Pitre Yagna in Shatapatha Brahman (पितृयज्ञ): Being and Becoming
Home » Law Library Updates » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » Vedic Sanskrit Culture » Pitre Yagna in Shatapatha Brahman (पितृयज्ञ): Being and Becoming
Science of Being and Becoming in Shatapatha Brahman

२.६.१. पितृयज्ञः
महाहविषा ह वै देवा वृत्रं जघ्नुः । तेनो एव व्यजयन्त येयमेषां विजितिस्तामथ यानेवैषां तस्मिन्त्संग्रामेऽघ्नंस्तान्पितृयज्ञेन समैरयन्त पितरो वै त आसंस्तस्मात्पितृयज्ञो नाम – २.६.१.[१]
तद्वसन्तो ग्रीष्मो वर्षाः । एते ते ये व्यजयन्त शरद्धेमन्तः शिशिरस्त उ ते यान्पुनः समैरयन्त – २.६.१.[२]
Read Next
अथ यदेष एतेन यजते । तन्नाह न्वेवैतस्य तथा कं चन घ्नन्तीति देवा अकुर्वन्निति न्वेवैष एतत्करोति यमु चैवैभ्यो देवा भागमकल्पयंस्तमु चैवैभ्य एष एतद्भागं करोति यानु चैव देवाः समैरयन्त तानु चैवैतदवति स्वानु चैवैतत्पितॄंञ्छ्रेयांसं लोकमुपोन्नयति यदु चैवास्यात्रात्मनोऽचरणेन हन्यते वा मीयते वा तदु चैवास्यैतेन पुनराप्यायते तस्माद्वा एष एतेन यजते – २.६.१.[३]
स पितृभ्यः सोमवद्भ्यः । षट्कपालं पुरोडाशं निवपति सोमाय वा पितृमते षड्वा ऋतव ऋतवः पितरस्तस्मात्षट्कपालो भवति – २.६.१.[४]
अथ पितृभ्यो बर्हिषद्भ्यः । अन्वाहार्यपचने धानाः कुर्वन्ति ततोऽर्धाः पिंषन्त्यर्धा इत्येव धाना अपिष्टा भवन्ति ता धानाः पितृभ्यो बर्हिषद्भ्यः – २.६.१.[५]
अथ पितृभ्योऽग्निष्वात्तेभ्यः । निवान्यायै दुग्धे सकृदुपमथित एकशलाकया मन्थो भवति सकृदु ह्येव पराञ्चः पितरस्तस्मात्सकृदुपमथितो भवत्येतानि हवींषि भवन्ति – २.६.१.[६]
Read Next
तद्ये सोमेनेजानाः । ते पितरः सोमवन्तोऽथ ये दत्तेन पक्वेन लोकं जयन्ति ते पितरो बर्हिषदोऽथ ये ततो नान्यतरच्चन यानग्निरेव दहन्त्स्वदयति ते पितरोऽग्निष्वात्ता एत उ ये पितरः – २.६.१.[७]
स जघनेन गार्हपत्यम् । प्राचीनावीती भूत्वा दक्षिणासीन एतं षट्कपालम्पुरोडाशं गृह्णाति स तत एवोपोत्थायोत्तरेणान्वाहार्यपचनं दक्षिणा तिष्ठन्नवहन्ति सकृत्फलीकरोति सकृदु ह्येव पराञ्चः पितरस्तस्मात्सकृत्फलीकरोति – २.६.१.[८]
स दक्षिणैव दृषदुपले उपदधाति । दक्षिणार्धे गार्हपत्यस्य षट् कपालान्युपदधाति तद्यदेतां दक्षिणां दिशं सचन्त एषा हि दिक्पितॄणां तस्मादेतां दक्षिणां दिशं सचन्ते – २.६.१.[९]
Read Next
अथ दक्षिणेनान्वाहार्यपचनम् । चतुःस्रक्तिं वेदिं करोत्यवान्तरदिशोऽनु स्रक्तीः करोति चतस्रो वा अवान्तरदिशोऽवान्तरदिशो वै पितरस्तस्मादवान्तरदिशोऽनु स्रक्तीः करोति – २.६.१.[१०]
तन्मध्येऽग्निं समादधाति । पुरस्ताद्वै देवाः प्रत्यञ्चो मनुष्यानभ्युपावृत्तास्तस्मात्तेभ्यः प्राङ्तिष्ठञ्जुहोति सर्वतः पितरोऽवान्तरदिशो वै पितरः सर्वत इव हीमा अवान्तरदिशस्तस्मान्मध्येऽग्निं समादधाति – २.६.१.[११]
स तत एव प्राक्स्तम्बयजुर्हरति । स्तम्बयजुर्हुत्वाथेत्येवाग्रे परिगृह्णात्यथेत्यथेति पूर्वेण परिग्रहेण परिगृह्य लिखति हरति यद्धार्यम्भवति स तथैवोत्तरेण परिग्रहेण परिगृह्णात्युत्तरेण परिग्रहेण परिगृह्य प्रतिमृज्याह प्रोक्षणीरासादयेत्यासादयन्ति प्रोक्षणीरिध्मं बर्हिरुपसादयन्ति स्रुचः सम्मार्ष्ट्याज्येनोदैति स यज्ञोपवीती भूत्वाऽऽज्यानि गृह्णाति – २.६.१.[१२]
तदाहुः । द्विरुपभृति गृह्णीयाद्द्वौ ह्यत्रानुयाजौ भवत इति तद्वष्टावेव कृत्व उपभृति गृह्णीयान्नेद्यज्ञस्य विधाया अयानीति तस्मादष्टावेव कृत्व उपभृति गृह्णीयादाज्यानि गृहीत्वा स पुनः प्राचीनावीती भूत्वा – २.६.१.[१३]
प्रोक्षणीरध्वर्युरादत्ते । स इध्ममेवाग्रे प्रोक्षत्यथ वेदिमथास्मै बर्हिः प्रयच्छन्ति तत्पुरस्ताद्ग्रन्थ्यासादयति तत्प्रोक्ष्योपनिनीय विस्रंस्य ग्रन्थिं न प्रस्तरं गृह्णाति सकृदु ह्येव पराञ्चः पितरस्तस्मान्न प्रस्तरं गृह्णाति – २.६.१.[१४]
अथ संनहनमनुविस्रंस्य । अपसलवि त्रिः परिस्तृणन्पर्येति सोऽपसलवि त्रिःपरिस्तीर्य यावत्प्रस्तरभाजनं तावत्परिशिनष्ट्यथ पुनः प्रसलवि त्रिः पर्येति यत्पुनः प्रसलवि त्रिः पर्येति तद्यानेवामूंस्त्रयान्पितॄनन्ववागात्तेभ्य एवैतत्पुनरपोदेतीमं स्वं लोकमभि तस्मात्पुनः प्रसलवि त्रिः पर्येति – २.६.१.[१५]
स दक्षिणैव परिधीन्परिदधाति । दक्षिणा प्रस्तरं स्तृणाति नान्तर्दधाति विधृती सकृदु ह्येव पराञ्चः पितरस्तस्मान्नान्तर्दधाति विधृती – २.६.१.[१६]
स तत्र जुहूमासादयति । अथ पूर्वामुपभृतमथ ध्रुवामथ पुरोडाशमथ धाना अथ मन्थमासाद्य हवींषि सम्मृशति – २.६.१.[१७]
ते सर्व एव यज्ञोपवीतिनो भूत्वा । इत्थाद्यजमानश्च ब्रह्मा च पश्चात्परीतः पुरस्तादग्नीत् – २.६.१.[१८]
तेनोपांशु चरन्ति । तिरैव वै पितरस्तिर इवैतद्यदुपांशु तस्मादुपांशु चरन्ति – २.६.१.[१९]
परिवृते चरन्ति । तिर इव वै पितरस्तिर इवैतद्यत्परिवृतं तस्मात्परिवृते चरन्ति – २.६.१.[२०]
अथेध्ममभ्यादधदाह । अग्नये समिध्यमानायानुब्रूहीति स एकामेव होता सामिधेनीं त्रिरन्वाह सकृदु ह्येव पराञ्चः पितरस्तस्मादेकां होता सामिधेनीं त्रिरन्वाह – २.६.१.[२१]
सोऽन्वाह । उशन्तस्त्वा निधीमह्युशन्तः समिधीमहि उशन्नुशत आवह पितॄन्हविषे अत्तव इत्यथाग्निमावह सोममावह पितॄन्त्सोमवत आवह पितॄन्बर्हिषद आवह पितॄनग्निष्वात्तानावह देवां३ आज्यपां३ आवहाग्निं होत्रायावह स्वं महिमानमावहेत्यावाह्योपविशति – २.६.१.[२२]
अथाश्राव्य न होतारं प्रवृणीते । पितृयज्ञो वा अयं नेद्धोतारं पितृषु दधानीति तस्मान्न होतारं प्रवृणीते सीद होतरित्येवाहोपविशति होता होतृषदन उपविश्य प्रसौति प्रसूतोऽध्वर्युः स्रुचावादाय प्रत्यङ्ङतिक्रामत्यतिक्रम्याश्राव्याह समिधो यजेति सोऽपबर्हिषश्चतुरः प्रयाजान्यजति प्रजा वै बर्हिर्नेत्प्रजाः पितृषु दधानीति तस्मादपबर्हिषश्चतुरः प्रयाजान्यजत्यथाज्यभागाभ्यां चरन्त्याज्यभागाभ्यां चरित्वा – २.६.१.[२३]
ते सर्व एव प्राचीनावीतिनो भूत्वा । एतैर्वै हविर्भिः प्रचरिष्यन्त इत्थाद्यजमानश्च ब्रह्मा च पुरस्तात्परीतः पश्चादग्नीत्तदुताश्रावयन्त्यों३ स्वधेत्यस्तु स्वधेति प्रत्याश्रावणं स्वधा नम इति वषट्कारः – २.६.१.[२४]
तदु होवाचासुरिः । आश्रावयेयुरेव प्रत्याश्रावयेयुर्वषट्कुर्युर्नेद्यज्ञस्य विधाया अयामेति – २.६.१.[२५]
अथाह पितृभ्यः सोमवद्भ्योऽनुब्रूहीति । सोमाय वा पितृमते स द्वे पुरोऽनुवाक्ये अन्वाहैकया वै देवान्प्रच्यावयन्ति द्वाभ्यां पितॄन्त्सकृदु ह्येव पराञ्चः पितरस्तस्माद्द्वे पुरोऽनुवाक्ये अन्वाह – २.६.१.[२६]
स उपस्तृणीत आज्यम् । अथास्य पुरोडाशस्यावद्यति स तेनैव सह धानानां तेन सह मन्थस्य तत्सकृदवदधात्यथोपरिष्टाद्द्विराज्यस्याभिघारयति प्रत्यनक्त्यवदानानि नातिक्रामतीत एवोपोत्थायाश्राव्याह पितॄन्त्सोमवतो यजेति वषट्कृते जुहोति – २.६.१.[२७]
अथाह पितृभ्यो बर्हिषद्भ्योऽनुब्रूहीति । स उपस्तृणीत आज्यमथासां धानानामवद्यति स तेनैव सह मन्थस्य तेन सह पुरोडाशस्य तत्सकृदवदधात्यथोपरिष्टाद्द्विराज्यस्याभिघारयति प्रत्यनक्त्यवदानानि नातिक्रामतीत एवोपोत्थायाश्राव्याह पितॄन्बर्हिषदो यजेति वषट्कृते जुहोति – २.६.१.[२८]
अथाह पितृभ्योऽग्निष्वात्तेभ्योऽनुब्रूहीति । स उपस्तृणीत आज्यमथास्य मन्थस्यावद्यति स तेनैव सह पुरोडाशस्य तेन सह धानानां तत्सकृदवदधात्यथोपरिष्टाद्द्विराज्यस्याभिघारयति प्रत्यनक्त्यवदानानि नातिक्रामतीत एवोपोत्थायाश्राव्याह पितॄनग्निष्वात्तान्यजेति वषट्कृते जुहोति – २.६.१.[२९]
अथाहाग्नये कव्यवाहनायानुब्रूहीति । तत्स्विष्टकृते हव्यवाहनो वै देवानां कव्यवाहनः पितॄणां तस्मादाहाग्नये कव्यवाहनायानुब्रूहीति – २.६.१.[३०]
स उपस्तृणीत आज्यम् । अथास्य पुरोडाशस्यावद्यति स तेनैव सह धानानां तेन सह मन्थस्य तत्सकृदवदधात्यथोपरिष्टाद्द्विराज्यस्याभिघारयति न प्रत्यनक्त्यवदानानि नातिक्रामतीत एवोपोत्थायाश्राव्याहाग्निं कव्यवाहनं यजेति वषट्कृते जुहोति – २.६.१.[३१]
स यन्नातिक्रामति । इत एवोपोत्थायं जुहोति सकृदु ह्येव पराञ्चः पितरोऽथ यत्सकृत्सर्वेषां समवद्यति सकृदु ह्येव पराञ्चः पितरोऽथ यद्व्यतिषङ्गमवदानान्यवद्यत्यृतवो वै पितर ऋतूनेवैतद्व्यतिषजत्यृतून्त्संदधाति तस्माद्व्यति षङ्गमवदानान्यवद्यति – २.६.१.[३२]
तद्धैके । एतमेव होत्रे मन्थमादधति तं होतोपहूयावैव जिघ्रति तं ब्रह्मणे प्रयच्छति तं ब्रह्मावैव जिघ्रति तमग्नीधे प्रयच्छति तमग्नीदवैव जिघ्रत्येतन्न्वेवैतत्कुर्वन्ति यथा त्वेवेतरस्य यज्ञस्येडा प्राशित्रं समवद्यन्त्येवमेवैतस्यापि समवद्येयुस्तामुपहूयावैव जिघ्रन्ति न प्राश्नन्ति प्राशितव्य त्वेव वयं मन्यामह इति ह स्माहासुरिर्यस्य कस्य चाग्नौ जुह्वतीति – २.६.१.[३३]
अथ यतरो दास्यन्भवति । यद्यध्वर्युर्वा यजमानो वा स उदपात्रमादायापसलवि त्रिः परिषिञ्चन्पर्येति स यजमानस्य पितरमवनेजयत्यसाववनेनिक्ष्वेत्यसाववनेनिक्ष्वेति पितामहमसाववनेनिक्ष्वेति प्रपितामहं तद्यथाशिष्यतेऽभिषिञ्चेदेवं तत् – २.६.१.[३४]
अथास्य पुरोडाशस्यावदाय । सव्ये पाणौ कुरुते धानानामवदाय सव्ये पाणौ कुरुते मन्थस्यावदाय सव्ये पाणौ कुरुते – २.६.१.[३५]
स येमामवान्तरदिशमनु स्रक्तिः । तस्यां यजमानस्य पित्रे ददात्यसावेतत्त इत्यथ येमामवान्तरदिशमनु स्रक्तिस्तस्यां यजमानस्य पितामहाय ददात्यसावेतत्त इत्यथ येमामवान्तरदिशमनु स्रक्तिस्तस्यां यजमानस्य प्रपितामहाय ददात्यसावेतत्त इत्यथ येमामवान्तरदिशमनु स्रक्तिस्तस्यां निमृष्टेऽत्र पितरो मादयध्वं यथाभागमावृषायध्वमिति यथाभागमश्नीतेत्येवैतदाह तद्यमेवं पितृभ्यो ददाति तेनो स्वान्पितॄनेतस्माद्यज्ञान्नान्तरेति – २.६.१.[३६]
ते सर्व एव यज्ञोपवीतिनो भूत्वा । उदञ्च उपनिष्क्रम्याहवनीयमुपतिष्ठन्ते देवान्वा एष उपावर्तते य आहिताग्निर्भवति यो दर्शपूर्णमासाभ्यां यजतेऽथैतत्पितृयज्ञेनेवाचारिषुस्तदु देवेभ्यो निह्नुवते – २.६.१.[३७]
ऐन्द्रीभ्यामाहवनीयमुपतिष्ठन्ते इन्द्रो ह्याहवनीयोऽक्षन्नमीमदन्त ह्यव प्रिया अधूषत अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी सुसंदृशं त्वा वयं मघवन्वन्दिषीमहि प्र नूनं पूर्णबन्धुर स्तुतो यासि वशांऽनु योजा न्विन्द्र ते हरी इति – २.६.१.[३८]
अथ प्रतिपरेत्य गार्हपत्यमुपतिष्ठन्ते । मनो न्वाह्वामहे नाराशंसेन स्तोमेन पितॄणां च मन्मभिः आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे ज्योक्च सूर्यं दृशे पुनर्नः पितरो मनो ददातु दैव्यो जनः जीवं व्रातं सचेमहीति पितृयज्ञेनेव वा एतदचारिषुस्तदु खलु पुनर्जीवानपिपद्यन्ते तस्मादाह जीवं व्रातं सचेमहीति – २.६.१.[३९]
अथ यतरो ददाति । स पुनः प्राचीनावीती भूत्वाभिप्रपद्य जपत्यमीमदन्त पितरो यथाभागमावृषायिषतेति यथाभागमाशिषुरित्येवैतदाह – २.६.१.[४०]
अथोदपात्रमादाय । पुनः प्रसलवि त्रिः परिषिञ्चन्पर्येति स यजमानस्य पितरमवनेजयत्यसाववनेनिक्ष्वेत्यसाववनेनिक्ष्वेति पितामहमसाववनेनिक्ष्वेति प्रपितामहं तद्यथा जक्षुषेऽभिषिञ्चेदेवं तत्तद्यत्पुनः प्रसलवि त्रिः परिषिञ्चन्पर्येति प्रसलवि न इदं कर्मानुसंतिष्ठाता इति तस्मात्पुनः प्रसलवि त्रिः परिषिञ्चन्पर्येति – २.६.१.[४१]
अथ नीविमुद्वृह्य नमस्करोति । पितृदेवत्या वै नीविस्तस्मान्नीविमुद्वृह्य नमस्करोति यज्ञो वै नमो यज्ञियानेवैनानेतत्करोति षट्कृत्वो नमस्करोति षड्वा ऋतव ऋतवः पितरस्तदृतुष्वेवैतद्यज्ञं प्रतिष्ठापयति तस्मात्षट्कृत्वो नमस्करोति गृहान्नः पितरो दत्तेति गृहाणां ह पितर ईशत एषो एतस्याशीः कर्मणः – २.६.१.[४२]
ते सर्व एव यज्ञोपवीतिनो भूत्वा । अनुयाजाभ्यां प्रचरिष्यन्त इत्थाद्यजमानश्च ब्रह्मा च पश्चात्परीतः पुरस्तादग्नीदुपविशति होता होतृषदने – २.६.१.[४३]
अथाह ब्रह्मन्प्रस्थास्यामि । समिधमाधायाग्निमग्नीत्सम्मृड्ढीति स्रुचावादायप्रत्यङ्ङतिक्रामत्यतिक्रम्याश्राव्याह देवान्यजेति सोऽपबर्हिषौ द्वावनुयाजौ यजति प्रजा वै बर्हिर्नेत्प्रजाः पितृषु दधानीति तस्मादपबर्हिषौ द्वावनुयाजौ यजति – २.६.१.[४४]
अथ सादयित्वा स्रुचौ व्यूहति । स्रुचौ व्युह्य परिधीन्त्समज्य परिधिमभिपद्याश्राव्याहेषिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकायेति सूक्तवाकं होता प्रतिपद्यते नाध्वर्युः प्रस्तरं समुल्लुम्पतीत्येवोपास्ते यदा होता सूक्तवाकमाह – २.६.१.[४५]
अथाग्नीदाहानुप्रहरेति । स न किं चनानुप्रहरति तूष्णीमेवात्मानमुपस्पृशति – २.६.१.[४६]
अथाह संवदस्वेति । अगानग्नीदगञ्छ्रावय श्रौषट्स्वगा दैव्या होतृभ्यः स्वस्तिर्मानुषेभ्यः शं योर्ब्रूहीत्युपस्पृशत्येव परिधीन्नानुप्रहरत्यथैतद्बर्हिरनुसमस्यति परिधींश्च – २.६.१.[४७]
तद्धैके । हविरुच्छिष्टमनुसमस्यन्ति तदु तथा न कुर्याद्धुतोच्छिष्टं वा एतन्नेद्धुतोच्छिष्टमग्नौ जुहवामेति तस्मादपो वै वाभ्यवहरेयुः प्राश्नीयुर्वा – २.६.१.[४८]
Read also:
Satapath Brahman first part [Sanskrit]-3000 BCE
Mama yonir mahad Brahma
tasmin garbhaḿ dadhāmy aham (Bhagavad Gita 14.3)