Skip to content

Advocatetanmoy Law Library

Research & Library Database

Yuddha Gita (1st Vol): The First Question of Human Civilization

Search

  • Genesis-1 (Bereshit-1) — Torah Reading: Bereshit Bara Elohim – The Creation of the World
  • An Introduction to the Rashtriya Swayamsevak Sangh
  • Swami Pranabananda and the Making of Shyama Prasad Mukherjee’s Early Political Outlook
  • 18th Lok Sabha Election 2024 in West Bengal: Party Position and Elected Members
  • Sarvarthapedia: The Knowledge Universe of Civilization
  • Dakshineswar Bhabatarini Kali: Three Kali Idols, Rani Rashmoni, and Temple History
  • Political Evolution of Bengal (1300–2000): A 700-Year History of State, Society and Power
  • Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System
  • West Bengal Govt Budget Statement In Bengali (2026-2027) by Swapan Dasgupta
  • Encyclopedia of Physical Measurement (3-Volume)
Primary Menu
  • News
    • Editorial
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • JudgmentSupreme Court
  • Podcast
  • Legal Brief
    • Legal Eagal
  • HLJLaw Digests
    • Supreme Court Case Notes
    • Daily Digest
  • SarvarthapediaKnowledgebase
    • Sarvarthapedia (Twelve Core Areas): Macro Structure
    • Systemic-and-systematic
    • Volume One
    • Volume Two
    • Volume Three
    • Volume Four
    • Volume Five
    • Volume Six
  • Subjects
    • Knowledge Graph
    • Glossary
  • Indian Law
  • EncyclopediaCollection
Home » Law Library » Books » Vedartha Sangraha – वेदार्थसङ्ग्रहः – Sri Ramanuja » Page 6
  • Books
  • Sanskrit Documents

Vedartha Sangraha – वेदार्थसङ्ग्रहः – Sri Ramanuja

अयम् आत्मा ब्रह्म । य आत्मनि तिष्ठन्नात्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्यमृतः ।
advtanmoy 25/08/2021 1 minute read

© Advocatetanmoy Law Library

  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on Telegram (Opens in new window) Telegram
Ramanuja

(१२१) कृतिं प्रति शेषित्वं कृत्युद्देश्यत्वम् इति चेत् । किम् इदं शेषित्वं किं च शेषत्वम् इति वक्तव्यम् । कार्यं प्रति संबन्धी शेषः । तत्प्रतिसंबन्धित्वं शेषित्वम् इति चेत् । एवं तर्हि कार्यत्वमेव शेषित्वम् इत्युक्तं भवति । कार्यत्वमेव विचार्यते । परोद्देशप्रवृत्तकृतिव्याप्त्यर्हत्वं शेषत्वम् इति चेत् । को ऽयं परोद्देशो नाम+इति । अयमेव हि विचार्यते । उद्देश्यत्वं नाम+ईप्सितत्वसाध्यत्वम् इति चेत् । किम् इदम् ईप्सितत्वम् । कृतिप्रयोजनत्वम् इति चेत्पुरुषस्य कृत्यारम्भप्रयोजनमेव हि कृतिप्रयोजनम् । स च+इच्छाविषयः कृत्यधीनात्मलाभ इति पूर्वोक्त एव । अयमेव हि सर्वत्र शेषशेषिभावः । परगतातिशयाधानेच्छोपादेयत्वमेव यस्य स्वरूपं स शेषः परः शेषी । फलोत्पत्तिइच्छया यागादेस्तत्प्रयत्नस्य च+उपादेयत्वं यागादिसिद्धिइच्छया+अन्यत्सर्वम् उपादेयम् ।

(१२२) एवं गर्भदासादीनाम् अपि पुरुषविशेषातिशयाधानोपादेयत्वमेव स्वरूपम् । एवम् ईश्वरगतातिशयाधानेच्छया+उपादेयत्वमेव चेतनाचेतनात्मकस्य नित्यस्यानित्यस्य च सर्वस्य वस्तुनः स्वरूपम् इति सर्वम् ईश्वरशेषत्वमेव सर्वस्य च+ईश्वरः शेषी+इति सर्वस्य वशी सर्वस्य+ईशानः पतिं विश्वस्य+इत्याद्युक्तम् । कृतिसाध्यं प्रधानं यत्तत्कार्यम् अभिधीयत इत्ययम् अर्थः श्रद्दधानेष्वेव शोभते ।

(१२३) अपि च स्वर्गकामो यजेत+इत्यादिषु लकारवाच्यकर्तृविशेषसमर्पणपराणां स्वर्गकामादिपदानां नियोज्यविशेषसमर्पणपरत्वं शब्दानुशासनविरुद्धं केनावगम्यते । साध्यस्वर्गविशिष्टस्य स्वर्गसाधने कर्तृत्वान्वयो न घटत इति चेत् । नियोज्यत्वान्वयो ऽपि न घटत इति हि स्वर्गसाधनत्वनिश्चयः । स तु शास्त्रसिद्धे कर्तृत्वान्वये स्वर्गसाधनत्वनिश्चयः क्रियते । यथा भोक्तुकामो देवदत्तगृहं गच्छेदित्युक्ते भोजनकामस्य देवदत्तगृहगमने कर्तृत्वश्रवणादेव प्रागज्ञातम् अपि भोजनसाधनत्वं देवदत्तगृहगमनस्यावगम्यते । एवम् अत्रापि भवति । न क्रियान्तरं प्रति कर्तृतया श्रुतस्य क्रियान्तरे कर्तृत्वकल्पनं युक्तं यजेत+इति हि यागकर्तृतया श्रुतस्य बिद्धौ कर्तृत्वकल्पनं क्रियते । बुद्धेः कर्तृत्वकल्पनमेव हि नियोज्यत्वम् । यथोक्तं

नियोज्य सर्वकार्यं यः स्वकीयत्वेन बुध्यते ।

इति । यष्टृत्वानुगुणं तद्बोधृत्वम् इति चेत् । देवदत्तः पचेदिति पाके कर्तृतया श्रुतस्य देवदत्तस्य पाकार्थगमनं पाकानुगुणम् इति गमने कर्तृत्वकल्पनं न युज्यते ।

(१२४) किं च लिङादिशब्दवाच्यं स्थायिरूपं किम् इत्यपूर्वम् आश्रीयते । स्वर्गकामपदसमभिव्याहारानुपपत्तेरिति चेत् । का+अत्रानुपपत्तिः । सिषाधयिषितस्वर्गो हि स्वर्गकामः । तस्य स्वर्गकामस्य कालान्तरभाविस्वर्गसिद्धौ क्षणभङ्गिनी यागादिक्रिया न समर्थेति चेत् । अनाघ्रातवेदसिद्धान्तानाम् इयम् अनुपपत्तिः । सर्वैः कर्मभिराराधितः परमेश्वरो भगवान्नारायणस्तत्तदिष्टं फलं ददाति+इति वेदविदो वदन्ति । यथा+आहुर्वेदविदग्रेसरा द्रमिडाचार्याः फलसंबिभत्सया हि कर्मभिरात्मानं पिप्रीषन्ति स प्रीतो ऽलं फलाय+इति शास्त्रमर्यादा इति । फलसंबन्धेच्छया कर्मभिर्यागदानहोमादिभिरिन्द्रियादिदेवतामुखेन तत्तदन्तर्यामिरूपेणावस्थितम् इन्द्रादिशब्दवाच्यं परमात्मानं भगवन्तं वासुदेवम् आरिराधयिषन्ति, स हि कर्मभिराराधितस्तेषाम् इष्टानि फलानि प्रयच्छति+इत्यर्थः । तथा च श्रुतिः इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिरिति । इष्टापूर्तम् इति सकलश्रुतिस्मृतिचोदितं कर्म+उच्यते । तद्विश्वं बिभर्ति इन्द्राग्निवरुणादिसर्वदेवतासंबन्धितया प्रतीयमानं तत्तदन्तरात्मतया+अवस्थितः परमपुरुषः स्वयमेव बिभर्ति स्वयमेव स्वीकरोति । भुवनस्य नाभिः ब्रह्मक्षत्रादिसर्ववर्णपूर्णस्य भुवनस्य धारकः तैस्तैः कर्मभिराराधितस्तत्तदिष्टफलप्रदानेन भुवनानां धारक इति नाभिरित्युक्तः । अग्निवायुप्रभृतिदेवतान्तरात्मतया तत्तच्छब्दाभिधेयो ऽयमेव+इत्याह तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमा इति । यथोक्तं भगवता

यो यो यां यां तनुं भक्तः श्रद्धया+अर्चितुम् इच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ स तस्य श्रद्धया युक्तस्तस्याराधनं ईहते । लभते च ततः कामान् मया+एव विहितान् इह तान् ॥ इति ।

यां यां तनुम् इति+इन्द्रादिदेवताविशेषास्तत्तदन्तर्यामितया+अवस्थितस्य भगवतस्तनवः शरीराणि+इत्यर्थः ।

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।

इत्यादि । प्रभुरेव च+इति सर्वफलानां प्रदाता च+इत्यर्थः । यथा च

यज्ञैस्त्वम् इज्यसे नित्यं सर्वदेवमयाच्युत । यैः स्वधर्मपरैर्नाथ नरैरादाधितो भवान् । ते तरन्त्यखिलामेतां मयाम् आत्मविमुक्तये ॥

इति । सेतिहासपुराणेषु सर्वेष्वेव वेदेषु सर्वाणि कर्माणि सर्वेश्वराराधनरूपाणि, तैस्तैः कर्मभिराराधितः पुरुषोत्तमस्तत्तदिष्टं फलं ददाति+इति तत्र तत्र प्रपञ्चितम् । एवम् हि सर्वशक्तिं सर्वज्ञं सर्वेश्वरं भगवन्तम् इन्द्रादिदेवतान्तर्यामिरूपेण यागदानहोमादिवेदोदितसर्वकर्मणां भोक्तारं सर्वफलानां प्रदातारं च सर्वाः श्रुतयो वदन्ति । चतुर्होतारो यत्र संपदं गच्छन्ति देवैरित्याद्याः । चतुर्होतारो यज्ञाः, यत्र परमात्मनि देवेष्वन्तर्यामिरूपेणावस्थिते, देवैः संपदं गच्छन्ति देवैः संबन्धं गच्छन्ति यज्ञा इत्यर्थः । अन्तर्यामिरूपेणावस्थितस्य परमात्मनः शरीरतया+अवस्थितानाम् इन्द्रादीनां यागादिसंबन्ध इत्युक्तं भवति । यथा+उक्तं भगवता

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।

इति । तस्मादग्न्यादिदेवतान्तरात्मभूतपरमपुरुषाराधनरूपभूतानि सर्वाणि कर्माणि, स एव चाभिलषितफलप्रदातेति किम् अत्रापूर्वेण व्युत्पत्तिपथदूरवर्तिना वाच्यतया+अभ्युपगतेन कल्पितेन वा प्रयोजनम् । एवं च सति लिङादेः को ऽयम् अर्थः परिगृहीतो भवति । यज देवपूजायाम् इति देवताराधनभूतयागादेः प्रकृत्यर्थस्य कर्तृव्यापारसाध्यतां व्युत्पत्तिसिद्धां लिङादयो ऽभिदधति+इति न किंचिदनुपपन्नम् । कर्तृवाचिनां प्रत्ययानां प्रकृत्यर्थस्य कर्तृव्यापारसंबन्धप्रकारो हि वाच्यः । भूतवर्तमानादिकम् अन्ये वदन्ति । लिङादयस्तु कर्तृव्यापारसाध्यतां वदन्ति ।

(१२५) अपि च कामिनः कर्तव्यता कर्म विधाय कर्मणो देवताराधनरूपतां तद्द्वारा फलसंभवं च तत्तत्कर्मविधिवाक्यान्येव वदन्ति । वायव्यं श्वेतम् आलभत भूतिकामो वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेन+उपधावति स एवैनं भूतिं गमयति+इत्यादीनि । नात्र फलसिद्ध्यनुपपत्तिः का+अपि दृश्यत इति फलसाधनत्वावगतिरौपादानिकी+इत्यपि न संगच्छति । विध्यपेक्षितं यागादेः फलसाधनत्वप्रकारं वाक्यशेष एव बोधयति+इत्यर्थः । तस्माद्ब्राह्मणाय नापगुरेत+इत्यत्रापगोरणनिषेधविधिपरवाक्यशेषे श्रूयमाणं निषेध्यस्यापगोरणस्य शतयातनासाधनत्वं निषेधविध्युपयोगी+इति हि स्वीक्रियते । अत्र पुनः कामिनः कर्तव्यतया विहितस्य यागादेः काम्यस्वर्गादिसाधनत्वप्रकारं वाक्यशेषावगतम् अनादृत्य किम् इत्युपादानेन यागादेः फलसाधनत्वं परिकल्प्यते । हिरण्यनिधिम् अपवरके निधाय याचते कोद्रवादिलुब्धः कृपणं जनम् इति श्रूयते तदेतद्युष्मासु दृश्यते । शतयातनासाधनत्वम् अपि नादृष्टद्वारेण । चोदितान्यनुतिष्ठो विहितं कर्माकुर्वतो निन्दितानि च कुर्वतः सर्वाणि सुखानि दुःखानि च परमपुरुषानुग्रहनिग्रहाभ्यामेव भवन्ति । एष ह्येवानन्दयति अथो सो ऽभयं गतो भवति अथ तस्य भयं भवति भीषा+अस्माद्वा+अतः पवते भीषा+उदेति सूर्यो भीषास्मादग्निश्चन्द्रश्च मृत्युर्धावति पञ्चमः इति । एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवा दर्वीं पितरो ऽन्वायत्ता इत्याद्यनेकविधाः श्रुतयः सन्ति । यथा+उक्तं द्रमिडभाष्ये तस्याज्ञया धावति वायुर्नद्यः स्रवन्ति तेन च कृतसीमानो जलाशयाः समदा इव मेषविर्सपितं कुर्वन्ति+इति । तत्संकल्पनिबन्धना हि+इमे लोके न च्यवन्ते न स्फुटन्ते । स्वशासनानुवर्तिनां ज्ञात्वा कारुण्यात्स भगवान् वर्धयेत विद्वान् कर्मदक्ष इति च ।

(१२६) परमपुरुषयाथात्म्यज्ञानपूर्वकतदुपासनादिविहितकर्मानुष्ठायिनस्तत्प्रसादात्तत्प्राप्तिपर्यन्तानि सुखान्यभयं च यथाधिकारं भवन्ति । तज्ज्ञानपूर्वकं तदुपासनादिविहितं कर्माकुर्वतो निन्दितानि च कुर्वतस्तन्निग्रहादेव तदप्राप्तिपूर्वकापरिमितदुःखानि भयं च भवन्ति । यथोक्तं भगवता

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।

इत्यादिना कृत्स्नं कर्म ज्ञानपूर्वकम् अनुष्ठेयं विधाय

मयि सर्वाणि कर्माणि संन्यस्य

इति सर्वस्य कर्मणः स्वाराधनताम् आत्मनां स्वनियाम्यतां च प्रतिपाद्य

ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः । श्रद्धावन्तो ऽनसूयन्तो मुच्यन्ते ते ऽपि कर्मभिः ॥ ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान् विद्धि नष्टान् अचेतसः ॥

इति स्वाज्ञानुवर्तिनः प्रशस्य विपरीतान् विनिन्द्य पुनरपि स्वाज्ञानुपालनम् अकुर्वताम् आसुरप्रकृत्यन्तर्भावम् अभिधायाधमा गतिश्च+उक्ता

तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रम् अशुभान् आसुरीष्वेव योनिषु ॥ आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि । माम् अप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ इति । सर्वकर्माण्यपि सदा कुर्वाणो मद्व्य्पाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदम् अव्ययम् ॥

इति च स्वाज्ञानुवर्तिनां शाश्वतं पदं च+उक्तम् । अश्रुतवेदान्तानां कर्मण्यश्रद्धा मा भूदिति देवताधिकरणे ऽतिवादाः कृताः कर्ममात्रे यथा श्रद्धा स्यादिति सर्वमेकशास्त्रम् इति वेदवित्सिद्धान्तः ।

(१२७) तस्यैतस्य परस्य ब्रह्मणो नारायणस्यापरिच्छेद्यज्ञानानन्दामलत्वस्वरूपवज्ज्ञानशक्तिबलैश्वर्यवीर्यतेजःप्रभृत्यनवधिकातिशयासंख्येयकल्याणगुणवत्स्वसंकल्पप्रवर्त्यस्वेतरसमस्तचिदचिद्वस्तुजातवत्स्वाभिमतस्वानुरूपैकरूपदिव्यरूपतदुचितनिरतिशयकल्याणविविधानंतभूषणस्वशक्तिसदृशापरिमितानन्ताश्चर्यनानाविधायुधस्वाभिमतानुरूपस्वरूपगुणविभवैश्वर्यशीलाद्यनवधिकमहिममहिसीस्वानुरूपकल्याणज्ञानक्रियाद्यपरिमेयगुणानन्तपरिजनपरिच्छेदस्वोचितनिखिलभोग्यभोगोपकरणाद्यनन्तमहाविभवावाङ्मनसगोचरस्वरूपस्वभावदिव्यस्थानादिनित्यतानिरवद्यतागोचराश्च सहस्रशः श्रुतयः सन्ति । वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् । य एषो ऽन्तरादित्ये हिरण्मयः पुरुषः । तस्य यथा कप्यासं पुण्डरीकमेवम् अक्षिणी । य एषो ऽन्तर्हृदय आकाशस्तस्मिन्नयं पुरुषो मनोमयो ऽमृतो हिरण्मयः मनोमय इति मनसा+एव विशुद्धेन गृह्यत इत्यर्थः सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि विद्युद्वर्णात्पुरुषादित्यर्थः नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा मध्यस्थनीलतोयदा विद्युल्लेखेव सेयं दहरपुण्डरीकमध्यस्थाकाशवर्तिनी वह्निर्शिखा स्वान्तर्निहितनीलतोयदाभपरमात्मस्वरूपा अवान्तर्निहितनीलतोयदा विस्युदिवाभाति+इत्यर्थः । मनोमयः प्राणशरीरो भारूपः । सत्यकामः सत्यसंकल्पः । आकाशात्मा सर्वकामा सर्वकामः सर्वगन्धः सर्वरसः सर्वम् इदम् अभ्यात्तो ऽवाक्यानादरः । माहारजनं वास इत्याद्याः । अस्य+ईशाना जगतो विष्णुपत्नी । ह्रीश्च ते लक्ष्मीश्च पत्न्यौ ।तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । क्षयन्तम् अस्य रजसः पराके । यदेकम् अव्यक्तम् अनन्तरूपं विश्वं पुराणं तमसः परस्तात् । यो वेद निहितं गुहायां परमे व्योमन् । यो ऽस्याध्यक्षः परमे व्योमन् । तदेव तदु भव्यमा इदं तदक्षरे परमे व्योमन्नित्यादिश्रुतिशतनिश्चितो ऽयम् अर्थः ।

(१२८) तद्विष्णोः परमं पदम् इति विष्णोः परस्य ब्रह्मणः परं पदं सदा पश्यन्ति सूरय इति वचनात्सर्वकालदर्शनवन्तः परिपूर्णज्ञानाः केचन सन्ति+इति विज्ञायते । ये सूरयस्ते सदा पश्यन्ति+इति वचनव्यक्तिः, ये सदा पश्यन्ति ते सूरय इति वा । उभयपक्षे ऽप्यनेकविधानं न संभवति+इति चेत् । न । अप्राप्तत्वात्सर्वस्य सर्वविशिष्टं परमस्थानं विधीयते । यथोक्तं तद्गुणास्ते विधीयेरन्नविभागाद्विधानार्थे न चेदन्येन शिष्टा इति । यथा यदाग्नेयो ऽष्टाकपाल इत्यादिकर्मविधौ कर्मणो गुणानां चाप्राप्तत्वेन सर्वगुणविशिष्टं कर्म विधीयते तथा+अत्रापि सूरिभिः सदा दृश्यत्वेन विष्णोः परमस्थानम् अप्राप्तं प्रतिपादयति+इति न कश्चिद्विरोधः । करणमन्त्राः क्रियमाणानुवादिनः स्तोत्रशस्त्ररूपा जपादिषु विनियुक्ताश्च प्रकरणपथिताश्चाप्रकरणपथिताश्च स्वार्थं सर्वं यथावस्थितमेवाप्राप्तम् अविरुद्धं ब्राह्मणवद्बोधयन्ति+इति हि वैदिकाः । प्रगीतमन्त्रसाध्यगुणगुणिअभिमानं स्तोत्रम् । अप्रगीतमन्त्रसाध्यगुणगुणिनिष्ठगुणाभिधानं शस्त्रम् । नियुक्तार्थप्रकाशनां च देवतादिष्वप्राप्ताविरुद्धगुणविशेषप्र्तिपादनं विनियोगानुगुणमेव । न+इयं श्रुतिर्मुक्तजनविषया । तेशां सदादर्शनानुपपत्तेः । न+पि मुक्तप्रवाहविषया । सदा पश्यन्ति+इत्येकैककर्तृकविषयतया प्रतीतेः श्रुतिभङ्गप्रसङ्गात् । मन्त्रार्थवादगता ह्यर्थाः कार्यपरत्वे ऽपि सिद्ध्यन्ति+इत्युक्तम् । किं पुनः सिद्धवस्तुन्येव तात्पर्ये व्युत्पत्तिसिद्ध इति सर्वम् उपपन्नम् । ननु चात्र तद्विष्णोः परमं पदम् इति परस्वरूपमेव परमपदशब्देनाभिधीयते । समस्तहेयरहितं विष्ण्वाख्यं परं पदम् इत्यादिष्वव्यतिरेकदर्शनात् । नैवम् । क्षयन्तम् अस्य रजतः पराके, तदक्षरे परमे व्योमन्, यो अस्याध्याक्षः परमे व्योमन्, यो वेद निहितं गुहायां परमे व्योमन्नित्यादिषु परमस्थानस्यैव दर्शनम् । तद्विष्णोः परमं पदम् इति व्यतिरेकनिर्देशाच्च । विष्ण्वाख्यं परमं पदम् इति विशेषणादन्यदपि परमं पदं विद्यत इति च तेनैव ज्ञायते । तदिदं परस्थानं सूरिभिः सदादृश्यत्वेन प्रतिपाद्यते ।

(१२९) एतदुक्तं भवति क्वचित्परस्थानं परमपदशब्देन प्रतिपाद्यते, क्वचित्प्रकृतिवियुक्तात्मस्वरूपं, क्वचिद्भगवत्स्वरूपम् । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरय इति परस्थानम् ।

सर्गस्थित्यन्तकालेषु त्रिविधा+एव प्रवर्तते । गुणप्रवृत्त्या परमं पदं तस्यागुणं महत् ॥

इत्यत्र प्रकृतिवियुक्तात्मस्वरूपम् ।

समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ।

इत्यत्र भगवत्स्वरूपम् । त्रीण्यप्येतानि परमप्राप्तत्वेन परमपदशब्देन प्रतिपाद्यन्ते । कथं त्रयाणां परमप्राप्यत्वम् इति चेत् । भगवत्स्वरूपं परमप्राप्यत्वादेव परमं पदम् । इतरयोरपि भगवत्प्राप्तिगर्भत्वादेव परमपदत्वम् । सर्वकर्मबन्धविनिर्मुक्तात्मस्वरूपावाप्तिर्भगवत्प्राप्तिगर्भा । त इमे सत्याः कामा अनृतापिधाना इति भगवतो गुणगणस्य तिरोधायकत्वेनानृतशब्देन स्वकर्मणः प्रतिपादनम् ।

(१३०) अनृतरूपतिरोधानं क्षेत्रज्ञकर्म+इति कथम् अवगम्यत इति चेत् ।

अविद्या कर्मसंज्ञान्या तृतीया शक्तिरिष्यते । यथा क्षेत्रज्ञशक्तिः सा वेष्टिता नृप सर्वगा ॥ संसारतापान् अखिलान् अवाप्नोत्यतिसंततान् । तया तिरोहितत्वाच्च

इत्यादिवचनात् ।

(१३१) परस्थानप्राप्तिरपि भगवत्प्राप्तिगर्भा+एव+इति सुव्यक्तम् । क्षयन्तम् अस्य रजसः पराक इति रजतःशब्देन त्रिगुणात्मिका प्रकृतिरुच्यते केवलस्य रजसो ऽनवस्थानात् । इमां त्रिगुणात्मिकां प्रकृतिम् अतिक्रम्य स्थिते स्थाने क्षयन्तं वसन्तम् इत्यर्थः । अनेन त्रिगुणात्मकात्क्षेत्रज्ञस्य भोग्यभूताद्वस्तुनः परस्ताद्विष्णोर्वासस्थानम् इति गम्यते । वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तादित्यत्रापि तमःशब्देन सा+एव प्रकृतिरुच्यते । केवलस्य तमसो ऽनवस्थानादेव । रजसः पराके क्षयन्तम् इत्यनेनैकवाक्यत्वात्तमसः परस्ताद्वसन्तं महान्तम् आदित्यवर्णं पुरुषं अहं वेद+इत्ययम् अर्थो ऽवगम्यते । सत्यं ज्ञानम् अनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । तदक्षरे परमे व्योमन्निति तत्स्थानम् अविकाररूपं परमव्योमशब्दाभिधेयम् इति च गम्यते । अक्षरे परमे व्योमन्नित्यस्य स्थानस्याक्षरत्वश्रवणात्क्षररूपादित्यमण्डलादयो न परमव्योमशब्दाभिधेयाः । यत्र पूर्वे साध्याः सन्ति देवाः, यत्र र्षयः प्रथमजा ये पुराणा इत्यादिषु च त एव सूरय इत्यवगम्यते । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते विष्णोर्यत्परं पदम् इत्यत्रापि विप्रासो मेधाविनः, विपन्यवः स्तुतिशीलाः, जागृवांसः अस्खलितज्ञानास्त एवास्खलितज्ञानास्तद्विष्णोः परमं पदं सदा स्तुवन्तः समिन्धत इत्यर्थः ।

(१३२) एतेषां परिजनस्थानादीनां सदेव सोम्य+इदम् अग्र आसीदित्यत्र ज्ञानबलैश्वर्यादिकल्याणगुणगणवत्परब्रह्मस्वरूपान्तर्भूतत्वात्सदेवैकमेवाद्वितीयम् इति ब्रह्मान्तर्भावो ऽवगम्यते । एषाम् अपि कल्याणगुणैकदेशत्वादेव सदेव सोम्य+इदम् अग्र आसीदित्यत्र+इदम् इति शब्दस्य कर्मवश्यभोक्तृवर्गमिश्रतद्भोग्यभूतप्रपञ्चविषयत्वाच्च सदा पश्यन्ति सूरय इति सदादर्शित्वेन च तेषां कर्मवश्यानन्तर्भावात् । अपहतपाप्मेत्याद्यपिपास इत्यन्तेन सलीलोपकरणभूतत्रिगुणप्रकृतिप्राकृततत्संसृष्टपुरुषगतं हेयस्वभावं सर्वं प्रतिषिध्य सत्यकाम इत्यनेन स्वभोग्यभोगोपकरणजातस्य सर्वस्य सत्यता प्रतिपादिता । असत्याः कामा यस्यासौ सत्यकामः । काम्यन्त इति कामाः । तेन परेण ब्रह्मणा स्वभोग्यतदुपकरणादयः स्वाभिमता ये काम्यन्ते ते सत्याः नित्या इत्यर्थः । अन्यस्य लीलोपकरणस्यापि वस्तुनः प्रमाणसंबन्धयोग्यत्वे सत्यपि विकारास्पदत्वेनास्थिरत्वाद्तद्विपरीतं स्थिरत्वमेषां सत्यपदेन+उच्यते । सत्यसंकल्प इत्येतेषु भोग्यतदुपकरणादिषु नित्येषु निरतिशयेष्वनन्तेषु सत्स्वप्यपूर्वाणाम् अपरिमितानाम् अर्थानाम् अपि संकल्पमात्रेण सिद्धिं वदति । एषां च भोगोपकरणानां लीलोपकरणानां चेतनानाम् अचेतनानां स्थिराणाम् अस्थिराणां च तत्संकल्पायत्तस्वरूपस्थितिप्रवृत्तिभेदादि सर्वं वाति सत्यसंकल्प इति ।

(१३३) इतिहासपुराणयोर्वेदोपबृंहणयोश्चायम् अर्थ उच्यते

तौ ते मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ । वेदोपबृंहणार्थाय तावग्राहयत प्रभुः ॥

इति वेदोपबृंहणतया प्रारब्धे श्रीमद्रामायणे

व्यक्तमेष महायोगी परमात्मा सनातनः । अनादिमध्यनिधनो महतः परमो महान् ॥ तमसः परमो धाता शङ्खचक्रगदाधरः । श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः ॥ शारा नानाविधाश्चापि धनुरायतविग्रहम् । अन्वगच्छन्त काकुत्स्थं सर्वे पुरुषविग्रहाः ॥ विवेश वैष्णवं तेजः सशरीरः सहानुगः ॥

श्रीमद्वैष्णवपुराणे

समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः । तद्विश्वैरूप्यं रूपम् अन्त्यद्धरेर्महत् ॥ मूर्तं ब्रह्म महाभाग सर्वब्रह्ममयो हरिः ॥ नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी । यथा सर्वगतो विष्णुस्तथा+एव+इयं द्विजोत्तम ॥ देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी । विष्णोर्देहानुरूपां वै करोत्येषा+आत्मनस्तनुम् ॥ एकान्तिनः सदा ब्रह्मध्यायिनो योगिनो हि ये । तेषां तत्परं स्थानं यद्वै पश्यन्ति सूरयः ॥ कलामुहूर्तादिमयश्च कालो न यद्विभूतेः परिणामहेतुः ॥

महाभारते च

दिव्यं स्थानम् अजरं चाप्रमेयं दुर्विज्ञेय, चागमैर्गम्यमाद्यम् । गच्छ प्रभो रक्ष चास्मान् प्रपन्नान् कल्पे कल्पे जायमानः स्वमूर्त्या ॥ कालः स पचते तत्र न कालस्तत्र वै प्रभुः ।

इति । परस्य ब्रह्मणो रूपवत्त्वं सूत्रकारश्च वदति अन्तस्तद्धर्मोपदेशादिति

(१३४) यो ऽसावादित्यमण्डलान्तर्वर्ती तप्तकार्तस्वरगिरिवरप्रभः सहस्रांशुशतसहस्रकिरणो गम्भीराम्भःसमुद्भूतसुमृष्टनालविकरविकसितपुण्डरीकदलामलायतेक्षणः सुभ्रूललाटः सुनासः सुस्मिताधरविद्रुमः सुरुचिरकोमलगण्डः कम्बुग्रीवः समुन्नतांसविलम्बिचारुरूपदिव्यकर्णकिसलयः पीनवृत्तायतभुजश्चारुतरातम्रकरतलानुरक्ताङ्गुलीभिरलंकृतस्तनुमध्यो विशालवक्षःस्थलः समविभक्तसर्वाङ्गो ऽनिर्देश्यदिव्यरूपसंहननः स्निग्धवर्णः प्रबुद्धपुण्डरीकचारुचरणयुगलः स्वानुरूपपीताम्बरधो ऽमलकिरीटकुण्डलहारकौस्तुभकेयूरकटकनूपुरोदरबन्धनाद्यपरिमिताश्चर्यानन्तदिव्यभूषणः शङ्खचक्रगदासिश्रीवत्सवनमालालङ्कृतो ऽनवधिकातिशयसौन्दर्याहृताशेषमनोदृष्टिवृत्तिर्लावण्यामृतपूरिताशेषचराचरभूतजातो ऽत्यद्भुताचिन्त्यनित्ययौवनः पुष्पहाससुकुमारः पुण्यगन्धवासितानन्तदिगन्तरालस्त्रैलोक्याक्रमणप्रवृत्तगम्भीरभावः करुणानुरागमधुरलोचनावलोकिताश्रितवर्गः पुरुषवरो दरीदृश्यते । स च निखिलजगदुदयविभवलयलीलो निरस्तसमस्तहेयः समस्तकल्याणगुणगणनिधिः स्वेतरसमस्तवस्तुविलक्षणः परमात्मा परं ब्रह्म नारायण इत्यवगम्यते । तद्धर्मोपदेशात् स एष सर्वेषां लोकानाम् ईष्टे सर्वेषां कामानां स एष सर्वेभ्यः पापभ्य उदित इत्यादिदर्शनात् । तस्यैते गुणाः सर्वस्य वशी सर्वस्य+ईशानः अपहतपाप्मा विजर इत्यादि सत्यसंकल्प इत्यन्तं विश्वतः परमं नित्यं विश्वं नारायणं हरिम् । पतिं विश्वस्यात्मेश्वरम् इत्यादिवाक्यप्रतिपादिताः ।

(१३५) वाक्यकारैश्चैतत्सर्वं सुस्पष्टं आह हिरण्यमयः पुरुषो दृश्यत इति प्राज्ञः सर्वान्तरः स्याल् लोककामेशोपदेशात्तथा+उदयात्पाप्मनाम् इत्यादिना । तस्य च रूपस्यानित्यतादि वाक्यकारेणैव प्रतिषिद्धं स्यात्तद्रूपं कृतकम् अनुग्रहार्थं तच्चेतनानाम् ऐश्वर्यादित्युपासितुरनुग्रहार्थः परमपुरुषस्य रूपसंग्रह इति पूर्वपक्षं कृत्वा, रूपं वा+अतीन्द्रियम् अन्तःकरणप्रत्यक्षं तन्निर्देशादिति । यथा ज्ञानादयः परस्य ब्रह्मणः स्वरूपतया निर्देशात्स्वरूपभूतगुणास्तथेदम् अपि रूपं श्रुत्या स्वरूपतया निर्देशात्स्वरूपभूतम् इत्यर्थः । भाष्यकारेणैतद्व्याख्यातम् अञ्जसा+एव विश्वसृजो रूपं तत्तु न चक्षुषा ग्राह्यं मनसा त्वकलुषेण साधनान्तरवता गृह्यते, न चक्षुषा गृह्यते नापि वाचा मनसा तु विशुद्धेन+इति श्रुतेः, न ह्य्रूपाया देवताया रूपम् उपदिश्यते, यथाभूतवादि हि शास्त्रम्, महारजनं वासः वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तादिति प्रकरणान्तरनिर्देशाच्च साक्षिण इत्यादिना हिरण्यमय इति रूपसामान्याच्चन्द्रमुखवत्, न मयड् अत्र विकारम् आदाय प्रयुज्यते, अनारभ्यत्वादात्मन इति । यथा ज्ञानादिकल्याणगुणगणानन्तर्यनिर्देशादपरिमितकल्याणगुणगणविशिष्टं परं ब्रह्म+इत्यवगम्यत एवम् आदित्यवर्णं पुरुषम् इत्यादिनिर्देशात्स्वाभिमतस्वानुरूपकल्याणतमरूपः परब्रह्मभूतः पुरुषोत्तमो नारायण इति ज्ञायते । तथा+अस्य+ईशना जगतो विष्णुपत्नी ह्रीश्च ते लक्ष्मीश्च पत्न्यौ सदा पश्यन्ति सूरयः तमसः परस्तात् क्षयन्तम् अस्य रजसः पराक इत्यादिना पत्नीपरिजनस्थानादीनां निर्देशादेव तथा+एव सन्ति+इत्यवगम्यते । यथा+आह भाष्यकार यथाभूतवादि हि शास्त्रम् इति ।

(१३६) एतदुक्तं भवति यथा सत्यं ज्ञानं अनन्तं ब्रह्म+इति निर्देशात्परमात्मस्वरूपं समस्तहेयप्रत्यनीकानवधिकानन्तैकतानतयापरिच्छेद्यतया च सकलेतरविलक्षणं तथा यः सर्वज्ञः सर्ववित् परा+अस्य शक्तिर्विविधा+एव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च तमेव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाति+इत्यादिनिर्देशान्निरतिशयासंख्येयाश्च गुणाः सकल+इतरविलक्षणाः । तथादित्यवर्णम् इत्यादिनिर्देशाद्रूपपरिजनस्थानादयश्च सकलेतरविलक्षणाः स्वासाधारणा अनिर्देश्यस्वरूपस्वभावा इति ।

(१३७) वेदाः प्रमाणं चेद्विध्यर्थवादमन्त्रगतं सर्वम् अपूर्वम् अविरुद्धम् अर्थजातं यथावस्थितमेव बोधयन्ति । प्रामाण्यं च वेदानाम् औत्पत्तिकस्तु शब्दस्यार्थेन संबन्ध इत्युक्तम् । यथाग्निजलादीनाम् औष्ण्यादिशक्तियोगः स्वाभाविकः, यथा च चक्षुरादीनाम् इन्द्रियाणां बुद्धिविशेषजनशक्तिः स्वाभाविकी तथा शब्दस्यापि बोधनशक्तिः स्वाभाविकी । न च हस्तचेष्टादिवत्संकेतमूलं शब्दस्य बोधकत्वम् इति वक्तुं शक्यम् । अनाद्यनुसंधानाविच्छेदे ऽपि संकेतयितृपुरुषाज्ञानात् । यानि संकेतमूलानि तानि सर्वाणि साक्षाद्वा परंपरया वा ज्ञायन्ते । न च देवदत्तादिशब्दवत्कल्पयितुं युक्तम् । तेषु च साक्षाद्वा परंपरया वा संकेतो ज्ञायते । गवादिशब्दानां त्वनाद्यनुसंधानाविच्छेदे ऽपि संकेताज्ञानादेव बोधकत्वशक्तिः स्वाभाविकी । अतो ऽग्न्यादीनां दाहकत्वादिशक्तिवदिन्द्रियाणां बोधकत्वशक्तिवच्च शब्दस्यापि बोधकत्वशक्तिराश्रयणीया ॥

(१३८) ननु चेन् इन्द्रियवच्छब्दस्यापि बोधकत्वं स्वाभाविकं संबन्धग्रहणं बोधकत्वाय किम् इत्यपेक्षते, लिङ्गादिवदिति उच्यते यथा ज्ञातसंबन्धनियमं धूमाद्यग्न्यादिविज्ञानजनकं तथा ज्ञातसंबन्धनियमः शब्दो ऽप्यर्थविशेषबुद्धिजनकः । एवं तर्हि शब्दो ऽप्यर्थविशेषस्य लिङ्गम् इत्यनुमानं स्यात् नैवम् । शब्दार्थयोः संबन्धो बोध्यबोध्कभाव एव धूमादीनां तु संबन्धान्तर इति तस्य संबन्धस्य ज्ञानद्वारेण बुद्धिजनकत्वम् इति विशेषः । एवं गृहीतसंबन्धस्य बोधकत्वदर्शनादनाद्यनुसंधानाविच्छेदे ऽपि संकेताज्ञानाद्बोधकत्वशक्तिरेव+इति निश्चीयते ।

(१३९) एवं बोधकानां पदसंघातानां संसर्गविशेषबोधकत्वेन वाक्यशब्दाभिधेयानाम् उच्चारणक्रमो यत्र पुरुषबुद्धिपूर्वकस्ते पौरुषेयाः शब्दा इत्युच्यन्ते । यत्र तु तदुच्चारणक्रमः पूर्वपूर्वोच्चरणक्रमजनितसंस्कारपूर्वकः सर्वदा+अपौरुषेयास्ते च वेदा इत्य+उच्यन्ते । एतदेव वेदानाम् अपौरुषेयत्वं नित्यत्वं च यत्पूर्वोच्चारणक्रमजनितसंस्कारेण तमेव क्रमविशेषं स्मृत्वा तेनैव क्रमेण+उच्चार्यमाणत्वम् । ते चानुपूर्वीविशेषेण संस्थिता अक्षरराशयो वेदा ऋग्यजुःसामाथर्वभेदभिन्ना अनन्तशाखा वर्तन्ते । ते च विध्यर्थवादमन्त्ररूपा वेदाः परब्रह्मभूतनारायणस्वरूपं तदाराधनप्रकाराधितात्फलविशेषं च बोधयन्ति । परमपुरुषवत्तत्स्वरूपतदाराधनतत्फलज्ञापकवेदाख्यशब्दजातं नित्यमेव । वेदानाम् अनन्तत्वाद्दुरवगाहत्वाच्च परमपुरुषनियुक्ताः परमर्षयः कल्पे कल्पे निखिलजगदुपकारार्थं वेदार्थं स्मृत्वा विध्यर्थवादमन्त्रमूलानि धर्मशास्त्राणि+इतिहासपुराणानि च चक्रुः । लौकिकाश्च शब्दा वेदराशेरुद्धृत्यैव तत्तदर्थविशेषनामतया पूर्ववत्प्रयुक्ताः पारंपर्येण प्रयुज्यन्ते । ननु च वैदिक एव सर्वे वाचकाः शब्दाश्चेच्छन्दस्यैवं भाषायामेवम् इति लक्षणभेदः कथम् उपपद्यते । उच्यते तेषामेव शब्दानां तस्यामेवानुपूर्व्यां वर्तमानां तथा+एव प्रयोगः । अन्यत्र प्रयुज्यमानानाम् अन्यथेति न कश्चिद्दोषः ।

(१४०) एवम् इतिहासपुराणधर्मशास्त्रोपबृंहितसाङ्गवेदवेद्यः परब्रह्मभूतो नारायणो निखिलहेयप्रत्यनीकः सकलेतरविलक्षणो ऽपरिच्छिन्नज्ञानानन्दैकस्वरूपः स्वाभाविकानवधिकातिशयासंख्येयकल्याणगुणगणाकरः स्वसंकल्पानुविधायिस्वरूपस्थितिप्रवृत्तिभेदचिदचिद्वस्तुजातो ऽपरिच्छेद्यस्वरूपस्वभावानन्तमहाविभूतिर्नानाविधानन्तचेतनाचेतनात्मकप्रपञ्चलीलोपकरण इति प्रतिपादितम् । सर्वं खल्विदं ब्रह्म ऐतदात्म्यम् इदं सर्वं तत्त्वम् असि श्वेतकेतो

एनमेके वदन्त्यग्निं मरुतो ऽन्यो प्रजापतिम् । इन्द्रमेके परे प्राणम् अपरे ब्रह्म शाश्वतम् ॥ ज्योतींषि शुक्लानि च यानि लोके त्रयो लोका लोकपालास्त्रयी च । त्रयो ऽग्नयश्चाहुतयश्च पञ्च सर्वे देव देवकीपुत्र एव ॥ त्वं यज्ञस्त्वं वषट्कारस्त्वम् ओंकारः परंतपः । ऋतुधामा वसुः पूर्वो वसूनां त्वं प्रजापतिः ॥ जगत्सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् । अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः ॥ ज्योतींषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्च । नद्यः समुद्राश्च स एव सर्वं यदस्ति यन्नास्ति च विप्रवर्य ॥

इत्यादिसामानाधिकरण्यप्रयोगेषु सर्वैः शब्दैः सर्वशरीरतया सर्वप्रकारं ब्रह्मैवाभिधीयत इति च+उक्तम् । सत्यसंकलपं परं ब्रह्म स्वयमेव बहुप्रकारं स्याम् इति संकल्प्याचित्समष्टिरूपमहाभूतसूक्ष्मवस्तु भोक्तृवर्गसमूहं च स्वस्मिन् प्रलीनं स्वयमेव विभज्य तस्माद्भूतसूक्ष्माद्वास्तुनो महाभूतानि सृष्ट्वा तेषु च भोक्तृवर्गात्मतया प्रवेश्य तैश्चिदधिष्ठितैर्महाभूतैरन्योन्यसंसृष्टैः कृत्स्नं जगद्विधाय स्वयम् अपि सर्वस्यात्मतया प्रविश्य परमात्मत्वेनावस्थितं सर्वशरीरं बहुप्रकारम् अवतिष्ठते । यदिदं महाभूतसूक्ष्मं वस्तु तदेव प्रकृतिशब्देनाभिधीयते । भोक्तृवर्गसमूह एव पुरुषशब्देन च+उच्यते । तौ च प्रकृतिपुरुषौ परमात्मशरीरतया परमात्मप्रकारभूतौ । तत्प्रकारः परमात्मा+एव प्रकृतिपुरुषशब्दाभिदेयः । सो ऽकामयत बहु स्यां प्रजायेय+इति तत्सृष्ट्वा तदेवानुप्रविशत् तदनुप्रविश्य सच्च त्यच्चाभवत्निरुक्तं चानिरुक्तं च निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यम् अभवदिति पूर्वोक्तं सर्वम् अनया+एव श्रुत्या व्यक्तम् ।

(१४१) ब्रह्मप्राप्त्युपायश्च शास्त्राधिगततत्त्वज्ञानपूर्वकस्वकर्मानुगृहीतभक्तिनिष्ठासाध्यानवधिकातिशयप्रियविशदतमप्रत्यक्षतापन्नानुध्यानरूपपरभक्तिरेव+इत्युक्तम् । भक्तिशब्दश्च प्रीतिविशेषे वर्तते । प्रीतिश्च ज्ञानविशेष एव । ननु च सुखं प्रीतिरित्यनर्थान्तरम् । सुखं च ज्ञानविशेषसाध्यं पदार्थान्तरम् इति हि लौकिकाः । नैवम् । येन ज्ञानविशेषेण तत्साध्यम् इत्युच्यते स एव ज्ञानविशेषः सुखम् ।

(१४२) एतदुक्तं भवति विषयज्ञानानि सुखदुःखमध्यसाधारणानि । तानि च विषयाधीनविशेषाणि तथा भवन्ति । येन च विषयविशेषेण विशेषितं ज्ञानं सुखस्य जनकम् इत्यभिमतं तद्विषयं ज्ञानमेव सुखं, तदतिरेकि पदार्थान्तरं न+उपलभ्यते । तेनैव सुखित्वव्यवहारोपपत्तेश्च । एवंविधसुखस्वरूपज्ञानस्य विशेषकत्वं ब्रह्मव्यतिरिक्तस्य वस्तुनः सातिशयम् अस्थिरं च । ब्रह्मणस्त्वनवधिकातिशयं स्थिरं च+इति । आनन्दो ब्रह्म+इत्युच्यते । विषयायत्तत्वाज् ज्ञानस्य सुखस्वरूपतया ब्रह्मैव सुखम् । तदिदं आह रसो वै सः रसं हे एवायं लब्ध्वा+आनन्दी भवति+इति ब्रह्मैव सुखम् इति ब्रह्म लब्ध्वा सुखी भवति+इत्यर्थः । परमपुरुषः स्वेनैव स्वयम् अनवधिकातिशयसुखः सन् परस्यापि सुखं भवति । सुखस्वरूपत्वाविशेषात् । ब्रह्म यस्य ज्ञानविषयो भवति स सुखी भवति+इत्यर्थः । तदेवं परस्य ब्रह्मणो ऽनवधिकातिशयासंख्येयकल्याणगुणगणाकरस्य निरवद्यस्यानन्तमहाविभूतेरनवधिकातिशयसौशील्यसौन्दर्यवात्सल्यजलधेः सर्वशेषित्वादात्मनः शेषत्वात्प्रतिबंधितया+अनुसंधीयमानम् अनवधिकातिशयप्रीतिविषयं सत्परं ब्रह्मैवैनम् आत्मानं प्रापयति+इति ।

(१४३) ननु चात्यन्तशेषता+एवात्मनो ऽनवधिकातिशयसुखम् इत्युक्तं भवति । तदेतत्सर्वलोकविरुद्धम् । तथा हि सर्वेषामेव चेतनानां स्वातन्त्र्यमेव इष्टतमं दृश्यते, पारतन्त्र्यं दुःखतरम् । स्मृतिश्च

सर्वं परवशं दुःखं सर्वम् आत्मवशं सुखम् ।

तथा हि

सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत् । इति ।

तदिदम् अनधिगतदेहातिरिक्तात्मरूपाणां शरीरात्माभिमानविजृम्भितम् । तथा हि शरीरं हि मनुष्यत्वादिजातिगुणाश्रयपिण्डभूतं स्वतन्त्रं प्रतीयते । तस्मिन्नेवाहम् इति संसारिणां प्रतीतिः । आत्माभिमानो यादृशस्तदनुगुणा+एव पुरुषार्थप्रतीतिः । सिंहव्याघ्रवराहमनुष्ययक्षरक्षःपिशाचदेवदानवस्त्रीपुंसव्यवस्थितात्माभिमानानां सुखानि व्यवस्थितानि । तानि च परस्परविरुद्धानि । तस्मादात्माभिमानानुगुणपुरुषार्थव्यवस्थया सर्वं समाहितम् । आत्मस्वरूपं तु देवादिदेहविलक्षणं ज्ञानैकाकारम् । तच्च परशेषतैकस्वरूपम् । यथावस्थितात्माभिमाने तदनुगुणा+एव पुरुषार्थप्रतीतिः । आत्मा ज्ञानमयो ऽमल इति स्मृतेर्ज्ञानैकाकारता प्रतिपन्ना । पतिं विश्वस्य+इत्यादि श्रुतिगुणैः परमात्मशेषतैकाकारता च प्रतीता । अतः सिंहव्याघ्रादिशरीरात्माभिमानवत्स्वातन्त्र्याभिमानो ऽपि कर्मकृतविपरीतात्मज्ञानरूपो वेदितव्यः । अतः कर्मकृतमेव परमपुरुषव्यतिरिक्तविषयाणां सुखत्वम् । अत एव तेषाम् अल्पत्वम् अस्थिरत्वं च परमपुरुषस्यैव स्वत एव सुखत्वम् । अतस्तदेव स्थिरम् अनवधिकातिशयं च कं ब्रह्म खं ब्रह्म आनन्दो ब्रह्म सत्यं ज्ञानम् अनन्तं ब्रह्म+इति श्रुतेः । ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य वस्तुनः स्वरूपेण सुखत्वाभावः कर्मकृतत्वेन चास्थिरत्वं भगवता पराशरेण+उक्तम्

नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम । वस्त्वेकमेव दुःखाय सुखाय+ईर्ष्यागमाय च । कोपाय च यतस्तस्माद्वस्तु वस्त्वात्मकं कुतः ॥

सुखदुःखाद्येकान्तरूपिणो वस्तुनो वस्तुत्वं कुतः । तदेकान्तता पुण्यपापकृतेत्यर्थः । एवम् अनेकपुरुषापेक्षया कस्यचित्सुखमेव कस्यचिद्दुःखं भवति+इत्यवस्थां प्रतिपाद्य, एकस्मिन्नपि पुरुषे न व्यवस्थितम् इत्याह

तदेव प्रीयते भूत्वा पुनर्सुःखाय जायते । तदेव कोपाय यतः प्रसादाय च जायते ॥ तस्माद्दुःखात्मकं नास्ति न च किंचित्सुखात्मकम् ।

इति सुखदुःखात्मकत्वं सर्वस्य वस्तुनः कर्मकृतं न वस्तुस्वरूपकृतम् । अतः कर्मावसाने तदपैति+इत्यर्थः ।

(१४४) यत्तु सर्वं परवशं दुःखम् इत्युक्तं तत्परमपुरुषव्यतिरिक्तानां परस्परशेषशेषिभावाभावात्तद्व्यतिरिक्तं प्रति शेषता दुःखमेव+इत्युक्तम् । सेवा श्ववृत्तिराख्यातेत्यत्राप्यसेव्यसेवा श्ववृत्तिरेव+इत्युक्तम् । स ह्याश्रमैः सदा+उपास्यः समस्तैरेक एव त्विति सर्वैरात्मयाथात्म्यवेदिभिः सेव्यः पुरुषोत्तम एक एव । यथा+उक्तं भगवता

मां च यो ऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥

इति+इयमेव भक्तिरूपा सेवा ब्रह्मविदाप्नोति परं तमेवं विद्वान् अमृत इह भवति ब्रह्म वेद ब्रह्मैव भवति+इत्यादिषु वेदनशब्देनाभिधीयत इत्युक्तम् । यमेवैष वृणुते तेन लभ्य इति विशेषणाद्यमेवैष वृणुत इति भवगता वरणीयत्वं प्रतीयते । वरणीयश्च प्रियतमः । यस्य भगवत्यनवधिकातिशया प्रीतिर्जायते स एव भगवतः प्रियतमः । तदुक्तं भगवता प्रियो हि ज्ञानिनो ऽत्यर्थं अहं स च मम प्रियः । इति ।

तस्मात्परभक्ति रूपापन्नमेव वेदनं तत्त्वतो भगवत्प्राप्तिसाधनम् । यथा उक्तं भगवता द्वैपायनेन मोक्षधर्मे सर्वोपनिषद्व्याख्यानरूपम्

न संदृशो तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनैनम् । भक्त्या च धृत्या च समाहितात्मा ज्ञानस्वरूपं परिपश्यति इति इह ॥

धृत्या समाहितात्मा भक्त्या पुरुषोत्तमं पश्यति साक्षात्करोति प्राप्नोति+इत्यर्थः । भक्त्या त्वनन्न्यया शक्य इत्यनेनाइकार्थ्यात् । भक्तिश्च ज्ञानविशेष एव इति सर्वम् उपपन्नम् ।

(१४५) सारासारविवेकज्ञा गरीयांसो विमत्सराः । प्रमाणतन्त्राः सन्ति इति कृतो वेदार्थसङ्ग्रहः ॥


Tags: 1100CE Vedanta

Post navigation

Previous: Assize of Clarendon – Henry II – 1166
Next: Ramanuja Commentary (Gita Bhashya) on Bhagavad Gita
Pages: 1 2 3 4 5 6

Related Stories

Mahabhasya of Patanjali: Bengali Commentary By Tanmoy Bhattacharyya
  • Sanskrit Documents

 Pūrvatra asiddham (Patanjali Mahābhāṣya) Aṣṭādhyāyī-8.2.1

advtanmoy 10/03/2026
Mahabhasya of Patanjali: Bengali Commentary By Tanmoy Bhattacharyya
  • Sanskrit Documents

Vṛddhir Ādaich (Patanjali Mahābhāṣya) Aṣṭādhyāyī-1.1.1

advtanmoy 08/03/2026
Mahabhasya of Patanjali: Bengali Commentary By Tanmoy Bhattacharyya
  • Books

Patanjali Mahabhasya: Bengali Commentary by Tanmoy Bhattacharyya

advtanmoy 08/03/2026
Encyclopedia of Rashtriya Swayamsevak Sangh

Encyclopedia of Rashtriya Swayamsevak Sangh (13-Volume): History, Ideology and Organisation

The Encyclopedia of Chaitanya Mahaprabhu

Encyclopedia of Sree Krishna Chaitanya Bharati (12-Volume): The Golden Gouranga of Bengal

Encyclopedia of Macroscopic Human Social System Analysis

Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System

Encyclopedia of European Invasions in India

Encyclopedia of European Invasions in India (11-Volume): Colonialism, Resistance, and Restoration

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Deep Grammar of Civilization (13-Volume): What Are the Irreducible Components of Civilization?

Encyclopedia of Begging

Encyclopedia of Begging (6-Volume): A Global History of Asking, Giving, and Resource Acquisition

Encyclopedia of the Communist Party of China

Encyclopedia of the Communist Party of China (31-Volume): Making of Modern Chinese Civilization

Indo-Pakistan war 1971

Encyclopedia of the Indo–Pakistan War of 1971 (5-Volume): The Creation of Bangladesh

Sarvarthapedia

Encyclopedia of India’s Internal and External Intelligence System: Special Emphasis on the (R&AW)

The Encyclopedia of Political History of Bangladesh

Encyclopedia of Political History of Bangladesh (18-Volume): Identity, Liberation, And Democracy

Encyclopedia of Ecumenical Movements

Encyclopedia of Ecumenical Movements (21-Volume): History, Theology, Institutions and Dialogues

Encyclopedia of Dalit Christians and Their Theology

Encyclopedia of Dalit Christians and Their Theology (5-Volume): Crisis of Caste Culture within Christians in India

Encyclopedia of Indian Military Civilization

Encyclopedia of Indian Military Civilization (55-Volume): War Strategy and Armed Institutions From Antiquity to 2026

Sarvarthapedia

Ontology (25-Volume): Encyclopedia of All Known Conceptions of Reality and Existence

Synthesis-of-Greco-Roman-Ideologies-Shaping-Christianity and Historical Critiques of Christianity and Christian Theology

Encyclopedia of Historical Critiques of Christianity and Christian Theology: A (50-Volume) Research and Documentation

Sarvarthapedia Astronautical Engineering Knowledge Universe (SAEKU): A 250-Volume Master Reference for Space Science and Engineering

Astronautical Engineering Knowledge Universe: A 250-Volume Reference for Space Science and Engineering

Encyclopedia of Indian Economy

Encyclopedia of Indian Economy (56-Volume): A Civilisational Perspective

Encyclopedia of Constitution and Constitutional Law of the United Kingdom

Encyclopedia of Constitution and Constitutional Law of the United Kingdom (10-Volume): History and Development

Encyclopedia of Astrology

Encyclopedia of Astrology (15-Volume): The Human Quest to Predict the Future

Civilizational Encyclopedia of American Governance

Civilizational Encyclopedia of American Governance (100-Volume): Governing the American Government

Human rights conditions in the United States

Human Rights and United States (15-Volume): Violations, Resistance, and Global Impact

Civilizational History of North America

Civilizational History of North America (315-Volume): The Turtle Island and the American Imperium

Sarvarthapedia

Sarvarthapedia of Human Technological Civilization (12-Volume)

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Ultimate-Order Concepts (17-Volume): Fundamental Reason for Existence of Intelligence System

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Meta-Civilizational Architecture: How Complex Systems Survive

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Global Encyclopedia (180-Volume) of Intelligence, Espionage, and Counterintelligence

British Parliament

Encyclopedia of the British Parliamentary System: A 100-Volume Statement on British Politics

Encyclopedia of Global Capital Markets (100 Volumes): A Comprehensive Reference to Banking, Securities, Finance, and Investment Systems

The Global Capital Markets Encyclopedia (100-Volume): Reference on Finance, Banking, and Investment Systems

The Atlas of Self-Sabotage: A 12-Volume Encyclopedia of How Lives Quietly Go Wrong

The Atlas of Self-Sabotage: A 12-Volume Encyclopedia of How Lives Quietly Go Wrong

Encyclopedia of History of Ancient and Modern India

Encyclopedia of Ancient and Modern India: A 120-Volume Civilizational Knowledge System

Contemporary World History

Encyclopedia of Contemporary World History (2001–Present): A 100-Volume Statement on World System

Non-Proliferation of Nuclear Weapons: 12-Volume Reference and Research Architecture

Non-Proliferation of Nuclear Weapons: 12-Volume Reference and Research Architecture

Encyclopedia of American Law

Encyclopedia of American Law: 180‑Volume Statement on American Law

Roman empire and Law

Roman Empire Political History (15-Volume): Rise and Destruction (300 BCE – 1453 CE)

India

Encyclopedia of Contemporary Indian Politics: 111-Volume Statement on Indian Politics (1857–2026)

Encyclopedia of Psychology

Encyclopedia of Psychology (12-Volume): Of Mind, Behavior, and Society

Encyclopedia History of Pakistan (12-Volume): From Hindustan to an Islamic Republic

Encyclopedia History of Pakistan (12-Volume): From Hindustan to an Islamic Republic

Africa and African Union

Encyclopedia of African Studies (10-Volume): History, Culture, and Development

African Studies

African Studies, Synopsis (10-Volume) and How to Study Africa

Encyclopedia of Disease and Disease Detection

Encyclopedia of Disease and Disease Detection (12-Volume): Foundations, Technologies, and Clinical Applications

Sarvarthapedia

Encyclopedia of Religion, Faith, and Beliefs (12-Volume): History, Theology, Politics, and Conflict with Science 

Cyber Security

Cybersecurity Encyclopedia (Volume-8): From ENIAC to Modern Cyber Warfare and Data Protection Laws

Sanatan Dharma

Sarvarthapedia of Hindu Scriptures and Interpretation (10-Volume): From the Vedic Period up to 2026

Sarvarthapedia

Encyclopedia of Strategic Geography (13-Volume): Spatial Logic of Civilization 

Encyclopedia of Medical Science and Research

Encyclopedia of Medical Science and Research (7-Volume): Early Civilizations to Modern Healthcare Systems

Computer Science

Computer Science Encyclopedia (13-Volume): From Its Theoretical Origins Up To 2026

Sarvarthapedia

Anthropology (12-Volume): The Study of Humankind – From Origins to 2026

Sanatan Dharma

Encyclopedia of Sanatan Dharma: Society, Politics, Militia, Rituals, and Philosophy of Vedic Civilization

Encyclopedia of Panini Ashtadhyayi

Encyclopedia of Panini’s Ashtadhyayi: Reading of Panini Grammar (Sutra Path – सूत्र पाठः)

Encyclopedia of Indian Law

Indian Law Encyclopedia: 101-Volume Statement on Indian Law

  • Anosh Ekka v. CBI (2026 INSC 357): SC Grants Bail to Former Jharkhand Minister in CBI DA Case
  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Ram v. Sukhram: Tribal women’s right in ancestral property [2025] 8 SCR 272
  • Indian Constitution
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders

Genesis-1 (Bereshit-1) — Torah Reading: Bereshit Bara Elohim – The Creation of the World

An Introduction to the Rashtriya Swayamsevak Sangh

Swami Pranabananda and the Making of Shyama Prasad Mukherjee’s Early Political Outlook

18th Lok Sabha Election 2024 in West Bengal: Party Position and Elected Members

Sarvarthapedia: The Knowledge Universe of Civilization

Dakshineswar Bhabatarini Kali: Three Kali Idols, Rani Rashmoni, and Temple History

Sarvarthapedia

  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subjects
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia Meta-Concept
  • Contact Us
  • Privacy Policy
  • FAQs
  • NEET
  • Library Updates
2026 All rights reserved © Advocatetanmoy Law Library by advocatetanmoy.