Skip to content

Advocatetanmoy Law Library

Research & Library Database

Yuddha Gita (1st Vol): The First Question of Human Civilization

Search

  • Genesis-1 (Bereshit-1) — Torah Reading: Bereshit Bara Elohim – The Creation of the World
  • An Introduction to the Rashtriya Swayamsevak Sangh
  • Swami Pranabananda and the Making of Shyama Prasad Mukherjee’s Early Political Outlook
  • 18th Lok Sabha Election 2024 in West Bengal: Party Position and Elected Members
  • Sarvarthapedia: The Knowledge Universe of Civilization
  • Dakshineswar Bhabatarini Kali: Three Kali Idols, Rani Rashmoni, and Temple History
  • Political Evolution of Bengal (1300–2000): A 700-Year History of State, Society and Power
  • Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System
  • West Bengal Govt Budget Statement In Bengali (2026-2027) by Swapan Dasgupta
  • Encyclopedia of Physical Measurement (3-Volume)
Primary Menu
  • News
    • Editorial
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • JudgmentSupreme Court
  • Podcast
  • Legal Brief
    • Legal Eagal
  • HLJLaw Digests
    • Supreme Court Case Notes
    • Daily Digest
  • SarvarthapediaKnowledgebase
    • Sarvarthapedia (Twelve Core Areas): Macro Structure
    • Systemic-and-systematic
    • Volume One
    • Volume Two
    • Volume Three
    • Volume Four
    • Volume Five
    • Volume Six
  • Subjects
    • Knowledge Graph
    • Glossary
  • Indian Law
  • EncyclopediaCollection
Home » Law Library » Books » Vedartha Sangraha – वेदार्थसङ्ग्रहः – Sri Ramanuja » Page 4
  • Books
  • Sanskrit Documents

Vedartha Sangraha – वेदार्थसङ्ग्रहः – Sri Ramanuja

अयम् आत्मा ब्रह्म । य आत्मनि तिष्ठन्नात्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्यमृतः ।
advtanmoy 25/08/2021 1 minute read

© Advocatetanmoy Law Library

  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on Telegram (Opens in new window) Telegram
Ramanuja

(६१) अपि चैकस्य वस्तुनो भिन्नाभिन्नत्वं विरुद्धत्वान्न संभवति+इत्युक्तम् । घटस्य पटाद्भिन्नत्वे सति तस्य तस्मिन्नभावः । अभिन्नत्वे सति तस्य च भाव इति । एकस्मिन् काले चैकस्मिन् देशे चैकस्य हि पदार्थस्य युगपत्सद्भावो ऽसद्भावश्च विरुद्धः ।

(६२) जात्यात्मना भावो व्यक्त्यात्मना चाभाव इति चेत् । जातेर्मुण्डेन चाभावे सति खण्डे मुण्डस्यापि सद्भावप्रसङ्गः । खण्डेन च जातेरभिन्नत्वे सद्भावो भिन्नत्वे चासद्भावः अश्वे महिशत्वस्यैव+इति विरोधो दुष्परिहर एव । जात्यादेर्वस्तुसंस्थानतया वस्तुनः प्रकारत्वात्प्रकारप्रकारिणोश्च पदार्थान्तरत्वं प्रकारस्य पृथक्सिद्ध्यनर्हत्वं पृथगनुपलम्भश्च तस्य च संस्थानस्य चानेकवस्तुषु प्रकारतया+अवस्थितश्च+इत्यादि पूर्वम् उक्तम् ।

(६३) सो ऽयम् इति बुद्धिः प्रकारैक्यादयम् अपि दण्डी+इति बुद्धिमत् । अयं च जात्यादिप्रकारो वस्तुनो भेद इत्युच्यते । तद्योग एव वस्तुनो भिन्नम् इति व्यवहारहेतुरित्यर्थः । स च वस्तुनो भेदव्यवहारहेतुः स्वस्य च संवेदनवत् । यथा संवेदनं वस्तुनो व्यवहारहेतुः स्वस्य व्यवहारहेतुश्च भवति ।

(६४) अत एव सन्मात्रग्राहि प्रत्यक्षं न भेदग्राहि+इत्यादिवादा निरस्ताः । जात्यादिसंस्थानसंस्थितस्यैव वस्तुनः प्रत्यक्षेण गृहीतत्वात्तस्यैव संस्थानरूपजात्यादेः प्रतियोग्यपेक्षया भेदव्यवहारहेतुत्वाच्च । स्वरूपपरिणामदोषश्च पूर्वमेव+उक्तः ।

(६५) यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति एष त आत्मान्तर्याम्यमृतः । य आत्मनि तिष्ठन्नात्मनो ऽन्तरो य आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति एष त आत्मान्तर्याम्यमृतः । यः पृथिवीम् अन्तरे संचरन् यस्य पृथिवी शरीरं यं पृथिवी न वेद+इत्यादि यो ऽक्षरम् अन्तरे संचरन् यस्याक्षरं शरीरं अक्षरं न वेद यो मृत्युम् अन्तरे संचरन् यस्य मृत्युः शरीरं यं मृत्युर्न वेद एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः । द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो ऽभिचाकशि+इति । अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा । तत्सृष्ट्वा तदेवानुप्राविशत् । तदनुप्रविश्य सच्च त्यच्चानृतं च सत्यम् अभवत् । अनेन जीवेनात्मनेत्यादि । पृथगात्मानं प्रेरितारं मत्वा जष्टस्ततस्तेनामृतत्वमेति । भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्म, एतत् । नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । प्रधानक्षेत्रज्ञपतिर्गुणेशः । ज्ञाज्ञौ द्ववजवीशानीशवित्यादिश्रुतिशतैस्तदुपबृंहणैः

जगत्सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् ॥ यत्किंचित्सृज्यते येन सत्त्वजातेन वै द्विज । तस्य सृज्यस्य संभूतौ तत्सर्वं वै हरेस्तनुः ॥ अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः ॥ सर्वस्य चाहं हृदि संनिविष्टो मत्तः स्मृतिर्ज्ञानम् अपोहनं च ॥

इत्यादिवेदविदग्रेसरवाल्मीकिपराशरद्वैपायनवचोभिश्च परस्य ब्रह्मणः सर्वस्यात्मत्वावगमाच्चिदचिदात्मकस्य वस्तुनस्तच्छरीरत्वावगमाच्च शरीरस्य शरीरिणं प्रति प्रकारतया+एव पदार्थत्वात्शरीरशरीरिणोश्च धर्मभेदे ऽपि तयोरसंकरात्सर्वशरीरं ब्रह्म+इति ब्रह्मणो वैभवं प्रतिपादयद्भिः सामानाधिकरण्यादिभिर्मुख्यवृत्तैः सर्वचेतनाचेतनप्रकारं ब्रह्मैवाभिधीयते । सामानाधिकरण्यं हि द्वयोः पदयोः प्रकारद्वयमुखेनैकार्थनिष्ठत्वं । तस्य चैतस्मिन् पक्षे मुख्यता । तथा हि तत्त्वम् इति सामानाधिकरण्ये तदित्यनेन जगत्कारणं सर्वकल्याणगुणगणाकरं निरवद्यं ब्रह्म+उच्यते । त्वम् इति च चेतनसामानाधिकरण्यवृत्तेन जीवान्तर्यानिरूपि तच्छरीरं तदात्मतया+अवस्थितं तत्प्रकारं ब्रह्म+उच्यते । इतरेषु पक्षेषु सामानाधिकरण्यहानिर्ब्रह्मणः सदेषता च स्यात् ।

(६६) एतदुक्तं भवति । ब्रह्मैवम् अवस्थितम् इत्यत्रैवंशब्दार्थभूतप्रकारतया+एव विचित्रचेतनाचेतनात्मकप्रपञ्चस्य स्थूलस्य सूक्ष्मस्य च सद्भावः । तथा च बहु स्यां प्रजायेय+इत्ययम् अर्थः संपन्नो भवति । तस्यैव+ईश्वरस्य कार्यतया कारणतया च नानासंस्थानसंस्थितस्य संस्थानतया चिदचिद्वस्तुजातम् अवस्थितम् इति ।

(६७) ननु च संस्थानरूपेण प्रकारतया+एवंशब्दार्थत्वं जातिगुणयोरेव दृष्टं न द्रव्यस्य । स्वतन्त्रसिद्धियोग्यस्य पदार्थस्यैवंशब्दार्थतया+ईश्वरस्य प्रकारमात्रत्वम् अयुक्तं । उच्यते द्रव्यस्यापि दण्डकुण्डलादेर्द्रव्यान्तरप्रकारत्वं दृष्टमेव । ननु च दण्डादेः स्वतन्त्रस्य द्रव्यान्तरप्रकारत्वे मत्वर्थीयप्रत्ययो दृष्टः । यथा दण्डी कुण्डली+इति । अतो गोत्वादितुल्यतया चेतनाचेतनस्य द्रव्यभूतस्य वस्तुन ईश्वरप्रकारतया सामानाधिकरण्येन प्रतिपादनं न युज्यते । अत्र+उच्यते गौरश्वो मनुष्यो देव इति भूतसंघातरूपाणां द्रव्याणामेव देवदत्तो मनुष्यो जातः पुण्यविशेषेण यज्ञदत्तो गौर्जातः पापेन, अन्यश्चेतनः पुण्यातिरेकेण देवो जात इत्यादिदेवादिशरीराणां चेतनप्रकारतया लोकदेवयोः सामानाधिकरण्येन प्रतिपादनं दृष्टम् ।

(६८) अयम् अर्थः जातिर्वा गुणो वा द्रव्यं वा न तत्रादरः । कंचन द्रव्यविशेषं प्रति विशेषणतया+एव यस्य सद्भावस्तस्य तदपृथक्सिद्धेस्तत्प्रकारतया तत्सामानाधिकरण्येन प्रतिपादनं युक्तम् । यस्य पुनर्द्रव्यस्य पृथक्सिद्धस्यैव कदाचित्क्वचिद्द्रव्यान्तरप्रकारत्वम् इष्यते तत्र मत्वर्थीयप्रत्यय इति विशेषः । एवमेव स्थावरजङ्गमात्मकस्य सर्वस्य वस्तुन ईश्वरशरीरत्वेन तत्प्रकारतया+एव स्वरूपसद्भाव इति । तत्प्रकारिईश्वर एव तत्तच्छब्देनाभिधीयत इति तत्सामानाधिकरण्येन प्रतिपादनं युक्तं । तदेवैतत्सर्वं पूर्वमेव नामरूपव्याकरणश्रुतिविवरणे प्रपञ्चितम् ।

(६९) अतः प्रकृतिपुरुषमहदहंकारतन्मात्रभूतेन्द्रियतदारब्धचतुर्दशभुवनात्मकब्रह्माण्डतदन्तर्वर्तिदेवतिर्यङ्मनुष्यस्थावरादिसर्वप्रकारसंस्थानसंस्थितं कार्यम् अपि सर्वं ब्रह्मैव+इति कारणभूतब्रह्मविज्ञानादेव सर्वं विज्ञातं भवति+इत्येकविज्ञानेन सर्वविज्ञानम् उपपन्नतरम् । तदेवं कार्यकारणभावादिमुखेन कृत्स्नस्य चिदचिद्वस्तुनः परब्रह्मप्रकारतया तदात्मकत्वम् उक्तम् ।

(७०) ननु च परस्य ब्रह्मणः स्वरूपेण परिणामास्पदत्वं निर्विकारत्वनिरवद्यत्वश्रुतिव्याकोपप्रसञ्गेन निवारितम् । प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादित्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञानमृत्तत्कार्यदृष्टान्ताभ्यां परमपुरुषस्य जगदुपादानकारणत्वं च प्रतिपादितम् । उपादानकारणत्वं च परिणामास्पदत्वमेव । कथम् इदम् उपपद्यते ।

(७१) अत्र+उच्यते सजीवस्य प्रपञ्चस्याविशेषेण कारणत्वम् उक्तम् । तत्र+ईश्वरस्य जीवरूपपरिणामाभ्युपगमेन नात्मा श्रुतेर्नित्यत्वाच्च ताभ्य इति विरुध्यते । वैषम्यनैर्घृण्यपरिहारश्च जीवनम् अनादित्वाभ्युपगमेन तत्कर्मनिमित्ततया प्रतिपादितः वैषम्यनैर्घृण्ये न सापेक्षत्वान्न कर्मविभागादिति चेन्न अनादित्वादुपपद्यते चाप्युपलभ्यते च+इत्यकृताभ्यागमकृतविप्रणाशप्रसङ्गश्चानित्यत्वे ऽभिहितः ।

(७२) तथा प्रकृतेरप्यनादिता श्रुतिभिः प्रतिपदिता

अजामेकां लोहितशुक्लकृष्णां बह्नीं प्रजां जनयन्तीं सरूपाम् । अजो ह्येको जुषमाणो ऽनुशेते जहात्येनां भुक्तभोगाम् अजो ऽन्यः ॥

इति प्रकृतिपुरुषयोरजत्वं दर्शयति । अस्मान् मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया संनिरुद्धः मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् इति प्रकृतिरेव स्वरूपेण विकारास्पदम् इति च दर्शयति । गौरनाद्यन्तवती सा जनित्री भूतभाविनी+इति च । स्मृतिश्च भवति

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभवपि । विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥ भूमिरापो ऽनलो वायुः खं मनो बुद्धिरेव च । अहंकार इति+इयं मे भिन्ना प्रकृतिरष्टधा ॥ अपरेयम् इतस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः । मया+अध्यक्षेण प्रकृतिः सूयते सचराचरम् ॥

इत्यादिका ।

(७३) एवं च प्रकृतेरपि+ईश्वरशरीरत्वात्प्रकृतिशब्दो ऽपि तदात्मभूतस्य+ईश्वरस्य तत्प्रकारसंस्थितस्य वाचकः । पुरुषशब्दो ऽपि तदात्मभूतस्य+ईश्वरस्य पुरुषप्रकारसंस्थितस्य वाचकः । अतस्तद्विकाराणाम् अपि तथा+ईश्वर एवात्मा । तदाह

व्यक्तं विष्णुस्तथा+अव्यक्तं पुरुषः काल एव च । सा एव क्षोभको ब्रह्मन् क्षोभ्यश्च परमेश्वरः ॥

इति । अतः प्रकृतिप्रकारसंस्थिते परमात्मनि प्रकारभूतप्रकृत्यंसे विकारः प्रकार्यंसे चाविकारः । एवमेव जीवप्रकारसंस्थिते परमात्मनि च प्रकारभूतजीवांशे सर्वे चापुरुषार्थाः प्रकार्यंशो नियन्ता निरवद्यः सर्वकल्याणगुणाकरः सत्यसंकल्प एव ।

(७४) तथा च सति कारणावस्थ ईश्वर एव+इति तदुपादानकजगत्कार्यावस्थो ऽपि स एव+इति कार्यकारणयोरनन्यत्वं सर्वश्रुत्यविरोधश्च भवति । तदेवं नामरूपविभागानर्हसूक्ष्मदशापन्नप्रकृतिपुरुषशरीरं ब्रह्म कारणावस्थं, जगतस्तदापत्तिरेव च प्रलयः । नामरूपविभागविभक्तस्थूलचिदचिद्वस्तुशरीरं ब्रह्म कार्यत्वं, ब्रह्मणस्तथाविधस्थूलभाव एव जगतः सृष्टिरित्युच्यते । यथा+उक्तं भगवता पराशरेण

प्रधानपुंसोरजयोः कारणं कार्यभूतयोः । इति ।

(७५) तस्मादीश्वरप्रकारभूतसर्वावस्थप्रकृतिपुरुषवाचिनः शब्दास्तत्प्रकारविशिष्टतया+अवस्थिते परमात्मनि मुख्यतया वर्तन्ते । जीवात्मवाचिदेवमनुष्यशब्दवत् । यथा देवमनुष्यादिशब्दा देवमनुष्यादिप्रकृतिपरिणामविशेषाणां जीवात्मप्रकारतया+एव पदार्थत्वात्प्रकारिणि जीवात्मनि मुख्यतया वर्तन्ते । तस्मात्सर्वस्य चिदचिद्वस्तुनः परमात्मशरीरतया तत्प्रकारत्वात्परमात्मनि मुख्यतया वर्तन्ते सर्वे वाचकाः शब्दाः ।

(७६) अयमेव चात्मशरीरभावः पृथक्सिद्ध्यनर्हाधाराधेयभावो नियन्तृनियाम्यभावः शेषशेषिभावश्च । सर्वात्मना+आधारतया नियन्तृतया शेषितया च आप्नोति+इत्यात्मा सर्वात्मना+आधेयतया नियाम्यतया शेषतया च अपृथक्सिद्धं प्रकारभूतम् इत्याकारः शरीरम् इति च+उच्यते । एवमेव हि जीवात्मनः स्वशरीरसंबन्धः । एवमेव परमात्मनः सर्वशरीरत्वेन सर्वशब्दवाच्यत्वम् ।

(७७) तदाह श्रुतिगणः सर्वे वेदा यत्पदम् आमनन्ति सर्वे वेदा यत्रैकं भवन्ति+इति । तस्यैकस्य वाच्यत्वादेकार्थवाचिनो भवन्ति+इत्यर्थः । एको देवो बहुधा निविष्टः, सहैव सन्तं न विजानन्ति देवा इत्यादि । देवा इन्द्रियाणि । देवमनुष्यादीनाम् अन्तर्यामितया+आत्मत्वेन निविश्य सहैव सन्तं तेषाम् इन्द्रियाणि मनःपर्यन्तानि न विजानन्ति+इत्यर्थः । तथा च पौराणिकानि वचांसि

नताः स्म सर्ववचसां प्रतिष्ठा यत्र शश्वती ।

वाच्ये हि वचसः प्रतिष्ठा ।

कार्याणां कारणां पूर्वं वचसां वाच्यम् उत्तमम् । वेदैश्च सर्वैरहमेव वेद्यः ।

इत्यादीनि सर्वाणि हि वचांसि सशरीरात्मविशिष्टम् अन्तर्यामिणमेवाचक्षते । हन्ताहम् इमास्तिस्रो देवता अनेन जीवेनात्मानुप्रविश्य नामरूपे व्याकरवाणि+इति हि श्रुतिः । तथा च मानवं वचः

प्रशासितारं सर्वेषाम् अणीयांसम् अणीयसां रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम् ॥

अन्तः प्रविश्यान्तर्यामितया सर्वेषां प्रशासितारं नियन्तारम् अणीयांस आत्मानः कृत्स्नस्याचेतनस्य व्यापकतया सूक्ष्मभूतास्ते तेषाम् अपि व्यापकत्वात्तेभ्यो ऽपि सूक्ष्मतर इत्यर्थः रुक्माभः आदित्यवर्णः स्वप्नकल्पबुद्धिप्राप्यः, विशदतमप्रत्यक्षतापन्नानुध्यानैकलभ्य इत्यर्थः ।

एनमेके वदन्त्यग्निं मारुतो ऽन्ये प्रजापतिम् । इन्द्रमेके परे प्रमाणम् अपरे ब्रह्म शाश्वतम् ॥

इति । एके वेदा इत्यर्थः । उक्तरीत्या परस्यैव ब्रह्मणः सर्वस्य प्रशासितृत्वेन सर्वान्तरात्मतया प्रविश्यावस्थितत्वादग्न्यादयः शब्दा अपि शाश्वतब्रह्मशब्दवत्तस्यैव वाचका भवन्ति+इत्यर्थः । तथा च स्मृत्यन्तरम्

ये यजन्ति पित्ह्न् देवान् ब्राह्मणान् सहुताशनान् । सर्वभूतान्तरात्मानं विष्णुमेव यजन्ति ते ॥

इति । पितृदेवब्राह्मणहुताशनादिशब्दास्तन्मुखेन तदन्तरात्मभूतस्य विष्णोरेव वाचका इत्युक्तं भवति ।

(७८) अत्र+इदं सर्वशास्त्रहृदयं जीवात्मानः स्वयम् असंकुचितापरिच्छिन्ननिर्मलज्ञानस्वरूपाः सन्तः कर्मरूपाविद्यावेष्टितास्तत्तत्कर्मानुरूपज्ञानसंकोचम् आपन्नाः, ब्रह्मादिस्तम्बपर्यन्तविविधविचित्रदेहेषु प्रविश्टास्तत्तद्देहोचितलब्धज्ञानप्रसरास्तत्तद्देहात्माभिमानिनस्तदुचितकर्माणि कुर्वाणास्तदनुगुणसुखदुःखोपभोगरूपसंसारप्रवाहं प्रतिपद्यन्ते । एतेषां संसारमोचनं भगवत्प्रपत्तिम् अन्तरेण न+उपपद्यत इति तदर्थः प्रथममेषां देवादिभेदरहितज्ञानैकाकारतया सर्वेषां साम्यं प्रतिपाद्य, तस्यापि स्वरूपस्य भगवच्छेषतैकरसतया भगवदात्मकताम् अपि प्रतिपाद्य, भगवत्स्वरूपं च हेयप्रत्यनीलकल्याणैकतानतया सकलेतरविसजातीयम् अनवधिकातिशयासंख्येयकल्याणगुणगणाश्रयं स्वसंकल्पप्रवृत्तसमस्तचिदचिद्वस्तुजाततया सर्वस्यात्मभूतं प्रतिपाद्य, तदुपासन साङ्गं तत्प्रापकं प्रतिपदयन्ति शास्त्राणि+इति ।

(७९) यथा+उक्तम्

निर्वाणमय एवायम् आत्मा ज्ञानमयो ऽमलः । दुःखाज्ञानमला धर्मा प्रकृतेस्ते न चात्मनः ।

इति प्रकृतिसंसर्गकृतकर्ममूलत्वान्नात्मद्वरूपप्रयुक्ता धर्मा इत्यर्थः । प्राप्ताप्राप्तविवेकेन प्रकृतेरेव धर्मा इत्युक्तम् ।

विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पाण्डिताः समदर्शिनः ।

इति । देवतिर्यङ्मनुष्यस्थावररूपप्रकृतिसंसृष्टस्यात्मनः स्वरूपविवेचनी बुद्धिरेषां ते पण्डिताः । तत्तत् प्रकृतिविशेषवियुक्तात्मयाथात्म्यज्ञानवन्तस्तत्र तत्रात्यन्तविषमाकारे वर्तमानम् आत्मानं समानाकारं पश्यन्ति+इति समदर्शिन इत्युक्तम् । तदिदं आह

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥

इति । निर्दोषं देवादिप्रकृतिविशेषसंसर्गरूपदोषरहितं स्वरूपेणावस्थितं सर्वम् आत्मवस्तु निर्वाणरूपज्ञानैकाकारतया समम् इत्यर्थः ।

(८०) तस्यैवंभूतस्यात्मनो भगवच्छेषतैकरसता तन्नियाम्यता तदेकाधारता च तच्छरीरतत्तनुप्रभृतिभिः शब्दैस्तत्समानाधिकरण्येन च श्रुतिस्मृतिइतिहासपुराणेषु प्रतिपाद्यत इति पूर्वमेव+उक्तम् ।

(८१) दैवी ह्येषा गुणमयी मम माया दुरत्यया ।

मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥

इति तस्यात्मनः कर्मकृतविचित्रगुणमयप्रकृतिसंसर्गरूपात्संसारान् मोक्षो भगवत्प्रपत्तिम् अन्तरेण न+उपपदयत इत्युक्तं भवति । नान्यः पन्था अयनाय विद्यत इत्यादिश्रुतिभिश्च ।

मया ततम् इदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेषु अवस्थितः ॥ न च मत्स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ॥

इति सर्वशक्तियोगात्स्वाइश्वर्यवैचित्र्यम् उक्तम् । तदाह

विष्टभ्याहम् इदं कृत्स्नमेकांशेन स्थितो जगत् ।

इति अनन्तविचित्रमहाश्चर्यरूपं जगन् ममायुतांशेनात्मतया प्रविश्य सर्वं मत्संकल्पेन विष्टभ्यानेन रूपेणानन्तमहाविभूतिपरिमितोदारगुणसागरो निरतिशयाश्चर्यभूतः स्थितो ऽहम् इत्यर्थः । तदिदं आह

एकत्वे सति नानात्वं नानात्वे सति चैकता । अचिन्त्यं ब्रह्मणो रूपं कुतस्तद्वेदितुम् अर्हति ॥

इति । प्रशासितृत्वेनैक एव सन्विचित्रचिदचिद्वस्तुष्वन्तरात्मतया प्रविश्य तत्तद्रूपेण विचित्रप्रकारो विचित्रकर्म कारयन्नानारूपां भजते । एवं स्वल्पांशेन तु सर्वाश्चर्यं नानारूपं जगत्तदन्तरात्मतया प्रविश्य विष्टभ्य नानात्वेनावस्थितो ऽपि सन्ननवधिकातिशयासंख्येयकल्याणगुणगणः सर्वेश्वरः परब्रह्मभूतः पुरुषोत्तमो नारायणो निरतिशयाश्चर्यभूतो नीलतोयदसंकाशः पुण्डरीकदलामलायतेक्षणः सहस्रांशुसहस्रकिरणः परमे व्योम्नि यो वेद निहितं गुहायां परमे व्योमंस्तदक्षरे परमे व्योमन्नित्यादिश्रुतिसिद्ध एक एवातिष्ठते ।

(८२) ब्रह्मव्यतिरिक्तस्य कस्यचिदपि वस्तुन एकस्वभावस्यैककार्यशक्तियुक्तस्यैकरूपस्य रूपान्तरयोगः स्वभावान्तरयोगः शक्त्यन्तरयोगश्च न घटते । तस्यैतस्य परब्रह्मणः सर्ववस्तुविजातीयतया सर्वस्वभावत्वं सर्वशक्तियोगश्च+इत्येकस्यैव विचित्रानन्तरूपता च पुनरप्यनन्तापरिमिताश्चर्ययोगेनैकरूपता च न विरुद्धेति वस्तुमात्रसाम्याद्विरोधचिन्ता न युक्तेत्यर्थः । यथा+उक्तं

शक्तयः सर्वभावानाम् अचिन्त्यज्ञानगोचराः । यतो ऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः ॥ भवन्ति तपसां श्रेष्ट पावकस्य यथा+उष्णता ॥इति ।

एतदुक्तं भवति सर्वेषाम् अग्निजलादीनां भावानामेकस्मिन्नपि भावे दृष्टा+एव शक्तिस्तद्विजातीयभावान्तरे ऽपि+इति न चिन्तयितुं युक्ता जलादावदृष्टा+अपि तद्विजातीयपावके भास्वरत्वोष्णतादिशक्तिर्यथा दृश्यते, एवमेव सर्ववस्तुविसजातीये ब्रह्मणि सर्वसाम्यं नानुमातुं युक्तम् इति । अतो विचित्रानन्तशक्तियुक्तं ब्रह्मैव+इत्यर्थः तदाह

जगदेतन् महाश्चर्यं रूपं यस्य महात्मनः । तेनाश्चर्यवरेणाहं भवता कृष्ण संगतः ॥

इति ।

(८३) तदेतन्नानाविधानन्तश्रुतिनिकरशिष्टपरिगृहीततद्व्याख्यानपरिश्रमादवधारितम् । तथा हि प्रमाणान्तरापरिदृष्टापरिमितपरिणामान् एकतत्त्वनियतक्रमविशिष्टौ सृष्टिप्रलयौ ब्रह्मणो ऽनेकविधाः श्रुतयो वदन्ति निरवद्यं निरञ्जनं विज्ञानम् आनन्दं निर्विकारं निष्कलं निष्क्रियं शान्तं निर्गुणम् इत्यादिकाः निर्गुणं ज्ञानस्वरूपं ब्रह्म+इति काश्चन श्रुतयो ऽभिदधति । न+इह नाना+अस्ति किंचन मृत्योः स मृत्युम् आप्नोति य इह नानेव पश्यति यत्र त्वस्य सर्वम् आत्मा+एवाभूत् तत्केन कं पश्येत्तत्केन कं विजातीयादित्यादिका नानात्वनिषेधवादिन्यः सन्ति काश्चन श्रुतयः । यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वा+अभिवदन् यदास्ते सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि अपहतपाप्मा विजरो विमृत्युर्विशोको विजघत्सो ऽपिपासः सत्यकामः सत्यसंकल्प इति सर्वस्मिञ् जगति हेयतया+अवगतं सर्वगुणं प्रतिषिध्य निरतिशयकल्याणगुणानन्त्यं सर्वज्ञता सर्वशक्तियोगं सर्वनामरूपव्याकरणं सर्वस्यावधारतां च काश्चन श्रुतयो ब्रुवते । सर्वं खल्विदं ब्रह्म तज्जलान् इति ऐतदात्म्यम् इदं सर्वं एकः सन् बहुधा विचार इत्यादिका ब्रह्मसृष्टं जगन्नानाकारं प्रतिपाद्य तदैक्यं च प्रतिपादयन्ति काश्चन । पृथगात्मानं प्रेरितारं च मत्वा भोक्ता भोग्यं प्रेरितारं च मत्वा प्रजापतिरकामयत प्रजाः सृजेय+इति पतिं विश्वस्यात्मेश्वरं श्वास्तं शिवम् अच्युतं तम् ईश्वराणां परं महेश्वरं तं देवतानां परं च दैवतं सर्वस्य वशी सर्वस्य+ईशान इत्यादिका ब्रह्मणः सर्वस्मादन्यत्वं सर्वस्य+ईशितव्यम् ईश्वरत्वं च ब्रह्मणः सर्वस्य शेषतां पतित्वं च+ईश्वरस्य काश्चन । अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा एष त आत्मान्तर्याम्यमृतः यस्य पृथिवी शरीरं यस्यापः शरीरं यस्य तेजः शरीरम् इत्यादि यस्याव्यक्तं शरीरं यस्याक्षरं शरीरं यस्य मृत्युः शरीरं यस्यात्मा शरीरम् इति ब्रह्मव्यतिरिक्तस्य सर्वस्य वस्तुनो ब्रह्मणश्च शरीरात्मभावं दर्शयन्ति काश्चन+इति ।

(८४) नानारूपाणां वाक्यानाम् अविरोधो मुख्यार्थापरित्यागश्च यथा संभवति तथा वर्णनीयम् । वर्णितं च अविकारश्रुतयः स्वरूपपरिणामपरिहारादेव मुख्यार्थाः । निर्गुणवादाश्च प्राकृतहेयगुणनिषेधपरतया व्यवस्थिताः । नानात्वनिषेधवादाश्चैकस्य ब्रह्मणः शरीरतया प्रकारभूतं सर्वं चेतनाचेतनं वस्त्विति सर्वस्यात्मतया सर्वप्रकारं ब्रह्मैवावस्थितम् इति सुरक्षिताः । सर्वप्रकारविलक्षणत्वपतित्वेश्वरत्वसर्वकल्याणगुणगणाकारत्वसत्यकामत्वसत्यसंकल्पत्वादिवाक्यं तदभ्युपगमादेव सुरक्षितम् । ज्ञानानन्दमात्रवादि च सर्वस्मादन्यस्य सर्वकल्याणगुणगणाश्रयस्य सर्वेश्वरस्य सर्वशेषिणः सर्वाधारस्य सर्वोत्पत्तिस्थितिप्रलयहेतुभूतस्य निरवद्यस्य निर्विकारस्य सर्वात्मभूतस्य परस्य ब्रह्मणः स्वरूपनिरूपकधर्मो मलप्रत्यनीकानन्दरूपज्ञानमेव+इति स्वप्रकाशतया स्वरूपम् अपि ज्ञानमेव+इति च प्रतिपादनादनुपालितम् । ऐक्यवादाश्च शरीरात्मभावेन सामानाधिकरण्यमुख्यार्थतोपपादनादेव सुस्थिताः ।

(८५) एवं च सत्यभेदो वा भेदो वा द्व्यात्मकता वा वेदान्तवेद्यः को ऽयम् अर्थः समर्थितो भवति । सर्वस्य वेदवेद्यत्वात्सर्वं समर्थितम् । सर्वशरीरतया सर्वप्रकारं ब्रह्मैवावस्थितम् इत्यभेदः समर्थितः । एकमेव ब्रह्म नानाभूतचिदचिद्वस्तुप्रकारं नानात्वेनावस्थितम् इति भेदाभेदौ । अचिद्वस्तुनश्चिद्वस्तुनश्च+ईश्वरस्य च स्वरूपस्वभाववैलक्षण्यादसंकराच्च भेदः समर्थितः ।

(८६) ननु च तत्त्वम् असि श्वेतकेतो तस्य तावदेव चिरम् इत्यैक्यज्ञानमेव परमपुरुषार्थलक्षणमोक्षसाधनम् इति गम्यते । नैतदेवम् । पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति+इत्यात्मानं प्रेरितारं चान्तर्यामिणं पृथग् मत्वा ततः पृथक्त्वज्ञानाद्धेतोस्तेन परमात्मना जुष्टो ऽमृतत्वमेति+इति साक्षादमृतत्वप्राप्तिसाधनम् आत्मनो नियन्तुश्च पृथग्भावज्ञानमेव+इत्यवगम्यते ।

(८७) ऐक्यवाक्यविरोधादेतदपरमार्थसगुणब्रह्मप्राप्तिविषयम् इत्यभ्युपगन्तव्यम् इति चेत् । पृथक्त्वज्ञानस्यैव साक्षादमृतत्वप्राप्तिसाधनत्वश्रवणाद्विपरीतं कस्मान्न भवति ।

एतदुक्तं भवति । द्वयोर्तुल्ययोर्विरोधे सत्यविरोधेन तयोर्विषयो विवेचनीय इति । कथम् अविरोध इति चेत् । अन्तर्यामिरूपेणावस्थितस्य परस्य ब्रह्मणः शरीरतया प्रकारत्वाज् जीवात्मनस्तत्प्रकारं ब्रह्मैव त्वम् इति शब्देनाभिधीयते । तथा+एव ज्ञातव्यम् इति तस्य वाक्यस्य विषयः । एवंभूताज् जीवात्तदात्मतया+अवस्थितस्य परमात्मनो निखिलदोषरहिततया सत्यसंकल्पत्वादनवधिकातिशयासंख्येयकल्याणगुणगणाकरत्वेन च यः पृथग्भावः सो ऽनुसंधेय इत्यस्य वाक्यस्य विषय इत्ययम् अर्थः पूर्वम् असकृदुक्तः । भोक्ता भोग्यं प्रेरितारं च मत्वेति भोग्यरूपस्य वस्तुनो ऽचेतनत्वं परमार्थत्वं सततं विकारास्पदत्वम् इत्यादयः स्वभावाः, भोक्तुर्जीवात्मनश्चामलापरिच्छिन्नज्ञानानन्दस्वभावस्यैवानादिकर्मरूपाविद्याकृतनानाविधज्ञानसंकोचविकासौ भोग्यभूताचिद्वस्तुसंसर्गश्च परमात्मोपासनान् मोक्षश्च+इत्यादयः स्वभावाः, एवंभूतभोक्तृभोग्ययोरन्तर्यामिरूपेणावस्थानं स्वरूपेण चापरिमितगुणौघाश्रयत्वेनावस्थानम् इति परस्य ब्रह्मस्त्रिविधावस्थानं ज्ञातव्यम् इत्यर्थः ॥

(८८) तत्त्वम् असि+इति सद्विद्यायाम् उपास्यं ब्रह्म सगुणं सगुणब्रह्मप्राप्तिश्च फलम् इत्यभियुक्तैः पूर्वाचार्यैर्व्याख्यातम् । यथा+उक्तं वाक्यकारेण युक्तं तद्गुणकोपासनादिति । व्याख्यातं च द्रमिडाचार्येण विद्याविकल्पं वदता यद्यपि सच्चितो न निर्भुग्नदैवतं गुणगणं मनसानुधावेत्तथा+अप्यन्तर्गुणामेव देवतां भजत इति तत्रापि सगुणा+एव देवता प्राप्यत इति । सच्चित्तः सद्विद्यानिष्ठः । न निर्भुग्नदैवतं गुणगणं मनसा+अनुधावेतपहतपाप्मत्वादिकल्याणगुणगणं दैवताद्विभक्तं यद्यपि दहरविद्यानिष्ठ इव सच्चितो न स्मरेत् । तथा+अप्यन्तर्गुणामेव देवतां भजते देवतास्वरूपानुबन्धित्वात्सकलकल्याणगुणगणस्य केनचिद्परदेवतासाधारणेन निखिलजगत्कारणत्वादिना गुणेन+उपास्यमाना+अपि देवता वस्तुतः स्वरूपानुबन्धि सर्वकल्याणगुणगणविशिष्टा+एव+उपास्यते । अतः सगुणमेव ब्रह्म तत्रापि प्राप्यम् इति सद्विद्यादहरविद्ययोर्विकल्प इत्यर्थः ।

(८९) ननु च सर्वस्य जन्तोः परमात्मान्तर्यामी तन्नियाम्यं च सर्वमेव+इत्युक्तम् । एवं च सति विधिनिषेधशास्त्राणाम् अधिकारी न दृश्यते । यः स्वबुद्ध्या+एव प्रवृत्तिनिवृत्तिशक्तः स एवं कुर्यान्न कुर्यादिति विधिनिषेधयोग्यः । न चैष दृश्यते । सर्वस्मिन् प्रवृत्तिजाते सर्वस्य प्रेरकः परमात्मा कारयितेति तस्य सर्वनियमनं प्रतिपादितम् । तथा च श्रूयते एष एव साधु कर्म कारयति ते यमेभ्यो लोकेभ्य उन्निनीषति । एष एवासाधु कर्म कारयति तं यम् अधो निनीषति+इति । साध्वसाधुकर्मकारयितृत्वान्नैर्घृण्यं च ।

(९०) अत्र+उच्यते सर्वेषामेव चेतनानां चिच्छक्तियोगः प्रवृत्तिशक्तियोग इत्यादि सर्वं प्रवृत्तिनिवृत्तिपरिकरं सामान्येन संविधाय तन्निर्वहणाय तदाधारो भूत्वा+अन्तः प्रविश्यानुमन्तृतया च नियमनं कुर्वञ् शेषित्वेनावस्थितः परमात्मैतदाहितशक्तिः सन्प्रवृत्तिनिवृत्त्यादि स्वयमेव कुरुते । एवं कुर्वाणम् ईक्षमाणः परमात्मोदासीन आस्ते । अतः सर्वम् उपपन्नम् । साध्वसाधुकर्मणोः कारयितृत्वं तु व्यवस्थितविषयं न सर्वसाधारणम् । यस्तु सर्वं स्वयमेवातिमात्रम् आनुकूल्ये प्रवृत्तस्तं प्रति प्रीतः स्वयमेव भगवान् कल्याणबुद्धियोगदानं कुर्वन् कल्याणे प्रवर्तयति । यः पुनरतिमात्रं प्रातिकूल्ये प्रवृत्तस्तस्य क्रूरां बुद्धिं ददन् स्वयमेव क्रूरेष्वेव कर्मसु प्रेरयति भगवान् । यथा+उक्तं भगवता

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन माम् उपयान्ति ते ॥ तेषामेवानुकम्पार्थं अहम् अज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रम् अशुभान् आसुरीष्वेव योनिषु ॥ इति ।

(९१) सो ऽयं परब्रह्मभूतः पुरुषोत्तमो निरतिशयपुण्यसंचयक्षीणाशेषजन्मोपचितपापराशेः परमपुरुषचरणारविन्दशरणागतिजनिततदभिमुख्यस्य सदाचार्योपदेशोपबृंहितशास्त्राधिगततत्त्वयाथात्म्यावबोधपूर्वकाहरहरुपचीयमानशमदमतपःशौचक्षमार्जवभयाभयस्थानविवेकदयाहिंसाद्यात्मगुणोपेतस्य वर्णाश्रमोचितपरमपुरुषाराधनवेषनित्यनैमित्तिककर्मोपसंहृतिनिषिद्धपरिहारनिष्टस्य परमपुरुषचरणारविन्दयुगलन्यस्तात्मात्मीयस्य तद्भक्तिकारितानवरतस्तुतिस्मृतिनमस्कृतिवन्दनयतनकीर्तनगुणश्रवणवचनध्यानार्चनप्रणामादिप्रीतपरमकारुणिकपुरुषोत्तमप्रसादविध्वस्तस्वान्तध्वान्तस्यानन्यप्रयोजनानवरतनिरतिशयप्रियविशदतमप्रत्यक्षतापन्नानुध्यानरूपभक्त्येकलभ्यः । तदुक्तं परमगुरुभिर्भगवद्यामुनाचार्यपादैः उभयपरिकर्मितस्वान्तस्यैकान्तिकात्यन्तिकभक्तियोगलभ्य इति । ज्ञानयोगकर्मयोगसंस्कृतान्तःकरणस्य+इत्यर्थः । तथा च श्रुतिः ।

विद्यां चाविद्यां च यस्तद्वेद+उभ्यं सह । अविद्यया मृत्युं तीर्त्वा विद्यया+अमृतम् अश्नुते ॥

इति । अत्राविद्याशब्देन विद्याइतरत्वाद्वर्णाश्रमाचारादि पूर्वोक्तं कर्म+उच्यते विद्याशब्देन च भक्तिरूपापन्नं ध्यानम् उच्यते । यथा+उक्तम्

इजाय सो ऽपि सुबहून्यज्ञाञ् ज्ञानव्यपाश्रयः । ब्रह्मविद्याम् अधिष्ठाय तर्तुं मृत्युम् अविद्यया ॥

इति । तमेवं विद्वान् अमृत इह भवति नान्यः पन्था अयनाय विद्यते । य एनं विदुरमृतास्ते भवन्ति । ब्रह्मविदाप्नोति परम् । सो यो ह वै तत्परं वेद ब्रह्म वेद ब्रह्मैव भवति+इत्यादि । वेदनशब्देन ध्यानमेवाभिहितम् । निदिध्यासितव्य इत्यादिना+ऐकार्थ्यात् । तदेव ध्यानं पुनरपि विशिनष्टि नायम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुधा श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् इति । भक्तिरूपापन्नानुध्यानेनैव लभ्यते न केवल,, वेदनामात्रेण न मेधयेति केवलस्य निषिद्धत्वात् ।

(९२) एतदुक्तं भवति यो ऽयं मुमुक्षुर्वेदान्तविहितवेदनरूपध्यानादिनिष्ठो यदा तस्य तस्मिन्नेवानुध्याने निरवधिकातिशया प्रीतिर्जायते तदा+एव तेन लभ्यते परः पुरुष इति । यथा+उक्तं भगवता

पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । भक्त्या त्वनन्यया शक्यो ऽहमेवंविधो ऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टं च परंतप ॥ भक्त्या माम् अभिजानाति यावान् यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥

इति । तदनन्तरं तत एव भक्तितो विशत इत्यर्थः । भक्तिरपि निरतिशयप्रियानन्यप्रयोजनसकलेतरवैतृष्ण्यावहज्ञानविशेष एव+इति । तद्युक्त एव तेन परेणात्मना वरणीयो भवति+इति तेन लभ्यत इति श्रुत्यर्थः । एवंविधपरभक्तिरूपज्ञानविशेषस्य+उत्पादकः पूर्वोक्ताहरहरुपचीयमानज्ञानपूर्वककर्मानुगृहीतभक्तियोग एव । यथोक्तं भगवता पराशरेण

वर्णाश्रमाचारवता पुरुषेण परः पुमान् । विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥

इति । निखिलजगदुद्धारणायावनितले ऽवतीर्णः परब्रह्मभूतः पुरुषोत्तमः स्वयमेवैतदुक्तवान्

स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥ यतः प्रवृत्तिर्भूतानां येन सर्वम् इदं ततम् । स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः ॥

इति । यथोदितक्रमपरिणतभक्त्येकलभ्य एव ।

(९३) बोधायनटङ्कद्रमिडगुहदेवकपर्दिभारुचिप्रभृत्यविगीतशिष्टपरिगृहीतपुरातनवेदवेदान्तव्याख्यानसुव्यक्तार्थश्रुतिनिकरनिदर्शितो ऽयं पन्थाः । अनेन चार्वाकशाक्यौलूक्याक्षपादक्षपणककपिलपतञ्जलिमतानुसारिणो वेदबाह्या वेदावलम्बिकुदृष्टिभिः सह निरस्ताः । वेदावलम्बिनाम् अपि यथावस्थितवस्तुविपर्ययस्ताडृशां बाह्यसाम्यं मनुना+एव+उक्तम्

यो वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वस्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥

इति । रजस्तमोभ्याम् अस्पृष्टम् उत्तमं सत्त्वमेव येषां स्वाभाविको गुणस्तेषामेव वैदिकी रुचिर्वेदार्थयाथात्म्यावबोधश्च+इत्यर्थः ।

(९४) यथोक्तं मात्स्ये

संकीर्णाः सात्त्विकाश्चैव राजसास्तामसास्तथा ।

इति । केचिद्ब्रह्मकल्पाः संकीर्णाः केचित्सत्त्वप्रायाः केचित्रजःप्राया केचित्तमःप्राया इति कल्पविभागम् उक्त्वा सत्त्वरजस्तमोमयानां तत्त्वानां माहात्म्यवर्णनं च तत्तत्कल्पप्रोक्तपुराणेषु सत्त्वादिगुणमयेन ब्रह्मणा क्रियत इति च+उक्तम्

यस्मिन् कल्पे तु यत्प्रोक्तं पुराणं ब्रह्मणा पुरा । तस्य तस्य तु माहात्म्यं तत्स्वरूपेण वर्ण्यते ॥

इति । विशेषतश्च+उक्तम्

अग्नेः शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते । राजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः ॥ सात्त्विकेषु च कल्पेषु माहात्म्यम् अधिकं हरेः । तेष्वेव योगसंसिद्धा गमिष्यन्ति परां गतिम् ॥ संकीर्णेषु सरस्वत्याः ॥॥॥॥॥॥॥॥॥॥॥। ॥

इत्यादि । एतदुक्तं भवति आदिक्षेत्रज्ञत्वाद्ब्रह्मणस्तस्यापि केषुचिदहस्सु सत्त्वमुद्रिकं केषुचिद्रजः केषुचित्तमः । यथोक्तं भगवता

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥

इति । यो ब्रह्मणं विदधति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मा इति श्रुतेः । ब्रह्मणो ऽपि सृज्यत्वेन शास्त्रवश्यत्वेन च क्षेत्रज्ञत्वं गम्यते । सत्त्वप्रायेष्वहस्सु तदितरेषु यानि पुराणानि ब्रह्मणा प्रोक्तानि तेषां परस्परविरोधे सति सात्त्विकाहःप्रोक्तमेव पुराणं यथार्थं तद्विरोध्यन्यदयथार्थम् इति पुराणनिर्णयायैव+इदं सत्त्वनिष्ठेन ब्रह्मणा+अभिहितम् इति विज्ञायत इति ।

सत्त्वादीनां कार्यं च भगवता+एव+उक्तम्

सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतो ऽज्ञानमेव च ॥ प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ यथा धर्मम् अधर्मं च कार्यं चाकार्यमेव च । अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ अधर्मं धर्मम् इति या मन्यते तमसावृता । सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥

इति ।

सर्वान् पुराणार्थान् ब्रह्मणः सकाशादधिगम्या+एव सर्वाणि पुराणानि पुराणकाराश्चक्रुः । यथोक्तम्

कथयामि यथा पूर्वं दक्षाद्यैर्मुनिसत्तमैः । पृष्टः प्रोवाच भगवान् अब्जयोनिः पितामहः ॥

इति ।

(९५) अपौरुषेयेषु वेदवाक्येषु परस्परविरुद्धेषु कथम् इति चेत् । तात्पर्यनिश्चयादविरोधः पूर्वमेव+उक्तः । यदपि चेदेवं विरुद्धवद्दृश्यते प्राणं मनसि सह कारणैर्नादान्ते परमात्मनि संप्रतिष्ठाय ध्यायीतव्यं प्रध्यायीतव्यं सर्वम् इदं, ब्रह्मविष्णुरुद्रास्ते सर्वे संप्रसूयन्ते, न कारणं, कारणं तु ध्यायः, सर्वैश्वर्यसंपन्नः सर्वेश्वरः शंभुराकाशमध्ये ध्येयः यस्मात्परं नापरम् अस्ति किंचिद्यस्मान्नाणीयो न ज्यायो ऽस्ति कश्चित् वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेन+इदं पूर्णं पुरुषेण सर्वं ततो यदुत्तरतरं तदरूपम् अनामयं य एतद्विदुरमृतास्ते भवन्ति, अथ+इतरे दुःखमेवापियन्ति

सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः । सर्वव्यापी च भगवांस्तस्मात्सर्वगतः शिवः ॥ यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासच्छिव एव केवलः । तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता पुराणी ॥

इत्यादि नारायणः परं ब्रह्म+इति च पूर्वमेव प्रतिपादितं, तेनास्य कथम् अविरोधः ।

(९६) अत्यल्पमेतत्

वेदवित्प्रवरप्रोक्तवाक्यन्यायोपबृंहिताः । वेदाः साङ्गा हरिं प्राहुर्जगज्जन्मादिकारणं ॥

जन्माद्यस्य यतः यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञानस्व तद्ब्रह्म+इति जगज्जन्मादिकारणं ब्रह्म+इत्यवगम्यते । तच्च जगत्सृष्टिप्रलयप्रकरणेष्ववगन्तव्यम् । सदेव सोम्य+इदम् अग्र आसीदेकमेवाद्वितीयम् इति जगदुपादानताजगन्निमित्तताजगदन्तर्यामितादिमुखेन परमकारणं सच्छब्देन प्रैत्पादितं ब्रह्म+इत्यवगतम् । अयमेवार्थः ब्रह्म वा इदमेकमेवाग्र आसीदिति शाखान्तरे ब्रह्मशब्देन प्रतिपदितः । अनेन सच्छब्देनाभिहितं ब्रह्म+इत्यवगतम् । अयमेवार्थस्तथा शाखान्तर आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषदिति सद्ब्रह्मशब्दाभ्याम् आत्मैवाभिहित इत्यवगम्यते । तथा च शाखान्तर एको ह वै नारायण आसीन्न ब्रह्म न+ईशानो न+इमे द्यावपृथिवी न नक्षत्राणि+इति सद्ब्रह्मात्मादिपरमकारणवादिभिः शब्दैर्नारायण एवाभिधीयत इति निश्चीयते ।

(९७) यम् अन्तः समुद्रे कवयो वयन्ति+इत्यादि नैनम् ऊर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत् । न तस्य+ईशे कश्चन तस्य नाम महद्यशः ॥ न संदृशे तिष्ठति रूपम् अस्य न चक्षुषा पश्यति कश्चनैनम्, हृदा मनीषा मनसा+अभिक्L्प्तो य एवं विदुरमृतास्ते भवन्ति+इति सर्वस्मात्परत्वम् अस्य प्रतिपाद्य, न तस्य+ईशे कश्चन+इति तस्मात्परं किम् अपि न विद्यत इति च प्रतिषिध्य, अद्भ्यः सम्भूतो हिरण्यगर्भ इत्यष्टाविति तेनैकवाक्यतां गमयति । तच्च महापुरुषप्रकरणं ह्रीश्च ते लक्ष्मीश्च पत्न्याविति च नारायण एव+इति द्योतयति ।

(९८) अयम् अर्थो नारायणानुवाके प्रपञ्चितः । सहस्रशीर्षं देवम् इत्यारभ्य स ब्रह्म स शिवः स+इन्द्रः सो ऽक्षरः परमः स्वराड् इति । सर्वशाखासु परतत्त्वप्रतिपादनपरान् अक्षरशिवशंभुपरब्रह्मपरज्योतिःपरतत्त्वपरायणपरमात्मादिसर्वशब्दांस्तत्तद्गुणयोगेन नारायण एव प्रयुज्य तद्व्यतिरिक्तस्य समस्तस्य तदाधारतां तन्नियाम्यतां तच्छेषतां तदात्मकतां च प्रतिपाद्य ब्रह्मशिवयोरपि+इन्द्रादिसमानाकारतया तद्विभूतित्वं च प्रतिपादितम् । इदं च वाक्यं केवलपरतत्त्वप्रतिपादनैकपरम् अन्यत्किंचिदप्यत्र न विधीयते ।

(९९) अस्मिन् वाक्ये प्रतिपादितस्य सर्वस्मात्परत्वेनावस्थितस्य ब्रह्मणो वाक्यान्तरेषु ब्रह्मविदाप्नोति परम् इत्यादिषु+उपासनादि विधीयते । अतः प्राणं मनसि सह करणैरित्यादि वाक्यं सर्वकारणे परमात्मनि करणप्राणादि सर्वं विकारजातम् उपसंहृत्य तमेव परमात्मानं सर्वस्य+ईशानं ध्यायीत+इति परब्रह्मभूतनारायणस्यैव ध्यानं विदधाति ।

(१००) पतिं विश्वस्य+इति न तस्य+ईशे कश्चन+इति च तस्यैव सर्वस्य+ईशानता प्रतिपादिता । अत एव सर्वैश्वर्यसंपन्नः सर्वेश्वरः शंभुराकाशमध्ये ध्येय इति नारायणस्यैव परमकारणस्य शंभुशब्दवाच्यस्य ध्यानं विधीयते । कश्च ध्येय इत्यारभ्य कारणं तु ध्येय इति कार्यस्याध्येयतापूर्वककारणैकध्येयतापरत्वाद्वाक्यस्य । तस्यैव नारायणस्य परमकारणता शंभुशब्दवाच्यता च परमकारणप्रतिपादनैकपरे नारायणानुवाक एव प्रतिपन्नेति तद्विरोध्यर्थान्तरपरिकल्पनं कारणस्यैव ध्येयत्वेन विधिवाक्ये न युज्यते ।

Tags: 1100CE Vedanta

Post navigation

Previous: Assize of Clarendon – Henry II – 1166
Next: Ramanuja Commentary (Gita Bhashya) on Bhagavad Gita
Pages: 1 2 3 4 5 6

Related Stories

Mahabhasya of Patanjali: Bengali Commentary By Tanmoy Bhattacharyya
  • Sanskrit Documents

 Pūrvatra asiddham (Patanjali Mahābhāṣya) Aṣṭādhyāyī-8.2.1

advtanmoy 10/03/2026
Mahabhasya of Patanjali: Bengali Commentary By Tanmoy Bhattacharyya
  • Sanskrit Documents

Vṛddhir Ādaich (Patanjali Mahābhāṣya) Aṣṭādhyāyī-1.1.1

advtanmoy 08/03/2026
Mahabhasya of Patanjali: Bengali Commentary By Tanmoy Bhattacharyya
  • Books

Patanjali Mahabhasya: Bengali Commentary by Tanmoy Bhattacharyya

advtanmoy 08/03/2026
Encyclopedia of Rashtriya Swayamsevak Sangh

Encyclopedia of Rashtriya Swayamsevak Sangh (13-Volume): History, Ideology and Organisation

The Encyclopedia of Chaitanya Mahaprabhu

Encyclopedia of Sree Krishna Chaitanya Bharati (12-Volume): The Golden Gouranga of Bengal

Encyclopedia of Macroscopic Human Social System Analysis

Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System

Encyclopedia of European Invasions in India

Encyclopedia of European Invasions in India (11-Volume): Colonialism, Resistance, and Restoration

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Deep Grammar of Civilization (13-Volume): What Are the Irreducible Components of Civilization?

Encyclopedia of Begging

Encyclopedia of Begging (6-Volume): A Global History of Asking, Giving, and Resource Acquisition

Encyclopedia of the Communist Party of China

Encyclopedia of the Communist Party of China (31-Volume): Making of Modern Chinese Civilization

Indo-Pakistan war 1971

Encyclopedia of the Indo–Pakistan War of 1971 (5-Volume): The Creation of Bangladesh

Sarvarthapedia

Encyclopedia of India’s Internal and External Intelligence System: Special Emphasis on the (R&AW)

The Encyclopedia of Political History of Bangladesh

Encyclopedia of Political History of Bangladesh (18-Volume): Identity, Liberation, And Democracy

Encyclopedia of Ecumenical Movements

Encyclopedia of Ecumenical Movements (21-Volume): History, Theology, Institutions and Dialogues

Encyclopedia of Dalit Christians and Their Theology

Encyclopedia of Dalit Christians and Their Theology (5-Volume): Crisis of Caste Culture within Christians in India

Encyclopedia of Indian Military Civilization

Encyclopedia of Indian Military Civilization (55-Volume): War Strategy and Armed Institutions From Antiquity to 2026

Sarvarthapedia

Ontology (25-Volume): Encyclopedia of All Known Conceptions of Reality and Existence

Synthesis-of-Greco-Roman-Ideologies-Shaping-Christianity and Historical Critiques of Christianity and Christian Theology

Encyclopedia of Historical Critiques of Christianity and Christian Theology: A (50-Volume) Research and Documentation

Sarvarthapedia Astronautical Engineering Knowledge Universe (SAEKU): A 250-Volume Master Reference for Space Science and Engineering

Astronautical Engineering Knowledge Universe: A 250-Volume Reference for Space Science and Engineering

Encyclopedia of Indian Economy

Encyclopedia of Indian Economy (56-Volume): A Civilisational Perspective

Encyclopedia of Constitution and Constitutional Law of the United Kingdom

Encyclopedia of Constitution and Constitutional Law of the United Kingdom (10-Volume): History and Development

Encyclopedia of Astrology

Encyclopedia of Astrology (15-Volume): The Human Quest to Predict the Future

Civilizational Encyclopedia of American Governance

Civilizational Encyclopedia of American Governance (100-Volume): Governing the American Government

Human rights conditions in the United States

Human Rights and United States (15-Volume): Violations, Resistance, and Global Impact

Civilizational History of North America

Civilizational History of North America (315-Volume): The Turtle Island and the American Imperium

Sarvarthapedia

Sarvarthapedia of Human Technological Civilization (12-Volume)

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Ultimate-Order Concepts (17-Volume): Fundamental Reason for Existence of Intelligence System

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Meta-Civilizational Architecture: How Complex Systems Survive

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Global Encyclopedia (180-Volume) of Intelligence, Espionage, and Counterintelligence

British Parliament

Encyclopedia of the British Parliamentary System: A 100-Volume Statement on British Politics

Encyclopedia of Global Capital Markets (100 Volumes): A Comprehensive Reference to Banking, Securities, Finance, and Investment Systems

The Global Capital Markets Encyclopedia (100-Volume): Reference on Finance, Banking, and Investment Systems

The Atlas of Self-Sabotage: A 12-Volume Encyclopedia of How Lives Quietly Go Wrong

The Atlas of Self-Sabotage: A 12-Volume Encyclopedia of How Lives Quietly Go Wrong

Encyclopedia of History of Ancient and Modern India

Encyclopedia of Ancient and Modern India: A 120-Volume Civilizational Knowledge System

Contemporary World History

Encyclopedia of Contemporary World History (2001–Present): A 100-Volume Statement on World System

Non-Proliferation of Nuclear Weapons: 12-Volume Reference and Research Architecture

Non-Proliferation of Nuclear Weapons: 12-Volume Reference and Research Architecture

Encyclopedia of American Law

Encyclopedia of American Law: 180‑Volume Statement on American Law

Roman empire and Law

Roman Empire Political History (15-Volume): Rise and Destruction (300 BCE – 1453 CE)

India

Encyclopedia of Contemporary Indian Politics: 111-Volume Statement on Indian Politics (1857–2026)

Encyclopedia of Psychology

Encyclopedia of Psychology (12-Volume): Of Mind, Behavior, and Society

Encyclopedia History of Pakistan (12-Volume): From Hindustan to an Islamic Republic

Encyclopedia History of Pakistan (12-Volume): From Hindustan to an Islamic Republic

Africa and African Union

Encyclopedia of African Studies (10-Volume): History, Culture, and Development

African Studies

African Studies, Synopsis (10-Volume) and How to Study Africa

Encyclopedia of Disease and Disease Detection

Encyclopedia of Disease and Disease Detection (12-Volume): Foundations, Technologies, and Clinical Applications

Sarvarthapedia

Encyclopedia of Religion, Faith, and Beliefs (12-Volume): History, Theology, Politics, and Conflict with Science 

Cyber Security

Cybersecurity Encyclopedia (Volume-8): From ENIAC to Modern Cyber Warfare and Data Protection Laws

Sanatan Dharma

Sarvarthapedia of Hindu Scriptures and Interpretation (10-Volume): From the Vedic Period up to 2026

Sarvarthapedia

Encyclopedia of Strategic Geography (13-Volume): Spatial Logic of Civilization 

Encyclopedia of Medical Science and Research

Encyclopedia of Medical Science and Research (7-Volume): Early Civilizations to Modern Healthcare Systems

Computer Science

Computer Science Encyclopedia (13-Volume): From Its Theoretical Origins Up To 2026

Sarvarthapedia

Anthropology (12-Volume): The Study of Humankind – From Origins to 2026

Sanatan Dharma

Encyclopedia of Sanatan Dharma: Society, Politics, Militia, Rituals, and Philosophy of Vedic Civilization

Encyclopedia of Panini Ashtadhyayi

Encyclopedia of Panini’s Ashtadhyayi: Reading of Panini Grammar (Sutra Path – सूत्र पाठः)

Encyclopedia of Indian Law

Indian Law Encyclopedia: 101-Volume Statement on Indian Law

  • Anosh Ekka v. CBI (2026 INSC 357): SC Grants Bail to Former Jharkhand Minister in CBI DA Case
  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Ram v. Sukhram: Tribal women’s right in ancestral property [2025] 8 SCR 272
  • Indian Constitution
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders

Genesis-1 (Bereshit-1) — Torah Reading: Bereshit Bara Elohim – The Creation of the World

An Introduction to the Rashtriya Swayamsevak Sangh

Swami Pranabananda and the Making of Shyama Prasad Mukherjee’s Early Political Outlook

18th Lok Sabha Election 2024 in West Bengal: Party Position and Elected Members

Sarvarthapedia: The Knowledge Universe of Civilization

Dakshineswar Bhabatarini Kali: Three Kali Idols, Rani Rashmoni, and Temple History

Sarvarthapedia

  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subjects
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia Meta-Concept
  • Contact Us
  • Privacy Policy
  • FAQs
  • NEET
  • Library Updates
2026 All rights reserved © Advocatetanmoy Law Library by advocatetanmoy.