Skip to content

Advocatetanmoy Law Library

Research & Library Database

Yuddha Gita (1st Vol): The First Question of Human Civilization

Search

  • Genesis-1 (Bereshit-1) — Torah Reading: Bereshit Bara Elohim – The Creation of the World
  • An Introduction to the Rashtriya Swayamsevak Sangh
  • Swami Pranabananda and the Making of Shyama Prasad Mukherjee’s Early Political Outlook
  • 18th Lok Sabha Election 2024 in West Bengal: Party Position and Elected Members
  • Sarvarthapedia: The Knowledge Universe of Civilization
  • Dakshineswar Bhabatarini Kali: Three Kali Idols, Rani Rashmoni, and Temple History
  • Political Evolution of Bengal (1300–2000): A 700-Year History of State, Society and Power
  • Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System
  • West Bengal Govt Budget Statement In Bengali (2026-2027) by Swapan Dasgupta
  • Encyclopedia of Physical Measurement (3-Volume)
Primary Menu
  • News
    • Editorial
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • JudgmentSupreme Court
  • Podcast
  • Legal Brief
    • Legal Eagal
  • HLJLaw Digests
    • Supreme Court Case Notes
    • Daily Digest
  • SarvarthapediaKnowledgebase
    • Sarvarthapedia (Twelve Core Areas): Macro Structure
    • Systemic-and-systematic
    • Volume One
    • Volume Two
    • Volume Three
    • Volume Four
    • Volume Five
    • Volume Six
  • Subjects
    • Knowledge Graph
    • Glossary
  • Indian Law
  • EncyclopediaCollection
Home » Law Library » Books » Vedartha Sangraha – वेदार्थसङ्ग्रहः – Sri Ramanuja » Page 2
  • Books
  • Sanskrit Documents

Vedartha Sangraha – वेदार्थसङ्ग्रहः – Sri Ramanuja

अयम् आत्मा ब्रह्म । य आत्मनि तिष्ठन्नात्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्यमृतः ।
advtanmoy 25/08/2021 1 minute read

© Advocatetanmoy Law Library

  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on Telegram (Opens in new window) Telegram
Ramanuja

(२१) अश्रुतवेदान्ताः पुरुषाः पदार्थाः सर्वे जीवात्मनश्च ब्रह्मात्मका इति न पश्यति सर्वशब्दानां च केवलेषु तत्तत्पदार्थेषु वाच्यैकदेशेषु वाच्यपर्यवसानं मन्यन्ते । इदानीं वेदान्तवाक्यश्रवणेन ब्रह्मकार्यतया तदन्तर्यामितया च सर्वस्य ब्रह्मात्मकत्वं सर्वशब्दानां तत्तत्प्रकारसंस्थितब्रह्मवाचित्वं च जानन्ति । नन्वेवं गवादिशब्दानां तत्तत्पदार्थवाचितया व्युत्पत्तिर्बाधिता स्यात् । नैवं सर्वे शब्दा अचिज्जीवविशिष्टस्य परमात्मनो वाचका इत्युक्तम् । नामरूपे व्याकरवाणि+इत्यत्र । तत्र लौकिकाः पुरुषाः शब्दं व्याहरन्तः शब्दवाच्ये प्रधानांशस्य परमात्मनः प्रत्यक्षाद्यपरिच्छेद्यत्वाद्वाच्यैकदेशभूते वाच्यसमाप्तिं मन्यन्ते । वेदान्तश्रवणेन च व्युत्पत्तिः पूर्यते । एवमेव वैदिकाः सर्वे शब्दाः परमात्मपर्यन्तान् स्वार्थान् बोधयन्ति । वैदिका एव सर्वे शब्दा वेदादवुद्धृत्य+उद्धृत्य परेणैव ब्रह्मणा सर्वपदार्थान् पूर्ववत्सृष्ट्वा तेषु परमात्मपर्यन्तेषु पूर्ववन्नामतया प्रयुक्ताः । तदाह मनुः

सर्वेषां तु नामानि कर्माणि च पृथक् पृथक् । वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ॥

इति । संस्थाः संस्थानानि रूपाणि+इति यावत् । आह च भगवान् पराशरः

नाम रूपं भूतानां कृत्यानां प्रपञ्चनम् । वेदशब्देभ्य एवादौ दैवादीनां चकार सः ॥

इति । श्रुतिश्च सूर्याचन्द्रमसौ धाता यथापूर्वम् अकल्पयदिति । सूर्यादीन् पूर्ववत्परिकल्प्य नामानि च पूर्ववच्चकार इत्यर्थः ।

(२२) एवं जगद्ब्रह्मणोरनन्यत्वं प्रपञ्चितम् । तेनैकेन ज्ञातेन सर्वस्य ज्ञाततो ऽपपादिता भवति । सर्वस्य ब्रह्मकार्यत्वप्रतिपादनेन तदात्मकतया+एव सत्यत्वं नान्यथेति तत्सत्यम् इत्युक्तम् । यथा दृष्टान्ते सर्वस्य मृद्विकारस्य मृदात्मना+एव सत्यत्वम् ।

(२३) शोधकवाक्यान्यपि निरवद्यं सर्वकल्याणगुणाकरं परं ब्रह्म बोधयन्ति । सर्वप्रत्यनीकाकारताबोधने ऽपि तत्तत्प्रत्यनीकाकारतायां भेदस्यावर्जनीयत्वान्न निर्विशेषवस्तुसिद्धिः ।

(२४) ननु च ज्ञानमात्रं ब्रह्म इति प्रतिपादिते निर्विशेषज्ञानमात्रं ब्रह्म+इति निश्चीयते । नैवं । स्वरूपनिरूपणधर्मशब्दा हि धर्ममुखेन स्वरूपम् अपि प्रतिपादयन्ति । गवादिशब्दवत् । तदाह सूत्रकारः तद्गुणसारत्वात्तद्व्यपदेशः प्राज्ञवत् । यावदात्मभावितत्वाच्च न दोष इति । ज्ञानेन धर्मेण स्वरूपम् अपि निरूपितं न ज्ञानमात्रं ब्रह्म+इति । कथम् इदम् अवगम्यत इति चेद्यः सर्वज्ञः सर्वविदित्यादिज्ञातृत्वश्रुतेः परास्य शक्तिर्विविधा+एव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च । विज्ञातारम् अरे केन विजानीयादित्यादिश्रुतिशतसमधिगतम् इदम् । ज्ञानस्य धर्ममात्रत्वाद्धर्ममात्रस्यैकस्य वस्तुत्वप्रतिपादनानुपपत्तेश्च । अतः सत्यज्ञानादिपदानि स्वार्थभूतज्ञानादिविशिष्टमेव ब्रह्म प्रतिपादयन्ति । तत्त्वम् इति द्वयोरपि पदयोः स्वार्थप्रहाणेन निर्विशेषवस्तुस्वरूपोपस्थापनपरत्वे मुख्यार्थपरित्यागश्च ।

(२५) नन्वैक्ये तात्पर्यनिश्चयान्न लक्षणादोषः । सो ऽयं देवदत्त इतिवत् । यथा सो ऽयम् इत्यत्र स इति शब्देन देशान्तरकालान्तरसंबन्धी पुरुषः प्रतीयत अयम् इति च संनिहितदेशवर्तमानकालसंबन्धी, तयोः सामानाधिकरण्येनाइक्यं प्रतीयते । तत्रैकस्य युगपद्विरुद्धदेशकालसंबन्धितया प्रतीतिर्न घटत इति द्वयोर्पदयोः स्वरूपमात्रोपस्थापनपरत्वं स्वरूपस्य चाइक्यं प्रतिपद्यत इति चेन्नैतदेवम् । सो ऽयं देवदत्त इत्यत्रापि लक्षणागन्धो न विद्यते । विरोधाभावात् । एकस्य भूतवर्तमानक्रियाद्वयसंबंधो न विरुद्धः । देशान्तरस्थितिर्भूत्वा संनिहितदेशस्थितिर्वर्तते । अतो भूतवर्तमानक्रियाद्वयसंबन्धितया+ऐक्यप्रतिपादनम् अविरुद्धम् । देशद्वयविरोधश्च कालभेदेन परिहृतः । लक्षणायाम् अपि न द्वयोरपि पदयोर्लक्षणासमाश्रयणम् । एतेनैव लक्षितेन विरोधपरिहारात् । लक्षणाभाव एव+उक्तः । देशान्तरसंबन्धितया भूतस्यैवान्यदेशसंबन्धितया वर्तमानत्वाविरोधात् ।

(२६) एवम् अत्रापि जगत्कारणबूतस्यैव परस्य ब्रह्मणो जीवान्तर्यामितया जीवात्मत्वम् अविरुद्धम् इति प्रतिपादितम् । यथा भूतयोरेव हि द्वयोरैक्यं सामानाधिकरण्येन प्रतीयते । तत्परित्यागेन स्वरूपमात्रैक्यं न सामानाधिकरण्यार्थः भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम् इति हि तद्विदः । तथाभूतयोरैक्यम् उपपादितम् अस्माभिः । उपक्रमविरोध्युपसंहारपदेन वाक्यतात्पर्यनिश्चयश्च न घटते । उपक्रमे हि तदैक्षत बहु स्याम् इत्यादिना सत्यसंकल्पत्वं जगदेककारणत्वम् अप्युक्तम् । तद्विरोधि चाविद्याश्रयत्वादि ब्रह्मणः ।

(२७) अपि चार्थभेदतत्संसर्गविशेषबोधनकृतपदवाक्यस्य स्वरूपतालब्धप्रमाणभावस्य शब्दस्य निर्विशेषवस्तुबोधनासामर्थान्न निर्विशेषवस्तुनि शब्दः प्रमाणम् । निर्विशेष इत्यादिशब्दास्तु केनचिद्विशेषेण विशिष्टतया+अवगतस्य वस्तुनो वस्त्वन्तरगतविशेषनिषेधपरतया बोधकाः । इतरथा तेषम् अप्यनवबोधकत्वमेव । प्रकृतिप्रत्ययरूपेण पदस्यैवानेकविशेषगर्भत्वादनेकपदार्थसंसर्गबोधकत्वाच्च वाक्यस्य ।

(२८) अथ स्यात् नास्माभिर्निर्विशेषे स्वयंप्रकाशे वस्तुनि शब्दः प्रमाणम् इत्युच्यते । स्वतःसिद्धस्य प्रमाणानपेक्षत्वात् । सर्वैः शब्दैस्तदुपरागविशेषा ज्ञातृत्वादयः सर्वे निरस्यन्ते । सर्वेषु विशेषेषु निवृत्तेषु वस्तुमात्रम् अनवच्छिन्नं स्वयंप्रकाशं स्वत एवावतिष्ठत इति । नैतदेवम् । केन शब्देन तद्वस्तु निर्दिश्य तद्गतविशेषा निरस्यन्ते । ज्ञप्तिमात्रशब्देन+इति चेन्न । सो ऽपि सविशेषमेव वस्त्ववलम्बते । प्रकृतिप्रत्ययरूपेण विशेषगर्भत्वात् । ज्ञा अवबोधन इति सकर्मकः सकर्तृकः क्रियाविशेषः क्रियान्तरव्यावर्तकस्वभावविशेषश्च प्रकृत्या+अवगम्यते । प्रत्ययेन च लिङ्गसंख्यादयः । स्वतःसिद्धावप्येतत्स्वभावविशेषविरहे सिद्धिरेव न स्यात् । अन्यसाधनस्वभावतया हि ज्ञप्तेः स्वतःसिद्धिरुच्यते ।

(२९) ब्रह्मस्वरूपं कृत्स्नं सर्वदा स्वयमेव प्रकाशते चेन्न तस्मिन्नन्यधर्माध्यासः संभवति । न हि रज्जुस्वरूपे ऽवभासमाने सर्पत्वादिरध्यस्यते । अत एव हि भवद्भिराच्छादिकाविद्या+अभ्युपगम्यते । ततश्च शास्त्रीयनिवर्तकज्ञानस्य ब्रह्मणि तिरोहितांशो विषयः । अन्यथा तस्य निवर्तकत्वं च न स्यात् । अधिष्ठानातिरेकिरज्जुत्वप्रकाशनेन हि सर्पत्वं बाध्यते । एकश्चेद्विशेषो ज्ञानमात्रे वस्तुनि शब्देनाभिधीयते स च ब्रह्मविशेषणं भवति+इति सर्वश्रुतिप्रतिपादितसर्वविशेषणविशिष्टं ब्रह्म भवति ।

(३०) अतः प्रामाणिकानां न केनापि प्रमाणेन निर्विशेषवस्तुसिद्धिः । निर्विकल्पकप्रत्यक्षे ऽपि सविशेषमेव वस्तु प्रतीयते । अन्यथा सविकल्पके सो ऽयम् इति पूर्वावगतप्रकारविशिष्टप्रत्ययानुपपत्तेः । वस्तुसंस्थानविशेषरूपत्वाद्गोत्वादेर्निर्विकल्पतदशायाम् अपि ससंस्थानमेव वस्त्वित्थम् इति प्रतीयते । द्वितीयादिप्रत्ययेषु तस्य संस्थानविशेषस्यानेकवस्तुनिष्ठतामात्रं प्रतीयते । संस्थानरूपप्रकाराख्यस्य पदार्थस्यानेकवस्तुनिष्ठतया+अनेकवस्तुविशेषणत्वं द्वितीयादिप्रत्ययावगम्यम् इति द्वितीयादिप्रत्ययाः सविकल्पका इत्युच्यन्ते । अत एवैकस्य पदार्थस्य भिन्नाभिन्नत्वरूपेण द्व्यात्मकत्वं विरुद्धं प्रत्युक्तम् । संस्थानस्य संस्थानिनः प्रकारतया पदार्थान्तरत्वम् । प्रकारत्वादेव पृथक्सिद्ध्यनर्हत्वं पृथगनुपलम्भश्च+इति न द्व्यात्मकत्वसिद्धिः ।

(३१) अपि च निर्विशेषवस्त्वादिना स्वयंप्रकाशे वस्तुनि तदुपरागविशेषाः सर्वैः शब्दैर्निरस्यन्त इति वदता के ते शब्दा निषेधका इति वक्तव्यम् । वाचा+आरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् इति विकारनामधेययोर्वाचा+आरम्भणमात्रत्वात् । यत्तत्र कारणतया+उपलक्ष्यते वस्तुमात्रं तदेव सत्यम् अन्यदसत्यम् इति+इयं श्रुतिर्वदति+इति चेन्नैतदुपपद्यते । एकस्मिन् विज्ञाते सर्वं विज्ञातं भवति+इति प्रतिज्ञाते ऽन्यज्ञानेनान्यज्ञानासंभवं मन्वानस्यैकमेव वस्तु विकाराद्यवस्थाविशेषेण पारमार्थिकेनैव नामरूपम् अवस्थितं चेत्तत्रैकस्मिन् विज्ञाते तस्माद्विलक्षणसंस्थानान्तरम् अपि तदेव+इति तत्र दृष्टान्तो ऽयं निदर्शितः । नात्र कस्यचिद्विशेषस्य निषेधकः को ऽपि शब्दो दृश्यते । वाचा+आरम्भणम् इति वाचा व्यवहारेणारभ्यत इत्यारम्भणम् । पिण्डरूपेणावस्थितायाः मृत्तिकाया नाम वा+अन्यद्व्यवहारश्चान्यः । घटशरावादिरूपेणावस्थितायास्तस्या एव मृत्तिकाया अन्यानि नामधेयानि व्यवहाराश्चान्यद्दशाः । तथा+अपि सर्वत्र मृत्तिकाद्रव्यमेकमेव नानासंस्थाननानानामधेयाभ्यां नानाव्यवहारेण चारभ्यत इत्येतदेव सत्यम् इत्यनेनान्यज्ञानेनान्यज्ञानसंभवो निदर्शितः । नात्र किंचिद्वस्तु निषिध्यत इति पूर्वमेवायम् अर्थः प्रपञ्चितः ।

(३२) अपि च येनाश्रुतं श्रुतम् इत्यादिना ब्रह्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्वं प्रतिज्ञातं चेद्यथा सोम्यैकेन मृत्पिण्डेन+इत्यादिदृष्टान्तः साध्यविकलः स्यात् । रज्जुसर्पादिवन् मृत्तिकाविकारस्य घटशरावादेरसत्यत्वं श्वेतकेतोः शुश्रूषोः प्रमाणान्तरेण युक्त्या चासिद्धम् इत्येतदपि सिषाधयिषितम् इति चेत् । यथेति दृष्टान्तया+उपादानं न घटते ।

(३३) सदेव सोम्य+इदम् अग्र आसीदेकमेवाद्वितीयमेवाद्वितीयम् इत्यत्र सदेवैकमेव+इत्यवधारणद्वयेनाद्वितीयम् इत्यनेन च सन्मात्रातिरेकिसजातीयविजातीयाः सर्वे विशेषा निषिद्धा इति प्रतीयत इति चेन्नेतदेवम् । कार्यकारणभावावस्थाद्वयावस्थितस्यैकस्य वस्तुन एकावस्थावस्थितस्य ज्ञानेनावस्थान्तरावस्थितस्यापि वस्त्वैक्येन ज्ञाततां दृष्टान्तेन दर्शयित्वा श्वेतकेतोरप्रज्ञातं सर्वस्य ब्रह्मकारणत्वं च वक्तुं सदेव सोम्य+इदम् इत्यारब्धम् । इदम् अग्रे सदेवासीदिति । अग्र इति कालविशेषः । इदंशब्दवाच्यस्य प्रपञ्चस्य सदापत्तिरूपां क्रियां सद्रव्यतां च वदति । एकमेव+इति चास्य नानानामरूपविकारप्रहाणम् । एतस्मिन् प्रतिपादिते ऽस्य जगतः सदुपादानता प्रतिपादिता भवति । अन्यत्र+उपादानकारणस्य स्वव्यतिरिक्ताधिष्ठात्रपेक्षादर्शने ऽपि सर्वविलक्षणत्वादस्य सर्वज्ञस्य ब्रह्मणः सर्वशक्तियोगो न विरुद्ध इत्यद्वितीयपदम् अधिष्ठात्रन्तरं निवारयति । सर्वशक्तियुक्तत्वादेव ब्रह्मणः । काश्चन श्रुतयः प्रथमम् उपादानकारणत्वं प्रतिपाद्य निमित्तकारणम् अपि तदेव+इति प्रतिपादयन्ति । यथेयं श्रुतिः । अन्याश्च श्रुतयो ब्रह्मणो निमित्तकारणत्वम् अनुज्ञायास्यैव+उपादानतादि कथम् इति परिचोद्य, सर्वशक्तियुक्तत्वादुपादानकारणं तदितराशेषोपकरणं च ब्रह्मैव+इति परिहरन्ति किंस्विद्वनं क उ स वृक्ष आसीद्यतो द्यावापृथिवी निष्टक्षुर्मणीषिणो मनसा पृच्छतेदुत्द्यदध्यतिष्ठद्भुवनानि धारयन् । ब्रह्म वनं ब्रह्म स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुर्मनीषिणो मनसा विब्रवीमि वः ब्रह्माध्यतिष्ठद्भुवनानि । धारयन्निति सामान्यतो दृष्टेन विरोधम् आशङ्क्य ब्रह्मणः सर्वविलक्षणत्वेन परिहार उक्तः । अतः सदेव सोम्य+इदम् अग्र आसीदित्यत्राप्यग्र इत्याद्यनेकविशेषा ब्रह्मणो प्रतिपादिताः । भवदभिमतविशेषनिषेधवाची को ऽपि शब्दो न दृश्यते । प्रत्युत जगद्ब्रह्मणोः कार्यकारणभावज्ञापनायाग्र इति कालविशेषसद्भावः । आसीदिति क्रियाविशेषो, जगदुपादानता जगन्निमित्तता च, निमित्तोपादानयोर्भेदनिरसनेन तस्यैव ब्रह्मणः सर्वशक्तियोगश्च+इत्यप्रज्ञातः सहस्रशो विशेषा एव प्रतिपादिताः ।

(३४) यतो वास्तवकार्यकारणभावादिविज्ञाने प्रवृत्तम् अत एवासदेव+इदम् अग्र आसीदित्यारभ्यासत्कार्यवादनिषेधश्च क्रियते कुतस्तु खलु सोम्यैवं स्यादिति । प्रागसत उत्पत्तिरहेतुकेत्यर्थः । तदेव+उपपादयति कथम् असतः सज् जायेत+इति । असत उत्पन्नम् असदात्मकमेव भवति+इत्यर्थः । यथा मृदुत्पन्नं घटादिकं मृदात्मकम् । सत उत्पत्तिर्नाम व्यवहारविशेषहेतुभूतो ऽवस्थाविशेषयोगः ।

(३५) एतदुक्तं भवति । एकमेव कारणभूतं द्रव्यम् अवस्थान्तरयोगेन कार्यम् इत्युच्यत इत्येकविज्ञानेन सर्वविज्ञानं प्रतिपिपादयिषितम् । तदसत्कार्यवादे न सेत्स्यति । तथा हि निमित्तसमवाय्यसमवायिप्रभृतिः कारणैरवयव्याख्यं कार्यं द्रव्यान्तरमेव+उत्पद्यत इति कारणभूताद्वस्तुनः कार्यस्य वस्त्वन्तरत्वान्न तज्ज्ञानेनास्य ज्ञातता कथम् अपि संभवति+इति । कथम् अवयवि द्रव्यान्तरं निरस्यत इति चेत् । कारणगतावस्थान्तरयोगस्य द्रव्यान्तरोत्पत्तिवादिनः संप्रतिपन्नस्यैवैकत्वनामान्तरादेरुपपादकत्वाद्द्रव्यान्तरादर्शनाच्च+इति कारणमेवावस्थान्तरापन्नं कार्यम् इत्युच्यत इत्युक्तम् ।

(३६) ननु निरधिष्ठानभ्रमासंभवज्ञापनायासत्कार्यवादनिरासः क्रियते । तथा ह्येकं चिद्रूपं सत्यमेवाविद्याच्छादितं जगद्रूपेण विवर्तत इत्यविद्याश्रयत्वाय मूलकारणं सत्यम् इत्यभ्युपगन्तव्यम् इत्यसत्कार्यवादनिरासः । नैतदेवम् । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञादृष्टान्तमुखेन सत्कार्यवादस्यैव प्रसक्तत्वादित्युक्तम् । भवत्पक्षे निरधिष्ठानभ्रमासंभवस्य दुरुपपादत्वाच्च । यस्य हि चेतनगतदोषः पारमार्थिको दोषाश्रयत्वं च पारमार्थिकं तस्य पारमार्थिकदोषेण युक्तस्यापारमार्थिकगन्धर्वनगरादिदर्शनम् उपपन्नं, यस्य तु दोषश्चापारमार्थिको दोषाश्रयत्वं चापारमार्थिकं तस्यापारमार्थिकेनाप्याश्रयेण तदुपपन्नम् इति भवत्पक्षे न निरधिष्ठानभ्रमासंभवः ।

(३७) शोधकेष्वपि सत्यं ज्ञानम् अनन्तं ब्रह्म, आनन्दो ब्रह्म+इत्यादिषु वाक्येषु सामान्याधिकरण्यव्युत्पत्तिसिद्धानेकगुणविशिष्टैकार्थावबोधनम् अविरुद्धम् इति सर्वगुणविशिष्टं ब्रह्माभिधीयत इति पूर्वमेव+उक्तम् ।

(३८) अथात आदेशो न+इति न+इति+इति बहुधा निषेधो दृष्यत इति चेत् । किम् अत्र निषिध्यत इति वक्तव्यम् । द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च+इति मूर्तामूर्तात्मकः प्रपञ्चः सर्वो ऽपि निषिध्यत इति चेन्नैवम् । ब्रह्मणो रूपतया+अप्रज्ञातं सर्वं रूपतया+उपदिश्य पुनर्तदेव निषेद्धुम् अयुक्तम् । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् इति न्यायात् । कस्तर्हि निषेधवाक्यार्थः । सूत्रकारः स्वयमेव वदति प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूय इति । उत्तरत्र अथ नामधेयं सत्यस्य सत्यं प्राणा वै सत्यं तेषामेष सत्यम् इति सत्यादिगुणगणस्य प्रतिपादितत्वात्पूर्वप्रकृतैतावन्मात्रं न भवति ब्रह्म+इति, ब्रह्मण एतावन्मात्रता प्रतिषिध्यत इति सूत्रार्थः ।

(३९) न+इह नाना+अस्ति किंचन+इत्यादिना नानात्वप्रतिषेध एव दृष्यत इति चेत् । अत्राप्युत्तरत्र सर्वस्य वशी सर्वस्य+ईशन इति सत्यसङ्कल्पत्वसर्वेश्वरत्वप्रतिपादनाच्चेतनवस्तुशरीर ईश्वर इति सर्वप्रकारसंस्थितः स एक एव+इति तत्प्रत्यनीकाब्रह्मात्मकनानात्वं प्रतिषिद्धं न भवदभिमतम् । सर्वास्वेवंप्रकारासु श्रुतिष्वियमेव स्थितिरिति न क्वचिदपि ब्रह्मणः सविशेषत्वनिषेधकवाची को ऽपि शब्दो दृश्यते ।

(४०) अपि च निर्विशेषज्ञानमात्रं ब्रह्म तच्चाछादिकाविद्यातिरोहितस्वरूपं स्वगतनानात्वं पश्यति+इत्ययम् अर्थो न घटते । तिरोधानं नाम प्रकाशनिवारणम् । स्वरूपातिरेकिप्रकाशधर्मानभ्युपगमेन प्रकाशस्यैव स्वरूपत्वात्स्वरूपनाश एव स्यात् । प्रकाशपर्यायं ज्ञानं नित्यं स च प्रकाशो ऽविद्यातिरोहित इति बालिशभाषितम् इदम् । अविद्यया प्रकाशतिरोहित इति प्रकाश+उत्पत्तिप्रतिबन्धो विद्यमानस्य विनाशो वा । प्रकाशस्यानुत्पाद्यत्वाद्विनाश एव स्यात् । प्रकाशो नित्यो निर्विकारस्तिष्ठति+इति चेत् । सत्याम् अप्यविद्यायां ब्रह्मणि न किंचित्तिरोहितम् इति नानात्वं पश्यति+इति भवताम् अयं व्यवहारः सत्स्वनिर्वचनीय एव ।

Tags: 1100CE Vedanta

Post navigation

Previous: Assize of Clarendon – Henry II – 1166
Next: Ramanuja Commentary (Gita Bhashya) on Bhagavad Gita
Pages: 1 2 3 4 5 6

Related Stories

Mahabhasya of Patanjali: Bengali Commentary By Tanmoy Bhattacharyya
  • Sanskrit Documents

 Pūrvatra asiddham (Patanjali Mahābhāṣya) Aṣṭādhyāyī-8.2.1

advtanmoy 10/03/2026
Mahabhasya of Patanjali: Bengali Commentary By Tanmoy Bhattacharyya
  • Sanskrit Documents

Vṛddhir Ādaich (Patanjali Mahābhāṣya) Aṣṭādhyāyī-1.1.1

advtanmoy 08/03/2026
Mahabhasya of Patanjali: Bengali Commentary By Tanmoy Bhattacharyya
  • Books

Patanjali Mahabhasya: Bengali Commentary by Tanmoy Bhattacharyya

advtanmoy 08/03/2026
Encyclopedia of Rashtriya Swayamsevak Sangh

Encyclopedia of Rashtriya Swayamsevak Sangh (13-Volume): History, Ideology and Organisation

The Encyclopedia of Chaitanya Mahaprabhu

Encyclopedia of Sree Krishna Chaitanya Bharati (12-Volume): The Golden Gouranga of Bengal

Encyclopedia of Macroscopic Human Social System Analysis

Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System

Encyclopedia of European Invasions in India

Encyclopedia of European Invasions in India (11-Volume): Colonialism, Resistance, and Restoration

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Deep Grammar of Civilization (13-Volume): What Are the Irreducible Components of Civilization?

Encyclopedia of Begging

Encyclopedia of Begging (6-Volume): A Global History of Asking, Giving, and Resource Acquisition

Encyclopedia of the Communist Party of China

Encyclopedia of the Communist Party of China (31-Volume): Making of Modern Chinese Civilization

Indo-Pakistan war 1971

Encyclopedia of the Indo–Pakistan War of 1971 (5-Volume): The Creation of Bangladesh

Sarvarthapedia

Encyclopedia of India’s Internal and External Intelligence System: Special Emphasis on the (R&AW)

The Encyclopedia of Political History of Bangladesh

Encyclopedia of Political History of Bangladesh (18-Volume): Identity, Liberation, And Democracy

Encyclopedia of Ecumenical Movements

Encyclopedia of Ecumenical Movements (21-Volume): History, Theology, Institutions and Dialogues

Encyclopedia of Dalit Christians and Their Theology

Encyclopedia of Dalit Christians and Their Theology (5-Volume): Crisis of Caste Culture within Christians in India

Encyclopedia of Indian Military Civilization

Encyclopedia of Indian Military Civilization (55-Volume): War Strategy and Armed Institutions From Antiquity to 2026

Sarvarthapedia

Ontology (25-Volume): Encyclopedia of All Known Conceptions of Reality and Existence

Synthesis-of-Greco-Roman-Ideologies-Shaping-Christianity and Historical Critiques of Christianity and Christian Theology

Encyclopedia of Historical Critiques of Christianity and Christian Theology: A (50-Volume) Research and Documentation

Sarvarthapedia Astronautical Engineering Knowledge Universe (SAEKU): A 250-Volume Master Reference for Space Science and Engineering

Astronautical Engineering Knowledge Universe: A 250-Volume Reference for Space Science and Engineering

Encyclopedia of Indian Economy

Encyclopedia of Indian Economy (56-Volume): A Civilisational Perspective

Encyclopedia of Constitution and Constitutional Law of the United Kingdom

Encyclopedia of Constitution and Constitutional Law of the United Kingdom (10-Volume): History and Development

Encyclopedia of Astrology

Encyclopedia of Astrology (15-Volume): The Human Quest to Predict the Future

Civilizational Encyclopedia of American Governance

Civilizational Encyclopedia of American Governance (100-Volume): Governing the American Government

Human rights conditions in the United States

Human Rights and United States (15-Volume): Violations, Resistance, and Global Impact

Civilizational History of North America

Civilizational History of North America (315-Volume): The Turtle Island and the American Imperium

Sarvarthapedia

Sarvarthapedia of Human Technological Civilization (12-Volume)

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Ultimate-Order Concepts (17-Volume): Fundamental Reason for Existence of Intelligence System

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Meta-Civilizational Architecture: How Complex Systems Survive

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Global Encyclopedia (180-Volume) of Intelligence, Espionage, and Counterintelligence

British Parliament

Encyclopedia of the British Parliamentary System: A 100-Volume Statement on British Politics

Encyclopedia of Global Capital Markets (100 Volumes): A Comprehensive Reference to Banking, Securities, Finance, and Investment Systems

The Global Capital Markets Encyclopedia (100-Volume): Reference on Finance, Banking, and Investment Systems

The Atlas of Self-Sabotage: A 12-Volume Encyclopedia of How Lives Quietly Go Wrong

The Atlas of Self-Sabotage: A 12-Volume Encyclopedia of How Lives Quietly Go Wrong

Encyclopedia of History of Ancient and Modern India

Encyclopedia of Ancient and Modern India: A 120-Volume Civilizational Knowledge System

Contemporary World History

Encyclopedia of Contemporary World History (2001–Present): A 100-Volume Statement on World System

Non-Proliferation of Nuclear Weapons: 12-Volume Reference and Research Architecture

Non-Proliferation of Nuclear Weapons: 12-Volume Reference and Research Architecture

Encyclopedia of American Law

Encyclopedia of American Law: 180‑Volume Statement on American Law

Roman empire and Law

Roman Empire Political History (15-Volume): Rise and Destruction (300 BCE – 1453 CE)

India

Encyclopedia of Contemporary Indian Politics: 111-Volume Statement on Indian Politics (1857–2026)

Encyclopedia of Psychology

Encyclopedia of Psychology (12-Volume): Of Mind, Behavior, and Society

Encyclopedia History of Pakistan (12-Volume): From Hindustan to an Islamic Republic

Encyclopedia History of Pakistan (12-Volume): From Hindustan to an Islamic Republic

Africa and African Union

Encyclopedia of African Studies (10-Volume): History, Culture, and Development

African Studies

African Studies, Synopsis (10-Volume) and How to Study Africa

Encyclopedia of Disease and Disease Detection

Encyclopedia of Disease and Disease Detection (12-Volume): Foundations, Technologies, and Clinical Applications

Sarvarthapedia

Encyclopedia of Religion, Faith, and Beliefs (12-Volume): History, Theology, Politics, and Conflict with Science 

Cyber Security

Cybersecurity Encyclopedia (Volume-8): From ENIAC to Modern Cyber Warfare and Data Protection Laws

Sanatan Dharma

Sarvarthapedia of Hindu Scriptures and Interpretation (10-Volume): From the Vedic Period up to 2026

Sarvarthapedia

Encyclopedia of Strategic Geography (13-Volume): Spatial Logic of Civilization 

Encyclopedia of Medical Science and Research

Encyclopedia of Medical Science and Research (7-Volume): Early Civilizations to Modern Healthcare Systems

Computer Science

Computer Science Encyclopedia (13-Volume): From Its Theoretical Origins Up To 2026

Sarvarthapedia

Anthropology (12-Volume): The Study of Humankind – From Origins to 2026

Sanatan Dharma

Encyclopedia of Sanatan Dharma: Society, Politics, Militia, Rituals, and Philosophy of Vedic Civilization

Encyclopedia of Panini Ashtadhyayi

Encyclopedia of Panini’s Ashtadhyayi: Reading of Panini Grammar (Sutra Path – सूत्र पाठः)

Encyclopedia of Indian Law

Indian Law Encyclopedia: 101-Volume Statement on Indian Law

  • Anosh Ekka v. CBI (2026 INSC 357): SC Grants Bail to Former Jharkhand Minister in CBI DA Case
  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Ram v. Sukhram: Tribal women’s right in ancestral property [2025] 8 SCR 272
  • Indian Constitution
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders

Genesis-1 (Bereshit-1) — Torah Reading: Bereshit Bara Elohim – The Creation of the World

An Introduction to the Rashtriya Swayamsevak Sangh

Swami Pranabananda and the Making of Shyama Prasad Mukherjee’s Early Political Outlook

18th Lok Sabha Election 2024 in West Bengal: Party Position and Elected Members

Sarvarthapedia: The Knowledge Universe of Civilization

Dakshineswar Bhabatarini Kali: Three Kali Idols, Rani Rashmoni, and Temple History

Sarvarthapedia

  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subjects
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia Meta-Concept
  • Contact Us
  • Privacy Policy
  • FAQs
  • NEET
  • Library Updates
2026 All rights reserved © Advocatetanmoy Law Library by advocatetanmoy.