वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ । आ॒दि॒त्यव॑र्णं॒ तम॑सस्तु॒ पा॒रे । सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वाऽभि॒वद॒न् यदास्ते᳚ । धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते ।
२,२३.१ Chhandogya Upanishad
- त्रयो धर्मस्कन्धाः ।
- यज्ञोऽध्ययनं दानमिति प्रथमः ।
- तप एव द्वितीयः ।
- ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन् ।
- सर्व एते पुण्यलोका भवन्ति । ब्रह्मसंस्थोऽमृतत्वमेति ॥ २,२३.१ ॥
भाष्य २,२३.१ ओङ्कारस्योपासनविध्यर्थं त्रयो धर्मस्कन्धा इत्याद्यारभ्यते ।
नैवं मनतव्यं सामावयवभूतस्यैवोद्गीथादिलक्षणस्योङ्कारस्योपासनात्फलं प्राप्यत इति ।
किं तर्हि?यत्सर्वैरपि सामोपासनैः कर्मभिश्चाप्राप्यं तत्फलममृतत्वं केवलादोङ्कारोपासनात्प्राप्यत इति ।
तत्स्तुत्यर्थं सामप्रकरणे तदुपन्यासः ।
त्रयस्रिसंख्याका धर्मस्य स्कन्धा धर्मस्कन्धाः धर्मविबागा इत्यर्थः ।
के त इत्याह यज्ञोऽग्निहोत्रादिः ।
अध्ययनं सनियमस्य ऋगादेरभ्यासः ।
दानं बहिर्वेदि यथाशक्तिद्रव्यसंविभागो भिक्षमाणेभ्यः । इत्येष प्रथमो धर्मस्कन्धः ।
गृहस्थसमवेतत्वात्तन्निर्वर्तकेन गृहस्थेन निर्दिश्यते प्रथम एक इत्यर्थो द्वितीयतृतीयश्रवणान्नाऽद्यार्थः ।
तप एव द्वितीयस्तप इति कृच्छ्रचान्द्रायणादि तद्वांस्तापसः परिव्राड्वा न ब्रह्मसंस्थ आश्रमधर्ममात्रसंस्थो॑ब्रह्मसंस्थस्य त्वमृतत्वश्रवणात् । द्वितीयो धर्मस्कन्धः ।
ब्रह्मचार्याचार्यकुले वस्तुं शीलमस्येत्याचार्यकुलवासी ।
अत्यन्तं यावज्जीवमात्मानं नियमैराचार्यकुलेऽवसादयन्क्षपयन्देहं तृतीयो धर्मस्कन्धः ।
अत्यन्तमित्यादिविशेषणान्नैष्ठिक इति गम्यते ।
उपकुर्वाणस्य स्वाध्यायग्रहणार्थत्वान्न पुण्यलोकत्वं ब्रह्मचर्येण ।
सर्व एते त्रयोऽप्याश्रमिणो यथोक्तैर्धर्मैः पुण्यलोका भवन्ति ।
पुण्यो लोको येषां त इमे पुण्यलोका आश्रमिणो भवन्ति ।
अवशिष्टस्त्वनुक्तः परिव्राड्ब्रह्मसंस्थो ब्रह्मणि सम्यक्स्थितः सोऽमृतत्वं पुण्यलोकविलक्षणममरणभावमात्यन्तिकमेति नाऽपेक्षिकं देवाद्यमृतत्ववत् ।
पुण्यलोकात्पृयगमृतत्वस्य विभागकरणात् ।
यदि च पुम्यलोकातिशयमात्रममृतत्वमभविष्यत्ततः पुण्यलोकत्वाद्विभक्तं नावक्ष्यत् ।
विभक्तेपदेशाच्चाऽत्यन्तिकममृतत्वमिति गम्यते ।
अत्र चाऽश्रमधर्मफलोपन्यासः प्रणवसेवास्तुत्यर्थं न तत्फलविध्यर्थम् ।
स्तुतये च प्रवमसेवाया आश्रमधर्मफलविधये चेति हि भिद्येत वाक्यम् ।
तस्मात्स्मृतिसिद्धाश्रमफलानुवादेन प्रणवसेवाफलममृतत्वं ब्रुवन्प्रणवसेवां स्तौति ।
यथा पूर्णवर्मणः सेवा भक्तपरिधानमात्रफला राजवर्मणस्तु सेवा राज्यतुल्यफलेति तद्वत् ।
प्रणवश्च तत्सत्यं परं ब्रह्म तत्प्रतीकत्वात् ।
“एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम्” इत्याद्याम्नायात्काठके युक्तं तत्सेवातोऽमृतत्वम् ।
चतुर्णामधिकृतत्वाविशेषात् ।
ब्रह्मसंस्थत्वेऽप्रतिषेधाच्च ।
स्वकर्मच्छिद्रे च ब्रह्मसंस्थतायां सामर्ध्योपपत्तेः ।
न च यववराहादिशब्दवद्ब्रह्मसंस्थशब्दः परिव्राजके रूढः ।
ब्रह्मणि संस्थितिनिमित्तमुपादाय प्रवृत्तत्वात् ।
न हि रूढिशब्दा निमित्तमुपाददते ।
सर्वेषां च ब्रह्मणि स्थितिरुपपद्यते ।
यत्र यत्र निमित्तमस्ति ब्रह्मणि संस्थितिस्तस्य तस्य निमित्तवतो वाचकं सन्तं ब्रह्मसंस्थशब्दं परिव्राडेकविषये संकोच कारणाभावान्निरोद्धुम युक्तम् ।
न च पारिव्राज्याश्रमधर्ममात्रेणामृतत्वम् ।
ज्ञानानर्थक्यप्रसङ्गात् ।
पारिव्राज्यधर्मयुक्तमेव ज्ञानममृतत्वसाधनमिति चेन्न ।
आश्रमधर्मत्वाविशेषात् ।
धर्मो वा ज्ञानविशिष्टोऽमृतत्वसाधनमित्येदपि सर्वाश्रमधर्माणामविशिष्टम् ।
न च वचनमस्ति परिव्राजकस्यैव ब्रह्मसंस्थस्य मोक्षो नान्येषामिति ।
ज्ञानान्मोक्ष इति च सर्वोपनिषदां सिद्धान्तः तस्माद्य एव ब्रह्मसंस्थः स्वाश्रमविहितकर्मवतां सोऽमृतत्वमेतीति ।
कुर्विदं मा कार्षीरिति कर्मविधयः प्रवृत्ताः ।
तच्च निमित्तं न शास्रकृतम् ।
सर्वप्राणिषु दर्शनात् ।
“सदेकमेवाद्वितीयं” “आत्मैवेदं सर्वं” “ब्रह्मैवेदं सर्वम्” इतिशास्रजन्यः प्रत्ययो विद्यारूपः स्वाभाविकं क्रियाकारकफलभेदप्रत्ययं कर्मविधिनिमित्तमनुपमृद्य न जायते ।
भेदाभेदप्रत्यययोर्विरोधात् ।
न हि तैमिरिकद्विचन्द्रादिभेदप्रत्ययमनुपमृद्य तिमिरापगमे चन्द्राद्येकत्वप्रत्यय उपजायते ।
विद्याविद्याप्रत्यययोर्विरोधात् ।
तत्रैवं सति यं भेदप्रत्ययमुपादाय कर्मविधयः प्रवृताः स यस्योपमर्दितः सदेकमेवाद्वितीयं तत्सत्यं विकारभेदोऽनृतमित्येतद्वाक्यप्रमाणजनितेनैकत्वप्रत्ययेन स सर्वकर्मभ्यो निवृत्तो निमित्तनिवृत्ते,स च निवृत्तकर्मा ब्रह्मसंस्थ उच्यते, स च परिव्राडेवान्यस्यासम्भवात् ।
अन्यो ह्यनिवृत्तभेदप्रत्ययः सोऽन्यत्पश्यञ्शृण्वन्मन्वानो विजानन्निदं कृत्वेदं प्राप्नुयामिति हि मन्यते ।
तस्यैवं कुर्वतो न ब्रह्मसंस्थता ।
वाचारम्भणमात्रविकारानृताभिसन्धिप्रत्ययत्वात् ।
न चासत्यमित्युपर्दिते भेदप्रत्यये सत्यमिदमनेन कर्तव्यं मयेति प्रमाणप्रमेयबुद्धिरुपपद्यते ।
आकाश इव तलमलबुद्धिर्विवेकिनः ।
उपमर्दितेऽपि भेदप्रत्यये कर्मभ्यो न निवर्तते चेत्प्रागिव भेदप्रत्ययोपमर्दनादेकत्वप्रत्ययविधायकं वाक्यमप्रमाणीकृतं स्यात् ।
अभक्ष्यभक्षणादिप्रतिषेधवाक्यानां प्रामाण्यवद्युक्तमेकत्ववाक्यस्यापि प्रामाण्यम् ।
सर्वोपनिषदां तत्परत्वात् ।
कर्मविधीनामप्रामाण अयप्रसङ्ग इति चेत् ।
न ।
अनुपमर्दितभेदप्रत्ययवत्पुरुषविषये प्रामाण्योपपत्तेः स्वप्नादिप्रत्यय इव प्राक्प्रबोधात् ।
विवेकिनामकरणात्कर्मविधिप्रामाण्योच्छेद इति चेत् ।
न ।
काम्यविध्यनुच्छेददर्शनात् ।
न हि कामात्मता न प्रशस्तेत्येवंविज्ञानवद्भिः काम्यानि कर्माणि नानुष्ठीयन्त इति काम्यकर्मविधय उच्छिद्यन्तेऽनुष्ठीयन्त एव कामिभिरिति ।
तथा ब्रह्मसंस्थैर्ब्रह्मविद्भिर्नानुष्ठीयन्ते कर्माणीति न तद्विधय उच्छिद्यन्तेऽब्रह्मविद्भिरनुष्ठीयन्त एवेति ।
परिव्रादकानां भिक्षाचरणादिवदुत्पन्नैकत्वप्रत्ययानामपि गृहस्थादीनामग्निहोत्रादिकर्मानिवृत्तिरिति चेन्न ।
प्रामाण्यचिन्तायां पुरुषप्रवृत्तेरदृष्टान्तत्वात् ।
न हि नाभिचरेदिति प्रतिषिद्धमप्यभिचरमं कश्चित्कुर्वन्दृष्ट इति शत्रौ द्वेषरहितेनापि विवेकिनाभिचरणं क्रियते ।
न च कर्मविधिप्रवृत्तिनिमित्ते भेदप्रत्यये बाधितेऽग्निहोत्रादौ प्रवर्तकं निमित्तमस्ति, परिव्राजकस्येव भिक्षाचरणादौ बुभुक्षादि प्रवर्तकम् ।
इहाप्यकरणे प्रत्यवायभयं प्रवर्तकमिति चेत् ।
न ।
भेदप्रत्ययवतोऽधिकृतत्वात् ।
भेदप्रत्ययवाननुपमर्दितभेदबुद्धिर्विद्यया यः स कर्मण्यधिकृत इत्यवोचाम ।
यो ह्यधिकृतः कर्मणि तस्य तदकरमे प्रत्यवायो न निवृत्ताधिकारस्य गृहस्थस्येव ब्रह्मचारिणो विशेषधर्माननुष्ठाने ।
एवं तर्हि सर्वः स्वाश्रमस्थ उत्पन्नेकत्वप्रत्ययः परिव्राडिति चेत् ।
न ।
स्वस्वामित्वभेदबुद्ध्यनिवृत्तेः ।
कर्मार्थत्वाच्चेतराश्रमाणाम् ।
“अथ कर्म कुर्वीय”इति श्रुतेः ।
तस्मात्स्वस्वामित्वाभावाद्भिक्षुरेक एव परिव्राट् ।
न गृहस्थादिः ।
एकत्वप्रत्ययविधिजनितेन प्रत्ययेन विधिनिमित्तभेदप्रत्ययस्योपमर्दितत्वाद्यमनियमाद्यनुपपत्तिः परिव्राजकस्येति चेत् ।
न ।
बुभुक्षादिनैकत्वप्रत्ययात्प्राच्यावितस्योपपत्तेर्निवृत्त्यर्थत्वात् ।
न च प्रतिषिद्धसेवाप्राप्तिः ।
एकत्वप्रत्ययोत्पत्तेः प्रागेव प्रतिषिद्धत्वात् ।
न हि रात्रौ कूपे कण्टके वा पतित उदितेऽपि सवितरि पतति तस्मिन्नेव ।
तस्मात्सिद्धं निवृत्तकर्मा भिक्षुक एव ब्रह्मसंस्थ इति ।
यत्पुनरुक्तं सर्वेषां ज्ञानवर्जितानां पुण्यलोकतेति ।
सत्यमेतत् ।
यच्चोक्तं तपःशब्देन परिव्राडप्युक्त इति ।
एतदसत् ।
कस्मात् ।
परिव्राजकस्यैव ब्रह्मसंस्थतासम्भवात् ।
स एव ह्यवशेषित इत्यवोचाम ।
एकत्वविज्ञानवतोऽग्निहोत्रादिवत्तपोनिवृत्तेश्च ।
भेदबुद्धिमत एव हि तपःकर्तव्यता स्यात् ।
एतेन कर्मच्छिद्रे ब्रह्मसंस्थतासामर्थ्यं अप्रतिषेधश्च प्रत्युक्तः ।
तथा ज्ञानवानेव निवृत्तकर्मा परिव्राडिति ज्ञानवैयर्थ्यं प्रत्युक्तम् ।
यत्पुनरुक्तं यववराहादिशब्दवत्परिव्राजके न रूढो ब्रह्मसंस्थशब्द इति तत्परिहृतम् ।
तस्यैव ब्रह्मसंस्थतासम्भवान्नान्यस्येति ।
यत्पुनरुक्तं रूढशब्दा निमित्तं नोपाददत इति ।
तन्न ।
गृहस्थतक्षपरिव्राजकादिशब्ददर्शनात् ।
गृहस्थितिपारिव्राज्यतक्षणादिनिमित्तोपादाना अपि गृहस्थपरिव्राजकाश्रमिविशेषे विशिष्टजातिमति च तक्षेति रूढा दृश्यन्ते शब्दाः ।
न यत्र यत्र तानि निमित्तानि तत्र तत्र वर्तन्ते ।
प्रसिद्ध्यभावात् ।
तथेहापि ब्रह्मसंस्थशब्दो निवृत्तसर्वकर्मतत्साधनपरिव्राडेकविषयेऽत्याश्रमिणि परमहंसाख्ये वृत्त इह भवितुमर्हति ।
मुख्यामृतत्वफलश्रवणात् ।
अतश्चेदमेवैकं वेदोक्तं पारिव्राज्यम् ।
न यज्ञोपवीतत्रिदण्डकमण्डल्वादिपरिग्रह इति ।
“मुण्डोऽपरिग्रहोऽसङ्ग”इति श्रुतिः”अत्याक्षमिब्यः परमं पवित्रम्” इत्यादि च श्वेताश्वतरीये ।
“निःस्तुतिर्निर्नमस्कार”इत्यादिस्मृतिभ्यश्च ।
“तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः” ।
“तस्मादलिङ्गो धर्मज्ञोऽव्यक्तलिङ्ग”इत्यादिस्मृतिभ्यश्च ।
यत्तु सांख्यैः कर्मत्यागोऽभ्युपगम्यते ।
क्रियाकारकफलभेदबुद्धेः सत्यत्वाभ्युपगमात्तन्मृषा ।
यच्च बौद्धैः शून्यताभ्युपगमादकर्तृत्वमभ्युपगम्यते ।
तदप्यसत् ।
तदभ्युपगन्तुः सत्त्वाभ्युपगमात् ।
यच्चाज्ञैरलसतयाकर्तृत्वाभ्युपगमः सोऽप्यसन्, कारकबुद्धेरनिवर्ततत्वात्प्रमाणेन ।
तस्माद्वेदान्तप्रमाणजनितैकत्वप्रत्ययवत एव कर्मनिवृत्तिलक्षणं पारिव्राज्यं ब्रह्मसंस्थत्वं चेति सिद्धम् ।
एतेन गृहस्थस्यैकत्वविज्ञाने सति पारिव्राज्यमर्थसिद्धम् ।
नन्वग्न्युत्सादनदोषभाक्स्यात्परिव्रजन् ।
“वीरहा वा एष देवानां योऽग्निमुद्वासयते”इति श्रुतेः ।
न ।
वेदेनैवोत्सादितत्वातुत्सन्न एव हि स एकत्वदर्शने जाते ।
अपागादग्नेरग्नित्वमिति श्रुतेः ।
अतो न दोषभाग्गृहस्थः परिव्रजन्निति ॥१ ॥
Commented By Acharya Samkara
![]()