कदाऽहं भगवत्पादाम्बुजद्वयं शिरसा सङ्ग्रहीष्यामि । कदाऽहं भगवत्पादाम्बुजद्वय परिचर्याऽऽशया निरस्तसमस्तेतर भोगाशः, अपगत समस्त सांसारिकस्वभावः तत्पादाम्बुजद्वयं प्रवेक्ष्यामि । कदाऽहं भगवत्पादाम्बुजद्वय परिचर्याकरणयोग्य-स्तदेकभोगस्तत्पादौ परिचरिष्यामि । कदा मां भगवान् स्वकीयया अतिशीतलया दृशा अवलोक्य, स्निग्धगम्भीरमधुरया गिरा परिचर्यायां आज्ञापयिष्यति, इति भगवत्परिचर्यायामाशां वर्धयित्वा तयैवाऽशया तत्प्रसादोपबृंहितया भगवन्तमुपेत्य, दूरादेव...
1100CE
Gitabhashya of Bhagavad Ramanuja यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः ।वस्तुताम् उपयातो ऽहं यामुनेयं नमामि तम् ॥ श्रियः पतिः, निखिलहेयप्रत्यनीककल्याणैकतानः, स्वेतरसमस्तवस्तुविलक्षणानन्तज्ञनानन्दैकस्वरूपः, स्वाभाविकानवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजःप्रभृत्यसंख्येयकल्याणगुणगणमहोदधिः, स्वाभिमतानुरूपैकरूपाचिन्त्य दिव्याद्भुतनित्यनिरवद्यनिरतिशयौज्ज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्य यौवनाद्यनन्तगुणनिधिदिव्यरूपः, स्वोचितविविधविचित्रानन्ताश्चर्यनित्यनिरवद्यापरिमितदिव्यभूषणः, स्वानुरूपासंख्येयाचिन्त्यशक्तिनित्यनिरवद्यनिरतिशयकल्याणदिव्यायुधः, स्वाभिमतानुरूपनित्यनिरवद्यस्वरूपरूपगुणविभवैश्वर्यशीलाद्यनवधिकातिशयासंख्येयकल्याणगुणगणश्रीवल्लभः, स्वसङ्कल्पानुविधायिस्वरूपस्थितिप्रवृत्तिभेदाशेषसेषतैकरतिरूप नित्यनिरवद्यनिरतिशयज्ञानक्रियाइश्वर्याद्यनन्तगुणगणापरिमितसूरिभिरनवरताभिष्टुतचरणयुगलः, वाङ्मनसापरिच्छेद्यस्वरूपस्वभावः स्वोचितविविधविचित्रानन्तभोग्यभोगोपकरणभोगस्थानसमृद्धानन्ताश्चर्यानन्त महाविभवानन्तपरिमाणनित्यनिरवद्याक्षरपरमव्योमनिलयः, विविधविचित्रानन्तभोग्यभोक्तृवर्गपरिपूर्णनिखिलजगदुदयविभवलयलीलः, परं ब्रह्म पुरुषोत्तमो नारायणः, ब्रह्मादिस्थावरान्तम् अखिलं जगत्सृष्ट्वा ,स्वेन रूपेणावस्थितो ब्रह्मादिदेवमनुष्याणां...
अयम् आत्मा ब्रह्म । य आत्मनि तिष्ठन्नात्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्यमृतः ।
यो माम् अजम् अनादिं च वेत्ति लोकमहेश्वरम् । द्वाविमौ पुरषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयम् आविश्य विभर्त्यव्यय ईश्वरः ॥ कालं च पचते तत्र न कालस्तत्र वै...