Climax in the Balmiki Ramayana

HANUMAN :

६.१०१.००१ इति प्रतिसमादिष्टो हनूमान्मारुतात्मजः
६.१०१.००१ प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः
६.१०१.००२ प्रविश्य तु महातेजा रावणस्य निवेशनम्
६.१०१.००२ ददर्श शशिना हीनां सातङ्कामिव रोहिणीम्
६.१०१.००३ निभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य च
६.१०१.००३ रामस्य वचनं सर्वमाख्यातुमुपचक्रमे
६.१०१.००४ वैदेहि कुशली रामः ससुग्रीवः सलक्ष्मणः
६.१०१.००४ कुशलं चाह सिद्धार्थो हतशत्रुररिंदमः
६.१०१.००५ विभीषणसहायेन रामेण हरिभिः सह
६.१०१.००५ निहतो रावणो देवि लक्ष्मणस्य नयेन च
६.१०१.००६ पृष्ट्वा च कुशलं रामो वीरस्त्वां रघुनन्दनः
६.१०१.००६ अब्रवीत्परमप्रीतः कृतार्थेनान्तरात्मना
६.१०१.००७ प्रियमाख्यामि ते देवि त्वां तु भयः सभाजये
६.१०१.००७ दिष्ट्या जीवसि धर्मज्ञे जयेन मम संयुगे
६.१०१.००८ लब्धो नो विजयः सीते स्वस्था भव गतव्यथा
६.१०१.००८ रावणः स हतः शत्रुर्लङ्का चेयं वशे स्थिता
६.१०१.००९ मया ह्यलब्धनिद्रेण धृतेन तव निर्जये
६.१०१.००९ प्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ
६.१०१.०१० संभ्रमश्च न कर्तव्यो वर्तन्त्या रावणालये
६.१०१.०१० विभीषण विधेयं हि लङ्कैश्वर्यमिदं कृतम्
६.१०१.०११ तदाश्वसिहि विश्वस्ता स्वगृहे परिवर्तसे
६.१०१.०११ अयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः
६.१०१.०१२ एवमुक्ता समुत्पत्य सीता शशिनिभानना
६.१०१.०१२ प्रहर्षेणावरुद्धा सा व्याजहार न किं चन
६.१०१.०१३ अब्रवीच्च हरिश्रेष्ठः सीतामप्रतिजल्पतीम्
६.१०१.०१३ किं त्वं चिन्तयसे देवि किं च मां नाभिभाषसे
६.१०१.०१४ एवमुक्ता हनुमता सीता धर्मे व्यवस्थिता
६.१०१.०१४ अब्रवीत्परमप्रिता हर्षगद्गदया गिरा
६.१०१.०१५ प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम्
६.१०१.०१५ प्रहर्षवशमापन्ना निर्वाक्यास्मि क्षणान्तरम्
६.१०१.०१६ न हि पश्यामि सदृशं चिन्तयन्ती प्लवंगम
६.१०१.०१६ मत्प्रियाख्यानकस्येह तव प्रत्यभिनन्दनम्
६.१०१.०१७ न च पश्यामि तत्सौम्य पृथिव्यामपि वानर
६.१०१.०१७ सदृशं मत्प्रियाख्याने तव दातुं भवेत्समम्
६.१०१.०१८ हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च
६.१०१.०१८ राज्यं वा त्रिषु लोकेषु नैतदर्हति भाषितुम्
६.१०१.०१९ एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवंगमः
६.१०१.०१९ प्रगृहीताञ्जलिर्वाक्यं सीतायाः प्रमुखे स्थितः
६.१०१.०२० भर्तुः प्रियहिते युक्ते भर्तुर्विजयकाङ्क्षिणि
६.१०१.०२० स्निग्धमेवंविधं वाक्यं त्वमेवार्हसि भाषितुम्
६.१०१.०२१ तवैतद्वचनं सौम्ये सारवत्स्निग्धमेव च
६.१०१.०२१ रत्नौघाद्विविधाच्चापि देवराज्याद्विशिष्यते
६.१०१.०२२ अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः
६.१०१.०२२ हतशत्रुं विजयिनं रामं पश्यामि यत्स्थितम्
६.१०१.०२३ इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे
६.१०१.०२३ हन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा
६.१०१.०२४ क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम्
६.१०१.०२४ घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः
६.१०१.०२५ राक्षस्यो दारुणकथा वरमेतं प्रयच्छ मे
६.१०१.०२५ इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः
६.१०१.०२६ मुष्टिभिः पाणिभिश्चैव चरणैश्चैव शोभने
६.१०१.०२६ घोरैर्जानुप्रहारैश्च दशनानां च पातनैः
६.१०१.०२७ भक्षणैः कर्णनासानां केशानां लुञ्चनैस्तथा
६.१०१.०२७ भृशं शुष्कमुखीभिश्च दारुणैर्लङ्घनैर्हतैः
६.१०१.०२८ एवंप्रकारैर्बहुभिर्विप्रकारैर्यशस्विनि
६.१०१.०२८ हन्तुमिच्छाम्यहं देवि तवेमाः कृतकिल्बिषाः
६.१०१.०२९ एवमुक्ता महुमता वैदेही जनकात्मजा
६.१०१.०२९ उवाच धर्मसहितं हनूमन्तं यशस्विनी
६.१०१.०३० राजसंश्रयवश्यानां कुर्वतीनां पराज्ञया
६.१०१.०३० विधेयानां च दासीनां कः कुप्येद्वानरोत्तम
६.१०१.०३१ भाग्यवैषम्य योगेन पुरा दुश्चरितेन च
६.१०१.०३१ मयैतेत्प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते
६.१०१.०३२ प्राप्तव्यं तु दशा योगान्मयैतदिति निश्चितम्
६.१०१.०३२ दासीनां रावणस्याहं मर्षयामीह दुर्बला
६.१०१.०३३ आज्ञप्ता रावणेनैता राक्षस्यो मामतर्जयन्
६.१०१.०३३ हते तस्मिन्न कुर्युर्हि तर्जनं वानरोत्तम
६.१०१.०३४ अयं व्याघ्रसमीपे तु पुराणो धर्मसंहितः
६.१०१.०३४ ऋक्षेण गीतः श्लोको मे तं निबोध प्लवंगम
६.१०१.०३५ न परः पापमादत्ते परेषां पापकर्मणाम्
६.१०१.०३५ समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः
६.१०१.०३६ पापानां वा शुभानां वा वधार्हाणां प्लवंगम
६.१०१.०३६ कार्यं कारुण्यमार्येण न कश्चिन्नापराध्यति
६.१०१.०३७ लोकहिंसाविहाराणां रक्षसां कामरूपिणम्
६.१०१.०३७ कुर्वतामपि पापानि नैव कार्यमशोभनम्
६.१०१.०३८ एवमुक्तस्तु हनुमान् सीतया वाक्यकोविदः
६.१०१.०३८ प्रत्युवाच ततः सीतां रामपत्नीं यशस्विनीम्


SITA : 1

६.१०१.०३९ युक्ता रामस्य भवती धर्मपत्नी यशस्विनी
६.१०१.०३९ प्रतिसंदिश मां देवि गमिष्ये यत्र राघवः
६.१०१.०४० एवमुक्ता हनुमता वैदेही जनकात्मजा
६.१०१.०४० अब्रवीद्द्रष्टुमिच्छामि भर्तारं वानरोत्तम
६.१०१.०४१ तस्यास्तद्वचनं श्रुत्वा हनुमान् पवनात्मजः
६.१०१.०४१ हर्षयन्मैथिलीं वाक्यमुवाचेदं महाद्युतिः
६.१०१.०४२ पूर्णचन्द्राननं रामं द्रक्ष्यस्यार्ये सलक्ष्मणम्
६.१०१.०४२ स्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम्
६.१०१.०४३ तामेवमुक्त्वा राजन्तीं सीतां साक्षादिव श्रियम्
६.१०१.०४३ आजगाम महावेगो हनूमान् यत्र राघवः
६.१०२.००१ स उवाच महाप्रज्ञमभिगम्य प्लवंगमः
६.१०२.००१ रामं वचनमर्थज्ञो वरं सर्वधनुष्मताम्
६.१०२.००२ यन्निमित्तोऽयमारम्भः कर्मणां च फलोदयः
६.१०२.००२ तां देवीं शोकसंतप्तां मैथिलीं द्रष्टुमर्हसि
६.१०२.००३ सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा
६.१०२.००३ मैथिली विजयं श्रुत्वा तव हर्षमुपागमत्
६.१०२.००४ पूर्वकात्प्रत्ययाच्चाहमुक्तो विश्वस्तया तया
६.१०२.००४ भर्तारं द्रष्टुमिच्छामि कृतार्थं सहलक्ष्मणम्
६.१०२.००५ एवमुक्तो हनुमता रामो धर्मभृतां वरः
६.१०२.००५ अगच्छत्सहसा ध्यानमासीद्बाष्पपरिप्लुतः
६.१०२.००६ दीर्घमुष्णं च निश्वस्य मेदिनीमवलोकयन्
६.१०२.००६ उवाच मेघसंकाशं विभीषणमुपस्थितम्
६.१०२.००७ दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम्
६.१०२.००७ इह सीतां शिरःस्नातामुपस्थापय माचिरम्
६.१०२.००८ एवमुक्तस्तु रामेण त्वरमाणो विभीषणः
६.१०२.००८ प्रविश्यान्तःपुरं सीतां स्त्रीभिः स्वाभिरचोदयत्
६.१०२.००९ दिव्याङ्गरागा वैदेही दिव्याभरणभूषिता
६.१०२.००९ यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति
६.१०२.०१० एवमुक्ता तु वैदेही प्रत्युवाच विभीषणम्
६.१०२.०१० अस्नाता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप
६.१०२.०११ तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः
६.१०२.०११ यथाहं रामो भर्ता ते तत्तथा कर्तुमर्हसि
६.१०२.०१२ तस्य तद्वचनं श्रुत्वा मैथिली भ्रातृदेवता
६.१०२.०१२ भर्तृभक्तिव्रता साध्वी तथेति प्रत्यभाषत
६.१०२.०१३ ततः सीतां शिरःस्नातां युवतीभिरलंकृताम्
६.१०२.०१३ महार्हाभरणोपेतां महार्हाम्बरधारिणीम्
६.१०२.०१४ आरोप्य शिबिकां दीप्तां परार्ध्याम्बरसंवृताम्
६.१०२.०१४ रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः
६.१०२.०१५ सोऽभिगम्य महात्मानं ज्ञात्वाभिध्यानमास्थितम्
६.१०२.०१५ प्रणतश्च प्रहृष्टश्च प्राप्तां सीतां न्यवेदयत्
६.१०२.०१६ तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम्
६.१०२.०१६ हर्षो दैन्यं च रोषश्च त्रयं राघवमाविशत्


THE DOUBT

६.१०२.०१७ ततः पार्श्वगतं दृष्ट्वा सविमर्शं विचारयन्
६.१०२.०१७ विभीषणमिदं वाक्यमहृष्टो राघवोऽब्रवीत्
६.१०२.०१८ राक्षसाधिपते सौम्य नित्यं मद्विजये रत
६.१०२.०१८ वैदेही संनिकर्षं मे शीघ्रं समुपगच्छतु
६.१०२.०१९ स तद्वचनमाज्ञाय राघवस्य विभीषणः
६.१०२.०१९ तूर्णमुत्सारणे यत्नं कारयामास सर्वतः
६.१०२.०२० कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः
६.१०२.०२० उत्सारयन्तः पुरुषाः समन्तात्परिचक्रमुः
६.१०२.०२१ ऋक्षाणां वानराणां च राक्षसानां च सर्वतः
६.१०२.०२१ वृन्दान्युत्सार्यमाणानि दूरमुत्ससृजुस्ततः
६.१०२.०२२ तेषामुत्सार्यमाणानां सर्वेषां ध्वनिरुत्थितः
६.१०२.०२२ वायुनोद्वर्तमानस्य सागरस्येव निस्वनः
६.१०२.०२३ उत्सार्यमाणांस्तान् दृष्ट्वा समन्ताज्जातसंभ्रमान्
६.१०२.०२३ दाक्षिण्यात्तदमर्षाच्च वारयामास राघवः
६.१०२.०२४ संरब्धश्चाब्रवीद्रामश्चक्षुषा प्रदहन्निव
६.१०२.०२४ विभीषणं महाप्राज्ञं सोपालम्भमिदं वचः
६.१०२.०२५ किमर्थं मामनादृत्य कृश्यतेऽयं त्वया जनः
६.१०२.०२५ निवर्तयैनमुद्योगं जनोऽयं स्वजनो मम
६.१०२.०२६ न गृहाणि न वस्त्राणि न प्राकारास्तिरस्क्रियाः
६.१०२.०२६ नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियः
६.१०२.०२७ व्यसनेषु न कृच्छ्रेषु न युद्धे न स्वयं वरे
६.१०२.०२७ न क्रतौ नो विवाहे च दर्शनं दुष्यते स्त्रियः
६.१०२.०२८ सैषा युद्धगता चैव कृच्छ्रे महति च स्थिता
६.१०२.०२८ दर्शनेऽस्या न दोषः स्यान्मत्समीपे विशेषतः
६.१०२.०२९ तदानय समीपं मे शीघ्रमेनां विभीषण
६.१०२.०२९ सीता पश्यतु मामेषा सुहृद्गणवृतं स्थितम्
६.१०२.०३० एवमुक्तस्तु रामेण सविमर्शो विभीषणः
६.१०२.०३० रामस्योपानयत्सीतां संनिकर्षं विनीतवत्
६.१०२.०३१ ततो लक्ष्मणसुग्रीवौ हनूमांश्च प्लवंगमः
६.१०२.०३१ निशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम्
६.१०२.०३२ कलत्रनिरपेक्षैश्च इङ्गितैरस्य दारुणैः
६.१०२.०३२ अप्रीतमिव सीतायां तर्कयन्ति स्म राघवम्

६.१०२.०३३ लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली
६.१०२.०३३ विभीषणेनानुगता भर्तारं साभ्यवर्तत
६.१०२.०३४ सा वस्त्रसंरुद्धमुखी लज्जया जनसंसदि
६.१०२.०३४ रुरोदासाद्य भर्तारमार्यपुत्रेति भाषिणी
६.१०२.०३५ विस्मयाच्च प्रहर्षाच्च स्नेहाच्च परिदेवता
६.१०२.०३५ उदैक्षत मुखं भर्तुः सौम्यं सौम्यतरानना
६.१०२.०३६ अथ समपनुदन्मनःक्लमं सा॑ सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य
६.१०२.०३६ वदनमुदितपूर्णचन्द्रकान्तं॑ विमलशशाङ्कनिभानना तदासीत्
६.१०३.००१ तां तु पार्श्वे स्थितां प्रह्वां रामः संप्रेक्ष्य मैथिलीम्
६.१०३.००१ हृदयान्तर्गतक्रोधो व्याहर्तुमुपचक्रमे
६.१०३.००२ एषासि निर्जिता भद्रे शत्रुं जित्वा मया रणे
६.१०३.००२ पौरुषाद्यदनुष्ठेयं तदेतदुपपादितम्
६.१०३.००३ गतोऽस्म्यन्तममर्षस्य धर्षणा संप्रमार्जिता
६.१०३.००३ अवमानश्च शत्रुश्च मया युगपदुद्धृतौ
६.१०३.००४ अद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः
६.१०३.००४ अद्य तीर्णप्रतिज्ञत्वात्प्रभवामीह चात्मनः
६.१०३.००५ या त्वं विरहिता नीता चलचित्तेन रक्षसा
६.१०३.००५ दैवसंपादितो दोषो मानुषेण मया जितः
६.१०३.००६ संप्राप्तमवमानं यस्तेजसा न प्रमार्जति
६.१०३.००६ कस्तस्य पुरुषार्थोऽस्ति पुरुषस्याल्पतेजसः
६.१०३.००७ लङ्घनं च समुद्रस्य लङ्कायाश्चावमर्दनम्
६.१०३.००७ सफलं तस्य तच्छ्लाघ्यमद्य कर्म हनूमतः
६.१०३.००८ युद्धे विक्रमतश्चैव हितं मन्त्रयतश्च मे
६.१०३.००८ सुग्रीवस्य ससैन्यस्य सफलोऽद्य परिश्रमः
६.१०३.००९ निर्गुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः
६.१०३.००९ विभीषणस्य भक्तस्य सफलोऽद्य परिश्रमः
६.१०३.०१० इत्येवं ब्रुवतस्तस्य सीता रामस्य तद्वचः
६.१०३.०१० मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता
६.१०३.०११ पश्यतस्तां तु रामस्य भूयः क्रोधोऽभ्यवर्तत
६.१०३.०११ प्रभूताज्यावसिक्तस्य पावकस्येव दीप्यतः
६.१०३.०१२ स बद्ध्वा भ्रुकुटिं वक्त्रे तिर्यक्प्रेक्षितलोचनः
६.१०३.०१२ अब्रवीत्परुषं सीतां मध्ये वानररक्षसाम्

६.१०३.०१३ यत्कर्तव्यं मनुष्येण धर्षणां परिमार्जता
६.१०३.०१३ तत्कृतं सकलं सीते शत्रुहस्तादमर्षणात्
६.१०३.०१४ निर्जिता जीवलोकस्य तपसा भावितात्मना
६.१०३.०१४ अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक्
६.१०३.०१५ विदितश्चास्तु भद्रं ते योऽयं रणपरिश्रमः
६.१०३.०१५ स तीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः
६.१०३.०१६ रक्षता तु मया वृत्तमपवादं च सर्वशः
६.१०३.०१६ प्रख्यातस्यात्मवंशस्य न्यङ्गं च परिमार्जता
६.१०३.०१७ प्राप्तचारित्रसंदेहा मम प्रतिमुखे स्थिता
६.१०३.०१७ दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढम्
६.१०३.०१८ तद्गच्छ ह्यभ्यनुज्ञाता यतेष्टं जनकात्मजे
६.१०३.०१८ एता दश दिशो भद्रे कार्यमस्ति न मे त्वया
६.१०३.०१९ कः पुमान् हि कुले जातः स्त्रियं परगृहोषिताम्
६.१०३.०१९ तेजस्वि पुनरादद्यात्सुहृल्लेखेन चेतसा

६.१०३.०२० रावणाङ्कपरिभ्रष्टां दृष्टां दुष्टेन चक्षुषा
६.१०३.०२० कथं त्वां पुनरादद्यां कुलं व्यपदिशन्महत्
६.१०३.०२१ तदर्थं निर्जिता मे त्वं यशः प्रत्याहृतं मया
६.१०३.०२१ नास्ति मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामितः

६.१०३.०२२ इति प्रव्याहृतं भद्रे मयैतत्कृतबुद्धिना
६.१०३.०२२ लक्ष्मणे भरते वा त्वं कुरु बुद्धिं यथासुखम्
६.१०३.०२३ सुग्रीवे वानरेन्द्रे वा राक्षसेन्द्रे विभीषणे
६.१०३.०२३ निवेशय मनः शीते यथा वा सुखमात्मनः
६.१०३.०२४ न हि त्वां रावणो दृष्ट्वा दिव्यरूपां मनोरमाम्
६.१०३.०२४ मर्षयते चिरं सीते स्वगृहे परिवर्तिनीम्
६.१०३.०२५ ततः प्रियार्हश्वरणा तदप्रियं॑ प्रियादुपश्रुत्य चिरस्य मैथिली
६.१०३.०२५ मुमोच बाष्पं सुभृशं प्रवेपिता॑ गजेन्द्रहस्ताभिहतेव वल्लरी
६.१०४.००१ एवमुक्ता तु वैदेही परुषं लोमहर्षणम्
६.१०४.००१ राघवेण सरोषेण भृशं प्रव्यथिताभवत्
६.१०४.००२ सा तदश्रुतपूर्वं हि जने महति मैथिली
६.१०४.००२ श्रुत्वा भर्तृवचो रूक्षं लज्जया व्रीडिताभवत्
६.१०४.००३ प्रविशन्तीव गात्राणि स्वान्येव जनकात्मजा
६.१०४.००३ वाक्शल्यैस्तैः सशल्येव भृशमश्रूण्यवर्तयत्
६.१०४.००४ ततो बाष्पपरिक्लिष्टं प्रमार्जन्ती स्वमाननम्
६.१०४.००४ शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत्
६.१०४.००५ किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम्
६.१०४.००५ रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव
६.१०४.००६ न तथास्मि महाबाहो यथा त्वमवगच्छसि
६.१०४.००६ प्रत्ययं गच्छ मे स्वेन चारित्रेणैव ते शपे
६.१०४.००७ पृथक्स्त्रीणां प्रचारेण जातिं त्वं परिशङ्कसे
६.१०४.००७ परित्यजेमां शङ्कां तु यदि तेऽहं परीक्षिता
६.१०४.००८ यद्यहं गात्रसंस्पर्शं गतास्मि विवशा प्रभो
६.१०४.००८ कामकारो न मे तत्र दैवं तत्रापराध्यति
६.१०४.००९ मदधीनं तु यत्तन्मे हृदयं त्वयि वर्तते
६.१०४.००९ पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरा
६.१०४.०१० सहसंवृद्धभावाच्च संसर्गेण च मानद
६.१०४.०१० यद्यहं ते न विज्ञाता हता तेनास्मि शाश्वतम्
६.१०४.०११ प्रेषितस्ते यदा वीरो हनूमानवलोककः
६.१०४.०११ लङ्कास्थाहं त्वया वीर किं तदा न विसर्जिता
६.१०४.०१२ प्रत्यक्षं वानरेन्द्रस्य त्वद्वाक्यसमनन्तरम्
६.१०४.०१२ त्वया संत्यक्तया वीर त्यक्तं स्याज्जीवितं मया
६.१०४.०१३ न वृथा ते श्रमोऽयं स्यात्संशये न्यस्य जीवितम्
६.१०४.०१३ सुहृज्जनपरिक्लेशो न चायं निष्फलस्तव
६.१०४.०१४ त्वया तु नरशार्दूल क्रोधमेवानुवर्तता
६.१०४.०१४ लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम्
६.१०४.०१५ अपदेशेन जनकान्नोत्पत्तिर्वसुधातलात्
६.१०४.०१५ मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम्
६.१०४.०१६ न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः
६.१०४.०१६ मम भक्तिश्च शीलं च सर्वं ते पृष्ठतः कृतम्
६.१०४.०१७ एवं ब्रुवाणा रुदती बाष्पगद्गदभाषिणी
६.१०४.०१७ अब्रवील्लक्ष्मणं सीता दीनं ध्यानपरं स्थितम्
६.१०४.०१८ चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम्
६.१०४.०१८ मिथ्यापवादोपहता नाहं जीवितुमुत्सहे
६.१०४.०१९ अप्रीतस्य गुणैर्भर्तुस्त्यक्तया जनसंसदि
६.१०४.०१९ या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम्
६.१०४.०२० एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा
६.१०४.०२० अमर्षवशमापन्नो राघवाननमैक्षत
६.१०४.०२१ स विज्ञाय मनश्छन्दं रामस्याकारसूचितम्
६.१०४.०२१ चितां चकार सौमित्रिर्मते रामस्य वीर्यवान्
६.१०४.०२२ अधोमुखं ततो रामं शनैः कृत्वा प्रदक्षिणम्
६.१०४.०२२ उपासर्पत वैदेही दीप्यमानं हुताशनम्
६.१०४.०२३ प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली
६.१०४.०२३ बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः
६.१०४.०२४ यथा मे हृदयं नित्यं नापसर्पति राघवात्
६.१०४.०२४ तथा लोकस्य साक्षी मां सर्वतः पातु पावकः
६.१०४.०२५ एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम्
६.१०४.०२५ विवेश ज्वलनं दीप्तं निःसङ्गेनान्तरात्मना


AGNI :

६.१०४.०२६ जनः स सुमहांस्तत्र बालवृद्धसमाकुलः
६.१०४.०२६ ददर्श मैथिलीं तत्र प्रविशन्तीं हुताशनम्
६.१०४.०२७ तस्यामग्निं विशन्त्यां तु हाहेति विपुलः स्वनः
६.१०४.०२७ रक्षसां वानराणां च संबभूवाद्भुतोपमः
६.१०५.००१ ततो वैश्रवणो राजा यमश्चामित्रकर्शनः
६.१०५.००१ सहस्राक्षो महेन्द्रश्च वरुणश्च परंतपः
६.१०५.००२ षडर्धनयनः श्रीमान्महादेवो वृषध्वजः
६.१०५.००२ कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः
६.१०५.००३ एते सर्वे समागम्य विमानैः सूर्यसंनिभैः
६.१०५.००३ आगम्य नगरीं लङ्कामभिजग्मुश्च राघवम्
६.१०५.००४ ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान्
६.१०५.००४ अब्रुवंस्त्रिदशश्रेष्ठाः प्राञ्जलिं राघवं स्थितम्
६.१०५.००५ कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां वरः
६.१०५.००५ उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने
६.१०५.००५ कथं देवगणश्रेष्ठमात्मानं नावबुध्यसे
६.१०५.००६ ऋतधामा वसुः पूर्वं वसूनां च प्रजापतिः
६.१०५.००६ त्वं त्रयाणां हि लोकानामादिकर्ता स्वयंप्रभुः
६.१०५.००७ रुद्राणामष्टमो रुद्रः साध्यानामपि पञ्चमः
६.१०५.००७ अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी
६.१०५.००८ अन्ते चादौ च लोकानां दृश्यसे त्वं परंतप
६.१०५.००८ उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा
६.१०५.००९ इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः
६.१०५.००९ अब्रवीत्त्रिदशश्रेष्ठान् रामो धर्मभृतां वरः
६.१०५.०१० आत्मानं मानुषं मन्ये रामं दशरथात्मजम्
६.१०५.०१० योऽहं यस्य यतश्चाहं भगवांस्तद्ब्रवीतु मे
६.१०५.०११ इति ब्रुवाणं काकुत्स्थं ब्रह्मा ब्रह्मविदां वरः


RAMA:

६.१०५.०११ अब्रवीच्छृणु मे राम सत्यं सत्यपराक्रम
६.१०५.०१२ भवान्नारायणो देवः श्रीमांश्चक्रायुधो विभुः
६.१०५.०१२ एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित्
६.१०५.०१३ अक्षरं ब्रह्मसत्यं च मध्ये चान्ते च राघव
६.१०५.०१३ लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः
६.१०५.०१४ शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः
६.१०५.०१४ अजितः खड्गधृग्विष्णुः कृष्णश्चैव बृहद्बलः
६.१०५.०१५ सेनानीर्ग्रामणीश्च त्वं बुद्धिः सत्तं क्षमा दमः
६.१०५.०१५ प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः
६.१०५.०१६ इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत्
६.१०५.०१६ शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः
६.१०५.०१७ सहस्रशृङ्गो वेदात्मा शतजिह्वो महर्षभः
६.१०५.०१७ त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः परंतप
६.१०५.०१८ प्रभवं निधनं वा ते न विदुः को भवानिति
६.१०५.०१८ दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च
६.१०५.०१९ दिक्षु सर्वासु गगने पर्वतेषु वनेषु च
६.१०५.०१९ सहस्रचरणः श्रीमाञ्शतशीर्षः सहस्रधृक्
६.१०५.०२० त्वं धारयसि भूतानि वसुधां च सपर्वताम्
६.१०५.०२० अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः
६.१०५.०२१ त्रींल्लोकान् धारयन् राम देवगन्धर्वदानवान्
६.१०५.०२१ अहं ते हृदयं राम जिह्वा देवी सरस्वती
६.१०५.०२२ देवा गात्रेषु लोमानि निर्मिता ब्रह्मणा प्रभो
६.१०५.०२२ निमेषस्तेऽभवद्रात्रिरुन्मेषस्तेऽभवद्दिवा
६.१०५.०२३ संस्कारास्तेऽभवन् वेदा न तदस्ति त्वया विना
६.१०५.०२३ जगत्सर्वं शरीरं ते स्थैर्यम्ं ते वसुधातलम्
६.१०५.०२४ अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षण
६.१०५.०२४ त्वया लोकास्त्रयः क्रान्ताः पुराणे विक्रमैस्त्रिभिः
६.१०५.०२५ महेन्द्रश्च कृतो राजा बलिं बद्ध्वा महासुरम्
६.१०५.०२५ सीता लक्ष्मीर्भवान् विष्णुर्देवः कृष्णः प्रजापतिः
६.१०५.०२६ वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम्
६.१०५.०२६ तदिदं नः कृतं कार्यं त्वया धर्मभृतां वर
६.१०५.०२७ निहतो रावणो राम प्रहृष्टो दिवमाक्रम
६.१०५.०२७ अमोघं बलवीर्यं ते अमोघस्ते पराक्रमः
६.१०५.०२८ अमोघास्ते भविष्यन्ति भक्तिमन्तश्च ये नराः
६.१०५.०२८ ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम्
६.१०५.०२९ ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः
६.१०६.००१ एतच्छ्रुत्वा शुभं वाक्यं पितामहसमीरितम्
६.१०६.००१ अङ्केनादाय वैदेहीमुत्पपात विभावसुः
६.१०६.००२ तरुणादित्यसंकाशां तप्तकाञ्चनभूषणाम्
६.१०६.००२ रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम्
६.१०६.००३ अक्लिष्टमाल्याभरणां तथा रूपां मनस्विनीम्
६.१०६.००३ ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः


DASARATHA :

६.१०६.००४ अब्रवीच्च तदा रामं साक्षी लोकस्य पावकः
६.१०६.००४ एषा ते राम वैदेही पापमस्या न विद्यते
६.१०६.००५ नैव वाचा न मनसा नानुध्यानान्न चक्षुषा
६.१०६.००५ सुवृत्ता वृत्तशौण्डीरा न त्वामतिचचार ह
६.१०६.००६ रावणेनापनीतैषा वीर्योत्सिक्तेन रक्षसा
६.१०६.००६ त्वया विरहिता दीना विवशा निर्जनाद्वनात्
६.१०६.००७ रुद्धा चान्तःपुरे गुप्ता त्वक्चित्ता त्वत्परायणा
६.१०६.००७ रक्षिता राक्षसी संघैर्विकृतैर्घोरदर्शनैः
६.१०६.००८ प्रलोभ्यमाना विविधं भर्त्स्यमाना च मैथिली
६.१०६.००८ नाचिन्तयत तद्रक्षस्त्वद्गतेनान्तरात्मना
६.१०६.००९ विशुद्धभावां निष्पापां प्रतिगृह्णीष्व राघव
६.१०६.००९ न किं चिदभिधातव्यमहमाज्ञापयामि ते
६.१०६.०१० एवमुक्तो महातेजा धृतिमान् दृढविक्रमः
६.१०६.०१० अब्रवीत्त्रिदशश्रेष्ठं रामो धर्मभृतां वरः
६.१०६.०११ अवश्यं त्रिषु लोकेषु सीता पावनमर्हति
६.१०६.०११ दीर्घकालोषिता चेयं रावणान्तःपुरे शुभा
६.१०६.०१२ बालिशः खलु कामात्मा रामो दशरथात्मजः
६.१०६.०१२ इति वक्ष्यन्ति मां सन्तो जानकीमविशोध्य हि
६.१०६.०१३ अनन्यहृदयां भक्तां मच्चित्तपरिरक्षणीम्
६.१०६.०१३ अहमप्यवगच्छामि मैथिलीं जनकात्मजाम्
६.१०६.०१४ प्रत्ययार्थं तु लोकानां त्रयाणां सत्यसंश्रयः
६.१०६.०१४ उपेक्षे चापि वैदेहीं प्रविशन्तीं हुताशनम्
६.१०६.०१५ इमामपि विशालाक्षीं रक्षितां स्वेन तेजसा
६.१०६.०१५ रावणो नातिवर्तेत वेलामिव महोदधिः
६.१०६.०१६ न हि शक्तः स दुष्टात्मा मनसापि हि मैथिलीम्
६.१०६.०१६ प्रधर्षयितुमप्राप्तां दीप्तामग्निशिखामिव
६.१०६.०१७ नेयमर्हति चैश्वर्यं रावणान्तःपुरे शुभा
६.१०६.०१७ अनन्या हि मया सीतां भास्करेण प्रभा यथा
६.१०६.०१८ विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा
६.१०६.०१८ न हि हातुमियं शक्या कीर्तिरात्मवता यथा
६.१०६.०१९ अवश्यं च मया कार्यं सर्वेषां वो वचो हितम्
६.१०६.०१९ स्निग्धानां लोकमान्यानामेवं च ब्रुवतां हितम्
६.१०६.०२० इतीदमुक्त्वा वचनं महाबलैः॑ प्रशस्यमानः स्वकृतेन कर्मणा
६.१०६.०२० समेत्य रामः प्रियया महाबलः॑ सुखं सुखार्होऽनुबभूव राघवः
६.१०७.००१ एतच्छ्रुत्वा शुभं वाक्यं राघवेण सुभाषितम्
६.१०७.००१ इदं शुभतरं वाक्यं व्याजहार महेश्वरः
६.१०७.००२ पुष्कराक्ष महाबाहो महावक्षः परंतप
६.१०७.००२ दिष्ट्या कृतमिदं कर्म त्वया शस्त्रभृतां वर
६.१०७.००३ दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः
६.१०७.००३ अपावृत्तं त्वया संख्ये राम रावणजं भयम्
६.१०७.००४ आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम्
६.१०७.००४ कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम्
६.१०७.००५ प्राप्य राज्यमयोध्यायां नन्दयित्वा सुहृज्जनम्
६.१०७.००५ इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल
६.१०७.००६ इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः
६.१०७.००६ ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि
६.१०७.००७ एष राजा विमानस्थः पिता दशरथस्तव
६.१०७.००७ काकुत्स्थ मानुषे लोके गुरुस्तव महायशाः
६.१०७.००८ इन्द्रलोकं गतः श्रीमांस्त्वया पुत्रेण तारितः
६.१०७.००८ लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय
६.१०७.००९ महादेववचः श्रुत्वा काकुत्स्थः सहलक्ष्मणः
६.१०७.००९ विमानशिखरस्थस्य प्रणाममकरोत्पितुः
६.१०७.०१० दीप्यमानं स्वयां लक्ष्म्या विरजोऽम्बरधारिणम्
६.१०७.०१० लक्ष्मणेन सह भ्रात्रा ददर्श पितरं प्रभुः
६.१०७.०११ हर्षेण महताविष्टो विमानस्थो महीपतिः
६.१०७.०११ प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस्तदा
६.१०७.०१२ आरोप्याङ्कं महाबाहुर्वरासनगतः प्रभुः
६.१०७.०१२ बाहुभ्यां संपरिष्वज्य ततो वाक्यं समाददे
६.१०७.०१३ न मे स्वर्गो बहुमतः संमानश्च सुरर्षिभिः
६.१०७.०१३ त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते
६.१०७.०१४ कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर
६.१०७.०१४ तव प्रव्राजनार्थानि स्थितानि हृदये मम
६.१०७.०१५ त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम्
६.१०७.०१५ अद्य दुःखाद्विमुक्तोऽस्मि नीहारादिव भास्करः
६.१०७.०१६ तारितोऽहं त्वया पुत्र सुपुत्रेण महात्मना
६.१०७.०१६ अष्टावक्रेण धर्मात्मा तारितो ब्राह्मणो यथा
६.१०७.०१७ इदानीं च विजानामि यथा सौम्य सुरेश्वरैः
६.१०७.०१७ वधार्थं रावणस्येह विहितं पुरुषोत्तमम्
६.१०७.०१८ सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम्
६.१०७.०१८ वनान्निवृत्तं संहृष्टा द्रक्ष्यते शत्रुसूदन
६.१०७.०१९ सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम्
६.१०७.०१९ जलार्द्रमभिषिक्तं च द्रक्ष्यन्ति वसुधाधिपम्
६.१०७.०२० अनुरक्तेन बलिना शुचिना धर्मचारिणा
६.१०७.०२० इच्छेयं त्वामहं द्रष्टुं भरतेन समागतम्
६.१०७.०२१ चतुर्दशसमाः सौम्य वने निर्यापितास्त्वया
६.१०७.०२१ वसता सीतया सार्धं लक्ष्मणेन च धीमता
६.१०७.०२२ निवृत्तवनवासोऽसि प्रतिज्ञा सफला कृता
६.१०७.०२२ रावणं च रणे हत्वा देवास्ते परितोषिताः
६.१०७.०२३ कृतं कर्म यशः श्लाघ्यं प्राप्तं ते शत्रुसूदन
६.१०७.०२३ भ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि
६.१०७.०२४ इति ब्रुवाणं राजानं रामः प्राञ्जलिरब्रवीत्
६.१०७.०२४ कुरु प्रसादं धर्मज्ञ कैकेय्या भरतस्य च
६.१०७.०२५ सपुत्रां त्वां त्यजामीति यदुक्ता कैकयी त्वया
६.१०७.०२५ स शापः कैकयीं घोरः सपुत्रां न स्पृशेत्प्रभो
६.१०७.०२६ स तथेति महाराजो राममुक्त्वा कृताञ्जलिम्
६.१०७.०२६ लक्ष्मणं च परिष्वज्य पुनर्वाक्यमुवाच ह
६.१०७.०२७ रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया
६.१०७.०२७ कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते
६.१०७.०२८ धर्मं प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुवि
६.१०७.०२८ रामे प्रसन्ने स्वर्गं च महिमानं तथैव च
६.१०७.०२९ रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन
६.१०७.०२९ रामः सर्वस्य लोकस्य शुभेष्वभिरतः सदा
६.१०७.०३० एते सेन्द्रास्त्रयो लोकाः सिद्धाश्च परमर्षयः
६.१०७.०३० अभिगम्य महात्मानमर्चन्ति पुरुषोत्तमम्
६.१०७.०३१ एतत्तदुक्तमव्यक्तमक्षरं ब्रह्मनिर्मितम्
६.१०७.०३१ देवानां हृदयं सौम्य गुह्यं रामः परंतपः
६.१०७.०३२ अवाप्तं धर्मचरणं यशश्च विपुलं त्वया
६.१०७.०३२ रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया
६.१०७.०३३ स तथोक्त्वा महाबाहुर्लक्ष्मणं प्राञ्जलिं स्थितम्
६.१०७.०३३ उवाच राजा धर्मात्मा वैदेहीं वचनं शुभम्
६.१०७.०३४ कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति
६.१०७.०३४ रामेण त्वद्विशुद्ध्यर्थं कृतमेतद्धितैषिणा
६.१०७.०३५ न त्वं सुभ्रु समाधेया पतिशुश्रूवणं प्रति
६.१०७.०३५ अवश्यं तु मया वाच्यमेष ते दैवतं परम्
६.१०७.०३६ इति प्रतिसमादिश्य पुत्रौ सीतां तथा स्नुषाम्
६.१०७.०३६ इन्द्रलोकं विमानेन ययौ दशरथो ज्वलन्
६.१०८.००१ प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः
६.१०८.००१ अब्रवीत्परमप्रीतो राघवं प्राञ्जलिं स्थितम्
६.१०८.००२ अमोघं दर्शनं राम तवास्माकं परंतप
६.१०८.००२ प्रीतियुक्तोऽस्मि तेन त्वं ब्रूहि यन्मनसेच्छसि
६.१०८.००३ एवमुक्तस्तु काकुत्स्थः प्रत्युवाच कृताञ्जलिः
६.१०८.००३ लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया
६.१०८.००४ यदि प्रीतिः समुत्पन्ना मयि सर्वसुरेश्वर
६.१०८.००४ वक्ष्यामि कुरु मे सत्यं वचनं वदतां वर
६.१०८.००५ मम हेतोः पराक्रान्ता ये गता यमसादनम्
६.१०८.००५ ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः
६.१०८.००६ मत्प्रियेष्वभिरक्ताश्च न मृत्युं गणयन्ति च
६.१०८.००६ त्वत्प्रसादात्समेयुस्ते वरमेतदहं वृणे
६.१०८.००७ नीरुजान्निर्व्रणांश्चैव संपन्नबलपौरुषान्
६.१०८.००७ गोलाङ्गूलांस्तथैवर्क्षान् द्रष्टुमिच्छामि मानद
६.१०८.००८ अकाले चापि मुख्यानि मूलानि च फलानि च
६.१०८.००८ नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः
६.१०८.००९ श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः
६.१०८.००९ महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिलक्षणम्
६.१०८.०१० महानयं वरस्तात त्वयोक्तो रघुनन्दन
६.१०८.०१० समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा