Skip to content

Advocatetanmoy Law Library

Research & Library Database

Yuddha Gita (1st Vol): The First Question of Human Civilization

Search

  • Genesis-1 (Bereshit-1) — Torah Reading: Bereshit Bara Elohim – The Creation of the World
  • An Introduction to the Rashtriya Swayamsevak Sangh
  • Swami Pranabananda and the Making of Shyama Prasad Mukherjee’s Early Political Outlook
  • 18th Lok Sabha Election 2024 in West Bengal: Party Position and Elected Members
  • Sarvarthapedia: The Knowledge Universe of Civilization
  • Dakshineswar Bhabatarini Kali: Three Kali Idols, Rani Rashmoni, and Temple History
  • Political Evolution of Bengal (1300–2000): A 700-Year History of State, Society and Power
  • Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System
  • West Bengal Govt Budget Statement In Bengali (2026-2027) by Swapan Dasgupta
  • Encyclopedia of Physical Measurement (3-Volume)
Primary Menu
  • News
    • Editorial
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • JudgmentSupreme Court
  • Podcast
  • Legal Brief
    • Legal Eagal
  • HLJLaw Digests
    • Supreme Court Case Notes
    • Daily Digest
  • SarvarthapediaKnowledgebase
    • Sarvarthapedia (Twelve Core Areas): Macro Structure
    • Systemic-and-systematic
    • Volume One
    • Volume Two
    • Volume Three
    • Volume Four
    • Volume Five
    • Volume Six
  • Subjects
    • Knowledge Graph
    • Glossary
  • Indian Law
  • EncyclopediaCollection
Home » Law Library » Books » Vedartha Sangraha – वेदार्थसङ्ग्रहः – Sri Ramanuja » Page 5
  • Books
  • Sanskrit Documents

Vedartha Sangraha – वेदार्थसङ्ग्रहः – Sri Ramanuja

अयम् आत्मा ब्रह्म । य आत्मनि तिष्ठन्नात्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्यमृतः ।
advtanmoy 25/08/2021 1 minute read

© Advocatetanmoy Law Library

  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on Telegram (Opens in new window) Telegram
Ramanuja

(१०१) यदपि ततो यदुत्तरम् इत्यत्र पुरुषादन्यस्य परतरत्वं प्रतीयत इत्यभ्यधायि तदपि यस्मात्परं नापरम् अस्ति किंचिद्यस्मान्नाणीयो न ज्यायो ऽस्ति कश्चित् यस्मादपरं यस्मादन्यत्किंचिदपि परं नास्ति केनापि प्रकारेण पुरुषव्यतिरिक्तस्य परत्वं नास्ति+इत्यर्थः । अणीयस्त्वं सूक्ष्मत्वम् । ज्यायस्त्वं सर्वेश्वरत्वम् । सर्वव्यापित्वात्सर्वेश्वरत्वादस्यैतद्व्यतिरिकितस्य कस्याप्यणीयस्त्वं ज्यायस्त्वं च नास्ति+इत्यर्थः । यस्मान्नाणीयो न ज्यायो ऽस्ति कश्चिदिति पुरुषादन्यस्य कस्यापि ज्यायस्त्वं निषिद्धम् इति तस्मादन्यस्य परत्वं न युज्यत इति प्रत्युक्तम् ।

(१०२) कस्तर्ह्यस्य वाक्यस्यार्थः । अस्य प्रकरणस्य+उपक्रमे तमेव विदित्वा+अतिमृत्युमेति नान्यः पन्था विद्यते ऽयनाय+इति पुरुषवेदनस्यामृतत्वहेतुतां तद्व्यतिरिक्तस्यापथतां च प्रतिज्ञाय यस्मात्परं नापरम् अस्ति किंचित्तेन+इदं पूर्णं पुरुषेण सर्वम् इत्येतदन्तेन सर्वस्मात्परत्वं प्रतिपादितम् । यतः पुरुषतत्त्वमेव+उत्तरतरं ततो यदुत्तरतरं पुरुषतत्त्वं तदेवारूपम् अनामयं य एतद्विदुरमृतास्ते भवन्ति, अथ+इतरे दुःखमेवापियन्ति+इति पुरुषवेदनस्यामृतत्वहेतुत्वं तदितरस्यापथत्वं प्रतिज्ञातं सहेतुकम् उपसंहृतम् । अन्यथा+उपक्रमगतप्रतिज्ञाभ्यां विरुध्यते । पुरुषस्यैव शुद्धिगुणयोगेन शिवशब्दाभिप्रायत्वं शाश्वतं शिवम् अच्युतम् इत्यादिना ज्ञातमेव । पुरुष एव शिवशब्दाभिधेय इत्यनन्तरमेव वदति महान् प्रभुर्वै पुरुषः सत्त्वस्यैष प्रवर्तक इति । उक्तेनैव न्यायेन न सन्न चासच्छिव एव केवल इत्यादि सर्वं न+इयम् ।

(१०३) किंच न तस्य+ईशे कश्चन+इति निरस्तसमाभ्यधिकसंभावनस्य पुरुषस्याणोरणीयानित्यस्मिन्ननुवाके वेदाद्यन्तरूपतया वेदबीजभूतप्रणवस्य प्रकृतिभूताकारवाच्यतया महेश्वरत्वं प्रतिपाद्य दहरपुण्डरीकमध्यस्थाकाशान्तर्वर्तितया+उपास्यत्वम् उक्तम् । अयम् अर्थः सर्वस्य वेदजातस्य प्रकृतिः प्रणव उक्तः । प्रणवस्य च प्रकृतिरकारः । प्रणवविकारो वेदः स्वप्रकृतिभूते प्रणवे लीनः । प्रणवो ऽप्यकारविकारभूतः स्वप्रकृतावकारे लीनः । तस्य प्रणवप्रकृतिभूतस्याकारस्य यः परो वाच्यः स एव महेश्वर इति सर्ववाचकजातप्रकृतिभूताकारवाच्यः सर्ववाच्यजातप्रकृतिभूतनारायणो यः स महेश्वर इत्यर्थः । यथोक्तं भगवता

अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । मत्तः परतरं नान्यत्किंचिदस्ति धनंजय ॥ अक्षरणाम् अकारो ऽस्मि ॥

इति । अ इति ब्रह्म+इति च श्रुतेः । अकारो वै सर्वा वाग् इति च । वाचकजातस्याकारप्रकृतित्वं वाच्यजातस्य ब्रह्मप्रकृतित्वं च सुस्पष्टम् । अतो ब्रह्मणो ऽकारवाच्यताप्रतिपादनादकारवाच्यो नारायण एव महेश्वर इति सिद्धम् ।

(१०४) तस्यैव सहस्रशीर्षं देवम् इति केवलपरतत्त्वविशेषप्रतिपादनपरेण नारायणानुवाकेन सर्वस्मात्परत्वं प्रपञ्चितम् । अनेनानन्यपरेण प्रतिपादितमेव परतत्त्वम् अन्यपरेषु सर्ववाक्येषु केनापि शब्देन प्रतीयमानं तदेव+इत्यवगम्य इति शास्त्रदृष्त्या तु+उपदेशो वामदेववदिति सूत्रकारेण निर्णीतम् । तदेतत्परं ब्रह्म क्वचिद्ब्रह्मशिवादिशब्दादवगतम् इति केवलब्रह्मशिवयोर्न परत्वप्रसङ्गः । अस्मिन्ननन्यपरे ऽनुवाके तयोरिन्द्रादितुल्यतया तद्विभूतित्वप्रतिपादनात् । क्वचिदाकाशप्राणादिशब्देन परं ब्रह्माभिहितम् इति भूताकाशप्राणादेर्यथा न परत्वम् । यत्पुनरिदम् आशङ्कितम् अथ यदिदम् अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्नन्तराकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वा व विजिज्ञासितव्यम् इत्यत्राकाशशब्देन जगदुपादानकारणं प्रतिपाद्य तदन्तर्वर्तिनः कस्यचित्तत्त्वविशेषस्यान्वेष्टव्यता प्रतिपाद्यते । अस्याकाशस्य नामरूपयोर्निवोढृत्वश्रवणात्पुरुषसूक्ते पुरुषस्य नामरूपयोः कर्तृत्वदर्शनाच्चाकाशपर्यायभूतात्पुरुषादन्यस्यान्वेष्टव्यतया+उपास्यत्वं प्रतीयत इत्यनधीतवेदानाम् अदृष्टशास्त्राणाम् इदं चोद्यं ।

(१०५) यतस्तत्र श्रुतिरेवास्य परिहारं आह । वाक्यकारश्च दहरो ऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वा व विजिज्ञासितव्यम् इति चोदिते यावान् वा अयम् आकाशस्तावान् एषो ऽन्तर्हृदय आकाश इत्यादिना+अस्याकाशशब्दवाच्यस्य परमपुरुषस्यानवधिकमहत्त्वं सकलजगदाधारत्वं च प्रतिपाद्य तस्मिन् कामाः समाहिता इति कामशब्देनापहतपाप्मत्वादिसत्यसंकल्पपर्यन्तगुणाष्टकं निहितम् इति परमपुरुषवत्परमपुरुषगुणाष्टकस्यापि पृथिविजिज्ञासितव्यताप्रतिपादयिषया तस्मिन् यदन्तस्तदन्वेष्टव्यम् इत्युक्तम् इति श्रुत्या+एव सर्वं परिहृतम् ।

(१०६) एतदुक्तं भवति किं तदत्र विद्यते यदनेष्टव्यम् इत्यस्य चोद्यस्य तस्मिन् सर्वस्य जगतः स्रष्टृत्वम् आधारत्वं नियन्तृत्वं शेषित्वम् अपहतपाप्मत्वादयो गुणाश्च विद्यन्त इति परिहार इति । तथा च वाक्यकारवचनं तस्मिन् यदन्तरिति कामव्यपदेश इति । काम्यन्त इति कामाः । अपहतपाप्मत्वादयो गुणा इत्यर्थः । एतदुक्तं भवति यदेतद्दहराकाशशब्दाभिधेयं निखिलजगदुदयवैभवलयलीलं परं ब्रह्म तस्मिन् यदन्तर्निहितम् अनवधिकातिशयम् अपहतपाप्मत्वादिगुणाष्टकं तदुभयम् अप्यन्वेष्टव्यं विजिज्ञासितव्यम् इति । यथा+आह अथ य इहात्मानम् अनुविद्य व्रजन्त्येतांश्च सत्यान् कामांस्तेषां सर्वेषु लोकेषु कामचारो भवन्ति+इति ।

(१०७) यः पुनः कारणस्यैव ध्येयताप्रतिपादनपरे वाक्ये विष्णोरनन्यपरवाक्यप्रतिपादितपरतत्त्वभूतस्य कार्यमध्ये निवेशः स स्वकार्यभूततत्त्वसंख्यापूरणं कुर्वतः स्वलीलया जगदुपकाराय स्व+इच्छावतार इत्यवगन्तव्यः । यथा लीलया देवसंख्यापूर्णं कुर्वत उपेन्द्रत्वं परस्यैव, यथा च सूर्यवंशोद्भवराजसंख्यापूर्णं कुर्वतः परस्यैव ब्रह्मणो दाशरथिरूपेण स्वेच्छावतारः, यथा च सोमवंशसंख्यापूरणं कुर्वतो भगवतो भूभारावतारणाय स्वेच्छया वसुदेवगृहे ऽवतारः ।

(१०८) सृष्टिप्रलयप्रकरणेषु नारायण एव परमकारणतया प्रतिपाद्यत इति पूर्वमेव+उक्तम् । यत्पुनरथर्वशिरसि रुद्रेण स्वसर्वैश्वर्यं प्रपञ्चितं तत्सो ऽन्तरादन्तरं प्राविशदिति परमात्मप्रवेशादुक्तम् इति श्रुत्या+एव व्यक्तम् । शास्त्रदृष्ट्या तु+उपदेशो वामदेववदिति सूत्रकारेणैवंवादिनाम् अर्थः प्रतिपादितः । यथा+उक्तं प्रह्लादेनापि

सर्वगत्वादनन्तरस्य स एवाहम् अवस्थितः । मत्तः सर्वं अहं सर्वं मयि सर्वं सनातने ॥

इत्यादि । अत्र सर्वगत्वादनन्तस्य+इति हेतुरुक्तः । स्वशरीरभूतस्य सर्वस्य चिदचिद्वस्तुन आत्मत्वेन सर्वगः परमात्मेति सर्वे शब्दाः सर्वशरीरं परमात्मानमेवाभिदधति+इत्युक्तम् । अतो ऽहम् इति शब्दः स्वात्मप्रकारप्रकारिणं परमात्मानमेवाचष्टे । अत इदम् उच्यते । आत्मेत्येव तु गृह्णीयात्सर्वस्य तन्निष्पत्तेरित्यादिना+अहंग्रहणोपासनं वाक्यकारेण कार्यावस्थः कारणावस्थश्च स्थूलसूक्ष्मचिदचिद्वस्तुशरीरः परमात्मा+एव+इति सर्वस्य तन्निष्पत्तेरित्युक्तम् । आत्मेति तु+उपगच्छन्ति ग्राहयन्ति च+इति सूत्रकारेण च । महाभारते च ब्रह्मरुद्रसंवादे ब्रह्मा रुद्रं प्रयाह

तवान्तरात्मा मम च ये चान्ये देहिसंज्ञिताः ।

इति । रुद्रस्य ब्रह्मणश्चान्येषां च देहिनां परमेश्वरो नारायणो ऽन्तरात्मतया+अवस्थित इति । तथा तत्रैव

विष्णुरात्मा भगवतो भवस्यामिततेजसः । तस्माद्धनुर्ज्यासंस्पर्शं स विषेहे महेश्वरः ॥

इति । तत्रैव

एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ । तदादर्शितपन्थानौ सृष्टिसंहारकारकौ ॥

इति । अन्तरात्मतया+अवस्थितनारायणदर्शितपथौ ब्रह्मरुद्रौ सृष्टिसंहारकार्यकरावित्यर्थः ।

(१०९) निमित्तोपादानयोस्तु भेदं वदन्तो वेदबाह्या एव स्युः । जन्माद्यस्य यतः प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादित्यादि वेदवित्प्रणीतसूत्रविरोधात् । सदेव सोम्य+इदम् अग्र आसीदेकमेवाद्वितीयं तदैक्षत बहु स्यां प्रजायेय+इति ब्रह्मवनं ब्रह्म स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुः ब्रह्माध्यतिष्ठद्भुवनानि धारयन् सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि न तस्य+ईशे कश्चन तस्य नाम महद्यशः न+इह नाना+अस्ति किंचन सर्वस्य वशी सर्वस्य+ईशानः पुरुष एव+इदं सर्वं यद्भूतं यच्च भव्यम् उतामृतत्त्वस्य+ईशानः नान्यः पन्था अयनाय विद्यत इत्यादिसर्वश्रुतिविरोधाच्च ।

(११०) इतिहासपुराणेषु च सृष्टिस्थितिप्रलयप्रकरणयोरिदमेव परतत्त्वम् इत्यवगम्यते । यथा महाभारते

कुतः सृष्टम् इदं सर्वं जगत्स्थावरजङ्गमम् । प्रलये च कम् अभ्येति तन् तो ब्रूहि पितामह ॥

इति पृष्टो

नारायणो जगन्मूर्तिरनन्तात्मा सनातन ।

इत्यादि च वदति

ऋषयः पितरो देवा महाभूतानि धातवः । जङ्गमाजङ्गमं च+इदं जगन्नारायणोद्भवम् ॥

इति च । प्राच्योदीच्यदाक्षिणात्यपाश्चात्यसर्वशिष्टैः सर्वधर्मसर्वतत्त्वव्यवस्थायाम् इदमेव पर्याप्तम् इत्यविगानपरिगृहीतं वैष्णवं च पुराणं जन्माद्यस्य यत इति जगज्जन्मादिकारणं ब्रह्म+इत्यवगम्यते । तज्जन्मादिकारणं किम् इति प्रश्नपूर्वकं विष्णोः सकाशाद्भूतम् इत्यादिना ब्रह्मस्वरूपविशेषप्रतिपादनैकपरतया प्रवृत्तम् इति सर्वसंमतम् । तथा तत्रैव

प्रकृतिर्या ख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्च+प्युभावेतौ लीयेते परमात्मनि ॥ परमात्मा च सर्वेषाम् आधारः परमेश्वरः । विष्णुनामा स वेदेषु वेदान्तेषु च गीयते ॥

इति । सर्ववेदवेदान्तेषु सर्वैः शब्दैः परमकारणतया+अयमेव गीयत इत्यर्थः । यथा सर्वासु ष्रुतिषु केवलपरब्रह्मस्वरूपविशेषप्रतिपादनायैव प्रवृत्तो नारायणानुवाकस्तथेदं वैष्णवं च पुराणम्

सो ऽहम् इच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत् । बभूव भूयश्च यथा महाभाग भविष्यति ॥ यन्मयं च जगद्ब्रह्मन्यतश्चैतच्चराचरम् । लीनम् आसीद्यथा यत्र लयमेष्यति यत्र च ॥

इति परं ब्रह्म किम् इति प्रक्रम्य

विष्णोः सकाशादुद्भूतं जगत्तत्रैव च स्थितम् । स्थितिसंयमकर्ता+असौ जगतो ऽस्य जगच्च सः ॥ परः पराणां परमः परमात्मात्मसंस्थितः । रूपवर्णादिनिर्देशविशेषणविवर्जितः ॥ अपक्षयविनाशाभ्यां परिणामर्द्धिजन्मभिः । वर्जितः शक्यते वक्तुं यः सदस्ति+इति केवलम् ॥ सर्वत्रासौ समस्तं च वसत्यत्र+इति वै यतः । ततः स वासुदेव+इति विद्वद्भिः परिपठ्यते ॥ तद्ब्रह्म परं नित्यम् अजम् अक्षयम् अव्ययम् । एकस्वरूपं च सदा हेयाभावाच्च निर्मलम् ॥ तदेव सर्वमेवैतद्व्यक्ताव्यक्तस्वरूपवत् । तथा पुरुषरूपेण कालरूपेण च स्थितम् ॥ स सर्वभूतप्रकृतिं विकारान् गुणादिदोषांश्च मुने व्यतीतः । अतीतसर्वावरणो ऽखिलात्मा तेनास्तृतं यद्भुवनान्तराले ॥ समस्तकल्याणगुणात्मको ऽसौ स्वशक्तिलेशोद्धृतभूतवर्गः । इच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्धितो ऽसौ ॥ तेजोबलैश्वर्यमहावबोधसुवीर्यशक्त्यादिगुणैकराशिः । परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे ॥ स ईश्वरो व्यष्टिसमष्टिरूपो ऽव्यक्तस्वरूपः प्रकटस्वरूपः । सर्वेश्वरः सर्वदृक्सर्ववेत्ता समस्तशक्तिः परमेश्वराख्यः ॥ संज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम् । संदृश्यते वा+अप्यधिगम्यते वा तज्ज्ञानम् अज्ञानम् अतो ऽन्यदुक्तम् ॥

इति परब्रह्मस्वरूपविशेषनिर्णयायैव प्रवृत्तम् ।

(१११) अन्यानि सर्वाणि पुराणान्येतदविरोधेन नेयानि । अन्यपरत्वं च तत्तदारम्भप्रकारैरवगम्यते । सर्वात्मना विरुद्धांशस्तामसत्वादनादरणीयः ।

(११२) नन्वस्मिन्नपि

सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्नुशिवात्मिकां । स संज्ञा याति भगवान् एक जनार्दनः ॥

इति त्रिमूर्तोसाम्यं प्रतीयते । नैतदेवम् । एक एव जनार्दन इति जन अर्दनस्यैव ब्रह्मशिवादिकृत्स्नप्रपञ्चतादात्म्यं विधीयते । जगच्च स इति पूर्वोक्तमेव विवृणोति स्रष्टा सृजति चात्मानं विष्णुः पाल्यं च पाति च ।

उपसंह्रियते चान्ते संहर्ता च स्वत्यंप्रभुः ॥

इति च स्रष्टृत्वेनावस्थितं ब्रह्मणं सृज्यं च संहर्तारं संहार्यं च युगपन्निर्दिश्य सर्वस्य विष्णुतादात्म्योपदेशात्सृज्यसंहार्यभूताद्वस्तुनः स्रष्टृसंहर्त्रोर्जनार्दनविभूतित्वेन विशेषो दृश्यते । जनार्दनविष्णुशब्दयोः पर्यायत्वेन ब्रह्मविष्णुशिवात्मिकाम् इति विभूतिम् । अत एव स्वेच्छया लीलार्थं विभूत्यन्तर्भाव उच्यते । यथेदम् अनन्तरमेव+उच्यते

पृथिव्यापस्तथा तेजो वायुराकाश एव च । सर्वेन्द्रियान्तःकरणं पुरुषाख्यं हि यज् जगत् ॥ स एव सर्वभूतात्मा विश्वरूपो यतो ऽव्ययः । सर्गादिकं ततो ऽस्यैव भूतस्थम् उपकारकम् ॥ स एव सृज्यः स च सर्वकर्ता स एव पात्यत्ति च पाल्यते च । ब्रह्माद्यवस्थाभिरशेषमूर्तिर्विष्णुर्वरिष्ठो वरदो वरेण्यः ॥ इति ।

(११३) अत्र सामानाधिकरण्यनिर्दिष्टं हेयमिश्रप्रपञ्चतादात्म्यं निरवद्यस्य निर्विकारस्य समस्तकल्याणगुणात्मकस्य ब्रह्मणः कथम् उपपद्यत इत्याशङ्ख्य स एव सर्वभूतात्मा विश्वरूपो यतो ऽव्यय इति स्वयमेव+उपपादयति । स एव सर्वेश्वरः परब्रह्मभूतो विष्णुरेव सर्वं जगदिति प्रतिज्ञाय सर्वभूतात्मा विश्वरूपो यतो ऽव्यय इति हेतुरुक्तः । सर्वभूतानाम् अयम् आत्मा विश्वशरीरो यतो ऽव्यय इत्यर्थः । वक्ष्यति च सत्सर्वं वै हरेस्तनुरिति ।

एतदुक्तं भवति । अस्याव्ययस्यापि परस्य ब्रह्मणो विष्णोर्विश्वशरीरतया तादात्म्यविरुद्धम् इत्यात्मशरीरयोश्च स्वभावा व्यवस्थिता एव । एवंभूतस्य सर्वेश्वरस्य विष्णोः प्रपञ्चान्तर्भूतनियाम्यकोटिनिविष्टब्रह्मादिदेवतिर्यङ्मनुष्येषु तत्तत्समाश्रयणीयत्वाय स्वेच्छावतारः पूर्वोक्तः । तदेतद्ब्रह्मादीनां भावनात्रयान्वयेन कर्मवश्यत्वं भगवतः परब्रह्मभूतस्य वासुदेवस्य निखिलजगदुपकाराय स्वेच्छया स्वेनैव रूपेण देवादिष्ववतार इति च षष्टे $ंशे शुभाश्रयप्रकरणे सुव्यक्तम् उक्तम् । अस्य देवादिरूपेणावतारेष्वपि न प्राकृतो देह इति महाभारते न भूतसंघसंस्थानो देहो ऽस्य परमात्मनः । इति प्रतिपादितः । श्रुतिभिश्च अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् इति । कर्मवश्यानां ब्रह्मादीनाम् अनिच्छताम् अपि तत्तत्कर्मानुगुणप्रकृतिपरिणामरूपभूतसंघसंस्थानविशेषदेवादिशरीरप्रवेशरूपं जन्मावर्जनीयम् । अयं तु सर्वेश्वरः सत्यसंकल्पो भगवान् एवंभूतशुभेतरजन्माकुर्वन्नपि स्वेच्छया स्वेनैव निरतिशयकल्याणरूपेण देवादिषु जगदुपकाराय बहुधा जायते, तस्यैतस्य शुभेतरजन्माकुर्वतो ऽपि स्वकल्याणगुणानन्त्येन बहुधा योनिं बहुविधजन्म धीराधीरमताम् अग्रेसरा जानन्ति+इत्यर्थः ।

(११४) तदेतन्निखिलजगन्निमित्तोपादानभूताज् जन्माद्यस्य यतः प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादित्यादिसूत्रैः प्रतिपादितात्परस्माद्ब्रह्मणः परमपुरुषादन्यस्य कस्यचित्परतरत्वं परमतः सेतून् मानसंबन्धभेदव्यपदेशेभ्य इत्याशङ्क्य सामान्यात्तु बुद्ध्यर्थः पादवत् स्थानविशेषात्प्रकाशादिवत् उपपत्तेश्च तथा+अन्यप्रतिषेधात् अनेन सर्वगतत्वमायाम् आदिशब्दादिभ्य इति सूत्रकारः स्वयमेव निराकरोति ।

(११५) मानवे च शास्त्रे

प्रादुरासीत्तमोनुदः सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यम् अपासृजत् ॥ तस्मिञ् जज्ञे स्वयं ब्रह्म

इति ब्रह्मणो जन्मश्रवणात्क्षेत्रज्ञत्वमेवावगम्यते । तथा च स्रष्टुः परमपुरुषस्य तद्विसृष्टस्य च ब्रह्मणः

अयं तस्य ताः पूर्वं तेन नारायणः स्मृतः । तद्विसृष्टः स पुरुषो लोके ब्रह्म+इति कीर्त्यते ॥

इति नामनिर्देशाच्च । तथा च वैष्णवे पुराणे हिरण्यगर्भादीनां भावनात्रयान्वयादशुद्धत्वेन शुभाश्रयत्वानर्हतोपपादनात्क्षेत्रज्ञत्वं निश्चीयते ।

(११६) यदपि कैश्चिदुक्तं सर्वस्य शब्दजातस्य विध्यर्थवादमन्त्ररूपस्य कार्याभिधायित्वेनैव प्रामाण्यं वर्णनीयम् । व्यवहारादन्यत्र शब्दस्य बोधकत्वशक्त्यवधारणासंभवाद्व्यवहारस्य च कार्यबुद्धिमूलत्वात्कार्यरूप एव शब्दार्थः । न परिनिष्पन्ने वस्तुनि शब्दः प्रमाणम् इति । अत्र+उच्यते । प्रवर्तकवाक्यव्यवहार एव शब्दानाम् अर्थबोधकत्वशक्त्यवधारणं कर्तव्यम् इति किम् इयं राजाज्ञा । सिद्धवस्तुषु शब्दस्य बोधकत्वशक्तिग्रहणम् अत्यन्तसुकरम् । तथा हि केनचिद्धस्तचेष्टादिना+अपवरके दण्डः स्थित इति देवदत्ताय ज्ञापय+इति प्रेषितः कश्चित्तज्ज्ञापने प्रवृत्तो ऽपवरके दण्डः स्थित इति शब्दं प्रयुङ्क्ते । मूकवद्धस्तचेष्टाम् इमां जानन् पार्श्वस्थो ऽन्यः प्राग्व्युत्पन्नो ऽपि तस्यार्थस्य बोधनायापवरके दण्डः स्थित इत्यस्य शब्दस्य प्रयोगदर्शनादस्यार्थस्यायं शब्दो बोधक इति जानाति+इति किम् अत्र दुष्करम् । तथा बालस्तातो ऽयम् इयं माता+अयं मातुलो ऽयं मनुष्यो ऽयं मृगश्चन्द्रो ऽयम् अयं च सर्प इति मातापितृप्रभृतिभिः शब्दैः शनैः शनैरङ्गुल्या निर्देशने तत्र तत्र बहुशः शिक्षितस्तैरेव शब्दैस्तेष्वर्थेषु स्वात्मनश्च बुद्ध्युत्पत्तिं दृष्ट्वा तेष्वर्थेषु तेषां शब्दानाम् अङ्गुल्या निर्देशपूर्वकः प्रयोगः सम्बन्धान्तराभावात्संकेतयितृपुरुषाज्ञानाच्च बोधकत्वनिबन्धन इति क्रमेण निश्चित्य पुनरप्यस्य शब्दस्यायम् अर्थ इति पूर्ववृद्धैः शिक्षितः सर्वशब्दानाम् अर्थम् अवगम्य स्वयम् अपि सर्वं वाक्यजातं प्रयुङ्क्ते । एवमेव सर्वपदानां स्वार्थाभिधायित्वं संघातविशेषणां च यथावस्थितसंसर्गविशेषवाचित्वं च जानाति+इति कार्यार्थैव व्युत्तिपत्तिरित्यादिनिर्बन्धो निर्बन्धनः । अतः परिष्पन्नः वस्तुनि शब्दस्यबोधकत्वशक्त्यवधारणात्सर्वाणि वेदान्तवाक्यानि सकलजगत्कारणं सर्वकल्याणगुणाकरमुक्तलक्षणं ब्रह्म बोधयन्त्येव ।

(११७) अपि च कार्यार्थ एव व्युत्पत्तिरस्तु । वेदान्दवाक्यान्यप्युपासनविषयकार्याधिकृतविशेषणभूतफलत्वेन दुःखासंभिन्नदेशविशेषरूपस्वर्गादिवद्रात्रिसत्रप्रतिष्ठानादिवदपगोरणशतयातनासाध्यसाधनभाववच्च कर्योपयोगितया+एव सर्वं बोधयन्ति । तथा+हि ब्रह्मविदाप्नोति परम् इत्यत्र ब्रह्मोपासनविषयकार्याधिकृतविशेषणभूतफलत्वेन ब्रह्मप्राप्तिः श्रूयते परप्राप्तिकामो ब्रह्म विद्यादित्यत्र प्राप्यतया प्रतीयमानं ब्रह्मस्वरूपं तद्विशेषणं च सर्वं कार्योपयोगितया+एव सिद्धं भवति । तदन्तर्गतमेव जगत्स्रष्टृत्वं संहर्तृत्वम् आधारत्वम् अन्तरात्मत्वम् इत्याद्युक्तम् अनुक्तं च सर्वम् इति न किंचिदनुपपन्नम् ।

(११८) एवं च सति मन्त्रार्थवादगता ह्यविरुद्धा अपूर्वाश्चार्थाः सर्वे विधिशेषतया+एव सिद्धा भवन्ति । यथा+उक्तं द्रमिडभाष्ये ऋणं हि वै जायत इति श्रुतेरित्युपक्रम्य यद्यप्यवदानस्तुतिपरं वाक्यं तथा+अपि नासता स्तुतिरुपपद्यत इति । एतदुक्तं भवति सर्वो ह्यर्थवादभागो देवताराधनभूतयागादेः साङ्गस्याराध्यदेवतायाश्चादृष्टरूपान् गुणान् सहस्रशो वदन् सहस्रशः कर्मणि प्राशस्त्यबुद्धिम् उत्पादयति । तेषाम् असद्भावे प्राशस्त्यबुद्धिरेव न स्यादिति कर्मणि प्राशस्त्यबुद्ध्यर्थं गुणसद्भावमेव बोधयति+इति । अनया+एव दिशा सर्वे मन्त्रार्थवादावगता अर्थाः सिद्धाः ।

(११९) अपि च कार्यवाक्यार्थवादिभिः किम् इदं कार्यत्वं नाम+इति वक्तव्यम् । कृतिभावभाविता कृत्युद्देश्यता च+इति चेत् । किम् इदं कृत्युद्देश्यत्वम् । यदधिकृत्य कृतिर्वर्तते तत्कृत्युद्देश्यत्वम् इति चेत् । पुरुषव्यापाररूपायाः कृतेः को ऽयम् अधिकारो नाम । यत्प्राप्तिइच्छया कृतिम् उत्पादयति पुरुषः तत्कृत्युद्देश्यत्वम् इति चेथन्त तर्हि+इष्टत्वमेव कृत्युद्देश्यत्वम् । अथैवं मनुषे इष्टस्यैव रूपद्वयम् अस्ति । इच्छाविषयतया स्थितिः पुरुषप्रेरकत्वं च । तत्र प्रेरकत्वाकारः कृत्युद्देश्यत्वम् इति सो ऽयं स्वपक्षाभिनिवेशकारितो वृथाश्रमः । तथा हि+इच्छाविषयतया प्रतीतस्य स्वप्रयत्नोत्पत्तिम् अन्तरेणासिद्धिरेव प्रेरकत्वम् । तत एव प्रवृत्तेः । इच्छायां जातायाम् इष्टस्य स्वप्रयत्नोत्पत्तिम् अन्तरेणासिद्धिः प्रतीयते चेत्ततश्चिकीर्षा जायते ततः प्रवर्तते पुरुष इति तत्त्वविदां प्रक्रिया । तस्मादिष्टस्य कृत्यधीनात्मलाभत्वातिरेकि कृत्युद्देश्यत्वं नाम किं पि न दृष्यते । अथ+उच्यते इष्टताहेतुश्च पुरुषानुकूलता । तत्पुरुषानुकूलत्वं कृत्युद्देश्यत्वम् इति चेत् । नैवम् । पुरुषानुकूलं सुखम् इत्यनर्थान्तरम् । तथा पुरुषानुकूलं दुःखपर्यायम् । अतः सुखव्यतिरिक्तस्य कस्यापि पुरुषानुकूलत्वं न संभवति ।

ननु च दुःखनिवृत्तेरपि सुखव्यतिरिक्तायाः पुरुषानुकूलता दृष्टा । नैतत् । आत्मानुकूलं सुखम् आत्मप्रतिकूलं दुःखम् इति हि सुखदुःखयोर्विवेकः । तत्रात्मानुकूलं सुखम् इष्टं भवति । तत्प्रतिकूलं दुःखं चानिष्टम् । अतो दुःखसंयोगस्यासह्यतया तन्निवृत्तिरपि+इष्टा भवति । तत एव+इष्टतासाम्यादनुकूलताभ्रमः । तथा हि प्रकृतिसंसृष्टस्य संसारिणः पुरुषस्यानुकूलसंयोगः प्रतिकूलसंयोगः स्वरूपेणावस्थितिरिति च तिस्रो ऽवस्थाः । तत्र प्रतिकूलसंबन्धनिवृत्तिश्चानुकूलसंबन्धनिवृत्तिश्च स्वरूपेणावस्थितिरेव । तस्मात्प्रतिकूलसंयोगे वर्तमाने तन्निवृत्तिरूपा स्वरूपेणावस्थितिरपि+इष्टा भवति । तत्र+इष्टतासाम्यादनुकूलताभ्रमः ।

(१२०) अतः सुखरूपत्वादनुकूलतायाः नियोगस्यानुकूलतां वदन्तं प्रामाणिकाः परिहसन्ति । इष्टस्यार्थविशेषस्य निवर्तकतया+एव हि नियोगस्य नियोगत्वं स्थिरत्वम् अपूर्वत्वं च प्रतीयते । स्वर्गकामो यजेत+इत्यत्र कार्यस्य क्रियातिरिक्ता स्वर्गकामपदसमभिव्याहारेण स्वर्गसाधनत्वनिश्चयादेव भवन्ति । न च वाच्यं यजेत+इत्यत्र प्रथमं नियोगः स्वप्रधानतया+एव प्रतीयते स्वर्गकामपदसमभिव्याहारात्स्वसिद्धये स्वर्गसिद्ध्यनुकूलता च नियोगस्य+इति । यजेत+इति हि धात्वर्थस्य पुरुषप्रयत्नसाध्यता प्रतीयते । स्वर्गकामपदसमभिव्याहारादेव धात्वर्थातिरेकिणो नियोगत्वं स्थिरत्वम् अपूर्वत्वं च+इत्यादि । तच्च स्वर्गसाधनत्वप्रतीतिनिबन्धनम् । समभिव्याहृतस्वर्गकामपदार्थान्वययोग्यं स्वर्गसाधनमेव कार्यं लिङादयो ऽभिदधति+इति लोकव्युत्पत्तिरपि तिरस्कृता । एतदुक्तं भवति समभिव्यहृतपदान्तरवाच्यार्थान्वययोग्यमेव+इतरपदप्रतिपाद्यम् इत्यन्विताभिधायिपदसंघातरूपवाक्यश्रवणसमन् अन्तरमेव प्रतीयते । तच्च स्वर्गसाधनरूपम् । अतः क्रियावदनन्यार्थता+अपि विरोधादेव परित्यक्तेति । अत एव गङ्गायां घोष इत्यादौ घोषप्रतिवासयोग्यार्थोपस्थापनपरत्वं गङ्गापदस्याश्रीयते । प्रथमं गङ्गापदेन गङ्गार्थः स्मृत इति गङ्गापदार्थस्य पेयत्वं न वाक्यार्थान्वयीभवति । एवम् अत्र अपि यजेत+इत्येतावन्मात्रश्रवणे कार्यम् अनन्यार्थं स्मृतम् इति वाक्यार्थान्वयसमये कार्यस्यानन्यार्थता नावतिष्ठते । कार्याभिधायिपदश्रवणवेलायां प्रथमं कार्यम् अनन्यार्थं प्रतीतम् इत्येतदपि न संगच्छते । व्युत्पत्तिकाले गवानयनादिक्रियाया दुःखरूपाया इष्टविशेषसाधनतया+एव कार्यताप्रतीतेः । अतो नियोगस्य पुरुषानुकूलत्वं सर्वलोकविरुद्धं नियोगस्य सुखरूपपुरुषानुकूलतां वदतः स्वानुभवविरोधश्च । करीर्या वृष्टिकामो यजेय्त+इत्यादिषु सिद्धे ऽपि नियोगे वृष्ट्यादिसिद्धिनिमित्तस्य वृष्टिव्यतिरेकेण नियोगस्यानुकूलता नानुभूयते । यद्यप्यस्मिञ् जन्मनि वृष्ट्यादिसिद्धेरनियमस्तथा+अप्यनियमादेव नियोगसिद्धिरवश्याश्रयणीया । तस्मिन्ननुकूलतापर्यायसुखानुभूतिर्न दृश्यते । एवम् उक्तरीत्या कृतिसाध्येष्टत्वातिरेकि कृत्युद्देश्यत्वं न दृश्यते ।

Tags: 1100CE Vedanta

Post navigation

Previous: Assize of Clarendon – Henry II – 1166
Next: Ramanuja Commentary (Gita Bhashya) on Bhagavad Gita
Pages: 1 2 3 4 5 6

Related Stories

Mahabhasya of Patanjali: Bengali Commentary By Tanmoy Bhattacharyya
  • Sanskrit Documents

 Pūrvatra asiddham (Patanjali Mahābhāṣya) Aṣṭādhyāyī-8.2.1

advtanmoy 10/03/2026
Mahabhasya of Patanjali: Bengali Commentary By Tanmoy Bhattacharyya
  • Sanskrit Documents

Vṛddhir Ādaich (Patanjali Mahābhāṣya) Aṣṭādhyāyī-1.1.1

advtanmoy 08/03/2026
Mahabhasya of Patanjali: Bengali Commentary By Tanmoy Bhattacharyya
  • Books

Patanjali Mahabhasya: Bengali Commentary by Tanmoy Bhattacharyya

advtanmoy 08/03/2026
Encyclopedia of Rashtriya Swayamsevak Sangh

Encyclopedia of Rashtriya Swayamsevak Sangh (13-Volume): History, Ideology and Organisation

The Encyclopedia of Chaitanya Mahaprabhu

Encyclopedia of Sree Krishna Chaitanya Bharati (12-Volume): The Golden Gouranga of Bengal

Encyclopedia of Macroscopic Human Social System Analysis

Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System

Encyclopedia of European Invasions in India

Encyclopedia of European Invasions in India (11-Volume): Colonialism, Resistance, and Restoration

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Deep Grammar of Civilization (13-Volume): What Are the Irreducible Components of Civilization?

Encyclopedia of Begging

Encyclopedia of Begging (6-Volume): A Global History of Asking, Giving, and Resource Acquisition

Encyclopedia of the Communist Party of China

Encyclopedia of the Communist Party of China (31-Volume): Making of Modern Chinese Civilization

Indo-Pakistan war 1971

Encyclopedia of the Indo–Pakistan War of 1971 (5-Volume): The Creation of Bangladesh

Sarvarthapedia

Encyclopedia of India’s Internal and External Intelligence System: Special Emphasis on the (R&AW)

The Encyclopedia of Political History of Bangladesh

Encyclopedia of Political History of Bangladesh (18-Volume): Identity, Liberation, And Democracy

Encyclopedia of Ecumenical Movements

Encyclopedia of Ecumenical Movements (21-Volume): History, Theology, Institutions and Dialogues

Encyclopedia of Dalit Christians and Their Theology

Encyclopedia of Dalit Christians and Their Theology (5-Volume): Crisis of Caste Culture within Christians in India

Encyclopedia of Indian Military Civilization

Encyclopedia of Indian Military Civilization (55-Volume): War Strategy and Armed Institutions From Antiquity to 2026

Sarvarthapedia

Ontology (25-Volume): Encyclopedia of All Known Conceptions of Reality and Existence

Synthesis-of-Greco-Roman-Ideologies-Shaping-Christianity and Historical Critiques of Christianity and Christian Theology

Encyclopedia of Historical Critiques of Christianity and Christian Theology: A (50-Volume) Research and Documentation

Sarvarthapedia Astronautical Engineering Knowledge Universe (SAEKU): A 250-Volume Master Reference for Space Science and Engineering

Astronautical Engineering Knowledge Universe: A 250-Volume Reference for Space Science and Engineering

Encyclopedia of Indian Economy

Encyclopedia of Indian Economy (56-Volume): A Civilisational Perspective

Encyclopedia of Constitution and Constitutional Law of the United Kingdom

Encyclopedia of Constitution and Constitutional Law of the United Kingdom (10-Volume): History and Development

Encyclopedia of Astrology

Encyclopedia of Astrology (15-Volume): The Human Quest to Predict the Future

Civilizational Encyclopedia of American Governance

Civilizational Encyclopedia of American Governance (100-Volume): Governing the American Government

Human rights conditions in the United States

Human Rights and United States (15-Volume): Violations, Resistance, and Global Impact

Civilizational History of North America

Civilizational History of North America (315-Volume): The Turtle Island and the American Imperium

Sarvarthapedia

Sarvarthapedia of Human Technological Civilization (12-Volume)

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Ultimate-Order Concepts (17-Volume): Fundamental Reason for Existence of Intelligence System

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Meta-Civilizational Architecture: How Complex Systems Survive

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Global Encyclopedia (180-Volume) of Intelligence, Espionage, and Counterintelligence

British Parliament

Encyclopedia of the British Parliamentary System: A 100-Volume Statement on British Politics

Encyclopedia of Global Capital Markets (100 Volumes): A Comprehensive Reference to Banking, Securities, Finance, and Investment Systems

The Global Capital Markets Encyclopedia (100-Volume): Reference on Finance, Banking, and Investment Systems

The Atlas of Self-Sabotage: A 12-Volume Encyclopedia of How Lives Quietly Go Wrong

The Atlas of Self-Sabotage: A 12-Volume Encyclopedia of How Lives Quietly Go Wrong

Encyclopedia of History of Ancient and Modern India

Encyclopedia of Ancient and Modern India: A 120-Volume Civilizational Knowledge System

Contemporary World History

Encyclopedia of Contemporary World History (2001–Present): A 100-Volume Statement on World System

Non-Proliferation of Nuclear Weapons: 12-Volume Reference and Research Architecture

Non-Proliferation of Nuclear Weapons: 12-Volume Reference and Research Architecture

Encyclopedia of American Law

Encyclopedia of American Law: 180‑Volume Statement on American Law

Roman empire and Law

Roman Empire Political History (15-Volume): Rise and Destruction (300 BCE – 1453 CE)

India

Encyclopedia of Contemporary Indian Politics: 111-Volume Statement on Indian Politics (1857–2026)

Encyclopedia of Psychology

Encyclopedia of Psychology (12-Volume): Of Mind, Behavior, and Society

Encyclopedia History of Pakistan (12-Volume): From Hindustan to an Islamic Republic

Encyclopedia History of Pakistan (12-Volume): From Hindustan to an Islamic Republic

Africa and African Union

Encyclopedia of African Studies (10-Volume): History, Culture, and Development

African Studies

African Studies, Synopsis (10-Volume) and How to Study Africa

Encyclopedia of Disease and Disease Detection

Encyclopedia of Disease and Disease Detection (12-Volume): Foundations, Technologies, and Clinical Applications

Sarvarthapedia

Encyclopedia of Religion, Faith, and Beliefs (12-Volume): History, Theology, Politics, and Conflict with Science 

Cyber Security

Cybersecurity Encyclopedia (Volume-8): From ENIAC to Modern Cyber Warfare and Data Protection Laws

Sanatan Dharma

Sarvarthapedia of Hindu Scriptures and Interpretation (10-Volume): From the Vedic Period up to 2026

Sarvarthapedia

Encyclopedia of Strategic Geography (13-Volume): Spatial Logic of Civilization 

Encyclopedia of Medical Science and Research

Encyclopedia of Medical Science and Research (7-Volume): Early Civilizations to Modern Healthcare Systems

Computer Science

Computer Science Encyclopedia (13-Volume): From Its Theoretical Origins Up To 2026

Sarvarthapedia

Anthropology (12-Volume): The Study of Humankind – From Origins to 2026

Sanatan Dharma

Encyclopedia of Sanatan Dharma: Society, Politics, Militia, Rituals, and Philosophy of Vedic Civilization

Encyclopedia of Panini Ashtadhyayi

Encyclopedia of Panini’s Ashtadhyayi: Reading of Panini Grammar (Sutra Path – सूत्र पाठः)

Encyclopedia of Indian Law

Indian Law Encyclopedia: 101-Volume Statement on Indian Law

  • Anosh Ekka v. CBI (2026 INSC 357): SC Grants Bail to Former Jharkhand Minister in CBI DA Case
  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Ram v. Sukhram: Tribal women’s right in ancestral property [2025] 8 SCR 272
  • Indian Constitution
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders

Genesis-1 (Bereshit-1) — Torah Reading: Bereshit Bara Elohim – The Creation of the World

An Introduction to the Rashtriya Swayamsevak Sangh

Swami Pranabananda and the Making of Shyama Prasad Mukherjee’s Early Political Outlook

18th Lok Sabha Election 2024 in West Bengal: Party Position and Elected Members

Sarvarthapedia: The Knowledge Universe of Civilization

Dakshineswar Bhabatarini Kali: Three Kali Idols, Rani Rashmoni, and Temple History

Sarvarthapedia

  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subjects
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia Meta-Concept
  • Contact Us
  • Privacy Policy
  • FAQs
  • NEET
  • Library Updates
2026 All rights reserved © Advocatetanmoy Law Library by advocatetanmoy.