेदानीन्तनी प्राक्तनी च रसास्वादहेतुः, तत्र यद्याद्या न स्यात्तदा श्रोत्रियजरन्मीमांसकादीनामपि स स्यात् ।
यदि द्वितीया न स्यात्तदा यद्रगिणा मपि केषाञ्चिद्रसोद्वोधो न दृश्यते तन्न स्यात् ।
उक्तञ्च धर्म्मदत्तेन
“सवासनानां सभ्यानां रसस्यास्वादनं भवेत् ।
निर्वासनास्तु रङ्गान्तः काष्ठकुड्याश्मसन्निभाः” ॥
इति ।
ननु कथं रामादिरत्याद्युद्वोधकारणैः सीतादिभिः सामाजिकरत्याद्युद्वोधैत्युच्यते

व्यापारोऽस्ति विभावादेर्नाम्ना साधारणीकृतिः ।
तत्प्रभावेण यस्यासन् पाथोधिप्लवनादयः ॥ 3.9 ॥

प्रमाता तदभेदेन स्वात्मानं प्रतिपद्यते ।

ननु कथं मनुष्यमात्रस्य समुद्रलङ्घनादावुत्साहोद्वोध इत्युच्यते

उत्साहादिसमुद्वोधः साधारण्याभिमानतः ॥ 3.10 ॥

नृणामपि समुद्रादिलङ्घनादौ न दुष्यति ।

रत्यादयोऽपि साधारण्येनैव प्रतीयान्त इत्याह

साधारण्येन रत्यादिरपि तद्वत्प्रतीयते ॥ 3.11 ॥

रत्यादेरपि स्वात्मगतत्वेन प्रतीतौ सभ्यानां ब्रीडातङ्कादिर्भवेत् ।
परगतत्वेन त्वरस्यतापातः ।
विभावादयोऽपि प्रथमतः साधारण्येन प्रतीयन्त इत्याह

परस्य न परस्येति ममेति न ममेति च ।
तदास्वादे विभावादेः परिच्छेदो न विद्यते ॥ 3.12 ॥

ननु तथापि कथमेवमलौकिकत्वमेतेषां विभावादीनामित्युच्यते

विभावनादिव्यापारमलौकिकमुपेयुषाम् ।
अलौकिकत्वमेतेषां भूषणं न तु दूषणम् ॥ 3.13 ॥

आदिशब्दादनुभावसञ्चारणो ।
तत्र विभावनं रत्यादेविशेषणास्वादाङ्कुरणयौग्यतानयनम् ।
अनुभावनमेवम्यूतस्य रत्यादेः समनन्तरमेव रसादिरूपतया भावनम् ।
सञ्चारणं तथाभूतस्यैव तस्य सम्यक्चारणम् ।
विभावादीनां यथासङ्ख्यं कारणकार्य्यसहकारित्वे कथं त्रयाणामपि रसोद्बोधे कारणत्वमित्युच्यते

कारणकार्यसञ्चारिरूपा अपि हि लोकतः ।
रसोद्वोधे विभावाद्याः कारणान्येव ते मताः ॥ 3.14 ॥

ननु तर्हि कथं रसास्वादे तेषामेकः प्रतिभास इत्युच्यते

प्रतीयमानः प्रथमं प्रत्येकं हेतुरुच्यते ।
ततः सम्बलितः सर्वो विभावादिः सचेतसाम् ॥ 3.15 ॥

प्रपाणकरसन्यायाच्चर्व्यमाणो रसो भवेत् ।

यथा खण्डमरिचादीनां सम्मेलनादपूर्व्व इव कश्चिदास्वादः प्रपाणकरसे सञ्जायते विभावादिसम्मेलनादिहापि तथेत्यर्थः ।
ननु यदि विभावानुभावव्यभिचारिभिर्म्मिलितैरेव रसस्तत्कथं तेषामेकस्य द्वयोर्वा सद्भावेऽपि स स्यादित्युच्यते

सद्भावश्चेद्विभावादेर्द्वयोरेकस्य वा भवेत् ॥ 3.1६ ॥

भ्क्तटित्यन्यसमाक्षेपे तदा दोषो न विद्यते ।

अन्यसमाक्षेपश्च प्रकरणादिवशात् ।
यथा
“दीर्घाक्षं शरदिन्दुकान्तिवदनं बाहू नतावंसयोः सङ्क्षिप्तं निबिडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव ।
मध्यः पाणिमितो नितम्बि जघनं पादावुदग्राङ्गुली धन्दो नर्त्तयितुर्यथैव मनसः सृष्टं तथास्या वपुः” ॥
अत्र मालविकामभिलषतोऽग्निमित्रस्य मालविकारूपविभावमात्रवर्णनेऽपि सञ्चारिणामौत्सुक्यादीनामनुभावानाञ्च नयनविस्फारादीनामौचित्यादेवाक्षेपः ।
एकमन्याक्षेपेऽप्यूह्यम् ।
“अनुकार्य्यगतो रसः” इति वदतः प्रत्याह

पारिमित्याल्लौकिकत्वात्सान्तरायतया तथा ॥ 3.17 ॥

अनुकार्य्यस्य रत्यादेरुद्बोधो न रसो भवेत् ॥

सीतादिदर्शनादिजो रामादिरत्याद्युद्बोधो हि परिमितो लौकिको नाट्यकाव्यदर्शनादेः सान्तरायश्च, तस्मात्कथं रसरूपतामियात् ।
(क) रसस्यैतद्धर्म्मत्रितयविलक्षणधर्म्मकत्वात् ।
अनुकर्त्तृगतत्वञ्चास्य निरस्यति

शिक्षाभ्यासादिमात्रेण राघवादेः स्वरूपताम् ॥ 3.18 ॥

दर्शयन्नर्त्तको नैव रसस्यास्वादको भवेत् ।

किञ्च

काव्यार्थभावनेनायमपि सभ्यपदास्पदम् ॥ 3.19 ॥

यदि पुनर्नटोऽपि काव्यार्थभावनया रामादिस्वरूपतामात्मनो दर्शयेत्तदा सोऽपि सभ्यमध्य एव गण्यते ।

नायं ज्ञाप्यः स्वसत्तायां प्रतीत्यव्यभिचारतः ।

यो हि ज्ञाप्यो घटादिः सन्नपि कदाचिदज्ञातो भवति, न ह्ययं तथा॑ प्रतीतिमन्तरेणाभावात् ।

यस्मादेष विभावादिसमूहालम्बनात्मकः ॥ 3.20 ॥

तस्मान्न कार्यः

यदि रसः कार्यः स्यात्तदा विभावादिज्ञानकारणक एव स्यात् ।
ततश्च रसप्रतीतिकाले विभावादयो न प्रतीयेरन्, कारणज्ञानतकार्य्यज्ञानयोर्युगपददर्शनात् ।
नहि चन्दनस्पर्शज्ञानं तज्जन्यसुखज्ञानञ्चैकदा सम्भवति ।
रसस्य च विभावादिसमूहालम्बनात्मकतयैव प्रतीतेर्न विभावादिज्ञानकारणत्वमित्यभिप्रायः ।

नो नित्यः पूर्वसंवेदनोज्झितः ।
असंवेदनकाले हि न भावोऽष्यस्य विद्यते (क) ॥ 3.21 ॥

न खलु नित्यस्य वस्तुनोऽसंवेदनकालेऽसम्भवः ।

नापि भविप्यन् साक्षादानन्दमयस्वप्रकाशरूपत्वात् ।
कार्यक्षाप्यविलक्षणभावान्नो वर्त्तमानोऽपि ॥ 3.22 ॥

विभावादिपरामर्शविषयत्वात्सचेतसाम् ।
परानन्दमयत्वेन संवेद्यत्वादपि स्फुटम् ॥ 3.23 ॥

न निर्विकल्पकं ज्ञानं तस्य ग्राहकमिष्यते ।
तथाभिलापसंसर्गयोग्यत्वविरहान्न च ॥ 3.24 ॥

सविकल्पकंसंवेद्यः

सविकल्पकज्ञानसंवेद्यानां हि वचनप्रयोगयोग्यता, न तु रसस्य तथा ।

साक्षात्कारतया न च ।
परोक्षस्तत्प्रकाशो नापरोक्षः शब्दसंभवात ॥ 3.25 ॥

तत्कथय कीदृगस्य तत्त्वमश्रुतादृष्टपूर्वनिरुपणप्रकारस्येत्याह

तस्मादलौकिकः सत्यं वेद्यः सहृदयैरयम् ।

तत्किं पुनः प्रमाणं तस्य सद्भाव इत्याह

प्रमाणं चर्वणैवात्र स्वाभिन्ने विदुषां मतम् ॥ 3.2६ ॥

चर्वणा आस्वादनम् ।
तच्च “स्वादः काव्यार्थसंभेदादात्मानन्दसमुद्भवः” इत्युक्तप्रकारम् ।
ननु यदि रसो न कार्यस्तत्कथं महषिणा(क) विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः” इति लक्षणं कृतमित्युच्यते

निष्पत्त्या चर्वणस्यास्य निष्पत्तिरुपचारतः ।

यद्यपि रसाभिन्नतया चर्वणस्यापि न कार्यत्वं तथापि तस्य कादाचित्कतया उपचरितेन कार्यत्वेन कार्यत्वमुपचर्यते ।

अवाच्यत्वादिकं तस्य वक्ष्ये व्यञ्जनरूपणे ॥ 3.27 ॥

तस्य रसस्य ।
आदिशब्दादलक्ष्यत्वादि ।
ननु यदि मिलिता रत्यादयो रसास्तत्कथमस्य स्वप्रकाशत्वं कथं वाखण्डत्वमित्याह

रत्यादिज्ञानतादात्म्यादेव यस्माद्रसो भवेत् ।
अतोऽस्य स्वप्रकाशत्वमखण्डत्वं च सिध्यति ॥ 3.28 ॥

यदि रत्यादिकं प्रकाशशरीरादतिरिक्तं स्यात्तदैवास्य स्वप्रकाशत्वं न सिध्यते, न च तथा, तादात्म्याङ्गीकारात् ।
यदुक्तम्
“यद्यपि रसानन्यतया चर्वणापि न कार्या तथापि कादाचित्कतया कार्यत्वमुपकल्प्य तदेकात्मन्यनादिवासनापरिणतिरूपे रत्यादिभावेऽपि व्यवहार इति भावः” इति ।
“सुखादितादात्म्याड्गीकारे चास्माकी सिद्धान्तशय्यामधिशय्य दिव्यं वर्षसहस्त्रं प्रमोदनिद्रामुपेयाः” इति च ।
“अभिन्नोऽपि स प्रमात्रा वासनोपनीतरत्यादितादात्म्येन गोचरीकृतः” इति च ।
ज्ञानस्य स्वप्रकाशत्वमनङ्गीकुर्वतामुपरि वेदान्तिभिरेव पातनीयो दण्डः ।
तादात्म्यादेवास्याखण्डत्वम् ।
रत्यादयो हि प्रथममेकैकशः प्रतीयमानाः सर्वेऽप्येकीभूताः स्फुरन्त एव रसतामापद्यन्ते ।
तदुक्तम्
“विभावा अनुभावाश्च सात्त्विका व्यभिचारिणः ।
प्रतीयमानाः प्रथमं खण्डशो यान्त्यखण्डताम्” ॥
इति ।
“परमार्थतस्त्वखण्ड एवायं वेदान्तप्रसिद्धब्रह्मतत्त्ववद्वेदितव्यः” इति च ।
अथं के ते विभावानुभावव्यभिचारिण इत्यपेक्षायां विभावमाह

रत्याद्युद्वोधका लोके विभावाः काव्यनाट्ययोः ।

ये हि लोके रामादिगतरतिहासादीनामुद्वोधकारणानि सीतादयस्त एव काव्ये नाट्ये च निवेशिताः सन्तः “विभाव्यन्ते आस्वादाङ्कुरप्रादुर्भावयोग्याः क्रियन्ते सामाजिकरत्यादिभावा एभिः” इति विभावा उच्यन्ते ।
तदुक्तं भर्त्तृहरिणा
“शब्दोपहितरूपांस्तान् बुद्धेर्विषयतां गतान् ।
प्रत्यक्षानिव कंसादीन् साधनत्वेन मन्यते” ॥
इति ।
तद्भेदावाह

आलम्बनोद्दीपनाख्यौ तस्य भेदावुभौ स्मृतौ ।

स्पष्टम् ।
तत्र

आलम्बनं नायकादिस्तमालम्ब्य रसोद्रमात् ॥ 3.29 ॥

आदिशब्दान्नायिकाप्रतिनायिकादयः ।
अथ यस्य रसस्य यो विभावः स तत्स्वरूपवर्णने वक्ष्यते ।
तत्र नायकः

त्यागी कृती कुलीनः सुश्रीको रूपयोवनोत्साही ।
दक्षोऽनुरक्तलोकस्तेजोवैदग्ध्यशीलवान्नेता ॥ 3.30 ॥

दक्षः क्षिप्रकारी ।
शीलं सद्वृतम् ।
एवमादिगुणसम्पन्नो नेता नायको भवति ।
तद्भेदानाह

धीरोदात्तो धीरोद्धतस्तथा धीरललितश्च ।
धीरप्रशान्त इत्ययमुक्तः प्रथमश्चतुर्भेदः ॥ 3.31 ॥

स्पष्टम् ।

तत्र धीरोदात्तः

अविकत्थनः क्षमावानतिगम्भीरो माहसत्त्वः ।
स्थेयान्नगूढमानो धीरोदात्तो दृढव्रतः कथितः ॥ 3.32 ॥

अविकत्थनोऽनात्मश्लाघाकरः ।
महासत्त्वो हर्षशोकाद्यनभिभूतस्वभावः ।
निगूढमानो विनयच्छन्नगर्वः ।
दृढव्रतोऽङ्गीकृतनिर्वाहकः ।
यथारामयुधिष्टिरादिः ।

अथ धीरोद्धतः

मायापरः प्रचण्डश्चपलोऽहङ्कारदर्पभूयिष्ठः ।
आत्मश्लाघानिरतो धीरैर्धोरोद्धतः कथितः ॥ 3.33 ॥

यथाभीमसेनादिः. अथ धीरललितः

निश्चिन्तो मृदुरनिशं कलापरो धीरललितः स्यात् ।

कला नृत्यादिका ।
यथासत्नवाल्यादौ वत्सराजादिः ।

अथ धीरप्रशान्तः

सामान्यगुणैर्भूयान् द्विजादिको धीरप्रशान्तः स्यात् ॥ 3.34 ॥

यथामालतीमाधवादौ माधवादिः ।
एषां च शृङ्गारादिरूपत्वे भेदानाह

एभिर्दक्षिणाधृष्टानुकूलशठरूपिभिस्तु षोडशधा ।

तत्र तेषां धीरोदात्तादीनां प्रत्येकं दक्षिणधृष्टानुकूलशठत्वेन षोडशप्रकारा नायकः ।

एषु त्वनेकमहिलासु समरागो दक्षिणः कथितः ॥ 3.35 ॥

द्वयोस्त्रिचतुः प्रभृतिषु नायिकासु तुल्यानुरागो दक्षिणनायकः ।
यथा
स्नाता तिष्ठति कुन्तलेश्वरसुता, वारोऽङ्गराजस्वसुर्द्यूतै रात्रिरियं जिता कलमया, देवी प्रसाद्याद्य च ।
इत्यन्तः पुरसुन्दरीः प्रति मया विज्ञाया विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥

कृतागा अपि निःशङ्कस्तर्जितोऽपि न लज्जितः ।
दृष्टदोषोऽपि मिथ्यावाक्कथितो धृष्टनायकः ॥ 3.3६ ॥

यथा मम
शोणं वीक्ष्य मुखं विचुम्बितुमहं यातः समीपं ततः पादेन प्रहृतं तया, सपदि तं धृत्वा सहासे मयि ।
किञ्चित्तत्र विधातुमक्षमतया बाष्पं सृजन्त्याः सखे ! ध्यातश्चेतसि कौतुकं वितनुते कोपोऽपि वामभ्रुवः ॥

अनुकूल एकनिरतः

एकस्यामेव नायिकायामासक्तोऽनुकूलनायकः ।
यथा
अस्माकं सखि ! वाससी न रुचिरे, ग्रैवेयकं नोज्ज्वलं, नो वक्रा गातिरुद्धतं न हसितं, नैवास्ति, कश्चिन्मदः ।
किन्त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो दृष्टं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम् ॥

शठोऽयमेकत्र बद्धभावो यः ।
दर्शितबहिरनुरागो विप्रियमन्यत्र गूढमाचरति ॥ 3.37 ॥

यः पुनरेकस्यामेव नायिकायां बद्धभावो द्वयोरपि नायिकयोर्बहिर्दर्शितानुरागोऽन्यस्यां नायिकायां गूढं विप्रियमाचरित स शठः ।
यथा
“शटान्यस्याः काञ्चीमणिरणितमाकर्ण्य सहसा यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः ।
तदेतत्क्वाचक्षे घृतमधुमयत्वद्वहुवचो विषेणाघूर्णन्ती किमपि न सखी मे गणयति” ॥

एषां च त्रैविध्यादुत्तममध्याधमत्वेन ।
उक्ता नायकभेदाश्चत्वारिंशत्तथाष्टौ च ॥ 3.38 ॥

एषामुक्तषोडशभेदानाम् ।
अथ प्रसङ्गादेतेषां सहायानाह

दूरानुवर्तिनि स्यात्तस्य प्रासङ्गिकेतिवृत्ते तु ।
किञ्चित्तद्गुणहीनः सहाय एवास्य पीठमर्द्दाख्यः ॥ 3.39 ॥

तस्य नायकस्य बहुव्यापिनि प्रसङ्गसंगते इतिवृत्तेऽनन्तरोक्तैर्नायकसामान्यगुणैः किञ्चिदूनः पीठमर्द्दनामासहायो भवति ।
यथारामचन्द्रादीनां सुग्रीवादयः ।
अथ शृङ्गारसहायाः

शृङ्गारेऽस्य सहाया विटचेटविदूषकाद्याः स्युः ।
भक्ता नर्मसु निपुणाः कुपितवधूमानभञ्जनाः शुद्धाः ॥ 3.40 ॥

आदिशब्दान्मालाकाररजकताम्बूलिकगान्धिकादयः ।
तत्र विटः

संभोगहीनसंपद्विटस्तु धूर्त्तः कलैकदेशज्ञः ।
वेशोपचारकुशलो वाग्ग्मी मधुरोऽथ बहुमतो गोष्ठ्याम् ॥ 3.41 ॥

चेटः प्रसिद्ध एव ।

कुसुमवसन्ताद्यभिधः कर्मवपुर्वेषभाषाद्यैः ।
हास्यकरः कलहरतिर्विदूषकः स्यात्स्वकर्मज्ञः ॥ 3.42 ॥

स्वकर्म हास्यादि ।
अर्थचिन्तने सहायमाह

मन्त्रीस्यादर्थानां चिन्तायां

अर्थास्तन्त्रावापादयः ।
यत्त्वत्र सहायकथनप्रस्तावे
“मन्त्री स्वं चोभयं वापि सखा तस्यार्थचिन्तने” इति केनाचिल्लक्षणं कृतम्, तदपि राज्ञोर्ऽथचिन्तनोपायलक्षणप्रकरणो लक्षयितव्यम्, न तु सहायकथनप्रकरणो ।
“नायकस्यार्थचिन्तने मन्त्री सहायः” इत्युक्तेऽपि नायकस्यार्थत एव सिद्धत्वात् ।
यदप्युक्तम्
“मन्त्रिणां ललितः शेषा मन्त्रिष्वायत्तसिद्धयः” इति, तदपि स्वलक्षणकथनेनैक लक्षितस्य धीरललितस्य मन्त्रिमात्रायत्तार्थचिन्तनोपपत्तेर्गतार्थम् ।
न चार्थचिन्तने तस्य मन्त्री सहायः, किं तु स्वयमेव संपादकः॑ तस्यार्थचिन्तनाद्यभावात् ।
अथान्तः पुरसहायाः

तद्वदवरोधे ।
वामनशण्ढकिरातम्लेच्छाभीराः शकारकुब्जाद्यः ॥ 3.43 ॥

मदमूर्खताभिमानी दुष्कुलतैश्वर्यसंयुक्तः ।
सोऽयमनूढाभ्राता राज्ञः श्यालः शकार इत्युक्तः ॥ 3.44 ॥

आद्यशब्दान्मूकादयः ।
तत्र शण्ढवामनकिरातकुब्जादयो यथा रत्नाबल्याम्
नष्टं वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा मन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः ।
पर्यन्ताश्रयिभिनिजस्य सदृशं नाम्नः किरातैः कृतं कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ॥
शकारो मृच्छकटिकादिषु प्रसिद्धः ।
अन्येऽपि यथादर्शनं ज्ञातव्याः ।
अथ दण्डसहायाः

दण्डे सुहृत्कुमाराटविकाः सामन्तसैनिकाद्याश्च ।

दुष्टनिग्रहो दण्डः ।
स्पष्टम् ।

ऋत्विक्पुरोधसः स्युर्ब्रह्मविदस्तापसास्तथा धर्मे ॥ 3.45 ॥

ब्रह्मविदो वेदविदः, आत्मविदो वा ।
अत्र च

उत्तमाः पीठमर्दाद्याः

आद्यशब्दान्मन्त्रिपुरोहितादयः ।

मध्यौ विटविदूषकौ ।
तथा शकारचेटाद्या अधमाः परिकीर्तिताः ॥ 3.4६ ॥

आद्यशब्दात्ताम्बूलिकगान्धिकादयः ।
अथ प्रसङ्गाद्दूतानां विभागगर्भलक्षणमाह

निसृष्टार्थो मितार्थश्च तथा संदेशहारकः ।
कार्यप्रेष्यस्त्रिधा दूतो दूत्यश्चापि तथाविधाः ॥ 3.47 ॥

तत्र कार्यप्रेष्यो दूत इति लक्षणम् ।
तत्र

उभयोर्भावमुन्नीय स्वयं वदति चोत्तरम् ।
सुश्लिष्टं कुरुते कार्यं निसृष्टार्थस्तु स स्मृतः ॥ 3.48 ॥

उभयोरिति येन प्रेषितो यदन्तिके प्रेषितश्च ।

मितार्थभाषी कार्यस्य सिद्धकारी मितार्थकः ।
यावद्भाषितसंदेशहारः संदेशहारकः ॥ 3.49 ॥

अथ सात्त्विकनायकगुणाः

शीभा बिलासो माधुर्यं गाम्भीर्यं धैर्यतेजसी ।
ललितौदार्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः ॥ 3.50 ॥

तत्र

शूरता तक्षता सत्यं महोत्साहोऽनुरागिता ।
नीये घृणाधिके स्पर्धा यतः शोभेति तां विदुः ॥ 3.51 ॥

तत्रानुरागिता यथा
अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् ।
उपधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ॥
एवमन्यदपि ।
अथ विलासः

धीरा दृष्टिर्गतिश्चित्रा विलासे सस्मितं वचः ।

यथा
दृष्टीस्तृणीकृतजगत्र्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् ।
कौमारकेऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ॥

संक्षोभेष्वप्यनुद्वेगो माधुर्यं परिकीर्तितम् ॥ 3.52 ॥

ऊह्यमुदाहरणम् ।

भीशोकक्रोधहर्षाद्यैर्गाम्भीर्यं निर्विकारता ।

यथा
आहूतस्याभिषेकाय विसृष्टस्य वनाय च ।
न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः ॥

व्यवसायादचलनं धैर्यं विघ्ने महत्यपि ॥ 3.53 ॥

यथाश्रुताप्सरोगीतिरप क्षणोऽस्मिन् हरः प्रसंख्यानपरो बभूव ।
आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥

अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् ।
प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम् ॥ 3.54 ॥

वाग्वेशयोर्मधुरता तद्वच्छङ्गारचेष्टितं ललितम् ।
दानं सप्रियभाषणमौदार्य्यं शत्रुमित्रयोः समता ॥ 3.55 ॥

एषामुदाहरणान्यूह्यानि ।

अथ नायिका त्रिभेदा स्वान्या साधारणा स्त्रीति ।
नायकसामान्यगुणैर्भवति यथासंभवैर्युक्ता ॥ 3.5६ ॥

नायिका पुनर्नायकसामान्यगुणैस्त्यागादिभिर्यथासम्भवैर्युक्ता भवति ।
सा च स्वस्त्री अन्यस्त्री साधारणस्त्रीति त्रिविधा ।
तत्र स्वस्त्री

विनयार्जवादियुक्ता गृहकर्मपरा पतिव्रता स्वीया ।

यथा
“लज्जापज्जत्तपसाहणाइं परभत्तिणिप्पिवासंिम् ।
अविणअदुम्मेधाइं धण्णाण घरे कलत्ताइम् ॥

सापि कथिता त्रिभेदा मुग्धा मध्या प्रगल्भेति ॥ 3.57 ॥

तत्र

प्रथमावतीर्णयौवनमदनबिकारा रतौ वामा ।
कथिता मृदुश्च माने समधिकलज्जावती मुग्धा ॥ 3.58 ॥

तत्र प्रथमावतीर्णयौवना यथा मम तातापादानाम्
मध्यस्य प्रथिमानमेति जघनं वक्षोजयोर्मन्दता दूरं यात्युदरं च रोमलतिका नेत्रार्जवं धावति ।
कन्दर्पं परिवीक्ष्य नूतनमनोराज्याभिषिक्तं क्षणा दङ्गानीव परस्परं विदधते निर्लुण्ठनं सुभ्रुवः ॥
प्रथमावतीर्णमदनविकारा यथा मम प्रभावती परिणये
दत्ते सालसमन्थरं भुवि पदं निर्याति नान्तः पुरात्, नोद्दामं इसति क्षणात्कलयते ह्रीयन्त्रणां कामपि, किंचिद्भावगभीरवक्रिमलवस्प्टष्टं मनाग्भाषते, सभ्रूभङ्गमुदीक्षते प्रियकथामुल्लापयन्तीं सखीम् ॥
रतौ वामा यथा
“दृष्टा दृष्टिमधो ददाति, कुरुते नालपमाभाषिता, शय्यायां परिवृत्त्य तिष्ठति, बालादालिङ्गिता वेपते ।
निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते, जाता वामतयैव संप्रति मम प्रीत्यै नवोढा प्रिया” ॥
माने मृदुर्यथा
“सा पत्युः प्रथमापराधसमये सख्योपदेशं विना नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् ।
स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥
समधिकलज्जावती यथा
“दत्ते सालसमन्थरम्ऽइत्यत्र (113 पृ) श्लोके ।
अत्र समधिकलज्जावतीत्वेनापि लब्धाया रतिवामताया विच्छित्तिविशेषवत्तया पुनः कथनम् ।

अथ मध्या

मध्या विचित्रसुरता प्ररूढस्मरयौवना ।
ईषत्प्रगल्भवचना मध्यमव्रीडिता मता ॥ 3.59 ॥

विचित्रसुरता यथा
“कान्ते तथा कथमपि प्रथितं मृगाक्ष्या चातुर्यमुद्धतमनोभवया रतेषु ।
तत्कूजितान्यनुवदद्भिरनेकवारं शिष्यायितं गृहकपोतशतैर्यथास्याः” ॥
प्ररूढस्मरा यथात्रैवोदाहरणो ।
प्ररूढयोवना यथा मम
“नत्रे खञ्जनगञ्जने, सरसिजप्रत्यर्थि पाणिद्वयं, वक्षोजौ कारिकुम्भविभ्रमकीमत्युन्नतिं गच्छतः ।
कान्तिः काञ्चनचम्पकप्रतिनिधिर्वाणी सुधास्यन्दिनी, स्मेरेन्दीवरदामसोदरवपुस्तस्याः कटाक्षच्छटा” ॥
एवमन्यत्रापि ।

अथ प्रगल्भा

स्मरान्धा गाढतारुण्या समस्तरतकोविदा ।
भावोन्नता दरव्रीडा प्रगल्भाक्रान्तनायका ॥ 3.६0 ॥

स्मरान्धा यथा
“धन्यासि या कथयसि प्रियसंगमेऽपि विश्रब्धचाटुकशतानि रतान्तरेषु ।
नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचदपि स्मरामि(क)” ॥
गाढतारुण्या यथा
“अत्युन्नतस्तनमुरो नयने सुदीर्घे, वक्रे भ्रुवावतितरां, वचनं ततोऽपि ।
मध्योऽधिकं तनुरनूनगुरुर्नितम्बो मन्दा गतिः किमपि चाद्भुतयौवनायाः” ॥
समस्तरतकोविदा यथा
“क्वचित्ताम्बूलाक्तः क्वचिद्गरुपङ्काङ्कमलिनः क्वचिच्चूर्णोद्ररी क्वचिदपि च सालक्तकपदः ।
वलीभङ्गाभोगैरलकपतितैः शीर्णकुसुमैः स्त्रियाः सर्वावस्थं कथयति रतं प्रच्छदपटः” ॥
भावोन्नता यथा
“मधुरवचनैः सभ्रूभङ्गैः कृताङ्गुलितर्जनै रभसरचितैरङ्गन्यासैर्महोत्सवबन्धुभिः ।
असकृदसकृत्स्फारस्फाररैपाङ्गविलोकितै स्भिभुवनजये सा पञ्चेषोः करोति सहायताम्” ॥
स्वल्पब्रीडा यथा
“धन्यासि या कथयसि”
इत्यत्रेव (11६ पृ दृ) आक्रान्तनायका यथा
स्वामिन् भङ्गुरयालकं, सतिलकं भालं विलासिन् कुरु, प्राणोश त्रुटितं पयोधरतटे हारं पुनर्योजय ।
इत्युक्त्वा सुरतावसानसमये सम्पूर्णचन्द्रानना स्पृष्टा तेन तथैव जातमुलका प्राप्ता पुनर्मोहनम्” ॥
मध्याप्रगल्भयोर्भेदान्तराण्याह

ते धीरा चाप्यधीरा च धीराधीरेति षङ्विधे ।

ते मध्याप्रगल्भे ।
तत्र

प्रियं सोत्प्रासवक्रोक्त्या मध्या धीरा दहेदुषा ॥ 3.६1 ॥

धीराधीरा तु रुदितैरधीरा परुषोक्तिभिः ।

तत्र मध्या धीरा यथा
“तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्दुकूलं दधानः ।
मदधिवसतिमागाः कामिनां मण्डनश्रीर्व्रजति हि सफलत्वं वल्लभालोकनेन” ॥
मध्यैव धीराधीरा यथा
“बाले ! नाथ ! विमुञ्च मानिनि ! रुषं, रोषान्मया किं कृतं, खेदोऽस्मासु, न मेऽपराध्यति भवान् सर्वेऽपराधा मयि ।
तत्किं रोदिषि गद्रदेन वचसा, कस्याग्रतो रुद्यते, नन्वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुद्यते” ॥
इयमेवाधीरा यथा
“सार्धं मनोरथशतैस्तव धूर्त ! कान्ता सैव स्थिता मनसि कृत्रिमहावरम्या ।
अस्माकमस्ति नहिं कश्चिदिहावकाश रस्तस्मात्कृतं चरणणतविडम्बनाभिः” ॥

प्रगल्भा यदि धीरा स्याच्छन्नकोपाकृतिस्तदा ॥ 3.६2 ॥

उदास्ते सुरते तत्र दर्शयन्त्यादरान् बहिः ।

तत्र प्रिये ।
यथा
“एकत्रासनसंस्थितिः परिहृता प्रत्युद्रमाद्दूरत स्ताम्बूलानयनच्छलेन रभसाश्लेषोऽपि संविघ्नितः ।
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थोकृतः” ॥

धीराधीरा तु सोल्लुण्ठभाषैतैः खेदयत्यमुम् ॥ 3.६3 ॥

अमुं नायकम् ।
यथा मम
“अनलङ्कृतोऽपि सुन्दर ? हरसि मनो मे यतः प्रसभम् ।
किं पुनरलङ्कृतस्त्वं सम्प्रति नखक्षतैस्तस्याः” ॥

तर्जयेत्ताडयेदन्या

अन्या अधीरा ।
यथा”शोणं वीक्ष्य मुखं” इत्यत्र ।
अत्र च सर्वत्र “रुषा” इत्यनुवर्तते ।

प्रत्येकं ता अपि द्विधा ।
कनिष्ठज्येष्ठरूपत्वान्नायकप्रणयं प्रति ॥ 3.६4 ॥

ता अनन्तरोक्ताः षड्भेदा नायिकाः ।
यथा
“दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा देकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः ।
ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसा मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति” ॥

मध्याप्रगल्भयोर्भेदास्तस्माद्द्वादश कीतिंताः ।
मुग्धा त्वेकैव तेन स्युः स्वीयाभेदास्त्रयोदश ॥ 3.६5 ॥

परकीया द्विधा प्रोक्ता परोढा कन्यका तथा ।

तत्र

यात्रादिनिरतान्योढा कुलटा गलितत्रपा ॥ 3.६६ ॥

यथा
“स्वामी निः श्वसितेऽप्यसूयति, मनोजिघ्रः सपत्नीजनः, श्वश्रूरिङ्गीतदैवतं नयनयोरीहालिहो यातरः ।
तद्दूरादयमञ्जलिः किमधुना दृग्भङ्गिभावेन ते, वैदग्धीमधुरप्रबन्धरसिक ! व्यर्थोऽयमत्र श्रमः” ॥
अत्र हि मम परिणोतान्नाच्छादनादिदातृतया स्वाम्येव न तु वल्लभः ।
त्वं तु वैदग्धीमधुरप्रबन्धरसिकतया मम वल्लभोऽसीत्यादिव्यङ्ग्यार्थवशादस्याः परनायकविषया रतिः प्रतीयते ।

कन्या त्वजातोपयमा सलज्जानवयौवना ।

अस्याश्च पित्राद्यायत्तत्वात्परकीयात्वम् ।
यथा मालतीमाधवादौ मालत्यादिः ।

धीरा कलाप्रगल्भा स्याद्वेश्या सामान्यनायिका ॥ 3.६7 ॥

निर्गुणानपि न द्वेष्टि न रज्यति गुणिष्वपि ।
वित्तमात्रं समालोक्य सा रागं दर्शयेद्वहिः ॥ 3.६8 ॥

काममङ्गीकृतमपि परिक्षीणधनं नरम् ।
मात्रा निः सारयेदेषा पुनः संधानकाङ्क्षया ॥ 3.६9 ॥

तस्कराः पण्डका मूर्खाः सुखप्राप्तधनस्तथा ।
लिङ्गिनश्छन्नकामाद्या अस्याः प्रायेण वल्लभाः ॥ 3.70 ॥

एषापि मदनायत्ता क्वापि सत्यानुरागिणि ।
रक्तायां वा विरक्तायां रतमस्यां सुदुर्लभम् ॥ 3.71 ॥

पण्डको वातपाण्ड्वादिः ।
छन्नं प्रच्छन्नं ये कामयन्ते ते छन्नकामाः ।
तत्ररागहीना यथा लटकमेलकादौ मदनमञ्जर्यादिः ।
रक्ता यथा मृच्छकटिकादौ वसन्तसेनादिः ।
पुनश्च

अवस्थाभिर्भवन्त्यष्टावेताः षोडशभेदिताः ।
स्वाधीनभर्तृका तद्वत्खण्डिताथाभिसारिका ॥ 3.72 ॥

कलहान्तरिता विप्रलब्धा प्रोषितभर्तृका ।
अन्या वासकसञ्जा स्याद्विरहोत्कण्ठिता तथा ॥ 3.73 ॥

तत्र

कान्तो रतिगुणाकृष्टो न जहाति यदन्तिकम् ।
विचित्रविभ्रमासक्ता सा स्यात्स्वाधीनभर्तृका ॥ 3.74 ॥

यथा
“अस्माकं सखि वाससीऽइत्यादि ।

पार्श्वमेति प्रियो यस्या अन्यसंयोगचिह्नितः ।
सा खण्डितेति कथिता धीरैरीर्ष्याकषायिता ॥ 3.75 ॥

यथा
“तदवितथमवादीः” इत्यादि ।

अभिसारयते कान्तं या मन्मथवशंवदा ।
स्वयं वाभिसरत्येषा धीरैरुक्ताभिसारिका ॥ 3.7६ ॥

क्रमाद्यथा
न च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि ।
निपुणं तथैनमभिगम्य वदेरभिदूति कचिदिति संदिदिशे ॥
“उत्क्षिप्तं करकङ्कणद्वयमिदं, बद्धा दृढं मेखला, यत्नेन प्रतिपादिता मुखरयोर्मञ्जीरयोर्मूकता ।
आरब्धे रभसान्मया प्रियसखि ! क्रीडाभिसारोत्सवे, चण्डालस्तिमिरावगुण्ठनपटक्षेपं विधत्ते विधुः” ॥

संलीना स्वेषु गात्रेषु मूकीकृतविभूषणा ।
अवगुण्ठनसंवीता कुलजाभिसरेद्यदि ॥ 3.77 ॥

विचित्रोज्ज्वलवेषा तु रणन्नूपुकङ्कणा ।
प्रमोदस्मेरवदना स्याद्वेश्यभिसरेद्यदि ॥ 3.78 ॥

मदस्खलितसंलापा विभ्रमोत्फुल्ललोचना ।
आविद्धगतिसंचारा स्यात्प्रेष्याभिसरेद्यदि ॥ 3.79 ॥

तत्राद्ये “उत्क्षिप्तम्” इत्यादि ।
अन्ययोः ऊह्यमुदाहरणम् ।
प्रसङ्गादभिसारस्थानानि कथ्यन्ते

क्षेत्रं वाटी भग्नदेवालयो दूतीगृहं वनम् ।
मालापञ्चः श्मशानं च नद्यादीनां तटी तथा ॥ 3.80 ॥

एवं कृताभिसाराणां पुंश्चलीनां विनोदने ।
स्थानान्यष्टौ तथा ध्वान्तच्छन्ने कुत्रचिदाश्रये ॥ 3.81 ॥

चाटुकारमपि प्राणनाथं राषादपास्य या ।
पश्चात्तापमवाप्नोति कलहान्तरिता तु सा ॥ 3.82 ॥

यथा मम तातपादानाम्
“नो चाटुश्रवणं कृतं, न च दृशा हारोऽन्तिके वीक्षितः, कान्तस्य प्रियहेतवे निजसखीवाचोऽपि दूरीकृताः ।
पादान्ते विनिपत्य तत्क्षणमसौ गच्छन्मया मूढया पाणिभ्यामवरुध्य इन्त ! सहसा कण्ठे कथं नार्पितः” ॥

प्रियः कृत्वापि संकेतं यस्या नायाति संनिधिम् ।
विप्रलब्धा तु सा ज्ञेया नितान्तमवमानिता ॥ 3.83 ॥

यथा
“उत्तिष्ठ दूति, यामो यामो यातस्तथापि नायातः ।
यातः परमपि जीवेज्जीवितनाथो भवेत्तस्याः” ॥

नानाकार्यवशाद्यस्या दूरदेशं गतः पतिः ॥
सा मनोभवदुःखार्ता भवेत्प्रोषितभर्तृका ॥ 3.84 ॥

यथा
“तां जानीयाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।
गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम्” ॥

कुरुते मण्डनं यस्याः सज्जिते वासवेश्मनि ।
सा तु वासकसज्जा स्याद्विदितप्रियसङ्गमा ॥ 3.85 ॥

यथा राघवानन्दानां नाटके
“विदूरे केयूरे कुरु, करयुगे रत्नवलयै रलं, गुर्वो ग्रीवाभरणलतिकेयं किमनया ।
नवामेकामेकावलिमयि मयि त्वं विरचयेर्न नेपथ्यं बहुतरमनङ्गोत्सवविधौ” ॥

आगन्तुं कृतचित्तोऽपि दैवान्नायाति यत्प्रियः ।
तदनागमदुःखार्ता विरहोत्कण्ठिता तु सा ॥ 3.8६ ॥

यथा
“किं रुद्धः प्रियया कयाचि, दथवा सख्या ममोद्वेजितः, किं वा कारणगौरवं किमपि, यन्नाद्यागतो वल्लभः ।
इत्यालोच्य मृगीदृशा करतले विन्यस्य वक्त्राम्बुजं दीर्घं निः श्वसितं, चिरं च रुदितं, क्षिप्ताश्च पुष्पस्त्रजः” ॥

इति साष्टाविंशतिशतमुत्तममध्याधमस्वरूपेण ।
चतुरधिकाशीतियुतं शतत्रयं नायिकाभेदाः ॥ 3.87 ॥

इह च “परस्त्रियौ कन्यकान्योढे संकेतात्पूर्वं विरहोत्कण्ठिते, पश्चाद्विदूष कादिना सहाभिसरन्तयावभिसारिके, कुतोऽपि संकेतस्थानमप्राप्ते नायके विप्रलब्धे, इति त्र्यवस्थैवानयोरस्वाधींनप्रिययोरवस्थान्तरायोगात्” ।
इति कश्चित् ।

क्वचिदन्योन्यसाङ्कर्यमासं लक्ष्येषु दृश्यते ।

यथा
“न खलु वयममुष्य दानयोग्याः पिबति च पाति च यासकौ रहस्त्वाम् ।
विट ! विटपममुं ददस्व तस्यै भवति यतः सदृशोश्चिराय योगः ।
तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्कर्णपूरैः ।
ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मम्” ॥
मुहुरुपदसिताविवालिनादैवितरसि नः कलिकां किमर्थमेनाम् ।
वसतिमुपगतेन धाम्नि तस्याः शठ ! कलिरेष महांस्त्वयाद्य दत्तः” ॥
“इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेसरेण ।
श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च” ॥
इयं हि वक्रोक्त्या परुषवचनेन कर्णोत्पलताडनेन च धीरमध्यताधीरमध्यताधीरप्रगल्भताभिः संकीर्णा ।
एकमन्यत्राप्यूह्यम् ।

इतरा अप्यसंख्यास्ता नोक्ता विस्तरश्ङ्कया ॥ 3.88 ॥

ता नायिकाः ।
अथासामलङ्काराः

यौवने सत्त्वजास्तासामष्टाविंशतिसंख्यकाः ।
अलङ्कारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः ॥ 3.89 ॥

शोभा कान्तिश्च दीप्तिश्च माधुर्यं च प्रगल्भता ।
औदार्थं धैर्यमित्येते सप्तैव स्युरयत्नजाः ॥ 3.90 ॥

लीला विलासो विच्छित्तिर्विव्वोकः किलकिञ्चितम् ।
मोट्टायितं कुट्टमितं विभ्रमो ललितं मदः ॥ 3.91 ॥

विहृतं तपनं मौग्ध्यं विक्षेपश्च कुतूहलम् ।
हसितं चकितं केलिरित्यष्टादशसंख्यकाः ॥ 3.92 ॥

स्वभावजाश्च भावाद्या दश पुंसां भवन्त्यपि ।

पूर्वे भावादयो धैर्यान्ता दश नायकानामपि संभवन्ति ।
किंतु सर्वेऽप्यमी नायिकाश्रिता एव विच्छित्तिविशेषं पुष्णान्ति ।
तत्र भावः

निर्विकारात्मके चित्ते भावः प्रथमविक्रिया ॥ 3.93 ॥

जन्मतः प्रभृति निर्विकारे मनसि उद्बुद्धमात्रो विकारो भावः ।
यथा
“स एव सुरभिः कालः स एव मलयानिलः ।
सैवेयमबला किंतु मनोऽन्यदिव दृश्यते” ॥
अथ हावः

भ्रूनेत्रादिविकारैस्तु संभोगेञ्छाप्रकाशकः ।
भाव एवाल्पसंलक्ष्यविकारो हाव उच्यते ॥ 3.94 ॥

यथा
“विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्वालकदम्बकल्पैः ।
साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन” ॥
अथ हेला

हलात्यन्तसमालक्ष्यविकारः स्यात्स एव तु ।

स एव भाव एव ।
यथा
“तह ते भ्क्तत्ति पौत्ता वहुए सव्वङ्गविब्भमा सअला ।
संसै अमुद्धभावा होइ चिरं जै सहीणं पि” ॥
अथ शोभा

रूपयौवनलालित्यभोगाधैरङ्गभूषणम् ॥ 3.95 ॥

शोभा प्रोक्ता

तत्र यौवनशोभा यथा
“असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे” ॥
एव मन्यत्रापि ।
अथ कान्तिः

सैव कान्तिर्मन्यथाष्यायितद्युतिः ।

मन्मथोन्मषेणातिविस्तीर्णा शोभैव कान्तिरुच्यते ।
यथा
“नेत्रे खञ्जनगञ्जने” इत्यत्र ।
अथ दीप्तिः

कान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते ॥ 3.9६ ॥

यथा मम चन्द्रकलानामनाटिकायां चन्द्रकलावर्णनम्
“तारुण्यस्य विलासः समधिकलावण्यसंपदो हासः ।
धरणितलस्याभरणं युवजनमनसो वशीकरणम्” ॥
अथ माधुर्यम्

सर्वावस्थाविशेषेषु माधुर्यं रमणीयता ।

यथा
“सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोलर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमि हि मधुरणां मण्डनं नाकृतीनाम्” ॥
अथ प्रगल्भता

निःसाध्वसत्वं प्रागलभ्यम्

यथा
“समाश्लिष्टाः समाश्लेषैश्चुम्बिताश्चुम्बनैरपि ।
दष्टाश्च दंशनैः कान्तं दासीकुर्वन्ति योषितः” ॥
अथौदार्यम्

औदार्यं विनयः सदा ॥ 3.97 ॥

यथा
“न ब्रूते परुषां गिरं वितनुते न भ्रयुगं भङ्गरं, नोत्तंसं क्षिपति क्षितौ श्रवणतः सा मे स्फुटेऽप्यागसि ।
कान्ता गर्भगृहे गावाक्षविवरव्यापारिताक्ष्या बहीः सख्या वक्त्रमभिप्रयच्छति परं पर्यश्रुणी लोचने” ॥
अथ धैर्यम्

मुक्तात्मश्लाघना धैर्यं मनोवृत्तिरचञ्चला ।

यथाज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी, दहतु मदनः, किंवा मृत्योः परेण विधास्यति ।
मम तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम्” ॥
अथ लीला

अङ्गैर्वेषैरलङ्कारैः प्रेमिभिर्वचनैरपि ॥ 3.98 ॥

प्रीतिप्रयोजितैर्लोलां प्रियस्यानुकृतिं विदुः ।

यथामृणालव्यालवलया वेणीबन्धकपर्दिनी ।
हारनुकारिणी पातु लीलया पार्वती जगत् ॥
अथ विलासः

यानस्थानासनादीनां मुखनेत्रादिकर्मणाम् ॥ 3.99 ॥

विशेषस्तु विलासः स्यादिष्टसन्दर्शनादिना ।

यथा
“अत्रान्तरे किमपि वाग्विभवातिवृत्तवैचित्र्यमुल्लसितविभ्रममायताक्ष्याः ।
तद्भूरिसात्त्विकविकारमपास्तधैर्यमाचार्यकं विजयि मान्मथमाविरासीत्” ॥
अथ विच्छत्तिः

स्तोकाप्याकल्परचना विच्छित्तिः कान्तिपोषकृत् ।

यथा
“स्वच्छाम्भः स्नपनविधौतमङ्गमोष्टस्ताम्बूलद्युतिविशदो विलासिनीनाम् ।
वासस्तु प्रतनु विविक्तमस्त्वितीयानाकल्पो यदि कुसुमेषुणा न शून्यः” ॥
अथ विव्वोकः

विव्वोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः ॥ 3.100 ॥

यथा
“यासां सत्यपि सद्गुणानुसरणो दोषानुवृत्तिः परा, याः प्राणान् वरमर्पयन्ति, न पुनः सम्पूर्णदृष्टिं प्रिये ।
अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यासां निषेधात्मक स्तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसिदन्तु ते” ॥
अथ किलकिञ्चितम्

स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीनाम् ।
साङ्कर्यं किलाकिञ्चितमभीष्टतमसङ्गमादिजाद्धर्षात् ॥ 3.101 ॥

यथा
“पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः ।
कामिनः स्म कुरुते करभोरुर्हारि शुष्करुदितं च सुखेऽपि” ॥
अथ मोट्टायितम्

तद्भावभाविते चित्ते वल्लभस्य कथादिषु ।
मोट्टायितमिति प्राहुः कर्णकण्डूयनादिकम् ॥ 3.102 ॥

यथा
“सुभग ! त्वत्कथारम्भे कर्णकण्डूतिलालसा ।
उज्जृम्भवनाम्भोजा भिनत्त्यङ्गानि साङ्गना” ॥
अथ कुट्टमितम्

केशस्तनाधरादीनां ग्रहे हर्षेऽपि सम्भ्रमात् ।
आहुः कुट्टमितं नाम शिरः करविधूननम् ॥ 3.103 ॥

यथा
“पल्लवोपमितिसाम्यसपक्षं दष्टवत्यधरबिम्बमभीष्टे ।
पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण” ॥
अथ विभ्रमः

त्वरया हर्षरागादेर्दयितागमनादिषु ।
अस्थाने विभ्रमादीनां विन्यासो विभ्रमो मतः ॥ 3.104 ॥

यथा
“श्रुत्वायान्तं बहिः कान्तमसमाप्तविभूषया ।
भलेऽञ्जनं दृशोर्लाक्षा कपोले तिलकः कृतः” ॥

अथ ललितम्

सुकुमारतयाङ्गानां विन्यासो ललितं भवेत् ।

यथा
“गुरुतरकलनूपुरानुनादं सललितनतितवामपादपद्मा ।
इतरदनतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम” ॥
अथ मदः

मदो विकारः सौभग्ययौवनाद्यवलेपजः ॥ 3.105 ॥

यथा
“मा गर्वमुद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति ।
अन्यापि किं न खलु भाजनमीदृशीनां वैरी न चेद्भवति वेपथुरन्तरायः” ॥
अथ विहृतम्

वक्तव्यकालेऽप्यवचो व्रीडया विहृतं मतम् ।

यथा
“दूरागतेन कुशलं पृष्टा नोवाच सा मया किञ्चित् ।
पर्यश्रुणी तु नयने तस्याः कथयाम्बभूवतुः सर्वम्” ॥
अथ तपनम्

तपनं प्रियविच्छेदे स्मरवेगोत्थचेष्टितम् ॥ 3.10६ ॥

यथा मम
“श्वासान्मुञ्चति भूतले विलुठति, त्वन्मार्गमालोकते, दर्घं रोदिति, विभिपत्य इतः क्षामां भुजावल्लरीम् ।
किञ्च, प्राणसमान ! काङ्क्षितवती स्वप्नेऽपि ते सङ्गमं, निद्रां वाञ्छति, न प्रयच्छति पुनर्दग्धो विधिस्तामपि” ॥
अथ मौग्ध्यम्

अज्ञानादिव या पृच्छा प्रतीतस्यापि वस्तुनः ।
वल्लभस्य पुरः प्रोक्तं मौग्ध्यं तत्तत्त्ववेदिभिः ॥ 3.107 ॥

यथाके द्रुमास्ते क्व वा ग्रामे सन्ति केन प्ररोपिताः ।
नाय ! मत्कङ्गणन्यस्तं येषां मुक्ताफलं फलम्” ॥
अथ विक्षेपः

भूषाणामर्धरचना मिथ्या विष्वगवेक्षणम् ।
रहस्याख्यानमीषच्च विक्षेपो दयितान्तिके ॥ 3.108 ॥

यथा
“धम्मिल्लमर्धमुक्तं कलयति तिलकं तथासकलम् ।
किञ्चिद्वदति रहस्यं चकितं विष्वग्विलोकते तन्वी ॥
अथ कुतूहलम्

रम्यवस्तुसमालोके लोलता स्यात्कुतूहलम् ।

यथा
“प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव ।
उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्का पदवीं ततान” ॥

अथ हसितम्

हसितं तु वृथाहासो यौवनोद्भेदसम्भवः ॥ 3.109 ॥

यथा
“अकस्मादेव तन्वङ्गी जहास यदियं पुनः ।
नूनं प्रसूनवाणोऽस्यां स्वराज्यमधितिष्ठति ॥

अथ चकितम्

कुतोऽपि दयितस्याग्रे चकतं भयसम्भ्रमः ।

यथा
“त्रस्यन्ती चलशफरीविघट्टितोरूर्वामोरूरतिशयमाप विभ्रमस्य ।
क्षुभ्यन्ति प्रसभमहो विनापि हेतोर्लोलाभिः किमु सति कारणो तरुण्यः ॥

अथ केलिः

विहारे सह कान्तेन क्रीडितं कोलिरुच्यते ॥ 3.110 ॥

यथा
“व्यपोहितुं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः ।
पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी” ॥
अथ मुग्धाकन्ययोरनुरागेङ्गितानि

दृष्टवा दर्शयति व्रीङां सम्मुखं नैव पश्यति ।
प्रच्छन्नं वा भ्रमन्तं वातिक्रान्तं पश्यति प्रियम् ॥ 3.111 ॥

बहुधा पृच्छ्यमानापि मन्दमन्दमधोमुखी ।
सगद्रदस्वरं किञ्चित्प्रियं प्रायेण भाषते ॥ 3.112 ॥

अन्यैः प्रवर्तितां शश्वत्सावधाना च तत्कथाम् ।
शृणोत्यन्यत्र दत्ताक्षी प्रिये बालानुरागिणी ॥ 3.113 ॥

अथ सकलानामपि नायिकानामनुरागेङ्गितानि

चिराय सविधे स्थानं प्रियस्य बहु मन्यते ।
विलोचनपथं चास्य न गच्छत्यनलङ्कृता ॥ 3.114 ॥

क्वापि कुन्तलसंव्यानसंयमव्यपदेशतः ।
बाहुमूलं स्तनौ नाभिपङ्कजं दर्शयेत्स्फुटम् ॥ 3.115 ॥

आच्छादयति वागाद्यैः प्रियस्य परिचारकान् ।
विश्वसित्यस्य मित्रेषु बहुमानं करोति च ॥ 3.11६ ॥

सखीमघ्ये गुणान् ब्रूते स्वधनं प्रददाति च ।
सुप्ते स्वपिति दुःखेऽस्य दुःखं धत्ते सुखे सुखम् ॥ 3.117 ॥

स्थिता दृष्टिपथे शश्वत्प्रिये पश्यति दूरतः ।
आभाषते परिजनं सम्मुखं स्मरिविक्रियम् ॥ 3.118 ॥

यत्किञ्चिदपि संवीक्ष्य कुरुते हसितं मुधा ।
कर्णकण्डूयनं तद्वत्कबरीमोक्षसंयमौ ॥ 3.119 ॥

जृम्भते स्फोटयत्यङ्गं बालमाश्लिष्य चुम्बति ।
भाले तथा वयस्याया रचयेत्तिलकक्रियाम् ॥ 3.120 ॥

अङ्गुष्ठाग्रेण लिखति सकटाक्षं निरीक्षते ।
दशति स्वाधरं चापि ब्रूते प्रियमधोमुखी ॥ 3.121 ॥

न मुञ्चति च तं देशं नायको यत्र दृश्यते ।
आगच्छति गृहं तस्य कार्यव्याजेन केनचित् ॥ 3.122 ॥

दत्तं किमपि कान्तेन धृत्वाङ्गे मुहुरीक्षते ।
नित्यं हष्यति तद्योगे वियोगे मलिना कृशा ॥ 3.123 ॥

मन्यते बहु तच्छीलं तत्प्रियं मन्यते प्रियम् ।
प्रार्थयत्यल्पमूल्यानि सुप्ता न परिवर्तते ॥ 3.124 ॥

विकारान् सात्त्विकानस्य सम्मुखी नाधिगच्छति ।
भाषते सूनृतं स्निग्धामनुरक्ता नितम्बिनी ॥ 3.125 ॥

एतेष्वधिकलज्जानि चेष्टितानि नवस्त्रियाः ।
मध्यव्रीडानि मध्यायाः स्त्रंसमानत्रपाणि तु ॥ 3.12६ ॥

आन्यस्त्रियाः प्रगल्भायास्तथा स्युर्वारयोषितः ।

दिङ्मात्रं यथा
“अन्तिकगतमपि मामियमवलोकयतीव इन्त ! दृष्ट्वापि ।
सरसनखक्षतलक्षितमाविष्कुरुते भुजामूलम्” ॥
तथा

लेख्यप्रस्थापनैः स्निग्धैर्वोक्षितैर्मृदुभाषितैः ॥ 3.127 ॥

दूतीसम्प्रेषणैर्नार्या भावाभिव्यक्तिरिष्यते ।

दूत्यश्च

दूत्यः सखी नटी दासी धात्रेयी प्रतिवेशिनी ॥ 3.128 ॥

बाला प्रव्रजिता कारूः शिल्पिन्याद्यः स्वयं तथा ।
कारू रजकीप्रभृतिः ।
शिल्पिनी चित्रकारादिस्त्री ।
आदिशब्दात्ताम्बूलिकगान्धिकस्त्रीप्रभृतयः ।
तत्र सखी यथा
“श्वासान्मुञ्चति” इत्यादि ।
स्वयंदूती यथा मम
“पन्थिअ पिआसिओ विअ लच्छीअसि जासि ता किमण्णत्तो ।
ण मणं वि वारओ इध अत्थि धरे घणरसं पिअन्ताणं” ॥

एताश्च नायिकाविषये नायकानामपि दूत्यो भवन्ति ।

दूतीगुणानाह

कलाकौश्लमुत्साहो भक्तिश्चित्तज्ञता स्मृतिः ॥ 3.129 ॥

माधुर्यं नर्मविज्ञानं वाग्मिता चेत तद्गुणाः ।
एत अपि यथैचित्यादुत्तमाधममध्यमाः ॥ 3.130 ॥

एतादूत्यः ।
अथ प्रतिनायकः

धीरोद्धतः पापकारी व्यसनी प्रतिनायकः ।

यथा रामस्य रावणः ।
अथेद्दीपनविभावाः

उद्दीपनविभावास्ते रसमुद्दीपयन्ति ये ॥ 3.131 ॥

ते च

आलम्बनस्य चेष्टाद्या देशकालादयस्तथा ।

चेष्टाद्या इत्याद्यशब्दाद्रूपभाषणादयः ।
कालादीत्यादिशब्दाच्चन्द्रचन्दनकोकिलालापभ्रमरभ्क्तंकारादयः ।
तत्र चन्द्रोदयो यथा मम
“करमुदयमहीधरस्तनाग्रे गलिततमः पटलंशुके निवेश्य ।
विकसितकुमुदेक्षणं विचुम्बत्ययममरेशदिशो मुखं सुधांशुः” ॥
यो यस्य रसम्योद्दीपनविभावः स तत्स्वरूपवर्णने वक्ष्यते ।
अथानुभावाः

उद्बुद्धं कारणैः स्वैबहिर्भावं प्रकाशयन् ॥ 3.132 ॥

लोके यः कार्यरूपः सोऽनुभावः काव्यनाट्ययोः ।

यः खलु लोके सीतादिचन्द्रादिभिः स्वैः स्वैरालम्बनोद्दीपनकारणे रामादेरन्तरुद्बुद्धं रत्यादिकं बहिः प्रकाशयन् कार्यमित्युच्यते, स काव्यनाट्ययोः पुनरनुभावः ।
कः पुनरसावित्याह

उक्ताः स्त्रीणामलङ्कारा अङ्गजाश्च स्वभावजाः ॥ 3.133 ॥

तद्रूपाः सात्त्विका भावास्तथा चेष्टाः परा अपि ।

तद्रूपा अनुभावस्वरूपाः ।
तत्र यो यस्य रसस्यानुभावः स तत्स्वरूपवर्णने वक्ष्यते ।
तत्र सात्त्विकाः

विकाराः सत्त्वसंभूताः सात्त्विकाः परिकीर्तिताः ॥ 3.134 ॥

सत्त्वं नाम स्वात्मविश्रामप्रकाशकारी कश्चनान्तरो धर्मः ।

सत्त्वमात्रोद्भवत्वात्ते भिन्ना अष्यनुभावतः ।

“गोबलीवर्द्दन्ययेन” इति शेषः ।
के त इत्याह

स्तम्भः स्वेदोऽथ लोमाञ्चः स्वरभङ्गोऽथ वेपथुः ॥ 3.135 ॥

वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ।

तत्र

स्तम्भश्चेष्टाप्रतीघातो भहर्षामयादिभिः ॥ 3.13६ ॥

वपुर्जलोद्रमः स्वेदो रतिघर्मश्रमादिभिः ।
हर्षाद्भुतभयादिभ्यो रोमाञ्चो रोमविक्रिया ॥ 3.137 ॥

मदसंमदपीडाद्यैर्वैस्वर्यं गद्रदं विदुः ।
रागद्वेषश्रणादिभ्यः कम्पो गात्रस्य वेपथुः ॥ 3.138 ॥

विषादमदरोषाद्यैर्वर्णान्यत्वं विवर्णता ।
अश्रु नेत्रोद्रवं वारि क्रोधदुःखप्रहर्षजम् ॥ 3.139 ॥

प्रलयः सुखदुःखाभ्यां चेष्टाज्ञाननिराकृतिः ।

यथा ममतनुस्पर्शादस्या दरमुकुलिते हन्त ! नयने उदञ्चद्रोमाञ्चं व्रजति जडतामङ्गमखिलम् ।
कपोलौ घर्मार्द्रै ध्रुवमुपरताशेषविषयं मनः सान्द्रानन्दं स्पृशति भ्क्तटिति ब्रह्म परमम्” ॥
एवमन्यत् ।
अथ व्यभिचारिणः

विशेषादाभिमुख्येन चरणाद्व्यभिचारिणः ।
स्थायिन्युन्मग्ननिर्मग्नास्त्रयस्त्रिंशच्च तद्भिदाः ॥ 3.140 ॥

स्थिरतया वर्तमाने हि रत्यादौ निर्वेदादयः प्रादुर्भावतिरोभावाभ्यामाभिमुख्येन चरणाद्व्यभिचारिणः कथ्यन्ते ।
के त इत्याह

निर्वेदावेगदैन्यश्रममदजडता औग्र्यमोहौ विबोधः स्वष्नापस्मारगर्वा मरणमलसतामर्षनिद्रावहित्थाः ।
औत्सुक्योन्मादशङ्काः स्मृतिमतिसहिता व्याधिसत्रासलज्जा हर्षासूयाविषादाः सधूतिचपलता ग्लानिचिन्तावितर्काः ॥ 3.141 ॥

तत्र निर्वेदः

तत्त्वज्ञानापदीर्ष्यादेर्निर्वेदः स्वावमाननम् ।
दैन्यचिन्ताश्रुनिः श्वासवैवर्ण्योच्छवसितादिकृत् ॥ 3.142 ॥

तत्त्वज्ञानान्निर्वेदो यथा
“मृत्कुम्भवालुकारन्ध्रपिधानरचनार्थिना ।
दक्षिणावर्तशङ्खोऽयं हन्त ! चूर्णोकृतो मया” ॥
अथावेगः

आवेगः संभ्रमस्तत्र वर्षजे पिण्डिताङ्गता ।
उत्पातजे स्त्ररतताङ्गे, धूमाद्याकुलताग्निजे ॥ 3.143 ॥

राजविद्रवजादेस्तु शस्त्रनागादियोजनम् ।
गजादेः स्तम्भकम्पादि, पांस्वाद्याकुलतानिलात् ॥ 3.144 ॥

इष्टाद्धर्षाः, शुचोऽनिष्टाज्ज्ञेयाश्चान्ये यथायथम् ।

तत्र शत्रुजो यथा
“अर्घ्यमर्घ्यमिति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यतः ।
क्षत्रकोपदहनार्चिषं ततः सन्धे दृशमुदग्रतारकम्” ॥
एवमन्यदूह्यम् ।
अथ दैन्यम्

दौर्गत्याद्यैरनौजस्यं दैन्यं मलिनतादिकृत् ॥ 3.145 ॥

यथा
“वृद्धोऽन्धः पतिरेष मञ्चकगतः, स्थूणावशेषं गृहं, कालोऽभ्यर्णजलागमः कुशलिनी वत्सस्य वार्तापि नो ।
यत्नात्सञ्चिततैलबिन्दुघटिका भग्नेति पर्याकुला दृष्ट्वा गर्भभरालसं निजबधूं श्वश्रूश्चिरं रोदिति” ॥
अथ श्रमः

खेदो रत्यध्वगत्यादेः श्वासनिद्रादिकृच्छ्रमः ।

यथा
“सद्यः पुरीपरिसरेऽपि शिरीषमृद्वी सीता जवात्र्त्रिचतुराणि पदानि गत्वा ।
गन्तव्यमस्ति कियदित्यसकृद्ब्रुवाणा रामाश्रुणः कृतवती प्रथमावतारम्” ॥
अथ मदः

संमोहानन्दसंभेदो मदो मद्योपयोगजः ॥ 3.14६ ॥

अमुना चोत्तमः शेते मध्यो हसति गायति ।
अधमप्रकृतिश्चापि परुषं वक्ति रोदिति ॥ 3.147 ॥

यथा
“प्रातिभं त्रिसरकेण गतानां वक्रवाक्यारचनामणीयः ।
गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः” ॥
अथ जडता

अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः ।
अनिमिषनयननिरीक्षणतूष्णींभावादयस्तत्र ॥ 3.148 ॥

यथा मम कुवलयाश्वचरिते प्राकृतकाव्ये
“णवरिअ तं जुअजुअलं अण्णोण्णं णिहिदसजलमन्थरदिटिंठ ।
आलेक्खओपित्र्त्रं विअ खणमेत्तं तत्थ संट्ठिअं मुअसण्णां” ॥
अथोग्रता

शौर्यापराधादिभवं भवेच्चण्डत्वमुग्रता ।
तत्र स्वेदशिरः कम्पतर्जनाताडनादयः ॥ 3.149 ॥

यथा
“प्रणयिसखीसलीलपरिहासरसाधिगत र्ललितशिरीषपुष्पहननैरपि ताम्यति यत् ।
वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः” ॥
अथ मोहः

मोहो विचित्तता भीतिदुः खावेगानुचिन्ततैः ।
मूर्च्छनाज्ञानपतनभ्रमणादर्शनादिकृत् ॥ 3.150 ॥

यथा
“तिव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणामज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव” ॥
अथ विबोधः

निद्रापगमहेतुभ्यो विबोधश्चेतनागमः ।
जम्भाङ्गभङ्गनयनमीलनाङ्गावलोककृत् ॥ 3.151 ॥

यथा
“चिररतिपरिखेदप्राप्तनिद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः ।
अपरिचलितगात्राः कुर्वते न प्रियाणा मशिथिलभुजचक्राश्लेषभेदं तरुण्यः” ॥
अथ स्वप्नः

स्वप्नो निद्रामुपेतस्य विषयानुभवस्तु यः ।
कोपावेगभयग्लानिसुखदुः खादिकारकः ॥ 3.152 ॥

यथा
“मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेन ।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति” ॥
अथापस्मारः

मनःक्षेपस्त्वपस्मारा ग्रहाद्यावेशनादिजः ।
भूपातकम्पप्रस्वेदफेनलालादिकारकः ॥ 3.153 ॥

“आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम् ।
फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के” ॥
अथ गर्वः

गर्वो मदः प्रभावश्रीर्विद्यासत्कुलतादिजः ।
अवज्ञासविलासाङ्गदर्शनाविनयादिकृत् ॥ 3.154 ॥

तत्र शौर्यगर्वो यथा
“धृतायुधो यावदहं तावदन्यैः किमायुधैः ।
यद्वा न सिद्धमस्त्रेण मम तत्केन साध्यताम्” ॥
अथ मरणम्

शराद्यैर्मरणं जीवत्यागोऽङ्गपतनादिकृत् ।

यथा
“राममन्मथशरेण ताडिता दुः सहेन हृदये निशाचरी ।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा” ॥
अथालस्यम्

आलस्यं श्रमगर्भाद्यैर्जाड्यं जम्भासितादिकृत् ॥ 3.155 ॥

यथा
“न तथा भूषयत्यङ्ग न तथा भाषते सखीम् ।
जृम्भते मुहुरासीना बाला गर्भभरालसा” ॥
अथामर्षः

निन्दाक्षेपापमानादेरमर्षोऽभिनिविष्टता ।
नेत्ररागशिरः कम्पभ्रूभङ्गोत्तर्जनादिकृत् ॥ 3.15६ ॥

यथाप्रायश्चितं चरिष्यामि पूज्यानां वो व्यतिक्रमात् ।
न त्वेव दूषयिष्यामि शस्त्रग्रहमहाव्रतम् ॥
अथ निद्रा

चेतः संमीलनं निद्रा श्रमल्कममदादिजा ।
जृम्भाक्षिमीलनोच्छ्वासगात्रभङ्गादिकारणम् ॥ 3.157 ॥

यथा
“सार्थकानर्थकपदं ब्रुवती मन्थराक्षरम् ।
निद्रार्धमीलिताक्षी सा लिखितेवास्ति मे हृदि” ॥
अथावहित्था

भयगौरवलज्जादेर्हर्षाद्याकारगुप्तिरवहित्था ।
व्यापारान्तरसक्त्यन्यथावभाषणविलोकनादिकरी ॥ 3.158 ॥

यथा
“एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।
लीलाकमलपत्राणि गणयामास पार्वती” ॥
श्रथौत्सुक्यम्

इष्टानवाप्तेरौत्सुक्यं कालक्षेपासहिष्णुता ।
चित्ततापत्वरास्वेददीर्घनिः श्वसितादिकृत् ॥ 3.159 ॥

यथा
“यः कौमारहरः स एव हि वरःऽइत्यादौ (15 पृदृ) अत्र यत्काव्यप्रकाशकारेण रसस्य प्राधान्यमित्युक्तं तद्रसनधर्मयोगित्वाद्व्यभिचारिभावस्यापि रसशबादवाच्यत्वेन गतार्थं मन्तव्यम् ।
अथोन्मादः

चित्तसंमोह उन्मादः कामशोकभयादिभिः ।
अस्थानहासरुदितगीतप्रलपनादिकृत् ॥ 3.1६0 ॥

यथा मम
“भ्रतार्द्विरेफ ! भवता भ्रमता समन्ता त्प्राणाधिका प्रियतमा मम वीक्षिता किम् ? ।
(भ्क्तंकारमनुभूय सानन्दम् । ) “ब्रषे किमोमिति सखे ! कथयाशु तन्मे किं किं व्यवस्यति कुतोऽस्ति च कीदृशीयम्” ॥
अथ शङ्का

परक्रौर्यात्मदोषाद्यैः शङ्कानर्थस्य तर्कणम् ।
वैवर्ण्यकम्पवैस्वर्यपार्श्वालोकास्यशोषकृत् ॥ 3.1६1 ॥

यथा मम
“प्राणोशेन प्रहितनखरेष्वङ्गकेषु क्षपान्ते जातातङ्का रचयति चिरं चन्दनालेपनानि ।
धत्ते लाक्षामसकृदधरे दत्तदन्तावघाते क्षामाङ्गीयं चकितमभितश्चक्षुषी विक्षिपन्ती” ॥
अथ स्मृतिः

सदृशज्ञानचिन्ताद्यैर्भ्रूसमुन्नयनादिकृत् ।
स्मृतिः पूर्वानुभूतार्थविषयज्ञानमुच्यते ॥ 3.1६2 ॥

यथा मम
“मयि सकपटं किंचित्क्वापि प्रणीतविलोचने किमपि नमनं प्राप्ते तिर्यग्विजृम्भिततारकम् ।
स्मितमुपगतामालीं दृष्ट्वा सलज्जमवाञ्चितं कुवलयदृशः स्मेरं स्मेरं स्मरामि तदाननम्” ॥
अथ मतिः

नीतिमार्गनुसृत्यादेरर्थनिर्धारणं मतिः ।
स्मेरता धृतिसंतोषौ बहुमानश्च तद्भवाः ॥ 3.1६3 ॥

यथा
“असंशयं क्षअपरिग्रहक्षमा यादर्यमस्यामभिलाषि मे मनः ।
सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तः करणप्रवृत्तयः” ॥
अथ व्याधिः

व्याधिर्ज्वरादिर्वाताद्यैभूमीच्छोत्कम्पनादिकृत् ।

तत्र दाहमयत्वे भूमीच्छादयः ।
शैत्यमयत्वे उत्कम्पनादयः ।
स्पष्टमुदाहरणम् ।
अथ त्रासः

निर्घातविद्युदुल्काद्यैस्त्रासः कम्पादिकारकः ॥ 3.164 ॥

यथा
“परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः ।
उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि वोलोकनीयताम्” ॥
अथ व्रीडा

धार्ष्ट्याभावो व्रडा वदनानमनादिकृद्दुराचारात् ।

यथा
“मयि सकपटम्” इत्यादि ( 173 पृदृ) ।
अथ हर्षः

हर्षस्त्विष्टावाप्तेर्मनः प्रसादोऽश्रुगद्गदादिकरः ॥ 3.165 ॥

यथा
“समीक्ष्य पुत्रस्य चिरात्पिता मुखं निधानकुम्भस्य यथैव दुर्गतः ।
मुदा शरीरे प्रबभूव नात्मनः पयोधिरन्दूदयमूर्च्छितो यथा” ॥
अथासूया

असूयान्यगुणर्द्धेनामौद्धत्यादसहिष्णुता ।
दोषोद्धोषभ्रूविभेदावज्ञाक्रोधेङ्गितादिकृत् ॥ 3.166 ॥

यथा
“अथ तत्र पाण्डुतनयेन सदसि विहितं मधुद्विषः ।
मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम्” ॥
अथ विषादः

उपायाभावजन्मा तु विषादः सत्त्वसंक्षयः ।
निःश्वासोच्छवासहृत्तापसहायान्वेषणादिकृत् ॥ 3.1६7 ॥

यथा ममएसा कुडिलघणोन चिउरकडप्पेण तुह णिबद्धा वेणी ।
मह सहि दारै ढंसै आअसधट्टीव्व कालौरैव्व हिअअम् ॥
अथ धृतिः

ज्ञानाभीष्टागमाद्यैस्तु संपूर्णस्पृहता धतिः ।
सौहित्यवचनोल्लाससहासप्रतिभादिकत् ॥ 3.168 ॥

यथा मम
“कृत्वा दीननिपीडनां निजजने बद्ध्वा वचोविग्रहं नैवालोच्य गरीयसीरपि चिरादामुष्मिकीर्यातनाः ।
द्रव्यौघाः परिसंचिताः खलु मया यस्याः कृते सांप्रतं नीवारञ्जलिनापि केवलमहो सेयं कृतार्था तनुः” ॥
अथ चपलता

मात्सर्यद्वेषरागादेश्चापल्यं त्वनवस्थितिः ।
तत्र भर्त्सनपारुष्यस्वच्छन्दाचरणादयः ॥ 3.169 ॥

यथा
“अन्यासु तावदुपमर्दसहासु भृङ्ग ! लोलं विनोदय मनः सुमनोलतासु ।
मुग्धामजातरजसं कलिकामकाले व्यर्थं कदर्थयसि किं नवमालिकायाः” ॥
अथ ग्लानिः

रत्यायासमनस्तापक्षुत्पिपासादिसंभवा ।
ग्लानिर्निप्प्राणताम्पकार्श्यानुत्साहतादिकृत् ॥ 3.170 ॥

यथा
“किसलयमिव मुग्धं बन्धनाद्विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः ।
ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव घर्मः केतकीगर्भपत्रम्” ॥
अथ चिन्ता

ध्यानं चिन्ता हितानाप्तेः शून्यताश्वासतापकृत् ।

यथा मम
“कमलेण विअसिएणं संजोएन्ती विरोहिणं ससिबिम्बम् ।
करअलपल्लत्थमुही किं चिन्तसि सुमुहि अन्तराहिअहिअआ” ॥
अथ तर्कः

तर्का विचारः संदेहाद्भ्रूशिरोऽङ्गुलिनर्तकः ॥ 3.171 ॥

यथा
“किं रुद्धः प्रियया” इत्यादि ।
एते च त्रयस्त्रिंशद्व्यभिचारिभेदा इति यदुक्तं तदुपलक्षणमित्याह
रत्यादयोऽप्यनियते रसे स्युर्व्यभिचारिणः ।
तथाहिशृङ्गारेऽनुच्छिद्यमानतयावस्थानाद्रतिरेव स्थायिशब्दवाच्या हासः पुनरुपद्यमानो व्यभिचार्येव ।
व्यभिचारिलक्षणायोगात् ।
तदुक्तम्
“रसावस्थः परं भावः स्थायितां प्रतिपद्यते” ।
इति ।

तत्कस्य स्थायिनः कस्मिन् रसे सञ्चारित्वमित्याह
शृङ्गारवीरयोर्हासो वीरे क्रोधस्तथा मतः ॥ 3.172 ॥

शान्ते जुगुप्सा कथिता व्यभिचारितया पुनः ।
इत्याद्यन्यत्समुन्नेयं तथा भावितबुद्धिभिः ॥ 3.173 ॥

अथ स्थायिभावः

अविरुद्धा विरुद्धा वा यं तिरोधातुमक्षमाः ।
आस्वादाङ्कुरकन्दोऽसौ भावः स्थायीति संमतः ॥ 3.174 ॥

यदुक्तम्
“स्त्रक्सूत्रवृत्त्या भावानामन्येषामनुगामकः ।
न तिरोधीयते स्थायी तैरसौ पुष्यते परम्” ॥
इति ।
तद्भेदानाह

रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश्चेत्थमष्टौ प्रोक्ताः शमोऽपि च ॥ 3.175 ॥

तत्र

रतिर्मनोऽनुकूलेर्ऽथे मनसः प्रवणायितम् ।
वागादिवैकृतैश्चेतोविकासो हास इष्यते ॥ 3.176 ॥

इष्टनाशादिभिश्चेतोवैक्लव्यं शोकशब्दभाक् ।
प्रतिकूलेषु तैक्ष्णस्यावबोधः क्रोध इष्यते ॥ 3.177 ॥

कार्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते ।
रौद्रशक्त्या तु जनितं चित्तवैक्लव्यं भयम् ॥ 3.178 ॥

दोषेक्षणादिभिर्गर्हा जुगुप्सा विस्मयोद्भवा ।
विविधेषु पदार्थेषु लोकसीमातिवर्तिषु ॥ 3.179 ॥

विस्फारश्चेतसो यस्तु स विस्मय उदाहृतः ।
शमो निरीहास्थायां स्वात्मविश्रामजं सुखम् ॥ 3.180 ॥

यथा मालतीमाधवे रतिः ।
लटकमेलके हासः ।
रामायणो शोकः ।
महाभारते शमः ।
एवमन्यत्रापि ।
एते ह्येतेष्वन्तरा उत्पद्यमानैस्तैस्तैविरुद्धैरविरुद्धैश्च भावैरनुच्छिन्नाः प्रत्युत परिपुष्टा एव सहृदयानुभवसिद्धाः ।
किं च

नानाभिनयसंबन्धान् भावयन्ति रसान् यतः ।
तस्माद्भावा अमी प्रोक्ताः स्थायिसंचारिसात्त्विकाः ॥ 3.181 ॥

यदुक्तम्
“सुखदुःखादिभिर्भावैर्भावस्तद्भावभावनम्” अथ रसस्य भेदानाह

शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ।
बीभत्सोऽद्भुत इत्यष्टौ रसाः शान्तस्तथा मतः ॥ 3.182 ॥

तत्र शृङ्गारः

शृङ्ग हि मन्मथोद्भेदस्तदागमनहेतुकः ।
उत्तमप्रकृतिप्रायो रसः शृङ्गार इष्यते ॥ 3.183 ॥

परोढां वर्जयित्वा तु वेश्यां चाननुरागिणीम् ।
आलम्बनं नायिकाः स्युर्दक्षिणाद्याश्च नायकाः ॥ 3.184 ॥

चन्द्रचन्दननरोलम्बरुताद्युद्दीपनं मतम् ।
भ्रूविक्षेपकटाक्षादिरनुभावः प्रकीर्तितः ॥ 3.185 ॥

त्यक्त्वौग्र्यमरणालस्यजुगुष्साव्यभिचारिणः ।
स्थायिभावो रतिः श्यामवर्णोऽयं विष्णुदैवतः ।

यथा
“शून्यं वासगृहम्” इत्यादि ।
अत्रोक्तस्वरूपः पतिः, उक्तस्वरूपा च बाला आलम्बनविभावौ ।
शून्यं वासगृहमुद्दीपनविभावः ।
चुम्बनमनुभावः ।
लज्जाहासौ व्यभिचारिणौ ।
एतैरभिव्यक्तः सहृदयविषयो रतिभावः शृङ्गाररसरूपतां भजते ।
तद्भेदावाह

विप्रलम्भोऽथ संभोग इत्येष द्विविधो मतः ॥ 3.186 ॥

तत्र

यत्र तु रतिः प्रकृष्टा नाभीष्टमुपैति विप्रलम्भोऽसा ।

अभीष्टं नायकं नायिकां वा ।

स च पूर्वरागमानप्रवासकरुणात्मकश्चतुर्धा स्यात् ॥ 3.187 ॥

तत्र

श्रवणाद्दर्शनाद्वापि मिथः संरूढरागयोः ।
दशाविशेषो योऽप्राप्तौ पूर्वरागः स उच्यते ॥ 3.188 ॥

श्रवणं तु भवेत्तत्र दूतवन्दीसखीमुखात् ।
इन्द्रजाले च चित्रे च साक्षात्स्वष्ने च दर्शनम् ॥ 3.189 ॥

अभिलाषश्चिन्तास्मृतिगुणकथनोद्वेगसंप्रलापाश्च ।
उन्मादोऽथ व्याधिर्जडता मृतिरिति दशात्र कामदशाः ॥ 3.190 ॥

अभिलाषः स्पृहा चिन्ता प्राप्त्युपायादिचिन्तनम् ।
उन्मादश्चापरिच्छेदश्चेतनाचेतनेष्वपि ॥ 3.191 ॥
अलक्ष्यवाक्प्रलापः स्याच्चेतसो भ्रमणाद्भृशम् ।
व्याधिस्तु दीर्घनिः श्वासपाण्डुताकृशतादयः ॥ 3.192 ॥

जडता हीनचेष्टत्वमङ्गानां मनसस्तथा ।

शेषं स्पष्टम् ।
क्रमेणोदाहरणानि
“प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्राढरागोदया स्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि ।
यास्वन्तः करणस्य बाह्यकरणव्यापाररोधी क्षणा दाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः” ॥
अत्र मालतीसाक्षाद्दर्शनप्ररूढरागस्य माधवस्याभिलाषः ।
“कथमीक्षे कुरङ्गाक्षीं साक्षाल्लक्ष्मीं मनोभुवः ।
इति चिन्ताकुलः कान्तो निद्रां नैति निशीथिनीम्” ॥
अत्र कस्याश्चिन्नायिकाया इन्द्रजालदर्शनप्ररूढरागस्य नायकस्य चिन्ता ।
इदं मम ।
“मयि सकपटम्ऽइत्यादौ नायकस्य स्मृतिः ।
नेत्रे खञ्जनगञ्जनेऽइत्यादौ गुणकथनम् ।
“श्वासान्मुञ्चतिऽइत्यादौ उद्वेगः ।
“त्रिभागशेषासु निशासु च क्षमं निमील्य नेत्रे सहसा व्यबुध्यन ।
क्वः नीलकण्ठ ! व्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना” ॥
अत्र प्रलापः ।
“भ्रातर्द्विरेफऽइत्यादौ उन्मादः ।
“पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः ।
आवेदयति नितान्तं क्षेत्रियरोगं सखि ! हृदन्तः” ॥
अत्र व्याधिः ।
“भिसणीअलसअणीए निहिअं सव्वं सुणिच्चलं अङ्गम् ।
दीहो णीसासहरो एसो साहेइ जीऐत्ति परं” ॥
अत्र जडता ।
इदं मम ।

रसविच्छेदहेतुत्वान्मरणं नैव वर्ण्यते ॥ 3.193 ॥
जातप्रायं तु तद्वाच्यं चेतसाकाङ्क्षितं तथा ।
वर्ण्यतेऽपि यदि प्रत्युञ्जीवनं स्यादढूरतः ॥ 3.194 ॥

तत्राद्यं यथा
“शेफालिकां विदलितामवलोक्य तन्वी प्राणान् कथंचिदपि धारयितुं प्रभूता ।
आकर्ण्य संप्रति रुतं चरणायुधानां किं वा भविष्यति न वेद्मि तपस्विनी सा” ॥
द्वितीयं यथा
“रोलम्बाः परिपूरयन्तु हरितो भ्क्तंकारकोलाहलैर्
मन्दं मन्दमुपैतु चन्दनवनीजातो नभस्वानपि ।
माद्यन्तः कलयन्तु चूतशिखरे केलीपिकाः पञ्चमं प्राणाः सत्वरमश्मसारकठिना गच्छन्तु गच्छन्त्वमी” ॥
ममैतौ ।
तृतीयं यथाकादम्बर्यां महश्वेतापुण्डरीकवृत्तान्ते ।
एष च प्रकारः करुणः विप्रलम्भविषय इति वक्ष्यामः ।
केचित्तु
“नयनप्रीतिः प्रथमं चित्तासङ्गस्ततोऽथ संकल्पः ।
निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः ॥
उन्मादो मूर्च्छा मृतिरित्येताः स्मरदशा दशैव स्यु” ।
इत्याहुः ।
तत्र चआदौ वाच्यः स्त्रिया रागः पुंसः पश्चात्तदिङ्गितैः ।
इङ्गितान्युक्तनि ।
यथा रत्नाववल्यां सागरिकावत्सराजयोः ।

आदौ पुरुषानुरोगे संभवत्यप्येवमधिकं हृदयङ्गमं भवति ।
नीली कुसुम्भं मञ्जिष्ठा पूर्वरागोऽपि च त्रिधा ॥ 3.195 ॥

तत्र

न चातिशोभते यन्नापैति प्रेम मनोगतम् ।
तन्नीलीरागमाख्यातं यथा श्रीरामसीतयोः ॥ 3.19६ ॥

कुसुम्भरागं तत्प्राहुर्यदपैति च शोभते ।
मञ्जिष्ठारागमाहुस्तद्यन्नापैत्यतिशोभते ॥ 3.197 ॥

अथ मानः

मानः कोपः स तु द्वेधा प्रणयेर्ष्यासमुद्भवः ।
द्वयोः प्रणयमानः स्यात्प्रमोदे सुमहत्यपि ॥ 3.198 ॥

प्रेम्णः कुटिलगामित्वात्कोपो यः कारणं विना ।

द्वयोरिति नायकस्य नायिकायाश्च उभयोश्च प्रणयमानो वर्णनीयः ।
उदाहरणम् ।
तत्र नायकस्य यथा
“अलिअपसुत्तअ णिमिलिअच्छ देसु सुहअ मज्भ्क्त ओआसम् ।
गण्डपरिउम्बणापुलैअङ्ग ! ण पुणो चिराइस्सं” ॥
नायिकाया यथा कुमारसंभवे संध्यावर्णनावसरे ।
उभयोर्यथा
“पणअकुविआणं देण्ह विं अलिअसुत्ताणां माणैल्लाणम् ।
णिच्चलणिरुद्धणीसासदिण्णअण्णाणं को मल्लो” ॥
अनुनयपर्यन्तासहत्वे त्वस्य न विप्रलम्भभेदता, किन्तु संभोगसञ्चार्याख्यभावत्वम् ।
यथा
“भ्रूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते रुद्धायामपि वाचि सम्मितमिदं दग्धाननं जायते ।
कार्कश्यं गमितेऽपि चेतसि तनू रोमाञ्चमालम्बते दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने” ॥
यथा वा
“एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोरन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोर्गौरवम् ।
दंपत्योः शनकैरपाङ्गबलनान्मिश्रीभवच्चक्षुषोर्भग्नो मानकलिः सहासरभसव्यासक्तकण्ठग्रहः” ॥

प्रत्युरन्यप्रियासङ्गे दृष्टेऽथानुमिते श्रुते ॥ 3.199 ॥
ईर्ष्या मानो भवेत्स्त्रीणां तत्र त्वनुमितिस्त्रिधा ।
उत्स्वष्नायितभोगाङ्कगोत्रस्खलनसंम्भवा ॥ 3.200 ॥

तत्र दृष्टे यथा
“विनयति सुदृशो दृशोः परागं प्रणयिनि कौसुममाननानिलेन ।
तदहितयुवतेरभीक्ष्णमक्ष्णोर्द्वयमपि रोषरजोभिरापुरूरे” ॥
संभोगचिह्नेनानुमिते यथा
“नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् ।
प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्नपवरिमलगन्धः केन शक्यो वरीतुम्” ॥
एवमन्यदपि ।

साम भेदोऽथ दानं च नत्युपेक्षे रसान्तरम् ।
तद्भङ्गाय पतिः कुर्यात्षडुपायानिति क्रमात् ॥ 3.201 ॥

तत्र प्रियवचः साम भेदस्तत्सख्युपार्जनम् ।
दानं व्याजेन भूषादेः पादयोः पतनं नतिः ॥ 3.202 ॥

सामादौ तु परिक्षीणो स्यादुपेक्षावधीरणम् ।
रभसत्रासहर्षादेः कोपभ्रंशो रसान्तरम् ॥ 3.203 ॥

यथा
“नो चाटुश्रवणं कृतम्ऽइत्यादि (129 पृदृ) ।
अत्र सामादयः पञ्च सूचिताः ।
रसान्तरमूह्यम् ॥
अथ प्रवासः

प्रवासो भिन्नदेशित्वं कार्याच्छापाच्च संभ्रमात् ।
तत्राङ्गचेलमालिन्यमेकवेणीधरं शिरः ॥ 3.204 ॥

निः श्वासोच्छ्वासरुदितभूमिपातादि जायते ।

किञ्च

अङ्गेष्वसौष्ठवं तापः पाण्डुता कृशतारुचिः ॥ 3.205 ॥

अधृतिः स्यादनालम्बस्तमनयोन्मादमूर्च्छनाः ।
मृतिश्चेति क्रमाज्ज्ञेया दश स्मरदशा इह ॥ 3.20६ ॥
असौष्ठवं मलापत्तिस्तापस्तु विरहज्वरः ।
अरुचिर्वस्तुवैराग्यं सर्वत्रारागिताधृतिः ॥ 3.207 ॥

अनालम्बनता चापि शून्यता मनसः स्मृता ।
तन्मयं तत्प्रकाशो हि बाह्याभ्यन्तरतस्तथा ।

शेषं स्पष्टम् ।
एकदेशतो यथा मम तातपादानाम्
“चिन्ताभिः स्तिमितं मनः, करतले लीना कपोलस्थली, प्रत्यूषक्षणदेशपाण्डु वदनं श्वासैकखिन्नोऽधरः ।
अम्भः शीकरपद्मिनीकिसलयैर्नापैति तापः शमं, कोऽस्याः प्रार्थितदुर्लभोऽस्ति सहते दीनां दशामीदृशीम्” ॥

भावी भवन्भूत इति त्रिधा स्यात्तत्र कार्यजः ॥ 3.208 ॥

कार्यस्य बुद्धिपूर्वकत्वात्त्रैविध्यम् ।
तत्र भावी यथा मम
“यामः सुन्दरि, याहि पान्थ, दयिते शोकं वृथा मा कृथाः, शोकस्ते गमने कुतो मम ततो वाष्पं कथं मुञ्चसि ।
शीघ्रं न व्रजसीति मां गमयितुं कस्मादियं ते त्वरा, भूयानस्य सह त्वया जिगमिषोर्जोवस्य मे संभ्रमः” ॥
भवन् यथा
“प्रस्थानं वबयैः कृतं, प्रियसखैरस्त्रैजस्त्रं गतं, धृत्या न क्षणमासितं, व्यवसितं चित्तेन गन्तुं पुरः ।
यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता गन्तव्ये सति जीवित ! प्रियसुहृत्सार्थः किमु त्यज्यते” ॥
भूतो यथा
“चिन्ताभिः स्तिमितम्ऽइत्यादि (200 पृदृ) शापद्यथा
“तां जानीयाःऽइत्यादि (130 पृदृ) संभ्रमो दिव्यमानुषनिर्घातोत्पातादिजः ।
यथाविक्रमोर्वश्यामुर्वशीपुरूरवसोः ।
अत्र पूर्वरागोक्तानामभिलाषादीनामत्रोक्तानां चाङ्गासौष्ठवादीनामपि दशानानुभयेषामप्युभयत्र सम्भवेऽपि चिरन्तनप्रसिद्ध्या विविच्य प्रतिपादनम् ।
अथ करुणविप्रलम्भः

यूनोरेकतरस्मिन्गतवति लोकान्तरं पुनार्लभ्ये ।
विमनायते यदैकस्तदा भवेत्करुणविप्रलम्भाख्यः ॥ 3.209 ॥

यथाकादम्बर्यां तुण्डरीकमहाश्वेतावृत्तान्ते ।
पुनरलभ्ये शरीरान्तरेण बालभ्ये तु करुणाख्य एव रसः ।
किञ्चात्राकाशसारस्वतीभाषानन्तरमेव शृङ्गारः, सगमप्रत्याशाया रतेरुद्भवात् ।
प्रथमं तु करुण एव, इत्यभियुक्ता मन्यन्ते ।
यच्चात्र “सङ्गमप्रत्याशानन्तरमपि भवतो विप्रलम्भशृङ्गारस्य प्रवासाख्यो भेद एव” इति केचिदाहुः, तदन्ये “मरणरूपविशेषसंभवात्तद्भिन्नमेव” इति मन्यन्ते ।
अथ संभोगः

दर्शनस्पर्शनादीनि निषेवेते विलासिनौ ।
यत्रानुरक्तावन्योन्यं संभोगोऽयमुदाहृतः ॥ 3.210 ॥

आदिशब्दादन्योन्याधरपानचुम्बनादयः ।
यथा
“शून्यं वासगृहम्” (22 पृदृ) इत्यादौ ।

सख्यातुमशक्यतया चुम्बनपरिरम्भणादिवहुभेदात् ।
अयमेक एव धीरैः कथितः संभोगशृङ्गारः ॥ 3.211 ॥
तत्र स्यादृतुषट्कं चन्द्रादित्यौ तथोदयास्तमयः ।
जलकेलिवनविहारप्रभातमधुपानयामिनीप्रभृतिः ॥ 3.212 ॥

अनुलेपनभूषाद्या वाच्यं शुचि मेध्यमन्यच्च ।

तथा च भरतः
“यत्किञ्चिल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं वा तत्सर्वं शृङ्गारेणोपमीयते (उपयुज्यते च)” इति ।
किञ्च

कथितश्चतुर्विधोऽसावानन्तर्यात्तु पूर्वरागादेः ॥ 3.213 ॥

यदुक्तम्
“न बिना विप्रलम्भेन संभोगः पुष्टिमश्नुते ।
कषायिते हि वस्त्रादौ भूयान् रागो विवर्धते” ॥
इति ।
तत्र पूर्वरागानन्तरं संभोगो यथा कुमारसम्भवे पार्वतीपरमेश्वरयोः ।
प्रवासानन्तरं सम्भोगो यथा मम तातपादानाम्
“क्षेमं ते ननु पक्ष्मलाक्षि ! किसअं खेमं महङ्गं दिढं, एतादृक्कृशता कुतः तुह पुणो पुट्ठं सरीरं जदो ।
केनाहं पृथुलः प्रये ! पणैणीदेहस्स सम्मेलणात्, त्वत्तः सुभ्रु ! न कपि मे, जै इदं खेमं कुदो पुच्छसि” ॥
एवमन्यत्राप्यूह्यम् ।
अथ हास्यः

विकृताकारवाग्वेषचेष्टादेः कुहकाद्भवेत् ।
हास्यो हाससथायिभावः श्वेतः प्रथमदैवतः ॥ 3.214 ॥

विकृताकारवाक्चेष्टं यमालोक्य हसेज्जनः ।
तमत्रालम्बनं प्राहुस्तच्चेष्टोद्दीपनं मतम् ॥ 3.215 ॥

अनुभावोऽक्षसङ्कोचवदनस्मेरतादयः ।
निद्रालस्यावहित्थाद्या अत्र स्युर्व्यभिचारिणः ॥ 3.21६ ॥

ज्येष्ठानां स्मितहसिते मध्यानां विहसितावहसिते च ।
नीचानामपहसितं तथातिहसितं तदेष षड्भेदः ॥ 3.217 ॥

ईषद्विकासिनयनं स्मितं स्यात्स्पन्दिताधरम् ।
किञ्चिल्लक्ष्यद्विजं तत्र हसितं कथितं बुधैः ॥ 3.218 ॥

मधुरस्वरं विहसितं सांसशिरः कम्पमवहसितम् ।
अपहसितं सास्त्राक्षं विक्षिप्ताङ्गं च भवत्यतिहसितम् ॥ 3.219 ॥

यथा
“गुरोगिरः पञ्चदिनानधीत्य वेदान्तशास्त्राणि दिनत्रयं च ।
अमी समाघ्राय च तर्कवादान्समागताः कुक्कुटमिश्रपादाः” ॥
अस्य लटकमेलकप्रभृतिषु परिपोषो द्रष्टव्यः ।
अत्र च

यस्य हासः स चेत क्वापि साक्षान्नैव निबध्यते ।
तथाष्येष विभावादिसामर्थ्यादुपलभ्यते ॥ 3.220 ॥

अभेदेन विभावादिसाधारण्यात्प्रतीयते ।
सामाजिकैस्ततो हास्यरसोऽयमनुभूयते ॥ 3.221 ॥

एवमन्येष्वपि रसेषु बोद्धव्यम् ।
अथ करुणः

इष्टनाशादनिष्टाप्तेः करुणाख्यो रसो भवेत् ।
धीरैः कपोतवर्णोऽयं कथितो यमदैवतः ॥ 3.222 ॥

शोकोऽत्र स्थायिभावः स्याच्छोच्यमालम्बनं मतम् ।
तस्य दाहादिकावस्था भवेदुद्दीपनं पुनः ॥ 3.223 ॥

अनुभावा दैवनिन्दाभूपातक्रन्दितादयः ।
वैवर्ण्योच्छ्वासनिः श्वासस्तम्भप्रलपनानि च ॥ 3.224 ॥

निर्वेदमोहापस्माख्याधिग्लानिस्मृतिश्रमाः ।
विषादजडतोन्मादचिन्ताद्या व्यभिचारिणः ॥ 3.225 ॥

शोच्यं विनष्टबन्धुप्रभृति ।
यथा मम राघवविलासे
“विपिने क्व जटानिबन्धनं तव चेदं क्व मनोहरं वपुः ।
अनयोर्घटना विधेः स्फुटं ननु खड्गेन शिरीषकर्त्तनम्” ॥
अत्र हि रामवनवासजनितशोकार्त्तस्य दशरथस्य दैवनिन्दा ।
एवं बन्धुवियोगविभवनाशादावप्युदाहार्यम् ।
परिपोषस्तु महाभारते स्त्रीपर्वणि द्रष्टव्यः ।
अस्य करुणविप्रलम्भाद्भेदमाह

शोकस्थायितया भिन्नो विप्रलम्भादयं रसः ।
विप्रलम्भे रतिः स्थायी पुनः संभोगहेतुकः ॥ 3.22६ ॥

अथ रौद्रः

रौद्रः क्रोधस्थायिभावो रक्तो रुद्राधिदैवतः ।
आलम्बनमरिस्तत्र तच्चेष्चोद्दीपनं मतम् ॥ 3.227 ॥

मुष्टिप्रहारपातनविकृतच्छेदावदारणैश्चैव ।
संग्रामसंभ्रमाद्यैरस्योद्दीप्तिर्भवेत्प्रौढा ॥ 3.228 ॥

भ्रविभङ्गौष्ठनिर्देशबाहुस्फोटनतर्जनाः ।
आत्मावदानकथनमायुधोत्क्षेपणानि च ॥ 3.229 ॥

अनुभावास्तथाक्षेपक्रूरसंदर्शनादयः ।
उग्रतावेगरोमाञ्चस्वेदवेपथवो मदः ॥ 3.230 ॥

मोहामर्षादयस्तत्र भावाः स्युर्व्यभिचारिणः ।

यथा
“कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः ।
नरकरिपुणा सार्धं तेषां सभीमकिरीटिना मयमहमसृङ्मेदोमांसैः करोमि दिशां बलिम्” ॥
अस्य युद्धवीराद्भेदमाह

रक्तास्येनेत्रता चात्र भेदिनी युद्धवीरतः ॥ 3.231 ॥

अथ वीरः

उत्तमप्रकृतिर्वोर उत्साहस्थायिभावकः ।
महेन्द्रदैवतो हेमवर्णोऽयं समुदाहृतः ॥ 3.232 ॥

आलम्बनविभावास्तु विजेतव्यादयो मताः ।
विजेतव्यादिचेष्टाद्यास्तस्योद्दीपनरूपिणः ।
अनुभावास्तु तत्र स्युः सहायान्वेषणादयः ॥ 3.233 ॥

सञ्चारिणास्तु धृतिमतिगर्वस्मृतितर्करोमाञ्चाः ।
स च दानदर्मयुद्धैर्दयया च समन्वितश्चतुर्धा स्यात् ॥ 3.234 ॥

स च वीरो दानवीरो धर्मवीरो युद्धवीरो दयावीरश्चेति चतुर्विधः ।
तत्र दानवीरो यथा परशुरामः
“त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः” इति ।
अत्र परशुरामस्य त्यागे उत्साहः स्थायिभावः, संप्रदानभूतब्राह्मणैरालम्बनविभावैः सत्त्वाध्यवसायादिभिश्चोद्दीपनविभावैविभावितः, सर्वस्वत्यागादिभिरनुभावैरनुभावितो, हर्षधृत्यादिभैः संचारिभिः पुष्टिं नीतो दानवीरतां भजते ।
धर्मवीरो यथा युधिष्ठिरः
“राज्यं च वसु देहश्च भार्या भ्रातृसुताश्च ये ।
यच्च लोके ममायत्तं तद्धर्माय सदोद्यतम्” ॥
युद्धवीरो यथा श्रीरामचन्द्रः
भो लङ्केश्वर ! दीयतां जनकजा रामः स्वयं याचते कोऽयं ते मतिविभ्रमः स्मर नयं नाद्यापि किंचिद्रतम् ।
नैवं चेत्खरदूषणत्रिशिरसां कण्ठासृजा पङ्किलः पत्त्री नैष सहिष्यते मम धनुर्ज्याबन्धबन्धूकृतः” ॥
दयावीरो यथा जीमूतवाहनः
“शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति ।
तृप्तिं न पश्यामि तवापि तावत्किं भक्षणात्त्वं विरतो गरुत्मन् ! ।
एष्वपि विभावादयः पूर्वोदाहरणवदूह्याः ।
अथ भयानकः

भयानको भयस्थायिभावो भूताधिदैवतः” ।
स्त्रीनीचप्रकृतिः कृष्णो मतस्तत्त्वविशारदैः ॥ 3.235 ॥

यस्मादुत्पद्यते भीतिस्तदत्रालम्बनं मतम् ।
चेष्टा घोरतरास्तस्य भवेदुद्दीपनं पुनः ॥ 3.23६ ॥

अनुभावोऽत्र वैवर्ण्यगद्रदस्वरभाषणम् ।
प्रलयस्वेदरोमाञ्चकम्पदिक्प्रेक्षणादयः ॥ 3.237 ॥

जुगुष्सावेगसंमोहसंत्रासग्लानिदीनताः ।
शङ्कापस्मारसम्भ्रान्तिमृत्य्वाद्या व्यभिचारिणाः ॥ 3.238 ॥

यथा
“नष्टं वर्षवरैः” इत्यादि (105 पृदृ) अथ बीभत्सः

जुगुष्सास्थायिभावस्तु बीभत्सः कथ्यते रसः ।
नीलवर्णो महाकालदैवतोऽयमुदाहृतः ॥ 3.239 ॥

दुर्गन्धमांसरुंधिरमेदां स्यालम्बनं मतम् ।
तत्रैव कृमिपाताद्यमुद्दीपनमुदाहृतम् ॥ 3.240 ॥

निष्ठीवनास्यवलननेत्रसङ्कोचनादयः ।
अनुभावास्तत्र मतास्तथा स्युर्व्यभिचारिणः ॥ 3.241 ॥

माहोऽपस्मार आवेगो व्याधिश्च मरणादयः ।

यथा
“उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोथभूयांसि मांसा न्यंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा ।
आतेः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्का दङ्कस्थादस्थिंस्थं स्थपुटगतमपि क्रव्यमध्यग्रमत्ति” ॥
अथाद्भुतः

अद्भुतो विस्मयस्थायिभावो गन्धर्वदैवतः ॥ 3.242 ॥

पीतवर्णो वस्तु लोकातिगामालम्बनं मतम् ।
गुणानां तस्य महिमा भवेदुद्दीपनं पुनः ॥ 3.243 ॥

स्तम्भः स्वेदोऽथ रोमाञ्चगद्रदस्वरसंभ्रमः ।
तथा नेत्रविकासाद्या अनुभावाः प्रकीर्तिताः ॥ 3.244 ॥

वितर्कावेगसंभ्रान्तिहर्षाद्या व्यभिचारिणः ।
यथा
“दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत
ष्टंकारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः ।
द्राक्पर्यस्तकपालसंपुटमिलद्ब्रह्माण्डभाण्डोदर भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति” ॥
अथ शान्तः

शान्तः शमस्थयिभाव उत्तमप्रकृतिर्मतः ॥ 3.245 ॥

कुन्देन्दुसुन्दरच्छायः श्रीनारायणदैवतः ।
अनित्यत्वादिनाशेषवस्तुनिः सारता तु या ॥ 3.24६ ॥

परमात्मस्वरूपं वा तस्यालम्बनमिष्यते ।
पुण्याश्रमहरिक्षेत्रतीर्थरम्यवनादयः ॥ 3.247 ॥

महापुरुषसङ्गाद्यास्तस्योद्दीपनरूपिणः ।
रोमाञ्चाद्याश्चानुभावास्तथा स्युर्व्यभिचारिणः ॥ 3.248 ॥

निर्वेदहर्षस्मरणमतिभूतदयादयः ।

यथा
“रथ्यान्तश्चरतस्तथा धृतजरत्कन्थालवस्याध्वगैः सत्रासं च सकौतुकं च सदयं दृष्टस्य तैर्नागरैः ।
निर्व्याजीकृतचित्सुधारसमुदा निद्रायमाणस्य मे निःशङ्कः करटः कदा करपुटीभिक्षां विलुण्ठिष्यति” ॥
पुष्टिस्तु महाभारतादौ द्रष्टव्या ।
अस्य दयावीरादेः सकाशाद्भेदमाह

निरहङ्काररूपत्वाद्दयावीरादिरेष नो ॥ 3.249 ॥

दयावीरादौ हि नागानन्ददौ जीमूतवाहनादेरन्तरा मलयवत्याद्यनुरागादेरन्ते च विद्याधरचक्रवतित्वाद्याप्तेर्दर्शनादहङ्कारोपशमो न दृश्यते ।
शान्तस्तु सर्वाकारेणाहङ्कारप्रशमैकरूपत्वान्न तत्रांन्तर्भावमर्हति ।
ततश्च नागानन्दादेः शान्तरसप्रधानत्वमपास्तम् ।
ननु
“न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च कचिदिच्छा ।
रसः स शान्तः कथितो मनीन्द्रैः सर्वेषु भावेषु समप्रमाणः” ॥
इत्येवंरूपस्य शान्तस्य मोक्षावस्थायामेवात्मस्वरूपापत्तिलक्षणायां प्रादुर्भावात्तत्र सञ्चार्यादीनामभावात्कथं रसत्वमित्युच्यते

युक्तवियुक्तदशायामवस्थितो यः शमः स एव यतः ।
रसतामेति तदस्मिन् सञ्चार्यादेः स्थितिश्च न विरुद्धा ॥ 3.250 ॥

यश्चास्मिन्सुखाभावोऽप्युक्तस्तस्य वैषयिकसुखपरत्वान्न विरोधः ।
उक्तं हि “यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्” ॥
“सर्वाकारमहङ्काराहितत्वं ब्रजन्ति चेत् ।
अत्रान्तर्भावमर्हन्ति दयावीरादयस्तथा” ॥
आदिशब्दाद्धर्मवीरदानवीरदेवताविषयरतिप्रभृतयः ।
तत्र देवताविषया रतिर्यथा
कदा वाराणस्यामिह सुरधुनीरोधसि वसन् वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् ।
अये गौरीनाथ ! त्रिपुरहर ! शंभो ! त्रिनयन ! प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान्” ॥
अथ मुनीन्द्रसंमतो वत्सलः

स्फुटं चमत्कारितया वत्सलं च रसं विदुः ।
स्थायी वत्सलतास्नेहः पुत्राद्यालम्बनं मतम् ॥ 3.251 ॥

उद्दीपनानि तच्चेष्टा निद्याशौर्यदयादयः ।
आलिङ्गनाङ्गसंस्पर्शशिरश्चुम्बनमीक्षणम् ॥ 3.252 ॥

पुलकानन्दवाष्पाद्या अनुभावाः प्रकीर्तिताः ।
सञ्चारिणोऽनिष्टशङ्काहर्षगर्वादयो मताः ॥ 3.253 ॥

पद्मगर्भच्छविर्वर्णो दैवतं लोकमातरः ।

यथा
“यदाह धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गलीम् ।
अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोर्ऽभकः” ॥
एतेषां च रसानां परस्परविरोधमाह

आद्यः करुणबीभत्सरौद्रवीरभयानकैः ॥ 3.254 ॥

भयानकेन करुणोनापि हास्यो विरोधभाक् ।
करुणो हास्यशृङ्गारसाभ्यामपि तादृशः ॥ 3.255 ॥

रौद्रस्तु हास्यशृङ्गरभयानकरसैरपि ।
भयानकेन शान्तेन तथा वीररसः स्मृतः ॥ 3.25६ ॥
शृङ्गारवीरराद्राख्यहास्यशान्तैर्भयानकः ।
शान्तस्तु वीरशृङ्गाररौद्रहास्यभयानकैः ॥ 3.257 ॥

शृङ्गारेण तु बीभत्स इत्याख्याता विरोधिता ।

आद्यः शृङ्गारः ।
एषां च समावेशप्रकारा वक्ष्यन्ते ।

कुतोऽपि कारणात्क्वापि स्थिरतामुपयन्नपि ॥ 3.258 ॥

उन्मादादिर्न तु स्थायी न पात्रे स्यैर्यमेति यत् ।

यथा विक्रमोर्वश्यां चतुर्थेऽङ्के पुरूरवस उन्मादः ।

रसभावौ तदाभासौ भावस्य प्रशमोदयौ ॥ 3.259 ॥

सन्धिः शबालता चेति सर्वेऽपि रसनाद्रसाः ।

रसनधर्मयोगित्वाद्भावादिष्वपि रसत्वमुपचारादित्यभिप्रायः ।
भावादय उच्यन्ते

सञ्चारिणः प्रधानानि देवादिविषया रतिः ॥ 3.260 ॥

उद्बुद्धमात्रः स्थायी च भाव इत्यभिधयते ।

“न भावहीनोऽस्ति रसो न भावो रसवजितः ।
परस्परकृता सिद्धिरनयो रसभावयोः” ॥
इत्युक्तदिशा परमालोचनया परमविश्रान्तिस्थानेन रसेन सहैव वर्तमाना अपि राजानुगतविवाहप्रवृत्तभृत्यवदापाततो यत्र प्रधान्येनाभिव्यक्ता व्यभिचारिणो देवमुनिगुरुनृपादिवषया च रतिरुद्बुद्धमात्रा विभावादिभिरपरिपुष्टतया रसरूपतामनापद्यमानाश्च स्थायिनो भावा भावशब्दवाच्याः ।
तत्र व्यभिचारी यथा
“एवंवादिनि देवर्षौऽइत्यादि(170 पृ.) ।
अत्रावहित्था ।
देवविषया रतिर्यथा मुकुन्दमालायाम्
“दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक ! प्रकामम् ।
अवधीरितशारदारविन्दौ चरणौ ते मरणोऽपि चिन्तयामि” ॥
मुनिविषया रतिर्यथा
“विलोकनेनैव तवामुना मुने ? कृतः कृतार्थोऽस्मि निबर्हितांहसा ।
तथापि शुश्रषुरहं गरीयसीर्गिरोऽथवा श्रेयसि केन तृप्यते” ॥
राजविषया रतिर्यथा मम
“त्वद्वाजिराजिनिर्धूतधूलीपटलपङ्किलाम् ।
न धत्ते शिरसा गङ्गां भूरिभारभिया हरः” ॥
एवमन्यत् ।
उद्बुद्धमात्रस्थायिभावो यथा
“हरस्तु किंचित्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि” ॥
अत्र पार्वतीविषया भगवतो रतिः ।
ननूक्तं प्रपाणकरसवद्विभावादीनामेकोऽत्राभासो रस इति ।
तत्र सञ्चारिणः पार्थक्याभावात्कथं प्राधान्येनाभिव्यक्तिरित्युच्यते

यथा मरिचखण्डादेरेकीभावे प्रपाणके ॥ 3.261 ॥

उद्रेकः कस्यचित्क्वापि तथा सञ्चारिणो रसे ।

अथ रसाभासभावाभासौ

अनौचित्यप्रवृत्तत्व आभासो रसभावयोः ॥ 3.262 ॥

अनौचित्यं चात्र रसानां भारतादिप्रणीतलक्षणानां सामग्रीरहितत्वे एकदेशयोगित्वोपलक्षणपरं बोध्यम् ।
तच्च बालव्युत्पत्तये एकदेशतो दर्श्यते

उपनायकसंस्थायां मुनिगुरुपत्नीगतायां च ।
बहुनायकविषयायां रतौ तथानुभयनिष्ठायाम् ॥ 3.263 ॥

प्रतिनायकनिष्ठत्वे तद्वदधमपात्रतिर्यगादिगते ।
शृङ्गारेऽनौचित्यं रौद्रे गुर्वादिगतकोपे ॥ 3.264 ॥

शान्ते च हीननिष्ठे, गुर्वाद्यलम्बने हास्ये ।
व्रह्मवधाद्युत्साहेऽधमपात्रगते तथा वारे ॥ 3.265 ॥

उत्तमपात्रगतत्वे भयानके ज्ञेयमेवन्यत्र ।

तत्र रतेरुपनायकनिष्ठत्वे यथा मम
“स्वामी मुग्धतरो वनं घनमिदं बालाहमेकाकिनी क्षोणीमावृणुते तमालमलिनच्छाया तमः सन्ततिः ।
तन्मे सुन्दर ! मुञ्च, कृष्ण ! सहसा वर्त्मेति गोप्या गिरः श्रुत्वा तां परिरभ्य मन्मथकलासक्तो हरिः पातु वः” ॥
बहुनायकनिष्ठत्वे यथा
“कान्तास्त एव भुवनत्रितयेऽपि मन्ये येषां कृते सुतनु ! पाणडुरयं कपोलः” ।
अनुभयनिष्ठत्वे यथामालतीमाधवे नन्दनस्य मालत्याम् ।
“पश्चादुभयनिष्ठत्वेऽपि प्रथममेकनिष्ठत्वे रतेराभासत्वम्” इति श्रीमल्लोचनकाराः ।
तत्रोदाहरणं यथारत्नावल्यां सागरिकाया अन्योन्यसंदर्शनात्प्राग्वत्सराजे रतिः ।
प्रतिनायकनिष्ठत्वे यथाइयग्रीवव धे हयग्रीवस्य जलक्रीडावर्णने ।
अधमपात्रगतत्वे यथा
“जघनस्थलनद्धपत्रवल्ली गिरिमल्लीकुसुमावनि कापि भिल्ली ।
अवचित्य गिरौ पुरो निषण्णा स्वकचानुत्कचयाञ्चकार भर्त्रा” ॥
तिर्यगादिगतत्वे यथा
“मल्लीमतल्लीषु वनान्तरेषु वल्ल्यन्तरे वल्लभमाह्वयन्ती ।
चञ्चद्विपञ्चीकलनादभङ्गीसंगीतमङ्गीकुरुते स्म भृङ्गी” ॥
आदिशब्दत्तापसादयः ।
रौद्राभासो यथा
“रक्तोत्फुल्लविशाललोलनयनः कम्पोत्तराङ्गो मुहुर्मुक्त्वा कर्णमपेतभीर्धृ तधनुर्बाणो हरेः पश्यतः ।
आध्मातः कटुकोक्तिभिः स्वमसकृद्दोविक्रमं कीर्तय न्नंसास्फोटपटुर्युधिष्ठिरमसौ इन्तुं प्रविष्टोर्ऽजुनः” ॥
भयानकाभासो यथा
“अशक्नुवन् सोढुमधीरलोचनः सहस्त्ररश्मेरिव यस्य दर्शनम् ।
प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय विभ्यद्दिवसानि कौशिकः” ॥
स्त्रीनीचविषयमेव हि भयं रसप्रकृतिः ।
एवमन्यत्र ।

भावाभासो लज्जादिके तु वेश्यादिविषये स्यात् ॥ 3.266 ॥

स्पष्टम् ।

भावस्य शान्तावुदये संधिमिश्रितयोः क्रमात् ।
भावस्य शान्तिरुदयः संधिः शबलता मता ॥ 3.267 ॥

क्रमेण यथा
“सुतनु ! जहिहि कोपं पश्य पादानतं मां न खलु तव कदाचित्कोप एवंविधोऽभूत् ।
इति निगदति नाथे तिर्यगामीलिताक्ष्या नयनजलमनल्पं मुक्तमुक्तं न किञ्चित्” ॥
अत्र बाष्पमोचनेनेर्ष्याख्यसञ्चारिभावस्य शमः ।
“चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखे निभृतकितवाचारेत्युक्त्वा रुषा परुषीकृते ।
व्रजति रमणो निः श्वस्योच्चौ स्तनस्थितहस्तया नयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता” ॥
अत्र विषादस्योदयः ।
“नयनयुगासेचनकं मानसवृत्त्याप दुष्प्रापम् ।
रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोति चमे” ॥
अत्र हर्षविषादयोः संधिः ।
“क्वाकार्यं , शशलक्ष्मणः क्व च कुलं, भूयोऽपि दृश्यन्ते सा, दोषाणां प्रशमाय मे श्रुतमहो, कोपेऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्यपकल्मषा कृतधियः, स्वप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि, कः खलु युवा धन्योऽधरं धास्यति” ॥
अत्र वितकारैत्सुक्यमतिस्मरणशङ्कादैन्यधूतिचिन्तानां शबलता ।
इति साहित्यदर्पणे रसादिनिरूपणो नाम तृतीयः परिच्छेदः ।


चतुर्थः परिच्छेदः

अथ काव्यभेदमाह

काव्यं ध्वनिर्गुणीभूतव्यङ्ग्यं चेति द्विधा मतम् ।

तत्र

वाच्यातिशयिनि व्यङ्ग्ये ध्वनिस्तत्काव्यमुत्तमम् ॥ 4.1 ॥

वाच्यादधिकचमत्कारिणि व्यङ्ग्यार्थे ध्वन्यतेऽस्मिन्निति व्युत्पत्त्या ध्वनिर्नामोत्तमं काव्यम् ।

भेदौ ध्वनेरपि द्वावुदीरितौ लक्षणाभिधामूलौ ।
अविवक्षितवाच्योऽन्यो विवक्षितान्यपरवाच्यश्च ॥ 4.2 ॥

तत्राविवक्षितवाच्यो नाम लक्षणामूलो ध्वनिः ।
लक्षणामूलत्वादेवात्र वाच्यमविवक्षितं बाधितस्वरूपम् ।
विवक्षितान्यपरवाच्यस्त्वभिधामूलः, अत एवात्र वाच्यं विवक्षितम् ।
अन्यपरं व्यङ्ग्यनिष्ठम् ।
अत्र हि वाच्योर्ऽथः स्वरूपं प्रकाशयन्नेव व्यङ्ग्यार्थस्य प्रकाशकः ।
यथाप्रदीपो घटस्य ।
अभिधामूलस्य बहुविषयतया पश्चान्निर्देशः ।
अविवक्षितवाच्यस्य भेदावाह

अर्थन्तरं संक्रमिते वाच्येऽत्यन्तं तिरस्कृते ।
अविवक्षितवाच्योऽपि ध्वनिर्द्वैविध्यमृच्छति ॥ 4.3 ॥

अविवक्षितवाच्यो नाम ध्वनिरर्थान्तरसङ्क्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्चेति द्विविधः ।
यत्र स्वयमनुपयुज्यमानो मुख्योर्ऽथः स्वविशेषरूपेर्ऽथान्तरे परिणमति, तत्र मुख्यार्थस्य स्वविशेषरूपार्थान्तरसंक्रमितत्वादर्थान्तरसङ्क्रमितवाच्यत्वम् ।
यथा”कदली कदली, करभः करभः, करिराजकरः करिराजकरः ।
भुवत्रितयेऽपि बिभर्ति तुलामिदमूरुयुगं न चमूरुदृशः” ॥
अत्र द्वितीयकदल्यादिशब्दाः पौनरुक्त्यभिया सामान्यकदल्यादिरूपे मुख्यार्थे बाधिता जाड्यादिगुणविशिष्टकदल्यादिरूपमर्थं बोधयन्ति ।
जाड्याद्यतिशयश्च व्यङ्ग्यः ।
यत्र पुनः स्वार्थं सर्वथा परित्यजन्नर्थान्तरे परिणमति, तत्र मुख्यार्थस्यात्यन्ततिरस्कृतत्वादत्यन्ततिरस्कृतवाच्यत्वम् ।
यथा
निऋश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ।
अत्रान्धशब्दो मुख्यार्थे बाधितेऽप्रकाशरूपमर्थं बोधयति, अप्रकाशातिशयश्च व्यङ्ग्यः ।
अन्धत्वाप्रकाशत्वयोः सामान्यविशेषभावाभावान्नार्थान्तरसंक्रमितवाच्यत्वम् ।
यथा
भण धम्मिअ वीसत्थो, सो सुणओ अज्ज मारिओ देण ।
गोलाणैकच्छकुडङ्गवासिणा दरिअसीहेण ॥
अत्र “भ्रम धार्मिक” इत्यतो भ्रमणस्य विधिः प्रकृतेऽनुपयुज्यमानतया भ्रमणनिषेधे पर्यवस्यतीति विपरीतलक्षणाशङ्कान कार्या ।
यत्र खलु विधिनिषैधावुत्पत्स्यमानावेव निषधविध्योः पर्यवस्यतस्तत्रैव तदवसरः ।
यत्र पुनः प्रकरणादिपर्यालोचनेन विधिनिषधयोर्निषेधविधी अवगम्येते तत्र ध्वनित्वमेव ।
तदुक्तम्
“क्वचिद्वाध्यतया ख्यातिः क्वचित्ख्यातस्य बाधनम् ।
पूर्वत्र लक्षणैव स्यादुत्तरत्राभिधैव तु” ॥
अत्राद्ये मुखायार्थस्यार्थान्तरे संक्रमणं प्रवेशः, न तु तिरोभावः ।
अत एवात्राजहत्स्वार्था लक्षणा ।
द्वितीये तु स्वार्थस्यात्यन्तं तिरस्कृतत्वाज्जहत्स्वार्था ।

विवक्षिताभिधेयोऽपि द्विभेदः प्रथमं मतः ।
असंलक्ष्यक्रमो यत्र व्यङ्ग्यो लक्ष्यक्रमस्तथा ॥ 4.4 ॥

विवक्षितान्यपरवाच्योऽपि ध्वनिरसंलक्ष्यक्रमव्यङ्ग्यः संलक्ष्यक्रमव्यङ्ग्यश्चेति द्विविधः ।

तत्राद्यो रसभावादिरेक एवात्र गण्यते ।
एकोऽपि भेदोऽनन्तत्वात्संख्येयस्तस्य नैव यत् ॥ 4.5 ॥

उक्तस्वरूपो भावादिरसंलक्ष्यक्रमव्यङ्ग्यः ।
अत्र व्यङ्ग्यप्रतीतेर्विभावादिप्रतितिकारणत्वात्क्रमोऽवश्यमस्ति किन्तूत्पलपत्र्रशतव्यतिभेदवल्लाघवान्न संलक्ष्यते ।
एषु रसादिषु च एकस्यापि भेस्यानन्तत्वात्संख्यातुमशक्यत्वादसंलक्ष्यक्रमव्यङ्ग्यध्वनिर्नाम काव्यमेकभेदमेवोक्तम् ।
तथाहिएकस्यैव “शृङ्गारस्यैकोऽपि संभोगरूपो भेदः परस्परालिङ्गनाधरपानचुम्बनादिभेदात्प्रत्येकं च निभावादिवैचित्र्यात्संखायतुमश्क्यः, का गणना सर्वेषाम् ।

शब्दार्थोभयशक्त्युत्थे व्यङ्क्येऽनुस्वानसन्निभे ।
ध्वनिर्लक्ष्यक्रमव्यङ्ग्यस्त्रिविधः कथितो बुधैः ॥ 4.६ ॥

क्रमलक्ष्यत्वादेवानुरणनरूपो यो व्यङ्ग्यस्तस्य शब्दशक्त्युद्भवत्वेन, अर्थशक्त्युद्भवत्वेन शब्दार्थशक्त्युद्भवत्वेन च त्रैविध्यात्संलक्ष्यक्रमव्यङ्ग्यनाम्नोध्वनेः काव्यस्यापि त्रैविध्यम् ।
तत्र

वस्त्वलङ्काररूपत्वाच्छब्दशक्त्युद्भवोद्विधा ।

अलङ्कारशब्दस्य पृथगुपादानादनलङ्कारं वस्तुमात्रं गृह्यते ।
तत्र वस्तुरूपः शब्दशक्त्युद्भवो व्यङ्ग्यो यथा
पन्थि अ ! ण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे ।
उण्णअ पओहरं पेक्खिअ ऊण जै वसति ता वससु ॥
अत्र सत्थरादिशब्दशक्त्या यद्युपभोगक्षमोऽसि तदास्स्वेति वस्तु व्यज्यते ।
अलङ्काररूपो यथा”दुर्गालङ्घितविग्रहः” इत्यादौ (59 पृदृ) अत्र प्राकरणिकस्य उमानाममहादेवीवल्लभभानुदेवनामनृपतेर्वर्णने द्वितीयार्थसूचितमप्रारणिकस्य पार्वतीवल्लभस्य वर्णनमसम्बनद्धं मा प्रसङ्क्षीदिति ईश्वरभानुदेवयोरुपमानोपमेयभावः कल्प्यते तदत्र उमावल्लभ उमावल्लभ इवेत्युपमालङ्कारो व्यङ्ग्यः ।
यथा वा
“अमितः समितः प्राप्तैरुत्कर्षैर्हर्षद ! प्रभो ! ।
अहितः सहितः साधु यशोभिरसतामसि” ॥
अत्रामित इत्यादावपिशब्दाभावाद्विरोधाभासो व्यङ्ग्यः ।
व्यङ्ग्यस्यालङ्कार्यत्वेऽपि ब्राह्मणश्रमणन्यायादलङ्कारत्वमुपचर्यते ।

वस्तु वालङ्कृतिर्वापि द्विधार्थः सम्भवी स्वतः ॥ 4.7 ॥

कवेः प्रौठोक्तिसिद्धो वा तन्निबद्धस्य वेति षट् ।
षड्भिस्तैर्व्यज्यमानस्तु वस्त्वलङ्काररूपकः ॥ 4.8 ॥

अर्थशतयुद्भवो व्यङ्ग्यो याति द्वादशभेदताम् ।

स्वतः सम्भवी औचित्याद्बहिरपि सम्भाव्यमानः ।
प्रौढोक्त्या सिद्धः, न त्वौचित्येन ।
तत्र क्रमेण यथा
दृष्टिं हे प्रतिवेशिनि ! क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति ।
एकाकिन्यपि यामि सत्वरमितः स्त्रोतस्तमालाकुलं नीरन्ध्राः तनुमालिखन्तु जरठच्छेदानलग्रन्थयः ॥
अत्र स्वतः सम्भविना वस्तुना तत्प्रतिपादिकाया भावपरपुषोपयोगजनखक्षतादिगोपनरूपं वस्तुमात्रं व्यज्यते ।
दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि ।
तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥
अत्र स्वतः सम्भविना वस्तुना रवितेजसो रघुप्रतापोऽधिक इति व्यतिरेकालङ्कारो व्यज्यते ।
आपतन्तममुं दूरादूरीकृतपराक्रमः ।
बलोऽवलोकयामास मातङ्गमिव केसरी ॥
अत्रोपमालङ्कारेण स्वतः सम्भविना व्यञ्जकार्थेन बलदेवः क्षणेनैव वेणुदारिणः क्षयं करिष्यतीति वस्तु व्यज्यते ।
गाढकान्तदशनक्षतव्यथा सङ्कटादरिबधूजनस्य यः ।
ओष्ठविद्रुमदलान्यमोचयन्निदर्शन् युधि रुषा निजाधरम् ॥
अत्र स्वतः सम्भविना विरोधालङ्कारेणाधरो निर्दष्टः शत्रवो व्यापादिताश्चेति समुच्चयालङ्कारो व्यङ्ग्यः ।
“सजेहि सुरहिमासो ण दाव अप्पेइ जुऐजणलक्खमुहे ।
अहिणवसहआरमुहे णवपत्तले अणङ्गस्स सरे” ॥
अत्र वसन्तः शरकारः, कामो धन्वी, युबतयो लक्ष्यम्, पुष्पाणि शरा इति कविप्रौढोक्तिसिद्धं वस्तु प्रकाशीभवन्मदनविजृम्भणरूपं वस्तु व्यनक्ति ।
“इजनीषु विमलभानोः करजालेन प्रकाशितं वीर ! धवलयति भुवनमण्डलमखिलं तव कीतिसंततिः सतम्” ॥
अत्र कविप्रौढोक्तिसिद्धेन वस्तुना कीतिसन्ततेश्चन्द्रकरजालादधिककालप्रकाशकत्वेन व्यतिरेकालङ्कारो व्यङ्क्यः ।
“दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः ।
मणिव्याजेन पर्यस्ताः पृथिव्यामश्रुबिन्दवः” ॥
अत्र कविप्रौढोक्तिसिद्धेनापह्नुत्यलङ्कारेण भविष्यद्राक्षसश्रीविनाशरूपं वस्तु व्यज्यते ।
“धम्मिल्ले नवमल्लिकासमुदयो हस्ते सिताम्भोरुहं हारः कण्ठतटे पयोधरयुगे श्रीखण्डलेपो घनः ।
एकोऽपि त्रिकलिङ्गभूमितिलक ! त्वत्कीर्तिराशिर्ययौ ।
नानामण्डनतां पुरन्दपुरीवामभ्रुवां विग्रहे” ॥
अत्र कविप्रौढोक्तिसिद्धेन रूपकालङ्कारेण भूमिष्ठोऽपि स्वर्गस्थानामुपकारं करोषीति विभावनालङ्कारो व्यज्यते ।
“शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः ।
सुमुखै ! येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः” ॥
अत्रानेन कविनिबद्धस्य कस्यचित्कामिनः प्रौढोक्तिसिद्धेन वस्तुना तवाधरः पुण्यातिशयलभ्य इति वस्तु प्रतीयते ।
“सुभगे ! कोटिसंख्यत्वमुपेत्य मदनाशुगैः ।
वसन्ते पञ्चता त्यक्ता पञ्चतासीद्वियोगिनाम्” ॥
अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन कामशराणां कोटिसंख्यत्वप्राप्त्यो निखिलवियोगिमरणोन वस्तुना शराणां पञ्चता शरान् विमुच्य वियोगिनः श्रितेवे त्युत्प्रेक्षालङ्कारो व्यज्यते ।
“मल्लिकामुकुले चणिड ! भाति गुञ्जन्मधुव्रतः ।
प्रयाणो पञ्जबाणस्य शङ्वमापूरयन्निव” ॥
अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेनोत्प्रेक्षालङ्कारेण कामस्यायमुन्मादकः कालः प्राप्तस्तत्कथं मानिनि मानं न मुञ्चसीति वस्तु व्यज्यते ।

“महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअन्ती ।
अणुदिणमणण्णकम्मा अङ्ग तणुत्त्रं पि तणुएइ” ॥


विश्वनाथ कविराज साहित्यदर्पण

Tags: Alankar Sastra

Post navigation

Previous: Chandralok: Jaydeva
Next: Shakuntala: Kalidasa

Related Stories

Manu Smriti , Manu Samhita, Manusmriti
  • Vedic Sanskrit Culture

Manusmriti Chapter 1 Verses 1–30: Creation, Cosmology and Consciousness

advtanmoy 26/08/2026
Acharya Narad
  • Vedic Sanskrit Culture

Naradaparivrajaka Upanishad: Ancient Text of Vedic Sannyasa (नारदपरिव्राजकोपनिषद्: 1200 BCE)

advtanmoy 15/02/2026
The Story of Varanasi (1993–2000): A Saga of the Celebration of Life
  • Vedic Sanskrit Culture

The Story of Varanasi (1993–2000): A Saga of the Celebration of Life

advtanmoy 22/01/2026
Encyclopedia of Rashtriya Swayamsevak Sangh

Encyclopedia of Rashtriya Swayamsevak Sangh (13-Volume): History, Ideology and Organisation

The Encyclopedia of Chaitanya Mahaprabhu

Encyclopedia of Sree Krishna Chaitanya Bharati (12-Volume): The Golden Gouranga of Bengal

Encyclopedia of Macroscopic Human Social System Analysis

Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System

Encyclopedia of European Invasions in India

Encyclopedia of European Invasions in India (11-Volume): Colonialism, Resistance, and Restoration

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Deep Grammar of Civilization (13-Volume): What Are the Irreducible Components of Civilization?

Encyclopedia of Begging

Encyclopedia of Begging (6-Volume): A Global History of Asking, Giving, and Resource Acquisition

Encyclopedia of the Communist Party of China

Encyclopedia of the Communist Party of China (31-Volume): Making of Modern Chinese Civilization

Indo-Pakistan war 1971

Encyclopedia of the Indo–Pakistan War of 1971 (5-Volume): The Creation of Bangladesh

Sarvarthapedia

Encyclopedia of India’s Internal and External Intelligence System: Special Emphasis on the (R&AW)

The Encyclopedia of Political History of Bangladesh

Encyclopedia of Political History of Bangladesh (18-Volume): Identity, Liberation, And Democracy

Encyclopedia of Ecumenical Movements

Encyclopedia of Ecumenical Movements (21-Volume): History, Theology, Institutions and Dialogues

Encyclopedia of Dalit Christians and Their Theology

Encyclopedia of Dalit Christians and Their Theology (5-Volume): Crisis of Caste Culture within Christians in India

Encyclopedia of Indian Military Civilization

Encyclopedia of Indian Military Civilization (55-Volume): War Strategy and Armed Institutions From Antiquity to 2026

Sarvarthapedia

Ontology (25-Volume): Encyclopedia of All Known Conceptions of Reality and Existence

Synthesis-of-Greco-Roman-Ideologies-Shaping-Christianity and Historical Critiques of Christianity and Christian Theology

Encyclopedia of Historical Critiques of Christianity and Christian Theology: A (50-Volume) Research and Documentation

Sarvarthapedia Astronautical Engineering Knowledge Universe (SAEKU): A 250-Volume Master Reference for Space Science and Engineering

Astronautical Engineering Knowledge Universe: A 250-Volume Reference for Space Science and Engineering

Encyclopedia of Indian Economy

Encyclopedia of Indian Economy (56-Volume): A Civilisational Perspective

Encyclopedia of Constitution and Constitutional Law of the United Kingdom

Encyclopedia of Constitution and Constitutional Law of the United Kingdom (10-Volume): History and Development

Encyclopedia of Astrology

Encyclopedia of Astrology (15-Volume): The Human Quest to Predict the Future

Civilizational Encyclopedia of American Governance

Civilizational Encyclopedia of American Governance (100-Volume): Governing the American Government

Human rights conditions in the United States

Human Rights and United States (15-Volume): Violations, Resistance, and Global Impact

Civilizational History of North America

Civilizational History of North America (315-Volume): The Turtle Island and the American Imperium

Sarvarthapedia

Sarvarthapedia of Human Technological Civilization (12-Volume)

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Ultimate-Order Concepts (17-Volume): Fundamental Reason for Existence of Intelligence System

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Meta-Civilizational Architecture: How Complex Systems Survive

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Global Encyclopedia (180-Volume) of Intelligence, Espionage, and Counterintelligence

British Parliament

Encyclopedia of the British Parliamentary System: A 100-Volume Statement on British Politics

Encyclopedia of Global Capital Markets (100 Volumes): A Comprehensive Reference to Banking, Securities, Finance, and Investment Systems

The Global Capital Markets Encyclopedia (100-Volume): Reference on Finance, Banking, and Investment Systems

The Atlas of Self-Sabotage: A 12-Volume Encyclopedia of How Lives Quietly Go Wrong

The Atlas of Self-Sabotage: A 12-Volume Encyclopedia of How Lives Quietly Go Wrong

Encyclopedia of History of Ancient and Modern India

Encyclopedia of Ancient and Modern India: A 120-Volume Civilizational Knowledge System

Contemporary World History

Encyclopedia of Contemporary World History (2001–Present): A 100-Volume Statement on World System

Non-Proliferation of Nuclear Weapons: 12-Volume Reference and Research Architecture

Non-Proliferation of Nuclear Weapons: 12-Volume Reference and Research Architecture

Encyclopedia of American Law

Encyclopedia of American Law: 180‑Volume Statement on American Law

Roman empire and Law

Roman Empire Political History (15-Volume): Rise and Destruction (300 BCE – 1453 CE)

India

Encyclopedia of Contemporary Indian Politics: 111-Volume Statement on Indian Politics (1857–2026)

Encyclopedia of Psychology

Encyclopedia of Psychology (12-Volume): Of Mind, Behavior, and Society

Encyclopedia History of Pakistan (12-Volume): From Hindustan to an Islamic Republic

Encyclopedia History of Pakistan (12-Volume): From Hindustan to an Islamic Republic

Africa and African Union

Encyclopedia of African Studies (10-Volume): History, Culture, and Development

African Studies

African Studies, Synopsis (10-Volume) and How to Study Africa

Encyclopedia of Disease and Disease Detection

Encyclopedia of Disease and Disease Detection (12-Volume): Foundations, Technologies, and Clinical Applications

Sarvarthapedia

Encyclopedia of Religion, Faith, and Beliefs (12-Volume): History, Theology, Politics, and Conflict with Science 

Cyber Security

Cybersecurity Encyclopedia (Volume-8): From ENIAC to Modern Cyber Warfare and Data Protection Laws

Sanatan Dharma

Sarvarthapedia of Hindu Scriptures and Interpretation (10-Volume): From the Vedic Period up to 2026

Sarvarthapedia

Encyclopedia of Strategic Geography (13-Volume): Spatial Logic of Civilization 

Encyclopedia of Medical Science and Research

Encyclopedia of Medical Science and Research (7-Volume): Early Civilizations to Modern Healthcare Systems

Computer Science

Computer Science Encyclopedia (13-Volume): From Its Theoretical Origins Up To 2026

Sarvarthapedia

Anthropology (12-Volume): The Study of Humankind – From Origins to 2026

Sanatan Dharma

Encyclopedia of Sanatan Dharma: Society, Politics, Militia, Rituals, and Philosophy of Vedic Civilization

Encyclopedia of Panini Ashtadhyayi

Encyclopedia of Panini’s Ashtadhyayi: Reading of Panini Grammar (Sutra Path – सूत्र पाठः)

Encyclopedia of Indian Law

Indian Law Encyclopedia: 101-Volume Statement on Indian Law

  • Anosh Ekka v. CBI (2026 INSC 357): SC Grants Bail to Former Jharkhand Minister in CBI DA Case
  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Ram v. Sukhram: Tribal women’s right in ancestral property [2025] 8 SCR 272
  • Indian Constitution
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders

Genesis-1 (Bereshit-1) — Torah Reading: Bereshit Bara Elohim – The Creation of the World

An Introduction to the Rashtriya Swayamsevak Sangh

Swami Pranabananda and the Making of Shyama Prasad Mukherjee’s Early Political Outlook

18th Lok Sabha Election 2024 in West Bengal: Party Position and Elected Members

Sarvarthapedia: The Knowledge Universe of Civilization

Dakshineswar Bhabatarini Kali: Three Kali Idols, Rani Rashmoni, and Temple History

Sarvarthapedia

  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subjects
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia Meta-Concept
  • Contact Us
  • Privacy Policy
  • FAQs
  • NEET
  • Library Updates
2026 All rights reserved © Advocatetanmoy Law Library by advocatetanmoy.