Skip to content

ADVOCATETANMOY LAW LIBRARY

Research & Library Database

Primary Menu
  • News
  • Opinion
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • Judgment
  • Book
  • Legal Brief
    • Legal Eagal
  • LearnToday
  • HLJ
    • Supreme Court Case Notes
    • Daily Digest
  • Sarvarthapedia
    • Sarvarthapedia (Core Areas)
    • Systemic-and-systematic
    • Volume One
10/04/2026
  • Vedic Sanskrit Culture

Uttar Kanda [7th Chapter] was added to Valmiki Ramayana by foreigners to disgrace Lord Rama

Uttara Kanda is a clever insertion[PRAKSHIPT] made by western Indologist to embarrass Lord Rama.  Uttar Kanda neither contributing anything to the original story or it has any poetic competency if compared with the first six chapters, therefore it is a cunning insertion and not written by Sage Valmiki.
advtanmoy 15/10/2018 1 minute read

© Advocatetanmoy Law Library

  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on Telegram (Opens in new window) Telegram
EVIDENCE

Home » Law Library Updates » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » Vedic Sanskrit Culture » Uttar Kanda [7th Chapter] was added to Valmiki Ramayana by foreigners to disgrace Lord Rama

Uttara Kanda is a clever insertion[PRAKSHIPT] made by western Indologist to embarrass Lord Rama.  Uttar Kanda is neither contributing anything to the original story nor it has any poetic competency if compared with the first six chapters, therefore it is a cunning insertion and not written by Sage Valmiki.

At the end of the 6th Chapter , Ramayana ends with the following verses and which is reasonably concluding paragraph. At the beautiful end, the sage explained that the period of Lord Rama was like ten thousand years and every body was happy in his kingdom :

६.११६.०८२ राज्यं दशसहस्राणि प्राप्य वर्षाणि राघवः
६.११६.०८२ शताश्वमेधानाजह्रे सदश्वान् भूरिदक्षिणान्

Read Next

  • Naradaparivrajaka Upanishad: Ancient Text of Vedic Sannyasa (नारदपरिव्राजकोपनिषद्: 1200 BCE)
  • Yad (यद् )
  • मधुमेहस्य लक्षणं चिकित्सा च

६.११६.०८३ आजानुलम्बिबाहुश्च महास्कन्धः प्रतापवान्
६.११६.०८३ लक्ष्मणानुचरो रामः पृथिवीमन्वपालयत्

६.११६.०८४ न पर्यदेवन् विधवा न च व्यालकृतं भयम्
६.११६.०८४ न व्याधिजं भयं वापि रामे राज्यं प्रशासति

६.११६.०८५ निर्दस्युरभवल्लोको नानर्थः कं चिदस्पृशत्
६.११६.०८५ न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते

६.११६.०८६ सर्वं मुदितमेवासीत्सर्वो धर्मपरोऽभवत्
६.११६.०८६ राममेवानुपश्यन्तो नाभ्यहिंसन् परस्परम्

Read Next

  • Naradaparivrajaka Upanishad: Ancient Text of Vedic Sannyasa (नारदपरिव्राजकोपनिषद्: 1200 BCE)
  • Yad (यद् )
  • मधुमेहस्य लक्षणं चिकित्सा च

६.११६.०८७ आसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः
६.११६.०८७ निरामया विशोकाश्च रामे राज्यं प्रशासति

६.११६.०८८ नित्यपुष्पा नित्यफलास्तरवः स्कन्धविस्तृताः
६.११६.०८८ कालवर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः

६.११६.०८९ स्वकर्मसु प्रवर्तन्ते तुष्ठाः स्वैरेव कर्मभिः
६.११६.०८९ आसन् प्रजा धर्मपरा रामे शासति नानृताः

Read Next

  • Naradaparivrajaka Upanishad: Ancient Text of Vedic Sannyasa (नारदपरिव्राजकोपनिषद्: 1200 BCE)
  • Yad (यद् )
  • मधुमेहस्य लक्षणं चिकित्सा च

६.११६.०९० सर्वे लक्षणसंपन्नाः सर्वे धर्मपरायणाः
६.११६.०९० दशवर्षसहस्राणि रामो राज्यमकारयत्

Lawline

Seventh Chapter

७.००१.००१ प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते
७.००१.००१ आजग्मुरृषयः सर्वे राघवं प्रतिनन्दितुम्
७.००१.००२ कौशिकोऽथ यवक्रीतो रैभ्यश्च्यवन एव च
७.००१.००२ कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः
७.००१.००३ स्वस्त्यात्रेयश्च भगवान्नमुचिः प्रमुचुस्तथा
७.००१.००३ आजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम्
७.००१.००४ पृषद्गुः कवषो धौम्यो रौद्रेयश्च महानृषिः
७.००१.००४ तेऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम्
७.००१.००५ वसिष्ठः कश्यपोऽथात्रिर्विश्वामित्रोऽथ गौतमः
७.००१.००५ जमदग्निर्भरद्वाजस्तेऽपि सप्तमहर्षयः
७.००१.००६ संप्राप्यैते महात्मानो राघवस्य निवेशनम्
७.००१.००६ विष्ठिताः प्रतिहारार्थं हुताशनसमप्रभाः
७.००१.००७ प्रतिहारस्ततस्तूर्णमगस्त्यवचनादथ
७.००१.००७ समीपं राघवस्याशु प्रविवेश महात्मनः
७.००१.००८ स रामं दृश्य सहसा पूर्णचन्द्रसमद्युतिम्
७.००१.००८ अगस्त्यं कथयामास संप्रातमृषिभिः सह
७.००१.००९ श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान्
७.००१.००९ तदोवाच नृपो द्वाःस्थं प्रवेशय यथासुखम्
७.००१.०१० दृष्ट्वा प्राप्तान्मुनींस्तांस्तु प्रत्युत्थाय कृताञ्जलिः
७.००१.०१० रामोऽभिवाद्य प्रयत आसनान्यादिदेश ह
७.००१.०११ तेषु काञ्चनचित्रेषु स्वास्तीर्णेषु सुखेषु च
७.००१.०११ यथार्हमुपविष्टास्ते आसनेष्वृषिपुंगवाः
७.००१.०१२ रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः
७.००१.०१२ महर्षयो वेदविदो रामं वचनमब्रुवन्
७.००१.०१३ कुशलं नो महाबाहो सर्वत्र रघुनन्दन
७.००१.०१३ त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम्
७.००१.०१४ न हि भारः स ते राम रावणो राक्षसेश्वरः
७.००१.०१४ सधनुस्त्वं हि लोकांस्त्रीन् विजयेथा न संशयः
७.००१.०१५ दिष्ट्या त्वया हतो राम रावणः पुत्रपौत्रवान्
७.००१.०१५ दिष्ट्या विजयिनं त्वाद्य पश्यामः सह भार्यया
७.००१.०१६ दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः
७.००१.०१६ अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः
७.००१.०१७ यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते
७.००१.०१७ दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः
७.००१.०१८ दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः
७.००१.०१८ देवतानामवध्येन विजयं प्राप्तवानसि
७.००१.०१९ संख्ये तस्य न किं चित्तु रावणस्य पराभवः
७.००१.०१९ द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः
७.००१.०२० दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः
७.००१.०२० मुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया
७.००१.०२१ विस्मयस्त्वेष नः सौम्य संश्रुत्येन्द्रजितं हतम्
७.००१.०२१ अवध्यः सर्वभूतानां महामायाधरो युधि
७.००१.०२२ दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम्
७.००१.०२२ दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन
७.००१.०२३ श्रुत्वा तु वचनं तेषामृषीणां भावितात्मनाम्
७.००१.०२३ विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत्
७.००१.०२४ भवन्तः कुम्भकर्णं च रावणं च निशाचरम्
७.००१.०२४ अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम्
७.००१.०२५ महोदरं प्रहस्तं च विरूपाक्षं च राक्षसं
७.००१.०२५ अतिक्रम्य महावीर्यान् किं प्रशंसथ रावणिम्
७.००१.०२६ कीदृशो वै प्रभावोऽस्य किं बलं कः पराक्रमः
७.००१.०२६ केन वा कारणेनैष रावणादतिरिच्यते
७.००१.०२७ शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः
७.००१.०२७ यदि गुह्यं न चेद्वक्तुं श्रोतुमिच्छामि कथ्यताम्
७.००१.०२७ कथं शक्रो जितस्तेन कथं लब्धवरश्च सः
७.००२.००१ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः
७.००२.००१ कुम्भयोनिर्महातेजा वाक्यमेतदुवाच ह
७.००२.००२ शृणु राजन् यथावृत्तं यस्य तेजोबलं महत्
७.००२.००२ जघान च रिपून् युद्धे यथावध्यश्च शत्रुभिः
७.००२.००३ अहं ते रावणस्येदं कुलं जन्म च राघव
७.००२.००३ वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते
७.००२.००४ पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः
७.००२.००४ पुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः
७.००२.००५ नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा
७.००२.००५ प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः
७.००२.००६ स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः
७.००२.००६ तृणबिन्द्वाश्रमं गत्वा न्यवसन्मुनिपुंगवः
७.००२.००७ तपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः
७.००२.००७ गत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः
७.००२.००८ देवपन्नगकन्याश्च राजर्षितनयाश्च याः
७.००२.००८ क्रीडन्त्योऽप्सरसश्चैव तं देशमुपपेदिरे
७.००२.००९ सर्वर्तुषूपभोग्यत्वाद्रम्यत्वात्काननस्य च
७.००२.००९ नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः
७.००२.०१० अथ रुष्टो महातेजा व्याजहार महामुनिः
७.००२.०१० या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति
७.००२.०११ तास्तु सर्वाः प्रतिगताः श्रुत्वा वाक्यं महात्मनः
७.००२.०११ ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः
७.००२.०१२ तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत्
७.००२.०१२ गत्वाश्रमपदं तस्य विचचार सुनिर्भया
७.००२.०१३ तस्मिन्नेव तु काले स प्राजापत्यो महानृषिः
७.००२.०१३ स्वाध्यायमकरोत्तत्र तपसा द्योतितप्रभः
७.००२.०१४ सा तु वेदध्वनिं श्रुत्वा दृष्ट्वा चैव तपोधनम्
७.००२.०१४ अभवत्पाण्डुदेहा सा सुव्यञ्जितशरीरजा
७.००२.०१५ दृष्ट्वा परमसंविग्ना सा तु तद्रूपमात्मनः
७.००२.०१५ इदं मे किं न्विति ज्ञात्वा पितुर्गत्वाग्रतः स्थिता
७.००२.०१६ तां तु दृष्ट्वा तथा भूतां तृणबिन्दुरथाब्रवीत्
७.००२.०१६ किं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः
७.००२.०१७ सा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम्
७.००२.०१७ न जाने कारणं तात येन मे रूपमीदृशम्
७.००२.०१८ किं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः
७.००२.०१८ पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम्
७.००२.०१९ न च पश्याम्यहं तत्र कां चिदप्यागतां सखीम्
७.००२.०१९ रूपस्य तु विपर्यासं दृष्ट्वा चाहमिहागता
७.००२.०२० तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः
७.००२.०२० ध्यानं विवेश तच्चापि अपश्यदृषिकर्मजम्
७.००२.०२१ स तु विज्ञाय तं शापं महर्षेर्भावितात्मनः
७.००२.०२१ गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत्
७.००२.०२२ भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम्
७.००२.०२२ भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम्
७.००२.०२३ तपश्चरणयुक्तस्य श्राम्यमाणेन्द्रियस्य ते
७.००२.०२३ शुश्रूषातत्परा नित्यं भविष्यति न संशयः
७.००२.०२४ तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा
७.००२.०२४ जिघृक्षुरब्रवीत्कन्यां बाढमित्येव स द्विजः
७.००२.०२५ दत्त्वा तु स गतो राजा स्वमाश्रमपदं तदा
७.००२.०२५ सापि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः
७.००२.०२५ प्रीतः स तु महातेजा वाक्यमेतदुवाच ह
७.००२.०२६ परितुष्टोऽस्मि भद्रं ते गुणानां संपदा भृशम्
७.००२.०२६ तस्मात्ते विरमाम्यद्य पुत्रमात्मसमं गुणैः
७.००२.०२६ उभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम्
७.००२.०२७ यस्मात्तु विश्रुतो वेदस्त्वयेहाभ्यस्यतो मम
७.००२.०२७ तस्मात्स विश्रवा नाम भविष्यति न संशयः
७.००२.०२८ एवमुक्ता तु सा कन्या प्रहृष्टेनान्तरात्मना
७.००२.०२८ अचिरेणैव कालेन सूता विश्रवसं सुतम्
७.००२.०२९ स तु लोकत्रये ख्यातः शौचधर्मसमन्वितः
७.००२.०२९ पितेव तपसा युक्तो विश्रवा मुनिपुंगवः
७.००३.००१ अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुंगवः
७.००३.००१ अचिरेणैव कालेन पितेव तपसि स्थितः
७.००३.००२ सत्यवाञ्शीलवान् दक्षः स्वाध्यायनिरतः शुचिः
७.००३.००२ सर्वभोगेष्वसंसक्तो नित्यं धर्मपरायणः
७.००३.००३ ज्ञात्वा तस्य तु तद्वृत्तं भरद्वाजो महानृषिः
७.००३.००३ ददौ विश्रवसे भार्यां स्वां सुतां देववर्णिनीम्
७.००३.००४ प्रतिगृह्य तु धर्मेण भरद्वाजसुतां तदा
७.००३.००४ मुदा परमया युक्तो विश्रवा मुनिपुंगवः
७.००३.००५ स तस्यां वीर्यसंपन्नमपत्यं परमाद्भुतम्
७.००३.००५ जनयामास धर्मात्मा सर्वैर्ब्रह्मगुणैर्युतम्
७.००३.००६ तस्मिञ्जाते तु संहृष्टः स बभूव पितामहः
७.००३.००६ नाम चास्याकरोत्प्रीतः सार्धं देवर्षिभिस्तदा
७.००३.००७ यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इव
७.००३.००७ तस्माद्वैश्रवणो नाम भविष्यत्येष विश्रुतः
७.००३.००८ स तु वैश्रवणस्तत्र तपोवनगतस्तदा
७.००३.००८ अवर्धत महातेजा हुताहुतिरिवानलः
७.००३.००९ तस्याश्रमपदस्थस्य बुद्धिर्जज्ञे महात्मनः
७.००३.००९ चरिष्ये नियतो धर्मं धर्मो हि परमा गतिः
७.००३.०१० स तु वर्षसहस्राणि तपस्तप्त्वा महावने
७.००३.०१० पूर्णे वर्षसहस्रे तु तं तं विधिमवर्तत
७.००३.०११ जलाशी मारुताहारो निराहारस्तथैव च
७.००३.०११ एवं वर्षसहस्राणि जग्मुस्तान्येव वर्षवत्
७.००३.०१२ अथ प्रीतो महातेजाः सेन्द्रैः सुरगणैः सह
७.००३.०१२ गत्वा तस्याश्रमपदं ब्रह्मेदं वाक्यमब्रवीत्
७.००३.०१३ परितुष्टोऽस्मि ते वत्स कर्मणानेन सुव्रत
७.००३.०१३ वरं वृणीष्व भद्रं ते वरार्हस्त्वं हि मे मतः
७.००३.०१४ अथाब्रवीद्वैश्रवणः पितामहमुपस्थितम्
७.००३.०१४ भगवंल्लोकपालत्वमिच्छेयं वित्तरक्षणम्
७.००३.०१५ ततोऽब्रवीद्वैश्रवणं परितुष्टेन चेतसा
७.००३.०१५ ब्रह्मा सुरगणैः सार्धं बाढमित्येव हृष्टवत्
७.००३.०१६ अहं हि लोकपालानां चतुर्थं स्रष्टुमुद्यतः
७.००३.०१६ यमेन्द्रवरुणानां हि पदं यत्तव चेप्सितम्
७.००३.०१७ तत्कृतं गच्छ धर्मज्ञ धनेशत्वमवाप्नुहि
७.००३.०१७ यमेन्द्रवरुणानां हि चतुर्थोऽद्य भविष्यसि
७.००३.०१८ एतच्च पुष्पकं नाम विमानं सूर्यसंनिभम्
७.००३.०१८ प्रतिगृह्णीष्व यानार्थं त्रिदशैः समतां व्रज
७.००३.०१९ स्वस्ति तेऽस्तु गमिष्यामः सर्व एव यथागतम्
७.००३.०१९ कृतकृत्या वयं तात दत्त्वा तव महावरम्
७.००३.०२० गतेषु ब्रह्मपूर्वेषु देवेष्वथ नभस्तलम्
७.००३.०२० धनेशः पितरं प्राह विनयात्प्रणतो वचः
७.००३.०२१ भगवंल्लब्धवानस्मि वरं कमलयोनितः
७.००३.०२१ निवासं न तु मे देवो विदधे स प्रजापतिः
७.००३.०२२ तत्पश्य भगवन् कं चिद्देशं वासाय नः प्रभो
७.००३.०२२ न च पीडा भवेद्यत्र प्राणिनो यस्य कस्य चित्
७.००३.०२३ एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुंगवः
७.००३.०२३ वचनं प्राह धर्मज्ञ श्रूयतामिति धर्मवित्
७.००३.०२४ लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा
७.००३.०२४ राक्षसानां निवासार्थं यथेन्द्रस्यामरावती
७.००३.०२५ रमणीया पुरी सा हि रुक्मवैदूर्यतोरणा
७.००३.०२५ राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः
७.००३.०२५ शून्या रक्षोगणैः सर्वै रसातलतलं गतैः
७.००३.०२६ स त्वं तत्र निवासाय रोचयस्व मतिं स्वकाम्
७.००३.०२६ निर्दोषस्तत्र ते वासो न च बाधास्ति कस्य चित्
७.००३.०२७ एतच्छ्रुत्वा तु धर्मात्मा धर्मिष्ठं वचनं पितुः
७.००३.०२७ निवेशयामास तदा लङ्कां पर्वतमूर्धनि
७.००३.०२८ नैरृतानां सहस्रैस्तु हृष्टैः प्रमुदितैः सदा
७.००३.०२८ अचिरेणैककालेन संपूर्णा तस्य शासनात्
७.००३.०२९ अथ तत्रावसत्प्रीतो धर्मात्मा नैरृताधिपः
७.००३.०२९ समुद्रपरिधानायां लङ्कायां विश्रवात्मजः
७.००३.०३० काले काले विनीतात्मा पुष्पकेण धनेश्वरः
७.००३.०३० अभ्यगच्छत्सुसंहृष्टः पितरं मातरं च सः
७.००३.०३१ स देवगन्धर्वगणैरभिष्टुतस्॑ तथैव सिद्धैः सह चारणैरपि
७.००३.०३१ गभस्तिभिः सूर्य इवौजसा वृतः॑ पितुः समीपं प्रययौ श्रिया वृतः
७.००४.००१ श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयमागतः
७.००४.००१ पूर्वमासीत्तु लङ्कायां रक्षसामिति संभवः
७.००४.००२ ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम्
७.००४.००२ अगस्त्यं तं मुहुर्दृष्ट्वा स्मयमानोऽभ्यभाषत
७.००४.००३ भगवन् पूर्वमप्येषा लङ्कासीत्पिशिताशिनाम्
७.००४.००३ इतीदं भवतः श्रुत्वा विस्मयो जनितो मम
७.००४.००४ पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम्
७.००४.००४ इदानीमन्यतश्चापि संभवः कीर्तितस्त्वया
७.००४.००५ रावणात्कुम्भकर्णाच्च प्रहस्ताद्विकटादपि
७.००४.००५ रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः
७.००४.००६ क एषां पूर्वको ब्रह्मन् किंनामा किंतपोबलः
७.००४.००६ अपराधं च कं प्राप्य विष्णुना द्राविताः पुरा
७.००४.००७ एतद्विस्तरतः सर्वं कथयस्व ममानघ
७.००४.००७ कौतूहलं कृतं मह्यं नुद भानुर्यथा तमः
७.००४.००८ राघवस्य तु तच्छ्रुत्वा संस्कारालंकृतं वचः
७.००४.००८ ईषद्विस्मयमानस्तमगस्त्यः प्राह राघवम्
७.००४.००९ प्रजापतिः पुरा सृष्ट्वा अपः सलिलसंभवः
७.००४.००९ तासां गोपायने सत्त्वानसृजत्पद्मसंभवः
७.००४.०१० ते सत्त्वाः सत्त्वकर्तारं विनीतवदुपस्थिताः
७.००४.०१० किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः
७.००४.०११ प्रजापतिस्तु तान्याह सत्त्वानि प्रहसन्निव
७.००४.०११ आभाष्य वाचा यत्नेन रक्षध्वमिति मानदः
७.००४.०१२ रक्षाम इति तत्रान्यैर्यक्षामेति तथापरैः
७.००४.०१२ भुङ्क्षिताभुङ्क्षितैरुक्तस्ततस्तानाह भूतकृत्
७.००४.०१३ रक्षाम इति यैरुक्तं राक्षसास्ते भवन्तु वः
७.००४.०१३ यक्षाम इति यैरुक्तं ते वै यक्षा भवन्तु वः
७.००४.०१४ तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसर्षभौ
७.००४.०१४ मधुकैटभसंकाशौ बभूवतुररिंदमौ
७.००४.०१५ प्रहेतिर्धार्मिकस्तत्र न दारान् सोऽभिकाङ्क्षति
७.००४.०१५ हेतिर्दारक्रियार्थं तु यत्नं परमथाकरोत्
७.००४.०१६ स कालभगिनीं कन्यां भयां नाम भयावहाम्
७.००४.०१६ उदावहदमेयात्मा स्वयमेव महामतिः
७.००४.०१७ स तस्यां जनयामाअस हेती राक्षसपुंगवः
७.००४.०१७ पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम्
७.००४.०१८ विद्युत्केशो हेतिपुत्रः प्रदीप्ताग्निसमप्रभः
७.००४.०१८ व्यवर्धत महातेजास्तोयमध्य इवाम्बुजम्
७.००४.०१९ स यदा यौवनं भद्रमनुप्राप्तो निशाचरः
७.००४.०१९ ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता
७.००४.०२० संध्यादुहितरं सोऽथ संध्यातुल्यां प्रभावतः
७.००४.०२० वरयामास पुत्रार्थं हेती राक्षसपुंगवः
७.००४.०२१ अवश्यमेव दातव्या परस्मै सेति संध्यया
७.००४.०२१ चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव
७.००४.०२२ संध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः
७.००४.०२२ रमते स तया सार्धं पौलोम्या मघवानिव
७.००४.०२३ केन चित्त्वथ कालेन राम सालकटंकटा
७.००४.०२३ विद्युत्केशाद्गर्भमाप घनराजिरिवार्णवात्
७.००४.०२४ ततः सा राक्षसी गर्भं घनगर्भसमप्रभम्
७.००४.०२४ प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्निजम्
७.००४.०२५ तमुत्सृज्य तु सा गर्भं विद्युत्केशाद्रतार्थिनी
७.००४.०२५ रेमे सा पतिना सार्धं विस्मृत्य सुतमात्मजम्
७.००४.०२६ तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः
७.००४.०२६ पाणिमास्ये समाधाय रुरोद घनराडिव
७.००४.०२७ अथोपरिष्टाद्गच्छन् वै वृषभस्थो हरः प्रभुः
७.००४.०२७ अपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम्
७.००४.०२८ कारुण्यभावात्पार्वत्या भवस्त्रिपुरहा ततः
७.००४.०२८ तं राक्षसात्मजं चक्रे मातुरेव वयः समम्
७.००४.०२९ अमरं चैव तं कृत्वा महादेवोऽक्षयोऽव्ययः
७.००४.०२९ पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया
७.००४.०३० उमयापि वरो दत्तो राक्षसीनां नृपात्मज
७.००४.०३० सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च
७.००४.०३० सद्य एव वयःप्राप्तिर्मातुरेव वयः समम्
७.००४.०३१ ततः सुकेशो वरदानगर्वितः॑ श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः
७.००४.०३१ चचार सर्वत्र महामतिः खगः॑ खगं पुरं प्राप्य पुरंदरो यथा
७.००५.००१ सुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसं
७.००५.००१ ग्रामणीर्नाम गन्धर्वो विश्वावसुसमप्रभः
७.००५.००२ तस्य देववती नाम द्वितीया श्रीरिवात्मजा
७.००५.००२ तां सुकेशाय धर्मेण ददौ दक्षः श्रियं यथा
७.००५.००३ वरदानकृतैश्वर्यं सा तं प्राप्य पतिं प्रियम्
७.००५.००३ आसीद्देववती तुष्टा धनं प्राप्येव निर्धनः
७.००५.००४ स तया सह संयुक्तो रराज रजनीचरः
७.००५.००४ अञ्जनादभिनिष्क्रान्तः करेण्वेव महागजः
७.००५.००५ देववत्यां सुकेशस्तु जनयामास राघव
७.००५.००५ त्रींस्त्रिनेत्रसमान् पुत्रान् राक्षसान् राक्षसाधिपः
७.००५.००५ माल्यवन्तं सुमालिं च मालिं च बलिनां वरम्
७.००५.००६ त्रयो लोका इवाव्यग्राः स्थितास्त्रय इवाग्नयः
७.००५.००६ त्रयो मन्त्रा इवात्युग्रास्त्रयो घोरा इवामयाः
७.००५.००७ त्रयः सुकेशस्य सुतास्त्रेताग्निसमवर्चसः
७.००५.००७ विवृद्धिमगमंस्तत्र व्याधयोपेक्षिता इव
७.००५.००८ वरप्राप्तिं पितुस्ते तु ज्ञात्वैश्वर्यं ततो महत्
७.००५.००८ तपस्तप्तुं गता मेरुं भ्रातरः कृतनिश्चयाः
७.००५.००९ प्रगृह्य नियमान् घोरान् राक्षसा नृपसत्तम
७.००५.००९ विचेरुस्ते तपो घोरं सर्वभूतभयावहम्
७.००५.०१० सत्यार्जवदमोपेतैस्तपोभिर्भुवि दुष्करैः
७.००५.०१० संतापयन्तस्त्रींल्लोकान् सदेवासुरमानुषान्
७.००५.०११ ततो विभुश्चतुर्वक्त्रो विमानवरमास्थितः
७.००५.०११ सुकेशपुत्रानामन्त्र्य वरदोऽस्मीत्यभाषत
७.००५.०१२ ब्रह्माणं वरदं ज्ञात्वा सेन्द्रैर्देवगणैर्वृतम्
७.००५.०१२ ऊचुः प्राञ्जलयः सर्वे वेपमाना इव द्रुमाः
७.००५.०१३ तपसाराधितो देव यदि नो दिशसे वरम्
७.००५.०१३ अजेयाः शत्रुहन्तारस्तथैव चिरजीविनः
७.००५.०१३ प्रभविष्णवो भवामेति परस्परमनुव्रताः
७.००५.०१४ एवं भविष्यतीत्युक्त्वा सुकेशतनयान् प्रभुः
७.००५.०१४ प्रययौ ब्रह्मलोकाय ब्रह्मा ब्राह्मणवत्सलः
७.००५.०१५ वरं लब्ध्वा ततः सर्वे राम रात्रिंचरास्तदा
७.००५.०१५ सुरासुरान् प्रबाधन्ते वरदानात्सुनिर्भयाः
७.००५.०१६ तैर्वध्यमानास्त्रिदशाः सर्षिसंघाः सचारणाः
७.००५.०१६ त्रातारं नाधिगच्छन्ति निरयस्था यथा नराः
७.००५.०१७ अथ ते विश्वकर्माणं शिल्पिनां वरमव्ययम्
७.००५.०१७ ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम
७.००५.०१८ गृहकर्ता भवानेव देवानां हृदयेप्सितम्
७.००५.०१८ अस्माकमपि तावत्त्वं गृहं कुरु महामते
७.००५.०१९ हिमवन्तं समाश्रित्य मेरुं मन्दरमेव वा
७.००५.०१९ महेश्वरगृहप्रख्यं गृहं नः क्रियतां महत्
७.००५.०२० विश्वकर्मा ततस्तेषां राक्षसानां महाभुजः
७.००५.०२० निवासं कथयामास शक्रस्येवामरावतीम्
७.००५.०२१ दक्षिणस्योदधेस्तीरे त्रिकूटो नाम पर्वतः
७.००५.०२१ शिखरे तस्य शैलस्य मध्यमेऽम्बुदसंनिभे
७.००५.०२१ शकुनैरपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि
७.००५.०२२ त्रिंशद्योजनविस्तीर्णा स्वर्णप्राकारतोरणा
७.००५.०२२ मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता
७.००५.०२३ तस्यां वसत दुर्धर्षाः पुर्यां राक्षससत्तमाः
७.००५.०२३ अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः
७.००५.०२४ लङ्कादुर्गं समासाद्य राक्षसैर्बहुभिर्वृताः
७.००५.०२४ भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः
७.००५.०२५ विश्वकर्मवचः श्रुत्वा ततस्ते राम राक्षसाः
७.००५.०२५ सहस्रानुचरा गत्वा लङ्कां तामवसन् पुरीम्
७.००५.०२६ दृढप्राकारपरिखां हैमैर्गृहशतैर्वृताम्
७.००५.०२६ लङ्कामवाप्य ते हृष्टा विहरन्ति निशाचराः
७.००५.०२७ नर्मदा नाम गन्धर्वी नानाधर्मसमेधिता
७.००५.०२७ तस्याः कन्यात्रयं ह्यासीद्धीश्रीकीर्तिसमद्युति
७.००५.०२८ ज्येष्ठक्रमेण सा तेषां राक्षसानामराक्षसी
७.००५.०२८ कन्यास्ताः प्रददौ हृष्टा पूर्णचन्द्रनिभाननाः
७.००५.०२९ त्रयाणां राक्षसेन्द्राणां तिस्रो गन्धर्वकन्यकाः
७.००५.०२९ मात्रा दत्ता महाभागा नक्षत्रे भगदैवते
७.००५.०३० कृतदारास्तु ते राम सुकेशतनयाः प्रभो
७.००५.०३० भार्याभिः सह चिक्रीडुरप्सरोभिरिवामराः
७.००५.०३१ तत्र माल्यवतो भार्या सुन्दरी नाम सुन्दरी
७.००५.०३१ स तस्यां जनयामास यदपत्यं निबोध तत्
७.००५.०३२ वज्रमुष्टिर्विरूपाक्षो दुर्मुखश्चैव राक्षसः
७.००५.०३२ सुप्तघ्नो यज्ञकोपश्च मत्तोन्मत्तौ तथैव च
७.००५.०३२ अनला चाभवत्कन्या सुन्दर्यां राम सुन्दरी
७.००५.०३३ सुमालिनोऽपि भार्यासीत्पूर्णचन्द्रनिभानना
७.००५.०३३ नाम्ना केतुमती नाम प्राणेभ्योऽपि गरीयसी
७.००५.०३४ सुमाली जनयामास यदपत्यं निशाचरः
७.००५.०३४ केतुमत्यां महाराज तन्निबोधानुपूर्वशः
७.००५.०३५ प्रहस्तोऽकम्पनैश्चैव विकटः कालकार्मुकः
७.००५.०३५ धूम्राक्शश्चाथ दण्डश्च सुपार्श्वश्च महाबलः
७.००५.०३६ संह्रादिः प्रघसश्चैव भासकर्णश्च राक्षसः
७.००५.०३६ राका पुष्पोत्कटा चैव कैकसी च शुचिस्मिता
७.००५.०३६ कुम्भीनसी च इत्येते सुमालेः प्रसवाः स्मृताः
७.००५.०३७ मालेस्तु वसुदा नाम गन्धर्वी रूपशालिनी
७.००५.०३७ भार्यासीत्पद्मपत्राक्षी स्वक्षी यक्षीवरोपमा
७.००५.०३८ सुमालेरनुजस्तस्यां जनयामास यत्प्रभो
७.००५.०३८ अपत्यं कथ्यमानं तन्मया त्वं शृणु राघव
७.००५.०३९ अनलश्चानिलश्चैव हरः संपातिरेव च
७.००५.०३९ एते विभीषणामात्या मालेयास्ते निशाचराः
७.००५.०४० ततस्तु ते राक्षसपुंगवास्त्रयो॑ निशाचरैः पुत्रशतैश्च संवृताः
७.००५.०४० सुरान् सहेन्द्रानृषिनागदानवान्॑ बबाधिरे ते बलवीर्यदर्पिताः
७.००५.०४१ जगद्भ्रमन्तोऽनिलवद्दुरासदा॑ रणे च मृत्युप्रतिमाः समाहिताः
७.००५.०४१ वरप्रदानादभिगर्विता भृशं॑ क्रतुक्रियाणां प्रशमंकराः सदा
७.००६.००१ तैर्वध्यमाना देवाश्च ऋषयश्च तपोधनाः
७.००६.००१ भयार्ताः शरणं जग्मुर्देवदेवं महेश्वरम्
७.००६.००२ ते समेत्य तु कामारिं त्रिपुरारिं त्रिलोचनम्
७.००६.००२ ऊचुः प्राञ्जलयो देवा भयगद्गदभाषिणः
७.००६.००३ सुकेशपुत्रैर्भगवन् पितामहवरोद्धतैः
७.००६.००३ प्रजाध्यक्ष प्रजाः सर्वा बाध्यन्ते रिपुबाधन
७.००६.००४ शरण्यान्यशरण्यानि आश्रमाणि कृतानि नः
७.००६.००४ स्वर्गाच्च च्यावितः शक्रः स्वर्गे क्रीडन्ति शक्रवत्
७.००६.००५ अहं विष्णुरहं रुद्रो ब्रह्माहं देवराडहम्
७.००६.००५ अहं यमोऽहं वरुणश्चन्द्रोऽहं रविरप्यहम्
७.००६.००६ इति ते राक्षसा देव वरदानेन दर्पिताः
७.००६.००६ बाधन्ते समरोद्धर्षा ये च तेषां पुरःसराः
७.००६.००७ तन्नो देवभयार्तानामभयं दातुमर्हसि
७.००६.००७ अशिवं वपुरास्थाय जहि दैवतकण्टकान्
७.००६.००८ इत्युक्तस्तु सुरैः सर्वैः कपर्दी नीललोहितः
७.००६.००८ सुकेशं प्रति सापेक्ष आह देवगणान् प्रभुः
७.००६.००९ नाहं तान्निहनिष्यामि अवध्या मम तेऽसुराः
७.००६.००९ किं तु मन्त्रं प्रदास्यामि यो वै तान्निहनिष्यति
७.००६.०१० एवमेव समुद्योगं पुरस्कृत्य सुरर्षभाः
७.००६.०१० गच्छन्तु शरणं विष्णुं हनिष्यति स तान् प्रभुः
७.००६.०११ ततस्ते जयशब्देन प्रतिनन्द्य महेश्वरम्
७.००६.०११ विष्णोः समीपमाजग्मुर्निशाचरभयार्दिताः
७.००६.०१२ शङ्खचक्रधरं देवं प्रणम्य बहुमान्य च
७.००६.०१२ ऊचुः संभ्रान्तवद्वाक्यं सुकेशतनयार्दिताः
७.००६.०१३ सुकेशतनयैर्देवत्रिभिस्त्रेताग्निसंनिभैः
७.००६.०१३ आक्रम्य वरदानेन स्थानान्यपहृतानि नः
७.००६.०१४ लङ्का नाम पुरी दुर्गा त्रिकूटशिखरे स्थिता
७.००६.०१४ तत्र स्थिताः प्रबाधन्ते सर्वान्नः क्षणदाचराः
७.००६.०१५ स त्वमस्मत्प्रियार्थं तु जहि तान्मधुसूदन
७.००६.०१५ चक्रकृत्तास्यकमलान्निवेदय यमाय वै
७.००६.०१६ भयेष्वभयदोऽस्माकं नान्योऽस्ति भवता समः
७.००६.०१६ नुद त्वं नो भयं देव नीहारमिव भास्करः
७.००६.०१७ इत्येवं दैवतैरुक्तो देवदेवो जनार्दनः
७.००६.०१७ अभयं भयदोऽरीणां दत्त्वा देवानुवाच ह
७.००६.०१८ सुकेशं राक्षसं जाने ईशान वरदर्पितम्
७.००६.०१८ तांश्चास्य तनयाञ्जाने येषां ज्येष्ठः स माल्यवान्
७.००६.०१९ तानहं समतिक्रान्तमर्यादान् राक्षसाधमान्
७.००६.०१९ सूदयिष्यामि संग्रामे सुरा भवत विज्वराः
७.००६.०२० इत्युक्तास्ते सुराः सर्वे विष्णुना प्रभविष्णुना
७.००६.०२० यथा वासं ययुर्हृष्टाः प्रशमन्तो जनार्दनम्
७.००६.०२१ विबुधानां समुद्योगं माल्यवान् स निशाचरः
७.००६.०२१ श्रुत्वा तौ भ्रातरौ वीराविदं वचनमब्रवीत्
७.००६.०२२ अमरा ऋषयश्चैव संहत्य किल शंकरम्
७.००६.०२२ अस्मद्वधं परीप्सन्त इदमूचुस्त्रिलोचनम्
७.००६.०२३ सुकेशतनया देव वरदानबलोद्धताः
७.००६.०२३ बाधन्तेऽस्मान् समुद्युक्ता घोररूपाः पदे पदे
७.००६.०२४ राक्षसैरभिभूताः स्म न शक्ताः स्म उमापते
७.००६.०२४ स्वेषु वेश्मसु संस्थातुं भयात्तेषां दुरात्मनाम्
७.००६.०२५ तदस्माकं हितार्थे त्वं जहि तांस्तांस्त्रिलोचन
७.००६.०२५ राक्षसान् हुंकृतेनैव दह प्रदहतां वर
७.००६.०२६ इत्येवं त्रिदशैरुक्तो निशम्यान्धकसूदनः
७.००६.०२६ शिरः करं च धुन्वान इदं वचनमब्रवीत्
७.००६.०२७ अवध्या मम ते देवाः सुकेशतनया रणे
७.००६.०२७ मन्त्रं तु वः प्रदास्यामि यो वै तान्निहनिष्यति
७.००६.०२८ यः स चक्रगदापाणिः पीतवासा जनार्दनः
७.००६.०२८ हनिष्यति स तान् युद्धे शरणं तं प्रपद्यथ
७.००६.०२९ हरान्नावाप्य ते कामं कामारिमभिवाद्य च
७.००६.०२९ नारायणालयं प्राप्तास्तस्मै सर्वं न्यवेदयन्
७.००६.०३० ततो नारायणेनोक्ता देवा इन्द्रपुरोगमाः
७.००६.०३० सुरारीन् सूदयिष्यामि सुरा भवत विज्वराः
७.००६.०३१ देवानां भयभीतानां हरिणा राक्षसर्षभौ
७.००६.०३१ प्रतिज्ञातो वधोऽस्माकं तच्चिन्तयथ यत्क्षमम्
७.००६.०३२ हिरण्यकशिपोर्मृत्युरन्येषां च सुरद्विषाम्
७.००६.०३२ दुःखं नारायणं जेतुं यो नो हन्तुमभीप्सति
७.००६.०३३ ततः सुमाली माली च श्रुत्वा माल्यवतो वचः
७.००६.०३३ ऊचतुर्भ्रातरं ज्येष्ठं भगांशाविव वासवम्
७.००६.०३४ स्वधीतं दत्तमिष्टं च ऐश्वर्यं परिपालितम्
७.००६.०३४ आयुर्निरामयं प्राप्तं स्वधर्मः स्थापितश्च नः
७.००६.०३५ देवसागरमक्षोभ्यं शस्त्रौघैः प्रविगाह्य च
७.००६.०३५ जिता देवा रणे नित्यं न नो मृत्युकृतं भयम्
७.००६.०३६ नारायणश्च रुद्रश्च शक्रश्चापि यमस्तथा
७.००६.०३६ अस्माकं प्रमुखे स्थातुं सर्व एव हि बिभ्यति
७.००६.०३७ विष्णोर्दोषश्च नास्त्यत्र कारणं राक्षसेश्वर
७.००६.०३७ देवानामेव दोषेण विष्णोः प्रचलितं मनः
७.००६.०३८ तस्मादद्य समुद्युक्ताः सर्वसैन्यसमावृताः
७.००६.०३८ देवानेव जिघांसामो येभ्यो दोषः समुत्थितः
७.००६.०३९ इति माली सुमाली च माल्यवानग्रजः प्रभुः
७.००६.०३९ उद्योगं घोषयित्वाथ राक्षसाः सर्व एव ते
७.००६.०३९ युद्धाय निर्ययुः क्रुद्धा जम्भवृत्रबला इव
७.००६.०४० स्यन्दनैर्वारणेन्द्रैश्च हयैश्च गिरिसंनिभैः
७.००६.०४० खरैर्गोभिरथोष्ट्रैश्च शिंशुमारैर्भुजं गमैः
७.००६.०४१ मकरैः कच्छपैर्मीनैर्विहंगैर्गरुडोपमैः
७.००६.०४१ सिंहैर्व्याघ्रैर्वराहैश्च सृमरैश्चमरैरपि
७.००६.०४२ त्यक्त्वा लङ्कां ततः सर्वे राक्षसा बलगर्विताः
७.००६.०४२ प्रयाता देवलोकाय योद्धुं दैवतशत्रवः
७.००६.०४३ लङ्काविपर्ययं दृष्ट्वा यानि लङ्कालयान्यथ
७.००६.०४३ भूतानि भयदर्शीनि विमनस्कानि सर्वशः
७.००६.०४४ भौमास्तथान्तरिक्षाश्च कालाज्ञप्ता भयावहाः
७.००६.०४४ उत्पाता राक्षसेन्द्राणामभावायोत्थिता द्रुतम्
७.००६.०४५ अस्थीनि मेघा वर्षन्ति उष्णं शोणितमेव च
७.००६.०४५ वेलां समुद्रोऽप्युत्क्रान्तश्चलन्ते चाचलोत्तमाः
७.००६.०४६ अट्टहासान् विमुञ्चन्तो घननादसमस्वनान्
७.००६.०४६ भूताः परिपतन्ति स्म नृत्यमानाः सहस्रशः
७.००६.०४७ गृध्रचक्रं महच्चापि ज्वलनोद्गारिभिर्मुखैः
७.००६.०४७ राक्षसानामुपरि वै भ्रमते कालचक्रवत्
७.००६.०४८ तानचिन्त्यमहोत्पातान् राक्षसा बलगर्विताः
७.००६.०४८ यन्त्येव न निवर्तन्ते मृत्युपाशावपाशिताः
७.००६.०४९ माल्यवांश्च सुमाली च माली च रजनीचराः
७.००६.०४९ आसन् पुरःसरास्तेषां क्रतूनामिव पावकाः
७.००६.०५० माल्यवन्तं तु ते सर्वे माल्यवन्तमिवाचलम्
७.००६.०५० निशाचरा आश्रयन्ते धातारमिव देहिनः
७.००६.०५१ तद्बलं राक्षसेन्द्राणां महाभ्रघननादितम्
७.००६.०५१ जयेप्सया देवलोकं ययौ माली वशे स्थितम्
७.००६.०५२ राक्षसानां समुद्योगं तं तु नारायणः प्रभुः
७.००६.०५२ देवदूतादुपश्रुत्य दध्रे युद्धे ततो मनः
७.००६.०५३ स देवसिद्धर्षिमहोरगैश्च॑ गन्धर्वमुख्याप्सरसोपगीतः
७.००६.०५३ समाससादामरशत्रुसैन्यं॑ चक्रासिसीरप्रवरादिधारी
७.००६.०५४ सुपर्णपक्षानिलनुन्नपक्षं॑ भ्रमत्पताकं प्रविकीर्णशस्त्रम्
७.००६.०५४ चचाल तद्राक्षसराजसैन्यं॑ चलोपलो नील इवाचलेन्द्रः
७.००६.०५५ तथ शितैः शोणितमांसरूषितैर्॑ युगान्तवैश्वानरतुल्यविग्रहैः
७.००६.०५५ निशाचराः संपरिवार्य माधवं॑ वरायुधैर्निर्बिभिदुः सहस्रशः
७.००७.००१ नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः
७.००७.००१ अवर्षन्निषुवर्षेण वर्षेणाद्रिमिवाम्बुदाः
७.००७.००२ श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तंचरोत्तमैः
७.००७.००२ वृतोऽञ्जनगिरीवासीद्वर्षमाणैः पयोधरैः
७.००७.००३ शलभा इव केदारं मशका इव पर्वतम्
७.००७.००३ यथामृतघटं जीवा मकरा इव चार्णवम्
७.००७.००४ तथा रक्षोधनुर्मुक्ता वज्रानिलमनोजवाः
७.००७.००४ हरिं विशन्ति स्म शरा लोकास्तमिव पर्यये
७.००७.००५ स्यन्दनैः स्यन्दनगता गजैश्च गजधूर्गताः
७.००७.००५ अश्वारोहाः सदश्वैश्च पादाताश्चाम्बरे चराः
७.००७.००६ राक्षसेन्द्रा गिरिनिभाः शरशक्त्यृष्टितोमरैः
७.००७.००६ निरुच्छ्वासं हरिं चक्रुः प्राणायाम इव द्विजम्
७.००७.००७ निशाचरैस्तुद्यमानो मीनैरिव महातिमिः
७.००७.००७ शार्ङ्गमायम्य गात्राणि राक्षसानां महाहवे
७.००७.००८ शरैः पूर्णायतोत्सृष्टैर्वज्रवक्त्रैर्मनोजवैः
७.००७.००८ चिच्छेद तिलशो विष्णुः शतशोऽथ सहस्रशः
७.००७.००९ विद्राव्य शरवर्षं तं वर्षं वायुरिवोत्थितम्
७.००७.००९ पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः
७.००७.०१० सोऽम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट्
७.००७.०१० ररास भीमनिह्रादो युगान्ते जलदो यथा
७.००७.०११ शङ्खराजरवः सोऽथ त्रासयामास राक्षसान्
७.००७.०११ मृगराज इवारण्ये समदानिव कुञ्जरान्
७.००७.०१२ न शेकुरश्वाः संस्थातुं विमदाः कुञ्जराभवन्
७.००७.०१२ स्यन्दनेभ्यश्च्युता योधाः शङ्खरावितदुर्बलाः
७.००७.०१३ शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः
७.००७.०१३ विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम्
७.००७.०१४ भिद्यमानाः शरैश्चान्ये नारायणधनुश्च्युतैः
७.००७.०१४ निपेतू राक्षसा भीमाः शैला वज्रहता इव
७.००७.०१५ व्रणैर्व्रणकरारीणामधोक्षजशरोद्भवैः
७.००७.०१५ असृक्क्षरन्ति धाराभिः स्वर्णधारामिवाचलाः
७.००७.०१६ शङ्खराजरवश्चापि शार्ङ्गचापरवस्तथा
७.००७.०१६ राक्षसानां रवांश्चापि ग्रसते वैष्णवो रवः
७.००७.०१७ सूर्यादिव करा घोरा ऊर्मयः सागरादिव
७.००७.०१७ पर्वतादिव नागेन्द्रा वार्योघा इव चाम्बुदात्
७.००७.०१८ तथा बाणा विनिर्मुक्ताः शार्ङ्गान्नरायणेरिताः
७.००७.०१८ निर्धावन्तीषवस्तूर्णं शतशोऽथ सहस्रशः
७.००७.०१९ शरभेण यथा सिंहाः सिंहेन द्विरदा यथा
७.००७.०१९ द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा
७.००७.०२० द्वीपिना च यथा श्वानः शुना मार्जारका यथा
७.००७.०२० मार्जारेण यथा सर्पाः सर्पेण च यथाखवः
७.००७.०२१ तथा ते राक्षसा युद्धे विष्णुना प्रभविष्णुना
७.००७.०२१ द्रवन्ति द्राविताश्चैव शायिताश्च महीतले
७.००७.०२२ राक्षसानां सहस्राणि निहत्य मधुसूदनः
७.००७.०२२ वारिजं नादयामास तोयदं सुरराडिव
७.००७.०२३ नारायणशरग्रस्तं शङ्खनादसुविह्वलम्
७.००७.०२३ ययौ लङ्कामभिमुखं प्रभग्नं राक्षसं बलम्
७.००७.०२४ प्रभग्ने राक्षसबले नारायणशराहते
७.००७.०२४ सुमाली शरवर्षेण आववार रणे हरिम्
७.००७.०२५ उत्क्षिप्य हेमाभरणं करं करमिव द्विपः
७.००७.०२५ ररास राक्षसो हर्षात्सतडित्तोयदो यथा
७.००७.०२६ सुमालेर्नर्दतस्तस्य शिरो ज्वलितकुण्डलम्
७.००७.०२६ चिच्छेद यन्तुरश्वाश्च भ्रान्तास्तस्य तु रक्षसः
७.००७.०२७ तैरश्वैर्भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः
७.००७.०२७ इन्द्रियाश्वैर्यथा भ्रान्तैर्धृतिहीनो यथा नरः
७.००७.०२८ माली चाभ्यद्रवद्युद्धे प्रगृह्य सशरं धनुः
७.००७.०२८ मालेर्धनुश्च्युता बाणाः कार्तस्वरविभूषिताः
७.००७.०२८ विविशुर्हरिमासाद्य क्रौञ्चं पत्ररथा इव
७.००७.०२९ अर्द्यमानः शरैः सोऽथ मालिमुक्तैः सहस्रशः
७.००७.०२९ चुक्षुभे न रणे विष्णुर्जितेन्द्रिय इवाधिभिः
७.००७.०३० अथ मौर्वी स्वनं कृत्वा भगवान् भूतभावनः
७.००७.०३० मालिनं प्रति बाणौघान् ससर्जासिगदाधरः
७.००७.०३१ ते मालिदेहमासाद्य वज्रविद्युत्प्रभाः शराः
७.००७.०३१ पिबन्ति रुधिरं तस्य नागा इव पुरामृतम्
७.००७.०३२ मालिनं विमुखं कृत्वा मालिमौलिं हरिर्बलात्
७.००७.०३२ रथं च सध्वजं चापं वाजिनश्च न्यपातयत्
७.००७.०३३ विरथस्तु गदां गृह्य माली नक्तंचरोत्तमः
७.००७.०३३ आपुप्लुवे गदापाणिर्गिर्यग्रादिव केषरी
७.००७.०३४ स तया गरुडं संख्ये ईशानमिव चान्तकः
७.००७.०३४ ललाटदेशेऽभ्यहनद्वज्रेणेन्द्रो यथाचलम्
७.००७.०३५ गदयाभिहतस्तेन मालिना गरुडो भृशम्
७.००७.०३५ रणात्पराङ्मुखं देवं कृतवान् वेदनातुरः
७.००७.०३६ पराङ्मुखे कृते देवे मालिना गरुडेन वै
७.००७.०३६ उदतिष्ठन्महानादो रक्षसामभिनर्दताम्
७.००७.०३७ रक्षसां नदतां नादं श्रुत्वा हरिहयानुजः
७.००७.०३७ पराङ्मुखोऽप्युत्ससर्ज चक्रं मालिजिघांसया
७.००७.०३८ तत्सूर्यमण्डलाभासं स्वभासा भासयन्नभः
७.००७.०३८ कालचक्रनिभं चक्रं मालेः शीर्षमपातयत्
७.००७.०३९ तच्छिरो राक्षसेन्द्रस्य चक्रोत्कृत्तं विभीषणम्
७.००७.०३९ पपात रुधिरोद्गारि पुरा राहुशिरो यथा
७.००७.०४० ततः सुरैः सुसंहृष्टैः सर्वप्राणसमीरितः
७.००७.०४० सिंहनादरवो मुक्तः साधु देवेति वादिभिः
७.००७.०४१ मालिनं निहतं दृष्ट्वा सुमाली मल्यवानपि
७.००७.०४१ सबलौ शोकसंतप्तौ लङ्काअं प्रति विधावितौ
७.००७.०४२ गरुडस्तु समाश्वस्तः संनिवृत्य महामनाः
७.००७.०४२ राक्षसान् द्रावयामास पक्षवातेन कोपितः
७.००७.०४३ नारायणोऽपीषुवराशनीभिर्॑ विदारयामास धनुःप्रमुक्तैः
७.००७.०४३ नक्तंचरान्मुक्तविधूतकेशान्॑ यथाशनीभिः सतडिन्महेन्द्रः
७.००७.०४४ भिन्नातपत्रं पतमानशस्त्रं॑ शरैरपध्वस्तविशीर्णदेहम्
७.००७.०४४ विनिःसृतान्त्रं भयलोलनेत्रं॑ बलं तदुन्मत्तनिभं बभूव
७.००७.०४५ सिंहार्दितानामिव कुञ्जराणां॑ निशाचराणां सह कुञ्जराणाम्
७.००७.०४५ रवाश्च वेगाश्च समं बभूवुः॑ पुराणसिंहेन विमर्दितानाम्
७.००७.०४६ संछाद्यमाना हरिबाणजालैः॑ स्वबाणजाअलानि समुत्सृजन्तः
७.००७.०४६ धावन्ति नक्तंचरकालमेघा॑ वायुप्रणुन्ना इव कालमेघाः
७.००७.०४७ चक्रप्रहारैर्विनिकृत्तशीर्षाः॑ संचूर्णिताङ्गाश्च गदाप्रहारैः
७.००७.०४७ असिप्रहारैर्बहुधा विभक्ताः॑ पतन्ति शैला इव राक्षसेन्द्राः
७.००७.०४८ चक्रकृत्तास्यकमला गदासंचूर्णितोरसः
७.००७.०४८ लाङ्गलग्लपितग्रीवा मुसलैर्भिन्नमस्तकाः
७.००७.०४९ के चिच्चैवासिना छिन्नास्तथान्ये शरताडिताः
७.००७.०४९ निपेतुरम्बरात्तूर्णं राक्षसाः सागराम्भसि
७.००७.०५० तदाम्बरं विगलितहारकुण्डलैर्॑ निशाचरैर्नीलबलाहकोपमैः
७.००७.०५० निपात्यमानैर्ददृशे निरन्तरं॑ निपात्यमानैरिव नीलपर्वतैः
७.००८.००१ हन्यमाने बले तस्मिन् पद्मनाभेन पृष्ठतः
७.००८.००१ माल्यवान् संनिवृत्तोऽथ वेलातिग इवार्णवः
७.००८.००२ संरक्तनयनः कोपाच्चलन्मौलिर्निशाचरः
७.००८.००२ पद्मनाभमिदं प्राह वचनं परुषं तदा
७.००८.००३ नारायण न जानीषे क्षत्रधर्मं सनातनम्
७.००८.००३ अयुद्धमनसो भग्नान् योऽस्मान् हंसि यथेतरः
७.००८.००४ पराङ्मुखवधं पापं यः करोति सुरेश्वर
७.००८.००४ स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम्
७.००८.००५ युद्धश्रद्धाथ वा तेऽस्ति शङ्खचक्रगदाधर
७.००८.००५ अहं स्थितोऽस्मि पश्यामि बलं दर्शय यत्तव
७.००८.००६ उवाच राक्षसेन्द्रं तं देवराजानुजो बली
७.००८.००६ युष्मत्तो भयभीतानां देवानां वै मयाभयम्
७.००८.००६ राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते
७.००८.००७ प्राणैरपि प्रियं कार्यं देवानां हि सदा मया
७.००८.००७ सोऽहं वो निहनिष्यामि रसातलगतानपि
७.००८.००८ देवमेवं ब्रुवाणं तु रक्ताम्बुरुहलोचनम्
७.००८.००८ शक्त्या बिभेद संक्रुद्धो राक्षसेन्द्रो ररास च
७.००८.००९ माल्यवद्भुजनिर्मुक्ता शक्तिर्घण्टाकृतस्वना
७.००८.००९ हरेरुरसि बभ्राज मेघस्थेव शतह्रदा
७.००८.०१० ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः
७.००८.०१० माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः
७.००८.०११ स्कन्दोत्सृष्टेव सा शक्तिर्गोविन्दकरनिःसृता
७.००८.०११ काङ्क्षन्ती राक्षसं प्रायान्महोल्केवाञ्जनाचलम्
७.००८.०१२ सा तस्योरसि विस्तीर्णे हारभासावभासिते
७.००८.०१२ अपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः
७.००८.०१३ तया भिन्नतनुत्राणाः प्राविशद्विपुलं तमः
७.००८.०१३ माल्यवान् पुनराश्वस्तस्तस्थौ गिरिरिवाचलः
७.००८.०१४ ततः कार्ष्णायसं शूलं कण्टकैर्बहुभिश्चितम्
७.००८.०१४ प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम्
७.००८.०१५ तथैव रणरक्तस्तु मुष्टिना वासवानुजम्
७.००८.०१५ ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः
७.००८.०१६ ततोऽम्बरे महाञ्शब्दः साधु साध्विति चोत्थितः
७.००८.०१६ आहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत्
७.००८.०१७ वैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसं
७.००८.०१७ व्यपोहद्बलवान् वायुः शुष्कपर्णचयं यथा
७.००८.०१८ द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम्
७.००८.०१८ सुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ
७.००८.०१९ पक्षवातबलोद्धूतो माल्यवानपि राक्षसः
७.००८.०१९ स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः
७.००८.०२० एवं ते राक्षसा राम हरिणा कमलेक्षण
७.००८.०२० बहुशः संयुगे भग्ना हतप्रवरनायकाः
७.००८.०२१ अशक्नुवन्तस्ते विष्णुं प्रतियोद्धुं भयार्दिताः
७.००८.०२१ त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः
७.००८.०२२ सुमालिनं समासाद्य राक्षसं रघुनन्दन
७.००८.०२२ स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे
७.००८.०२३ ये त्वया निहतास्ते वै पौलस्त्या नाम राक्षसाः
७.००८.०२३ सुमाली माल्यवान्माली ये च तेषां पुरःसराः
७.००८.०२३ सर्व एते महाभाग रावणाद्बलवत्तराः
७.००८.०२४ न चान्यो रक्षसां हन्ता सुरेष्वपि पुरंजय
७.००८.०२४ ऋते नारायणं देवं शङ्खचक्रगदाधरम्
७.००८.०२५ भवान्नारायणो देवश्चतुर्बाहुः सनातनः
७.००८.०२५ राक्षसान् हन्तुमुत्पन्नो अजेयः प्रभुरव्ययः
७.००९.००१ कस्य चित्त्वथ कालस्य सुमाली नाम राक्षसः
७.००९.००१ रसातलान्मर्त्यलोकं सर्वं वै विचचाअर ह
७.००९.००२ नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः
७.००९.००२ कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम्
७.००९.००२ अथापश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम्
७.००९.००३ तं दृष्ट्वामरसंकाशं गच्छन्तं पावकोपमम्
७.००९.००३ अथाब्ब्रवीत्सुतां रक्षः कैकसीं नाम नामतः
७.००९.००४ पुत्रि प्रदानकालोऽयं यौवनं तेऽतिवर्तते
७.००९.००४ त्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः
७.००९.००५ त्वं हि सर्वगुणोपेता श्रीः सपद्मेव पुत्रिके
७.००९.००५ प्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे
७.००९.००६ कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम्
७.००९.००६ न ज्ञायते च कः कन्यां वरयेदिति पुत्रिके
७.००९.००७ मातुः कुलं पितृकुलं यत्र चैव प्रदीयते
७.००९.००७ कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति
७.००९.००८ सा त्वं मुनिवरश्रेष्ठं प्रजापतिकुलोद्भवम्
७.००९.००८ गच्छ विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम्
७.००९.००९ ईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः
७.००९.००९ तेजसा भास्करसमा यादृशोऽयं धनेश्वरः
७.००९.०१० एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः
७.००९.०१० अग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः
७.००९.०११ सा तु तां दारुणां वेलामचिन्त्य पितृगौरवात्
७.००९.०११ उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता
७.००९.०१२ स तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम्
७.००९.०१२ अब्रवीत्परमोदारो दीप्यमान इवौजसा
७.००९.०१३ भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता
७.००९.०१३ किं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने
७.००९.०१४ एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत्
७.००९.०१४ आत्मप्रभावेन मुने ज्ञातुमर्हसि मे मतम्
७.००९.०१५ किं तु विद्धि हि मां ब्रह्मञ्शासनात्पितुरागताम्
७.००९.०१५ कैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि
७.००९.०१६ स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह
७.००९.०१६ विज्ञातं ते मया भद्रे कारणं यन्मनोगतम्
७.००९.०१७ दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता
७.००९.०१७ शृणु तस्मात्सुतान् भद्रे यादृशाञ्जनयिष्यसि
७.००९.०१८ दारुणान् दारुणाकारान् दारुणाभिजनप्रियान्
७.००९.०१८ प्रसविष्यसि सुश्रोणि राक्षसान् क्रूरकर्मणः
७.००९.०१९ सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः
७.००९.०१९ भगवन्नेदृशाः पुत्रास्त्वत्तोऽर्हा ब्रह्मयोनितः
७.००९.०२० अथाब्रवीन्मुनिस्तत्र पश्चिमो यस्तवात्मजः
७.००९.०२० मम वंशानुरूपश्च धर्मात्मा च भविष्यति
७.००९.०२१ एवमुक्ता तु सा कन्या राम कालेन केन चित्
७.००९.०२१ जनयामास बीभत्सं रक्षोरूपं सुदारुणम्
७.००९.०२२ दशशीर्षं महादंष्ट्रं नीलाञ्जनचयोपमम्
७.००९.०२२ ताम्रौष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम्
७.००९.०२३ जातमात्रे ततस्तस्मिन् सज्वालकवलाः शिवाः
७.००९.०२३ क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रिरे
७.००९.०२४ ववर्ष रुधिरं देवो मेघाश्च खरनिस्वनाः
७.००९.०२४ प्रबभौ न च खे सूर्यो महोल्काश्चापतन् भुवि
७.००९.०२५ अथ नामाकरोत्तस्य पितामहसमः पिता
७.००९.०२५ दशशीर्षः प्रसूतोऽयं दशग्रीवो भविष्यति
७.००९.०२६ तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः
७.००९.०२६ प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते
७.००९.०२७ ततः शूर्पणखा नाम संजज्ञे विकृतानना
७.००९.०२७ विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः
७.००९.०२८ ते तु तत्र महारण्ये ववृधुः सुमहौजसः
७.००९.०२८ तेषां क्रूरो दशग्रीवो लोकोद्वेगकरोऽभवत्
७.००९.०२९ कुम्भकर्णः प्रमत्तस्तु महर्षीन् धर्मसंश्रितान्
७.००९.०२९ त्रैलोक्यं त्रासयन् दुष्टो भक्षयन् विचचार ह
७.००९.०३० विभीषणस्तु धर्मात्मा नित्यं धर्मपथे स्थितः
७.००९.०३० स्वाध्यायनियताहार उवास नियतेन्द्रियः
७.००९.०३१ अथ वित्तेश्वरो देवस्तत्र कालेन केन चित्
७.००९.०३१ आगच्छत्पितरं द्रष्टुं पुष्पकेण महौजसं
७.००९.०३२ तं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा
७.००९.०३२ आस्थाय राक्षसीं बुद्धिं दशग्रीवमुवाच ह
७.००९.०३३ पुत्रवैश्रवणं पश्य भ्रातरं तेजसा वृतम्
७.००९.०३३ भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम्
७.००९.०३४ दशग्रीव तथा यत्नं कुरुष्वामितविक्रम
७.००९.०३४ यथा भवसि मे पुत्र शीघ्रं वैश्वरणोपमः
७.००९.०३५ मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान्
७.००९.०३५ अमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा
७.००९.०३६ सत्यं ते प्रतिजानामि तुल्यो भ्रात्राधिकोऽपि वा
७.००९.०३६ भविष्याम्यचिरान्मातः संतापं त्यज हृद्गतम्
७.००९.०३७ ततः क्रोधेन तेनैव दशग्रीवः सहानुजः
७.००९.०३७ प्राप्स्यामि तपसा काममिति कृत्वाध्यवस्य च
७.००९.०३७ आगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम्
७.०१०.००१ अथाब्रवीद्द्विजं रामः कथं ते भ्रातरो वने
७.०१०.००१ कीदृशं तु तदा ब्रह्मंस्तपश्चेरुर्महाव्रताः
७.०१०.००२ अगस्त्यस्त्वब्रवीत्तत्र रामं प्रयत मानसं
७.०१०.००२ तांस्तान् धर्मविधींस्तत्र भ्रातरस्ते समाविशन्
७.०१०.००३ कुम्भकर्णस्तदा यत्तो नित्यं धर्मपरायणः
७.०१०.००३ तताप ग्रैष्मिके काले पञ्चस्वग्निष्ववस्थितः
७.०१०.००४ वर्षे मेघोदकक्लिन्नो वीरासनमसेवत
७.०१०.००४ नित्यं च शैशिरे काले जलमध्यप्रतिश्रयः
७.०१०.००५ एवं वर्षसहस्राणि दश तस्यातिचक्रमुः
७.०१०.००५ धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च
७.०१०.००६ विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः
७.०१०.००६ पञ्चवर्षसहस्राणि पादेनैकेन तस्थिवान्
७.०१०.००७ समाप्ते नियमे तस्य ननृतुश्चाप्सरोगणाः
७.०१०.००७ पपात पुष्पवर्षं च क्षुभिताश्चापि देवताः
७.०१०.००८ पञ्चवर्षसहस्राणि सूर्यं चैवान्ववर्तत
७.०१०.००८ तस्थौ चोर्ध्वशिरो बाहुः स्वाध्यायधृतमानसः
७.०१०.००९ एवं विभीषणस्यापि गतानि नियतात्मनः
७.०१०.००९ दशवर्षसहस्राणि स्वर्गस्थस्येव नन्दने
७.०१०.०१० दशवर्षसहस्रं तु निराहारो दशाननः
७.०१०.०१० पूर्णे वर्षसहस्रे तु शिरश्चाग्नौ जुहाव सः
७.०१०.०११ एवं वर्षसहस्राणि नव तस्यातिचक्रमुः
७.०१०.०११ शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम्
७.०१०.०१२ अथ वर्षसहस्रे तु दशमे दशमं शिरः
७.०१०.०१२ छेत्तुकामः स धर्मात्मा प्राप्तश्चात्र पितामहः
७.०१०.०१३ पितामहस्तु सुप्रीतः सार्धं देवैरुपस्थितः
७.०१०.०१३ वत्स वत्स दशग्रीव प्रीतोऽस्मीत्यभ्यभाषत
७.०१०.०१४ शीघ्रं वरय धर्मज्ञ वरो यस्तेऽभिकाङ्क्षितः
७.०१०.०१४ किं ते कामं करोम्यद्य न वृथा ते परिश्रमः
७.०१०.०१५ ततोऽब्रवीद्दशग्रीवः प्रहृष्टेनान्तरात्मना
७.०१०.०१५ प्रणम्य शिरसा देवं हर्षगद्गदया गिरा
७.०१०.०१६ भगवन् प्राणिनां नित्यं नान्यत्र मरणाद्भयम्
७.०१०.०१६ नास्ति मृत्युसमः शत्रुरमरत्वमतो वृणे
७.०१०.०१७ सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम्
७.०१०.०१७ अवध्यः स्यां प्रजाध्यक्ष देवतानां च शाश्वतम्
७.०१०.०१८ न हि चिन्ता ममान्येषु प्राणिष्वमरपूजित
७.०१०.०१८ तृणभूता हि मे सर्वे प्राणिनो मानुषादयः
७.०१०.०१९ एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा
७.०१०.०१९ उवाच वचनं राम सह देवैः पितामहः
७.०१०.०२० भविष्यत्येवमेवैतत्तव राक्षसपुंगव
७.०१०.०२० शृणु चापि वचो भूयः प्रीतस्येह शुभं मम
७.०१०.०२१ हुतानि यानि शीर्षाणि पूर्वमग्नौ त्वयानघ
७.०१०.०२१ पुनस्तानि भविष्यन्ति तथैव तव राक्षस
७.०१०.०२२ एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः
७.०१०.०२२ अग्नौ हुतानि शीर्षाणि यानि तान्युत्थितानि वै
७.०१०.०२३ एवमुक्त्व्वा तु तं राम दशग्रीवं प्रजापतिः
७.०१०.०२३ विभीषणमथोवाच वाक्यं लोकपितामहः
७.०१०.०२४ विभीषण त्वया वत्स धर्मसंहितबुद्धिना
७.०१०.०२४ परितुष्टोऽस्मि धर्मज्ञ वरं वरय सुव्रत
७.०१०.०२५ विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः
७.०१०.०२५ वृतः सर्वगुणैर्नित्यं चन्द्रमा इव रश्मिभिः
७.०१०.०२६ भगवन् कृतकृत्योऽहं यन्मे लोकगुरुः स्वयम्
७.०१०.०२६ प्रीतो यदि त्वं दातव्यं वरं मे शृणु सुव्रत
७.०१०.०२७ या या मे जायते बुद्धिर्येषु येष्वाश्रमेष्विह
७.०१०.०२७ सा सा भवतु धर्मिष्ठा तं तं धर्मं च पालये
७.०१०.०२८ एष मे परमोदार वरः परमको मतः
७.०१०.०२८ न हि धर्माभिरक्तानां लोके किं चन दुर्लभम्
७.०१०.०२९ अथ प्रजापतिः प्रीतो विभीषणमुवाच ह
७.०१०.०२९ धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति
७.०१०.०३० यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्षण
७.०१०.०३० नाधर्मे जायते बुद्धिरमरत्वं ददामि ते
७.०१०.०३१ कुम्भकर्णाय तु वरं प्रयच्छन्तमरिंदम
७.०१०.०३१ प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयोऽब्रुवन्
७.०१०.०३२ न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया
७.०१०.०३२ जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः
७.०१०.०३३ नन्दनेऽप्सरसः सप्त महेन्द्रानुचरा दश
७.०१०.०३३ अनेन भक्षिता ब्रह्मनृषयो मानुषास्तथा
७.०१०.०३४ वरव्याजेन मोहोऽस्मै दीयताममितप्रभ
७.०१०.०३४ लोकानां स्वस्ति चैव स्याद्भवेदस्य च संनतिः
७.०१०.०३५ एवमुक्तः सुरैर्ब्रह्माचिन्तयत्पद्मसंभवः
७.०१०.०३५ चिन्तिता चोपतस्थेऽस्य पार्श्वं देवी सरस्वती
७.०१०.०३६ प्राञ्जलिः सा तु पर्श्वस्था प्राह वाक्यं सरस्वती
७.०१०.०३६ इयमस्म्यागता देवकिं कार्यं करवाण्यहम्
७.०१०.०३७ प्रजापतिस्तु तां प्राप्तां प्राह वाक्यं सरस्वतीम्
७.०१०.०३७ वाणि त्वं राक्षसेन्द्रस्य भव या देवतेप्सिता
७.०१०.०३८ तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत्
७.०१०.०३८ कुम्भकर्ण महाबाहो वरं वरय यो मतः
७.०१०.०३९ कुम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत्
७.०१०.०३९ स्वप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम्
७.०१०.०४० एवमस्त्विति तं चोक्त्वा सह देवैः पितामहः
७.०१०.०४० देवी सरस्वती चैव मुक्त्वा तं प्रययौ दिवम्
७.०१०.०४१ कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः
७.०१०.०४१ कीर्दृशं किं न्विदं वाक्यं ममाद्य वदनाच्च्युतम्
७.०१०.०४२ एवं लब्धवराः सर्वे भ्रातरो दीप्ततेजसः
७.०१०.०४२ श्लेष्मातकवनं गत्वा तत्र ते न्यवसन् सुखम्
७.०११.००१ सुमाली वरलब्धांस्तु ज्ञात्वा तान् वै निशाचरान्
७.०११.००१ उदतिष्ठद्भयं त्यक्त्वा सानुगः स रसातलात्
७.०११.००२ मारीचश्च प्रहस्तश्च विरूपाक्षो महोदरः
७.०११.००२ उदतिष्ठन् सुसंरब्धाः सचिवास्तस्य रक्षसः
७.०११.००३ सुमाली चैव तैः सर्वैर्वृतो राक्षसपुंगवैः
७.०११.००३ अभिगम्य दशग्रीवं परिष्वज्येदमब्रवीत्
७.०११.००४ दिष्ट्या ते पुत्रसंप्राप्तश्चिन्तितोऽयम्ं मनोरथः
७.०११.००४ यस्त्वं त्रिभुवणश्रेष्ठाल्लब्धवान् वरमीदृशम्
७.०११.००५ यत्कृते च वयं लङ्कां त्यक्त्वा याता रसातलम्
७.०११.००५ तद्गतं नो महाबाहो महद्विष्णुकृतं भयम्
७.०११.००६ असकृत्तेन भग्ना हि परित्यज्य स्वमालयम्
७.०११.००६ विद्रुताः सहिताः सर्वे प्रविष्टाः स्म रसातलम्
७.०११.००७ अस्मदीया च लङ्केयं नगरी राक्षसोषिता
७.०११.००७ निवेशिता तव भ्रात्रा धनाध्यक्षेण धीमता
७.०११.००८ यदि नामात्र शक्यं स्यात्साम्ना दानेन वानघ
७.०११.००८ तरसा वा महाबाहो प्रत्यानेतुं कृतं भवेत्
७.०११.००९ त्वं च लङ्केश्वरस्तात भविष्यसि न संशयः
७.०११.००९ सर्वेषां नः प्रभुश्चैव भविष्यसि महाबल
७.०११.०१० अथाब्रवीद्दशग्रीवो मातामहमुपस्थितम्
७.०११.०१० वित्तेशो गुरुरस्माकं नार्हस्येवं प्रभाषितुम्
७.०११.०११ उक्तवन्तं तथा वाक्यं दशग्रीवं निशाचरः
७.०११.०११ प्रहस्तः प्रश्रितं वाक्यमिदमाह सकारणम्
७.०११.०१२ दशग्रीव महाबाहो नार्हस्त्वं वक्तुमीदृशम्
७.०११.०१२ सौभ्रात्रं नास्ति शूराणां शृणु चेदं वचो मम
७.०११.०१३ अदितिश्च दितिश्चैव भगिन्यौ सहिते किल
७.०११.०१३ भार्ये परमरूपिण्यौ कश्यपस्य प्रजापतेः
७.०११.०१४ अदितिर्जनयामास देवांस्त्रिभुवणेश्वरान्
७.०११.०१४ दितिस्त्वजनयद्दैत्यान् कश्यपस्यात्मसंभवान्
७.०११.०१५ दैत्यानां किल धर्मज्ञ पुरेयं सवनार्णवा
७.०११.०१५ सपर्वता मही वीर तेऽभवन् प्रभविष्णवः
७.०११.०१६ निहत्य तांस्तु समरे विष्णुना प्रभविष्णुना
७.०११.०१६ देवानां वशमानीतं त्रैलोक्यमिदमव्ययम्
७.०११.०१७ नैतदेको भवानेव करिष्यति विपर्ययम्
७.०११.०१७ सुरैराचरितं पूर्वं कुरुष्वैतद्वचो मम
७.०११.०१८ एवमुक्तो दशग्रीवः प्रहस्तेन दुरात्मना
७.०११.०१८ चिन्तयित्वा मुहूर्तं वै बाढमित्येव सोऽब्रवीत्
७.०११.०१९ स तु तेनैव हर्षेण तस्मिन्नहनि वीर्यवान्
७.०११.०१९ वनं गतो दशग्रीवः सह तैः क्षणदाचरैः
७.०११.०२० त्रिकूटस्थः स तु तदा दशग्रीवो निशाचरः
७.०११.०२० प्रेषयामास दौत्येन प्रहस्तं वाक्यकोविदम्
७.०११.०२१ प्रहस्त शीघ्रं गत्वा त्वं ब्रूहि नैरृतपुंगवम्
७.०११.०२१ वचनान्मम वित्तेशं सामपूर्वमिदं वचः
७.०११.०२२ इयं लङ्का पुरी राजन् राक्षसानां महात्मनाम्
७.०११.०२२ त्वया निवेशिता सौम्य नैतद्युक्तं तवानघ
७.०११.०२३ तद्भवान् यदि साम्नैतां दद्यादतुलविक्रम
७.०११.०२३ कृता भवेन्मम प्रीतिर्धर्मश्चैवानुपालितः
७.०११.०२४ इत्युक्तः स तदा गत्वा प्रहस्तो वाक्यकोविदः
७.०११.०२४ दशग्रीववचः सर्वं वित्तेशाय न्यवेदयत्
७.०११.०२५ प्रहस्तादपि संश्रुत्य देवो वैश्रवणो वचः
७.०११.०२५ प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः
७.०११.०२६ ब्रूहि गच्छ दशग्रीवं पुरी राज्यं च यन्मम
७.०११.०२६ तवाप्येतन्महाबाहो भुङ्क्ष्वैतद्धतकण्टकम्
७.०११.०२७ सर्वं कर्तास्मि भद्रं ते राक्षसेश वचोऽचिरात्
७.०११.०२७ किं तु तावत्प्रतीक्षस्व पितुर्यावन्निवेदये
७.०११.०२८ एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम्
७.०११.०२८ अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम्
७.०११.०२९ एष तात दशग्रीवो दूतं प्रेषितवान्मम
७.०११.०२९ दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता
७.०११.०२९ मयात्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रत
७.०११.०३० ब्रह्मर्षिस्त्वेवमुक्तोऽसौ विश्रवा मुनिपुंगवः
७.०११.०३० उवाच धनदं वाक्यं शृणु पुत्र वचो मम
७.०११.०३१ दशग्रीवो महाबाहुरुक्तवान्मम संनिधौ
७.०११.०३१ मया निर्भर्त्सितश्चासीद्बहुधोक्तः सुदुर्मतिः
७.०११.०३२ स क्रोधेन मया चोक्तो ध्वंसस्वेति पुनः पुनः
७.०११.०३२ श्रेयोऽभियुक्तं धर्म्यं च शृणु पुत्र वचो मम
७.०११.०३३ वरप्रदानसंमूढो मान्यामान्यं सुदुर्मतिः
७.०११.०३३ न वेत्ति मम शापाच्च प्रकृतिं दारुणां गतः
७.०११.०३४ तस्माद्गच्छ महाबाहो कैलासं धरणीधरम्
७.०११.०३४ निवेशय निवासार्थं त्यज लङ्कां सहानुगः
७.०११.०३५ तत्र मन्दाकिनी रम्या नदीनां प्रवरा नदी
७.०११.०३५ काञ्चनैः सूर्यसंकाशैः पङ्कजैः संवृतोदका
७.०११.०३६ न हि क्षमं त्वया तेन वैरं धनदरक्षसा
७.०११.०३६ जानीषे हि यथानेन लब्धः परमको वरः
७.०११.०३७ एवमुक्तो गृहीत्वा तु तद्वचः पितृगौरवात्
७.०११.०३७ सदार पौरः सामात्यः सवाहनधनो गतः
७.०११.०३८ प्रहस्तस्तु दशग्रीवं गत्वा सर्वं न्यवेदयत्
७.०११.०३८ शून्या सा नगरी लङ्का त्रिंशद्योजनमायता
७.०११.०३८ प्रविश्य तां सहास्माभिः स्वधर्मं तत्र पालय
७.०११.०३९ एवमुक्तः प्रहस्तेन रावणो राक्षसस्तदा
७.०११.०३९ विवेश नगरीं लङ्कां सभ्राता सबलानुगः
७.०११.०४० स चाभिषिक्तः क्षणदाचरैस्तदा॑ निवेशयामास पुरीं दशाननः
७.०११.०४० निकामपूर्णा च बभूव सा पुरी॑ निशाचरैर्नीलबलाहकोपमैः
७.०११.०४१ धनेश्वरस्त्वथ पितृवाक्यगौरवान्॑ न्यवेशयच्छशिविमले गिरौ
पुरीम्
७.०११.०४१ स्वलंकृतैर्भवनवरैर्विभूषितां॑ पुरंदरस्येव तदामरावतीम्
७.०१२.००१ राक्षसेन्द्रोऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा
७.०१२.००१ ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत्
७.०१२.००२ ददौ तां कालकेयाय दानवेन्द्राय राक्षसीम्
७.०१२.००२ स्वसां शूर्पणखां नाम विद्युज्जिह्वाय नामतः
७.०१२.००३ अथ दत्त्वा स्वसारं स मृगयां पर्यटन्नृपः
७.०१२.००३ तत्रापश्यत्ततो राम मयं नाम दितेः सुतम्
७.०१२.००४ कन्यासहायं तं दृष्ट्वा दशग्रीवो निशाचरः
७.०१२.००४ अपृच्छत्को भवनेको निर्मनुष्य मृगे वने
७.०१२.००५ मयस्त्वथाब्रवीद्राम पृच्छन्तं तं निशाचरम्
७.०१२.००५ श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम
७.०१२.००६ हेमा नामाप्सरास्तात श्रुतपूर्वा यदि त्वया
७.०१२.००६ दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः
७.०१२.००७ तस्यां सक्तमनास्तात पञ्चवर्षशतान्यहम्
७.०१२.००७ सा च दैवत कार्येण गता वर्षं चतुर्दशम्
७.०१२.००८ तस्याः कृते च हेमायाः सर्वं हेमपुरं मया
७.०१२.००८ वज्रवैदूर्यचित्रं च मायया निर्मितं तदा
७.०१२.००९ तत्राहमरतिं विन्दंस्तया हीनः सुदुःखितः
७.०१२.००९ तस्मात्पुराद्दुहितरं गृहीत्वा वनमागतः
७.०१२.०१० इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता
७.०१२.०१० भर्तारमनया सार्धमस्याः प्राप्तोऽस्मि मार्गितुम्
७.०१२.०११ कन्यापितृत्वं दुःखं हि नराणां मानकाङ्क्षिणाम्
७.०१२.०११ कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति
७.०१२.०१२ द्वौ सुतौ तु मम त्वस्यां भार्यायां संबभूवतुः
७.०१२.०१२ मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरम्
७.०१२.०१३ एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः
७.०१२.०१३ त्वामिदानीं कथं तात जानीयां को भवानिति
७.०१२.०१४ एवमुक्तो राक्षसेन्द्रो विनीतमिदमब्रवीत्
७.०१२.०१४ अहं पौलस्त्य तनयो दशग्रीवश्च नामतः
७.०१२.०१५ ब्रह्मर्षेस्तं सुतं ज्ञात्वा मयो हर्षमुपागतः
७.०१२.०१५ दातुं दुहितरं तस्य रोचयामास तत्र वै
७.०१२.०१६ प्रहसन् प्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः
७.०१२.०१६ इयं ममात्मजा राजन् हेमयाप्सरसा धृता
७.०१२.०१६ कन्या मन्दोदरी नाम पत्न्यर्थं प्रतिगृह्यताम्
७.०१२.०१७ बाढमित्येव तं राम दशग्रीवोऽभ्यभाषत
७.०१२.०१७ प्रज्वाल्य तत्र चैवाग्निमकरोत्पाणिसंग्रहम्
७.०१२.०१८ न हि तस्य मयो राम शापाभिज्ञस्तपोधनात्
७.०१२.०१८ विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम्
७.०१२.०१९ अमोघां तस्य शक्तिं च प्रददौ परमाद्भुताम्
७.०१२.०१९ परेण तपसा लब्धां जघ्निवांल्लक्ष्मणं यया
७.०१२.०२० एवं स कृतदारो वै लङ्कायामीश्वरः प्रभुः
७.०१२.०२० गत्वा तु नगरं भार्ये भ्रातृभ्यां समुदावहत्
७.०१२.०२१ वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः
७.०१२.०२१ तां भार्यां कुम्भकर्णस्य रावणः समुदावहत्
७.०१२.०२२ गन्धर्वराजस्य सुतां शैलूषस्य महात्मन
७.०१२.०२२ सरमा नाम धर्मज्ञो लेभे भार्यां विभीषणः
७.०१२.०२३ तीरे तु सरसः सा वै संजज्ञे मानसस्य च
७.०१२.०२३ मानसं च सरस्तात ववृधे जलदागमे
७.०१२.०२४ मात्रा तु तस्याः कन्यायाः स्नेहनाक्रन्दितं वचः
७.०१२.०२४ सरो मा वर्धतेत्युक्तं ततः सा सरमाभवत्
७.०१२.०२५ एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः
७.०१२.०२५ स्वां स्वां भार्यामुपादाय गन्धर्वा इव नन्दने
७.०१२.०२६ ततो मन्दोदरी पुत्रं मेघनादमसूयत
७.०१२.०२६ स एष इन्द्रजिन्नाम युष्माभिरभिधीयते
७.०१२.०२७ जातमात्रेण हि पुरा तेन राक्षससूनुना
७.०१२.०२७ रुदता सुमहान्मुक्तो नादो जलधरोपमः
७.०१२.०२८ जडीकृतायां लङ्कायां तेन नादेन तस्य वै
७.०१२.०२८ पिता तस्याकरोन्नाम मेघनाद इति स्वयम्
७.०१२.०२९ सोऽवर्धत तदा राम रावणान्तःपुरे शुभे
७.०१२.०२९ रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्ठैरिवानलः
७.०१३.००१ अथ लोकेश्वरोत्सृष्टा तत्र कालेन केन चित्
७.०१३.००१ निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी
७.०१३.००२ ततो भ्रातरमासीनं कुम्भकर्णोऽब्रवीद्वचः
७.०१३.००२ निद्रा मां बाधते राजन् कारयस्व ममालयम्
७.०१३.००३ विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत्
७.०१३.००३ अकुर्वन् कुम्भकर्णस्य कैलाससममालयम्
७.०१३.००४ विस्तीर्णं योजनं शुभ्रं ततो द्विगुणमायतम्
७.०१३.००४ दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे
७.०१३.००५ स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम्
७.०१३.००५ वैदूर्यकृतशोभं च किङ्किणीजालकं तथा
७.०१३.००६ दन्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम्
७.०१३.००६ सर्वर्तुसुखदं नित्यं मेरोः पुण्यां गुहामिव
७.०१३.००७ तत्र निद्रां समाविष्टः कुम्भकर्णो निशाचरः
७.०१३.००७ बहून्यब्दसहस्राणि शयानो नावबुध्यते
७.०१३.००८ निद्राभिभूते तु तदा कुम्भकर्णे दशाननः
७.०१३.००८ देवर्षियक्षगन्धर्वान् बाधते स्म स नित्यशः
७.०१३.००९ उद्यानानि विचित्राणि नन्दनादीनि यानि च
७.०१३.००९ तानि गत्वा सुसंक्रुद्धो भिनत्ति स्म दशाननः
७.०१३.०१० नदीं गज इव क्रीडन् वृक्षान् वायुरिव क्षिपन्
७.०१३.०१० नगान् वज्र इव सृष्टो विध्वंसयति नित्यशः
७.०१३.०११ तथा वृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः
७.०१३.०११ कुलानुरूपं धर्मज्ञ वृत्तं संस्मृत्य चात्मनः
७.०१३.०१२ सौभ्रात्रदर्शनार्थं तु दूतं वैश्वरणस्तदा
७.०१३.०१२ लङ्कां संप्रेषयामास दशग्रीवस्य वै हितम्
७.०१३.०१३ स गत्वा नगरीं लङ्कामाससाद विभीषणम्
७.०१३.०१३ मानितस्तेन धर्मेण पृष्ठश्चागमनं प्रति
७.०१३.०१४ पृष्ट्वा च कुशलं राज्ञो ज्ञातीनपि च बान्धवान्
७.०१३.०१४ सभायां दर्शयामास तमासीनं दशाननम्
७.०१३.०१५ स दृष्ट्वा तत्र राजानं दीप्यमानं स्वतेजसा
७.०१३.०१५ जयेन चाभिसंपूज्य तूष्णीमासीन्मुहूर्तकम्
७.०१३.०१६ तस्योपनीते पर्यङ्के वरास्तरणसंवृते
७.०१३.०१६ उपविश्य दशग्रीवं दूतो वाक्यमथाब्रवीत्
७.०१३.०१७ राजन् वदामि ते सर्वं भ्राता तव यदब्रवीत्
७.०१३.०१७ उभयोः सदृशं सौम्य वृत्तस्य च कुलस्य च
७.०१३.०१८ साधु पर्याप्तमेतावत्कृतश्चारित्रसंग्रहः
७.०१३.०१८ साधु धर्मे व्यवस्थानं क्रियतां यदि शक्यते
७.०१३.०१९ दृष्टं मे नन्दनं भग्नमृषयो निहताः श्रुताः
७.०१३.०१९ देवानां तु समुद्योगस्त्वत्तो राजञ्श्रुतश्च मे
७.०१३.०२० निराकृतश्च बहुशस्त्वयाहं राक्षसाधिप
७.०१३.०२० अपराद्धा हि बाल्याच्च रक्षणीयाः स्वबान्धवाः
७.०१३.०२१ अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम्
७.०१३.०२१ रौद्रं व्रतं समास्थाय नियतो नियतेन्द्रियः
७.०१३.०२२ तत्र देवो मया दृष्टः सह देव्योमया प्रभुः
७.०१३.०२२ सव्यं चक्षुर्मया चैव तत्र देव्यां निपातितम्
७.०१३.०२३ का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना
७.०१३.०२३ रूपं ह्यनुपमं कृत्वा तत्र क्रीडति पार्वती
७.०१३.०२४ ततो देव्याः प्रभावेन दग्धं सव्यं ममेक्षणम्
७.०१३.०२४ रेणुध्वस्तमिव ज्योतिः पिङ्गलत्वमुपागतम्
७.०१३.०२५ ततोऽहमन्यद्विस्तीर्णं गत्वा तस्य गिरेस्तटम्
७.०१३.०२५ पूर्णं वर्षशतान्यष्टौ समवाप महाव्रतम्
७.०१३.०२६ समाप्ते नियमे तस्मिंस्तत्र देवो महेश्वरः
७.०१३.०२६ प्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः
७.०१३.०२७ प्रीतोऽस्मि तव धर्मज्ञ तपसानेन सुव्रत
७.०१३.०२७ मया चैतद्व्रतं चीर्णं त्वया चैव धनाधिप
७.०१३.०२८ तृतीयः पुरुषो नास्ति यश्चरेद्व्रतमीदृशम्
७.०१३.०२८ व्रतं सुदुश्चरं ह्येतन्मयैवोत्पादितं पुरा
७.०१३.०२९ तत्सखित्वं मया सार्धं रोचयस्व धनेश्वर
७.०१३.०२९ तपसा निर्जितत्वाद्धि सखा भव ममानघ
७.०१३.०३० देव्या दग्धं प्रभावेन यच्च साव्यं तवेक्षणम्
७.०१३.०३० एकाक्षि पिङ्गलेत्येव नाम स्थास्यति शाश्वतम्
७.०१३.०३१ एवं तेन सखित्वं च प्राप्यानुज्ञां च शंकरात्
७.०१३.०३१ आगम्य च श्रुतोऽयं मे तव पापविनिश्चयः
७.०१३.०३२ तदधर्मिष्ठसंयोगान्निवर्त कुलदूषण
७.०१३.०३२ चिन्त्यते हि वधोपायः सर्षिसंघैः सुरैस्तव
७.०१३.०३३ एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः
७.०१३.०३३ हस्तान् दन्तांश संपीड्य वाक्यमेतदुवाच ह
७.०१३.०३४ विज्ञातं ते मया दूत वाक्यं यत्त्वं प्रभाषसे
७.०१३.०३४ नैव त्वमसि नैवासौ भ्रात्रा येनासि प्रेषितः
७.०१३.०३५ हितं न स ममैतद्धि ब्रवीति धनरक्षकः
७.०१३.०३५ महेश्वरसखित्वं तु मूढ श्रावयसे किल
७.०१३.०३६ न हन्तव्यो गुरुर्ज्येष्ठो ममायमिति मन्यते
७.०१३.०३६ तस्य त्विदानीं श्रुत्वा मे वाक्यमेषा कृता मतिः
७.०१३.०३७ त्रींल्लोकानपि जेष्यामि बाहुवीर्यमुपाश्रितः
७.०१३.०३७ एतन्मुहूर्तमेषोऽहं तस्यैकस्य कृते च वै
७.०१३.०३७ चतुरो लोकपालांस्तान्नयिष्यामि यमक्षयम्
७.०१३.०३८ एवमुक्त्वा तु लङ्केशो दूतं खड्गेन जघ्निवान्
७.०१३.०३८ ददौ भक्षयितुं ह्येनं राक्षसानां दुरात्मनाम्
७.०१३.०३९ ततः कृतस्वस्त्ययनो रथमारुह्य रावणः
७.०१३.०३९ त्रैलोक्यविजयाकाङ्क्षी ययौ तत्र धनेश्वरः
७.०१४.००१ ततः स सचिवैः सार्धं षड्भिर्नित्यं बलोत्कटैः
७.०१४.००१ महोदरप्रहस्ताभ्यां मारीचशुकसारणैः
७.०१४.००२ धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना
७.०१४.००२ वृतः संप्रययौ श्रीमान् क्रोधाल्लोकान् दहन्निव
७.०१४.००३ पुराणि स नदीः शैलान् वनान्युपवनानि च
७.०१४.००३ अतिक्रम्य मुहूर्तेन कैलासं गिरिमाविशत्
७.०१४.००४ तं निविष्टं गिरौ तस्मिन् राक्षसेन्द्रं निशम्य तु
७.०१४.००४ राज्ञो भ्रातायमित्युक्त्वा गता यत्र धनेश्वरः
७.०१४.००५ गत्वा तु सर्वमाचख्युर्भ्रातुस्तस्य विनिश्चयम्
७.०१४.००५ अनुज्ञाता ययुश्चैव युद्धाय धनदेन ते
७.०१४.००६ ततो बलस्य संक्षोभः सागरस्येव वर्धतः
७.०१४.००६ अभून्नैरृतराजस्य गिरिं संचालयन्निव
७.०१४.००७ ततो युद्धं समभवद्यक्षराक्षससंकुलम्
७.०१४.००७ व्यथिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः
७.०१४.००८ तं दृष्ट्वा तादृशं सैन्यं दशग्रीवो निशाचरः
७.०१४.००८ हर्षान्नादं ततः कृत्वा रोषात्समभिवर्तत
७.०१४.००९ ये तु ते राक्षसेन्द्रस्य सचिवा घोरविक्रमः
७.०१४.००९ ते सहस्रं सहस्राणामेकैकं समयोधयन्
७.०१४.०१० ततो गदाभिः परिघैरसिभिः शक्तितोमरैः
७.०१४.०१० वध्यमानो दशग्रीवस्तत्सैन्यं समगाहत
७.०१४.०११ तैर्निरुच्छ्वासवत्तत्र वध्यमानो दशाननः
७.०१४.०११ वर्षमाणैरिव घनैर्यक्षेन्द्रैः संनिरुध्यत
७.०१४.०१२ स दुरात्मा समुद्यम्य कालदण्डोपमां गदाम्
७.०१४.०१२ प्रविवेश ततः सैन्यं नयन् यक्षान् यमक्षयम्
७.०१४.०१३ स कक्षमिव विस्तीर्णं शुष्केन्धनसमाकुलम्
७.०१४.०१३ वातेनाग्निरिवायत्तोऽदहत्सैन्यं सुदारुणम्
७.०१४.०१४ तैस्तु तस्य मृधेऽमात्यैर्महोदरशुकादिभिः
७.०१४.०१४ अल्पावशिष्टास्ते यक्षाः कृता वातैरिवाम्बुदाः
७.०१४.०१५ के चित्त्वायुधभग्नाङ्गाः पतिताः समरक्षितौ
७.०१४.०१५ ओष्ठान् स्वदशनैस्तीक्ष्णैर्दंशन्तो भुवि पातिताः
७.०१४.०१६ भयादन्योन्यमालिङ्ग्य भ्रष्टशस्त्रा रणाजिरे
७.०१४.०१६ निषेदुस्ते तदा यक्षाः कूला जलहता इव
७.०१४.०१७ हतानां स्वर्गसंस्थानां युध्यतां पृथिवीतले
७.०१४.०१७ प्रेक्षतामृषिसंघानां न बभूवान्तरं दिवि
७.०१४.०१८ एतस्मिन्नन्तरे राम विस्तीर्णबलवाहनः
७.०१४.०१८ अगमत्सुमहान् यक्षो नाम्ना संयोधकण्टकः
७.०१४.०१९ तेन यक्षेण मारीचो विष्णुनेव समाहतः
७.०१४.०१९ पतितः पृथिवीं भेजे क्षीणपुण्य इवाम्बरात्
७.०१४.०२० प्राप्तसंज्ञो मुहूर्तेन विश्रम्य च निशाचरः
७.०१४.०२० तं यक्षं योधयामास स च भग्नः प्रदुद्रुवे
७.०१४.०२१ ततः काञ्चनचित्राङ्गं वैदूर्यरजतोक्षितम्
७.०१४.०२१ मर्यादां द्वारपालानां तोरणं तत्समाविशत्
७.०१४.०२२ ततो राम दशग्रीवं प्रविशन्तं निशाचरम्
७.०१४.०२२ सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत्
७.०१४.०२३ ततस्तोरणमुत्पाट्य तेन यक्षेण ताडितः
७.०१४.०२३ राक्षसो यक्षसृष्टेन तोरणेन समाहतः
७.०१४.०२३ न क्षितिं प्रययौ राम वरात्सलिलयोनिनः
७.०१४.०२४ स तु तेनैव तं यक्षं तोरणेन समाहनत्
७.०१४.०२४ नादृश्यत तदा यक्षो भस्म तेन कृतस्तु सः
७.०१४.०२५ ततः प्रदुद्रुवुः सर्वे यक्षा दृष्ट्वा पराक्रमम्
७.०१४.०२५ ततो नदीर्गुहाश्चैव विविशुर्भयपीडिताः
७.०१५.००१ ततस्तान् विद्रुतान् दृष्ट्वा यक्षाञ्शतसहस्रशः
७.०१५.००१ स्वयमेव धनाध्यक्षो निर्जगाम रणं प्रति
७.०१५.००२ तत्र माणिचारो नाम यक्षः परमदुर्जयः
७.०१५.००२ वृतो यक्षसहस्रैः स चतुर्भिः समयोधयत्
७.०१५.००३ ते गदामुसलप्रासशक्तितोमरमुद्गरैः
७.०१५.००३ अभिघ्नन्तो रणे यक्षा राक्षसानभिदुद्रुवुः
७.०१५.००४ ततः प्रहस्तेन तदा सहस्रं निहतं रणे
७.०१५.००४ महोदरेण गदया सहस्रमपरं हतम्
७.०१५.००५ क्रुद्धेन च तदा राम मारीचेन दुरात्मना
७.०१५.००५ निमेषान्तरमात्रेण द्वे सहस्रे निपातिते
७.०१५.००६ धूम्राक्षेण समागम्य माणिभद्रो महारणे
७.०१५.००६ मुसलेनोरसि क्रोधात्ताडितो न च कम्पितः
७.०१५.००७ ततो गदां समाविध्य माणिभद्रेण राक्षसः
७.०१५.००७ धूम्राक्षस्ताडितो मूर्ध्नि विह्वलो निपपात ह
७.०१५.००८ धूम्राक्षं ताडितं दृष्ट्वा पतितं शोणितोक्षितम्
७.०१५.००८ अभ्यधावत्सुसंक्रुद्धो माणिभद्रं दशाननः
७.०१५.००९ तं क्रुद्धमभिधावन्तं युगान्ताग्निमिवोत्थितम्
७.०१५.००९ शक्तिभिस्ताडयामास तिसृभिर्यक्षपुंगवः
७.०१५.०१० ततो राक्षसराजेन ताडितो गदया रणे
७.०१५.०१० तस्य तेन प्रहारेण मुकुटः पार्श्वमागतः
७.०१५.०१० तदा प्रभृति यक्षोऽसौ पार्श्वमौलिरिति स्मृतः
७.०१५.०११ तस्मिंस्तु विमुखे यक्षे माणिभद्रे महात्मनि
७.०१५.०११ संनादः सुमहान् राम तस्मिञ्शैले व्यवर्धत
७.०१५.०१२ ततो दूरात्प्रददृशे धनाध्यक्षो गदाधरः
७.०१५.०१२ शुक्रप्रोष्टःपदाभ्यां च शङ्खपद्मसमावृतः
७.०१५.०१३ स दृष्ट्वा भ्रातरं संख्ये शापाद्विभ्रष्टगौरवम्
७.०१५.०१३ उवाच वचनं धीमान् युक्तं पैतामहे कुले
७.०१५.०१४ मया त्वं वार्यमाणोऽपि नावगच्छसि दुर्मते
७.०१५.०१४ पश्चादस्य फलं प्राप्य ज्ञास्यसे निरयं गतः
७.०१५.०१५ यो हि मोहाद्विषं पीत्वा नावगच्छति मानवः
७.०१५.०१५ परिणामे स वि मूढो जानीते कर्मणः फलम्
७.०१५.०१६ दैवतानि हि नन्दन्ति धर्मयुक्तेन केन चित्
७.०१५.०१६ येन त्वमीदृशं भावं नीतस्तच्च न बुध्यसे
७.०१५.०१७ यो हि मातॄह्पितॄन् भ्रातॄनाचर्यांश्चावमन्यते
७.०१५.०१७ स पश्यति फलं तस्य प्रेतराजवशं गतः
७.०१५.०१८ अध्रुवे हि शरीरे यो न करोति तपोऽर्जनम्
७.०१५.०१८ स पश्चात्तप्यते मूढो मृतो दृष्ट्वात्मनो गतिम्
७.०१५.०१९ कस्य चिन्न हि दुर्बुधेश्छन्दतो जायते मतिः
७.०१५.०१९ यादृशं कुरुते कर्म तादृशं फलमश्नुते
७.०१५.०२० बुद्धिं रूपं बलं वित्तं पुत्रान्माहात्म्यमेव च
७.०१५.०२० प्रप्नुवन्ति नराः सर्वं स्वकृतैः पूर्वकर्मभिः
७.०१५.०२१ एवं निरयगामी त्वं यस्य ते मतिरीदृशी
७.०१५.०२१ न त्वां समभिभाषिष्ये दुर्वृत्तस्यैष निर्णयः
७.०१५.०२२ एवमुक्त्वा ततस्तेन तस्यामात्याः समाहताः
७.०१५.०२२ मारीचप्रमुखाः सर्वे विमुखा विप्रदुद्रुवुः
७.०१५.०२३ ततस्तेन दशग्रीवो यक्षेन्द्रेण महात्मना
७.०१५.०२३ गदयाभिहतो मूर्ध्नि न च स्थानाद्व्यकम्पत
७.०१५.०२४ ततस्तौ राम निघ्नन्तावन्योन्यं परमाहवे
७.०१५.०२४ न विह्वलौ न च श्रान्तौ बभूवतुरमर्षणैः
७.०१५.०२५ आग्नेयमस्त्रं स ततो मुमोच धनदो रणे
७.०१५.०२५ वारुणेन दशग्रीवस्तदस्त्रं प्रत्यवारयत्
७.०१५.०२६ ततो मायां प्रविष्टः स राक्षसीं राक्षसेश्वरः
७.०१५.०२६ जघान मूर्ध्नि धनदं व्याविध्य महतीं गदाम्
७.०१५.०२७ एवं स तेनाभिहतो विह्वलः शोणितोक्षितः
७.०१५.०२७ कृत्तमूल इवाशोको निपपात धनाधिपः
७.०१५.०२८ ततः पद्मादिभिस्तत्र निधिभिः स धनाधिपः
७.०१५.०२८ नन्दनं वनमानीय धनदो श्वासितस्तदा
७.०१५.०२९ ततो निर्जित्य तं राम धनदं राक्षसाधिपः
७.०१५.०२९ पुष्पकं तस्य जग्राह विमानं जयलक्षणम्
७.०१५.०३० काञ्चनस्तम्भसंवीतं वैदूर्यमणितोरणम्
७.०१५.०३० मुक्ताजालप्रतिच्छन्नं सर्वकामफलद्रुमम्
७.०१५.०३१ तत्तु राजा समारुह्य कामगं वीर्यनिर्जितम्
७.०१५.०३१ जित्वा वैश्रवणं देवं कैलासादवरोहत
७.०१६.००१ स जित्वा भ्रातरं राम धनदं राक्षसाधिपः
७.०१६.००१ महासेनप्रसूतिं तु ययौ शरवणं ततः
७.०१६.००२ अथापश्यद्दशग्रीवो रौक्मं शरवणं तदा
७.०१६.००२ गभस्तिजालसंवीतं द्वितीयमिव भास्करम्
७.०१६.००३ पर्वतं स समासाद्य किं चिद्रम्यवनान्तरम्
७.०१६.००३ अपश्यत्पुष्पकं तत्र राम विष्टम्भितं दिवि
७.०१६.००४ विष्टब्धं पुष्पकं दृष्ट्वा कामगं ह्यगमं कृतम्
७.०१६.००४ राक्षसश्चिन्तयामास सचिवैस्तैः समावृतः
७.०१६.००५ किमिदं यन्निमित्तं मे न च गच्छति पुष्पकम्
७.०१६.००५ पर्वतस्योपरिस्थस्य कस्य कर्म त्विदं भवेत्
७.०१६.००६ ततोऽब्रवीद्दशग्रीवं मारीचो बुद्धिकोविदः
७.०१६.००६ नैतन्निष्कारणं राजन् पुष्पकोऽयं न गच्छति
७.०१६.००७ ततः पार्श्वमुपागम्य भवस्यानुचरो बली
७.०१६.००७ नन्दीश्वर उवाचेदं राक्षसेन्द्रमशङ्कितः
७.०१६.००८ निवर्तस्व दशग्रीव शैले क्रीडति शंकरः
७.०१६.००९ सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम्
७.०१६.००९ प्राणिनामेव सर्वेषामगम्यः पर्वतः कृतः
७.०१६.०१० स रोषात्ताम्रनयनः पुष्पकादवरुह्य च
७.०१६.०१० कोऽयं शंकर इत्युक्त्वा शैलमूलमुपागमत्
७.०१६.०११ नन्दीश्वरमथापश्यदविदूरस्थितं प्रभुम्
७.०१६.०११ दीप्तं शूलमवष्टभ्य द्वितीयमिव शंकरम्
७.०१६.०१२ स वानरमुखं दृष्ट्वा तमवज्ञाय राक्षसः
७.०१६.०१२ प्रहासं मुमुचे मौर्ख्यात्सतोय इव तोयदः
७.०१६.०१३ संक्रुद्धो भगवान्नन्दी शंकरस्यापरा तनुः
७.०१६.०१३ अब्रवीद्राक्षसं तत्र दशग्रीवमुपस्थितम्
७.०१६.०१४ यस्माद्वानरमूर्तिं मां दृष्ट्वा राक्षसदुर्मते
७.०१६.०१४ मौर्ख्यात्त्वमवजानीषे परिहासं च मुञ्चसि
७.०१६.०१५ तस्मान्मद्रूपसंयुक्ता मद्वीर्यसमतेजसः
७.०१६.०१५ उत्पत्स्यन्ते वधार्थं हि कुलस्य तव वानराः
७.०१६.०१६ किं त्विदानीं मया शक्यं कर्तुं यत्त्वां निशाचर
७.०१६.०१६ न हन्तव्यो हतस्त्वं हि पूर्वमेव स्वकर्मभिः
७.०१६.०१७ अचिन्तयित्वा स तदा नन्दिवाक्यं निशाचरः
७.०१६.०१७ पर्वतं तं समासाद्य वाक्यमेतदुवाच ह
७.०१६.०१८ पुष्पकस्य गतिश्छिन्ना यत्कृते मम गच्छतः
७.०१६.०१८ तदेतच्छैलमुन्मूलं करोमि तव गोपते
७.०१६.०१९ केन प्रभावेन भवस्तत्र क्रीडति राजवत्
७.०१६.०१९ विज्ञातव्यं न जानीषे भयस्थानमुपस्थितम्
७.०१६.०२० एवमुक्त्वा ततो राजन् भुजान् प्रक्षिप्य पर्वते
७.०१६.०२० तोलयामास तं शैलं समृगव्यालपादपम्
७.०१६.०२१ ततो राम महादेवः प्रहसन् वीक्ष्य तत्कृतम्
७.०१६.०२१ पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया
७.०१६.०२२ ततस्ते पीडितास्तस्य शैलस्याधो गता भुजाः
७.०१६.०२२ विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः
७.०१६.०२३ रक्षसा तेन रोषाच्च भुजानां पीडनात्तथा
७.०१६.०२३ मुक्तो विरावः सुमहांस्त्रैलोक्यं येन पूरितम्
७.०१६.०२४ मानुषाः शब्दवित्रस्ता मेनिरे लोकसंक्षयम्
७.०१६.०२४ देवताश्चापि संक्षुब्धाश्चलिताः स्वेषु कर्मसु
७.०१६.०२५ ततः प्रीतो महादेवः शैलाग्रे विष्ठितस्तदा
७.०१६.०२५ मुक्त्वा तस्य भुजान् राजन् प्राह वाक्यं दशाननम्
७.०१६.०२६ प्रीतोऽस्मि तव वीर्याच्च शौण्डीर्याच्च निशाचर
७.०१६.०२६ रवतो वेदना मुक्तः स्वरः परमदारुणः
७.०१६.०२७ यस्माल्लोकत्रयं त्वेतद्रावितं भयमागतम्
७.०१६.०२७ तस्मात्त्वं रावणो नाम नाम्ना तेन भविष्यसि
७.०१६.०२८ देवता मानुषा यक्षा ये चान्ये जगतीतले
७.०१६.०२८ एवं त्वामभिधास्यन्ति रावणं लोकरावणम्
७.०१६.०२९ गच्छ पौलस्त्य विस्रब्धः पथा येन त्वमिच्छसि
७.०१६.०२९ मया त्वमभ्यनुज्ञातो राक्षसाधिप गम्यताम्
७.०१६.०३० साक्षान्महेश्वरेणैवं कृतनामा स रावणः
७.०१६.०३० अभिवाद्य महादेवं विमानं तत्समारुहत्
७.०१६.०३१ ततो महीतले राम परिचक्राम रावणः
७.०१६.०३१ क्षत्रियान् सुमहावीर्यान् बाधमानस्ततस्ततः
७.०१७.००१ अथ राजन्महाबाहुर्विचरन् स महीतलम्
७.०१७.००१ हिमवद्वनमासाद्य परिचक्राम रावणः
७.०१७.००२ तत्रापश्यत वै कन्यां कृष्टाजिनजटाधराम्
७.०१७.००२ आर्षेण विधिना युक्तां तपन्तीं देवतामिव
७.०१७.००३ स दृष्ट्वा रूपसंपन्नां कन्यां तां सुमहाव्रताम्
७.०१७.००३ काममोहपरीतात्मा पप्रच्छ प्रहसन्निव
७.०१७.००४ किमिदं वर्तसे भद्रे विरुद्धं यौवनस्य ते
७.०१७.००४ न हि युक्ता तवैतस्य रूपस्येयं प्रतिक्रिया
७.०१७.००५ कस्यासि दुहिता भद्रे को वा भर्ता तवानघे
७.०१७.००५ पृच्छतः शंस मे शीघ्रं को वा हेतुस्तपोऽर्जने
७.०१७.००६ एवमुक्ता तु सा कन्या तेनानार्येण रक्षसा
७.०१७.००६ अब्रवीद्विधिवत्कृत्वा तस्यातिथ्यं तपोधना
७.०१७.००७ कुशध्वजो नाम पिता ब्रह्मर्षिर्मम धार्मिकः
७.०१७.००७ बृहस्पतिसुतः श्रीमान् बुद्ध्या तुल्यो बृहस्पतेः
७.०१७.००८ तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः
७.०१७.००८ संभूता वान्मयी कन्या नाम्ना वेदवती स्मृता
७.०१७.००९ ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः
७.०१७.००९ ते चापि गत्वा पितरं वरणं रोचयन्ति मे
७.०१७.०१० न च मां स पिता तेभ्यो दत्तवान् राक्षसेश्वर
७.०१७.०१० कारणं तद्वदिष्यामि निशामय महाभुज
७.०१७.०११ पितुस्तु मम जामाता विष्णुः किल सुरोत्तमः
७.०१७.०११ अभिप्रेतस्त्रिलोकेशस्तस्मान्नान्यस्य मे पिताः
७.०१७.०१२ दातुमिच्छति धर्मात्मा तच्छ्रुत्वा बलदर्पितः
७.०१७.०१२ शम्भुर्नाम ततो राजा दैत्यानां कुपितोऽभवत्
७.०१७.०१२ तेन रात्रौ प्रसुप्तो मे पिता पापेन हिंसितः
७.०१७.०१३ ततो मे जननी दीना तच्छरीरं पितुर्मम
७.०१७.०१३ परिष्वज्य महाभागा प्रविष्टा दहनं सह
७.०१७.०१४ ततो मनोरथं सत्यं पितुर्नारायणं प्रति
७.०१७.०१४ करोमीति ममेच्छा च हृदये साधु विष्ठिता
७.०१७.०१५ अहं प्रेतगतस्यापि करिष्ये काङ्क्षितं पितुः
७.०१७.०१५ इति प्रतिज्ञामारुह्य चरामि विपुलं तपः
७.०१७.०१६ एतत्ते सर्वमाख्यातं मया राक्षसपुंगव
७.०१७.०१६ आश्रितां विद्धि मां धर्मं नारायणपतीच्छया
७.०१७.०१७ विज्ञातस्त्वं हि मे राजन् गच्छ पौलस्त्यनन्दन
७.०१७.०१७ जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते
७.०१७.०१८ सोऽब्रवीद्रावणस्तत्र तां कन्यां सुमहाव्रताम्
७.०१७.०१८ अवरुह्य विमानाग्रात्कन्दर्पशरपीडितः
७.०१७.०१९ अवलिप्तासि सुश्रोणि यस्यास्ते मतिरीदृशी
७.०१७.०१९ वृद्धानां मृगशावाक्षि भ्राजते धर्मसंचयः
७.०१७.०२० त्वं सर्वगुणसंपन्ना नार्हसे कर्तुमीदृशम्
७.०१७.०२० त्रैलोक्यसुन्दरी भीरु यौवने वार्धकं विधिम्
७.०१७.०२१ कश्च तावदसौ यं त्वं विष्णुरित्यभिभाषसे
७.०१७.०२१ वीर्येण तपसा चैव भोगेन च बलेन च
७.०१७.०२१ न मयासौ समो भद्रे यं त्वं कामयसेऽङ्गने
७.०१७.०२२ म मैवमिति सा कन्या तमुवाच निशाचरम्
७.०१७.०२२ मूर्धजेषु च तां रक्षः कराग्रेण परामृशत्
७.०१७.०२३ ततो वेदवती क्रुद्धा केशान् हस्तेन साच्छिनत्
७.०१७.०२३ उवाचाग्निं समाधाय मरणाय कृतत्वरा
७.०१७.०२४ धर्षितायास्त्वयानार्य नेदानीं मम जीवितम्
७.०१७.०२४ रक्षस्तस्मात्प्रवेक्ष्यामि पश्यतस्ते हुताशनम्
७.०१७.०२५ यस्मात्तु धर्षिता चाहमपापा चाप्यनाथवत्
७.०१७.०२५ तस्मात्तव वधार्थं वै समुत्पत्स्याम्यहं पुनः
७.०१७.०२६ न हि शक्यः स्त्रिया पाप हन्तुं त्वं तु विशेषतः
७.०१७.०२६ शापे त्वयि मयोत्सृष्टे तपसश्च व्ययो भवेत्
७.०१७.०२७ यदि त्वस्ति मया किं चित्कृतं दत्तं हुतं तथा
७.०१७.०२७ तेन ह्ययोनिजा साध्वी भवेयं धर्मिणः सुता
७.०१७.०२८ एवमुक्त्वा प्रविष्टा सा ज्वलन्तं वै हुताशनम्
७.०१७.०२८ पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः
७.०१७.०२९ पूर्वं क्रोधहतः शत्रुर्ययासौ निहतस्त्वया
७.०१७.०२९ समुपाश्रित्य शैलाभं तव वीर्यममानुषम्
७.०१७.०३० एवमेषा महाभागा मर्त्येषूत्पद्यते पुनः
७.०१७.०३० क्षेत्रे हलमुखग्रस्ते वेद्यामग्निशिखोपमा
७.०१७.०३१ एषा वेदवती नाम पूर्वमासीत्कृते युगे
७.०१७.०३१ त्रेतायुगमनुप्राप्य वधार्थं तस्य रक्षसः
७.०१७.०३१ सीतोत्पन्नेति सीतैषा मानुषैः पुनरुच्यते
७.०१८.००१ प्रविष्टायाअं हुताशं तु वेदवत्यां स रावणः
७.०१८.००१ पुष्पकं तत्समारुह्य परिचक्राम मेदिनीम्
७.०१८.००२ ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः
७.०१८.००२ उशीरबीजमासाद्य ददर्श स तु राक्षसः
७.०१८.००३ संवर्तो नाम ब्रह्मर्षिर्भ्राता साक्षाद्बृहस्पतेः
७.०१८.००३ याजयामास धर्मज्ञः सर्वैर्ब्रह्मगणैर्वृतः
७.०१८.००४ दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम्
७.०१८.००४ तां तां योनिं समापन्नास्तस्य धर्षणभीरवः
७.०१८.००५ इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः
७.०१८.००५ कृकलासो धनाध्यक्षो हंसो वै वरुणोऽभवत्
७.०१८.००६ तं च राजानमासाद्य रावणो राक्षसाधिपः
७.०१८.००६ प्राह युद्धं प्रयच्चेति निर्जितोऽस्मीति वा वद
७.०१८.००७ ततो मरुत्तो नृपतिः को भवानित्युवाच तम्
७.०१८.००७ अवहासं ततो मुक्त्वा राक्षसो वाक्यमब्रवीत्
७.०१८.००८ अकुतूहलभावेन प्रीतोऽस्मि तव पार्थिव
७.०१८.००८ धनदस्यानुजं यो मां नावगच्छसि रावणम्
७.०१८.००९ त्रिषु लोकेषु कः सोऽस्ति यो न जानाति मे बलम्
७.०१८.००९ भ्रातरं येन निर्जित्य विमानमिदमाहृतम्
७.०१८.०१० ततो मरुत्तो नृपतिस्तं राक्षसमथाब्रवीत्
७.०१८.०१० धन्यः खलु भवान् येन ज्येष्ठो भ्राता रणे जितः
७.०१८.०११ नाधर्मसहितं श्लाघ्यं न लोकप्रतिसंहितम्
७.०१८.०११ कर्म दौरात्म्यकं कृत्वा श्लाघसे भ्रातृनिर्जयात्
७.०१८.०१२ किं त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान् वरम्
७.०१८.०१२ श्रुतपूर्वं हि न मया यादृशं भाषसे स्वयम्
७.०१८.०१३ ततः शरासनं गृह्य सायकांश्च स पार्थिवः
७.०१८.०१३ रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत्
७.०१८.०१४ सोऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः
७.०१८.०१४ श्रोतव्यं यदि मद्वाक्यं संप्रहारो न ते क्षमः
७.०१८.०१५ माहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत्
७.०१८.०१५ दीक्षितस्य कुतो युद्धं क्रूरत्वं दीक्षिते कुतः
७.०१८.०१६ संशयश्च रणे नित्यं राक्षसश्चैष दुर्जयः
७.०१८.०१६ स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः
७.०१८.०१६ विसृज्य सशरं चापं स्वस्थो मखमुखोऽभवत्
७.०१८.०१७ ततस्तं निर्जितं मत्वा घोषयामास वै शुकः
७.०१८.०१७ रावणो जितवांश्चेति हर्षान्नादं च मुक्तवान्
७.०१८.०१८ तान् भक्षयित्वा तत्रस्थान्महर्षीन् यज्ञमागतान्
७.०१८.०१८ वितृप्तो रुधिरैस्तेषां पुनः संप्रययौ महीम्
७.०१८.०१९ रावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः
७.०१८.०१९ ततः स्वां योनिमासाद्य तानि सत्त्वान्यथाब्रुवन्
७.०१८.०२० हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम्
७.०१८.०२० प्रीतोऽस्मि तव धर्मज्ञ उपकाराद्विहंगम
७.०१८.०२१ मम नेत्रसहस्रं यत्तत्ते बर्हे भविष्यति
७.०१८.०२१ वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणम्
७.०१८.०२२ नीलाः किल पुरा बर्हा मयूराणां नराधिप
७.०१८.०२२ सुराधिपाद्वरं प्राप्य गताः सर्वे विचित्रताम्
७.०१८.०२३ धर्मराजोऽब्रवीद्राम प्राग्वंशे वायसं स्थितम्
७.०१८.०२३ पक्षिंस्तवास्मि सुप्रीतः प्रीतस्य च वचः शृणु
७.०१८.०२४ यथान्ये विविधै रोगैः पीड्यन्ते प्राणिनो मया
७.०१८.०२४ ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः
७.०१८.०२५ मृत्युतस्ते भयं नास्ति वरान्मम विहंगम
७.०१८.०२५ यावत्त्वां न वधिष्यन्ति नरास्तावद्भविष्यसि
७.०१८.०२६ ये च मद्विषयस्थास्तु मानवाः क्षुधयार्दिताः
७.०१८.०२६ त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः
७.०१८.०२७ वरुणस्त्वब्रवीद्धंसं गङ्गातोयविचारिणम्
७.०१८.०२७ श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर
७.०१८.०२८ वर्णो मनोहरः सौम्यश्चन्द्रमण्डलसंनिभः
७.०१८.०२८ भविष्यति तवोदग्रः शुक्लफेनसमप्रभः
७.०१८.०२९ मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि
७.०१८.०२९ प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम्
७.०१८.०३० हंसानां हि पुरा राम न वर्णः सर्वपाण्डुरः
७.०१८.०३० पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः
७.०१८.०३१ अथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम्
७.०१८.०३१ हैरण्यं संप्रयच्छामि वर्णं प्रीतिस्तवाप्यहम्
७.०१८.०३२ सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम्
७.०१८.०३२ एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति
७.०१८.०३३ एवं दत्त्वा वरांस्तेभ्यस्तस्मिन् यज्ञोत्सवे सुराः
७.०१८.०३३ निवृत्ते सह राज्ञा वै पुनः स्वभवनं गताः
७.०१९.००१ अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः
७.०१९.००१ नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः
७.०१९.००२ स समासाद्य राजेन्द्रान्महेन्द्रवरुणोपमान्
७.०१९.००२ अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति
७.०१९.००३ निर्जिताः स्मेति वा ब्रूत एषो हि मम निश्चयः
७.०१९.००३ अन्यथा कुर्वतामेवं मोक्षो वो नोपपद्यते
७.०१९.००४ ततस्तु बहवः प्राज्ञाः पार्थिवा धर्मणिश्चयाः
७.०१९.००४ निर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरबलं रिपोः
७.०१९.००५ दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः
७.०१९.००५ एते सर्वेऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः
७.०१९.००६ अथायोध्यां समासाद्य रावणो राक्षसाधिपः
७.०१९.००६ सुगुप्तामनरण्येन शक्रेणेवामरावतीम्
७.०१९.००७ प्राह राजानमासाद्य युद्धं मे संप्रदीयताम्
७.०१९.००७ निर्जितोऽस्मीति वा ब्रूहि ममैतदिह शासनम्
७.०१९.००८ अनरण्यः सुसंक्रुद्धो राक्षसेन्द्रमथाब्रवीत्
७.०१९.००८ दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया
७.०१९.००९ अथ पूर्वं श्रुतार्थेन सज्जितं सुमहद्धि यत्
७.०१९.००९ निष्क्रामत्तन्नरेन्द्रस्य बलं रक्षोवधोद्यतम्
७.०१९.०१० नागानां बहुसाहस्रं वाजिनामयुतं तथा
७.०१९.०१० महीं संछाद्य निष्क्रान्तं सपदातिरथं क्षणात्
७.०१९.०११ तद्रावणबलं प्राप्य बलं तस्य महीपतेः
७.०१९.०११ प्राणश्यत तदा राजन् हव्यं हुतमिवानले
७.०१९.०१२ सोऽपश्यत नरेन्द्रस्तु नश्यमानं महद्बलम्
७.०१९.०१२ महार्णवं समासाद्य यथा पञ्चापगा जलम्
७.०१९.०१३ ततः शक्रधनुःप्रख्यं धनुर्विस्फारयन् स्वयम्
७.०१९.०१३ आसदाद नरेन्द्रास्तं रावणं क्रोधमूर्छितः
७.०१९.०१४ ततो बाणशतान्यष्टौ पातयामास मूर्धनि
७.०१९.०१४ तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः
७.०१९.०१५ तस्य बाणाः पतन्तस्ते चक्रिरे न क्षतं क्व चित्
७.०१९.०१५ वारिधारा इवाभ्रेभ्यः पतन्त्यो नगमूर्धनि
७.०१९.०१६ ततो राक्षसराजेन क्रुद्धेन नृपतिस्तदा
७.०१९.०१६ तलेन भिहतो मूर्ध्नि स रथान्निपपात ह
७.०१९.०१७ स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः
७.०१९.०१७ वज्रदग्ध इवारण्ये सालो निपतितो महान्
७.०१९.०१८ तं प्रहस्याब्रवीद्रक्ष इक्ष्वाकुं पृथिवीपतिम्
७.०१९.०१८ किमिदानीं त्वया प्राप्तं फलं मां प्रति युध्यता
७.०१९.०१९ त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिप
७.०१९.०१९ शङ्के प्रमत्तो भोगेषु न शृणोषि बलं मम
७.०१९.०२० तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत्
७.०१९.०२० किं शक्यमिह कर्तुं वै यत्कालो दुरतिक्रमः
७.०१९.०२१ न ह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना
७.०१९.०२१ कालेनेह विपन्नोऽहं हेतुभूतस्तु मे भवान्
७.०१९.०२२ किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये
७.०१९.०२२ इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस
७.०१९.०२३ यदि दत्तं यदि हुतं यदि मे सुकृतं तपः
७.०१९.०२३ यदि गुप्ताः प्रजाः सम्यक्तथा सत्यं वचोऽस्तु मे
७.०१९.०२४ उत्पत्स्यते कुले ह्यस्मिन्निक्ष्वाकूणां महात्मनाम्
७.०१९.०२४ राजा परमतेजस्वी यस्ते प्राणान् हरिष्यति
७.०१९.०२५ ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः
७.०१९.०२५ तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्च्युता
७.०१९.०२६ ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम्
७.०१९.०२६ स्वर्गते च नृपे राम राक्षसः स न्यवर्तत
७.०२०.००१ ततो वित्रासयन्मर्त्यान् पृथिव्यां राक्षसाधिपः
७.०२०.००१ आससाद घने तस्मिन्नारदं मुनिसत्तमम्
७.०२०.००२ नारदस्तु महातेजा देवर्षिरमितप्रभः
७.०२०.००२ अब्रवीन्मेघपृष्ठस्थो रावणं पुष्पके स्थितम्
७.०२०.००३ राक्षसाधिपते सौम्य तिष्ठ विश्रवसः सुत
७.०२०.००३ प्रीतोऽस्म्यभिजनोपेत विक्रमैरूर्जितैस्तव
७.०२०.००४ विष्णुना दैत्यघातैश्च तार्क्ष्यस्योरगधर्षणैः
७.०२०.००४ त्वया समरमर्दैश्च भृशं हि परितोषितः
७.०२०.००५ किं चिद्वक्ष्यामि तावत्ते श्रोतव्यं श्रोष्यसे यदि
७.०२०.००५ श्रुत्वा चानन्तरं कार्यं त्वया राक्षसपुंगव
७.०२०.००६ किमयं वध्यते लोकस्त्वयावध्येन दैवतैः
७.०२०.००६ हत एव ह्ययं लोको यदा मृत्युवशं गतः
७.०२०.००७ पश्य तावन्महाबाहो राक्षसेश्वरमानुषम्
७.०२०.००७ लोकमेनं विचित्रार्थं यस्य न ज्ञायते गतिः
७.०२०.००८ क्व चिद्वादित्रनृत्तानि सेव्यन्ते मुदितैर्जनैः
७.०२०.००८ रुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः
७.०२०.००९ माता पितृसुतस्नेहैर्भार्या बन्धुमनोरमैः
७.०२०.००९ मोहेनायं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते
७.०२०.०१० तत्किमेवं परिक्लिश्य लोकं मोहनिराकृतम्
७.०२०.०१० जित एव त्वया सौम्य मर्त्यलोको न संशयः
७.०२०.०११ एवमुक्तस्तु लङ्केशो दीप्यमान इवौजसा
७.०२०.०११ अब्रवीन्नारदं तत्र संप्रहस्याभिवाद्य च
७.०२०.०१२ महर्षे देवगन्धर्वविहार समरप्रिय
७.०२०.०१२ अहं खलूद्यतो गन्तुं विजयार्थी रसातलम्
७.०२०.०१३ ततो लोकत्रयं जित्वा स्थाप्य नागान् सुरान् वशे
७.०२०.०१३ समुद्रममृतार्थं वै मथिष्यामि रसालयम्
७.०२०.०१४ अथाब्रवीद्दशग्रीवं नारदो भगवानृषिः
७.०२०.०१४ क्व खल्विदानीं मार्गेण त्वयानेन गमिष्यते
७.०२०.०१५ अयं खलु सुदुर्गम्यः पितृराज्ञः पुरं प्रति
७.०२०.०१५ मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन
७.०२०.०१६ स तु शारदमेघाभं मुक्त्वा हासं दशाननः
७.०२०.०१६ उवाच कृतमित्येव वचनं चेदमब्रवीत्
७.०२०.०१७ तस्मादेष महाब्रह्मन् वैवस्वतवधोद्यतः
७.०२०.०१७ गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः
७.०२०.०१८ मया हि भगवन् क्रोधात्प्रतिज्ञातं रणार्थिना
७.०२०.०१८ अवजेष्यामि चतुरो लोकपालानिति प्रभो
७.०२०.०१९ तेनैष प्रस्थितोऽहं वै पितृराजपुरं प्रति
७.०२०.०१९ प्राणिसंक्लेशकर्तारं योजयिष्यामि मृत्युना
७.०२०.०२० एवमुक्त्वा दशग्रीवो मुनिं तमभिवाद्य च
७.०२०.०२० प्रययौ दक्षिणामाशां प्रहृष्टैः सह मन्त्रिभिः
७.०२०.०२१ नारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः
७.०२०.०२१ चिन्तयामास विप्रेन्द्रो विधूम इव पावकः
७.०२०.०२२ येन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः
७.०२०.०२२ क्षीणे चायुषि धर्मे च स कालो हिंस्यते कथम्
७.०२०.०२३ यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः
७.०२०.०२३ तं कथं राक्षसेन्द्रोऽसौ स्वयमेवाभिगच्छति
७.०२०.०२४ यो विधाता च धाता च सुकृते दुष्कृते यथा
७.०२०.०२४ त्रैलोक्यं विजितं येन तं कथं नु विजेष्यति
७.०२०.०२५ अपरं किं नु कृत्वैवं विधानं संविधास्यति
७.०२०.०२५ कौतूहलसमुत्पन्नो यास्यामि यमसादनम्
७.०२१.००१ एवं संचिन्त्य विप्रेन्द्रो जगाम लघुविक्रमः
७.०२१.००१ आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति
७.०२१.००२ अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम्
७.०२१.००२ विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम्
७.०२१.००३ स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम्
७.०२१.००३ अब्रवीत्सुखमासीनमर्घ्यमावेद्य धर्मतः
७.०२१.००४ कच्चित्क्षेमं नु देवर्षे कच्चिद्धर्मो न नश्यति
७.०२१.००४ किमागमनकृत्यं ते देवगन्धर्वसेवित
७.०२१.००५ अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः
७.०२१.००५ श्रूयतामभिधास्यामि विधानं च विधीयताम्
७.०२१.००६ एष नाम्ना दशग्रीवः पितृराज निशाचरः
७.०२१.००६ उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम्
७.०२१.००७ एतेन कारणेनाहं त्वरितोऽस्म्यागतः प्रभो
७.०२१.००७ दण्डप्रहरणस्याद्य तव किं नु करिष्यति
७.०२१.००८ एतस्मिन्नन्तरे दूरादंशुमन्तमिवोदितम्
७.०२१.००८ ददृशे दिव्यमायान्तं विमानं तस्य रक्षसः
७.०२१.००९ तं देशं प्रभया तस्य पुष्पकस्य महाबलः
७.०२१.००९ कृत्वा वितिमिरं सर्वं समीपं समवर्तत
७.०२१.०१० स त्वपश्यन्महाबाहुर्दशग्रीवस्ततस्ततः
७.०२१.०१० प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम्
७.०२१.०११ ततस्तान् वध्यमानांस्तु कर्मभिर्दुष्कृतैः स्वकैः
७.०२१.०११ रावणो मोचयामास विक्रमेण बलाद्बली
७.०२१.०१२ प्रेतेषु मुच्यमानेषु राक्षसेन बलीयसा
७.०२१.०१२ प्रेतगोपाः सुसंरब्धा राक्षसेन्द्रमभिद्रवन्
७.०२१.०१३ ते प्रासैः परिघैः शूलैर्मुद्गरैः शक्तितोमरैः
७.०२१.०१३ पुष्पकं समवर्षन्त शूराः शतसहस्रशः
७.०२१.०१४ तस्यासनानि प्रासादान् वेदिकास्तरणानि च
७.०२१.०१४ पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव
७.०२१.०१५ देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे
७.०२१.०१५ भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा
७.०२१.०१६ ततस्ते रावणामात्या यथाकामं यथाबलम्
७.०२१.०१६ अयुध्यन्त महावीर्याः स च राजा दशाननः
७.०२१.०१७ ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः
७.०२१.०१७ अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत्
७.०२१.०१८ अन्योन्यं च महाभागा जघ्नुः प्रहरणैर्युधि
७.०२१.०१८ यमस्य च महत्सैन्यं राक्षसस्य च मन्त्रिणः
७.०२१.०१९ अमात्यांस्तांस्तु संत्यज्य राक्षसस्य महौजसः
७.०२१.०१९ तमेव समधावन्त शूलवर्षैर्दशाननम्
७.०२१.०२० ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः
७.०२१.०२० विमाने राक्षसश्रेष्ठः फुल्लाशोक इवाबभौ
७.०२१.०२१ स शूलानि गदाः प्रासाञ्शक्तितोमरसायकान्
७.०२१.०२१ मुसलानि शिलावृक्षान्मुमोचास्त्रबलाद्बली
७.०२१.०२२ तांस्तु सर्वान् समाक्षिप्य तदस्त्रमपहत्य च
७.०२१.०२२ जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रकः
७.०२१.०२३ परिवार्य च तं सर्वे शैलं मेघोत्करा इव
७.०२१.०२३ भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमकारयन्
७.०२१.०२४ विमुक्तकवचः क्रुद्धो सिक्तः शोणितविस्रवैः
७.०२१.०२४ स पुष्पकं परित्यज्य पृथिव्यामवतिष्ठत
७.०२१.०२५ ततः स कार्मुकी बाणी पृथिव्यां राक्षसाधिपः
७.०२१.०२५ लब्धसंज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथान्तकः
७.०२१.०२६ ततः पाशुपतं दिव्यमस्त्रं संधाय कार्मुके
७.०२१.०२६ तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं व्यपकर्षत
७.०२१.०२७ ज्वालामाली स तु शरः क्रव्यादानुगतो रणे
७.०२१.०२७ मुक्तो गुल्मान् द्रुमांश्चैव भस्मकृत्वा प्रधावति
७.०२१.०२८ ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु
७.०२१.०२८ रणे तस्मिन्निपतिता दावदग्धा नगा इव
७.०२१.०२९ ततः स सचिवैः सार्धं राक्षसो भीमविक्रमः
७.०२१.०२९ ननाद सुमहानादं कम्पयन्निव मेदिनीम्
७.०२२.००१ स तु तस्य महानादं श्रुत्वा वैवस्वतो यमः
७.०२२.००१ शत्रुं विजयिनं मेने स्वबलस्य च संक्षयम्
७.०२२.००२ स तु योधान् हतान्मत्वा क्रोधपर्याकुलेक्षणः
७.०२२.००२ अब्रवीत्त्वरितं सूतं रथः समुपनीयताम्
७.०२२.००३ तस्य सूतो रथं दिव्यमुपस्थाप्य महास्वनम्
७.०२२.००३ स्थितः स च महातेजा आरुरोह महारथम्
७.०२२.००४ पाशमुद्गरहस्तश्च मृत्युस्तस्याग्रतो स्थितः
७.०२२.००४ येन संक्षिप्यते सर्वं त्रैलोक्यं सचराचरम्
७.०२२.००५ कालदण्डश्च पार्श्वस्थो मूर्तिमान् स्यन्दने स्थितः
७.०२२.००५ यमप्रहरणं दिव्यं प्रज्वलन्निव तेजसा
७.०२२.००६ ततो लोकास्त्रयस्त्रस्ताः कम्पन्ते च दिवौकसः
७.०२२.००६ कालं क्रुद्धं तदा दृष्ट्वा लोकत्रयभयावहम्
७.०२२.००७ दृष्ट्वा तु ते तं विकृतं रथं मृत्युसमन्वितम्
७.०२२.००७ सचिवा राक्षसेन्द्रस्य सर्वलोकभयावहम्
७.०२२.००८ लघुसत्त्वतया सर्वे नष्टसंज्ञा भयार्दिताः
७.०२२.००८ नात्र योद्धुं समर्थाः स्म इत्युक्त्वा विप्रदुद्रुवुः
७.०२२.००९ स तु तं तादृशं दृष्ट्वा रथं लोकभयावहम्
७.०२२.००९ नाक्षुभ्यत तदा रक्षो व्यथा चैवास्य नाभवत्
७.०२२.०१० स तु रावणमासाद्य विसृजञ्शक्तितोमरान्
७.०२२.०१० यमो मर्माणि संक्रुद्धो राक्षसस्य न्यकृन्तत
७.०२२.०११ रावणस्तु स्थितः स्वस्थः शरवर्षं मुमोच ह
७.०२२.०११ तस्मिन् वैवस्वतरथे तोयवर्षमिवाम्बुदः
७.०२२.०१२ ततो महाशक्तिशतैः पात्यमानैर्महोरसि
७.०२२.०१२ प्रतिकर्तुं स नाशक्नोद्राक्षसः शल्यपीडितः
७.०२२.०१३ नानाप्रहरणैरेवं यमेनामित्रकर्शिना
७.०२२.०१३ सप्तरात्रं कृते संख्ये न भग्नो विजितोऽपि वा
७.०२२.०१४ ततोऽभवत्पुनर्युद्धं यमराक्षसयोस्तदा
७.०२२.०१४ विजयाकाङ्क्षिणोस्तत्र समरेष्वनिवर्तिनोः
७.०२२.०१५ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः
७.०२२.०१५ प्रजापतिं पुरस्कृत्य ददृशुस्तद्रणाजिरम्
७.०२२.०१६ संवर्त इव लोकानामभवद्युध्यतोस्तयोः
७.०२२.०१६ राक्षसानां च मुख्यस्य प्रेतानामीश्वरस्य च
७.०२२.०१७ राक्षसेन्द्रस्ततः क्रुद्धश्चापमायम्य संयुगे
७.०२२.०१७ निरन्तरमिवाकाशं कुर्वन् बाणान्मुमोच ह
७.०२२.०१८ मृत्युं चतुर्भिर्विशिखैः सूतं सप्तभिरर्दयत्
७.०२२.०१८ यमं शरसहस्रेण शीघ्रं मर्मस्वताडयत्
७.०२२.०१९ ततः क्रुद्धस्य सहसा यमस्याभिविनिःसृतः
७.०२२.०१९ ज्वालामालो विनिश्वासो वदनात्क्रोधपावकः
७.०२२.०२० ततोऽपश्यंस्तदाश्चर्यं देवदानवराक्षसाः
७.०२२.०२० क्रोधजं पावकं दीप्तं दिधक्षन्तं रिपोर्बलम्
७.०२२.०२१ मृत्युस्तु परमक्रुद्धो वैवस्वतमथाब्रवीत्
७.०२२.०२१ मुञ्च मां देव शीघ्रं त्वं निहन्मि समरे रिपुम्
७.०२२.०२२ नरकः शम्बरो वृत्रः शम्भुः कार्तस्वरो बली
७.०२२.०२२ नमुचिर्विरोचनश्चैव तावुभौ मधुकैटभौ
७.०२२.०२३ एते चान्ये च बहवो बलवन्तो दुरासदाः
७.०२२.०२३ विनिपन्ना मया दृष्टाः का चिन्तास्मिन्निशाचरे
७.०२२.०२४ मुञ्च मां साधु धर्मज्ञ यावदेनं निहन्म्यहम्
७.०२२.०२४ न हि कश्चिन्मया दृष्टो मुहूर्तमपि जीवति
७.०२२.०२५ बलं मम न खल्वेतन्मर्यादैषा निसर्गतः
७.०२२.०२५ संस्पृष्टो हि मया कश्चिन्न जीवेदिति निश्चयः
७.०२२.०२६ एतत्तु वचनं श्रुत्वा धर्मराजः प्रतापवान्
७.०२२.०२६ अब्रवीत्तत्र तं मृत्युमयमेनं निहन्म्यहम्
७.०२२.०२७ ततः संरक्तनयनः क्रुद्धो वैवस्वतः प्रभुः
७.०२२.०२७ कालदण्डममोघं तं तोलयामास पाणिना
७.०२२.०२८ यस्य पार्श्वेषु निश्छिद्राः कालपाशाः प्रतिष्ठिताः
७.०२२.०२८ पावकस्पर्शसंकाशो मुद्गरो मूर्तिमान् स्थितः
७.०२२.०२९ दर्शनादेव यः प्राणान् प्राणिनामुपरुध्यति
७.०२२.०२९ किं पुनस्ताडनाद्वापि पीडनाद्वापि देहिनः
७.०२२.०३० स ज्वालापरिवारस्तु पिबन्निव निशाचरम्
७.०२२.०३० करस्पृष्टो बलवता दण्डः क्रुद्धः सुदारुणः
७.०२२.०३१ ततो विदुद्रुवुः सर्वे सत्त्वास्तस्माद्रणाजिरात्
७.०२२.०३१ सुराश्च क्षुभिता दृष्ट्वा कालदण्डोद्यतं यमम्
७.०२२.०३२ तस्मिन् प्रहर्तुकामे तु दण्डमुद्यम्य रावणम्
७.०२२.०३२ यमं पितामहः साक्षाद्दर्शयित्वेदमब्रवीत्
७.०२२.०३३ वैवस्वत महाबाहो न खल्वतुलविक्रम
७.०२२.०३३ प्रहर्तव्यं त्वयैतेन दण्डेनास्मिन्निशाचरे
७.०२२.०३४ वरः खलु मया दत्तस्तस्य त्रिदशपुंगव
७.०२२.०३४ तत्त्वया नानृतं कार्यं यन्मया व्याहृतं वचः
७.०२२.०३५ अमोघो ह्येष सर्वासां प्रजानां विनिपातने
७.०२२.०३५ कालदण्डो मया सृष्टः पूर्वं मृत्युपुरस्कृतः
७.०२२.०३६ तन्न खल्वेष ते सौम्य पात्यो राक्षसमूर्धनि
७.०२२.०३६ न ह्यस्मिन् पतिते कश्चिन्मुहूर्तमपि जीवति
७.०२२.०३७ यदि ह्यस्मिन्निपतिते न म्रियेतैष राक्षसः
७.०२२.०३७ म्रियेत वा दशग्रीवस्तथाप्युभयतोऽनृतम्
७.०२२.०३८ राक्षसेन्द्रान्नियच्छाद्य दण्डमेनं वधोद्यतम्
७.०२२.०३८ सत्यं मम कुरुष्वेदं लोकांस्त्वं समवेक्ष्य च
७.०२२.०३९ एवमुक्तस्तु धर्मात्मा प्रत्युवाच यमस्तदा
७.०२२.०३९ एष व्यावर्तितो दण्डः प्रभविष्णुर्भवान् हि नः
७.०२२.०४० किं त्विदानीं मया शक्यं कर्तुं रणगतेन हि
७.०२२.०४० यन्मया यन्न हन्तव्यो राक्षसो वरदर्पितः
७.०२२.०४१ एष तस्मात्प्रणश्यामि दर्शनादस्य रक्षसः
७.०२२.०४१ इत्युक्त्वा सरथः साश्वस्तत्रैवान्तरधीयत
७.०२२.०४२ दशग्रीवस्तु तं जित्वा नाम विश्राव्य चात्मनः
७.०२२.०४२ पुष्पकेण तु संहृष्टो निष्क्रान्तो यमसादनात्
७.०२२.०४३ ततो वैवस्वतो देवैः सह ब्रह्मपुरोगमैः
७.०२२.०४३ जगाम त्रिदिवं हृष्टो नारदश्च महामुनिः
७.०२३.००१ स तु जित्वा दशग्रीवो यमं त्रिदशपुंगवम्
७.०२३.००१ रावणस्तु जयश्लाघी स्वसहायान् ददर्श ह
७.०२३.००२ जयेन वर्धयित्वा च मारीचप्रमुखास्ततः
७.०२३.००२ पुष्पकं भेजिरे सर्वे सान्त्विता रवणेन ह
७.०२३.००३ ततो रसातलं हृष्टः प्रविष्टः पयसो निधिम्
७.०२३.००३ दैत्योरग गणाध्युष्टं वरुणेन सुरक्षितम्
७.०२३.००४ स तु भोगवतीं गत्वा पुरीं वासुकिपालिताम्
७.०२३.००४ स्थाप्य नागान् वशे कृत्वा ययौ मणिमतीं पुरीम्
७.०२३.००५ निवातकवचास्तत्र दैत्या लब्धवरा वसन्
७.०२३.००५ राक्षसस्तान् समासाद्य युद्धेन समुपाह्वयत्
७.०२३.००६ ते तु सर्वे सुविक्रान्ता दैतेया बलशालिनः
७.०२३.००६ नानाप्रहरणास्तत्र प्रयुद्धा युद्धदुर्मदाः
७.०२३.००७ तेषां तु युध्यमानानां साग्रः संवत्सरो गतः
७.०२३.००७ न चान्यतरयोस्तत्र विजयो वा क्षयोऽपि वा
७.०२३.००८ ततः पितामहस्तत्र त्रैलोक्यगतिरव्ययः
७.०२३.००८ आजगाम द्रुतं देवो विमानवरमास्थितः
७.०२३.००९ निवातकवचानां तु निवार्य रणकर्म तत्
७.०२३.००९ वृद्धः पितामहो वाक्यमुवाच विदितार्थवत्
७.०२३.०१० न ह्ययं रावणो युद्धे शक्यो जेतुं सुरासुरैः
७.०२३.०१० न भवन्तः क्षयं नेतुं शक्याः सेन्द्रैः सुरासुरैः
७.०२३.०११ राक्षसस्य सखित्वं वै भवद्भिः सह रोचते
७.०२३.०११ अविभक्ता हि सर्वार्थाः सुहृदां नात्र संशयः
७.०२३.०१२ ततोऽग्निसाक्षिकं सख्यं कृतवांस्तत्र रावणः
७.०२३.०१२ निवातकवचैः सार्धं प्रीतिमानभवत्तदा
७.०२३.०१३ अर्चितस्तैर्यथान्यायं संवत्सरसुखोषितः
७.०२३.०१३ स्वपुरान्निर्विशेषं च पूजां प्राप्तो दशाननः
७.०२३.०१४ स तूपधार्य मायानां शतमेकोनमात्मवान्
७.०२३.०१४ सलिलेन्द्रपुरान्वेषी स बभ्राम रसातलम्
७.०२३.०१५ ततोऽश्मनगरं नाम कालकेयाभिरक्षितम्
७.०२३.०१५ तं विजित्य मुहूर्तेन जघ्ने दैत्यांश्चतुःशतम्
७.०२३.०१६ ततः पाण्डुरमेघाभं कैलासमिव संस्थितम्
७.०२३.०१६ वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः
७.०२३.०१७ क्षरन्तीं च पयो नित्यं सुरभिं गामवस्थिताम्
७.०२३.०१७ यस्याः पयोविनिष्यन्दात्क्षीरोदो नाम सागरः
७.०२३.०१८ यस्माच्चन्द्रः प्रभवति शीतरश्मिः प्रजाहितः
७.०२३.०१८ यं समासाद्य जीवन्ति फेनपाः परमर्षयः
७.०२३.०१८ अमृतं यत्र चोत्पन्नं सुरा चापि सुराशिनाम्
७.०२३.०१९ यां ब्रुवन्ति नरा लोके सुरभिं नाम नामतः
७.०२३.०१९ प्रदक्षिणं तु तां कृत्वा रावणः परमाद्भुताम्
७.०२३.०१९ प्रविवेश महाघोरं गुप्तं बहुविधैर्बलैः
७.०२३.०२० ततो धाराशताकीर्णं शारदाभ्रनिभं तदा
७.०२३.०२० नित्यप्रहृष्टं ददृशे वरुणस्य गृहोत्तमम्
७.०२३.०२१ ततो हत्वा बलाध्यक्षान् समरे तैश्च ताडितः
७.०२३.०२१ अब्रवीत्क्व गतो यो वो राजा शीघ्रं निवेद्यताम्
७.०२३.०२२ युद्धार्थी रावणः प्राप्तस्तस्य युद्धं प्रदीयताम्
७.०२३.०२२ वद वा न भयं तेऽस्ति निर्जितोऽस्मीति साञ्जलिः
७.०२३.०२३ एतस्मिन्नन्तरे क्रुद्धा वरुणस्य महात्मनः
७.०२३.०२३ पुत्राः पौत्राश्च निष्क्रामन् गौश्च पुष्कर एव च
७.०२३.०२४ ते तु वीर्यगुणोपेता बलैः परिवृताः स्वकैः
७.०२३.०२४ युक्त्वा रथान् कामगमानुद्यद्भास्करवर्चसः
७.०२३.०२५ ततो युद्धं समभवद्दारुणं लोमहर्षणम्
७.०२३.०२५ सलिलेन्द्रस्य पुत्राणां रावणस्य च रक्षसः
७.०२३.०२६ अमात्यैस्तु महावीर्यैर्दशग्रीवस्य रक्षसः
७.०२३.०२६ वारुणं तद्बलं कृत्स्नं क्षणेन विनिपातितम्
७.०२३.०२७ समीक्ष्य स्वबलं संख्ये वरुणस्या सुतास्तदा
७.०२३.०२७ अर्दिताः शरजालेन निवृत्ता रणकर्मणः
७.०२३.०२८ महीतलगतास्ते तु रावणं दृश्य पुष्पके
७.०२३.०२८ आकाशमाशु विविशुः स्यन्दनैः शीघ्रगामिभिः
७.०२३.०२९ महदासीत्ततस्तेषां तुल्यं स्थानमवाप्य तत्
७.०२३.०२९ आकाशयुद्धं तुमुलं देवदानवयोरिव
७.०२३.०३० ततस्ते रावणं युद्धे शरैः पावकसंनिभैः
७.०२३.०३० विमुखीकृत्य संहृष्टा विनेदुर्विविधान् रवान्
७.०२३.०३१ ततो महोदरः क्रुद्धो राजानं दृश्य धर्षितम्
७.०२३.०३१ त्यक्त्वा मृत्युभयं वीरो युद्धकाङ्क्षी व्यलोकयत्
७.०२३.०३२ तेन तेषां हया ये च कामगाः पवनोपमाः
७.०२३.०३२ महोदरेण गदया हतास्ते प्रययुः क्षितिम्
७.०२३.०३३ तेषां वरुणसूनूनां हत्वा योधान् हयांश्च तान्
७.०२३.०३३ मुमोचाशु महानादं विरथान् प्रेक्ष्य तान् स्थितान्
७.०२३.०३४ ते तु तेषां रथाः साश्वाः सह सारथिभिर्वरैः
७.०२३.०३४ महोदरेण निहताः पतिताः पृथिवीतले
७.०२३.०३५ ते तु त्यक्त्वा रथान् पुत्रा वरुणस्य महात्मनः
७.०२३.०३५ आकाशे विष्ठिताः शूराः स्वप्रभावान्न विव्यथुः
७.०२३.०३६ धनूंषि कृत्वा सज्यानि विनिर्भिद्य महोदरम्
७.०२३.०३६ रावणं समरे क्रुद्धाः सहिताः समभिद्रवन्
७.०२३.०३७ ततः क्रुद्धो दशग्रीवः कालाग्निरिव विष्ठितः
७.०२३.०३७ शरवर्षं महावेगं तेषां मर्मस्वपातयत्
७.०२३.०३८ मुसलानि विचित्राणि ततो भल्लशतानि च
७.०२३.०३८ पट्टसांश्चैव शक्तीश्च शतघ्नीस्तोमरांस्तथा
७.०२३.०३८ पातयामास दुर्धर्षस्तेषामुपरि विष्ठितः
७.०२३.०३९ अथ विद्धास्तु ते वीरा विनिष्पेतुः पदातयः
७.०२३.०४० ततो रक्षो महानादं मुक्त्वा हन्ति स्म वारुणान्
७.०२३.०४० नानाप्रहरणैर्घोरैर्धारापातैरिवाम्बुदः
७.०२३.०४१ ततस्ते विमुखाः सर्वे पतिता धरणीतले
७.०२३.०४१ रणात्स्वपुरुषैः शीघ्रं गृहाण्येव प्रवेशिताः
७.०२३.०४२ तानब्रवीत्ततो रक्षो वरुणाय निवेद्यताम्
७.०२३.०४२ रावणं चाब्रवीन्मन्त्री प्रभासो नाम वारुणः
७.०२३.०४३ गतः खलु महातेजा ब्रह्मलोकं जलेश्वरः
७.०२३.०४३ गान्धर्वं वरुणः श्रोतुं यं त्वमाह्वयसे युधि
७.०२३.०४४ तत्किं तव वृथा वीर परिश्राम्य गते नृपे
७.०२३.०४४ ये तु संनिहिता वीराः कुमारास्ते पराजिताः
७.०२३.०४५ राक्षसेन्द्रस्तु तच्छ्रुत्वा नाम विश्राव्य चात्मनः
७.०२३.०४५ हर्षान्नादं विमुञ्चन् वै निष्क्रान्तो वरुणालयात्
७.०२३.०४६ आगतस्तु पथा येन तेनैव विनिवृत्य सः
७.०२३.०४६ लङ्कामभिमुखो रक्षो नभस्तलगतो ययौ
७.०२४.००१ निवर्तमानः संहृष्टो रावणः स दुरात्मवान्
७.०२४.००१ जह्रे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः
७.०२४.००२ दर्शनीयां हि यां रक्षः कन्यां स्त्रीं वाथ पश्यति
७.०२४.००२ हत्वा बन्धुजनं तस्या विमाने संन्यवेशयत्
७.०२४.००३ तत्र पन्नगयक्षाणां मानुषाणां च रक्षसाम्
७.०२४.००३ दैत्यानां दानवानां च कन्या जग्राह रावणः
७.०२४.००४ दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्रनिभाननाः
७.०२४.००४ शोकायत्तास्तरुण्यश्च समस्ता स्तननम्रिताः
७.०२४.००५ तुल्यमग्न्यर्चिषां तत्र शोकाग्निभयसंभवम्
७.०२४.००५ प्रवेपमाना दुःखार्ता मुमुचुर्बाष्पजं जलम्
७.०२४.००६ तासां निश्वसमानानां निश्वसैः संप्रदीपितम्
७.०२४.००६ अग्निहोत्रमिवाभाति संनिरुद्धाग्निपुष्पकम्
७.०२४.००७ का चिद्दध्यौ सुदुःखार्ता हन्यादपि हि मामयम्
७.०२४.००७ स्मृत्वा मातॄह्पितॄन् भ्रातॄन् पुत्रान् वै श्वशुरानपि
७.०२४.००७ दुःखशोकसमाविष्टा विलेपुः सहिताः स्त्रियः
७.०२४.००८ कथं नु खलु मे पुत्रः करिष्यति मया विना
७.०२४.००८ कथं माता कथं भ्राता निमग्नाः शोकसागरे
७.०२४.००९ हा कथं नु करिष्यामि भर्तारं दैवतं विना
७.०२४.००९ मृत्यो प्रसीद याचे त्वां नय मां यमसादनम्
७.०२४.०१० किं नु मे दुष्कृतं कर्म कृतं देहान्तरे पुरा
७.०२४.०१० ततोऽस्मि धर्षितानेन पतिता शोकसागरे
७.०२४.०११ न खल्विदानीं पश्यामि दुःखस्यान्तमिहात्मनः
७.०२४.०११ अहो धिन्मानुषांल्लोकान्नास्ति खल्वधमः परः
७.०२४.०१२ यद्दुर्बला बलवता बान्धवा रावणेन मे
७.०२४.०१२ उदितेनैव सूर्येण तारका इव नाशिताः
७.०२४.०१३ अहो सुबलवद्रक्षो वधोपायेषु रज्यते
७.०२४.०१३ अहो दुर्वृत्तमात्मानं स्वयमेव न बुध्यते
७.०२४.०१४ सर्वथा सदृशस्तावद्विक्रमोऽस्य दुरात्मनः
७.०२४.०१४ इदं त्वसदृशं कर्म परदाराभिमर्शनम्
७.०२४.०१५ यस्मादेष परख्यासु स्त्रीषु रज्यति दुर्मतिः
७.०२४.०१५ तस्माद्धि स्त्रीकृतेनैव वधं प्राप्स्यति वारणः
७.०२४.०१६ शप्तः स्त्रीभिः स तु तदा हततेजाः सुनिष्प्रभ
७.०२४.०१६ पतिव्रताभिः साध्वीभिः स्थिताभिः साधु वर्त्मनि
७.०२४.०१७ एवं विलपमानासु रावणो राक्षसाधिपः
७.०२४.०१७ प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः
७.०२४.०१८ ततो राक्षसराजस्य स्वसा परमदुःखिता
७.०२४.०१८ पादयोः पतिता तस्य वक्तुमेवोपचक्रमे
७.०२४.०१९ ततः स्वसारमुत्थाप्य रावणः परिसान्त्वयन्
७.०२४.०१९ अब्रवीत्किमिदं भद्रे वक्तुमर्हसि मे द्रुतम्
७.०२४.०२० सा बाष्पपरिरुद्धाक्षी राक्षसी वाक्यमब्रवीत्
७.०२४.०२० हतास्मि विधवा राजंस्त्वया बलवता कृता
७.०२४.०२१ एते विर्यात्त्वया राजन् दैत्या विनिहता रणे
७.०२४.०२१ कालकेया इति ख्याता महाबलपराक्रमाः
७.०२४.०२२ तत्र मे निहतो भर्ता गरीयाञ्जीवितादपि
७.०२४.०२२ स त्वया दयितस्तत्र भ्रात्रा शत्रुसमेन वै
७.०२४.०२३ या त्वयास्मि हता राजन् स्वयमेवेह बन्धुना
७.०२४.०२३ दुःखं वैधव्यशब्दं च दत्तं भोक्ष्याम्यहं त्वया
७.०२४.०२४ ननु नाम त्वया रक्ष्यो जामाता समरेष्वपि
७.०२४.०२४ तं निहत्य रणे राजन् स्वयमेव न लज्जसे
७.०२४.०२५ एवमुक्तस्तया रक्षो भगिन्या क्रोशमानया
७.०२४.०२५ अब्रवीत्सान्त्वयित्वा तां सामपूर्वमिदं वचः
७.०२४.०२६ अलं वत्से विषादेन न भेतव्यं च सर्वशः
७.०२४.०२६ मानदानविशेषैस्त्वां तोषयिष्यामि नित्यशः
७.०२४.०२७ युद्धे प्रमत्तो व्याक्षिप्तो जयकाङ्क्षी क्षिपञ्शरान्
७.०२४.०२७ नावगच्छामि युद्धेषु स्वान् परान् वाप्यहं शुभे
७.०२४.०२७ तेनासौ निहतः संख्ये मया भर्ता तव स्वसः
७.०२४.०२८ अस्मिन् काले तु यत्प्राप्तं तत्करिष्यामि ते हितम्
७.०२४.०२८ भ्रातुरैश्वर्यसंस्थस्य खरस्य भव पार्श्वतः
७.०२४.०२९ चतुर्दशानां भ्राता ते सहस्राणां भविष्यति
७.०२४.०२९ प्रभुः प्रयाणे दाने च राक्षसानां महौजसाम्
७.०२४.०३० तत्र मातृष्वसुः पुत्रो भ्राता तव खरः प्रभुः
७.०२४.०३० भविष्यति सदा कुर्वन् यद्वक्ष्यसि वचः स्वयम्
७.०२४.०३१ शीघ्रं गच्छत्वयं शूरो दण्डकान् परिरक्षितुम्
७.०२४.०३१ दूषणोऽस्य बलाध्यक्षो भविष्यति महाबलः
७.०२४.०३२ स हि शप्तो वनोद्देशः क्रुद्धेनोशनसा पुरा
७.०२४.०३२ राक्षसानामयं वासो भविष्यति न संशयः
७.०२४.०३३ एवमुक्त्वा दशग्रीवः सैन्यं तस्यादिदेश ह
७.०२४.०३३ चतुर्दश सहस्राणि रक्षसां कामरूपिणाम्
७.०२४.०३४ स तैः सर्वैः परिवृतो राक्षसैर्घोरदर्शनैः
७.०२४.०३४ खरः संप्रययौ शीघ्रं दण्डकानकुतोभयः
७.०२४.०३५ स तत्र कारयामास राज्यं निहतकण्टकम्
७.०२४.०३५ सा च शूर्पणखा प्रीता न्यवसद्दण्डकावने
७.०२५.००१ स तु दत्त्वा दशग्रीवो वनं घोरं खरस्य तत्
७.०२५.००१ भगिनीं च समाश्वास्य हृष्टः स्वस्थतरोऽभवत्
७.०२५.००२ ततो निकुम्भिला नाम लङ्कायाः काननं महत्
७.०२५.००२ महात्मा राक्षसेन्द्रस्तत्प्रविवेश सहानुगः
७.०२५.००३ तत्र यूपशताकीर्णं सौम्यचैत्योपशोभितम्
७.०२५.००३ ददर्श विष्ठितं यज्ञं संप्रदीप्तमिव श्रिया
७.०२५.००४ ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम्
७.०२५.००४ ददर्श स्वसुतं तत्र मेघनादमरिंदमम्
७.०२५.००५ रक्षःपतिः समासाद्य समाश्लिष्य च बाहुभिः
७.०२५.००५ अब्रवीत्किमिदं वत्स वर्तते तद्ब्रवीहि मे
७.०२५.००६ उशना त्वब्रवीत्तत्र गुरुर्यज्ञसमृद्धये
७.०२५.००६ रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः
७.०२५.००७ अहमाख्यामि ते राजञ्श्रूयतां सर्वमेव च
७.०२५.००७ यज्ञास्ते सप्त पुत्रेण प्राप्ताः सुबहुविस्तराः
७.०२५.००८ अग्निष्टोमोऽश्वमेधश्च यज्ञो बहुसुवर्णकः
७.०२५.००८ राजसूयस्तथा यज्ञो गोमेधो वैष्णवस्तथा
७.०२५.००९ माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे
७.०२५.००९ वरांस्ते लब्धवान् पुत्रः साक्षात्पशुपतेरिह
७.०२५.०१० कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम्
७.०२५.०१० मायां च तामसीं नाम यया संपद्यते तमः
७.०२५.०११ एतया किल संग्रामे मायया राक्षसेश्वर
७.०२५.०११ प्रयुद्धस्य गतिः शक्या न हि ज्ञातुं सुरासुरैः
७.०२५.०१२ अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम्
७.०२५.०१२ अस्त्रं च बलवत्सौम्य शत्रुविध्वंसनं रणे
७.०२५.०१३ एतान् सर्वान् वरांल्लब्ध्वा पुत्रस्तेऽयं दशानन
७.०२५.०१३ अद्य यज्ञसमाप्तौ च त्वत्प्रतीक्षः स्थितो अहम्
७.०२५.०१४ ततोऽब्रवीद्दशग्रीवो न शोभनमिदं कृतम्
७.०२५.०१४ पूजिताः शत्रवो यस्माद्द्रव्यैरिन्द्रपुरोगमाः
७.०२५.०१५ एहीदानीं कृतं यद्धि तदकर्तुं न शक्यते
७.०२५.०१५ आगच्छ सौम्य गच्छामः स्वमेव भवनं प्रति
७.०२५.०१६ ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः
७.०२५.०१६ स्त्रियोऽवतारयामास सर्वास्ता बाष्पविक्लवाः
७.०२५.०१७ लक्षिण्यो रत्नबूताश्च देवदानवरक्षसाम्
७.०२५.०१७ नानाभू
षणसंपन्ना ज्वलन्त्यः स्वेन तेजसा
७.०२५.०१८ विभीषणस्तु ता नारीर्दृष्ट्वा शोकसमाकुलाः
७.०२५.०१८ तस्य तां च मतिं ज्ञात्वा धर्मात्मा वाक्यमब्रवीत्
७.०२५.०१९ ईदृशैस्तैः समाचारैर्यशोऽर्थकुलनाशनैः
७.०२५.०१९ धर्षणं प्राणिनां दत्त्वा स्वमतेन विचेष्टसे
७.०२५.०२० ज्ञातीन् वै धर्षयित्वेमास्त्वयानीता वराङ्गनाः
७.०२५.०२० त्वामतिक्रम्य मधुना राजन् कुम्भीनसी हृता
७.०२५.०२१ रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं त्विदम्
७.०२५.०२१ को वायं यस्त्वयाख्यातो मधुरित्येव नामतः
७.०२५.०२२ विभीषणस्तु संक्रुद्धो भ्रातरं वाक्यमब्रवीत्
७.०२५.०२२ श्रूयतामस्य पापस्य कर्मणः फलमागतम्
७.०२५.०२३ मातामहस्य योऽस्माकं ज्येष्ठो भ्राता सुमालिनः
७.०२५.०२३ माल्यवानिति विख्यातो वृद्धप्राज्ञो निशाचरः
७.०२५.०२४ पितुर्ज्येष्ठो जनन्याश्च अस्माकं त्वार्यकोऽभवत्
७.०२५.०२४ तस्य कुम्भीनसी नाम दुहितुर्दुहिताभवत्
७.०२५.०२५ मातृष्वसुरथास्माकं सा कन्या चानलोद्भवा
७.०२५.०२५ भवत्यस्माकमेषा वै भ्रातॄणां धर्मतः स्वसा
७.०२५.०२६ सा हृता मधुना राजन् राक्षसेन बलीयसा
७.०२५.०२६ यज्ञप्रवृत्ते पुत्रे ते मयि चान्तर्जलोषिते
७.०२५.०२७ निहत्य राक्षसश्रेष्ठानमात्यांस्तव संमतान्
७.०२५.०२७ धर्षयित्वा हृता राजन् गुप्ता ह्यन्तःपुरे तव
७.०२५.०२८ श्रुत्वा त्वेतन्महाराज क्षान्तमेव हतो न सः
७.०२५.०२८ यस्मादवश्यं दातव्या कन्या भर्त्रे हि दातृभिः
७.०२५.०२८ अस्मिन्नेवाभिसंप्राप्तं लोके विदितमस्तु ते
७.०२५.०२९ ततोऽब्रवीद्दशग्रीवः क्रुद्धः संरक्तलोचनः
७.०२५.०२९ कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु च
७.०२५.०३० भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः
७.०२५.०३० वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः
७.०२५.०३१ अद्य तं समरे हत्वा मधुं रावणनिर्भयम्
७.०२५.०३१ इन्द्रलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः
७.०२५.०३२ ततो विजित्य त्रिदिवं वशे स्थाप्य पुरंदरम्
७.०२५.०३२ निर्वृतो विहरिष्यामि त्रैलोक्यैश्वर्यशोभितः
७.०२५.०३३ अक्षौहिणीसहस्राणि चत्वार्युग्राणि रक्षसाम्
७.०२५.०३३ नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम्
७.०२५.०३४ इन्द्रजित्त्वग्रतः सैन्यं सैनिकान् परिगृह्य च
७.०२५.०३४ रावणो मध्यतः शूरः कुम्भकर्णश्च पृष्ठतः
७.०२५.०३५ विभीषणस्तु धर्मात्मा लङ्कायां धर्ममाचरत्
७.०२५.०३५ ते तु सर्वे महाभागा ययुर्मधुपुरं प्रति
७.०२५.०३६ रथैर्नागैः खरैरुष्ट्रैर्हयैर्दीप्तैर्महोरगैः
७.०२५.०३६ राक्षसाः प्रययुः सर्वे कृत्वाकाशं निरन्तरम्
७.०२५.०३७ दैत्याश्च शतशस्तत्र कृतवैराः सुरैः सह
७.०२५.०३७ रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्त पृष्ठतः
७.०२५.०३८ स तु गत्वा मधुपुरं प्रविश्य च दशाननः
७.०२५.०३८ न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान्
७.०२५.०३९ सा प्रह्वा प्राञ्जलिर्भूत्वा शिरसा पादयोर्गता
७.०२५.०३९ तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी स्वसा
७.०२५.०४० तां समुत्थापयामास न भेतव्यमिति ब्रुवन्
७.०२५.०४० रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते
७.०२५.०४१ साब्रवीद्यदि मे राजन् प्रसन्नस्त्वं महाबल
७.०२५.०४१ भर्तारं न ममेहाद्य हन्तुमर्हसि मानद
७.०२५.०४२ सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम्
७.०२५.०४२ त्वया ह्युक्तं महाबाहो न भेतव्यमिति स्वयम्
७.०२५.०४३ रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम्
७.०२५.०४३ क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम्
७.०२५.०४४ सह तेन गमिष्यामि सुरलोकं जयाय वै
७.०२५.०४४ तव कारुण्यसौहार्दान्निवृत्तोऽस्मि मधोर्वधात्
७.०२५.०४५ इत्युक्ता सा प्रसुप्तं तं समुत्थाप्य निशाचरम्
७.०२५.०४५ अब्रवीत्संप्रहृष्टेव राक्षसी सुविपश्चितम्
७.०२५.०४६ एष प्राप्तो दशग्रीवो मम भ्राता निशाचरः
७.०२५.०४६ सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च
७.०२५.०४७ तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस
७.०२५.०४७ स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितुम्
७.०२५.०४८ तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः
७.०२५.०४८ ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः
७.०२५.०४९ पूजयामास धर्मेण रावणं राक्षसाधिपम्
७.०२५.०४९ प्राप्तपूजो दशग्रीवो मधुवेश्मनि वीर्यवान्
७.०२५.०४९ तत्र चैकां निशामुष्य गमनायोपचक्रमे
७.०२५.०५० ततः कैलासमासाद्य शैलं वैश्रवणालयम्
७.०२५.०५० राक्षसेन्द्रो महेन्द्राभः सेनामुपनिवेशयत्
७.०२६.००१ स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान्
७.०२६.००१ अस्तं प्राप्ते दिनकरे निवासं समरोचयत्
७.०२६.००२ उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि
७.०२६.००२ स ददर्श गुणांस्तत्र चन्द्रपादोपशोभितान्
७.०२६.००३ कर्णिकारवनैर्दिव्यैः कदम्बगहनैस्तथा
७.०२६.००३ पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि
७.०२६.००४ घण्टानामिव संनादः शुश्रुवे मधुरस्वनः
७.०२६.००४ अप्सरोगणसंघनां गायतां धनदालये
७.०२६.००५ पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः
७.०२६.००५ शैलं तं वासयन्तीव मधुमाधवगन्धिनः
७.०२६.००६ मधुपुष्परजःपृक्तं गन्धमादाय पुष्कलम्
७.०२६.००६ प्रववौ वर्धयन् कामं रावणस्य सुखोऽनिलः
७.०२६.००७ गेयात्पुष्पसमृद्ध्या च शैत्याद्वायोर्गुणैर्गिरेः
७.०२६.००७ प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च
७.०२६.००८ रावणः सुमहावीर्यः कामबाणवशं गतः
७.०२६.००८ विनिश्वस्य विनिश्वस्य शशिनं समवैक्षत
७.०२६.००९ एतस्मिन्नन्तरे तत्र दिव्यपुष्पविभूषिता
७.०२६.००९ सर्वाप्सरोवरा रम्भा पूर्णचन्द्रनिभानना
७.०२६.०१० कृतैर्विशेषकैरार्द्रैः षडर्तुकुसुमोत्सवैः
७.०२६.०१० नीलं सतोयमेघाभं वस्त्रं समवगुण्ठिता
७.०२६.०११ यस्य वक्त्रं शशिनिभं भ्रुवौ चापनिभे शुभे
७.०२६.०११ ऊरू करिकराकारौ करौ पल्लवकोमलौ
७.०२६.०११ सैन्यमध्येन गच्छन्ती रावणेनोपलक्षिता
७.०२६.०१२ तां समुत्थाय रक्षेन्द्रः कामबाणबलार्दितः
७.०२६.०१२ करे गृहीत्वा गच्छन्तीं स्मयमानोऽभ्यभाषत
७.०२६.०१३ क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम्
७.०२६.०१३ कस्याभ्युदयकालोऽयं यस्त्वां समुपभोक्ष्यते
७.०२६.०१४ तवाननरसस्याद्य पद्मोत्पलसुगन्धिनः
७.०२६.०१४ सुधामृतरसस्येव कोऽद्य तृप्तिं गमिष्यति
७.०२६.०१५ स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ
७.०२६.०१५ कस्योरस्थलसंस्पर्शं दास्यतस्ते कुचाविमौ
७.०२६.०१६ सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु
७.०२६.०१६ अध्यारोक्ष्यति कस्तेऽद्य स्वर्गं जघनरूपिणम्
७.०२६.०१७ मद्विशिष्टः पुमान् कोऽन्यः शक्रो विष्णुरथाश्विनौ
७.०२६.०१७ मामतीत्य हि यस्य त्वं यासि भीरु न शोभनम्
७.०२६.०१८ विश्रम त्वं पृथुश्रोणि शिलातलमिदं शुभम्
७.०२६.०१८ त्रैलोक्ये यः प्रभुश्चैव तुल्यो मम न विद्यते
७.०२६.०१९ तदेष प्राञ्जलिः प्रह्वो याचते त्वां दशाननः
७.०२६.०१९ यः प्रभुश्चापि भर्ता च त्रैलोक्यस्य भजस्व माम्
७.०२६.०२० एवमुक्ताब्रवीद्रम्भा वेपमाना कृताञ्जलिः
७.०२६.०२० प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः
७.०२६.०२१ अन्येभ्योऽपि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि
७.०२६.०२१ धर्मतश्च स्नुषा तेऽहं तत्त्वमेतद्ब्रवीमि ते
७.०२६.०२२ अब्रवीत्तां दशग्रीवश्चरणाधोमुखीं स्थिताम्
७.०२६.०२२ सुतस्य यदि मे भार्या ततस्त्वं मे स्नुषा भवेः
७.०२६.०२३ बाढमित्येव सा रम्भा प्राह रावणमुत्तरम्
७.०२६.०२३ धर्मतस्ते सुतस्याहं भार्या राक्षसपुंगव
७.०२६.०२४ पुत्रः प्रियतरः प्राणैर्भ्रातुर्वैश्रवणस्य ते
७.०२६.०२४ ख्यातो यस्त्रिषु लोकेषु नलकूबर इत्यसौ
७.०२६.०२५ धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत्
७.०२६.०२५ क्रोधाद्यश्च भवेदग्निः क्षान्त्या च वसुधासमः
७.०२६.०२६ तस्यास्मि कृतसंकेता लोकपालसुतस्य वै
७.०२६.०२६ तमुद्दिश्य च मे सर्वं विभूषणमिदं कृतम्
७.०२६.०२७ यस्य तस्य हि नान्यस्य भावो मां प्रति तिष्ठति
७.०२६.०२७ तेन सत्येन मां राजन्मोक्तुमर्हस्यरिंदम
७.०२६.०२८ स हि तिष्ठति धर्मात्मा साम्प्रतं मत्समुत्सुकः
७.०२६.०२८ तन्न विघ्नं सुतस्येह कर्तुमर्हसि मुञ्च माम्
७.०२६.०२९ सद्भिराचरितं मार्गं गच्छ राक्षसपुंगव
७.०२६.०२९ माननीयो मया हि त्वं लालनीया तथास्मि ते
७.०२६.०३० एवं ब्रुवाणां रम्भां तां धर्मार्थसहितं वचः
७.०२६.०३० निर्भर्त्स्य राक्षसो मोहात्प्रतिगृह्य बलाद्बली
७.०२६.०३० काममोहाभिसंरब्धो मैथुनायोपचक्रमे
७.०२६.०३१ सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा
७.०२६.०३१ गजेन्द्राक्रीडमथिता नदीवाकुलतां गता
७.०२६.०३२ सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः
७.०२६.०३२ नलकूबरमासाद्य पादयोर्निपपात ह
७.०२६.०३३ तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः
७.०२६.०३३ अब्रवीत्किमिदं भद्रे पादयोः पतितासि मे
७.०२६.०३४ सा तु निश्वसमाना च वेपमानाथ साञ्जलिः
७.०२६.०३४ तस्मै सर्वं यथातथ्यमाख्यातुमुपचक्रमे
७.०२६.०३५ एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम्
७.०२६.०३५ तेन सैन्यसहायेन निशेह परिणाम्यते
७.०२६.०३६ आयान्ती तेन दृष्टास्मि त्वत्सकाशमरिंदम
७.०२६.०३६ गृहीत्वा तेन पृष्टास्मि कस्य त्वमिति रक्षसा
७.०२६.०३७ मया तु सर्वं यत्सत्यं तद्धि तस्मै निवेदितम्
७.०२६.०३७ काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम
७.०२६.०३८ याच्यमानो मया देव स्नुषा तेऽहमिति प्रभो
७.०२६.०३८ तत्सर्वं पृष्ठतः कृत्वा बलात्तेनास्मि धर्षिता
७.०२६.०३९ एवं त्वमपराधं मे क्षन्तुमर्हसि मानद
७.०२६.०३९ न हि तुल्यं बलं सौम्य स्त्रियाश्च पुरुषस्य च
७.०२६.०४० एवं श्रुत्वा तु संक्रुद्धस्तदा वैश्वरणात्मजः
७.०२६.०४० धर्षणां तां परां श्रुत्वा ध्यानं संप्रविवेश ह
७.०२६.०४१ तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजः
७.०२६.०४१ मुहूर्ताद्रोषताम्राक्षस्तोयं जग्राह पाणिना
७.०२६.०४२ गृहीत्वा सलिलं दिव्यमुपस्पृश्य यथाविधि
७.०२६.०४२ उत्ससर्ज तदा शापं राक्षसेन्द्राय दारुणम्
७.०२६.०४३ अकामा तेन यस्मात्त्वं बलाद्भद्रे प्रधर्षिता
७.०२६.०४३ तस्मात्स युवतीमन्यां नाकामामुपयास्यति
७.०२६.०४४ यदा त्वकामां कामार्तो धर्षयिष्यति योषितम्
७.०२६.०४४ मूर्धा तु सप्तधा तस्य शकलीभविता तदा
७.०२६.०४५ तस्मिन्नुदाहृते शापे ज्वलिताग्निसमप्रभे
७.०२६.०४५ देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता
७.०२६.०४६ प्रजापतिमुखाश्चापि सर्वे देवाः प्रहर्षिताः
७.०२६.०४६ ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः
७.०२६.०४७ श्रुत्वा तु स दशग्रीवस्तं शापं रोमहर्षणम्
७.०२६.०४७ नारीषु मैथुनं भावं नाकामास्वभ्यरोचयत्
७.०२७.००१ कैलासं लङ्घयित्वाथ दशग्रीवः सराक्षसः
७.०२७.००१ आससाद महातेजा इन्द्रलोकं निशाचरः
७.०२७.००२ तस्य राक्षससैन्यस्य समन्तादुपयास्यतः
७.०२७.००२ देवलोकं ययौ शब्दो भिद्यमानार्णवोपमः
७.०२७.००३ श्रुत्वा तु रावणं प्राप्तमिन्द्रः संचलितासनः
७.०२७.००३ अब्रवीत्तत्र तान् देवान् सर्वानेव समागतान्
७.०२७.००४ आदित्यान् सवसून् रुद्रान् विश्वान् साध्यान्मरुद्गणान्
७.०२७.००४ सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः
७.०२७.००५ एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि
७.०२७.००५ संनह्यन्त महासत्त्वा युद्धश्रद्धासमन्विताः
७.०२७.००६ स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति
७.०२७.००६ विष्णोः समीपमागत्य वाक्यमेतदुवाच ह
७.०२७.००७ विष्णो कथं करिष्यामो महावीर्यपराक्रम
७.०२७.००७ असौ हि बलवान् रक्षो युद्धार्थमभिवर्तते
७.०२७.००८ वरप्रदानाद्बलवान्न खल्वन्येन हेतुना
७.०२७.००८ तच्च सत्यं हि कर्तव्यं वाक्यं देव प्रजापतेः
७.०२७.००९ तद्यथा नमुचिर्वृत्रो बलिर्नरकशम्बरौ
७.०२७.००९ त्वन्मतं समवष्टभ्य यथा दग्धास्तथा कुरु
७.०२७.०१० न ह्यन्यो देव देवानामापत्सु सुमहाबल
७.०२७.०१० गतिः परायणं वास्ति त्वामृते पुरुषोत्तम
७.०२७.०११ त्वं हि नारायणः श्रीमान् पद्मनाभः सनातनः
७.०२७.०११ त्वयाहं स्थापितश्चैव देवराज्ये सनातने
७.०२७.०१२ तदाख्याहि यथातत्त्वं देवदेव मम स्वयम्
७.०२७.०१२ असिचक्रसहायस्त्वं युध्यसे संयुगे रिपुम्
७.०२७.०१३ एवमुक्तः स शक्रेण देवो नारायणः प्रभुः
७.०२७.०१३ अब्रवीन्न परित्रासः कार्यस्ते श्रूयतां च मे
७.०२७.०१४ न तावदेष दुर्वृत्तः शक्यो दैवतदानवैः
७.०२७.०१४ हन्तुं युधि समासाद्य वरदानेन दुर्जयः
७.०२७.०१५ सर्वथा तु महत्कर्म करिष्यति बलोत्कटः
७.०२७.०१५ रक्षः पुत्रसहायोऽसौ दृष्टमेतन्निसर्गतः
७.०२७.०१६ ब्रवीषि यत्तु मां शक्र संयुगे योत्स्यसीति ह
७.०२७.०१६ नैवाहं प्रतियोत्स्ये तं रावणं राक्षसाधिपम्
७.०२७.०१७ अनिहत्य रिपुं विष्णुर्न हि प्रतिनिवर्तते
७.०२७.०१७ दुर्लभश्चैष कामोऽद्य वरमासाद्य राक्षसे
७.०२७.०१८ प्रतिजानामि देवेन्द्र त्वत्समीपं शतक्रतो
७.०२७.०१८ राक्षसस्याहमेवास्य भविता मृत्युकारणम्
७.०२७.०१९ अहमेनं वधिष्यामि रावणं ससुतं युधि
७.०२७.०१९ देवतास्तोषयिष्यामि ज्ञात्वा कालमुपस्थितम्
७.०२७.०२० एतस्मिन्नन्तरे नादः शुश्रुवे रजनीक्षये
७.०२७.०२० तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः
७.०२७.०२१ अथ युद्धं समभवद्देवराक्षसयोस्तदा
७.०२७.०२१ घोरं तुमुलनिर्ह्रादं नानाप्रहरणायुधम्
७.०२७.०२२ एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः
७.०२७.०२२ युद्धार्थमभ्यधावन्त सचिवा रावणाज्ञया
७.०२७.०२३ मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ
७.०२७.०२३ अकम्पनो निकुम्भश्च शुकः सारण एव च
७.०२७.०२४ संह्रादिर्धूमकेतुश्च महादंष्ट्रो महामुखः
७.०२७.०२४ जम्बुमाली महामाली विरूपाक्षश्च राक्षसः
७.०२७.०२५ एतैः सर्वैर्महावीर्यैर्वृतो राक्षसपुंगवः
७.०२७.०२५ रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह
७.०२७.०२६ स हि देवगणान् सर्वान्नानाप्रहरणैः शितैः
७.०२७.०२६ विध्वंसयति संक्रुद्धः सह तैः क्षणदाचरैः
७.०२७.०२७ एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः
७.०२७.०२७ सावित्र इति विख्यातः प्रविवेश महारणम्
७.०२७.०२८ ततो युद्धं समभवत्सुराणां राक्षसैः सह
७.०२७.०२८ क्रुद्धानां रक्षसां कीर्तिं समरेष्वनिवर्तिनाम्
७.०२७.०२९ ततस्ते राक्षसाः शूरा देवांस्तान् समरे स्थितान्
७.०२७.०२९ नानाप्रहरणैर्घोरैर्जघ्नुः शतसहस्रशः
७.०२७.०३० सुरास्तु राक्षसान् घोरान्महावीर्यान् स्वतेजसा
७.०२७.०३० समरे विविधैः शस्त्रैरनयन् यमसादनम्
७.०२७.०३१ एतस्मिन्नन्तरे शूरः सुमाली नाम राक्षसः
७.०२७.०३१ नानाप्रहरणैः क्रुद्धो रणमेवाभ्यवर्तत
७.०२७.०३२ देवानां तद्बलं सर्वं नानाप्रहरणैः शितैः
७.०२७.०३२ विध्वंसयति संक्रुद्धो वायुर्जलधरानिव
७.०२७.०३३ ते महाबाणवर्षैश्च शूलैः प्रासैश्च दारुणैः
७.०२७.०३३ पीड्यमानाः सुराः सर्वे न व्यतिष्ठन् समाहिताः
७.०२७.०३४ ततो विद्राव्यमाणेषु त्रिदशेषु सुमालिना
७.०२७.०३४ वसूनामष्टमो देवः सावित्रो व्यवतिष्ठत
७.०२७.०३५ संवृतः स्वैरनीकैस्तु प्रहरन्तं निशाचरम्
७.०२७.०३५ विक्रमेण महातेजा वारयामास संयुगे
७.०२७.०३६ सुमत्तयोस्तयोरासीद्युद्धं लोके सुदारुणम्
७.०२७.०३६ सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः
७.०२७.०३७ ततस्तस्य महाबाणैर्वसुना सुमहात्मना
७.०२७.०३७ महान् स पन्नगरथः क्षणेन विनिपातितः
७.०२७.०३८ हत्वा तु संयुगे तस्य रथं बाणशतैः शितैः
७.०२७.०३८ गदां तस्य वधार्थाय वसुर्जग्राह पाणिना
७.०२७.०३९ तां प्रदीप्तां प्रगृह्याशु कालदण्डनिभां शुभाम्
७.०२७.०३९ तस्य मूर्धनि सावित्रः सुमालेर्विनिपातयत्
७.०२७.०४० तस्य मूर्धनि सोल्काभा पतन्ती च तदा बभौ
७.०२७.०४० सहस्राक्षसमुत्सृष्टा गिराविव महाशनिः
७.०२७.०४१ तस्य नैवास्थि कायो वा न मांसं ददृशे तदा
७.०२७.०४१ गदया भस्मसाद्भूतो रणे तस्मिन्निपातितः
७.०२७.०४२ तं दृष्ट्वा निहतं संख्ये राक्षसास्ते समन्ततः
७.०२७.०४२ दुद्रुवुः सहिताः सर्वे क्रोशमाना महास्वनम्
७.०२८.००१ सुमालिनं हतं दृष्ट्वा वसुना भस्मसात्कृतम्
७.०२८.००१ विद्रुतं चापि स्वं सैन्यं लक्षयित्वार्दितं शरैः
७.०२८.००२ ततः स बलवान् क्रुद्धो रावणस्य सुतो युधि
७.०२८.००२ निवर्त्य राक्षसान् सर्वान्मेघनादो व्यतिष्ठत
७.०२८.००३ स रथेनाग्निवर्णेन कामगेन महारथः
७.०२८.००३ अभिदुद्राव सेनां तां वनान्यग्निरिव ज्वलन्
७.०२८.००४ ततः प्रविशतस्तस्य विविधायुधधारिणः
७.०२८.००४ विदुद्रुवुर्दिशः सर्वा देवास्तस्य च दर्शनात्
७.०२८.००५ न तत्रावस्थितः कश्चिद्रणे तस्य युयुत्सतः
७.०२८.००५ सर्वानाविध्य वित्रस्तान् दृष्ट्वा शक्रोऽभ्यभाषत
७.०२८.००६ न भेतव्यं न गन्तव्यं निवर्तध्वं रणं प्रति
७.०२८.००६ एष गच्छति मे पुत्रो युद्धार्थमपराजितः
७.०२८.००७ ततः शक्रसुतो देवो जयन्त इति विश्रुतः
७.०२८.००७ रथेनाद्भुतकल्पेन संग्राममभिवर्तत
७.०२८.००८ ततस्ते त्रिदशाः सर्वे परिवार्य शचीसुतम्
७.०२८.००८ रावणस्य सुतं युद्धे समासाद्य व्यवस्थिताः
७.०२८.००९ तेषां युद्धं महदभूत्सदृशं देवरक्षसाम्
७.०२८.००९ कृते महेन्द्रपुत्रस्य राक्षसेन्द्रसुतस्य च
७.०२८.०१० ततो मातलिपुत्रे तु गोमुखे राक्षसात्मजः
७.०२८.०१० सारथौ पातयामास शरान् काञ्चनभूषणान्
७.०२८.०११ शचीसुतस्त्वपि तथा जयन्तस्तस्य सारथिम्
७.०२८.०११ तं चैव रावणिं क्रुद्धः प्रत्यविध्यद्रणाजिरे
७.०२८.०१२ ततः क्रुद्धो महातेजा रक्षो विस्फारितेक्षणः
७.०२८.०१२ रावणिः शक्रपुत्रं तं शरवर्षैरवाकिरत्
७.०२८.०१३ ततः प्रगृह्य शस्त्राणि सारवन्ति महान्ति च
७.०२८.०१३ शतघ्नीस्तोमरान् प्रासान् गदाखड्गपरश्वधान्
७.०२८.०१३ सुमहान्त्यद्रिशृङ्गाणि पातयामास रावणिः
७.०२८.०१४ ततः प्रव्यथिता लोकाः संजज्ञे च तमो महत्
७.०२८.०१४ तस्य रावणपुत्रस्य तदा शत्रूनभिघ्नतः
७.०२८.०१५ ततस्तद्दैवतबलं समन्तात्तं शचीसुतम्
७.०२८.०१५ बहुप्रकारमस्वस्थं तत्र तत्र स्म धावति
७.०२८.०१६ नाभ्यजानंस्तदान्योन्यं शत्रून् वा दैवतानि वा
७.०२८.०१६ तत्र तत्र विपर्यस्तं समन्तात्परिधावितम्
७.०२८.०१७ एतस्मिन्नन्तरे शूरः पुलोमा नाम वीर्यवान्
७.०२८.०१७ दैतेयस्तेन संगृह्य शचीपुत्रोऽपवाहितः
७.०२८.०१८ गृहीत्वा तं तु नप्तारं प्रविष्टः स महोदधिम्
७.०२८.०१८ मातामहोऽर्यकस्तस्य पौलोमी येन सा शची
७.०२८.०१९ प्रणाशं दृश्य तु सुरा जयन्तस्यातिदारुणम्
७.०२८.०१९ व्यथिताश्चाप्रहृष्टाश्च समन्ताद्विप्रदुद्रुवुः
७.०२८.०२० रावणिस्त्वथ संहृष्टो बलैः परिवृतः स्वकैः
७.०२८.०२० अभ्यधावत देवांस्तान्मुमोच च महास्वनम्
७.०२८.०२१ दृष्ट्वा प्रणाशं पुत्रस्य रावणेश्चापि विक्रमम्
७.०२८.०२१ मातलिं प्राह देवेन्द्रो रथः समुपनीयताम्
७.०२८.०२२ स तु दिव्यो महाभीमः सज्ज एव महारथः
७.०२८.०२२ उपस्थितो मातलिना वाह्यमानो मनोजवः
७.०२८.०२३ ततो मेघा रथे तस्मिंस्तडिद्वन्तो महास्वनाः
७.०२८.०२३ अग्रतो वायुचपला गच्छन्तो व्यनदंस्तदा
७.०२८.०२४ नानावाद्यानि वाद्यन्त स्तुतयश्च समाहिताः
७.०२८.०२४ ननृतुश्चाप्सरःसंघाः प्रयाते वासवे रणम्
७.०२८.०२५ रुद्रैर्वसुभिरादित्यैः साध्यैश्च समरुद्गणैः
७.०२८.०२५ वृतो नानाप्रहरणैर्निर्ययौ त्रिदशाधिपः
७.०२८.०२६ निर्गच्छतस्तु शक्रस्य परुषं पवनो ववौ
७.०२८.०२६ भास्करो निष्प्रभश्चासीन्महोल्काश्च प्रपेदिरे
७.०२८.०२७ एतस्मिन्नन्तरे शूरो दशग्रीवः प्रतापवान्
७.०२८.०२७ आरुरोह रथं दिव्यं निर्मितं विश्वकर्मणा
७.०२८.०२८ पन्नगैः सुमहाकायैर्वेष्टितं लोमहर्षणैः
७.०२८.०२८ येषां निश्वासवातेन प्रदीप्तमिव संयुगम्
७.०२८.०२९ दैत्यैर्निशाचरैः शूरै रथः संपरिवारितः
७.०२८.०२९ समराभिमुखो दिव्यो महेन्द्रमभिवर्तत
७.०२८.०३० पुत्रं तं वारयित्वासौ स्वयमेव व्यवस्थितः
७.०२८.०३० सोऽपि युद्धाद्विनिष्क्रम्य रावणिः समुपाविशत्
७.०२८.०३१ ततो युद्धं प्रवृत्तं तु सुराणां राक्षसैः सह
७.०२८.०३१ शस्त्राभिवर्षणं घोरं मेघानामिव संयुगे
७.०२८.०३२ कुम्भकर्णस्तु दुष्टात्मा नानाप्रहरणोद्यतः
७.०२८.०३२ नाज्ञायत तदा युद्धे सह केनाप्ययुध्यत
७.०२८.०३३ दन्तैर्भुजाभ्यां पद्भ्यां च शक्तितोमरसायकैः
७.०२८.०३३ येन केनैव संरब्धस्ताडयामास वै सुरान्
७.०२८.०३४ ततो रुद्रैर्महाभागैः सहादित्यैर्निशाचरः
७.०२८.०३४ प्रयुद्धस्तैश्च संग्रामे कृत्तः शस्त्रैर्निरन्तरम्
७.०२८.०३५ ततस्तद्राक्षसं सैन्यं त्रिदशैः समरुद्गणैः
७.०२८.०३५ रणे विद्रावितं सर्वं नानाप्रहरणैः शितैः
७.०२८.०३६ के चिद्विनिहताः शस्त्रैर्वेष्टन्ति स्म महीतले
७.०२८.०३६ वाहनेष्ववसक्ताश्च स्थिता एवापरे रणे
७.०२८.०३७ रथान्नागान् खरानुष्ट्रान् पन्नगांस्तुरगांस्तथा
७.०२८.०३७ शिंशुमारान् वराहांश्च पिशाचवदनांस्तथा
७.०२८.०३८ तान् समालिङ्ग्य बाहुभ्यां विष्टब्धाः के चिदुच्छ्रिताः
७.०२८.०३८ देवैस्तु शस्त्रसंविद्धा मम्रिरे च निशाचराः
७.०२८.०३९ चित्रकर्म इवाभाति स तेषां रणसंप्लवः
७.०२८.०३९ निहतानां प्रमत्तानां राक्षसानां महीतले
७.०२८.०४० शोणितोदक निष्यन्दाकङ्कगृध्रसमाकुला
७.०२८.०४० प्रवृत्ता संयुगमुखे शस्त्रग्राहवती नदी
७.०२८.०४१ एतस्मिन्नन्तरे क्रुद्धो दशग्रीवः प्रतापवान्
७.०२८.०४१ निरीक्ष्य तद्बलं सर्वं दैवतैर्विनिपातितम्
७.०२८.०४२ स तं प्रतिविगाह्याशु प्रवृद्धं सैन्यसागरम्
७.०२८.०४२ त्रिदशान् समरे निघ्नञ्शक्रमेवाभ्यवर्तत
७.०२८.०४३ ततः शक्रो महच्चापं विस्फार्य सुमहास्वनम्
७.०२८.०४३ यस्य विस्फारघोषेण स्वनन्ति स्म दिशो दश
७.०२८.०४४ तद्विकृष्य महच्चापमिन्द्रो रावणमूर्धनि
७.०२८.०४४ निपातयामास शरान् पावकादित्यवर्चसः
७.०२८.०४५ तथैव च महाबाहुर्दशग्रीवो व्यवस्थितः
७.०२८.०४५ शक्रं कार्मुकविभ्रष्टैः शरवर्षैरवाकिरत्
७.०२८.०४६ प्रयुध्यतोरथ तयोर्बाणवर्षैः समन्ततः
७.०२८.०४६ नाज्ञायत तदा किं चित्सर्वं हि तमसा वृतम्
७.०२९.००१ ततस्तमसि संजाते राक्षसा दैवतैः सह
७.०२९.००१ अयुध्यन्त बलोन्मत्ताः सूदयन्तः परस्परम्
७.०२९.००२ ततस्तु देवसैन्येन राक्षसानां महद्बलम्
७.०२९.००२ दशांशं स्थापितं युद्धे शेषं नीतं यमक्षयम्
७.०२९.००३ तस्मिंस्तु तमसा नद्धे सर्वे ते देवराक्षसाः
७.०२९.००३ अन्योन्यं नाभ्यजानन्त युध्यमानाः परस्परम्
७.०२९.००४ इन्द्रश्च रावणश्चैव रावणिश्च महाबलः
७.०२९.००४ तस्मिंस्तमोजालवृते मोहमीयुर्न ते त्रयः
७.०२९.००५ स तु दृष्ट्वा बलं सर्वं निहतं रावणो रणे
७.०२९.००५ क्रोधमभ्यागमत्तीव्रं महानादं च मुक्तवान्
७.०२९.००६ क्रोधात्सूतं च दुर्धर्षः स्यन्दनस्थमुवाच ह
७.०२९.००६ परसैन्यस्य मध्येन यावदन्तं नयस्व माम्
७.०२९.००७ अद्यैतांस्त्रिदशान् सर्वान् विक्रमैः समरे स्वयम्
७.०२९.००७ नानाशस्त्रैर्महासारैर्नाशयामि नभस्तलात्
७.०२९.००८ अहमिन्द्रं वधिष्यामि वरुणं धनदं यमम्
७.०२९.००८ त्रिदशान् विनिहत्याशु स्वयं स्थास्याम्यथोपरि
७.०२९.००९ विषादो न च कर्तव्यः शीघ्रं वाहय मे रथम्
७.०२९.००९ द्विः खलु त्वां ब्रवीम्यद्य यावदन्तं नयस्व माम्
७.०२९.०१० अयं स नन्दनोद्देशो यत्र वर्तामहे वयम्
७.०२९.०१० नय मामद्य तत्र त्वमुदयो यत्र पर्वतः
७.०२९.०११ तस्य तद्वचनं श्रुत्वा तुरगान् स मनोजवान्
७.०२९.०११ आदिदेशाथ शत्रूणां मध्येनैव च सारथिः
७.०२९.०१२ तस्य तं निश्चयं ज्ञात्वा शक्रो देवेश्वरस्तदा
७.०२९.०१२ रथस्थः समरस्थांस्तान् देवान् वाक्यमथाब्रवीत्
७.०२९.०१३ सुराः शृणुत मद्वाक्यं यत्तावन्मम रोचते
७.०२९.०१३ जीवन्नेव दशग्रीवः साधु रक्षो निगृह्यताम्
७.०२९.०१४ एष ह्यतिबलः सैन्ये रथेन पवनौजसा
७.०२९.०१४ गमिष्यति प्रवृद्धोर्मिः समुद्र इव पर्वणि
७.०२९.०१५ न ह्येष हन्तुं शक्योऽद्य वरदानात्सुनिर्भयः
७.०२९.०१५ तद्ग्रहीष्यामहे रक्षो यत्ता भवत संयुगे
७.०२९.०१६ यथा बलिं निगृह्यैतत्त्रैलोक्यं भुज्यते मया
७.०२९.०१६ एवमेतस्य पापस्य निग्रहो मम रोचते
७.०२९.०१७ ततोऽन्यं देशमास्थाय शक्रः संत्यज्य रावणम्
७.०२९.०१७ अयुध्यत महातेजा राक्षसान्नाशयन् रणे
७.०२९.०१८ उत्तरेण दशग्रीवः प्रविवेशानिवर्तितः
७.०२९.०१८ दक्षिणेन तु पार्श्वेन प्रविवेश शतक्रतुः
७.०२९.०१९ ततः स योजनशतं प्रविष्टो राक्षसाधिपः
७.०२९.०१९ देवतानां बलं कृत्स्नं शरवर्षैरवाकिरत्
७.०२९.०२० ततः शक्रो निरीक्ष्याथ प्रविष्टं तं बलं स्वकम्
७.०२९.०२० न्यवर्तयदसंभ्रान्तः समावृत्य दशाननम्
७.०२९.०२१ एतस्मिन्नन्तरे नादो मुक्तो दानवराक्षसैः
७.०२९.०२१ हा हताः स्मेति तं दृष्ट्वा ग्रस्तं शक्रेण रावणम्
७.०२९.०२२ ततो रथं समारुह्य रावणिः क्रोधमूर्छितः
७.०२९.०२२ तत्सैन्यमतिसंक्रुद्धः प्रविवेश सुदारुणम्
७.०२९.०२३ स तां प्रविश्य मायां तु दत्तां गोपतिना पुरा
७.०२९.०२३ अदृश्यः सर्वभूतानां तत्सैन्यं समवाकिरत्
७.०२९.०२४ ततः स देवान् संत्यज्य शक्रमेवाभ्ययाद्द्रुतम्
७.०२९.०२४ महेन्द्रश्च महातेजा न ददर्श सुतं रिपोः
७.०२९.०२५ स मातलिं हयांश्चैव ताडयित्वा शरोत्तमैः
७.०२९.०२५ महेन्द्रं बाणवर्षेण शीघ्रहस्तो ह्यवाकिरत्
७.०२९.०२६ ततः शक्रो रथं त्यक्त्व विसृज्य च स मातलिम्
७.०२९.०२६ ऐरावतं समारुह्य मृगयामास रावणिम्
७.०२९.०२७ स तु माया बलाद्रक्षः संग्रामे नाभ्यदृश्यत
७.०२९.०२७ किरमाणः शरौघेन महेन्द्रममितौजसं
७.०२९.०२८ स तं यदा परिश्रान्तमिन्द्रं मेनेऽथ रावणिः
७.०२९.०२८ तदैनं मायया बद्ध्वा स्वसैन्यमभितोऽनयत्
७.०२९.०२९ तं दृष्ट्वाथ बलात्तस्मिन्माययापहृतं रणे
७.०२९.०२९ महेन्द्रममराः सर्वे किं न्वेतदिति चुक्रुशुः
७.०२९.०२९ न हि दृश्यति विद्यावान्मायया येन नीयते
७.०२९.०३० एतस्मिन्नन्तरे चापि सर्वे सुरगणास्तदा
७.०२९.०३० अभ्यद्रवन् सुसंक्रुद्धा रावणं शस्त्रवृष्टिभिः
७.०२९.०३१ रावणस्तु समासाद्य वस्वादित्यमरुद्गणान्
७.०२९.०३१ न शशाक रणे स्थातुं न योद्धुं शस्त्रपीडितः
७.०२९.०३२ तं तु दृष्ट्वा परिश्रान्तं प्रहारैर्जर्जरच्छविम्
७.०२९.०३२ रावणिः पितरं युद्धेऽदर्शनस्थोऽब्रवीदिदम्
७.०२९.०३३ आगच्छ तात गच्छावो निवृत्तं रणकर्म तत्
७.०२९.०३३ जितं ते विदितं भोऽस्तु स्वस्थो भव गतज्वरः
७.०२९.०३४ अयं हि सुरसैन्यस्य त्रैलोक्यस्य च यः प्रभुः
७.०२९.०३४ स गृहीतो मया शक्रो भग्नमानाः सुराः कृताः
७.०२९.०३५ यथेष्टं भुङ्क्ष्व त्रैलोक्यं निगृह्य रिपुमोजसा
७.०२९.०३५ वृथा ते किं श्रमं कृत्वा युद्धं हि तव निष्फलम्
७.०२९.०३६ स दैवतबलात्तस्मान्निवृत्तो रणकर्मणः
७.०२९.०३६ तच्छ्रुत्वा रावणेर्वाक्यं स्वस्थचेता दशाननः
७.०२९.०३७ अथ रणविगतज्वरः प्रभुर्॑ विजयमवाप्य निशाचराधिपः
७.०२९.०३७ भवनमभि ततो जगाम हृष्टः॑ स्वसुतमवाप्य च वाक्यमब्रवीत्
७.०२९.०३८ अतिबलसदृशैः पराक्रमैस्तैर्॑ मम कुलमानविवर्धनं कृतम्
७.०२९.०३८ यदमरसमविक्रम त्वया॑ त्रिदशपतिस्त्रिदशाश्च निर्जिताः
७.०२९.०३९ त्वरितमुपनयस्व वासवं॑ नगरमितो व्रज सैन्यसंवृतः
७.०२९.०३९ अहमपि तव गच्छतो द्रुतं॑ सह सचिवैरनुयामि पृष्ठतः
७.०२९.०४० अथ स बलवृतः सवाहनस्॑ त्रिदशपतिं परिगृह्य रावणिः
७.०२९.०४० स्वभवनमुपगम्य राक्षसो॑ मुदितमना विससर्ज राक्षसान्
७.०३०.००१ जिते महेन्द्रेऽतिबले रावणस्य सुतेन वै
७.०३०.००१ प्रजापतिं पुरस्कृत्य गता लङ्कां सुरास्तदा
७.०३०.००२ तं रावणं समासाद्य पुत्रभ्रातृभिरावृतम्
७.०३०.००२ अब्रवीद्गगने तिष्ठन् सान्त्वपूर्वं प्रजापतिः
७.०३०.००३ वत्स रावण तुष्टोऽस्मि तव पुत्रस्य संयुगे
७.०३०.००३ अहोऽस्य विक्रमौदार्यं तव तुल्योऽधिकोऽपि वा
७.०३०.००४ जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा
७.०३०.००४ कृता प्रतिज्ञा सफला प्रीतोऽस्मि स्वसुतेन वै
७.०३०.००५ अयं च पुत्रोऽतिबलस्तव रावणरावणिः
७.०३०.००५ इन्द्रजित्त्विति विख्यातो जगत्येष भविष्यति
७.०३०.००६ बलवाञ्शत्रुनिर्जेता भविष्यत्येष राक्षसः
७.०३०.००६ यमाश्रित्य त्वया राजन् स्थापितास्त्रिदशा वशे
७.०३०.००७ तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः
७.०३०.००७ किं चास्य मोक्षणार्थाय प्रयच्छन्ति दिवौकसः
७.०३०.००८ अथाब्रवीन्महातेजा इन्द्रजित्समितिंजयः
७.०३०.००८ अमरत्वमहं देव वृणोमीहास्य मोक्षणे
७.०३०.००९ अब्रवीत्तु तदा देवो रावणिं कमलोद्भवः
७.०३०.००९ नास्ति सर्वामरत्वं हि केषां चित्प्राणिनां भुवि
७.०३०.०१० अथाब्रवीत्स तत्रस्थमिन्द्रजित्पद्मसंभवम्
७.०३०.०१० श्रूयतां या भवेत्सिद्धिः शतक्रतुविमोक्षणे
७.०३०.०११ ममेष्टं नित्यशो देव हव्यैः संपूज्य पावकम्
७.०३०.०११ संग्राममवतर्तुं वै शत्रुनिर्जयकाङ्क्षिणः
७.०३०.०१२ तस्मिंश्चेदसमाप्ते तु जप्यहोमे विभावसोः
७.०३०.०१२ युध्येयं देव संग्रामे तदा मे स्याद्विनाशनम्
७.०३०.०१३ सर्वो हि तपसा चैव वृणोत्यमरतां पुमान्
७.०३०.०१३ विक्रमेण मया त्वेतदमरत्वं प्रवर्तितम्
७.०३०.०१४ एवमस्त्विति तं प्राह वाक्यं देवः प्रजापतिः
७.०३०.०१४ मुक्तश्चेन्द्रजिता शक्रो गताश्च त्रिदिवं सुराः
७.०३०.०१५ एतस्मिन्नन्तरे शक्रो दीनो भ्रष्टाम्बरस्रजः
७.०३०.०१५ राम चिन्तापरीतात्मा ध्यानतत्परतां गतः
७.०३०.०१६ तं तु दृष्ट्वा तथाभूतं प्राह देवः प्रजापतिः
७.०३०.०१६ शक्रक्रतो किमुत्कण्ठां करोषि स्मर दुष्कृतम्
७.०३०.०१७ अमरेन्द्र मया बह्व्यः प्रजाः सृष्टाः पुरा प्रभो
७.०३०.०१७ एकवर्णाः समाभाषा एकरूपाश्च सर्वशः
७.०३०.०१८ तासां नास्ति विशेषो हि दर्शने लक्षणेऽपि वा
७.०३०.०१८ ततोऽहमेकाग्रमनास्ताः प्रजाः पर्यचिन्तयम्
७.०३०.०१९ सोऽहं तासां विशेषार्थं स्त्रियमेकां विनिर्ममे
७.०३०.०१९ यद्यत्प्रजानां प्रत्यङ्गं विशिष्टं तत्तदुद्धृतम्
७.०३०.०२० ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता
७.०३०.०२० अहल्येत्येव च मया तस्या नाम प्रवर्तितम्
७.०३०.०२१ निर्मितायां तु देवेन्द्र तस्यां नार्यां सुरर्षभ
७.०३०.०२१ भविष्यतीति कस्यैषा मम चिन्ता ततोऽभवत्
७.०३०.०२२ त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो
७.०३०.०२२ स्थानाधिकतया पत्नी ममैषेति पुरंदर
७.०३०.०२३ सा मया न्यासभूता तु गौतमस्य महात्मनः
७.०३०.०२३ न्यस्ता बहूनि वर्षाणि तेन निर्यातिता च सा
७.०३०.०२४ ततस्तस्य परिज्ञाय मया स्थैर्यं महामुनेः
७.०३०.०२४ ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा
७.०३०.०२५ स तया सह धर्मात्मा रमते स्म महामुनिः
७.०३०.०२५ आसन्निराशा देवास्तु गौतमे दत्तया तया
७.०३०.०२६ त्वं क्रुद्धस्त्विह कामात्मा गत्वा तस्याश्रमं मुनेः
७.०३०.०२६ दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव
७.०३०.०२७ सा त्वया धर्षिता शक्र कामार्तेन समन्युना
७.०३०.०२७ दृष्टस्त्वं च तदा तेन आश्रमे परमर्षिणा
७.०३०.०२८ ततः क्रुद्धेन तेनासि शप्तः परमतेजसा
७.०३०.०२८ गतोऽसि येन देवेन्द्र दशाभागविपर्ययम्
७.०३०.०२९ यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम्
७.०३०.०२९ तस्मात्त्वं समरे राजञ्शत्रुहस्तं गमिष्यसि
७.०३०.०३० अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः
७.०३०.०३० मानुषेष्वपि सर्वेषु भविष्यति न संशयः
७.०३०.०३१ तत्राधर्मः सुबलवान् समुत्थास्यति यो महान्
७.०३०.०३१ तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति
७.०३०.०३२ न च ते स्थावरं स्थानं भविष्यति पुरंदर
७.०३०.०३२ एतेनाधर्मयोगेन यस्त्वयेह प्रवर्तितः
७.०३०.०३३ यश्च यश्च सुरेन्द्रः स्याद्ध्रुवः स न भविष्यति
७.०३०.०३३ एष शापो मया मुक्त इत्यसौ त्वां तदाब्रवीत्
७.०३०.०३४ तां तु भार्यां विनिर्भर्त्स्य सोऽब्रवीत्सुमहातपाः
७.०३०.०३४ दुर्विनीते विनिध्वंस ममाश्रमसमीपतः
७.०३०.०३५ रूपयौवनसंपन्ना यस्मात्त्वमनवस्थिता
७.०३०.०३५ तस्माद्रूपवती लोके न त्वमेका भविष्यसि
७.०३०.०३६ रूपं च तत्प्रजाः सर्वा गमिष्यन्ति सुदुर्लभम्
७.०३०.०३६ यत्तवेदं समाश्रित्य विभ्रमेऽयमुपस्थितः
७.०३०.०३७ तदा प्रभृति भूयिष्ठं प्रजा रूपसमन्विताः
७.०३०.०३७ शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपागतम्
७.०३०.०३८ तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम्
७.०३०.०३८ येन त्वं ग्रहणं शत्रोर्गतो नान्येन वासव
७.०३०.०३९ शीघ्रं यजस्व यज्ञं त्वं वैष्णवं सुसमाहितः
७.०३०.०३९ पावितस्तेन यज्ञेन यास्यसि त्रिदिवं ततः
७.०३०.०४० पुत्रश्च तव देवेन्द्र न विनष्टो महारणे
७.०३०.०४० नीतः संनिहितश्चैव अर्यकेण महोदधौ
७.०३०.०४१ एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम्
७.०३०.०४१ पुनस्त्रिदिवमाक्रामदन्वशासच्च देवताः
७.०३०.०४२ एतदिन्द्रजितो राम बलं यत्कीर्तितं मया
७.०३०.०४२ निर्जितस्तेन देवेन्द्रः प्राणिनोऽन्ये च किं पुनः
७.०३१.००१ ततो रामो महातेजा विस्मयात्पुनरेव हि
७.०३१.००१ उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम्
७.०३१.००२ भगवन् किं तदा लोकाः शून्या आसन् द्विजोत्तम
७.०३१.००२ धर्षणां यत्र न प्राप्तो रावणो राक्षसेश्वरः
७.०३१.००३ उताहो हीनवीर्यास्ते बभुवुः पृथिवीक्षितः
७.०३१.००३ बहिष्कृता वरास्त्रैश्च बहवो निर्जिता नृपाः
७.०३१.००४ राघवस्य वचः श्रुत्वा अगस्त्यो भगवानृषिः
७.०३१.००४ उवाच रामं प्रहसन् पितामह इवेश्वरम्
७.०३१.००५ स एवं बाधमानस्तु पार्थिवान् पार्थिवर्षभ
७.०३१.००५ चचार रावणो राम पृथिव्यां पृथिवीपते
७.०३१.००६ ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम्
७.०३१.००६ संप्राप्तो यत्र साम्निध्यं परमं वसुरेतसः
७.०३१.००७ तुल्य आसीन्नृपस्तस्य प्रतापाद्वसुरेतसः
७.०३१.००७ अर्जुनो नाम यस्याग्निः शरकुण्डे शयः सदा
७.०३१.००८ तमेव दिवसं सोऽथ हैहयाधिपतिर्बली
७.०३१.००८ अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः
७.०३१.००९ रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत
७.०३१.००९ क्वार्जुनो वो नृपः सोऽद्य शीघ्रमाख्यातुमर्हथ
७.०३१.०१० रावणोऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण तु
७.०३१.०१० ममागमनमव्यग्रैर्युष्माभिः संनिवेद्यताम्
७.०३१.०११ इत्येवं रावणेनोक्तास्तेऽमात्याः सुविपश्चितः
७.०३१.०११ अब्रुवन् राक्षसपतिमसाम्निध्यं महीपतेः
७.०३१.०१२ श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम्
७.०३१.०१२ अपसृत्यागतो विन्ध्यं हिमवत्संनिभं गिरिम्
७.०३१.०१३ स तमभ्रमिवाविष्टमुद्भ्रान्तमिव मेदिनीम्
७.०३१.०१३ अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्बरम्
७.०३१.०१४ सहस्रशिखरोपेतं सिंहाध्युषितकन्दरम्
७.०३१.०१४ प्रपात पतितैः शीतैः साट्टहासमिवाम्बुभिः
७.०३१.०१५ देवदानवगन्धर्वैः साप्सरोगणकिंनरैः
७.०३१.०१५ साह स्त्रीभिः क्रीडमानैः स्वर्गभूतं महोच्छ्रयम्
७.०३१.०१६ नदीभिः स्यन्दमानाभिरगतिप्रतिमं जलम्
७.०३१.०१६ स्फुटीभिश्चलजिह्वाभिर्वमन्तमिव विष्ठितम्
७.०३१.०१७ उल्कावन्तं दरीवन्तं हिमवत्संनिभं गिरिम्
७.०३१.०१७ पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ
७.०३१.०१८ चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम्
७.०३१.०१८ महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः
७.०३१.०१८ उष्णाभितप्तैस्तृषितैः संक्षोभितजलाशयाम्
७.०३१.०१९ चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैः
७.०३१.०१९ सारसैश्च सदामत्तैः कोकूजद्भिः समावृताम्
७.०३१.०२० फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम्
७.०३१.०२० विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम्
७.०३१.०२१ पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम्
७.०३१.०२१ जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम्
७.०३१.०२२ पुष्पकादवरुह्याशु नर्मदां सरितां वराम्
७.०३१.०२२ इष्टामिव वरां नारीमवगाह्य दशाननः
७.०३१.०२३ स तस्याः पुलिने रम्ये नानाकुसुमशोभिते
७.०३१.०२३ उपोपविष्टः सचिवैः सार्धं राक्षसपुंगवः
७.०३१.०२३ नर्मदा दर्शजं हर्षमाप्तवान् राक्षसेश्वरः
७.०३१.०२४ ततः सलीलं प्रहसान् रावणो राक्षसाधिपः
७.०३१.०२४ उवाच सचिवांस्तत्र मारीचशुकसारणान्
७.०३१.०२५ एष रश्मिसहस्रेण जगत्कृत्वेव काञ्चनम्
७.०३१.०२५ तीक्ष्णतापकरः सूर्यो नभसो मध्यमास्थितः
७.०३१.०२५ मामासीनं विदित्वेह चन्द्रायाति दिवाकरः
७.०३१.०२६ नर्मदा जलशीतश्च सुगन्धिः श्रमनाअशनः
७.०३१.०२६ मद्भयादनिलो ह्येष वात्यसौ सुसमाहितः
७.०३१.०२७ इयं चापि सरिच्छ्रेष्ठा नर्मदा नर्म वर्धिनी
७.०३१.०२७ लीनमीनविहंगोर्मिः सभयेवाङ्गना स्थिता
७.०३१.०२८ तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्रसमैर्युधि
७.०३१.०२८ चन्दनस्य रसेनेव रुधिरेण समुक्षिताः
७.०३१.०२९ ते यूयमवगाहध्वं नर्मदां शर्मदां नृणाम्
७.०३१.०२९ महापद्ममुखा मत्ता गङ्गामिव महागजाः
७.०३१.०३० अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ
७.०३१.०३१ अहमप्यत्र पुलिने शरदिन्दुसमप्रभे
७.०३१.०३१ पुष्पोपहरं शनकैः करिष्यामि उमापतेः
७.०३१.०३२ रावणेनैवमुक्तास्तु मारीचशुकसारणाः
७.०३१.०३२ समहोदरधूम्राक्षा नर्मदामवगाहिरे
७.०३१.०३३ राक्षसेन्द्रगजैस्तैस्तु क्षोभ्यते नर्मदा नदी
७.०३१.०३३ वामनाञ्जनपद्माद्यैर्गङ्गा इव महागजैः
७.०३१.०३४ ततस्ते राक्षसाअः स्नात्वा नर्मदाया वराम्भसि
७.०३१.०३४ उत्तीर्य पुष्पाण्याजह्रुर्बल्यर्थं रावणस्य तु
७.०३१.०३५ नर्मदा पुलिने रम्ये शुभ्राभ्रसदृशप्रभे
७.०३१.०३५ राक्षसेन्द्रैर्मुहूर्तेन कृतः पुष्पमयो गिरिः
७.०३१.०३६ पुष्पेषूपहृतेष्वेव रावणो राक्षसेश्वरः
७.०३१.०३६ अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः
७.०३१.०३७ तत्र स्नात्वा च विधिवज्जप्त्वा जप्यमनुत्तमम्
७.०३१.०३७ नर्मदा सलिलात्तस्मादुत्ततार स रावणः
७.०३१.०३८ रावणं प्राञ्जलिं यान्तमन्वयुः सप्तराक्षसाः
७.०३१.०३८ यत्र यत्र स याति स्म रावणो राक्षसाधिपः
७.०३१.०३८ जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते
७.०३१.०३९ वालुकवेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः
७.०३१.०३९ अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः
७.०३१.०४० ततः सतामार्तिहरं हरं परं॑ वरप्रदं चन्द्रमयूखभूषणम्
७.०३१.०४० समर्चयित्वा स निशाचरो जगौ॑ प्रसार्य हस्तान् प्रणनर्त चायतान्
७.०३२.००१ नर्मदा पुलिने यत्र राक्षसेन्द्रः स रावणः
७.०३२.००१ पुष्पोपहारं कुरुते तस्माद्देशाददूरतः
७.०३२.००२ अर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः
७.०३२.००२ क्रीडिते सह नारीभिर्नर्मदातोयमाश्रितः
७.०३२.००३ तासां मध्यगतो राज रराज स ततोऽर्जुनः
७.०३२.००३ करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः
७.०३२.००४ जिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम्
७.०३२.००४ रुरोध नर्मदा वेगं बाहुभिः स तदार्जुनः
७.०३२.००५ कार्तवीर्यभुजासेतुं तज्जलं प्राप्य निर्मलम्
७.०३२.००५ कूलापहारं कुर्वाणं प्रतिस्रोतः प्रधावति
७.०३२.००६ समीननक्रमकरः सपुष्पकुशसंस्तरः
७.०३२.००६ स नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ
७.०३२.००७ स वेगः कार्तवीर्येण संप्रेषिट इवाम्भसः
७.०३२.००७ पुष्पोपहारं तत्सर्वं रावणस्य जहार ह
७.०३२.००८ रावणोऽर्धसमाप्तं तु उत्सृज्य नियमं तदा
७.०३२.००८ नर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम्
७.०३२.००९ पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसंनिभम्
७.०३२.००९ वर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु
७.०३२.०१० ततोऽनुद्भ्रान्तशकुनां स्वाभाव्ये परमे स्थिताम्
७.०३२.०१० निर्विकाराङ्गनाभासां पश्यते रावणो नदीम्
७.०३२.०११ सव्येतरकराङ्गुल्या सशब्दं च दशाननः
७.०३२.०११ वेगप्रभवमन्वेष्टुं सोऽदिशच्छुकसारणौ
७.०३२.०१२ तौ तु रावणसंदिष्टौ भ्रातरौ शुकसारणौ
७.०३२.०१२ व्योमान्तरचरौ वीरौ प्रस्थितौ पश्चिमोन्मुखौ
७.०३२.०१३ अर्धयोजनमात्रं तु गत्वा तौ तु निशाचरौ
७.०३२.०१३ पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम्
७.०३२.०१४ बृहत्सालप्रतीकशं तोयव्याकुलमूर्धजम्
७.०३२.०१४ मदरक्तान्तनयनं मदनाकारवर्चसं
७.०३२.०१५ नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम्
७.०३२.०१५ गिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम्
७.०३२.०१६ बालानां वरनारीणां सहस्रेणाभिसंवृतम्
७.०३२.०१६ समदानां करेणूनां सहस्रेणेव कुञ्जरम्
७.०३२.०१७ तमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ
७.०३२.०१७ संनिवृत्तावुपागम्य रावणं तमथोचतुः
७.०३२.०१८ बृहत्सालप्रतीकाशः कोऽप्यसौ राक्षसेश्वर
७.०३२.०१८ नर्मदां रोधवद्रुद्ध्वा क्रीडापयति योषितः
७.०३२.०१९ तेन बाहुसहस्रेण संनिरुद्धजला नदी
७.०३२.०१९ सागरोद्गारसंकाशानुद्गारान् सृजते मुहुः
७.०३२.०२० इत्येवं भाषमाणौ तौ निशम्य शुकसारणौ
७.०३२.०२० रावणोऽर्जुन इत्युक्त्वा उत्तस्थौ युद्धलालसः
७.०३२.०२१ अर्जुनाभिमुखे तस्मिन् प्रस्थिते राक्षसेश्वरे
७.०३२.०२१ सकृदेव कृतो रावः सरक्तः प्रेषितो घनैः
७.०३२.०२२ महोदरमहापार्श्वधूम्राक्षशुकसारणैः
७.०३२.०२२ संवृतो राक्षसेन्द्रस्तु तत्रागाद्यत्र सोऽर्जुनः
७.०३२.०२३ नातिदीर्घेण कालेन स ततो राक्षसो बली
७.०३२.०२३ तं नर्मदा ह्रदं भीममाजगामाञ्जनप्रभः
७.०३२.०२४ स तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम्
७.०३२.०२४ नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम्
७.०३२.०२५ स रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतः
७.०३२.०२५ इत्येवमर्जुनामात्यानाह गम्भीरया गिरा
७.०३२.०२६ अमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वै
७.०३२.०२६ युद्धार्थं समनुप्राप्तो रावणो नाम नामतः
७.०३२.०२७ रावणस्य वचः श्रुत्वा मन्त्रिणोऽथार्जुनस्य ते
७.०३२.०२७ उत्तस्थुः सायुधास्तं च रावणं वाक्यमब्रुवन्
७.०३२.०२८ युद्धस्य कालो विज्ञातः साधु भोः साधु रावण
७.०३२.०२८ यः क्षीबं स्त्रीवृतं चैव योद्धुमिच्छसि नो नृपम्
७.०३२.०२८ वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम्
७.०३२.०२९ क्षमस्वाद्य दशग्रीव उष्यतां रजनी त्वया
७.०३२.०२९ युद्धश्रद्धा तु यद्यस्ति श्वस्तात समरेऽर्जुनम्
७.०३२.०३० यदि वापि त्वरा तुभ्यं युद्धतृष्णासमावृता
७.०३२.०३० निहत्यास्मांस्ततो युद्धमर्जुनेनोपयास्यसि
७.०३२.०३१ ततस्ते रावणामात्यैरमात्याः पार्थिवस्य तु
७.०३२.०३१ सूदिताश्चापि ते युद्धे भक्षिताश्च बुभुक्षितैः
७.०३२.०३२ ततो हलहलाशब्दो नर्मदा तिर आबभौ
७.०३२.०३२ अर्जुनस्यानुयात्राणां रावणस्य च मन्त्रिणाम्
७.०३२.०३३ इषुभिस्तोमरैः शूलैर्वज्रकल्पैः सकर्षणैः
७.०३२.०३३ सरावणानर्दयन्तः समन्तात्समभिद्रुताः
७.०३२.०३४ हैहयाधिपयोधानां वेग आसीत्सुदारुणः
७.०३२.०३४ सनक्रमीनमकरसमुद्रस्येव निस्वनः
७.०३२.०३५ रावणस्य तु तेऽमात्याः प्रहस्तशुकसारणाः
७.०३२.०३५ कार्तवीर्यबलं क्रुद्धा निर्दहन्त्यग्नितेजसः
७.०३२.०३६ अर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः
७.०३२.०३६ क्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः
७.०३२.०३७ उक्त्वा न भेतव्यमिति स्त्रीजनं स ततोऽर्जुनः
७.०३२.०३७ उत्ततार जलात्तस्माद्गङ्गातोयादिवाञ्जनः
७.०३२.०३८ क्रोधदूषितनेत्रस्तु स ततोऽर्जुन पावकः
७.०३२.०३८ प्रजज्वाल महाघोरो युगान्त इव पावकः
७.०३२.०३९ स तूर्णतरमादाय वरहेमाङ्गदो गदाम्
७.०३२.०३९ अभिद्रवति रक्षांसि तमांसीव दिवाकरः
७.०३२.०४० बाहुविक्षेपकरणां समुद्यम्य महागदाम्
७.०३२.०४० गारुडं वेगमास्थाय आपपातैव सोऽर्जुनः
७.०३२.०४१ तस्य मर्गं समावृत्य विन्ध्योऽर्कस्येव पर्वतः
७.०३२.०४१ स्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः
७.०३२.०४२ ततोऽस्य मुसलं घोरं लोहबद्धं मदोद्धतः
७.०३२.०४२ प्रहस्तः प्रेषयन् क्रुद्धो ररास च यथाम्बुदः
७.०३२.०४३ तस्याग्रे मुसलस्याग्निरशोकापीडसंनिभः
७.०३२.०४३ प्रहस्तकरमुक्तस्य बभूव प्रदहन्निव
७.०३२.०४४ आधावमानं मुसलं कार्तवीर्यस्तदार्जुनः
७.०३२.०४४ निपुणं वञ्चयामास सगदो गजविक्रमः
७.०३२.०४५ ततस्तमभिदुद्राव प्रहस्तं हैहयाधिपः
७.०३२.०४५ भ्रामयाणो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम्
७.०३२.०४६ तेनाहतोऽतिवेगेन प्रहस्तो गदया तदा
७.०३२.०४६ निपपात स्थितः शैलो वज्रिवज्रहतो यथा
७.०३२.०४७ प्रहस्तं पतितं दृष्ट्वा मारीचशुकसाअरणाः
७.०३२.०४७ समहोदरधूम्राक्षा अपसृप्ता रणाजिरात्
७.०३२.०४८ अपक्रान्तेष्वमात्येषु प्रहस्ते च निपातिते
७.०३२.०४८ रावणोऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम्
७.०३२.०४९ सहस्रबाहोस्तद्युद्धं विंशद्बाहोश्च दारुणम्
७.०३२.०४९ नृपराक्षसयोस्तत्र आरब्धं लोमहर्षणम्
७.०३२.०५० सागराविव संक्षुब्धौ चलमूलाविवाचलौ
७.०३२.०५० तेजोयुक्ताविवादित्यौ प्रदहन्ताविवानलौ
७.०३२.०५१ बलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ
७.०३२.०५१ मेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ
७.०३२.०५२ रुद्रकालाविव क्रुद्धौ तौ तथा राक्षसार्जुनौ
७.०३२.०५२ परस्परं गदाभ्यां तौ ताडयामासतुर्भृशम्
७.०३२.०५३ वज्रप्रहारानचला यथा घोरान् विषेहिरे
७.०३२.०५३ गदाप्रहारांस्तद्वत्तौ सहेते नरराक्षसौ
७.०३२.०५४ यथाशनिरवेभ्यस्तु जायते वै प्रतिश्रुतिः
७.०३२.०५४ तथा ताभ्यां गदापातैर्दिशः सर्वाः प्रतिश्रुताः
७.०३२.०५५ अर्जुनस्य गदा सा तु पात्यमानाहितोरसि
७.०३२.०५५ काञ्चनाभं नभश्चक्रे विद्युत्सौदामनी यथा
७.०३२.०५६ तथैव रावणेनापि पात्यमाना मुहुर्मुहुः
७.०३२.०५६ अर्जुनोरसि निर्भाति गदोल्केव महागिरौ
७.०३२.०५७ नार्जुनः खेदमाप्नोति न राक्षसगणेश्वरः
७.०३२.०५७ सममासीत्तयोर्युद्धं यथा पूर्वं बलीन्द्रयोः
७.०३२.०५८ शृङ्गैर्महर्षभौ यद्वद्दन्ताग्रैरिव कुञ्जरौ
७.०३२.०५८ परस्परं विनिघ्नन्तौ नरराक्षससत्तमौ
७.०३२.०५९ ततोऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा
७.०३२.०५९ स्तनयोरन्तरे मुक्ता रावणस्य महाहवे
७.०३२.०६० वरदानकृतत्राणे सा गदा रावणोरसि
७.०३२.०६० दुर्बलेव यथा सेना द्विधाभूतापतत्क्षितौ
७.०३२.०६१ स त्वर्जुनप्रमुक्तेन गदापातेन रावणः
७.०३२.०६१ अपासर्पद्धनुर्मात्रं निषसाअद च निष्टनन्
७.०३२.०६२ स विह्वलं तदालक्ष्य दशग्रीवं ततोऽर्जुनः
७.०३२.०६२ सहसा प्रतिजग्राह गरुत्मानिव पन्नगम्
७.०३२.०६३ स तं बाहुसहस्रेण बलाद्गृह्य दशाननम्
७.०३२.०६३ बबन्ध बलवान् राजा बलिं नारायणो यथा
७.०३२.०६४ बध्यमाने दशग्रीवे सिद्धचारणदेवताः
७.०३२.०६४ साध्वीति वादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि
७.०३२.०६५ व्याघ्रो मृगमिवादाय सिंहराडिव दन्तिनम्
७.०३२.०६५ ररास हैहयो राजा हर्षादम्बुदवन्मुहुः
७.०३२.०६६ प्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम्
७.०३२.०६६ सह तै राकसैः क्रुद्ध अभिदुद्राव पार्थिवम्
७.०३२.०६७ नक्तंचराणां वेगस्तु तेषामापततां बभौ
७.०३२.०६७ उद्धृत आतपापाये समुद्राणामिवाद्भुतः
७.०३२.०६८ मुञ्च मुञ्चेति भाषन्तस्तिष्ठ तिष्ठेति चासकृत्
७.०३२.०६८ मुसलानि च शूलानि उत्ससर्जुस्तदार्जुने
७.०३२.०६९ अप्राप्तान्येव तान्याशु असंभ्रान्तस्तदार्जुनः
७.०३२.०६९ आयुधान्यमरारीणां जग्राह रिपुसूदनः
७.०३२.०७० ततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैः
७.०३२.०७० भित्त्वा विद्रावयामास वायुरम्बुधरानिव
७.०३२.०७१ राक्षसांस्त्रासयित्वा तु कार्तवीर्यार्जुनस्तदा
७.०३२.०७१ रावणं गृह्य नगरं प्रविवेश सुहृद्वृतः
७.०३२.०७२ स कीर्यमाणः कुसुमाक्षतोत्करैर्॑ द्विजैः सपौरैः पुरुहूतसंनिभः
७.०३२.०७२ तदार्जुनः संप्रविवेश तां पुरीं॑ बलिं निगृह्यैव सहस्रलोचनः
७.०३३.००१ रावणग्रहणं तत्तु वायुग्रहणसंनिभम्
७.०३३.००१ ऋषिः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः
७.०३३.००२ ततः पुत्रसुतस्नेहात्कम्प्यमानो महाधृतिः
७.०३३.००२ माहिष्मतीपतिं द्रष्टुमाजगाम महानृषिः
७.०३३.००३ स वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः
७.०३३.००३ पुरीं माहिष्मतीं प्राप्तो मनःसंतापविक्रमः
७.०३३.००४ सोऽमरावतिसंकाशां हृष्टपुष्टजनावृताम्
७.०३३.००४ प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम्
७.०३३.००५ पादचारमिवादित्यं निष्पतन्तं सुदुर्दृशम्
७.०३३.००५ ततस्ते प्रत्यभिज्ञाय अर्जुनाय न्यवेदयन्
७.०३३.००६ पुलस्त्य इति तं श्रुत्वा वचनं हैहयाधिपः
७.०३३.००६ शिरस्यञ्जलिमुद्धृत्य प्रत्युद्गच्छद्द्विजोत्तमम्
७.०३३.००७ पुरोहितोऽस्य गृह्यार्घ्यं मधुपर्कं तथाइव च
७.०३३.००७ पुरस्तात्प्रययौ राज्ञ इन्द्रस्येव बृहस्पतिः
७.०३३.००८ ततस्तमृषिमायान्तमुद्यन्तमिव भास्करम्
७.०३३.००८ अर्जुनो दृश्य संप्राप्तं ववन्देन्द्र इवेश्वरम्
७.०३३.००९ स तस्य मधुपर्कं च पाद्यमर्घ्यं च दापयन्
७.०३३.००९ पुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा
७.०३३.०१० अद्येयममरावत्या तुल्या माहिष्मती कृता
७.०३३.०१० अद्याहं तु द्विजेन्द्रेन्द्र यस्मात्पश्यामि दुर्दृशम्
७.०३३.०११ अद्य मे कुशलं देव अद्य मे कुलमुद्धृतम्
७.०३३.०११ यत्ते देवगणैर्वन्द्यौ वन्देऽहं चरणाविमौ
७.०३३.०१२ इदं राज्यमिमे पुत्रा इमे दारा इमे वयम्
७.०३३.०१२ ब्रह्मन् किं कुर्म किं कार्यमाज्ञापयतु नो भवान्
७.०३३.०१३ तं धर्मेऽग्निषु भृत्येषु शिवं पृष्ट्वाथ पार्थिवम्
७.०३३.०१३ पुलस्त्योवाच राजानं हैहयानां तदार्जुनम्
७.०३३.०१४ राजेन्द्रामलपद्माक्षपूर्णचन्द्रनिभानन
७.०३३.०१४ अतुलं ते बलं येन दशग्रीवस्त्वया जितः
७.०३३.०१५ भयाद्यस्यावतिष्ठेतां निष्पन्दौ सागरानिलौ
७.०३३.०१५ सोऽयमद्य त्वया बद्धः पौत्रो मेऽतीवदुर्जयः
७.०३३.०१६ तत्पुत्रक यशः स्फीतं नाम विश्रावितं त्वया
७.०३३.०१६ मद्वाक्याद्याच्यमानोऽद्य मुञ्च वत्स दशाननम्
७.०३३.०१७ पुलस्त्याज्ञां स गृह्याथ अकिंचनवचोऽर्जुनः
७.०३३.०१७ मुमोच पार्थिवेन्द्रेन्द्रो राक्षसेन्द्रं प्रहृष्टवत्
७.०३३.०१८ स तं प्रमुक्त्वा त्रिदशारिमर्जुनः॑ प्रपूज्य दिव्याभरणस्रगम्बरैः
७.०३३.०१८ अहिंसाकं सख्यमुपेत्य साग्निकं॑ प्रणम्य स ब्रह्मसुतं गृहं ययौ
७.०३३.०१९ पुलस्त्येनापि संगम्य राक्षसेन्द्रः प्रतापवान्
७.०३३.०१९ परिष्वङ्गकृतातिथ्यो लज्जमानो विसर्जितः
७.०३३.०२० पितामहसुतश्चापि पुलस्त्यो मुनिसत्तमः
७.०३३.०२० मोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम सः
७.०३३.०२१ एवं स रावणः प्राप्तः कार्तवीर्यात्तु धर्षणात्
७.०३३.०२१ पुलस्त्यवचनाच्चापि पुनर्मोक्षमवाप्तवान्
७.०३३.०२२ एवं बलिभ्यो बलिनः सन्ति राघवनन्दन
७.०३३.०२२ नावज्ञा परतः कार्या य इच्छेच्छ्रेय आत्मनः
७.०३३.०२३ ततः स राजा पिशिताशनानां॑ सहस्रबाहोरुपलभ्य मैत्रीम्
७.०३३.०२३ पुनर्नराणां कदनं चकार॑ चचार सर्वां पृथिवीं च दर्पात्
७.०३४.००१ अर्जुनेन विमुक्तस्तु रावणो राक्षसाधिपः
७.०३४.००१ चचार पृथिवीं सर्वामनिर्विण्णस्तथा कृतः
७.०३४.००२ राक्षसं वा मनुष्यं वा शृणुते यं बलाधिकम्
७.०३४.००२ रावणस्तं समासाद्य युद्धे ह्वयति दर्पितः
७.०३४.००३ ततः कदा चित्किष्किन्धां नगरीं वालिपालिताम्
७.०३४.००३ गत्वाह्वयति युद्धाय वालिनं हेममालिनम्
७.०३४.००४ ततस्तं वानरामात्यस्तारस्तारापिता प्रभुः
७.०३४.००४ उवाच रावणं वाक्यं युद्धप्रेप्सुमुपागतम्
७.०३४.००५ राक्षसेन्द्र गतो वाली यस्ते प्रतिबलो भवेत्
७.०३४.००५ नान्यः प्रमुखतः स्थातुं तव शक्तः प्लवंगमः
७.०३४.००६ चतुर्भ्योऽपि समुद्रेभ्यः संध्यामन्वास्य रावण
७.०३४.००६ इमं मुहूर्तमायाति वाली तिष्ठ मुहूर्तकम्
७.०३४.००७ एतानस्थिचयान् पश्य य एते शङ्खपाण्डुराः
७.०३४.००७ युद्धार्थिनामिमे राजन् वानराधिपतेजसा
७.०३४.००८ यद्वामृतरसः पीतस्त्वया रावणराक्षस
७.०३४.००८ तथा वालिनमासाद्य तदन्तं तव जीवितम्
७.०३४.००९ अथ वा त्वरसे मर्तुं गच्छ दक्षिणसागरम्
७.०३४.००९ वालिनं द्रक्ष्यसे तत्र भूमिष्ठमिव भास्करम्
७.०३४.०१० स तु तारं विनिर्भर्त्स्य रावणो राक्षसेश्वरः
७.०३४.०१० पुष्पकं तत्समारुह्य प्रययौ दक्षिणार्णवम्
७.०३४.०११ तत्र हेमगिरिप्रख्यं तरुणार्कनिभाननम्
७.०३४.०११ रावणो वालिनं दृष्ट्वा संध्योपासनतत्परम्
७.०३४.०१२ पुष्पकादवरुह्याथ रावणोऽञ्जनसंनिभः
७.०३४.०१२ ग्रहीतुं वालिनं तूर्णं निःशब्दपदमाद्रवत्
७.०३४.०१३ यदृच्छयोन्मीलयता वालिनापि स रावणः
७.०३४.०१३ पापाभिप्रायवान् दृष्टश्चकार न च संभ्रमम्
७.०३४.०१४ शशमालक्ष्य सिंहो वा पन्नगं गरुडो यथा
७.०३४.०१४ न चिन्तयति तं वाली रावणं पापनिश्चयम्
७.०३४.०१५ जिघृक्षमाणमद्यैनं रावणं पापबुद्धिनम्
७.०३४.०१५ कक्षावलम्बिनं कृत्वा गमिष्यामि महार्णवान्
७.०३४.०१६ द्रक्ष्यन्त्यरिं ममाङ्कस्थं स्रंसितोरुकराम्बरम्
७.०३४.०१६ लम्बमानं दशग्रीवं गरुडस्येव पन्नगम्
७.०३४.०१७ इत्येवं मतिमास्थाय वाली कर्णमुपाश्रितः
७.०३४.०१७ जपन् वै नैगमान्मन्त्रांस्तस्थौ पर्वतराडिव
७.०३४.०१८ तावन्योन्यं जिघृक्षन्तौ हरिराक्षसपार्थिवौ
७.०३४.०१८ प्रयत्नवन्तौ तत्कर्म ईहतुर्बलदर्पितौ
७.०३४.०१९ हस्तग्राह्यं तु तं मत्वा पादशब्देन रावणम्
७.०३४.०१९ पराङ्मुखोऽपि जग्राह वाली सर्पमिवाण्डजः
७.०३४.०२० ग्रहीतुकामं तं गृह्य रक्षसामीश्वरं हरिः
७.०३४.०२० खमुत्पपात वेगेन कृत्वा कक्षावलम्बिनम्
७.०३४.०२१ स तं पीड्दयमानस्तु वितुदन्तं नखैर्मुहुः
७.०३४.०२१ जहार रावणं वाली पवनस्तोयदं यथा
७.०३४.०२२ अथ ते राक्षसामात्या ह्रियमाणे दशानने
७.०३४.०२२ मुमोक्षयिषवो घोरा रवमाणा ह्यभिद्रवन्
७.०३४.०२३ अन्वीयमानस्तैर्वाली भ्राजतेऽम्बरमध्यगः
७.०३४.०२३ अन्वीयमानो मेघौघैरम्बरस्थ इवांशुमान्
७.०३४.०२४ तेऽशक्नुवन्तः संप्राप्तं वालिनं राक्षसोत्तमाः
७.०३४.०२४ तस्य बाहूरुवेगेन परिश्रान्तः पतन्ति च
७.०३४.०२५ वालिमार्गादपाक्रामन् पर्वतेन्द्रा हि गच्छतः
७.०३४.०२६ अपक्षिगणसंपातो वानरेन्द्रो महाजवः
७.०३४.०२६ क्रमशः सागरान् सर्वान् संध्याकालमवन्दत
७.०३४.०२७ सभाज्यमानो भूतैस्तु खेचरैः खेचरो हरिः
७.०३४.०२७ पश्चिमं सागरं वाली आजगाम सरावणः
७.०३४.०२८ तत्र संध्यामुपासित्वा स्नात्वा जप्त्वा च वानरः
७.०३४.०२८ उत्तरं सागरं प्रायाद्वहमानो दशाननम्
७.०३४.०२९ उत्तरे सागरे संध्यामुपासित्वा दशाननम्
७.०३४.०२९ वहमानोऽगमद्वाली पूर्वमम्बुमहानिधिम्
७.०३४.०३० तत्रापि संध्यामन्वास्य वासविः स हरीश्वरः
७.०३४.०३० किष्किन्धाभिमुखो गृह्य रावणं पुनरागमत्
७.०३४.०३१ चतुर्ष्वपि समुद्रेषु संध्यामन्वास्य वानरः
७.०३४.०३१ रावणोद्वहनश्रान्तः किष्किन्धोपवनेऽपतत्
७.०३४.०३२ रावणं तु मुमोचाथ स्वकक्षात्कपिसत्तमः
७.०३४.०३२ कुतस्त्वमिति चोवाच प्रहसन् रावणं प्रति
७.०३४.०३३ विस्मयं तु महद्गत्वा श्रमलोकनिरीक्षणः
७.०३४.०३३ राक्षसेशो हरीशं तमिदं वचनमब्रवीत्
७.०३४.०३४ वानरेन्द्र महेन्द्राभ राक्षसेन्द्रोऽस्मि रावणः
७.०३४.०३४ युद्धेप्सुरहं संप्राप्तः स चाद्यासादितस्त्वया
७.०३४.०३५ अहो बलमहो वीर्यमहो गम्भीरता च ते
७.०३४.०३५ येनाहं पशुवद्गृह्य भ्रामितश्चतुरोऽर्णवान्
७.०३४.०३६ एवमश्रान्तवद्वीर शीघ्रमेव च वानर
७.०३४.०३६ मां चैवोद्वहमानस्तु कोऽन्यो वीरः क्रमिष्यति
७.०३४.०३७ त्रयाणामेव भूतानां गतिरेषा प्लवंगम
७.०३४.०३७ मनोऽनिलसुपर्णानां तव वा नात्र संशयः
७.०३४.०३८ सोऽहं दृष्टबलस्तुभ्यमिच्छामि हरिपुंगव
७.०३४.०३८ त्वया सह चिरं सख्यं सुस्निग्धं पावकाग्रतः
७.०३४.०३९ दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभोजनम्
७.०३४.०३९ सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर
७.०३४.०४० ततः प्रज्वालयित्वाग्निं तावुभौ हरिराक्षसौ
७.०३४.०४० भ्रातृत्वमुपसंपन्नौ परिष्वज्य परस्परम्
७.०३४.०४१ अन्योन्यं लम्बितकरौ ततस्तौ हरिराक्षसौ
७.०३४.०४१ किष्किन्धां विशतुर्हृष्टौ सिंहौ गिरिगुहामिव
७.०३४.०४२ स तत्र मासमुषितः सुग्रीव इव रावणः
७.०३४.०४२ अमात्यैरागतैर्नीचस्त्रैलोक्योत्सादनार्थिभिः
७.०३४.०४३ एवमेतत्पुरावृत्तं वालिना रावणः प्रभो
७.०३४.०४३ धर्षितश्च कृतश्चापि भ्राता पावकसंनिधौ
७.०३४.०४४ बलमप्रतिमं राम वालिनोऽभवदुत्तमम्
७.०३४.०४४ सोऽपि तया विनिर्दग्धः शलभो वह्निना यथा
७.०३५.००१ अपृच्छत ततो रामो दक्षिणाशालयं मुनिम्
७.०३५.००१ प्राञ्जलिर्विनयोपेत इदमाह वचोऽर्थवत्
७.०३५.००२ अतुलं बलमेताभ्यां वालिनो रावणस्य च
७.०३५.००२ न त्वेतौ हनुमद्वीर्यैः समाविति मतिर्मम
७.०३५.००३ शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम्
७.०३५.००३ विक्रमश्च प्रभावश्च हनूमति कृतालयाः
७.०३५.००४ दृष्ट्वोदधिं विषीदन्तीं तदैष कपिवाहिनीम्
७.०३५.००४ समाश्वास्य कपीन् भूयो योजनानां शतं प्लुतः
७.०३५.००५ धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तथा
७.०३५.००५ दृष्ट्वा संभाषिता चापि सीता विश्वासिता तथा
७.०३५.००६ सेनाग्रगा मन्त्रिसुताः किंकरा रावणात्मजः
७.०३५.००६ एते हनुमता तत्र एकेन विनिपातिताः
७.०३५.००७ भूयो बन्धाद्विमुक्तेन संभाषित्वा दशाननम्
७.०३५.००७ लङ्का भस्मीकृता तेन पावकेनेव मेदिनी
७.०३५.००८ न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च
७.०३५.००८ कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः
७.०३५.००९ एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः
७.०३५.००९ प्राप्तो मया जयश्चैव राज्यं मित्राणि बान्धवाः
७.०३५.०१० हनूमान् यदि मे न स्याद्वानराधिपतेः सखा
७.०३५.०१० प्रवृत्तमपि को वेत्तुं जानक्याः शक्तिमान् भवेत्
७.०३५.०११ किमर्थं वाली चैतेन सुग्रीवप्रियकाम्यया
७.०३५.०११ तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा
७.०३५.०१२ न हि वेदितवान्मन्ये हनूमानात्मनो बलम्
७.०३५.०१२ यद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम्
७.०३५.०१३ एतन्मे भगवन् सर्वं हनूमति महामुने
७.०३५.०१३ विस्तरेण यथातत्त्वं कथयामरपूजित
७.०३५.०१४ राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्ततः
७.०३५.०१४ हनूमतः समक्षं तमिदं वचनमब्रवीत्
७.०३५.०१५ सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः
७.०३५.०१५ न बले विद्यते तुल्यो न गतौ न मतौ परः
७.०३५.०१६ अमोघशापैः शापस्तु दत्तोऽस्य ऋषिभिः पुरा
७.०३५.०१६ न वेदिता बलं येन बली सन्नरिमर्दनः
७.०३५.०१७ बाल्येऽप्येतेन यत्कर्म कृतं राम महाबल
७.०३५.०१७ तन्न वर्णयितुं शक्यमतिबालतयास्य ते
७.०३५.०१८ यदि वास्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव
७.०३५.०१८ समाधाय मतिं राम निशामय वदाम्यहम्
७.०३५.०१९ सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः
७.०३५.०१९ यत्र राज्यं प्रशास्त्यस्य केषरी नाम वै पिता
७.०३५.०२० तस्य भार्या बभूवेष्टा ह्यञ्जनेति परिश्रुता
७.०३५.०२० जनयामास तस्यां वै वायुरात्मजमुत्तमम्
७.०३५.०२१ शालिशूकसमाभासं प्रासूतेमं तदाञ्जना
७.०३५.०२१ फलान्याहर्तुकामा वै निष्क्रान्ता गहने चरा
७.०३५.०२२ एष मातुर्वियोगाच्च क्षुधया च भृशार्दितः
७.०३५.०२२ रुरोद शिशुरत्यर्थं शिशुः शरभराडिव
७.०३५.०२३ ततोद्यन्तं विवस्वन्तं जपा पुष्पोत्करोपमम्
७.०३५.०२३ ददृशे फललोभाच्च उत्पपात रविं प्रति
७.०३५.०२४ बालार्काभिमुखो बालो बालार्क इव मूर्तिमान्
७.०३५.०२४ ग्रहीतुकामो बालार्कं प्लवतेऽम्बरमध्यगः
७.०३५.०२५ एतस्मिन् प्लवनाने तु शिशुभावे हनूमति
७.०३५.०२५ देवदानवसिद्धानां विस्मयः सुमहानभूत्
७.०३५.०२६ नाप्येवं वेगवान् वायुर्गरुडो न मनस्तथा
७.०३५.०२६ यथायं वायुपुत्रस्तु क्रमतेऽम्बरमुत्तमम्
७.०३५.०२७ यदि तावच्छिशोरस्य ईदृशौ गतिविक्रमौ
७.०३५.०२७ यौवनं बलमासाद्य कथं वेगो भविष्यति
७.०३५.०२८ तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः
७.०३५.०२८ सूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः
७.०३५.०२९ बहुयोजनसाहस्रं क्रमत्येष ततोऽम्बरम्
७.०३५.०२९ पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः
७.०३५.०३० शिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः
७.०३५.०३० कार्यं चात्र समायत्तमित्येवं न ददाह सः
७.०३५.०३१ यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः
७.०३५.०३१ तमेव दिवसं राहुर्जिघृक्षति दिवाकरम्
७.०३५.०३२ अनेन च परामृष्टो राम सूर्यरथोपति
७.०३५.०३२ अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः
७.०३५.०३३ स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः
७.०३५.०३३ अब्रवीद्भ्रुकुटीं कृत्वा देवं देवगणैर्वृतम्
७.०३५.०३४ बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव
७.०३५.०३४ किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन्
७.०३५.०३५ अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः
७.०३५.०३५ अथान्यो राहुरासाद्य जग्राह सहसा रविम्
७.०३५.०३६ स राहोर्वचनं श्रुत्वा वासवः संभ्रमान्वितः
७.०३५.०३६ उत्पपातासनं हित्वा उद्वहन् काञ्चनस्रजम्
७.०३५.०३७ ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम्
७.०३५.०३७ शृङ्गारकारिणं प्रांषुं स्वर्णघण्टाट्टहासिनम्
७.०३५.०३८ इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम्
७.०३५.०३८ प्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता
७.०३५.०३९ अथातिरभसेनागाद्राहुरुत्सृज्य वासवम्
७.०३५.०३९ अनेन च स वै दृष्ट आधावञ्शैलकूटवत्
७.०३५.०४० ततः सूर्यं समुत्सृज्य राहुमेवमवेक्ष्य च
७.०३५.०४० उत्पपात पुनर्व्योम ग्रहीतुं सिंहिका सुतम्
७.०३५.०४१ उत्सृज्यार्कमिमं राम आधावन्तं प्लवंगमम्
७.०३५.०४१ दृष्ट्वा राहुः परावृत्य मुखशेषः पराङ्मुखः
७.०३५.०४२ इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः
७.०३५.०४२ इन्द्र इन्द्रेति संत्रासान्मुहुर्मुहुरभाषत
७.०३५.०४३ राहोर्विक्रोशमानस्य प्रागेवालक्षितः स्वरः
७.०३५.०४३ श्रुत्वेन्द्रोवाच मां भैषीरयमेनं निहन्म्यहम्
७.०३५.०४४ ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि
७.०३५.०४४ फलं तं हस्तिराजानमभिदुद्राव मारुतिः
७.०३५.०४५ तदास्य धावतो रूपमैरावतजिघृक्षया
७.०३५.०४५ मुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम्
७.०३५.०४६ एवमाधावमानं तु नातिक्रुद्धः शचीपतिः
७.०३५.०४६ हस्तान्तेनातिमुक्तेन कुलिशेनाभ्यताडयत्
७.०३५.०४७ ततो गिरौ पपातैष इन्द्रवज्राभिताडितः
७.०३५.०४७ पतमानस्य चैतस्य वामो हनुरभज्यत
७.०३५.०४८ तस्मिंस्तु पतिते बाले वज्रताडनविह्वले
७.०३५.०४८ चुक्रोधेन्द्राय पवनः प्रजानामशिवाय च
७.०३५.०४९ विण्मूत्राशयमावृत्य प्रजास्वन्तर्गतः प्रभुः
७.०३५.०४९ रुरोध सर्वभूतानि यथा वर्षाणि वासवः
७.०३५.०५० वायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः
७.०३५.०५० संधिभिर्भज्यमानानि काष्ठभूतानि जज्ञिरे
७.०३५.०५१ निःस्वधं निर्वषट्कारं निष्क्रियं धर्मवर्जितम्
७.०३५.०५१ वायुप्रकोपात्त्रैलोक्यं निरयस्थमिवाबभौ
७.०३५.०५२ ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः
७.०३५.०५२ प्रजापतिं समाधावन्नसुखार्ताः सुखैषिणः
७.०३५.०५३ ऊचुः प्राञ्जलयो देवा दरोदरनिभोदराः
७.०३५.०५३ त्वया स्म भगवन् सृष्टाः प्रजानाथ चतुर्विधाः
७.०३५.०५४ त्वया दत्तोऽयमस्माकमायुषः पवनः पतिः
७.०३५.०५४ सोऽस्मान् प्राणेश्वरो भूत्वा कस्मादेषोऽद्य सत्तम
७.०३५.०५५ रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः
७.०३५.०५५ तस्मात्त्वां शरणं प्राप्ता वायुनोपहता विभो
७.०३५.०५६ वायुसंरोधजं दुःखमिदं नो नुद शत्रुहन्
७.०३५.०५७ एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः
७.०३५.०५७ कारणादिति तानुक्त्वा प्रजाः पुनरभाषत
७.०३५.०५८ यस्मिन् वः कारणे वायुश्चुक्रोध च रुरोध च
७.०३५.०५८ प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम्
७.०३५.०५९ पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः
७.०३५.०५९ राहोर्वचनमाज्ञाय राज्ञा वः कोपितोऽनिलः
७.०३५.०६० अशरीरः शरीरेषु वायुश्चरति पालयन्
७.०३५.०६० शरीरं हि विना वायुं समतां याति रेणुभिः
७.०३५.०६१ वायुः प्राणाः सुखं वायुर्वायुः सर्वमिदं जगत्
७.०३५.०६१ वायुना संपरित्यक्तं न सुखं विन्दते जगत्
७.०३५.०६२ अद्यैव च परित्यक्तं वायुना जगदायुषा
७.०३५.०६२ अद्यैवेमे निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः
७.०३५.०६३ तद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि वः
७.०३५.०६३ मा विनाशं गमिष्याम अप्रसाद्यादितेः सुतम्
७.०३५.०६४ ततः प्रजाभिः सहितः प्रजापतिः॑ सदेवगन्धर्वभुजंगगुह्यकः
७.०३५.०६४ जगाम तत्रास्यति यत्र मारुतः॑ सुतं सुरेन्द्राभिहतं प्रगृह्य सः
७.०३५.०६५ ततोऽर्कवैश्वानरकाञ्चनप्रभं॑ सुतं तदोत्सङ्गगतं सदा गतेः
७.०३५.०६५ चतुर्मुखो वीक्ष्य कृपामथाकरोत्॑ सदेवसिद्धर्षिभुजंगराक्षसः
७.०३६.००१ ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः
७.०३६.००१ शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः
७.०३६.००२ चलत्कुण्डलमौलिस्रक्तपनीयविभूषणः
७.०३६.००२ पादयोर्न्यपतद्वायुस्तिस्रोऽ वस्थाय वेधसे
७.०३६.००३ तं तु वेदविदाद्यस्तु लम्बाभरणशोभिना
७.०३६.००३ वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान्
७.०३६.००४ स्पृष्टमात्रस्ततः सोऽथ सलीलं पद्मजन्मना
७.०३६.००४ जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान्
७.०३६.००५ प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा
७.०३६.००५ चचार सर्वभूतेषु संनिरुद्धं यथापुरा
७.०३६.००६ मरुद्रोगविनिर्मुक्ताः प्रजा वै मुदिताभवन्
७.०३६.००६ शीतवातविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः
७.०३६.००७ ततस्त्रियुग्मस्त्रिककुत्त्रिधामा त्रिदशार्चितः
७.०३६.००७ उवाच देवता ब्रह्मा मारुतप्रियकाम्यया
७.०३६.००८ भो महेन्द्राग्निवरुणधनेश्वरमहेश्वराः
७.०३६.००८ जानतामपि तत्सर्वं हितं वक्ष्यामि श्रूयताम्
७.०३६.००९ अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति
७.०३६.००९ ददतास्य वरान् सर्वे मारुतस्यास्य तुष्टिदान्
७.०३६.०१० ततः सहस्रनयनः प्रीतिरक्तः शुभाननः
७.०३६.०१० कुशे शयमयीं मालां समुत्क्षिप्येदमब्रवीत्
७.०३६.०११ मत्करोत्सृष्टवज्रेण हनुरस्य यथा क्षतः
७.०३६.०११ नाम्नैष कपिशार्दूलो भविता हनुमानिति
७.०३६.०१२ अहमेवास्य दास्यामि परमं वरमुत्तमम्
७.०३६.०१२ अतः प्रभृति वज्रस्य ममावध्यो भविष्यति
७.०३६.०१३ मार्ताण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः
७.०३६.०१३ तेजसोऽस्य मदीयस्य ददामि शतिकां कलाम्
७.०३६.०१४ यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति
७.०३६.०१४ तदास्य शास्त्रं दास्यामि येन वाग्मी भविष्यति
७.०३६.०१५ वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यति
७.०३६.०१५ वर्षायुतशतेनापि मत्पाशादुदकादपि
७.०३६.०१६ यमोऽपि दण्डावध्यत्वमरोगत्वं च नित्यशः
७.०३६.०१६ दिशतेऽस्य वरं तुष्ट अविषादं च संयुगे
७.०३६.०१७ गदेयं मामिका नैनं संयुगेषु वधिष्यति
७.०३६.०१७ इत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः
७.०३६.०१८ मत्तो मदायुधानां च न वध्योऽयं भविष्यति
७.०३६.०१८ इत्येवं शंकरेणापि दत्तोऽस्य परमो वरः
७.०३६.०१९ सर्वेषां ब्रह्मदण्डानामवध्योऽयं भविष्यति
७.०३६.०१९ दीर्घाअयुश्च महात्मा च इति ब्रह्माब्रवीद्वचः
७.०३६.०२० विश्वकर्मा तु दृष्ट्वैनं बालसूर्योपमं शिशुम्
७.०३६.०२० शिल्पिना प्रवरः प्राह वरमस्य महामतिः
७.०३६.०२१ विनिर्मितानि देवानामायुधानीह यानि तु
७.०३६.०२१ तेषां संग्रामकाले तु अवध्योऽयं भविष्यति
७.०३६.०२२ ततः सुराणां तु वरैर्दृष्ट्वा ह्येनमकंकृतम्
७.०३६.०२२ चतुर्मुखस्तुष्टमुखो वायुमाह जगद्गुरुः
७.०३६.०२३ अमित्राणां भयकरो मित्राणामभयंकरः
७.०३६.०२३ अजेयो भविता तेऽत्र पुत्रो मारुतमारुतिः
७.०३६.०२४ रावणोत्सादनार्थानि रामप्रीतिकराणि च
७.०३६.०२४ रोमहर्षकराण्येष कर्ता कर्माणि संयुगे
७.०३६.०२५ एवमुक्त्वा तमामन्त्र्य मारुतं तेऽमरैः सह
७.०३६.०२५ यथागतं ययुः सर्वे पितामहपुरोगमाः
७.०३६.०२६ सोऽपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत्
७.०३६.०२६ अञ्जनायास्तमाख्याय वरं दत्तं विनिःसृतः
७.०३६.०२७ प्राप्य राम वरानेष वरदानबलान्वितः
७.०३६.०२७ बलेनात्मनि संस्थेन सोऽपूर्यत यथार्णवः
७.०३६.०२८ बलेनापूर्यमाणो हि एष वानरपुंगवः
७.०३६.०२८ आश्रमेषु महर्षीणामपराध्यति निर्भयः
७.०३६.०२९ स्रुग्भाण्डानग्निहोत्रं च वल्कलानां च संचयान्
७.०३६.०२९ भग्नविच्छिन्नविध्वस्तान् सुशान्तानां करोत्ययम्
७.०३६.०३० सर्वेषां ब्रह्मदण्डानामवध्यं ब्रह्मणा कृतम्
७.०३६.०३० जानन्त ऋषयस्तं वै क्षमन्ते तस्य नित्यशः
७.०३६.०३१ यदा केषरिणा त्वेष वायुना साञ्जनेन च
७.०३६.०३१ प्रतिषिद्धोऽपि मर्यादां लङ्घयत्येव वानरः
७.०३६.०३२ ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः
७.०३६.०३२ शेपुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः
७.०३६.०३३ बाधसे यत्समाश्रित्य बलमस्मान् प्लवंगम
७.०३६.०३३ तद्दीर्घकालं वेत्तासि नास्माकं शापमोहितः
७.०३६.०३४ ततस्तु हृततेजौजा महर्षिवचनौजसा
७.०३६.०३४ एषो श्रमाणि नान्येति मृदुभावगतश्चरन्
७.०३६.०३५ अथ ऋक्षरजा नाम वालिसुग्रीवयोः पिता
७.०३६.०३५ सर्ववानरराजासीत्तेजसा इव भास्करः
७.०३६.०३६ स तु राज्यं चिरं कृत्वा वानराणां हरीश्वरः
७.०३६.०३६ ततस्त्वर्क्षरजा नाम कालधर्मेण संगतः
७.०३६.०३७ तस्मिन्नस्तमिते वाली मन्त्रिभिर्मन्त्रकोविदैः
७.०३६.०३७ पित्र्ये पदे कृतो राजा सुग्रीवो वालिनः पदे
७.०३६.०३८ सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम्
७.०३६.०३८ अहार्यं सख्यमभवदनिलस्य यथाग्निना
७.०३६.०३९ एष शापवशादेव न वेदबलमात्मनः
७.०३६.०३९ वालिसुग्रीवयोर्वैरं यदा रामसमुत्थितम्
७.०३६.०४० न ह्येष राम सुग्रीवो भ्राम्यमाणोऽपि वालिना
७.०३६.०४० वेदयानो न च ह्येष बलमात्मनि मारुतिः
७.०३६.०४१ पराक्रमोत्साह मतिप्रतापैः॑ सौशील्यमाधुर्यनयानयैश्च
७.०३६.०४१ गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्॑ हनूमतः कोऽप्यधिकोऽस्ति लोके
७.०३६.०४२ असौ पुरा व्याकरणं ग्रहीष्यन्॑ सूर्योन्मुखः पृष्ठगमः कपीन्द्रः
७.०३६.०४२ उद्यद्गिरेरस्तगिरिं जगाम॑ ग्रन्थं महद्धारयदप्रमेयः
७.०३६.०४३ प्रवीविविक्षोरिव सागरस्य॑ लोकान् दिधक्षोरिव पावकस्य
७.०३६.०४३ लोकक्षयेष्वेव यथान्तकस्य॑ हनूमतः स्थास्यति कः पुरस्तात्
७.०३६.०४४ एषोऽपि चान्ये च महाकपीन्द्राः॑ सुग्रीवमैन्दद्विविदाः सनीलाः
७.०३६.०४४ सतारतारेयनलाः सरम्भास्॑ त्वत्कारणाद्राम सुरैर्हि सृष्टाः
७.०३६.०४५ तदेतत्कथितं सर्वं यन्मां त्वं परिपृच्छसि
७.०३६.०४५ हनूमतो बालभावे कर्मैतत्कथितं मया
७.०३६.०४६ दृष्टः संभाषितश्चासि राम गच्छमहे वयम्
७.०३६.०४६ एवमुक्त्वा गताः सर्वे ऋषयस्ते यथागतम्
७.०३७.००१ विमृश्य च ततो रामो वयस्यमकुतोभयम्
७.०३७.००१ प्रतर्दनं काशिपतिं परिष्वज्येदमब्रवीत्
७.०३७.००२ दर्शिता भवता प्रीतिर्दर्शितं सौहृदं परम्
७.०३७.००२ उद्योगश्च कृतो राजन् भरतेन त्वया सह
७.०३७.००३ तद्भवानद्य काशेयीं पुरीं वाराणसीं व्रज
७.०३७.००३ रमणीयां त्वया गुप्तां सुप्राकारां सुतोरणाम्
७.०३७.००४ एतावदुक्त्वा उत्थाय काकुत्स्थः परमासनात्
७.०३७.००४ पर्यष्वजत धर्मात्मा निरन्तरमुरोगतम्
७.०३७.००५ विसृज्य तं वयस्यं स स्वागतान् पृथिवीपतीन्
७.०३७.००५ प्रहसन् राघवो वाक्यमुवाच मधुराक्षरम्
७.०३७.००६ भवतां प्रीतिरव्यग्रा तेजसा परिरक्षिता
७.०३७.००६ धर्मश्च नियतो नित्यं सत्यं च भवतां सदा
७.०३७.००७ युष्माकं च प्रभावेन तेजसा च महात्मनाम्
७.०३७.००७ हतो दुरात्मा दुर्बुद्धी रावणो राक्षसाधिपः
७.०३७.००८ हेतुमात्रमहं तत्र भवतां तेजसां हतः
७.०३७.००८ रावणः सगणो युद्धे सपुत्रः सहबान्धवः
७.०३७.००९ भवन्तश्च समानीता भरतेन महात्मना
७.०३७.००९ श्रुत्वा जनकराजस्य कानने तनयां हृताम्
७.०३७.०१० उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम्
७.०३७.०१० कालो ह्यतीतः सुमहान् गमने रोचतां मतिः
७.०३७.०११ प्रत्यूचुस्तं च राजानो हर्षेण महतान्विताः
७.०३७.०११ दिष्ट्या त्वं विजयी राम राज्यं चापि प्रतिष्ठितम्
७.०३७.०१२ दिष्ट्या प्रत्याहृता सीता दिष्ट्या शत्रुः पराजितः
७.०३७.०१२ एष नः परमः काम एषा नः कीर्तिरुत्तमा
७.०३७.०१३ यत्त्वां विजयिनं राम पश्यामो हतशात्रवम्
७.०३७.०१३ उपपन्नं च काकुत्स्थ यत्त्वमस्मान् प्रशंससि
७.०३७.०१४ प्रशंसार्हा हि जानन्ति प्रशंसां वक्तुमीदृशीम्
७.०३७.०१४ आपृच्छामो गमिष्यामो हृदिस्थो नः सदा भवान्
७.०३७.०१५ भवेच्च ते महाराज प्रीतिरस्मासु नित्यदा
७.०३८.००१ ते प्रयाता महात्मानः पार्थिवाः सर्वतो दिशम्
७.०३८.००१ कम्पयन्तो महीं वीराः स्वपुराणि प्रहृष्टवत्
७.०३८.००२ अक्षौहिणी सहस्रैस्ते समवेतास्त्वनेकशः
७.०३८.००२ हृष्टाः प्रतिगताः सर्वे राघवार्थे समागताः
७.०३८.००३ ऊचुश्चैव महीपाला बलदर्पसमन्विताः
७.०३८.००३ न नाम रावणं युद्धे पश्यामः पुरतः स्थितम्
७.०३८.००४ भरतेन वयं पश्चात्समानीता निरर्थकम्
७.०३८.००४ हता हि राक्षसास्तत्र पार्थिवैः स्युर्न संशयः
७.०३८.००५ रामस्य बाहुवीर्येण पालिता लक्ष्मणस्य च
७.०३८.००५ सुखं पारे समुद्रस्य युध्येम विगतज्वराः
७.०३८.००६ एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः
७.०३८.००६ कथयन्तः स्वराष्ट्राणि विविशुस्ते महारथाः
७.०३८.००७ यथापुराणि ते गत्वा रत्नानि विविधानि च
७.०३८.००७ रामाय प्रियकामार्थमुपहारान्नृपा ददुः
७.०३८.००८ अश्वान् रत्नानि वस्त्राणि हस्तिनश्च मदोत्कटान्
७.०३८.००८ चन्दनानि च दिव्यानि दिव्यान्याभरणानि च
७.०३८.००९ भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महारथः
७.०३८.००९ आदाय तानि रत्नानि अयोध्यामगमन् पुनः
७.०३८.०१० आगताश्च पुरीं रम्यामयोध्यां पुरुषर्षभाः
७.०३८.०१० ददुः सर्वाणि रत्नानि राघवाय महात्मने
७.०३८.०११ प्रतिगृह्य च तत्सर्वं प्रीतियुक्तः स राघवः
७.०३८.०११ सर्वाणि तानि प्रददौ सुग्रीवाय महात्मने
७.०३८.०१२ विभीषणाय च ददौ ये चान्ये ऋक्षवानराः
७.०३८.०१२ हनूमत्प्रमुखा वीरा राक्षसाश्च महाबलाः
७.०३८.०१३ ते सर्वे हृष्टमनसो रामदत्तानि तान्यथ
७.०३८.०१३ शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः
७.०३८.०१४ पपुश्चैव सुगन्धीनि मधूनि विविधानि च
७.०३८.०१४ मांसानि च सुमृष्टानि फलान्यास्वादयन्ति च
७.०३८.०१५ एवं तेषां निवसतां मासः साग्रो गतस्तदा
७.०३८.०१५ मुहूर्तमिव तत्सर्वं रामभक्त्या समर्थयन्
७.०३८.०१६ रेमे रामः स तैः सार्धं वानरैः कामरूपिभिः
७.०३८.०१६ राजभिश्च महावीर्यै राक्षसैश्च महाबलैः
७.०३८.०१७ एवं तेषां ययौ मासो द्वितीयः शैशिरः सुखम्
७.०३८.०१७ वानराणां प्रहृष्टानां राक्षसानां च सर्वशः
७.०३९.००१ तथा स्म तेषां वसतामृक्षवानररक्षसाम्
७.०३९.००१ राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत्
७.०३९.००२ गम्यतां सौम्य किष्किन्धां दुराधर्षं सुरासुरैः
७.०३९.००२ पालयस्व सहामात्यै राज्यं निहतकण्टकम्
७.०३९.००३ अङ्गदं च महाबाहो प्रीत्या परमयान्वितः
७.०३९.००३ पश्य त्वं हनुमन्तं च नलं च सुमहाबलम्
७.०३९.००४ सुषेणं श्वशुरं शूरं तारं च बलिनां वरम्
७.०३९.००४ कुमुदं चैव दुर्धर्षं नीलं च सुमहाबलम्
७.०३९.००५ वीरं शतबलिं चैव मैन्दं द्विविदमेव च
७.०३९.००५ गजं गवाक्षं गवयं शरभं च महाबलम्
७.०३९.००६ ऋक्षराजं च दुर्धर्षं जाम्बवन्तं महाबलम्
७.०३९.००६ पश्य प्रीतिसमायुक्तो गन्धमादनमेव च
७.०३९.००७ ये चान्ये सुमहात्मानो मदर्थे त्यक्तजीविताः
७.०३९.००७ पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः
७.०३९.००८ एवमुक्त्वा च सुग्रीवं प्रशस्य च पुनः पुनः
७.०३९.००८ विभीषणमथोवाच रामो मधुरया गिरा
७.०३९.००९ तङ्कां प्रशाधि धर्मेण संमतो ह्यसि पार्थिव
७.०३९.००९ पुरस्य राक्षसानां च भ्रातुर्वैश्वरणस्य च
७.०३९.०१० मा च बुद्धिमधर्मे त्वं कुर्या राजन् कथं चन
७.०३९.०१० बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम्
७.०३९.०११ अहं च नित्यशो राजन् सुग्रीवसहितस्त्वया
७.०३९.०११ स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः
७.०३९.०१२ रामस्य भाषितं श्रुत्वा ऋष्कवानरराक्षसाः
७.०३९.०१२ साधु साध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः
७.०३९.०१३ तव बुद्धिर्महाबाहो वीर्यमद्भुतमेव च
७.०३९.०१३ माधुर्यं परमं राम स्वयम्भोरिव नित्यदा
७.०३९.०१४ तेषामेवं ब्रुवाणानां वानराणां च रक्षसाम्
७.०३९.०१४ हनूमत्प्रणतो भूत्वा राघवं वाक्यमब्रवीत्
७.०३९.०१५ स्नेहो मे परमो राजंस्त्वयि नित्यं प्रतिष्ठितः
७.०३९.०१५ भक्तिश्च नियता वीर भावो नान्यत्र गच्छति
७.०३९.०१६ यावद्रामकथां वीर श्रोष्येऽहं पृथिवीतले
७.०३९.०१६ तावच्छरीरे वत्स्यन्तु मम प्राणा न संशयः
७.०३९.०१७ एवं ब्रुवाणं राजेन्द्रो हनूमन्तमथासनात्
७.०३९.०१७ उत्थाय च परिष्वज्य वाक्यमेतदुवाच ह
७.०३९.०१८ एवमेतत्कपिश्रेष्ठ भविता नात्र संशयः
७.०३९.०१८ लोका हि यावत्स्थास्यन्ति तावत्स्थास्यति मे कथा
७.०३९.०१९ चरिष्यति कथा यावल्लोकानेषा हि मामिका
७.०३९.०१९ तावच्छरीरे वत्स्यन्ति प्राणास्तव न संशयः
७.०३९.०२० ततोऽस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः
७.०३९.०२० वैदूर्यतरलं स्नेहादाबबन्धे हनूमति
७.०३९.०२१ तेनोरसि निबद्धेन हारेण स महाकपिः
७.०३९.०२१ रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः
७.०३९.०२२ श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः
७.०३९.०२२ प्रणम्य शिरसा पादौ प्रजग्मुस्ते महाबलाः
७.०३९.०२३ सुग्रीवश्चैव रामेण परिष्वक्तो महाभुजः
७.०३९.०२३ विभीषणश्च धर्मात्मा निरन्तरमुरोगतः
७.०३९.०२४ सर्वे च ते बाष्पगलाः साश्रुनेत्रा विचेतसः
७.०३९.०२४ संमूढा इव दुःखेन त्यजन्ते राघवं तदा
७.०४०.००१ विसृज्य च महाबाहुरृक्षवानरराक्षसान्
७.०४०.००१ भ्रातृभिः सहितो रामः प्रमुमोद सुखी सुखम्
७.०४०.००२ अथापराह्णसमये भ्रातृभिः सह राघवः
७.०४०.००२ शुश्राव मधुरां वाणीमन्तरिक्षात्प्रभाषिताम्
७.०४०.००३ सौम्य राम निरीक्षस्व सौम्येन वदनेन माम्
७.०४०.००३ कैलासशिखरात्प्राप्तं विद्धि मां पुष्करं प्रभो
७.०४०.००४ तव शासनमाज्ञाय गतोऽस्मि धनदं प्रति
७.०४०.००४ उपस्थातुं नरश्रेष्ठ स च मां प्रत्यभाषत
७.०४०.००५ निर्जितस्त्वं नरेन्द्रेण राघवेण महात्मना
७.०४०.००५ निहत्य युधि दुर्धर्षं रावणं राक्षसाधिपम्
७.०४०.००६ ममापि परमा प्रीतिर्हते तस्मिन् दुरात्मनि
७.०४०.००६ रावणे सगणे सौम्य सपुत्रामात्यबान्धवे
७.०४०.००७ स त्वं रामेण लङ्कायां निर्जितः परमात्मना
७.०४०.००७ वह सौम्य तमेव त्वमहमाज्ञापयामि ते
७.०४०.००८ एष मे परमः कामो यत्त्वं राघवनन्दनम्
७.०४०.००८ वहेर्लोकस्य संयानं गच्छस्व विगतज्वरः
७.०४०.००९ तच्छासनमहं ज्ञात्वा धनदस्य महात्मनः
७.०४०.००९ त्वत्सकाशं पुनः प्राप्तः स एवं प्रतिगृह्ण माम्
७.०४०.०१० बाढमित्येव काकुत्स्थः पुष्पकं समपूजयत्
७.०४०.०१० लाजाक्षतैश्च पुष्पैश्च गन्धैश्च सुसुगन्धिभिः
७.०४०.०११ गम्यतां च यथाकाममागच्छेस्त्वं यदा स्मरे
७.०४०.०११ एवमस्त्विति रामेण विसृष्टः पुष्पकः पुनः
७.०४०.०११ अभिप्रेतां दिशं प्रायात्पुष्पकः पुष्पभूषितः
७.०४०.०१२ एवमन्तर्हिते तस्मिन् पुष्पके विविधात्मनि
७.०४०.०१२ भरतः प्राञ्जलिर्वाक्यमुवाच रघुनन्दनम्
७.०४०.०१३ अत्यद्भुतानि दृश्यन्ते त्वयि राज्यं प्रशासति
७.०४०.०१३ अमानुषाणां सत्त्वानां व्याहृतानि मुहुर्मुहुः
७.०४०.०१४ अनामयाच्च मर्त्यानां साग्रो मासो गतो ह्ययम्
७.०४०.०१४ जीर्णानामपि सत्त्वानां मृत्युर्नायाति राघव
७.०४०.०१५ पुत्रान्नार्यः प्रसूयन्ते वपुष्मन्तश्च मानवाः
७.०४०.०१५ हर्षश्चाभ्यधिको राजञ्जनस्य पुरवासिनः
७.०४०.०१६ काले च वासवो वर्षं पातयत्यमृतोपमम्
७.०४०.०१६ वायवश्चापि वायन्ते स्पर्शवन्तः सुखप्रदाः
७.०४०.०१७ ईदृशो नश्चिरं राजा भवत्विति नरेश्वर
७.०४०.०१७ कथयन्ति पुरे पौरा जना जनपदेषु च
७.०४०.०१८ एता वाचः सुमधुरा भरतेन समीरिताः
७.०४०.०१८ श्रुत्वा रामो मुदा युक्तः प्रमुमोद सुखी सुखम्
७.०४१.००१ स विसृज्य ततो रामः पुष्पकं हेमभूषितम्
७.०४१.००१ प्रविवेश महाबाहुरशोकवनिकां तदा
७.०४१.००२ चन्दनागरु चूतैश्च तुङ्ग कालेयकैरपि
७.०४१.००२ देवदारुवनैश्चापि समन्तादुपशोभिताम्
७.०४१.००३ प्रियङ्गुभिः कदम्बैश्च तथा कुरबकैरपि
७.०४१.००३ जम्बूभिः पाटलीभिश्च कोविदारैश्च संवृताम्
७.०४१.००४ सर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैः
७.०४१.००४ चारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसंकुलैः
७.०४१.००५ कोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः
७.०४१.००५ शोभितां शतशश्चित्रैश्चूतवृक्षावतंसकैः
७.०४१.००६ शातकुम्भनिभाः के चित्के चिदग्निशिखोपमाः
७.०४१.००६ नीलाञ्जननिभाश्चान्ये भान्ति तत्र स्म पादपाः
७.०४१.००७ दीर्घिका विविधाकाराः पूर्णाः परमवारिणा
७.०४१.००७ महार्हमणिसोपानस्फटिकान्तरकुट्टिमाः
७.०४१.००८ फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः
७.०४१.००८ प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः
७.०४१.००९ तत्र तत्र वनोद्देशे वैदूर्यमणिसंनिभैः
७.०४१.००९ शाद्वलैः परमोपेताः पुष्पितद्रुमसंयुताः
७.०४१.०१० नन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा
७.०४१.०१० तथारूपं हि रामस्य काननं तन्निवेशितम्
७.०४१.०११ बह्वासनगृहोपेतां लतागृहसमावृताम्
७.०४१.०११ अशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः
७.०४१.०१२ आसने तु शुभाकारे पुष्पस्तबकभूषिते
७.०४१.०१२ कुथास्तरणसंवीते रामः संनिषसाद ह
७.०४१.०१३ सीतां संगृह्य बाहुभ्यां मधुमैरेयमुत्तमम्
७.०४१.०१३ पाययामास काकुत्स्थः शचीमिन्द्रो यथामृतम्
७.०४१.०१४ मांसानि च विचित्राणि फलानि विविधानि च
७.०४१.०१४ रामस्याभ्यवहारार्थं किंकरास्तूर्णमाहरन्
७.०४१.०१५ उपनृत्यन्ति राजानं नृत्यगीतविशारदाः
७.०४१.०१५ बालाश्च रूपवत्यश्च स्त्रियः पानवशं गताः
७.०४१.०१६ एवं रामो मुदा युक्ता सीतां सुरुचिराननाम्
७.०४१.०१६ रमयामास वैदेहीमहन्यहनि देववत्
७.०४१.०१७ तथा तु रममाणस्य तस्यैवं शिशिरः शुभः
७.०४१.०१७ अत्यक्रामन्नरेन्द्रस्य राघवस्य महात्मनः
७.०४१.०१८ पूर्वाह्णे पौरकृत्यानि कृत्वा धर्मेण धर्मवित्
७.०४१.०१८ शेषं दिवसभागार्धमन्तःपुरगतोऽभवत्
७.०४१.०१९ सीता च देवकार्याणि कृत्वा पौर्वाह्णिकानि तु
७.०४१.०१९ श्वश्रूणामविशेषेण सर्वासां प्राञ्जलिः स्थिता
७.०४१.०२० ततो राममुपागच्छद्विचित्रबहुभूषणा
७.०४१.०२० त्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची
७.०४१.०२१ दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम्
७.०४१.०२१ प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत्
७.०४१.०२२ अपत्यलाभो वैदेहि ममायं समुपस्थितः
७.०४१.०२२ किमिच्छसि हि तद्ब्रूहि कः कामः क्रियतां तव
७.०४१.०२३ प्रहसन्ती तु वैदेही रामं वाक्यमथाब्रवीत्
७.०४१.०२३ तपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव
७.०४१.०२४ गङ्गातीरे निविष्टानि ऋषीणां पुण्यकर्मणाम्
७.०४१.०२४ फलमूलाशिनां वीर पादमूलेषु वर्तितुम्
७.०४१.०२५ एष मे परमः कामो यन्मूलफलभोजिषु
७.०४१.०२५ अप्येकरात्रं काकुत्स्थ वसेयं पुण्यशालिषु
७.०४१.०२६ तथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा
७.०४१.०२६ विस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम्
७.०४१.०२७ एवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम्
७.०४१.०२७ मध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः
७.०४२.००१ तत्रोपविष्टं राजानमुपासन्ते विचक्षणाः
७.०४२.००१ कथानां बहुरूपाणां हास्य काराः समन्ततः
७.०४२.००२ विजयो मधुमत्तश्च काश्यपः पिङ्गलः कुशः
७.०४२.००२ सुराजिः कालियो भद्रो दन्तवक्रः समागधः
७.०४२.००३ एते कथा बहुविधा परिहाससमन्विताः
७.०४२.००३ कथयन्ति स्म संहृष्टा राघवस्य महात्मनः
७.०४२.००४ ततः कथायां कस्यां चिद्राघवः समभाषत
७.०४२.००४ काः कथा नगरे भद्र वर्तन्ते विषयेषु च
७.०४२.००५ मामाश्रितानि कान्याहुः पौरजानपदा जनाः
७.०४२.००५ किं च सीतां समाश्रित्य भरतं किं नु लक्ष्मणम्
७.०४२.००६ किं नु शत्रुघ्नमाश्रित्य कैकेयीं मातरं च मे
७.०४२.००६ वक्तव्यतां च राजानो नवे राज्ये व्रजन्ति हि
७.०४२.००७ एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत्
७.०४२.००७ स्थिताः कथाः शुभा राजन् वर्तन्ते पुरवासिनाम्
७.०४२.००८ अयं तु विजयः सौम्य दशग्रीववधाश्रितः
७.०४२.००८ भूयिष्ठं स्वपुरे पौरैः कथ्यते पुरुषर्षभ
७.०४२.००९ एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत्
७.०४२.००९ कथयस्व यथा तथ्यं सर्वं निरवशेषतः
७.०४२.०१० शुभाशुभानि वाक्यानि यान्याहुः पुरवासिनः
७.०४२.०१० श्रुत्वेदानीं शुभं कुर्यां न कुर्यामशुभानि च
७.०४२.०११ कथयस्व च विस्रब्धो निर्भयो विगतज्वरः
७.०४२.०११ कथयन्ते यथा पौरा जना जनपदेषु च
७.०४२.०१२ राघवेणैवमुक्तस्तु भद्रः सुरुचिरं वचः
७.०४२.०१२ प्रत्युवाच महाबाहुं प्राञ्जलिः सुसमाहितः
७.०४२.०१३ शृणु राजन् यथा पौराः कथयन्ति शुभाशुभम्
७.०४२.०१३ चत्वरापणरथ्यासु वनेषूपवनेषु च
७.०४२.०१४ दुष्करं कृतवान् रामः समुद्रे सेतुबन्धनम्
७.०४२.०१४ अकृतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः
७.०४२.०१५ रावणश्च दुराधर्षो हतः सबलवाहनः
७.०४२.०१५ वानराश्च वशं नीता ऋष्काश्च सह राक्षसैः
७.०४२.०१६ हत्वा च रावणं युद्धे सीतामाहृत्य राघवः
७.०४२.०१६ अमर्षं पृष्ठतः कृत्वा स्ववेश्म पुनरानयत्
७.०४२.०१७ कीदृशं हृदये तस्य सीतासंभोगजं सुखम्
७.०४२.०१७ अङ्कमारोप्य हि पुरा रावणेन बलाद्धृताम्
७.०४२.०१८ लङ्कामपि पुनर्नीतामशोकवनिकां गताम्
७.०४२.०१८ रक्षसां वशमापन्नां कथं रामो न कुत्सते
७.०४२.०१९ अस्माकमपि दारेषु सहनीयं भविष्यति
७.०४२.०१९ यथा हि कुरुते राजा प्रजा तमनुवर्तते
७.०४२.०२० एवं बहुविधा वाचो वदन्ति पुरवासिनः
७.०४२.०२० नगरेषु च सर्वेषु राजञ्जनपदेषु च
७.०४२.०२१ तस्यैतद्भाषितं श्रुत्वा राघवः परमार्तवत्
७.०४२.०२१ उवाच सर्वान् सुहृदः कथमेतन्निवेद्यताम्
७.०४२.०२२ सर्वे तु शिरसा भूमावभिवाद्य प्रणम्य च
७.०४२.०२२ प्रत्यूचू राघवं दीनमेवमेतन्न संशयः
७.०४२.०२३ श्रुत्वा तु वाक्यं काकुत्स्थः सर्वेषां समुदीरितम्
७.०४२.०२३ विसर्जयामास तदा सर्वांस्ताञ्शत्रुतापनः
७.०४३.००१ विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः
७.०४३.००१ समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत्
७.०४३.००२ शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम्
७.०४३.००२ भरतं च महाबाहुं शत्रुघ्नं चापराजितम्
७.०४३.००३ रामस्य भाषितं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः
७.०४३.००३ लक्ष्मणस्य गृहं गत्व प्रविवेशानिवारितः
७.०४३.००४ उवाच च तदा वाक्यं वर्धयित्वा कृताञ्जलिः
७.०४३.००४ द्रष्टुमिच्छसि राजा त्वां गम्यतां तत्र माचिरम्
७.०४३.००५ बाढमित्येव सौमित्रिः श्रुत्वा राघव शासनम्
७.०४३.००५ प्राद्रवद्रथमारुह्य राघवस्य निवेशनम्
७.०४३.००६ प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात्
७.०४३.००६ उवाच प्राञ्जलिर्वाक्यं राजा त्वां द्रष्टुमिच्छति
७.०४३.००७ भरतस्तु वचः श्रुत्वा द्वाःस्थाद्रामसमीरितम्
७.०४३.००७ उत्पपातासनात्तूर्णं पद्भ्यामेव ततोऽगमत्
७.०४३.००८ दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः
७.०४३.००८ शत्रुघ्नभवनं गत्वा ततो वाक्यं जगाद ह
७.०४३.००९ एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति
७.०४३.००९ गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः
७.०४३.०१० श्रुत्वा तु वचनं तस्य शत्रुघ्नो रामशासनम्
७.०४३.०१० शिरसा वन्द्य धरणीं प्रययौ यत्र राघवः
७.०४३.०११ कुमारानागताञ्श्रुत्वा चिन्ताव्याकुलितेन्द्रियः
७.०४३.०११ अवाक्शिरा दीनमना द्वाःस्थं वचनमब्रवीत्
७.०४३.०१२ प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः
७.०४३.०१२ एतेषु जीवितं मह्यमेते प्राणा बहिश्चराः
७.०४३.०१३ आज्ञप्तास्तु नरेन्द्रेण कुमाराः शुक्लवाससः
७.०४३.०१३ प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः
७.०४३.०१४ ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा
७.०४३.०१४ संध्यागतमिवादित्यं प्रभया परिवर्जितम्
७.०४३.०१५ बाष्पपूर्णे च नयने दृष्ट्व रामस्य धीमतः
७.०४३.०१५ हतशोभां यथा पद्मं मुखं वीक्ष्य च तस्य ते
७.०४३.०१६ ततोऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः
७.०४३.०१६ तस्थुः समाहिताः सर्वे रामश्चाश्रूण्यवर्तयत्
७.०४३.०१७ तान् परिष्वज्य बाहुभ्यामुत्थाप्य च महाभुजः
७.०४३.०१७ आसनेष्वाध्वमित्युक्त्वा ततो वाक्यं जगाद ह
७.०४३.०१८ भवन्तो मम सर्वस्वं भवन्तो मम जीवितम्
७.०४३.०१८ भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः
७.०४३.०१९ भवन्तः कृतशास्त्रार्था बुद्धौ च परिनिष्ठिताः
७.०४३.०१९ संभूय च मदर्थोऽयमन्वेष्टव्यो नरेश्वराः
७.०४४.००१ तेषां समुपविष्टानां सर्वेषां दीनचेतसाम्
७.०४४.००१ उवाच वाक्यं काकुत्स्थो मुखेन परिशुष्यता
७.०४४.००२ सर्वे शृणुत भद्रं वो मा कुरुध्वं मनोऽन्यथा
७.०४४.००२ पौराणां मम सीतायां यादृशी वर्तते कथा
७.०४४.००३ पौरापवादः सुमहांस्तथा जनपदस्य च
७.०४४.००३ वर्तते मयि बीभत्सः स मे मर्माणि कृन्तति
७.०४४.००४ अहं किल कुले जत इक्ष्वाकूणां महात्मनाम्
७.०४४.००४ सीतां पापसमाचारामानयेयं कथं पुरे
७.०४४.००५ जानासि हि यथा सौम्य दण्डके विजने वने
७.०४४.००५ रावणेन हृता सीता स च विध्वंसितो मया
७.०४४.००६ प्रत्यक्षं तव सौमित्रे देवनां हव्यवाहनः
७.०४४.००६ अपापां मैथिलीमाह वायुश्चाकाशगोचरः
७.०४४.००७ चन्द्रादित्यौ च शंसेते सुराणां संनिधौ पुरा
७.०४४.००७ ऋषीणां चैव सर्वेषामपापां जनकात्मजाम्
७.०४४.००८ एवं शुद्ध समाचारा देवगन्धर्वसंनिधौ
७.०४४.००८ लङ्काद्वीपे महेन्द्रेण मम हस्ते निवेशिता
७.०४४.००९ अन्तरात्मा च मे वेत्ति सीतां शुद्धां यशस्विनीम्
७.०४४.००९ ततो गृहीत्वा वैदेहीमयोध्यामहमागतः
७.०४४.०१० अयं तु मे महान् वादः शोकश्च हृदि वर्तते
७.०४४.०१० पौरापवादः सुमहांस्तथा जनपदस्य च
७.०४४.०११ अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्य चित्
७.०४४.०११ पतत्येवाधमांल्लोकान् यावच्छब्दः स कीर्त्यते
७.०४४.०१२ अकीर्तिर्निन्द्यते दैवैः कीर्तिर्देवेषु पूज्यते
७.०४४.०१२ कीर्त्यर्थं च समारम्भः सर्व एव महात्मनाम्
७.०४४.०१३ अप्यहं जीवितं जह्यां युष्मान् वा पुरुषर्षभाः
७.०४४.०१३ अपवादभयाद्भीताः किं पुनर्जनकात्मजाम्
७.०४४.०१४ तस्माद्भवन्तः पश्यन्तु पतितं शोकसागरे
७.०४४.०१४ न हि पश्याम्यहं भूयः किं चिद्दुःखमतोऽधिकम्
७.०४४.०१५ श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम्
७.०४४.०१५ आरुह्य सीतामारोप्य विषयान्ते समुत्सृज
७.०४४.०१६ गङ्गायास्तु परे पारे वाल्मीकेः सुमहात्मनः
७.०४४.०१६ आश्रमो दिव्यसंकाशस्तमसातीरमाश्रितः
७.०४४.०१७ तत्रैनां विजने कक्षे विसृज्य रघुनन्दन
७.०४४.०१७ शीघ्रमागच्छ सौमित्रे कुरुष्व वचनं मम
७.०४४.०१८ न चास्मि प्रतिवक्तव्यः सीतां प्रति कथं चन
७.०४४.०१८ अप्रीतिः परमा मह्यं भवेत्तु प्रतिवारिते
७.०४४.०१९ शापिताश्च मया यूयं भुजाभ्यां जीवितेन च
७.०४४.०१९ ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथं चन
७.०४४.०२० मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः
७.०४४.०२० इतोऽद्य नीयतां सीता कुरुष्व वचनं मम
७.०४४.०२१ पूर्वमुक्तोऽहमनया गङ्गातीरे महाश्रमान्
७.०४४.०२१ पश्येयमिति तस्याश्च कामः संवर्त्यतामयम्
७.०४४.०२२ एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहितेक्षणः
७.०४४.०२२ प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः
७.०४५.००१ ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः
७.०४५.००१ सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता
७.०४५.००२ सारथे तुरगाञ्शीघ्रं योजयस्व रथोत्तमे
७.०४५.००२ स्वास्तीर्णं राजभवनात्सीतायाश्चासनं शुभम्
७.०४५.००३ सीता हि राजभवनादाश्रमं पुण्यकर्मणाम्
७.०४५.००३ मया नेता महर्षीणां शीघ्रमानीयतां रथः
७.०४५.००४ सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः
७.०४५.००४ रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया
७.०४५.००५ आदायोवाच सौमित्रिं मित्राणां हर्षवर्धनम्
७.०४५.००५ रथोऽयं समनुप्राप्तो यत्कार्यं क्रियतां प्रभो
७.०४५.००६ एवमुक्तः सुमन्त्रेण राजवेश्म स लक्ष्मणः
७.०४५.००६ प्रविश्य सीतामासाद्य व्याजहार नरर्षभः
७.०४५.००७ गङ्गातीरे मया देवि मुनीनामाश्रमे शुभे
७.०४५.००७ शीघ्रं गत्वोपनेयासि शासनात्पार्थिवस्य नः
७.०४५.००८ एवमुक्ता तु वैदेही लक्ष्मणेन महात्मना
७.०४५.००८ प्रहर्षमतुलं लेभे गमनं चाभ्यरोचयत्
७.०४५.००९ वासांसि च महार्हाणि रत्नानि विविधानि च
७.०४५.००९ गृहीत्वा तानि वैदेही गमनायोपचक्रमे
७.०४५.०१० इमानि मुनिपत्नीनां दास्याम्याभरणान्यहम्
७.०४५.०१० सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम्
७.०४५.०१० प्रययौ शीघ्रतुरगो रामस्याज्ञामनुस्मरन्
७.०४५.०११ अब्रवीच्च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम्
७.०४५.०११ अशुभानि बहून्यद्य पश्यामि रघुनन्दन
७.०४५.०१२ नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते
७.०४५.०१२ हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये
७.०४५.०१३ औत्सुक्यं परमं चापि अधृतिश्च परा मम
७.०४५.०१३ शून्यामिव च पश्यामि पृथिवीं पृथुलोचन
७.०४५.०१४ अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृभिः सह
७.०४५.०१४ श्वश्रूणां चैव मे वीर सर्वासामविशेषतः
७.०४५.०१५ पुरे जनपदे चैव कुशलं प्राणिनामपि
७.०४५.०१५ इत्यञ्जलिकृता सीता देवता अभ्ययाचत
७.०४५.०१६ लक्ष्मणोऽर्थं तु तं श्रुत्वा शिरसा वन्द्य मैथिलीम्
७.०४५.०१६ शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता
७.०४५.०१७ ततो वासमुपागम्य गोमतीतीर आश्रमे
७.०४५.०१७ प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत्
७.०४५.०१८ योजयस्व रथं शीघ्रमद्य भागीरथी जलम्
७.०४५.०१८ शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा
७.०४५.०१९ सोऽश्वान् विचारयित्वाशु रथे युक्त्वा मनोजवान्
७.०४५.०१९ आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत्
७.०४५.०२० सा तु सूतस्य वचनादारुरोह रथोत्तमम्
७.०४५.०२० सीता सौमित्रिणा सार्धं सुमित्रेण च धीमता
७.०४५.०२१ अथार्धदिवसं गत्वा भागीरथ्या जलाशयम्
७.०४५.०२१ निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनम्
७.०४५.०२२ सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम्
७.०४५.०२२ उवाच वाक्यं धर्मज्ञ किमिदं रुद्यते त्वया
७.०४५.०२३ जाह्वनी तीरमासाद्य चिराभिलषितं मम
७.०४५.०२३ हर्षकाले किमर्थं मां विषादयसि लक्ष्मण
७.०४५.०२४ नित्यं त्वं रामपादेषु वर्तसे पुरुषर्षभ
७.०४५.०२४ कच्चिद्विना कृतस्तेन द्विरात्रे शोकमागतः
७.०४५.०२५ ममापि दयितो रामो जीवितेनापि लक्ष्मण
७.०४५.०२५ न चाहमेवं शोचामि मैवं त्वं बालिशो भव
७.०४५.०२६ तारयस्व च मां गङ्गां दर्शयस्व च तापसान्
७.०४५.०२६ ततो धनानि वासांसि दास्याम्याभरणानि च
७.०४५.०२७ ततः कृत्वा महर्षीणां यथार्हमभिवादनम्
७.०४५.०२७ तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः
७.०४५.०२८ तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे
७.०४५.०२८ तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपाहरत्
७.०४६.००१ अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः
७.०४६.००१ आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम्
७.०४६.००२ सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः
७.०४६.००२ उवाच शोकसंतप्तः प्रयाहीति च नाविकम्
७.०४६.००३ ततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः
७.०४६.००३ उवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पगद्गदः
७.०४६.००४ हृद्गतं मे महच्छल्यं यदस्म्यार्येण धीमता
७.०४६.००४ अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः
७.०४६.००५ श्रेयो हि मरणं मेऽद्य मृत्योर्वा यत्परं भवेत्
७.०४६.००५ न चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते
७.०४६.००६ प्रसीद न च मे रोषं कर्तुमर्हसि सुव्रते
७.०४६.००६ इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः
७.०४६.००७ रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः
७.०४६.००७ मैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत्
७.०४६.००८ किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण
७.०४६.००८ पश्यामि त्वां च न स्वथमपि क्षेमं महीपतेः
७.०४६.००९ शापितोऽसि नरेन्द्रेण यत्त्वं संतापमात्मनः
७.०४६.००९ तद्ब्रूयाः संनिधौ मह्यमहमाज्ञापयामि ते
७.०४६.०१० वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः
७.०४६.०१० अवाङ्मुखो बाष्पगलो वाक्यमेतदुवाच ह
७.०४६.०११ श्रुत्वा परिषदो मध्ये अपवादं सुदारुणम्
७.०४६.०११ पुरे जनपदे चैव त्वत्कृते जनकात्मजे
७.०४६.०१२ न तानि वचनीयानि मया देवि तवाग्रतः
७.०४६.०१२ यानि राज्ञा हृदि न्यस्तान्यमर्षः पृष्ठतः कृतः
७.०४६.०१३ सा त्वां त्यक्ता नृपतिना निर्दोषा मम संनिधौ
७.०४६.०१३ पौरापवाद भीतेन ग्राह्यं देवि न तेऽन्यथा
७.०४६.०१४ आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि
७.०४६.०१४ राज्ञः शासनमाज्ञाय तवैवं किल दौर्हृदम्
७.०४६.०१५ तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम्
७.०४६.०१५ पुण्यं च रमणीयं च मा विषादं कृथाः शुभे
७.०४६.०१६ राज्ञो दशरथस्यैष पितुर्मे मुनिपुंगवः
७.०४६.०१६ सखा परमको विप्रो वाल्मीकिः सुमहायशाः
७.०४६.०१७ पादच्छायामुपागम्य सुखमस्य महात्मनः
७.०४६.०१७ उपवासपरैकाग्रा वस त्वं जनकात्मजे
७.०४६.०१८ पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि
७.०४६.०१८ श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति
७.०४७.००१ लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा
७.०४७.००१ परं विषादमागम्य वैदेही निपपात ह
७.०४७.००२ सा मुहूर्तमिवासंज्ञा बाष्पव्याकुलितेक्षणा
७.०४७.००२ लक्ष्मणं दीनया वाचा उवाच जनकात्मजा
७.०४७.००३ मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मण
७.०४७.००३ धात्रा यस्यास्तथा मेऽद्य दुःखमूर्तिः प्रदृश्यते
७.०४७.००४ किं नु पापं कृतं पूर्वं को वा दारैर्वियोजितः
७.०४७.००४ याहं शुद्ध समाचारा त्यक्ता नृपतिना सती
७.०४७.००५ पुराहमाश्रमे वासं रामपादानुवर्तिनी
७.०४७.००५ अनुरुध्यापि सौमित्रे दुःखे विपरिवर्तिनी
७.०४७.००६ सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता
७.०४७.००६ आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा
७.०४७.००७ किं च वक्ष्यामि मुनिषु किं मयापकृतं नृपे
७.०४७.००७ कस्मिन् वा कारणे त्यक्ता राघवेण महात्मना
७.०४७.००८ न खल्वद्यैव सौमित्रे जीवितं जाह्नवी जले
७.०४७.००८ त्यजेयं राजवंशस्तु भर्तुर्मे परिहास्यते
७.०४७.००९ यथाज्ञां कुरु सौमित्रे त्यज मां दुःखभागिनीम्
७.०४७.००९ निदेशे स्थीयतां राज्ञः शृणु चेदं वचो मम
७.०४७.०१० श्वश्रूणामविशेषेण प्राञ्जलिः प्रग्रहेण च
७.०४७.०१० शिरसा वन्द्य चरणौ कुशलं ब्रूहि पार्थिवम्
७.०४७.०११ यथा भ्रातृषु वर्तेथास्तथा पौरेषु नित्यदा
७.०४७.०११ परमो ह्येष धर्मः स्यादेषा कीर्तिरनुत्तमा
७.०४७.०१२ यत्त्वं पौरजनं राजन् धर्मेण समवाप्नुयाः
७.०४७.०१२ अहं तु नानुशोचामि स्वशरीरं नरर्षभ
७.०४७.०१२ यथापवादं पौराणां तथैव रघुनन्दन
७.०४७.०१३ एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः
७.०४७.०१३ शिरसा धरणीं गत्वा व्याहर्तुं न शशाक ह
७.०४७.०१४ प्रदक्षिणं च कृत्वा स रुदन्नेव महास्वनम्
७.०४७.०१४ आरुरोह पुनर्नावं नाविकं चाभ्यचोदयत्
७.०४७.०१५ स गत्वा चोत्तरं कूलं शोकभारसमन्वितः
७.०४७.०१५ संमूढ इव दुःखेन रथमध्यारुहद्द्रुतम्
७.०४७.०१६ मुहुर्मुहुरपावृत्य दृष्ट्वा सीतामनाथवत्
७.०४७.०१६ वेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययावथ
७.०४७.०१७ दूरस्थं रथमालोक्य लक्ष्मणं च मुहुर्मुहुः
७.०४७.०१७ निरीक्षमाणामुद्विग्नां सीतां शोकः समाविशत्
७.०४७.०१८ सा दुःखभारावनता तपस्विनी॑ यशोधरा नाथमपश्यती सती
७.०४७.०१८ रुरोद सा बर्हिणनादिते वने॑ महास्वनं दुःखपरायणा सती
७.०४८.००१ सीतां तु रुदतीं दृष्ट्वा ये तत्र मुनिदारकाः
७.०४८.००१ प्राद्रवन् यत्र भगवानास्ते वाल्मीकिरग्र्यधीः
७.०४८.००२ अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये
७.०४८.००२ सर्वे निवेदयामासुस्तस्यास्तु रुदितस्वनम्
७.०४८.००३ अदृष्टपूर्वा भगवन् कस्याप्येषा महात्मनः
७.०४८.००३ पत्नी श्रीरिव संमोहाद्विरौति विकृतस्वरा
७.०४८.००४ भगवन् साधु पश्येमां देवतामिव खाच्च्युताम्
७.०४८.००४ न ह्येनां मानुषीं विद्मः सत्क्रियास्याः प्रयुज्यताम्
७.०४८.००५ तेषां तद्वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित्
७.०४८.००५ तपसा लब्धचक्षुष्मान् प्राद्रवद्यत्र मैथिली
७.०४८.००६ तं तु देशमभिप्रेत्य किं चित्पद्भ्यां महामुनिः
७.०४८.००६ अर्घ्यमादाय रुचिरं जाह्वनी तीरमाश्रितः
७.०४८.००६ ददर्श राघवस्येष्टां पत्नीं सीतामनाथवत्
७.०४८.००७ तां सितां शोकभारार्तां वाल्मीकिर्मुनिपुंगवः
७.०४८.००७ उवाच मधुरां वाणीं ह्लादयन्निव तेजसा
७.०४८.००८ स्नुषा दशराथस्य त्वं रामस्य महिषी सती
७.०४८.००८ जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते
७.०४८.००९ आयान्त्येवासि विज्ञाता मया धर्मसमाधिना
७.०४८.००९ कारणं चैव सर्वं मे हृदयेनोपलक्षितम्
७.०४८.०१० अपापां वेद्मि सीते त्वां तपो लब्धेन चक्षुषा
७.०४८.०१० विशुद्धभावा वैदेहि साम्प्रतं मयि वर्तसे
७.०४८.०११ आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः
७.०४८.०११ तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः
७.०४८.०१२ इदमर्घ्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा
७.०४८.०१२ यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः
७.०४८.०१३ श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम्
७.०४८.०१३ शिरसा वन्द्य चरणौ तथेत्याह कृताञ्जलिः
७.०४८.०१४ तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतोऽन्वगात्
७.०४८.०१४ अन्वयाद्यत्र तापस्यो धर्मनित्याः समाहिताः
७.०४८.०१५ तं दृष्ट्वा मुनिमायान्तं वैदेह्यानुगतं तदा
७.०४८.०१५ उपाजग्मुर्मुदा युक्ता वचनं चैदमब्रुवन्
७.०४८.०१६ स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं प्रभो
७.०४८.०१६ अभिवादयामः सर्वास्त्वामुच्यतां किं च कुर्महे
७.०४८.०१७ तासां तद्वचनं श्रुत्वा वाल्मीकिरिदमब्रवीत्
७.०४८.०१७ सीतेयं समनुप्राप्ता पत्नी रामस्य धीमतः
७.०४८.०१८ स्नुषा दशरधस्यैषा जनकस्य सुता सती
७.०४८.०१८ अपापा पतिना त्यक्ता परिपाल्या मया सदा
७.०४८.०१९ इमां भवत्यः पश्यन्तु स्नेहेन परमेण ह
७.०४८.०१९ गौरवान्मम वाक्यस्य पूज्या वोऽस्तु विशेषतः
७.०४८.०२० मुहुर्मुहुश्च वैदेहीं परिसान्त्व्य महायशाः
७.०४८.०२० स्वमाश्रमं शिष्य वृतः पुनरायान्महातपाः
७.०४९.००१ दृष्ट्वा तु मैथिलीं सीतामाश्रमं संरवेशिताम्
७.०४९.००१ संतापमकरोद्घोरं लक्ष्मणो दीनचेतनः
७.०४९.००२ अब्रवीच्च महातेजाः सुमन्त्रं मन्त्रसारथिम्
७.०४९.००२ सीतासंतापजं दुःखं पश्य रामस्य धीमतः
७.०४९.००३ अतो दुःखतरं किं नु राघवस्य भविष्यति
७.०४९.००३ पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम्
७.०४९.००४ व्यक्तं दैवादहं मन्ये राघवस्य विना भवम्
७.०४९.००४ वैदेह्या सारथे सार्धं दैवं हि दुरतिक्रमम्
७.०४९.००५ यो हि देवान् सगन्धर्वानसुरान् सह राक्षसैः
७.०४९.००५ निहन्याद्राघवः क्रुद्धः स दैवमनुवर्तते
७.०४९.००६ पुरा मम पितुर्वाक्यैर्दण्डके विजने वने
७.०४९.००६ उषितो नववर्षाणि पञ्च चैव सुदारुणे
७.०४९.००७ ततो दुःखतरं भूयः सीताया विप्रवासनम्
७.०४९.००७ पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे
७.०४९.००८ को नु धर्माश्रयः सूत कर्मण्यस्मिन् यशोहरे
७.०४९.००८ मैथिलीं प्रति संप्राप्तः पौरैर्हीनार्थवादिभिः
७.०४९.००९ एता बहुविधा वाचः श्रुत्वा लक्ष्मणभाषिताः
७.०४९.००९ सुमन्त्रः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह
७.०४९.०१० न संतापस्त्वया कार्यः सौमित्रे मैथिलीं प्रति
७.०४९.०१० दृष्टमेतत्पुरा विप्रैः पितुस्ते लक्ष्मणाग्रतः
७.०४९.०११ भविष्यति दृढं रामो दुःखप्रायोऽल्पसुख्यवान्
७.०४९.०११ त्वां चैव मैथिलीं चैव शत्रुघ्नभरतौ तथा
७.०४९.०११ संत्यजिष्यति धर्मात्मा कालेन महता महान्
७.०४९.०१२ न त्विदं त्वयि वक्तव्यं सौमित्रे भरतेऽपि वा
७.०४९.०१२ राज्ञा वोऽव्याहृतं वाक्यं दुर्वासा यदुवाच ह
७.०४९.०१३ महाराजसमीपे च मम चैव नरर्षभ
७.०४९.०१३ ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च संनिधौ
७.०४९.०१४ ऋषेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः
७.०४९.०१४ सूत न क्व चिदेवं ते वक्तव्यं जनसंनिधौ
७.०४९.०१५ तस्याहं लोकपालस्य वाक्यं तत्सुसमाहितः
७.०४९.०१५ नैव जात्वनृतं कुर्यामिति मे सौम्य दर्शनम्
७.०४९.०१६ सर्वथा नास्त्यवक्तव्यं मया सौम्य तवाग्रतः
७.०४९.०१६ यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन
७.०४९.०१७ यद्यप्यहं नरेन्द्रेण रहस्यं श्रावितः पुरा
७.०४९.०१७ तच्चाप्युदाहरिष्यामि दैवं हि दुरतिक्रमम्
७.०४९.०१८ तच्छ्रुत्वा भाषितं तस्य गम्भीरार्थपदं महत्
७.०४९.०१८ तथ्यं ब्रूहीति सौमित्रिः सूतं वाक्यमथाब्रवीत्
७.०५०.००१ तथा संचोदितः सूतो लक्ष्मणेन महात्मना
७.०५०.००१ तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे
७.०५०.००२ पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः
७.०५०.००२ वसिष्ठस्याश्रमे पुण्ये स वार्षिक्यमुवास ह
७.०५०.००३ तमाश्रमं महातेजाः पिता ते सुमहायशाः
७.०५०.००३ पुरोधसं महात्मानं दिदृक्षुरगमत्स्वयम्
७.०५०.००४ स दृष्ट्वा सूर्यसंकाशं ज्वलन्तमिव तेजसा
७.०५०.००४ उपविष्टं वसिष्ठस्य सव्ये पार्श्वे महामुनिम्
७.०५०.००४ तौ मुनी तापस श्रेष्ठौ विनीतस्त्वभ्यवादयत्
७.०५०.००५ स ताभ्यां पूजितो राजा स्वागतेनासनेन च
७.०५०.००५ पाद्येन फलमूलैश्च सोऽप्यास्ते मुनिभिः सह
७.०५०.००६ तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः
७.०५०.००६ बभूवुः परमर्षीणां मध्यादित्यगतेऽहनि
७.०५०.००७ ततः कथायां कस्यां चित्प्राञ्जलिः प्रग्रहो नृपः
७.०५०.००७ उवाच तं महात्मानमत्रेः पुत्रं तपोधनम्
७.०५०.००८ भगवन् किं प्रमाणेन मम वंशो भविष्यति
७.०५०.००८ किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः
७.०५०.००९ रामस्य च सुता ये स्युस्तेषामायुः कियद्भवेत्
७.०५०.००९ काम्यया भगवन् ब्रूहि वंशस्यास्य गतिं मम
७.०५०.०१० तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य तु
७.०५०.०१० दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे
७.०५०.०११ अयोध्यायाः पती रामो दीर्घकालं भविष्यति
७.०५०.०११ सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य चानुजाः
७.०५०.०१२ कस्मिंश्चित्करणे त्वां च मैथिलीं च यशस्विनीम्
७.०५०.०१२ संत्यजिष्यति धर्मात्मा कालेन महता किल
७.०५०.०१३ दशवर्षसहस्रणि दशवर्षशतानि च
७.०५०.०१३ रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति
७.०५०.०१४ समृद्धैर्हयमेधैश्च इष्ट्वा परपुरंजयः
७.०५०.०१४ राजवंशांश्च काकुत्स्थो बहून् संस्थापयिष्यति
७.०५०.०१५ स सर्वमखिलं राज्ञो वंशस्यास्य गतागतम्
७.०५०.०१५ आख्याय सुमहातेजास्तूष्णीमासीन्महाद्युतिः
७.०५०.०१६ तूष्णींभूते मुनौ तस्मिन् राजा दशरथस्तदा
७.०५०.०१६ अभिवाद्य महात्मानौ पुनरायात्पुरोत्तमम्
७.०५०.०१७ एतद्वचो मया तत्र मुनिना व्याहृतं पुरा
७.०५०.०१७ श्रुतं हृदि च निक्षिप्तं नान्यथा तद्भविष्यति
७.०५०.०१८ एवंगते न संतापं गन्तुमर्हसि राघव
७.०५०.०१८ सीतार्थे राघवार्थे वा दृढो भव नरोत्तम
७.०५०.०१९ तच्छ्रुत्वा व्याहृतं वाक्यं सूतस्य परमाद्भुतम्
७.०५०.०१९ प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत्
७.०५०.०२० तयोः संवदतोरेवं सूतलक्ष्मणयोः पथि
७.०५०.०२० अस्तमर्को गतो वासं गोमत्यां तावथोषतुः
७.०५१.००१ तत्र तां रजनीमुष्य गोमत्यां रघुनन्दनः
७.०५१.००१ प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा
७.०५१.००२ ततोऽर्धदिवसे प्राप्ते प्रविवेश महारथः
७.०५१.००२ अयोध्यां रत्नसंपूर्णां हृष्टपुष्टजनावृताम्
७.०५१.००३ सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः
७.०५१.००३ रामपादौ समासाद्य वक्ष्यामि किमहं गतः
७.०५१.००४ तस्यैवं चिन्तयानस्य भवनं शशिसंनिभम्
७.०५१.००४ राजस्य परमोदारं पुरस्तात्समदृश्यत
७.०५१.००५ राज्ञस्तु भवनद्वारि सोऽवतीर्य नरोत्तमः
७.०५१.००५ अवान्मुखो दीनमनाः प्राविवेशानिवारितः
७.०५१.००६ स दृष्ट्वा राघवं दीनमासीनं परमासने
७.०५१.००६ नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः
७.०५१.००७ जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः
७.०५१.००७ उवाच दीनया वाचा प्राञ्जलिः सुसमाहितः
७.०५१.००८ आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम्
७.०५१.००८ गङ्गातीरे यथोद्दिष्टे वाल्मीकेराश्रमे शुभे
७.०५१.००८ पुनरस्म्यागतो वीर पादमूलमुपासितुम्
७.०५१.००९ मा शुचः पुरुषव्याघ्र कालस्य गतिरीदृशी
७.०५१.००९ त्वद्विधा न हि शोचन्ति सत्त्ववन्तो मनस्विनः
७.०५१.०१० सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
७.०५१.०१० संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्
७.०५१.०११ शक्तस्त्वमात्मनात्मानं विजेतुं मनसैव हि
७.०५१.०११ लोकान् सर्वांश्च काकुत्स्थ किं पुनर्दुःखमीदृशम्
७.०५१.०१२ नेदृशेषु विमुह्यन्ति त्वद्विधाः पुरुषर्षभाः
७.०५१.०१२ यदर्थं मैथिली त्यक्ता अपवादभयान्नृप
७.०५१.०१३ स त्वं पुरुषशार्दूल धैर्येण सुसमाहितः
७.०५१.०१३ त्यजेमां दुर्बलां बुद्धिं संतापं मा कुरुष्व ह
७.०५१.०१४ एवमुक्तस्तु काकुत्स्थो लक्ष्मणेन महात्मना
७.०५१.०१४ उवाच परया प्रीत्या सौमित्रिं मित्रवत्सलम्
७.०५१.०१५ एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण
७.०५१.०१५ परितोषश्च मे वीर मम कार्यानुशासने
७.०५१.०१६ निर्वृतिश्च कृता सौम्य संतापश्च निराकृतः
७.०५१.०१६ भवद्वाक्यैः सुमधुरैरनुनीतोऽस्मि लक्ष्मण
७.०५२.००१ ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत्
७.०५२.००१ एते निवारिता राजन् द्वारि तिष्ठन्ति तापसाः
७.०५२.००२ भार्गवं च्यवनं नाम पुरस्कृत्य महर्षयः
७.०५२.००२ दर्शनं ते महाराज चोदयन्ति कृतत्वराः
७.०५२.००२ प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः
७.०५२.००३ तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित्
७.०५२.००३ प्रवेश्यन्तां महात्मानो भार्गवप्रमुखा द्विजाः
७.०५२.००४ राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः
७.०५२.००४ प्रवेशयामास ततस्तापसान् संमतान् बहून्
७.०५२.००५ शतं समधिकं तत्र दीप्यमानं स्वतेजसा
७.०५२.००५ प्रविष्टं राजभवनं तापसानां महात्मनाम्
७.०५२.००६ ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतम्
७.०५२.००६ गृहीत्वा फलमूलं च रामस्याभ्याहरन् बहु
७.०५२.००७ प्रतिगृह्य तु तत्सर्वं रामः प्रीतिपुरस्कृतः
७.०५२.००७ तीर्थोदकानि सर्वाणि फलानि विविधानि च
७.०५२.००८ उवाच च महाबाहुः सर्वानेव महामुनीन्
७.०५२.००८ इमान्यासनमुख्यानि यथार्हमुपविश्यताम्
७.०५२.००९ रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः
७.०५२.००९ बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते
७.०५२.०१० उपविष्टानृषींस्तत्र दृष्ट्वा परपुरंजयः
७.०५२.०१० प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत्
७.०५२.०११ किमागमनकर्यं वः किं करोमि तपोधनाः
७.०५२.०११ आज्ञाप्योऽहं महर्षीणां सर्वकामकरः सुखम्
७.०५२.०१२ इदं राज्यं च सकलं जीवितं च हृदि स्थितम्
७.०५२.०१२ सर्वमेतद्द्विजार्थं मे सत्यमेतद्ब्रवीमि वः
७.०५२.०१३ तस्य तद्वचनं श्रुत्वा साधुवादो महानभूत्
७.०५२.०१३ ऋषीणामुग्रतपसां यमुनातीरवासिनाम्
७.०५२.०१४ ऊचुश्च ते महात्मानो हर्षेण महतान्विताः
७.०५२.०१४ उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः
७.०५२.०१५ बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः
७.०५२.०१५ कार्यगौरवमश्रुत्वा प्रतिज्ञां नाभ्यरोचयन्
७.०५२.०१६ त्वया पुनर्ब्राह्मण गौरवादियं॑ कृत्वा प्रतिज्ञा ह्यनवेक्ष्य कारणम्
७.०५२.०१६ कुरुष्व कर्ता ह्यसि नात्र संशयो॑ महाभयात्त्रातुमृषींस्त्वमर्हसि
७.०५३.००१ ब्रुवद्भिरेवमृषिभिः काकुत्स्थो वाक्यमब्रवीत्
७.०५३.००१ किं कार्यं ब्रूत भवतां भयं नाशयितास्मि वः
७.०५३.००२ तथा वदति काकुत्स्थे भर्गवो वाक्यमब्रवीत्
७.०५३.००२ भयं नः शृणु यन्मूलं देशस्य च नरेश्वर
७.०५३.००३ पूर्वं कृतयुगे राम दैतेयः सुमहाबलः
७.०५३.००३ लोलापुत्रोऽभवज्ज्येष्ठो मधुर्नाम महासुरः
७.०५३.००४ ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः
७.०५३.००४ सुरैश्च परमोदारैः प्रीतिस्तस्यातुलाभवत्
७.०५३.००५ स मधुर्वीर्यसंपन्नो धर्मे च सुसमाहितः
७.०५३.००५ बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः
७.०५३.००६ शूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम्
७.०५३.००६ ददौ महात्मा सुप्रीतो वाकय्ं चैतदुवाच ह
७.०५३.००७ त्वयायमतुलो धर्मो मत्प्रसादात्कृतः शुभः
७.०५३.००७ प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम्
७.०५३.००८ यावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर
७.०५३.००८ तावच्छूलं तवेदं स्यादन्यथा नाशमाप्नुयात्
७.०५३.००९ यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः
७.०५३.००९ तं शूलं भस्मसात्कृत्वा पुनरेष्यति ते करम्
७.०५३.०१० एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः
७.०५३.०१० प्रणिपत्य महादेवं वाक्यमेतदुवाच ह
७.०५३.०११ भगवन्मम वंशस्य शूलमेतदनुत्तमम्
७.०५३.०११ भवेत्तु सततं देव सुराणामीश्वरो ह्यसि
७.०५३.०१२ तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः
७.०५३.०१२ प्रत्युवाच महादेवो नैतदेवं भविष्यति
७.०५३.०१३ मा भूत्ते विफला बाणी मत्प्रासादकृता शुभा
७.०५३.०१३ भवतः पुत्रमेकं तु शूलमेतद्गमिष्यति
७.०५३.०१४ यावत्करस्थः शूलोऽयं भविष्यति सुतस्य ते
७.०५३.०१४ अवध्यः सर्वभूतानां शूलहस्तो भविष्यति
७.०५३.०१५ एवं मधुवरं लब्ध्वा देवात्सुमहदद्भुतम्
७.०५३.०१५ भवनं चासुरश्रेष्ठः कारयामास सुप्रभम्
७.०५३.०१६ तस्य पत्नी महाभगा प्रिया कुम्भीनसी हि या
७.०५३.०१६ विश्वासयोरपत्यं सा ह्यनलायां महाप्रभा
७.०५३.०१७ तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः
७.०५३.०१७ बाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत्
७.०५३.०१८ तं पुत्रं दुर्विनीतं तु दृष्ट्वा दुःखसमन्वितः
७.०५३.०१८ मधुः स शोकमापेदे न चैनं किं चिदब्रवीत्
७.०५३.०१९ स विहाय इमं लोकं प्रविष्टो वरुणालयम्
७.०५३.०१९ शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत्
७.०५३.०२० स प्रभावेन शूलस्य दौरात्म्येनात्मनस्तथा
७.०५३.०२० संतापयति लोकांस्त्रीन् विशेषेण तु तापसान्
७.०५३.०२१ एवंप्रभावो लवणः शूलं चैव तथाविधम्
७.०५३.०२१ श्रुत्वा प्रमाणं काकुत्स्थं त्वं हि नः परमा गतिः
७.०५३.०२२ बहवः पार्थिवा राम भयार्तैरृषिभिः पुरा
७.०५३.०२२ अभयं याचिता वीर त्रातारं न च विद्महे
७.०५३.०२३ ते वयं रावणं श्रुत्वा हतं सबलवाहनम्
७.०५३.०२३ त्रातारं विद्महे राम नान्यं भुवि नराधिपम्
७.०५३.०२३ तत्परित्रातुमिच्छामो लवणाद्भयपीडिताः
७.०५४.००१ तथोक्ते तानृषीन् रामः प्रत्युवाच कृताञ्जलिः
७.०५४.००१ किमाहारः किमाचारो लवणः क्व च वर्तते
७.०५४.००२ राघवस्य वचः श्रुत्वा ऋषयः सर्व एव ते
७.०५४.००२ ततो निवेदयामासुर्लवणो ववृधे यथा
७.०५४.००३ आहारः सर्वसत्त्वानि विशेषेण च तापसाः
७.०५४.००३ आचारो रौद्रता नित्यं वासो मधुवने सदा
७.०५४.००४ हत्वा दशसहस्राणि सिंहव्याघ्रमृगद्विपान्
७.०५४.००४ मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम्
७.०५४.००५ ततोऽपराणि सत्त्वानि खादते स महाबलः
७.०५४.००५ संहारे समनुप्राप्ते व्यादितास्य इवान्तकः
७.०५४.००६ तच्छ्रुत्वा राघवो वाक्यमुवाच स महामुनीन्
७.०५४.००६ घातयिष्यामि तद्रक्षो व्यपगच्छतु वो भयम्
७.०५४.००७ तथा तेषां प्रतिज्ञाय मुनीनामुग्रतेजसाम्
७.०५४.००७ स भ्रातॄन् सहितान् सर्वानुवाच रघुनन्दनः
७.०५४.००८ को हन्ता लवणं वीराः कस्यांशः स विधीयताम्
७.०५४.००८ भरतस्य महाबाहोः शत्रुघ्नस्याथवा पुनः
७.०५४.००९ राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत्
७.०५४.००९ अहमेनं बधिष्यामि ममांशः स विधीयताम्
७.०५४.०१० भरतस्य वचः श्रुत्वा शौर्यवीर्यसमन्वितम्
७.०५४.०१० लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम्
७.०५४.०११ शत्रुघ्नस्त्वब्रवीद्वाक्यं प्रणिपत्य नराधिपम्
७.०५४.०११ कृतकर्मा महाबाहुर्मध्यमो रघुनन्दनः
७.०५४.०१२ आर्येण हि पुरा शून्या अयोध्या रक्षिता पुरी
७.०५४.०१२ संतापं हृदये कृत्वा आर्यस्यागमनं प्रति
७.०५४.०१३ दुःखानि च बहूनीह अनुभूतानि पार्थिव
७.०५४.०१३ शयानो दुःखशय्यासु नन्दिग्रामे महात्मना
७.०५४.०१४ फलमूलाशनो भूत्वा जटाचीरधरस्तथा
७.०५४.०१४ अनुभूयेदृशं दुःखमेष राघवनन्दनः
७.०५४.०१४ प्रेष्ये मयि स्थिते राजन्न भूयः क्लेशमाप्नुयात्
७.०५४.०१५ तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत्
७.०५४.०१५ एवं भवतु काकुत्स्थ क्रियतां मम शासनम्
७.०५४.०१६ राज्ये त्वामभिषेक्ष्यामि मघोस्तु नगरे शुभे
७.०५४.०१६ निवेशय महाबाहो भरतं यद्यवेक्षसे
७.०५४.०१७ शूरस्त्वं कृतविद्यश्च समर्थः संनिवेशने
७.०५४.०१७ नगरं मधुना जुष्टं तथा जनपदाञ्शुभान्
७.०५४.०१८ यो हि वंशं समुत्पाट्य पार्थिवस्य पुनः क्षये
७.०५४.०१८ न विधत्ते नृपं तत्र नरकं स निगच्छति
७.०५४.०१९ स त्वं हत्वा मधुसुतं लवणं पापनिश्चयम्
७.०५४.०१९ राज्यं प्रशाधि धर्मेण वाक्यं मे यद्यवेक्षसे
७.०५४.०२० उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम
७.०५४.०२० बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः
७.०५४.०२१ अभिषेकं च काकुत्स्थ प्रतीच्छस्व मयोद्यतम्
७.०५४.०२१ वसिष्ठप्रमुखैर्विप्रैर्विधिमन्त्रपुरस्कृतम्
७.०५५.००१ एवमुक्तस्तु रामेण परां व्रीडामुपागतः
७.०५५.००१ शत्रुघ्नो वीर्यसंपन्नो मन्दं मन्दमुवाच ह
७.०५५.००२ अवश्यं करणीयं च शासनं पुरुषर्षभ
७.०५५.००२ तव चैव महाभाग शासनं दुरतिक्रमम्
७.०५५.००२ अयं कामकरो राजंस्तवास्मि पुरुषर्षभ
७.०५५.००३ एवमुक्ते तु शूरेण शत्रुघ्नेन महात्मना
७.०५५.००३ उवाच रामः संहृष्टो लक्ष्मणं भरतं तथा
७.०५५.००४ संभारानभिषेकस्य आनयध्वं समाहिताः
७.०५५.००४ अद्यैव पुरुषव्याघ्रमभिषेक्ष्यामि दुर्जयम्
७.०५५.००५ पुरोधसं च काकुत्स्थौ नैगमानृत्विजस्तथा
७.०५५.००५ मन्त्रिणश्चैव मे सर्वानानयध्वं ममाज्ञया
७.०५५.००६ राज्ञः शासनमाज्ञाय तथाकुर्वन्महारथः
७.०५५.००६ अभिषेकसमारम्भं पुरस्कृत्य पुरोधसं
७.०५५.००६ प्रविष्टा राजभवनं पुरंदर गृहोपमम्
७.०५५.००७ ततोऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः
७.०५५.००७ संप्रहर्षकरः श्रीमान् राघवस्य पुरस्य च
७.०५५.००८ ततोऽभिषिक्तं शत्रुघ्नमङ्कमारोप्य राघवः
७.०५५.००८ उवाच मधुरां वाणीं तेजस्तस्याभिपूरयन्
७.०५५.००९ अयं शरस्त्वमोघस्ते दिव्यः परपुरंजयः
७.०५५.००९ अनेन लवणं सौम्य हन्तासि रघुनन्दन
७.०५५.०१० सृष्टः शरोऽयं काकुत्स्थ यदा शेते महार्णवे
७.०५५.०१० स्वयम्भूरजितो देवो यं नापश्यन् सुरासुराः
७.०५५.०११ अदृश्यः सर्वभूतानां तेनायं हि शरोत्तमः
७.०५५.०११ सृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोः
७.०५५.०११ मधुकौटभयोर्वीर विघाते वर्तमानयोः
७.०५५.०१२ स्रष्टुकामेन लोकांस्त्रींस्तौ चानेन हतौ युधि
७.०५५.०१२ अनेन शरमुख्येन ततो लोकांश्चकार सः
७.०५५.०१३ नायं मया शरः पूर्वं रावणस्य वधार्थिना
७.०५५.०१३ मुखः शत्रुघ्न भूतानां महांस्त्रासो भवेदिति
७.०५५.०१४ यच्च तस्य महच्छूलं त्र्यम्बकेण महात्मना
७.०५५.०१४ दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम्
७.०५५.०१५ तत्संनिक्षिप्य भवने पूज्यमानं पुनः पुनः
७.०५५.०१५ दिशः सर्वाः समालोक्य प्राप्नोत्याहारमात्मनः
७.०५५.०१६ यदा तु युद्धमाकाङ्क्षन् कश्चिदेनं समाह्वयेत्
७.०५५.०१६ तदा शूलं गृहीत्वा तद्भस्म रक्षः करोति तम्
७.०५५.०१७ स त्वं पुरुषशार्दूल तमायुधविवर्जितम्
७.०५५.०१७ अप्रविष्टपुरं पूर्वं द्वारि तिष्ठ धृतायुधः
७.०५५.०१८ अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ
७.०५५.०१८ आह्वयेथा महाबाहो ततो हन्तासि राक्षसं
७.०५५.०१९ अन्यथा क्रियमाणे तु अवध्यः स भविष्यति
७.०५५.०१९ यदि त्वेवं कृते वीर विनाशमुपयास्यति
७.०५५.०२० एतत्ते सर्वमाख्यातं शूलस्य च विपर्ययम्
७.०५५.०२० श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम्
७.०५६.००१ एवमुक्त्वा तु काकुत्स्थं प्रशस्य च पुनः पुनः
७.०५६.००१ पुनरेवापरं वाक्यमुवाच रघुनन्दनः
७.०५६.००२ इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ
७.०५६.००२ रथानां च सहस्रे द्वे गजानां शतमेव च
७.०५६.००३ अन्तरापणवीथ्यश्च नानापण्योपशोभिताः
७.०५६.००३ अनुगच्छन्तु शत्रुघ्न तथैव नटनर्तकाः
७.०५६.००४ हिरण्यस्य सुवर्णस्य अयुतं पुरुषर्षभ
७.०५६.००४ गृहीत्वा गच्छ शत्रुघ्न पर्याप्तधनवाहनः
७.०५६.००५ बलं च सुभृतं वीर हृष्टपुष्टमनुत्तमम्
७.०५६.००५ संभाष्य संप्रदानेन रञ्जयस्व नरोत्तम
७.०५६.००६ न ह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः
७.०५६.००६ सुप्रीतो भृत्यवर्गस्तु यत्र तिष्ठति राघव
७.०५६.००७ अतो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम्
७.०५६.००७ एक एव धनुष्पानिस्तद्गच्छ त्वं मधोर्वनम्
७.०५६.००८ यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम्
७.०५६.००८ लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितः
७.०५६.००९ न तस्य मृत्युरन्योऽस्ति कश्चिद्धि पुरुषर्षभ
७.०५६.००९ दर्शनं योऽभिगच्छेत स वध्यो लवणेन हि
७.०५६.०१० स ग्रीष्मे व्यपयाते तु वर्षरात्र उपस्थिते
७.०५६.०१० हन्यास्त्वं लवणं सौम्य स हि कालोऽस्य दुर्मतेः
७.०५६.०११ महर्षींस्तु पुरस्कृत्य प्रयान्तु तव सैनिकाः
७.०५६.०११ यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम्
७.०५६.०१२ ततः स्थाप्य बलं सर्वं नदीतीरे समाहितः
७.०५६.०१२ अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रम
७.०५६.०१३ एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान्
७.०५६.०१३ सेनामुख्यान् समानीय ततो वाक्यमुवाच ह
७.०५६.०१४ एते वो गणिता वासा यत्र यत्र निवत्स्यथ
७.०५६.०१४ स्थातव्यं चाविरोधेन यथा बाधा न कस्य चित्
७.०५६.०१५ तथा तांस्तु समाज्ञाप्य निर्याप्य च महद्बलम्
७.०५६.०१५ कौसल्यां च सुमित्रां च कौकेयीं चाभ्यवादयत्
७.०५६.०१६ रामं प्रदक्षिणं कृत्वा शिरसाभिप्रणम्य च
७.०५६.०१६ राणेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः
७.०५६.०१७ लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः
७.०५६.०१७ पुरोधसं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान्
७.०५६.०१७ प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः
७.०५७.००१ प्रस्थाप्य तद्बलं सर्वं मासमात्रोषितः पथि
७.०५७.००१ एक एवाशु शत्रुघ्नो जगाम त्वरितस्तदा
७.०५७.००२ द्विरात्रमन्तरे शूर उष्य राघवनन्दनः
७.०५७.००२ वाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम्
७.०५७.००३ सोऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम्
७.०५७.००३ कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह
७.०५७.००४ भगवन् वस्तुमिच्छामि गुरोः कृत्यादिहागतः
७.०५७.००४ श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम्
७.०५७.००५ शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुंगवः
७.०५७.००५ प्रत्युवच महात्मानं स्वागतं ते महायशः
७.०५७.००६ स्वमाश्रममिदं सौम्य राघवाणां कुलस्य ह
७.०५७.००६ आसनं पाद्यमर्घ्यं च निर्विशङ्कः प्रतीच्छ मे
७.०५७.००७ प्रतिगृह्य ततः पूजां फलमूलं च भोजनम्
७.०५७.००७ भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः
७.०५७.००८ स तु भुक्त्वा महाबाहुर्महर्षिं तमुवाच ह
७.०५७.००८ पूर्वं यज्ञविभूतीयं कस्याश्रमसमीपतः
७.०५७.००९ तस्य तद्भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत्
७.०५७.००९ शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा
७.०५७.०१० युष्माकं पूर्वको राजा सुदासस्य महात्मनः
७.०५७.०१० पुत्रो मित्रसहो नाम वीर्यवानतिधार्म
िकः
७.०५७.०११ स बाल एव सौदासो मृगयामुपचक्रमे
७.०५७.०११ चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम्
७.०५७.०१२ शार्दूलरूपिणौ घोरौ मृगान् बहुसहस्रशः
७.०५७.०१२ भक्षयाणावसंतुष्टौ पर्याप्तिं च न जग्मतुः
७.०५७.०१३ स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम्
७.०५७.०१३ क्रोधेन महताविष्टो जघानैकं महेषुणा
७.०५७.०१४ विनिपात्य तमेकं तु सौदासः पुरुषर्षभः
७.०५७.०१४ विज्वरो विगतामर्षो हतं रक्षोऽभ्यवैक्षत
७.०५७.०१५ निरीक्षमाणं तं दृष्ट्वा सहायस्तस्य रक्षसः
७.०५७.०१५ संतापमकरोद्घोरं सौदासं चेदमब्रवीत्
७.०५७.०१६ यस्मादनपराद्धं त्वं सहायं मम जघ्निवान्
७.०५७.०१६ तस्मात्तवापु पापिष्ठ प्रदास्यामि प्रतिक्रियाम्
७.०५७.०१७ एवमुक्त्वा तु तं रक्षस्तत्रैवान्तरधीयत
७.०५७.०१७ कालपर्याय योगेन राजा मित्रसहोऽभवत्
७.०५७.०१८ राजापि यजते यज्ञं तस्याश्रमसमीपतः
७.०५७.०१८ अश्वमेधं महायज्ञं तं वसिष्ठोऽभ्यपालयत्
७.०५७.०१९ तत्र यज्ञो महानासीद्बहुवर्ष गणायुतान्
७.०५७.०१९ समृद्धः परया लक्ष्म्या देवयज्ञसमोऽभवत्
७.०५७.०२० अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन्
७.०५७.०२० वसिष्ठरूपी राजानमिति होवाच राक्षसः
७.०५७.०२१ अद्य यज्ञावसानान्ते सामिषं भोजनं मम
७.०५७.०२१ दीयतामिति शीघ्रं वै नात्र कार्या विचारणा
७.०५७.०२२ तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा कामरूपिणा
७.०५७.०२२ भक्षसंस्कारकुशलमुवाच पृथिवीपतिः
७.०५७.०२३ हविष्यं सामिषं स्वादु यथा भवति भोजनम्
७.०५७.०२३ तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा गुरुः
७.०५७.०२४ शासनात्पार्थिवेन्द्रस्य सूदः संभ्रान्तमानसः
७.०५७.०२४ स च रक्षः पुनस्तत्र सूदवेषमथाकरोत्
७.०५७.०२५ स मानुषमथो मांसं पार्थिवाय न्यवेदयत्
७.०५७.०२५ इदं स्वादुहविष्यं च सामिषं चान्नमाहृतम्
७.०५७.०२६ स भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत्
७.०५७.०२६ मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम्
७.०५७.०२७ ज्ञात्वा तदामिषं विप्रो मानुषं भोजनाहृतम्
७.०५७.०२७ क्रोधेन महताविष्टो व्याहर्तुमुपचक्रमे
७.०५७.०२८ यस्मात्त्वं भोजनं राजन्ममैतद्दातुमिच्छसि
७.०५७.०२८ तस्माद्भोजनमेतत्ते भविष्यति न संशयः
७.०५७.०२९ स राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः
७.०५७.०२९ पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा
७.०५७.०३० तच्छ्रुता पार्थिवेन्द्रस्य रक्षसा विकृतं च तत्
७.०५७.०३० पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम्
७.०५७.०३१ मया रोषपरीतेन यदिदं व्याहृतं वचः
७.०५७.०३१ नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम्
७.०५७.०३२ कालो द्वादश वर्षाणि शापस्यास्य भविष्यति
७.०५७.०३२ मत्प्रसादाच्च राजेन्द्र अतीतं न स्मरिष्यसि
७.०५७.०३३ एवं स राजा तं शापमुपभुज्यारिमर्दनः
७.०५७.०३३ प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत्
७.०५७.०३४ तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम्
७.०५७.०३४ आश्रमस्य समीपेऽस्मिन् यस्मिन् पृच्छसि राघव
७.०५७.०३५ तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणम्
७.०५७.०३५ विवेश पर्णशालायां महर्षिमभिवाद्य च
७.०५८.००१ यामेव रात्रिं शत्रुघ्न पर्णशालां समाविशत्
७.०५८.००१ तामेव रात्रिं सीतापि प्रसूता दारकद्वयम्
७.०५८.००२ ततोऽर्धरात्रसमये बालका मुनिदारकाः
७.०५८.००२ वाल्मीकेः प्रियमाचख्युः सीतायाः प्रसवं शुभम्
७.०५८.००२ तस्य रक्षां महातेजः कुरु भूतविनाशिनीम्
७.०५८.००३ तेषां तद्वचनं श्रुत्वा मुनिर्हर्षमुपागमत्
७.०५८.००३ भूतघ्नीं चाकरोत्ताभ्या रक्षां रक्षोविनाशिनीम्
७.०५८.००४ कुशमुष्टिमुपादाय लवं चैव तु स द्विजः
७.०५८.००४ वाल्मीकिः प्रददौ ताभ्यां रक्षां भूतविनाशिनीम्
७.०५८.००५ यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसंस्कृतैः
७.०५८.००५ निर्मार्जनीयस्तु भवेत्कुश इत्यस्य नामतः
७.०५८.००६ यश्चापरो भवेत्ताभ्यां लवेन सुसमाहितः
७.०५८.००६ निर्मार्जनीयो वृद्धाभिर्लवश्चेति स नामतः
७.०५८.००७ एवं कुशलवौ नाम्ना तावुभौ यमजातकौ
७.०५८.००७ मत्कृतभ्यां च नमाभ्यां ख्यातियुक्तौ भविष्यतः
७.०५८.००८ ते रक्षां जगृहुस्तां च मुनिहस्तात्समाहिताः
७.०५८.००८ अकुर्वंश्च ततो रक्षां तयोर्विगतकल्मषाः
७.०५८.००९ तथा तां क्रियमाणां तु रक्षां गोत्रं च नाम च
७.०५८.००९ संकीर्तनं च रामस्य सीतायाः प्रसवौ शुभौ
७.०५८.०१० अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत्प्रियम्
७.०५८.०१० पर्णशालां गतो रात्रौ दिष्ट्या दिष्ट्येति चाब्रवीत्
७.०५८.०११ तथ तस्य प्रहृष्टस्य शत्रुघ्नस्य महात्मनः
७.०५८.०११ व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमा
७.०५८.०१२ प्रभाते तु महावीर्यः कृत्वा पौर्वाह्णिकं क्रमम्
७.०५८.०१२ मुनिं प्राञ्जलिरामन्त्र्य प्रायात्पश्चान्मुखः पुनः
७.०५८.०१३ स गत्वा यमुनातीरं सप्तरात्रोषितः पथि
७.०५८.०१३ ऋषीणां पुण्यकीर्तीनामाश्रमे वासमभ्ययात्
७.०५८.०१४ स तत्र मुनिभिः सार्धं भार्गवप्रमुखैर्नृपः
७.०५८.०१४ कथाभिर्बहुरूपाभिर्वासं चक्रे महायशाः
७.०५९.००१ अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भृगुनन्दनम्
७.०५९.००१ पप्रच्छ च्यवनं विप्रं लवणस्य बलाबलम्
७.०५९.००२ शूलस्य च बलं ब्रह्मन् के च पूर्वं निपातिताः
७.०५९.००२ अनेन शूलमुखेन द्वन्द्वयुद्धमुपागताः
७.०५९.००३ तस्य तद्भाषितं श्रुत्वा शत्रुघ्नस्य महात्मनः
७.०५९.००३ प्रत्युवाच महातेजाश्च्यवनो रघुनन्दनम्
७.०५९.००४ असंख्येयानि कर्माणि यान्यस्य पुरुषर्षभ
७.०५९.००४ इक्ष्वाकुवंशप्रभवे यद्वृत्तं तच्छृणुष्व मे
७.०५९.००५ अयोध्यायां पुरा राजा युवनाश्वसुतो बली
७.०५९.००५ मान्धता इति विख्यातस्त्रिषु लोकेषु वीर्यवान्
७.०५९.००६ स कृत्वा पृथिवीं कृत्स्नां शासने पृथिवीपतिः
७.०५९.००६ सुरलोकमथो जेतुमुद्योगमकरोन्नृपः
७.०५९.००७ इन्द्रस्य तु भयं तीव्रं सुराणां च महात्मनाम्
७.०५९.००७ मान्धातरि कृतोद्योगे देवलोकजिगीषया
७.०५९.००८ अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः
७.०५९.००८ वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत
७.०५९.००९ तस्य पापमभिप्रायं विदित्वा पाकशासनः
७.०५९.००९ सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम्
७.०५९.०१० राजा त्वं मानुषं लोके न तावत्पुरुषर्षभ
७.०५९.०१० अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि
७.०५९.०११ यदि वीर समग्रा ते मेदिनी निखिला वशे
७.०५९.०११ देवराज्यं कुरुष्वेह सभृत्यबलवाहनः
७.०५९.०१२ इन्द्रमेवं ब्रुवाणं तु मान्धाता वाक्यमब्रवीत्
७.०५९.०१२ क्व मे शक्रप्रतिहतं शासनं पृथिवीतले
७.०५९.०१३ तमुवाच सहस्राक्षो लवणो नाम राक्षसः
७.०५९.०१३ मधुपुत्रो मधुवने नाज्ञां ते कुरुतेऽनघ
७.०५९.०१४ तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम्
७.०५९.०१४ व्रीडितोऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह
७.०५९.०१५ आमन्त्र्य तु सहस्राक्षं ह्रिया किं चिदवाङ्मुखः
७.०५९.०१५ पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः
७.०५९.०१६ स कृत्वा हृदयेऽमर्षं सभृत्यबलवाहनः
७.०५९.०१६ आजगाम मधोः पुत्रं वशे कर्तुमनिन्दितः
७.०५९.०१७ स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः
७.०५९.०१७ दूतं संप्रेषयामास सकाशं लवणस्य सः
७.०५९.०१८ स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम्
७.०५९.०१८ वदन्तमेवं तं दूतं भक्षयामास राक्षसः
७.०५९.०१९ चिरायमाणे दूते तु राजा क्रोधसमन्वितः
७.०५९.०१९ अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः
७.०५९.०२० ततः प्रहस्य लवणः शूलं जग्राह पाणिना
७.०५९.०२० वधाय सानुबन्धस्य मुमोचायुधमुत्तमम्
७.०५९.०२१ तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम्
७.०५९.०२१ भस्मीकृत्य नृपं भूयो लवणस्यागमत्करम्
७.०५९.०२२ एवं स राजा सुमहान् हतः सबलवाहनः
७.०५९.०२२ शूलस्य च बलं वीर अप्रमेयमनुत्तमम्
७.०५९.०२३ श्वः प्रभाते तु लवणं वधिष्यसि न संशयः
७.०५९.०२३ अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव
७.०६०.००१ कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम्
७.०६०.००१ व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः
७.०६०.००२ ततः प्रभाते विमले तस्मिन् काले स राक्षसः
७.०६०.००२ निर्गतस्तु पुराद्वीरो भक्षाहारप्रचोदितः
७.०६०.००३ एतस्मिन्नन्तरे शूरः शत्रुघ्नो यमुनां नदीम्
७.०६०.००३ तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत
७.०६०.००४ ततोऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः
७.०६०.००४ आगच्छद्बहुसहस्रं प्राणिनामुद्वहन् भरम्
७.०६०.००५ ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम्
७.०६०.००५ तमुवाच ततो रक्षः किमनेन करिष्यसि
७.०६०.००६ ईदृशानां सहस्राणि सायुधानां नराधम
७.०६०.००६ भक्षितानि मया रोषात्कालमाकाङ्क्षसे नु किम्
७.०६०.००७ आहारश्चाप्यसंपूर्णो ममायं पुरुषाधम
७.०६०.००७ स्वयं प्रविष्टो नु मुखं कथमासाद्य दुर्मते
७.०६०.००८ तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः
७.०६०.००८ शत्रुघ्नो वीर्यसंपन्नो रोषादश्रूण्यवर्तयत्
७.०६०.००९ तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः
७.०६०.००९ तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन्
७.०६०.०१० उवाच च सुसंक्रुद्धः शत्रुघ्नस्तं निशाचरम्
७.०६०.०१० योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह
७.०६०.०११ पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः
७.०६०.०११ शत्रुघ्नो नाम शत्रुघ्नो वधाकाङ्क्षी तवागतः
७.०६०.०१२ तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम्
७.०६०.०१२ शत्रुस्त्वं सर्वजीवानां न मे जीवन् गमिष्यसि
७.०६०.०१३ तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव
७.०६०.०१३ प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तोऽसि दुर्मते
७.०६०.०१४ मम मातृष्वसुर्भ्राता रावणो नाम राक्षसः
७.०६०.०१४ हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम
७.०६०.०१५ तच्च सर्वं मया क्षान्तं रावणस्या कुलक्षयम्
७.०६०.०१५ अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः
७.०६०.०१६ न हताश्च हि मे सर्वे परिभूतास्तृणं यथा
७.०६०.०१६ भूतश्चैव भविष्याश्च यूयं च पुरुषाधमाः
७.०६०.०१७ तस्य ते युद्धकामस्या युद्धं दास्यामि दुर्मते
७.०६०.०१७ ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम्
७.०६०.०१८ तमुवाचाथ शत्रुघ्न क्व मे जीवन् गमिष्यसि
७.०६०.०१८ दुर्बलोऽप्यागतः शत्रुर्न मोक्तव्यः कृतात्मना
७.०६०.०१९ यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ
७.०६०.०१९ स हतो मन्दबुद्धित्वाद्यथा कापुरुषस्तथा
७.०६१.००१ तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः
७.०६१.००१ क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत्
७.०६१.००२ पाणौ पाणिं विनिष्पिष्य दन्तान् कटकटाय्य च
७.०६१.००२ लवणो रघुशार्दूलमाह्वयामास चासकृत्
७.०६१.००३ तं ब्रुवाणं तथा वाक्यं लवणं घोरविक्रमम्
७.०६१.००३ शत्रुघ्नो देव शत्रुघ्न इदं वचनमब्रवीत्
७.०६१.००४ शत्रुघ्नो न तदा जातो यदान्ये निर्जितास्त्वया
७.०६१.००४ तदद्य बाणाभिहतो व्रज तं यमसादनम्
७.०६१.००५ ऋषयोऽप्यद्य पापात्मन्मया त्वां निहतं रणे
७.०६१.००५ पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम्
७.०६१.००६ त्वयि मद्बाणनिर्दग्धे पतितेऽद्य निशाचर
७.०६१.००६ पुरं जनपदं चापि क्षेममेतद्भविष्यति
७.०६१.००७ अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः
७.०६१.००७ प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः
७.०६१.००८ एवमुक्तो महावृक्षं लवणः क्रोधमूर्छितः
७.०६१.००८ शत्रुघ्नोरसि चिक्षेप तं शूरः शतधाच्छिनत्
७.०६१.००९ तद्दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु
७.०६१.००९ पादपान् सुबहून् गृह्य शत्रुघ्ने व्यसृजद्बली
७.०६१.०१० शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून्
७.०६१.०१० त्रिभिश्चतुर्भिरेकैकं चिच्छेद नतपर्वभिः
७.०६१.०११ ततो बाणमयं वर्षं व्यसृजद्राक्षसोरसि
७.०६१.०११ शत्रुघ्नो वीर्यसंपन्नो विव्यथे न च राक्षसः
७.०६१.०१२ ततः प्रहस्य लवणो वृक्षमुत्पाट्य लीलया
७.०६१.०१२ शिरस्यभ्यहनच्छूरं स्रस्ताङ्गः स मुमोह वै
७.०६१.०१३ तस्मिन्निपतिते वीरे हाहाकारो महानभूत्
७.०६१.०१३ ऋषीणां देव संघानां गन्धर्वाप्सरसामपि
७.०६१.०१४ तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम्
७.०६१.०१४ रक्षो लब्धान्तरमपि न विवेश स्वमालयम्
७.०६१.०१५ नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम्
७.०६१.०१५ ततो हत इति ज्ञात्वा तान् भक्षान् समुदावहत्
७.०६१.०१६ मुहूर्ताल्लब्धसंज्ञस्तु पुनस्तस्थौ धृतायुधः
७.०६१.०१६ शत्रुघ्नो राक्षसद्वारि ऋषिभिः संप्रपूजितः
७.०६१.०१७ ततो दिव्यममोघं तं जग्राह शरमुत्तमम्
७.०६१.०१७ ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश
७.०६१.०१८ वज्राननं वज्रवेगं मेरुमन्दर गौरवम्
७.०६१.०१८ नतं पर्वसु सर्वेषु संयुगेष्वपराजितम्
७.०६१.०१९ असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम्
७.०६१.०१९ दानवेन्द्राचलेन्द्राणामसुराणां च दारुणम्
७.०६१.०२० तं दीप्तमिव कालाग्निं युगान्ते समुपस्थिते
७.०६१.०२० दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन्
७.०६१.०२१ सदेवासुरगन्धर्वं समुनिं साप्सरोगणम्
७.०६१.०२१ जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम्
७.०६१.०२२ ऊचुश्च देवदेवेशं वरदं प्रपितामहम्
७.०६१.०२२ कच्चिल्लोकक्षयो देव प्राप्तो वा युगसंकयः
७.०६१.०२३ नेदृशं दृष्टपूर्वं न श्रुतं वा प्रपितामह
७.०६१.०२३ देवानां भयसंमोहो लोकानां संक्षयः प्रभो
७.०६१.०२४ तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामनः
७.०६१.०२४ भयकारणमाचष्टे देवानामभयंकरः
७.०६१.०२५ वधाय लवणस्याजौ शरः शत्रुघ्नधारितः
७.०६१.०२५ तेजसा यस्य सर्वे स्म संमूढाः सुरसत्तमाः
७.०६१.०२६ एषो हि पूर्वं देवस्य लोककर्तुः सनातनः
७.०६१.०२६ शरस्तेजोमयो वत्सा येन वै भयमागतम्
७.०६१.०२७ एष वै कैटभस्यार्थे मधुनश्च महाशरः
७.०६१.०२७ सृष्टो महात्मना तेन वधार्थं दैत्ययोस्तयोः
७.०६१.०२८ एवमेतं प्रजानीध्वं विष्णोस्तेजोमयं शरम्
७.०६१.०२८ एषा चैव तनुः पूर्वा विष्णोस्तस्य महात्मनः
७.०६१.०२९ इतो गच्छता पश्यध्वं वध्यमानं महात्मना
७.०६१.०२९ रामानुजेन वीरेण लवणं राक्षसोत्तमम्
७.०६१.०३० तस्य ते देवदेवस्य निशम्य मधुरां गिरम्
७.०६१.०३० आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ
७.०६१.०३१ तं शरं दिव्यसंकाशं शत्रुघ्नकरधारितम्
७.०६१.०३१ ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम्
७.०६१.०३२ आकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः
७.०६१.०३२ सिंहनादं मुहुः कृत्वा ददर्श लवणं पुनः
७.०६१.०३३ आहूतश्च ततस्तेन शत्रुघ्नेन महात्मना
७.०६१.०३३ लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः
७.०६१.०३४ आकर्णात्स विकृष्याथ तद्धनुर्धन्विनां वरः
७.०६१.०३४ स मुमोच महाबाणं लवणस्य महोरसि
७.०६१.०३४ उरस्तस्य विदार्याशु प्रविवेश रसातलम्
७.०६१.०३५ गत्वा रसातलं दिव्यं शरो विबुधपूजितः
७.०६१.०३५ पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम्
७.०६१.०३६ शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः
७.०६१.०३६ पपात सहसा भूमौ वज्राहत इवाचलः
७.०६१.०३७ तच्च दिव्यं महच्छूलं हते लवणराक्षसे
७.०६१.०३७ पश्यतां सर्वभूतानां रुद्रस्य वशमन्वगात्
७.०६१.०३८ एकेषुपातेन भयं निहत्य॑ लोकत्रयस्यास्य रघुप्रवीरः
७.०६१.०३८ विनिर्बभावुद्यतचापबाणस्॑ तमः प्रणुद्येव सहस्ररश्मिः
७.०६२.००१ हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः
७.०६२.००१ ऊचुः सुमधुरां वाणीं शत्रुघ्नां शत्रुतापनम्
७.०६२.००२ दिष्ट्या ते विजयो वत्स दिष्ट्य लवणराक्षसः
७.०६२.००२ हतः पुरुषशार्दूलवरं वरय राघव
७.०६२.००३ वरदाः स्म महाबाहो सर्व एव समागताः
७.०६२.००३ विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः
७.०६२.००४ देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः
७.०६२.००४ प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान्
७.०६२.००५ इमां मधुपुरीं रम्यां मधुरां देव निर्मिताम्
७.०६२.००५ निवेशं प्रप्नुयां शीघ्रमेष मेऽस्तु वरो मतः
७.०६२.००६ तं देवाः प्रीतमनसो बाढमित्येव राघवम्
७.०६२.००६ भविष्यति पुरी रम्या शूरसेना न संशयः
७.०६२.००७ ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा
७.०६२.००७ शत्रुघ्नोऽपि महातेजास्तां सेनां समुपानयत्
७.०६२.००८ सा सेन शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्नशासनम्
७.०६२.००८ निवेशनं च शत्रुघ्नः शासनेन समारभत्
७.०६२.००९ सा पुरी दिव्यसंकाशा वर्षे द्वादशमे शुभा
७.०६२.००९ निविष्टा शूरसेनानां विषयश्चाकुतोभयः
७.०६२.०१० क्षेत्राणि सस्य युक्तानि काले वर्षति वासवः
७.०६२.०१० अरोगा वीरपुरुषा शत्रुघ्नभुजपालिता
७.०६२.०११ अर्धचन्द्रप्रतीकाशा यमुनातीरशोभिता
७.०६२.०११ शोभिता गृहमुख्यैश्च शोभिता चत्वरापणैः
७.०६२.०१२ यच्च तेन महच्छून्यं लवणेन कृतं पुरा
७.०६२.०१२ शोभयामास तद्वीरो नानापण्यसमृद्धिभिः
७.०६२.०१३ तां समृद्धां समृद्धार्थः शत्रुघ्नो भरतानुजः
७.०६२.०१३ निरीक्ष्य परमप्रीतः परं हर्षमुपागमत्
७.०६२.०१४ तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम्
७.०६२.०१४ रामपादौ निरीक्षेयं वर्षे द्वादशमे शुभे
७.०६३.००१ ततो द्वादशमे वर्षे शत्रुघ्नो रामपालिताम्
७.०६३.००१ अयोध्यां चकमे गन्तुमल्पभृत्यबलानुगः
७.०६३.००२ मन्त्रिणो बलमुख्यांश्च निवर्त्य च पुरोधसं
७.०६३.००२ जगाम रथमुख्येन हययुक्तेन भास्वता
७.०६३.००३ स गत्वा गणितान् वासान् सप्ताष्टौ रघुनन्दनः
७.०६३.००३ अयोध्यामगमत्तूर्णं राघवोत्सुकदर्शनः
७.०६३.००४ स प्रविश्य पुरीं रम्यां श्रीमानिक्ष्वाकुनन्दनः
७.०६३.००४ प्रविवेश महाबाहुर्यत्र रामो महाद्युतिः
७.०६३.००५ सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा
७.०६३.००५ उवाच प्राञ्जलिर्भूत्वा रामं सत्यपराक्रमम्
७.०६३.००६ यदाज्ञप्तं महाराज सर्वं तत्कृतवानहम्
७.०६३.००६ हतः स लवणः पापः पुरी सा च निवेशिता
७.०६३.००७ द्वादशं च गतं वर्षं त्वां विना रघुनन्दन
७.०६३.००७ नोत्सहेयमहं वस्तुं त्वया विरहितो नृप
७.०६३.००८ स मे प्रसादं काकुत्स्थ कुरुष्वामितविक्रम
७.०६३.००८ मातृहीनो यथा वत्सस्त्वां विना प्रवसाम्यहम्
७.०६३.००९ एवं ब्रुवाणं शत्रुघ्नं परिष्वज्येदमब्रवीत्
७.०६३.००९ मा विषादं कृथा वीर नैतत्क्षत्रिय चेष्टितम्
७.०६३.०१० नावसीदन्ति राजानो विप्रवासेषु राघव
७.०६३.०१० प्रजाश्च परिपाल्या हि क्षत्रधर्मेण राघव
७.०६३.०११ काले काले च मां वीर अयोध्यामवलोकितुम्
७.०६३.०११ आगच्छ त्वं नरश्रेष्ठ गन्तासि च पुरं तव
७.०६३.०१२ ममापि त्वं सुदयितः प्राणैरपि न संशयः
७.०६३.०१२ अवश्यं करणीयं च राज्यस्य परिपालनम्
७.०६३.०१३ तस्मात्त्वं वस काकुत्स्थ पञ्चरात्रं मया सह
७.०६३.०१३ ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः
७.०६३.०१४ रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोऽनुगम्
७.०६३.०१४ शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत्
७.०६३.०१५ स पञ्चरात्रं काकुत्स्थो राघवस्य यथाज्ञया
७.०६३.०१५ उष्य तत्र महेष्वासो गमनायोपचक्रमे
७.०६३.०१६ आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम्
७.०६३.०१६ भरतं लक्ष्मणं चैव महारथमुपारुहत्
७.०६३.०१७ दूरं ताभ्यामनुगतो लक्ष्मणेन महात्मना
७.०६३.०१७ भरतेन च शत्रुघ्नो जगामाशु पुरीं तदा
७.०६४.००१ प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः
७.०६४.००१ प्रमुमोद सुखी राज्यं धर्मेण परिपालयन्
७.०६४.००२ ततः कतिपयाहःसु वृद्धो जानपदो द्विजः
७.०६४.००२ शवं बालमुपादाय राजद्वारमुपागमत्
७.०६४.००३ रुदन् बहुविधा वाचः स्नेहाक्षरसमन्विताः
७.०६४.००३ असकृत्पुत्रपुत्रेति वाक्यमेतदुवाच ह
७.०६४.००४ किं नु मे दुष्कृतं कर्म पूर्वं देहान्तरे कृतम्
७.०६४.००४ यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम्
७.०६४.००५ अप्राप्तयौवनं बालं पञ्चवर्षसमन्वितम्
७.०६४.००५ अकाले कालमापन्नं दुःखाय मम पुत्रक
७.०६४.००६ अल्पैरहोभिर्निधनं गमिष्यामि न संशयः
७.०६४.००६ अहं च जननी चैव तव शोकेन पुत्रक
७.०६४.००७ न स्मराम्यनृतं ह्युक्तं न च हिंसां स्मराम्यहम्
७.०६४.००७ केन मे दुष्कृतेनाद्य बाल एव ममात्मजः
७.०६४.००७ अकृत्वा पितृकार्याणि नीतो वैवस्वतक्षयम्
७.०६४.००८ नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम्
७.०६४.००८ मृत्युरप्राप्तकालानां रामस्य विषये यथा
७.०६४.००९ रामस्य दुष्कृतं किं चिन्महदस्ति न संशयः
७.०६४.००९ त्वं राजञ्जीवयस्वैनं बालं मृत्युवशं गतम्
७.०६४.०१० भ्रातृभिः सहितो राजन् दीर्घमायुरवाप्नुहि
७.०६४.०१० उषिताः स्म सुखं राज्ये तवास्मिन् सुमहाबल
७.०६४.०११ संप्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम्
७.०६४.०११ रामं नाथमिहासाद्य बालान्तकरणं नृपम्
७.०६४.०१२ राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः
७.०६४.०१२ असद्वृत्ते तु नृपतावकाले म्रियते जनः
७.०६४.०१३ यदा पुरेष्वयुक्तानि जना जनपदेशु च
७.०६४.०१३ कुर्वते न च रक्षास्ति तदाकालकृतं भयम्
७.०६४.०१४ सव्यक्तं राजदोषोऽयं भविष्यति न संशयः
७.०६४.०१४ पुरे जनपदे वापि तदा बालवधो ह्ययम्
७.०६४.०१५ एवं बहुविधैर्वाक्यैर्निन्दयानो मुहुर्मुहुः
७.०६४.०१५ राजानं दुःखसंतप्तः सुतं तमुपगूहति
७.०६५.००१ तथा तु करुणं तस्य द्विजस्य परिदेवितम्
७.०६५.००१ शुश्राव राघवः सर्वं दुःखशोकसमन्वितम्
७.०६५.००२ स दुःखेन सुसंतप्तो मन्त्रिणः समुपाह्वयत्
७.०६५.००२ वसिष्ठं वामदेवं च भ्रातॄंश्च सहनैगमान्
७.०६५.००३ ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः
७.०६५.००३ राजानं देवसंकाशं वर्धस्वेति ततोऽब्रुवन्
७.०६५.००४ मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः
७.०६५.००४ कात्यायनोऽथ जाबालिर्गौतमो नारदस्तथा
७.०६५.००५ एते द्विजर्षभाः सर्वे आगनेषूपवेशिताः
७.०६५.००५ मन्त्रिणो नैगमाश्चैव यथार्हमनुकूलतः
७.०६५.००६ तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम्
७.०६५.००६ रघवः सर्वमाचष्टे द्विजो यस्मात्प्ररोदिति
७.०६५.००७ तस्य तद्वचनं श्रुत्वा राज्ञो दीनस्य नारदः
७.०६५.००७ प्रत्युवाच शुभं वाक्यमृषीणां संनिधौ नृपम्
७.०६५.००८ शृणु राजन् यथाकाले प्राप्तोऽयं बालसंक्षयः
७.०६५.००८ श्रुत्वा कर्तव्यतां वीर कुरुष्व रघुनन्दन
७.०६५.००९ पुरा कृतयुगे राम ब्राह्मणा वै तपस्विनः
७.०६५.००९ अब्राह्मणस्तदा राजन्न तपस्वी कथं चन
७.०६५.०१० तस्मिन् युगे प्रज्वलिते ब्रह्मभूते अनावृते
७.०६५.०१० अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः
७.०६५.०११ ततस्त्रेतायुगं नाम मानवानां वपुष्मताम्
७.०६५.०११ क्षत्रिया यत्र जायन्ते पूर्वेण तपसान्विताः
७.०६५.०१२ वीर्येण तपसा चैव तेऽधिकाः पूर्वजन्मनि
७.०६५.०१२ मानवा ये महात्मानस्तस्मिंस्त्रेतायुगे युगे
७.०६५.०१३ ब्रह्मक्षत्रं तु तत्सर्वं यत्पूर्वमपरं च यत्
७.०६५.०१३ युगयोरुभयोरासीत्समवीर्यसमन्वितम्
७.०६५.०१४ अपश्यन्तस्तु ते सर्वे विशेषमधिकं ततः
७.०६५.०१४ स्थापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सर्वतः
७.०६५.०१५ अधर्मः पादमेकं तु पातयत्पृथिवीतले
७.०६५.०१५ अधर्मेण हि संयुक्तास्तेन मन्दाभवन् द्विजाः
७.०६५.०१६ ततः प्रादुष्कृतं पूर्वमायुषः परिनिष्ठितम्
७.०६५.०१६ शुभान्येवाचरंल्लोकाः सत्यधर्मपरायणाः
७.०६५.०१७ त्रेतायुगे त्ववर्तन्त ब्राह्मणाः क्षत्रियश्च ये
७.०६५.०१७ तपोऽतप्यन्त ते सर्वे शुश्रूषामपरे जनाः
७.०६५.०१८ स धर्मः परमस्तेषां वैश्यशूद्रमथागमत्
७.०६५.०१८ पूजां च सर्ववर्णानां शूद्राश्चक्रुर्विशेषतः
७.०६५.०१९ ततः पादमधर्मस्य द्वितीयमवतारयत्
७.०६५.०१९ ततो द्वापरसंख्या सा युगस्य समजायत
७.०६५.०२० तस्मिन् द्वापरसंख्ये तु वर्तमाने युगक्षये
७.०६५.०२० अधर्मश्चानृतं चैव ववृधे पुरुषर्षभ
७.०६५.०२१ तस्मिन् द्वापरसंख्याते तपो वैश्यान् समाविशत्
७.०६५.०२१ न शूद्रो लभते धर्ममुग्रं तप्तं नरर्षभ
७.०६५.०२२ हीनवर्णो नरश्रेष्ठ तप्यते सुमहत्तपः
७.०६५.०२२ भविष्या शूद्रयोन्यां हि तपश्चर्या कलौ युगे
७.०६५.०२३ अधर्मः परमो राम द्वापरे शूद्रधारितः
७.०६५.०२३ स वै विषयपर्यन्ते तव राजन्महातपाः
७.०६५.०२३ शूद्रस्तप्यति दुर्बुद्धिस्तेन बालवधो ह्ययम्
७.०६५.०२४ यो ह्यधर्ममकार्यं वा विषये पार्थिवस्य हि
७.०६५.०२४ करोति राजशार्दूल पुरे वा दुर्मतिर्नरः
७.०६५.०२४ क्षिप्रं हि नरकं याति स च राजा न संशयः
७.०६५.०२५ स त्वं पुरुषशार्दूल मार्गस्व विषयं स्वकम्
७.०६५.०२५ दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर
७.०६५.०२६ एवं ते धर्मवृद्धिश्च नृणां चायुर्विवर्धनम्
७.०६५.०२६ भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम्
७.०६६.००१ नारदस्य तु तद्वाक्यं श्रुत्वामृतमयं यथा
७.०६६.००१ प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत्
७.०६६.००२ गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय लक्ष्मण
७.०६६.००२ बालस्य च शरीरं तत्तैलद्रोण्यां निधापय
७.०६६.००३ गन्धैश्च परमोदारैस्तैलैश्च सुसुगन्धिभिः
७.०६६.००३ यथा न क्षीयते बालस्तथा सौम्य विधीयताम्
७.०६६.००४ यथा शरीरे बालस्य गुप्तस्याक्लिष्टकर्मणः
७.०६६.००४ विपत्तिः परिभेदो वा भवेन्न च तथा कुरु
७.०६६.००५ तथा संदिश्य काकुत्स्थो लक्ष्मणं शुभलक्षणम्
७.०६६.००५ मनसा पुष्पकं दध्यावागच्छेति महायशाः
७.०६६.००६ इङ्गितं स तु विज्ञाय पुष्पको हेमभूषितः
७.०६६.००६ आजगाम मुहूर्तेन संपीपं राघवस्य वै
७.०६६.००७ सोऽब्रवीत्प्रणतो भूत्वा अयमस्मि नराधिप
७.०६६.००७ वश्यस्तव महाबाहो किंकरः समुपस्थितः
७.०६६.००८ भाषितं रुचिरं श्रुत्वा पुष्पकस्य नराधिपः
७.०६६.००८ अभिवाद्य महर्षीस्तान् विमानं सोऽध्यरोहत
७.०६६.००९ धनुर्गृहीत्वा तूणीं च खग्दं च रुचिरप्रभम्
७.०६६.००९ निक्षिप्य नगरे वीरौ सौमित्रिभरतावुभौ
७.०६६.०१० प्रायात्प्रतीचीं स मरून् विचिन्वंश्च समन्ततः
७.०६६.०१० उत्तरामगमच्छ्रीमान् दिशं हिमवदावृतम्
७.०६६.०११ अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम्
७.०६६.०११ पूर्वामपि दिशं सर्वामथापश्यन्नराधिपः
७.०६६.०१२ दक्षिणां दिशमाक्रामत्ततो राजर्षिनन्दनः
७.०६६.०१२ शैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः
७.०६६.०१३ तस्मिन् सरसि तप्यन्तं तापसं सुमहत्तपः
७.०६६.०१३ ददर्श राघवः श्रीमांल्लम्बमानमधो मुखम्
७.०६६.०१४ अथैनं समुपागम्य तप्यन्तं तप उत्तमम्
७.०६६.०१४ उवाच राघवो वाक्यं धन्यस्त्वमसि सुव्रत
७.०६६.०१५ कस्यां योन्यां तपोवृद्धवर्तसे दृढविक्रम
७.०६६.०१५ कौतूहलात्त्वां पृच्छामि रामो दाशरथिर्ह्यहम्
७.०६६.०१६ मनीषितस्ते को न्वर्थः स्वर्गलाभो वराश्रयः
७.०६६.०१६ यमश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस
७.०६६.०१७ ब्राह्मणो वासि भद्रं ते क्षत्रियो वासि दुर्जयः
७.०६६.०१७ वैश्यो वा यदि वा शूद्रः सत्यमेतद्ब्रवीहि मे
७.०६७.००१ तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः
७.०६७.००१ अवाक्शिरास्तथाभूतो वाक्यमेतदुवाच ह
७.०६७.००२ शूद्रयोन्यां प्रसूतोऽस्मि तप उग्रं समास्थितः
७.०६७.००२ देवत्वं प्रार्थये राम सशरीरो महायशः
७.०६७.००३ न मिथ्याहं वदे राजन् देवलोकजिगीषया
७.०६७.००३ शूद्रं मां विद्धि काकुत्स्थ शम्बूकं नाम नामतः
७.०६७.००४ भाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम्
७.०६७.००४ निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः
७.०६७.००५ तस्मिन्मुहूर्ते बालोऽसौ जीवेन समयुज्यत
७.०६७.००६ ततोऽगस्त्याश्रमपदं रामः कमललोचनः
७.०६७.००६ स गत्वा विनयेनैव तं नत्वा मुमुदे सुखी
७.०६७.००७ सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा
७.०६७.००७ आतिथ्यं परमं प्राप्य निषसाद नराधिपः
७.०६७.००८ तमुवाच महातेजाः कुम्भयोनिर्महातपाः
७.०६७.००८ स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव
७.०६७.००९ त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः
७.०६७.००९ अतिथिः पूजनीयश्च माम राजन् हृदि स्थितः
७.०६७.०१० सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम्
७.०६७.०१० ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः
७.०६७.०११ उष्यतां चेह रजनीं सकाशे मम राघव
७.०६७.०११ प्रभाते पुष्पकेण त्वं गन्ता स्वपुरमेव हि
७.०६७.०१२ इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा
७.०६७.०१२ दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा
७.०६७.०१२ प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव
७.०६७.०१३ दत्तस्य हि पुनर्दानं सुमहत्फलमुच्यते
७.०६७.०१३ तस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नरर्षभ
७.०६७.०१४ तद्रामः प्रतिजग्राह मुनेस्तस्य महात्मनः
७.०६७.०१४ दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम्
७.०६७.०१५ प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम्
७.०६७.०१५ आगमं तस्य दिव्यस्य प्रष्टुमेवोपचक्रमे
७.०६७.०१६ अत्यद्भुतमिदं ब्रह्मन् वपुषा युक्तमुत्तमम्
७.०६७.०१६ कथं भगवता प्राप्तं कुतो वा केन वाहृतम्
७.०६७.०१७ कुतूहलतया ब्रह्मन् पृच्छामि त्वां महायशः
७.०६७.०१७ आश्चर्याणां बहूनां हि निधिः परमको भवान्
७.०६७.०१८ एवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत्
७.०६७.०१८ शृणु राम यथावृत्तं पुरा त्रेतायुगे गते
७.०६८.००१ पुरा त्रेतायुगे ह्यासीदरण्यं बहुविस्तरम्
७.०६८.००१ समन्ताद्योजनशतं निर्मृगं पक्षिवर्जितम्
७.०६८.००२ तस्मिन्निर्मानुषेऽरण्ये कुर्वाणस्तप उत्तमम्
७.०६८.००२ अहमाक्रमितुं शौम्य तदरण्यमुपागमम्
७.०६८.००३ तस्य रूपमरण्यस्य निर्देष्टुं न शशाक ह
७.०६८.००३ फलमूलैः सुखास्वादैर्बहुरूपैश्च पादपैः
७.०६८.००४ तस्यारण्यस्य मध्ये तु सरो योजनमायतम्
७.०६८.००४ पद्मोत्पलसमाकीर्णं समतिक्रान्तशैवलम्
७.०६८.००५ तदाश्चर्यमिवात्यर्थं सुखास्वादमनुत्तमम्
७.०६८.००५ अरजस्कं तथाक्षोभ्यं श्रीमत्पक्षिगणायुतम्
७.०६८.००६ तस्मिन् सरःसमीपे तु महदद्भुतमाश्रमम्
७.०६८.००६ पुराणं पुण्यमत्यर्थं तपस्विजनवर्जितम्
७.०६८.००७ तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ
७.०६८.००७ प्रभाते काल्यमुत्थाय सरस्तदुपचक्रमे
७.०६८.००८ अथापश्यंः शवं तत्र सुपुष्टमजरं क्व चित्
७.०६८.००८ तिष्ठन्तं परया लक्ष्म्या तस्मिंस्तोयाशये नृप
७.०६८.००९ तमर्थं चिन्तयानोऽहं मुहूर्तं तत्र राघव
७.०६८.००९ विष्ठितोऽस्मि सरस्तीरे किं न्विदं स्यादिति प्रभो
७.०६८.०१० अथापश्यं मुहूर्तात्तु दिव्यमद्भुतदर्शनम्
७.०६८.०१० विमानं परमोदारं हंसयुक्तं मनोजवम्
७.०६८.०११ अत्यर्थं स्वर्गिणं तत्र विमाने रघुनन्दन
७.०६८.०११ उपास्तेऽप्सरसां वीर सहस्रं दिव्यभूषणम्
७.०६८.०११ गान्ति गेयानि रम्याणि वादयन्ति तथापराः
७.०६८.०१२ पश्यतो मे तदा राम विमानादवरुह्य च
७.०६८.०१२ तं शवं भक्षयामास स स्वर्गी रघुनन्दन
७.०६८.०१३ ततो भुक्त्वा यथाकामं मांसं बहु च सुष्ठु च
७.०६८.०१३ अवतीर्य सरः स्वर्गी संस्प्रष्टुमुपचक्रमे
७.०६८.०१४ उपस्पृश्य यथान्यायं स स्वर्गी पुरुषर्षभ
७.०६८.०१४ आरोढुमुपचक्राम विमानवरमुत्तमम्
७.०६८.०१५ तमहं देवसंकाशमारोहन्तमुदीक्ष्य वै
७.०६८.०१५ अथाहमब्रुवं वाक्यं तमेव पुरुषर्षभ
७.०६८.०१६ को भवान् देवसंकाश आहारश्च विगर्हितः
७.०६८.०१६ त्वयायं भुज्यते सौम्य किं कर्थं वक्तुमर्हसि
७.०६८.०१७ आश्चर्यमीदृशो भावो भास्वरो देवसंमतः
७.०६८.०१७ आहारो गर्हितः सौम्य श्रोतुमिच्छामि तत्त्वतः
७.०६९.००१ भुक्त्वा तु भाषितं वाक्यं मम राम शुभाक्षरम्
७.०६९.००१ प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन
७.०६९.००२ शृणु ब्रह्मन् यथावृत्तं ममैतत्सुखदुःखयोः
७.०६९.००२ दुरतिक्रमणीयं हि यथा पृच्छसि मां द्विज
७.०६९.००३ पुरा वैदर्भको राजा पिता मम महायशाः
७.०६९.००३ सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान्
७.०६९.००४ तस्य पुत्रद्वयं ब्रह्मन् द्वाभ्यां स्त्रीभ्यामजायत
७.०६९.००४ अहं श्वेत इति ख्यातो यवीयान् सुरथोऽभवत्
७.०६९.००५ ततः पितरि स्वर्याते पौरा मामभ्यषेचयन्
७.०६९.००५ तत्राहं कृतवान् राज्यं धर्मेण सुसमाहितः
७.०६९.००६ एवं वर्षसहस्राणि समतीतानि सुव्रत
७.०६९.००६ राज्यं कारयतो ब्रह्मन् प्रजा धर्मेण रक्षतः
७.०६९.००७ सोऽहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम
७.०६९.००७ कालधर्मं हृदि न्यस्य ततो वनमुपागमम्
७.०६९.००८ सोऽहं वनमिदं दुर्गं मृगपक्षिविवर्जितम्
७.०६९.००८ तपश्चर्तुं प्रविष्टोऽस्मि समीपे सरसः शुभे
७.०६९.००९ भ्रातरं सुरथं राज्ये अभिषिच्य नराधिपम्
७.०६९.००९ इदं सरः समासाद्य तपस्तप्तं मया चिरम्
७.०६९.०१० सोऽहं वर्षसहस्राणि तपस्त्रीणि महामुने
७.०६९.०१० तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम्
७.०६९.०११ ततो मां स्वर्गसंस्थं वै क्षुत्पिपासे द्विजोत्तम
७.०६९.०११ बाधेते परमोदार ततोऽहं व्यथितेन्द्रियः
७.०६९.०१२ गत्वा त्रिभुवणश्रेष्ठं पितामहमुवाच ह
७.०६९.०१२ भगवन् ब्रह्मलोकोऽयं क्षुत्पिपासाविवर्जितः
७.०६९.०१३ कस्येयं कर्मणः प्राप्तिः क्षुत्पिपासावशोऽस्मि यत्
७.०६९.०१३ आहारः कश्च मे देव तन्मे ब्रूहि पितामह
७.०६९.०१४ पितामहस्तु मामाह तवाहारः सुदेवज
७.०६९.०१४ स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः
७.०६९.०१५ स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम्
७.०६९.०१५ अनुप्तं रोहते श्वेत न कदा चिन्महामते
७.०६९.०१६ दत्तं न तेऽस्ति सूक्ष्मोऽपि वने सत्त्वनिषेविते
७.०६९.०१६ तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया
७.०६९.०१७ स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम्
७.०६९.०१७ भक्षयस्वामृतरसं सा ते तृप्तिर्भविष्यति
७.०६९.०१८ यदा तु तद्वनं श्वेत अगस्त्यः सुमहानृषिः
७.०६९.०१८ आक्रमिष्यति दुर्धर्षस्तदा कृच्छाद्विमोक्ष्यसे
७.०६९.०१९ स हि तारयितुं सौम्य शक्तः सुरगणानपि
७.०६९.०१९ किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम्
७.०६९.०२० सोऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम्
७.०६९.०२० आहारं गर्हितं कुर्मि स्वशरीरं द्विजोत्तम
७.०६९.०२१ बहून् वर्षगणान् ब्रह्मन् भुज्यमानमिदं मया
७.०६९.०२१ क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा
७.०६९.०२२ तस्य मे कृच्छ्रभूतस्य कृच्छ्रादस्माद्विमोक्षय
७.०६९.०२२ अन्येषामगतिर्ह्यत्र कुम्भयोनिमृते द्विजम्
७.०६९.०२३ इदमाभरणं सौम्य तारणार्थं द्विजोत्तम
७.०६९.०२३ प्रतिगृह्णीष्व ब्रह्मर्षे प्रसादं कर्तुमर्हसि
७.०६९.०२४ तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम्
७.०६९.०२४ तारणायोपजग्राह तदाभरणमुत्तमम्
७.०६९.०२५ मया प्रतिगृहीते तु तस्मिन्नाभरणे शुभे
७.०६९.०२५ मानुषः पूर्वको देहो राजर्षेः स ननाश ह
७.०६९.०२६ प्रनष्टे तु शरीरेऽसौ राजर्षिः परया मुदा
७.०६९.०२६ तृप्तः प्रमुदितो राजा जगाम त्रिदिवं पुनः
७.०६९.०२७ तेनेदं शक्रतुल्येन दिव्यमाभरणं मम
७.०६९.०२७ तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम्
७.०७०.००१ तदद्भुततमं वाक्यं श्रुत्वागस्त्यस्य राघवः
७.०७०.००१ गौरवाद्विस्मयाच्चैव भूयः प्रष्टुं प्रचक्रमे
७.०७०.००२ भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः
७.०७०.००२ श्वेतो वैदर्भको राजा कथं तदमृगद्विजम्
७.०७०.००३ निःसत्त्वं च वनं जातं शून्यं मनुजवर्जितम्
७.०७०.००३ तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्त्वतः
७.०७०.००४ रामस्य भाषितं श्रुत्वा कौतूहलसमन्वितम्
७.०७०.००४ वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे
७.०७०.००५ पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः
७.०७०.००५ तस्य पुत्रो महानासीदिक्ष्वाकुः कुलवर्धनः
७.०७०.००६ तं पुत्रं पूर्वके राज्ये निक्षिप्य भुवि दुर्जयम्
७.०७०.००६ पृथिव्यां राजवंशानां भव कर्तेत्युवाच ह
७.०७०.००७ तथेति च प्रतिज्ञातं पितुः पुत्रेण राघव
७.०७०.००७ ततः परमसंहृष्टो मनुः पुनरुवाच ह
७.०७०.००८ प्रीतोऽस्मि परमोदारकर्ता चासि न संशयः
७.०७०.००८ दण्डेन च प्रजा रक्ष मा च दण्डमकारणे
७.०७०.००९ अपराधिषु यो दण्डः पात्यते मानवेषु वै
७.०७०.००९ स दण्डो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम्
७.०७०.०१० तस्माद्दण्डे महाबाहो यत्नवान् भव पुत्रक
७.०७०.०१० धर्मो हि परमो लोके कुर्वतस्ते भविष्यति
७.०७०.०११ इति तं बहु संदिश्य मनुः पुत्रं समाधिना
७.०७०.०११ जगाम त्रिदिवं हृष्टो ब्रह्मलोकमनुत्तमम्
७.०७०.०१२ प्रयाते त्रिदिवे तस्मिन्निक्ष्वाकुरमितप्रभः
७.०७०.०१२ जनयिष्ये कथं पुत्रानिति चिन्तापरोऽभवत्
७.०७०.०१३ कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतः सुतान्
७.०७०.०१३ जनयामास धर्मात्मा शतं देवसुतोपमान्
७.०७०.०१४ तेषामवरजस्तात सर्वेषां रघुनन्दन
७.०७०.०१४ मूढश्चाकृतिविद्यश्च न शुश्रूषति पूर्वजान्
७.०७०.०१५ नाम तस्य च दण्डेति पिता चक्रेऽल्पतेजसः
७.०७०.०१५ अवश्यं दण्डपतनं शरीरेऽस्य भविष्यति
७.०७०.०१६ स पश्यमानस्तं दोषं घोरं पुत्रस्य राघव
७.०७०.०१६ विन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिंदम
७.०७०.०१७ स दण्डस्तत्र राजाभूद्रम्ये पर्वतरोधसि
७.०७०.०१७ पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम्
७.०७०.०१८ पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो
७.०७०.०१८ पुरोहितं चोशनसं वरयामास सुव्रतम्
७.०७०.०१९ एवं स राजा तद्राज्यं कारयत्सपुरोहितः
७.०७०.०१९ प्रहृष्टमनुजाकीर्णं देवराज्यं यथा दिवि
७.०७१.००१ एतदाख्याय रामाय महर्षिः कुम्भसंभवः
७.०७१.००१ अस्यामेवापरं वाक्यं कथायामुपचक्रमे
७.०७१.००२ ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम्
७.०७१.००२ अकरोत्तत्र मन्दात्मा राज्यं निहतकण्टकम्
७.०७१.००३ अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम्
७.०७१.००३ रमणीयमुपाक्रामच्चैत्रे मासि मनोरमे
७.०७१.००४ तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि
७.०७१.००४ विचरन्तीं वनोद्देशे दण्डोऽपश्यदनुत्तमाम्
७.०७१.००५ स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः
७.०७१.००५ अभिगम्य सुसंविग्नः कन्यां वचनमब्रवीत्
७.०७१.००६ कुतस्त्वमसि सुश्रोणि कस्य वासि सुता शुभे
७.०७१.००६ पीडितोऽहमनङ्गेन पृच्छामि त्वां सुमध्यमे
७.०७१.००७ तस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः
७.०७१.००७ भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम्
७.०७१.००८ भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः
७.०७१.००८ अरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम्
७.०७१.००९ गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः
७.०७१.००९ व्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः
७.०७१.०१० यदि वात्र मया कार्यं धर्मदृष्टेन सत्पथा
७.०७१.०१० वरयस्व नृप श्रेष्ठ पितरं मे महाद्युतिम्
७.०७१.०११ अन्यथा तु फलं तुभ्यं भवेद्घोराभिसंहितम्
७.०७१.०११ क्रोधेन हि पिता मेऽसौ त्रैलोक्यमपि निर्दहेत्
७.०७१.०१२ एवं ब्रुवाणामरजां दण्डः कामशरार्दितः
७.०७१.०१२ प्रत्युवाच मदोन्मत्तः शिरस्याधाय सोऽञ्जलिम्
७.०७१.०१३ प्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि
७.०७१.०१३ त्वत्कृते हि मम प्राणा विदीर्यन्ते शुभानने
७.०७१.०१४ त्वां प्राप्य हि वधो वापि पापं वापि सुदारुणम्
७.०७१.०१४ भक्तं भजस्व मां भीरु भजमानं सुविह्वलम्
७.०७१.०१५ एवमुक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद्बली
७.०७१.०१५ विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे
७.०७१.०१६ तमनर्थं महाघोरं दण्डः कृत्वा सुदारुणम्
७.०७१.०१६ नगरं प्रययौ चाशु मधुमन्तमनुत्तमम्
७.०७१.०१७ अरजापि रुदन्ती सा आश्रमस्याविदूरतः
७.०७१.०१७ प्रतीक्षते सुसंत्रस्ता पितरं देवसंनिभम्
७.०७२.००१ स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः
७.०७२.००१ स्वमाश्रमं शिष्य वृतः क्षुधार्तः संन्यवर्तत
७.०७२.००२ सोऽपश्यदरजां दीनां रजसा समभिप्लुताम्
७.०७२.००२ ज्योत्स्नामिवारुणग्रस्तां प्रत्यूषे न विराजतीम्
७.०७२.००३ तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः
७.०७२.००३ निर्दहन्निव लोकांस्त्रीञ्शिष्यांश्चेदमुवाच ह
७.०७२.००४ पश्यध्वं विपरीतस्य दण्डस्याविदितात्मनः
७.०७२.००४ विपत्तिं घोरसंकाशां क्रुद्धामग्निशिखामिव
७.०७२.००५ क्षयोऽस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः
७.०७२.००५ यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति
७.०७२.००६ यस्मात्स कृतवान् पापमीदृशं घोरदर्शनम्
७.०७२.००६ तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः
७.०७२.००७ सप्तरात्रेण राजासौ सभृत्यबलवाहनः
७.०७२.००७ पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः
७.०७२.००८ समन्ताद्योजनशतं विषयं चास्य दुर्मतेः
७.०७२.००८ धक्ष्यते पांसुवर्षेण महता पाकशासनः
७.०७२.००९ सर्वसत्त्वानि यानीह स्थावराणि चराणि च
७.०७२.००९ महता पांसुवर्षेण नाशं यास्यन्ति सर्वशः
७.०७२.०१० दण्डस्य विषयो यावत्तावत्सर्वसमुच्छ्रयः
७.०७२.०१० पांसुभुत इवालक्ष्यः सप्तरात्राद्भविष्यति
७.०७२.०११ इत्युक्त्वा क्रोधसंतपस्तमाश्रमनिवासिनम्
७.०७२.०११ जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत्
७.०७२.०१२ श्रुत्वा तूशसनो वाक्यं स आश्रमावसथो जनः
७.०७२.०१२ निष्क्रान्तो विषयात्तस्य स्थानं चक्रेऽथ बाह्यतः
७.०७२.०१३ स तथोक्त्वा मुनिजनमरजामिदमब्रवीत्
७.०७२.०१३ इहैव वस दुर्मेधे आश्रमे सुसमाहिता
७.०७२.०१४ इदं योजनपर्यन्तं सरः सुरुचिरप्रभम्
७.०७२.०१४ अरजे विज्वरा भुङ्क्ष्व कालश्चात्र प्रतीक्ष्यताम्
७.०७२.०१५ त्वत्समीपे तु ये सत्त्वा वासमेष्यन्ति तां निशाम्
७.०७२.०१५ अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा
७.०७२.०१६ इत्युक्त्वा भार्गवो वासमन्यत्र समुपाक्रमत्
७.०७२.०१६ सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना
७.०७२.०१७ तस्यासौ दण्डविषयो विन्ध्यशैवलसानुषु
७.०७२.०१७ शप्तो ब्रह्मर्षिणा तेन पुरा वैधर्मके कृते
७.०७२.०१८ ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते
७.०७२.०१८ तपस्विनः स्थिता यत्र जनस्थानमथोऽभवत्
७.०७२.०१९ एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव
७.०७२.०१९ संध्यामुपासितुं वीर समयो ह्यतिवर्तते
७.०७२.०२० एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः
७.०७२.०२० कृतोदको नरव्याघ्र आदित्यं पर्युपासते
७.०७२.०२१ स तैरृषिभिरभ्यस्तः सहितैर्ब्रह्मसत्तमैः
७.०७२.०२१ रविरस्तं गतो राम गच्छोदकमुपस्पृश
७.०७३.००१ ऋषेर्वचनमाज्ञाय रामः संध्यामुपासितुम्
७.०७३.००१ उपाक्रामत्सरः पुण्यमप्सरोभिर्निषेवितम्
७.०७३.००२ तत्रोदकमुपस्पृष्श्य संध्यामन्वास्य पश्चिमाम्
७.०७३.००२ आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः
७.०७३.००३ अस्यागस्त्यो बहुगुणं फलमूलं तथौषधीः
७.०७३.००३ शाकानि च पवित्राणि भोजनार्थमकल्पयत्
७.०७३.००४ स भुक्तवान्नरश्रेष्ठस्तदन्नममृतोपमम्
७.०७३.००४ प्रीतश्च परितुष्टश्च तां रात्रिं समुपावसत्
७.०७३.००५ प्रभाते काल्यमुत्थाय कृत्वाह्निकमरिंदमः
७.०७३.००५ ऋषिं समभिचक्राम गमनाय रघूत्तमः
७.०७३.००६ अभिवाद्याब्रवीद्रामो महर्षिं कुम्भसंभवम्
७.०७३.००६ आपृच्छे त्वां गमिष्यामि मामनुज्ञातुमर्हसि
७.०७३.००७ धन्योऽस्म्यनुगृहीतोऽस्मि दर्शनेन महात्मनः
७.०७३.००७ द्रष्टुं चैवागमिष्यामि पावनार्थमिहात्मनः
७.०७३.००८ तथा वदति काकुत्स्थे वाक्यमद्भुतदर्शनम्
७.०७३.००८ उवाच परमप्रीतो धर्मनेत्रस्तपोधनः
७.०७३.००९ अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरम्
७.०७३.००९ पावनः सर्वलोकानां त्वमेव रघुनन्दन
७.०७३.०१० मुहूर्तमपि राम त्वां ये नु पश्यन्ति के चन
७.०७३.०१० पाविताः स्वर्गभूतास्ते पूज्यन्ते दिवि दैवतैः
७.०७३.०११ ये च त्वां घोरचक्षुर्भिरीक्षन्ते प्राणिनो भुवि
७.०७३.०११ हतास्ते यमदण्डेन सद्यो निरयगामिनः
७.०७३.०१२ गच्छ चारिष्टमव्यग्रः पन्थानमकुतोभयम्
७.०७३.०१२ प्रशाधि राज्यं धर्मेण गतिर्हि जगतो भवान्
७.०७३.०१३ एवमुक्तस्तु मुनिना प्राञ्जलिः प्र्पग्रहो नृपः
७.०७३.०१३ अभ्यवादयत प्राज्ञस्तमृषिं पुण्यशीलिनम्
७.०७३.०१४ अभिवाद्य मुनिश्रेष्ठं तांश्च सर्वांस्तपोधनान्
७.०७३.०१४ अध्यारोहत्तदव्यग्रः पुष्पकं हेमभूषितम्
७.०७३.०१५ तं प्रयान्तं मुनिगणा आशीर्वादैः समन्ततः
७.०७३.०१५ अपूजयन्महेन्द्राभं सहस्राक्षमिवामराः
७.०७३.०१६ स्वस्थः स ददृशे रामः पुष्पके हेमभूषिते
७.०७३.०१६ शशी मेघसमीपस्थो यथा जलधरागमे
७.०७३.०१७ ततोऽर्धदिवसे प्राप्ते पूज्यमानस्ततस्ततः
७.०७३.०१७ अयोध्यां प्राप्य काकुत्स्थो विमानादवरोहत
७.०७३.०१८ ततो विसृज्य रुचिरं पुष्पकं कामगामिनम्
७.०७३.०१८ कक्ष्यान्तरविनिक्षिप्तं द्वाःस्थं रामोऽब्रवीद्वचः
७.०७३.०१९ लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ
७.०७३.०१९ ममागमनमाख्याय शब्दापय च मां चिरम्
७.०७४.००१ तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्टकर्मणः
७.०७४.००१ द्वाःस्थः कुमारावाहूय राघवाय न्यवेदयत्
७.०७४.००२ दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ
७.०७४.००२ परिष्वज्य ततो रामो वाक्यमेतदुवाच ह
७.०७४.००३ कृतं मया यथातथ्यं द्विजकार्यमनुत्तमम्
७.०७४.००३ धर्मसेतुमतो भूयः कर्तुमिच्छामि राघवौ
७.०७४.००४ युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम्
७.०७४.००४ सहितो यष्टुमिच्छामि तत्र धर्मो हि शाश्वतः
७.०७४.००५ इष्ट्वा तु राजसूयेन मित्रः शत्रुनिबर्हणः
७.०७४.००५ सुहुतेन सुयज्ञेन वरुणत्वमुपागमत्
७.०७४.००६ सोमश्च राजसूयेन इष्ट्वा धर्मेण धर्मवित्
७.०७४.००६ प्राप्तश्च सर्वलोकानां कीर्तिं स्थानं च शाश्वतम्
७.०७४.००७ अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह
७.०७४.००७ हितं चायति युक्तं च प्रयतौ वक्तुमर्हथ
७.०७४.००८ श्रुता तु राघवस्यैतद्वाक्यं वाक्यविशारदः
७.०७४.००८ भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह
७.०७४.००९ त्वयि धर्मः परः साधो त्वयि सर्वा वसुंधरा
७.०७४.००९ प्रतिष्ठिता महाबाहो यशश्चामितविक्रम
७.०७४.०१० महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः
७.०७४.०१० निरीक्षन्ते महात्मानो लोकनाथं यथा वयम्
७.०७४.०११ प्रजाश्च पितृवद्राजन् पश्यन्ति त्वां महाबल
७.०७४.०११ पृथिव्यां गतिभूतोऽसि प्राणिनामपि राघव
७.०७४.०१२ स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप
७.०७४.०१२ पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते
७.०७४.०१३ पृथिव्यां ये च पुरुषा राजन् पौरुषमागताः
७.०७४.०१३ सर्वेषां भविता तत्र क्षयः सर्वान्तकोपमः
७.०७४.०१४ स त्वं पुरुषशार्दूल गुणैरतुलविक्रम
७.०७४.०१४ पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते
७.०७४.०१५ भरतस्य तु तद्वाक्यं श्रुत्वामृतमयं यथा
७.०७४.०१५ प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः
७.०७४.०१६ उवाच च शुभां वाणीं कैकेय्या नन्दिवर्धनम्
७.०७४.०१६ प्रीतोऽस्मि परितुष्टोऽस्मि तवाद्य वचनेन हि
७.०७४.०१७ इदं वचनमक्लीबं त्वया धर्मसमाहितम्
७.०७४.०१७ व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम्
७.०७४.०१८ एष तस्मादभिप्रायाद्राजसूयात्क्रतूत्तमान्
७.०७४.०१८ निवर्तयामि धर्मज्ञ तव सुव्याहृतेन वै
७.०७४.०१९ प्रजानां पालनं धर्मो राज्ञां यज्ञेन संमितः
७.०७४.०१९ तस्माच्छृणोमि ते वाक्यं साधूक्तं सुसमाहितम्
७.०७५.००१ तथोक्तवति रामे तु भरते च महात्मनि
७.०७५.००१ लक्ष्मणोऽपि शुभं वाक्यमुवाच रघुनन्दनम्
७.०७५.००२ अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम्
७.०७५.००२ पावनस्तव दुर्धर्षो रोचतां क्रतुपुंगवः
७.०७५.००३ श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि
७.०७५.००३ ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः
७.०७५.००४ पुरा किल महाबाहो देवासुरसमागमे
७.०७५.००४ वृत्रो नाम महानासीद्दैतेयो लोकसंमतः
७.०७५.००५ विस्तीर्णा योजनशतमुच्छ्रितस्त्रिगुणं ततः
७.०७५.००५ अनुरागेण लोकांस्त्रीन् स्नेहात्पश्यति सर्वतः
७.०७५.००६ धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः
७.०७५.००६ शशास पृथिवीं सर्वां धर्मेण सुसमाहितः
७.०७५.००७ तस्मिन् प्रशासति तदा सर्वकामदुघा मही
७.०७५.००७ रसवन्ति प्रसूतानि मूलानि च फलानि च
७.०७५.००८ अकृष्टपच्या पृथिवी सुसंपन्ना महात्मनः
७.०७५.००८ स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम्
७.०७५.००९ तस्य बुद्धिः समुत्पन्ना तपः कुर्यामनुत्तमम्
७.०७५.००९ तपो हि परमं श्रेयस्तपो हि परमं सुखम्
७.०७५.०१० स निक्षिप्य सुतं ज्येष्ठं पौरेषु परमेश्वरम्
७.०७५.०१० तप उग्रमुपातिष्ठत्तापयन् सर्वदेवताः
७.०७५.०११ तपस्तप्यति वृत्रे तु वासवः परमार्तवत्
७.०७५.०११ विष्णुं समुपसंक्रम्य वाक्यमेतदुवाच ह
७.०७५.०१२ तपस्यता महाबाहो लोका वृत्रेण निर्जिताः
७.०७५.०१२ बलवान् स हि धर्मात्मा नैनं शक्ष्यामि बाधितुम्
७.०७५.०१३ यद्यसौ तप आतिष्ठेद्भूय एव सुरेश्वर
७.०७५.०१३ यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः
७.०७५.०१४ त्वं चैनं परमोदारमुपेक्षसि महाबल
७.०७५.०१४ क्षणं हि न भवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर
७.०७५.०१५ यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः
७.०७५.०१५ तदा प्रभृति लोकानां नाथत्वमुपलब्धवान्
७.०७५.०१६ स त्वं प्रसादं लोकानां कुरुष्व सुमहायशः
७.०७५.०१६ त्वत्कृतेन हि सर्वं स्यात्प्रशान्तमजरं जगत्
७.०७५.०१७ इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः
७.०७५.०१७ वृत्रघतेन महता एषां साह्यं कुरुष्व ह
७.०७५.०१८ त्वया हि नित्यशः साह्यं कृतमेषां महात्मनाम्
७.०७५.०१८ असह्यमिदमन्येषामगतीनां गतिर्भवान्
७.०७६.००१ लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः
७.०७६.००१ वृत्रघातमशेषेण कथयेत्याह लक्ष्मणम्
७.०७६.००२ राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः
७.०७६.००२ भूय एव कथां दिव्यां कथयामास लक्ष्मणः
७.०७६.००३ सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम्
७.०७६.००३ विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान्
७.०७६.००४ पूर्वं सौहृदबद्धोऽस्मि वृत्रस्य सुमहात्मनः
७.०७६.००४ तेन युष्मत्प्रियार्थं वै नाहं हन्मि महासुरम्
७.०७६.००५ अवश्यं करणीयं च भवतां सुखमुत्तमम्
७.०७६.००५ तस्मादुपायमाख्यास्ये येन वृत्रं हनिष्यथ
७.०७६.००६ त्रिधा भूतं करिष्येऽहमात्मानं सुरसत्तमाः
७.०७६.००६ तेन वृत्रं सहस्राक्षो हनिष्यति न संशयः
७.०७६.००७ एकोऽंशो वासवं यातु द्वितीयो वज्रमेव तु
७.०७६.००७ तृतीयो भूतलं शक्रस्ततो वृत्रं हनिष्यति
७.०७६.००८ तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन्
७.०७६.००८ एवमेतन्न संदेहो यथा वदसि दैत्यहन्
७.०७६.००९ भद्रं तेऽस्तु गमिष्यामो वृत्रासुरवधैषिणः
७.०७६.००९ भजस्व परमोदारवासवं स्वेन तेजसा
७.०७६.०१० ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः
७.०७६.०१० तदरण्यमुपाक्रामन् यत्र वृत्रो महासुरः
७.०७६.०११ तेऽपश्यंस्तेजसा भूतं तपन्तमसुरोत्तमम्
७.०७६.०११ पिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम्
७.०७६.०१२ दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन्
७.०७६.०१२ कथमेनं वधिष्यामः कथं न स्यात्पराजयः
७.०७६.०१३ तेषां चिन्तयतां तत्र सहस्राक्षः पुरंदरः
७.०७६.०१३ वज्रं प्रगृह्य बाहुभ्यां प्रहिणोद्वृत्रमूर्धनि
७.०७६.०१४ कालाग्निनेव घोरेण दीप्तेनेव महार्चिषा
७.०७६.०१४ प्रतप्तं वृत्रशिरसि जगत्त्रासमुपागमत्
७.०७६.०१५ असंभाव्यं वधं तस्य वृत्रस्य विबुधाधिपः
७.०७६.०१५ चिन्तयानो जगामाशु लोकस्यान्तं महायशाः
७.०७६.०१६ तमिन्द्रं ब्रह्महत्याशु गच्छन्तमनुगच्छति
७.०७६.०१६ अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत्
७.०७६.०१७ हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः
७.०७६.०१७ विष्णुं त्रिभुवणश्रेष्ठं मुहुर्मुहुरपूजयन्
७.०७६.०१८ त्वं गतिः परमा देव पूर्वजो जगतः प्रभुः
७.०७६.०१८ रथार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान्
७.०७६.०१९ हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम्
७.०७६.०१९ बाधते सुरशार्दूल मोक्षं तस्य विनिर्दिश
७.०७६.०२० तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत्
७.०७६.०२० मामेव यजतां शक्रः पावयिष्यामि वज्रिणम्
७.०७६.०२१ पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः
७.०७६.०२१ पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः
७.०७६.०२२ एवं संदिश्य देवानां तां वाणीममृतोपमा
७.०७६.०२२ जगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम्
७.०७७.००१ तथा वृत्रवधं सर्वमखिलेन स लक्ष्मणः
७.०७७.००१ कथयित्वा नरश्रेष्ठः कथाशेषमुपाक्रमत्
७.०७७.००२ ततो हते महावीर्ये वृत्रे देवभयंकरे
७.०७७.००२ ब्रह्महत्यावृतः शक्रः संज्ञां लेभे न वृत्रहा
७.०७७.००३ सोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः
७.०७७.००३ कालं तत्रावसत्कं चिद्वेष्टमानो यथोरगः
७.०७७.००४ अथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत्
७.०७७.००४ भूमिश्च ध्वस्तसंकाशा निःस्नेहा शुष्ककानना
७.०७७.००५ निःस्रोतसश्चाम्बुवाहा ह्रदाश्च सरितस्तथा
७.०७७.००५ संक्षोभश्चैव सत्त्वानामनावृष्टिकृतोऽभवत्
७.०७७.००६ क्षीयमाणे तु लोकेऽस्मिन् संभ्रान्तमनसः सुराः
७.०७७.००६ यदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन्
७.०७७.००७ ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः
७.०७७.००७ तं देशं सहिता जग्मुर्यत्रेन्द्रो भयमोहितः
७.०७७.००८ ते तु दृष्ट्वा सहस्राक्षं मोहितं ब्रह्महत्यया
७.०७७.००८ तं पुरस्कृत्य देवेशमश्वमेधं प्रचक्रिरे
७.०७७.००९ ततोऽश्वमेधः सुमहान्महेन्द्रस्य महात्मनः
७.०७७.००९ ववृधे ब्रह्महत्यायाः पावनार्थं नरेश्वर
७.०७७.०१० ततो यज्ञसमाप्तौ तु ब्रह्महत्या महात्मनः
७.०७७.०१० अभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ
७.०७७.०११ ते तामूचुस्ततो देवास्तुष्टाः प्रीतिसमन्विताः
७.०७७.०११ चतुर्धा विभजात्मानमात्मनैव दुरासदे
७.०७७.०१२ देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम्
७.०७७.०१२ संनिधौ स्थानमन्यत्र वरयामास दुर्वसा
७.०७७.०१३ एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै
७.०७७.०१३ द्वितीयेन तु वृक्षेषु सत्यमेतद्ब्रवीमि वः
७.०७७.०१४ योऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु
७.०७७.०१४ त्रिरात्रं दर्पपर्णासु वसिष्ये दर्पघातिनी
७.०७७.०१५ हन्तारो ब्राह्मणान् ये तु प्रेक्षापूर्वमदूषकान्
७.०७७.०१५ तांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः
७.०७७.०१६ प्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे
७.०७७.०१६ तथा भवतु तत्सर्वं साधयस्व यथेप्सितम्
७.०७७.०१७ ततः प्रीत्यान्विता देवाः सहस्राक्षं ववन्दिरे
७.०७७.०१७ विज्वरः पूतपाप्मा च वासवः समपद्यत
७.०७७.०१८ प्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठते
७.०७७.०१८ यज्ञं चाद्भुतसंकाशं तदा शक्रोऽभ्यपूजयत्
७.०७७.०१९ ईदृशो ह्यश्वमेधस्य प्रभावो रघुनन्दन
७.०७७.०१९ यजस्व सुमहाभाग हयमेधेन पार्थिव
७.०७८.००१ तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः
७.०७८.००१ प्रत्युवाच महातेजाः प्रहसन् राघवो वचः
७.०७८.००२ एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण
७.०७८.००२ वृत्रघातमशेषेण वाजिमेधफलं च यत्
७.०७८.००३ श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः
७.०७८.००३ पुत्रो बाह्लीश्वरः श्रीमानिलो नाम सुधार्मिकः
७.०७८.००४ स राजा पृथिवीं सर्वां वशे कृत्वा महायशाः
७.०७८.००४ राज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत्
७.०७८.००५ सुरैश्च परमोदारैर्दैतेयैश्च महासुरैः
७.०७८.००५ नागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः
७.०७८.००६ पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन
७.०७८.००६ अबिभ्यंश्च त्रयो लोकाः सरोषस्य महात्मनः
७.०७८.००७ स राजा तादृशो ह्यासीद्धर्मे वीर्ये च निष्ठितः
७.०७८.००७ बुद्ध्या च परमोदारो बाह्लीकानां महायशाः
७.०७८.००८ स प्रचक्रे महाबाहुर्मृगयां रुचिरे वने
७.०७८.००८ चैत्रे मनोरमे मासि सभृत्यबलवाहनः
७.०७८.००९ प्रजघ्ने स नृपोऽरण्ये मृगाञ्शतसहस्रशः
७.०७८.००९ हत्वैव तृप्तिर्नाभूच्च राज्ञस्तस्य महात्मनः
७.०७८.०१० नानामृगाणामयुतं वध्यमानं महात्मना
७.०७८.०१० यत्र जातो महासेनस्तं देशमुपचक्रमे
७.०७८.०११ तस्मिंस्तु देवदेवेशः शैलराजसुतां हरः
७.०७८.०११ रमयामास दुर्धर्षैः सर्वैरनुचरैः सह
७.०७८.०१२ कृत्वा स्त्रीभूतमात्मानमुमेशो गोपतिध्वजः
७.०७८.०१२ देव्याः प्रियचिकीर्षुः स तस्मिन् पर्वतनिर्झरे
७.०७८.०१३ ये च तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः
७.०७८.०१३ यच्च किं चन तत्सर्वं नारीसंज्ञं बभूव ह
७.०७८.०१४ एतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः
७.०७८.०१४ निघ्नन्मृगसहस्राणि तं देशमुपचक्रमे
७.०७८.०१५ स दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षिणम्
७.०७८.०१५ आत्मानं सानुगं चैव स्त्रीभूतं रघुनन्दन
७.०७८.०१६ तस्य दुःखं महत्त्वासीद्दृष्ट्वात्मानं तथा गतम्
७.०७८.०१६ उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत्
७.०७८.०१७ ततो देवं महात्मानं शितिकण्ठं कपर्दिनम्
७.०७८.०१७ जगाम शरणं राजा सभृत्यबलवाहनः
७.०७८.०१८ ततः प्रहस्य वरदः सह देव्या महायशाः
७.०७८.०१८ प्रजापतिसुतं वाक्यमुवाच वरदः स्वयम्
७.०७८.०१९ उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल
७.०७८.०१९ पुरुषत्वमृते सौम्य वरं वरय सुव्रत
७.०७८.०२० ततः स राजा शोकार्ताः प्रत्याख्यातो महात्मना
७.०७८.०२० न स जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात्
७.०७८.०२१ ततः शोकेन महता शैलराजसुतां नृपः
७.०७८.०२१ प्रणिपत्य महादेवीं सर्वेणैवान्तरात्मना
७.०७८.०२२ ईशे वराणां वरदे लोकानामसि भामिनि
७.०७८.०२२ अमोघदर्शने देवि भजे सौम्ये नमोऽस्तु ते
७.०७८.०२३ हृद्गतं तस्य राजर्षेर्विज्ञाय हरसंनिधौ
७.०७८.०२३ प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता
७.०७८.०२४ अर्धस्य देवो वरदो वरार्धस्य तथा ह्यहम्
७.०७८.०२४ तस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि
७.०७८.०२५ तदद्भुततमं श्रुत्वा देव्या वरमनुत्तमम्
७.०७८.०२५ संप्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत्
७.०७८.०२६ यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि
७.०७८.०२६ मासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः
७.०७८.०२७ ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना
७.०७८.०२७ प्रत्युवाच शुभं वाक्यमेवमेतद्भविष्यति
७.०७८.०२८ राजन् पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि
७.०७८.०२८ स्त्रीभूतश्चापरं मासं न स्मरिष्यसि पौरुषम्
७.०७८.०२९ एवं स राजा पुरुषो मामं भूत्वाथ कार्दमिः
७.०७८.०२९ त्रैलोक्यसुन्दरी नारी मासमेकमिलाभवत्
७.०७९.००१ तां कथामिलसंबद्धां रामेण समुदीरिताम्
७.०७९.००१ लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ
७.०७९.००२ तौ रामं प्राञ्जलीभूत्वा तस्य राज्ञो महात्मनः
७.०७९.००२ विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः
७.०७९.००३ कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिम्
७.०७९.००३ पुरुषो वा यदा भूतः कां वृत्तिं वर्तयत्यसौ
७.०७९.००४ तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम्
७.०७९.००४ कथयामास काकुत्ष्ठस्तस्य राज्ञो यथा गतम्
७.०७९.००५ तमेव प्रथमं मासं स्त्रीभूत्वा लोकसुन्दरी
७.०७९.००५ ताभिः परिवृता स्त्रीभिर्येऽस्य पूर्वं पदानुगाः
७.०७९.००६ तत्काननं विगाह्याशु विजह्रे लोकसुन्दरी
७.०७९.००६ द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा
७.०७९.००७ वाहनानि च सर्वाणि संत्यक्त्वा वै समन्ततः
७.०७९.००७ पर्वताभोगविवरे तस्मिन् रेमे इला तदा
७.०७९.००८ अथ तस्मिन् वनोद्देशे पर्वतस्याविदूरतः
७.०७९.००८ सरः सुरुचिरप्रख्यं नानापक्षिगणायुतम्
७.०७९.००९ ददर्श सा इला तस्मिन् बुधं सोमसुतं तदा
७.०७९.००९ ज्वलन्तं स्वेन वपुषा पूर्णं सोममिवोदितम्
७.०७९.०१० तपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम्
७.०७९.०१० यशक्सरं कामगमं तारुण्ये पर्यवस्थितम्
७.०७९.०११ सा तं जलाशयं सर्वं क्षोभयामास विस्मिता
७.०७९.०११ सह तैः पूर पुरुषैः स्त्रीभूतै रघुनन्दन
७.०७९.०१२ बुधस्तु तां निरीक्ष्यैव कामबाणाभिपीडितः
७.०७९.०१२ नोपलेभे तदात्मानं चचाल च तदाम्भसि
७.०७९.०१३ इलां निरीक्षमाणः स त्रैलोक्याभ्यधिकां शुभाम्
७.०७९.०१३ चिन्तां समभ्यतिक्रामत्का न्वियं देवताधिका
७.०७९.०१४ न देवीषु न नागीषु नासुरीष्वप्सरःसु च
७.०७९.०१४ दृष्टपूर्वा मया का चिद्रूपेणैतेन शोभिता
७.०७९.०१५ सदृशीयं मम भवेद्यदि नान्यपरिग्रहा
७.०७९.०१५ इति बुद्धिं समास्थाय जलात्स्थलमुपागमत्
७.०७९.०१६ स आश्रमं समुपागम्य चतस्रः प्रमदास्ततः
७.०७९.०१६ शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे
७.०७९.०१७ स ताः पप्रच्छ धर्मात्म कस्यैषा लोकसुन्दरी
७.०७९.०१७ किमर्थमागता चेह सत्यमाख्यात माचिरम्
७.०७९.०१८ शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम्
७.०७९.०१८ श्रुत्वा तु ताः स्त्रियः सर्वा ऊचुर्मधुरया गिरा
७.०७९.०१९ अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा
७.०७९.०१९ अपतिः काननान्तेषु सहास्माभिरटत्यसौ
७.०७९.०२० तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य तु
७.०७९.०२० विद्यामावर्तनीं पुण्यामावर्तयत स द्विजः
७.०७९.०२१ सोऽर्थं विदित्वा निखिलं तस्य राज्ञो यथागतम्
७.०७९.०२१ सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुंगवः
७.०७९.०२२ अत्र किं पुरुषा भद्रा अवसञ्शैलरोधसि
७.०७९.०२२ वत्स्यथास्मिन् गिरौ यूयमवकाशो विधीयताम्
७.०७९.०२३ मूलपुत्रफलैः सर्वा वर्तयिष्यथ नित्यदा
७.०७९.०२३ स्त्रियः किम्पुरुषान्नाम भर्तॄन् समुपलप्स्यथ
७.०७९.०२४ ताः श्रुत्वा सोमपुत्रस्य वाचं किंपुरुषीकृताः
७.०७९.०२४ उपासां चक्रिरे शैलं बह्व्यस्ता बहुधा तदा
७.०८०.००१ श्रुत्वा किम्पुरुषोत्पत्तिं लक्ष्मणो भरतस्तदा
७.०८०.००१ आश्चर्यमिति चाब्रूतामुभौ रामं जनेश्वरम्
७.०८०.००२ अथ रामः कथामेतां भूय एव महायशाः
७.०८०.००२ कथयामास धर्मात्मा प्रजापतिसुतस्य वै
७.०८०.००३ सर्वास्ता विद्रुता दृष्ट्वा किंनरीरृषिसत्तमः
७.०८०.००३ उवाच रूपसंपन्नां तां स्त्रियं प्रहसन्निव
७.०८०.००४ सोमस्याहं सुदयितः सुतः सुरुचिरानने
७.०८०.००४ भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा
७.०८०.००५ तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिता
७.०८०.००५ इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम्
७.०८०.००६ अहं कामकरी सौम्य तवास्मि वशवर्तिनी
७.०८०.००६ प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु
७.०८०.००७ तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षसमन्वितः
७.०८०.००७ स वै कामी सह तया रेमे चन्द्रमसः सुतः
७.०८०.००८ बुधस्य माधवो मासस्तामिलां रुचिराननाम्
७.०८०.००८ गतो रमयतोऽत्यर्थं क्षणवत्तस्य कामिनः
७.०८०.००९ अथ मासे तु संपूर्णे पूर्णेन्दुसदृशाननः
७.०८०.००९ प्रजापतिसुतः श्रीमाञ्शयने प्रत्यबुध्यत
७.०८०.०१० सोऽपश्यत्सोमजं तत्र तप्यन्तं सलिलाशये
७.०८०.०१० ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत
७.०८०.०११ भगवन् पर्वतं दुर्गं प्रविष्टोऽस्मि सहानुगः
७.०८०.०११ न च पश्यामि तत्सैन्यं क्व नु ते मामका गताः
७.०८०.०१२ तच्छ्रुत्वा तस्य राजर्षेर्नष्टसंज्ञस्य भाषितम्
७.०८०.०१२ प्रत्युवाच शुभं वाक्यं सान्त्वयन् परया गिरा
७.०८०.०१३ अश्मवर्षेण महता भृत्यास्ते विनिपातिताः
७.०८०.०१३ त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः
७.०८०.०१४ समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः
७.०८०.०१४ फलमूलाशनो वीर वस चेह यथासुखम्
७.०८०.०१५ स राजा तेन वाक्येन प्रत्याश्वस्तो महायशाः
७.०८०.०१५ प्रत्युवाच शुभं वाक्यं दीनो भृत्यजनक्षयात्
७.०८०.०१६ त्यक्ष्याम्यहं स्वकं राज्यं नाहं भृत्यैर्विना कृतः
७.०८०.०१६ वर्तयेयं क्षणं ब्रह्मन् समनुज्ञातुमर्हसि
७.०८०.०१७ सुतो धर्मपरो ब्रह्मञ्ज्येष्ठो मम महायशाः
७.०८०.०१७ शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते
७.०८०.०१८ न हि शक्ष्याम्यहं गत्वा भृत्यदारान् सुखान्वितान्
७.०८०.०१८ प्रतिवक्तुं महातेजः किं चिदप्यशुभं वचः
७.०८०.०१९ तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम्
७.०८०.०१९ सान्त्वपूर्वमथोवाच वासस्त इह रोचताम्
७.०८०.०२० न संतापस्त्वया कार्यः कार्दमेय महाबल
७.०८०.०२० संवत्सरोषितस्येह कारयिष्यामि ते हितम्
७.०८०.०२१ तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः
७.०८०.०२१ वासाय विदधे बुद्धिं यदुक्तं ब्रह्मवादिना
७.०८०.०२२ मासं स स्त्री तदा भूत्वा रमयत्यनिशं शुभा
७.०८०.०२२ मासं पुरुषभावेन धर्मबुद्धिं चकार सः
७.०८०.०२३ ततः स नवमे मासि इला सोमसुतात्मजम्
७.०८०.०२३ जनयामास सुश्रोणी पुरूरवसमात्मजम्
७.०८०.०२४ जातमात्रं तु सुश्रोणी पितुर्हस्ते न्यवेशयत्
७.०८०.०२४ बुधस्य समवर्णाभमिलापुत्रं महाबलम्
७.०८०.०२५ बुधोऽपि पुरुषीभूतं समाश्वास्य नराधिपम्
७.०८०.०२५ कथाभी रमयामास धर्मयुक्ताभिरात्मवान्
७.०८१.००१ तथोक्तवति रामे तु तस्य जन्म तदद्भुतम्
७.०८१.००१ उवाच लक्ष्मणो भूयो भरतश्च महायशाः
७.०८१.००२ सा प्रिया सोमपुत्रस्य संवत्सरमथोषिता
७.०८१.००२ अकरोत्किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि
७.०८१.००३ तयोस्तद्वाक्यमाधुर्यं निशम्य परिपृच्छतोः
७.०८१.००३ रामः पुनरुवाचेमां प्रजापतिसुते कथाम्
७.०८१.००४ पुरुषत्वं गते शूरे बुधः परमबुद्धिमान्
७.०८१.००४ संवर्तं परमोदारमाजुहाव महायशाः
७.०८१.००५ च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम्
७.०८१.००५ प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम्
७.०८१.००६ एतान् सर्वान् समानीय वाक्यज्ञस्तत्त्वदर्शिनः
७.०८१.००६ उवाच सर्वान् सुहृदो धैर्येण सुसमाहितः
७.०८१.००७ अयं राजा महाबाहुः कर्दमस्य इलः सुतः
७.०८१.००७ जानीतैनं यथा भूतं श्रेयो ह्यस्य विधीयताम्
७.०८१.००८ तेषां संवदतामेव तमाश्रममुपागमत्
७.०८१.००८ कर्दमः सुमहातेजा द्विजैः सह महात्मभिः
७.०८१.००९ पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च
७.०८१.००९ ओंकारश्च महातेजास्तमाश्रममुपागमन्
७.०८१.०१० ते सर्वे हृष्टमनसः परस्परसमागमे
७.०८१.०१० हितैषिणो बाह्लि पतेः पृथग्वाक्यमथाब्रुवन्
७.०८१.०११ कर्दमस्त्वब्रवीद्वाक्यं सुतार्थं परमं हितम्
७.०८१.०११ द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि
७.०८१.०१२ नान्यं पश्यामि भैषज्यमन्तरेण वृषध्वजम्
७.०८१.०१२ नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः
७.०८१.०१३ तस्माद्यजामहे सर्वे पार्थिवार्थे दुरासदम्
७.०८१.०१३ कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः
७.०८१.०१३ रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति
७.०८१.०१४ संवर्तस्य तु राजर्षिः शिष्यः परपुरंजयः
७.०८१.०१४ मरुत्त इति विख्यतस्तं यज्ञं समुपाहरत्
७.०८१.०१५ ततो यज्ञो महानासीद्बुधाश्रमसमीपतः
७.०८१.०१५ रुद्रश्च परमं तोषमाजगाम महायशाः
७.०८१.०१६ अथ यज्ञसमाप्तौ तु प्रीतः परमया मुदा
७.०८१.०१६ उमापतिर्द्विजान् सर्वानुवाचेदमिलां प्रति
७.०८१.०१७ प्रीतोऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः
७.०८१.०१७ अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम्
७.०८१.०१८ तथा वदति देवेशे द्विजास्ते सुसमाहिताः
७.०८१.०१८ प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला
७.०८१.०१९ ततः प्रीतमना रुद्रः पुरुषत्वं ददौ पुनः
७.०८१.०१९ इलायै सुमहातेजा दत्त्वा चान्तरधीयत
७.०८१.०२० निवृत्ते हयमेधे तु गते चादर्शनं हरे
७.०८१.०२० यथागतं द्विजाः सर्वे अगच्छन् दीर्घदर्शिनः
७.०८१.०२१ राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम्
७.०८१.०२१ निवेशयामास पुरं प्रतिष्ठानं यशस्करम्
७.०८१.०२२ शशबिन्दुस्तु राजासीद्बाह्ल्यां परपुरंजयः
७.०८१.०२२ प्रतिष्ठान इलो राजा प्रजापतिसुतो बली
७.०८१.०२३ स काले प्राप्तवांल्लोकमिलो ब्राह्ममनुत्तमम्
७.०८१.०२३ ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान्
७.०८१.०२४ ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ
७.०८१.०२४ स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम्
७.०८२.००१ एतदाख्याय काकुत्स्थो भ्रातृह्याममितप्रभः
७.०८२.००१ लक्ष्मणं पुनारेवाह धर्मयुक्तमिदं वचः
७.०८२.००२ वसिष्ठं वामदेवं च जाबालिमथ कश्यपम्
७.०८२.००२ द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान्
७.०८२.००३ एतान् सर्वान् समाहूय मन्त्रयित्वा च लक्ष्मण
७.०८२.००३ हयं लक्ष्मणसंपन्नं विमोक्ष्यामि समाधिना
७.०८२.००४ तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः
७.०८२.००४ द्विजान् सर्वान् समाहूय दर्शयामास राघवम्
७.०८२.००५ ते दृष्ट्वा देवसंकाशं कृतपादाभिवन्दनम्
७.०८२.००५ राघवं सुदुराधर्षमाशीर्भिः समपूजयन्
७.०८२.००६ प्राञ्जलिस्तु ततो भूत्वा राघवो द्विजसात्तमान्
७.०८२.००६ उवाच धर्मसंयुक्तमश्वमेधाश्रितं वचः
७.०८२.००७ स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम्
७.०८२.००७ अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतोऽभवत्तदा
७.०८२.००८ विज्ञाय तु मतं तेषां रामो लक्ष्मणमब्रवीत्
७.०८२.००८ प्रेषयस्व महाबाहो सुग्रीवाय महात्मने
७.०८२.००९ शीघ्रं महद्भिर्हरिभिर्बहिभिश्च तदाश्रयैः
७.०८२.००९ सार्धमागच्छ भद्रं ते अनुभोक्तुं मखोत्तमम्
७.०८२.०१० विभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः
७.०८२.०१० अश्वमेधं महाबाहुः प्राप्नोतु लघुविक्रमः
७.०८२.०११ राजानश्च नरव्याघ्र ये मे प्रियचिकीर्षवः
७.०८२.०११ सानुगाः क्षिप्रमायान्तु यज्ञभूमिमनुत्तमाम्
७.०८२.०१२ देशान्तरगता ये च द्विजा धर्मपरायणाः
७.०८२.०१२ निमन्त्रयस्व तान् सर्वानश्वमेधाय लक्ष्मण
७.०८२.०१३ ऋषयश्चा महाबाहो आहूयन्तां तपोधनाः
७.०८२.०१३ देशान्तरगता ये च सदाराश्च महर्षयः
७.०८२.०१४ यज्ञवाटश्च सुमहान् गोमत्या नैमिषे वने
७.०८२.०१४ आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम्
७.०८२.०१५ शतं वाहसहस्राणां तण्डुलानां वपुष्मताम्
७.०८२.०१५ अयुतं तिलमुद्गस्य प्रयात्वग्रे महाबल
७.०८२.०१६ सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः
७.०८२.०१६ अग्रतो भरतः कृत्वा गच्छत्वग्रे महामतिः
७.०८२.०१७ अन्तरापणवीथ्यश्च सर्वांश्च नटनर्तकान्
७.०८२.०१७ नैगमान् बालवृद्धांश्च द्विजांश्च सुसमाहितान्
७.०८२.०१८ कर्मान्तिकांश्च कुशलाञ्शिल्पिनश्च सुपण्डितान्
७.०८२.०१८ मातरश्चैव मे सर्वाः कुमारान्तःपुराणि च
७.०८२.०१९ काञ्चनीं मम पत्नीं च दीक्षार्हां यज्ञकर्मणि
७.०८२.०१९ अग्रतो भरतः कृत्वा गच्छत्वग्रे महामतिः
७.०८३.००१ तत्सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः
७.०८३.००१ हयं लक्ष्मणसंपन्नं कृष्णसारं मुमोच ह
७.०८३.००२ ऋत्विग्भिर्लक्ष्मणं सार्धमश्वे च विनियुज्य सः
७.०८३.००२ ततोऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिषम्
७.०८३.००३ यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम्
७.०८३.००३ प्रहर्षमतुलं लेभे श्रीमानिति च सोऽब्रवीत्
७.०८३.००४ नैमिषे वसतस्तस्य सर्व एव नराधिपाः
७.०८३.००४ आजग्मुः सर्वराष्ट्रेभ्यस्तान् रामः प्रत्यपूजयत्
७.०८३.००५ उपकार्यान्महार्हांश्च पार्थिवानां महात्मनाम्
७.०८३.००५ सानुगानां नरश्रेष्ठो व्यादिदेश महाद्युतिः
७.०८३.००६ अन्नपानानि वस्त्राणि सानुगानां महात्मनाम्
७.०८३.००६ भरतः संददावाशु शत्रुघ्नसहितस्तदा
७.०८३.००७ वानराश्च महात्मानः सुग्रीवसहितास्तदा
७.०८३.००७ विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम्
७.०८३.००८ विभीषणश्च रक्षोभिः स्रग्विभिर्बहुभिर्वृतः
७.०८३.००८ ऋषीणामुग्रतपसां किंकरः पर्युपस्थितः
७.०८३.००९ एवं सुविहितो यज्ञो हयमेधोऽभ्यवर्तत
७.०८३.००९ लक्ष्मणेनाभिगुप्ता च हयचर्या प्रवर्तिता
७.०८३.०१० नान्यः शब्दोऽभवत्तत्र हयमेधे महात्मनः
७.०८३.०१० छन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाः
७.०८३.०१० तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत
७.०८३.०११ न कश्चिन्मलिनस्तत्र दीनो वाप्यथ वा कृशः
७.०८३.०११ तस्मिन् यज्ञवरे राज्ञो हृष्टपुष्टजनावृते
७.०८३.०१२ ये च तत्र महात्मानो मुनयश्चिरजीविनः
७.०८३.०१२ नास्मरंस्तादृशं यज्ञं दानौघसमलंकृतम्
७.०८३.०१३ रजतानां सुवर्णानां रत्नानामथ वाससाम्
७.०८३.०१३ अनिशं दीयमानानां नान्तः समुपदृश्यते
७.०८३.०१४ न शक्रस्य न सोमस्य यमस्य वरुणस्य वा
७.०८३.०१४ ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः
७.०८३.०१५ सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः
७.०८३.०१५ वासो धनानि कामिभ्यः पूर्णहस्ता ददुर्भृशम्
७.०८३.०१६ ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः
७.०८३.०१६ संवत्सरमथो साग्रं वर्तते न च हीयते
७.०८४.००१ वर्तमाने तथाभूते यज्ञे परमकेऽद्भुते
७.०८४.००१ सशिष्य आजगामाशु वाल्मीकिर्मुनिपुंगवः
७.०८४.००२ स दृष्ट्वा दिव्यसंकाशं यज्ञमद्भुतदर्शनम्
७.०८४.००२ एकान्ते ऋषिवाटानां चकार उटजाञ्शुभान्
७.०८४.००३ स शिष्यावब्रवीद्धृष्टो युवां गत्वा समाहितौ
७.०८४.००३ कृत्स्नं रामायणं काव्यं गायतां परया मुदा
७.०८४.००४ ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च
७.०८४.००४ रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च
७.०८४.००५ रामस्य भवनद्वारि यत्र कर्म च वर्तते
७.०८४.००५ ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः
७.०८४.००६ इमानि च फलान्यत्र स्वादूनि विविधानि च
७.०८४.००६ जातानि पर्वताग्रेषु आस्वाद्यास्वाद्य गीयताम्
७.०८४.००७ न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै
७.०८४.००७ मूलानि च सुमृष्टानि नगरात्परिहास्यथ
७.०८४.००८ यदि शब्दापयेद्रामः श्रवणाय महीपतिः
७.०८४.००८ ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम्
७.०८४.००९ दिवसे विंशतिः सर्गा गेया वै परया मुदा
७.०८४.००९ प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टं मया पुरा
७.०८४.०१० लोभश्चापि न कर्तव्यः स्वल्पोऽपि धनकाङ्क्षया
७.०८४.०१० किं धनेनाश्रमस्थानां फलमूलोपभोगिनाम्
७.०८४.०११ यदि पृच्छेत्स काकुत्स्थो युवां कस्येति दारकौ
७.०८४.०११ वाल्मीकेरथ शिष्यौ हि ब्रूतामेवं नराधिपम्
७.०८४.०१२ इमास्तन्त्रीः सुमधुराः स्थानं वा पूर्वदर्शितम्
७.०८४.०१२ मूर्छयित्वा सुमधुरं गायेतां विगतज्वरौ
७.०८४.०१३ आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम्
७.०८४.०१३ पिता हि सर्वभूतानां राजा भवति धर्मतः
७.०८४.०१४ तद्युवां हृष्टमनसौ श्वः प्रभाते समाधिना
७.०८४.०१४ गायेतां मधुरं गेयं तन्त्रीलयसमन्वितम्
७.०८४.०१५ इति संदिश्य बहुशो मुनिः प्राचेतसस्तदा
७.०८४.०१५ वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः
७.०८४.०१६ तामद्भुतां तौ हृदये कुमारौ॑ निवेश्य वाणीमृषिभाषितां शुभाम्
७.०८४.०१६ समुत्सुकौ तौ सुखमूषतुर्निशां॑ यथाश्विनौ भार्गवनीतिसंस्कृतौ
७.०८५.००१ तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ
७.०८५.००१ यथोक्तमृषिणा पूर्वं तत्र तत्राभ्यगायताम्
७.०८५.००२ तां स शुश्राव काकुत्स्थः पूर्वचर्यां ततस्ततः
७.०८५.००२ अपूर्वां पाठ्य जातिं च गेयेन समलंकृताम्
७.०८५.००३ प्रमाणैर्बहुभिर्बद्धां तन्त्रीलयसमन्विताम्
७.०८५.००३ बालाभ्यां राघवः श्रुत्वा कौतूहलपरोऽभवत्
७.०८५.००४ अथ कर्मान्तरे राजा समानीय महामुनीन्
७.०८५.००४ पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा
७.०८५.००५ पौराणिकाञ्शब्दवितो ये च वृद्धा द्विजातयः
७.०८५.००५ एतान् सर्वान् समानीय गातारौ समवेशयत्
७.०८५.००६ हृष्टा ऋषिगणास्तत्र पार्थिवाश्च महौजसः
७.०८५.००६ पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ
७.०८५.००७ परस्परमथोचुस्ते सर्व एव समं ततः
७.०८५.००७ उभौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोद्धृतौ
७.०८५.००८ जटिलौ यदि न स्यातां न वल्कलधरौ यदि
७.०८५.००८ विशेषं नाधिगच्छामो गायतो राघवस्य च
७.०८५.००९ तेषां संवदतामेवं श्रोतॄणां हर्षवर्धनम्
७.०८५.००९ गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ
७.०८५.०१० ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम्
७.०८५.०१० न च तृप्तिं ययुः सर्वे श्रोतारो गेय संपदा
७.०८५.०११ प्रवृत्तमादितः पूर्वं सर्गान्नारददर्शनात्
७.०८५.०११ ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम्
७.०८५.०१२ ततोऽपराह्णसमये राघवः समभाषत
७.०८५.०१२ श्रुत्वा विंशतिसर्गांस्तान् भरतं भ्रातृवत्सलः
७.०८५.०१३ अष्टादश सहस्राणि सुवर्णस्य महात्मनोः
७.०८५.०१३ ददस्व शीघ्रं काकुत्स्थ बालयोर्मा वृथा श्रमः
७.०८५.०१४ दीयमानं सुवर्णं तन्नागृह्णीतां कुशीलवौ
७.०८५.०१४ ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ
७.०८५.०१५ वन्येन फलमूलेन निरतु स्वो वनौकसौ
७.०८५.०१५ सुवर्णेन हिरण्येन किं करिष्यावहे वने
७.०८५.०१६ तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः
७.०८५.०१६ श्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः
७.०८५.०१७ तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः
७.०८५.०१७ पप्रच्छ तौ महातेजास्तावुभौ मुनिदारकौ
७.०८५.०१८ किंप्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः
७.०८५.०१८ कर्ता काव्यस्य महतः को वासौ मुनिपुंगवः
७.०८५.०१९ पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ
७.०८५.०१९ वाल्मीकिर्भगवान् कर्ता संप्राप्तो यज्ञसंनिधिम्
७.०८५.०१९ येनेदं चरितं तुभ्यमशेषं संप्रदर्शितम्
७.०८५.०२० आदिप्रभृति राजेन्द्र पञ्चसर्ग शतानि च
७.०८५.०२० प्रतिष्ठा जीवितं यावत्तावद्राजञ्शुभाशुभम्
७.०८५.०२१ यदि बुद्धिः कृता राजञ्श्रवणाय महारथ
७.०८५.०२१ कर्मान्तरे क्षणी हूतस्तच्छृणुष्व सहानुजः
७.०८५.०२२ बाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम्
७.०८५.०२२ प्रहृष्टौ जग्मतुर्वासं यत्रासौ मुनिपुंगवः
७.०८५.०२३ रामोऽपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः
७.०८५.०२३ श्रुत्वा तद्गीतमाधुर्यं कर्मशालामुपागमत्
७.०८६.००१ रामो बहून्यहान्येव तद्गीतं परमाद्भुतम्
७.०८६.००१ शुश्राव मुनिभिः सार्धं राजभिः सह वानरैः
७.०८६.००२ तस्मिन् गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ
७.०८६.००२ तस्याः परिषदो मध्ये रामो वचनमब्रवीत्
७.०८६.००३ मद्वचो ब्रूत गच्छध्वमिति भगवतोऽन्तिकम्
७.०८६.००४ यदि शुद्धसमाचारा यदि वा वीतकल्मषा
७.०८६.००४ करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम्
७.०८६.००५ छन्दं मुनेस्तु विज्ञाय सीतायाश्च मनोगतम्
७.०८६.००५ प्रत्ययं दातुकामायास्ततः शंसत मे लघु
७.०८६.००६ श्वः प्रभाते तु शपथं मैथिली जनकात्मजा
७.०८६.००६ करोतु परिषन्मध्ये शोधनार्थं ममेह च
७.०८६.००७ श्रुत्वा तु राघवस्यैतद्वचः परममद्भुतम्
७.०८६.००७ दूताः संप्रययुर्वाटं यत्रास्ते मुनिपुंगवः
७.०८६.००८ ते प्रणम्य महात्मानं ज्वलन्तममितप्रभम्
७.०८६.००८ ऊचुस्ते राम वाक्यानि मृदूनि मधुराणि च
७.०८६.००९ तेषां तद्भाषितं श्रुत्वा रामस्य च मनोगतम्
७.०८६.००९ विज्ञाय सुमहातेजा मुनिर्वाक्यमथाब्रवीत्
७.०८६.०१० एवं भवतु भद्रं वो यथा तुष्यति राघवः
७.०८६.०१० तथा करिष्यते सीता दैवतं हि पतिः स्त्रियाः
७.०८६.०११ तथोक्ता मुनिना सर्वे रामदूता महौजसः
७.०८६.०११ प्रत्येत्य राघवं सर्वे मुनिवाक्यं बभाषिरे
७.०८६.०१२ ततः प्रहृष्टः काकुत्स्थः श्रुत्वा वाक्यं महात्मनः
७.०८६.०१२ ऋषींस्तत्र समेतांश्च राज्ञश्चैवाभ्यभाषत
७.०८६.०१३ भगवन्तः सशिष्या वै सानुगश्च नराधिपाः
७.०८६.०१३ पश्यन्तु सीताशपथं यश्चैवान्योऽभिकाङ्क्षते
७.०८६.०१४ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः
७.०८६.०१४ सर्वेषमृषिमुख्यानां साधुवादो महानभूत्
७.०८६.०१५ राजानश्च महात्मानः प्रशंसन्ति स्म राघवम्
७.०८६.०१५ उपपन्नं नरश्रेष्ठ त्वय्येव भुवि नान्यतः
७.०८६.०१६ एवं विनिश्चयं कृत्वा श्वोभूत इति राघवः
७.०८६.०१६ विसर्जयामास तदा सर्वांस्ताञ्शत्रुसूदनः
७.०८७.००१ तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः
७.०८७.००१ ऋषीन् सर्वान्महातेजाः शब्दापयति राघवः
७.०८७.००२ वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः
७.०८७.००२ विश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः
७.०८७.००३ अगस्त्योऽथ तथाशक्तिर्भार्गवश्चैव वामनः
७.०८७.००३ मार्कण्डेयश्च दीर्घायुर्मौद्गल्यश्च महातपाः
७.०८७.००४ भार्गवश्च्यवनश्चैव शतानन्दश्च धर्मवित्
७.०८७.००४ भरद्वाजश्च तेजस्वी अग्निपुत्रश्च सुप्रभः
७.०८७.००५ एते चान्ये च मुनयो बहवः संशितव्रताः
७.०८७.००५ राजानश्च नरव्याघ्राः सर्व एव समागताः
७.०८७.००६ राक्षसाश्च महावीर्या वानराश्च महाबलाः
७.०८७.००६ समाजग्मुर्महात्मानः सर्व एव कुतूहलात्
७.०८७.००७ क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव सहस्रशः
७.०८७.००७ सीताशपथवीक्षार्थं सर्व एव समागताः
७.०८७.००८ तथा समागतं सर्वमश्वभूतमिवाचलम्
७.०८७.००८ श्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत्
७.०८७.००९ तमृषिं पृष्ठतः सीता सान्वगच्छदवाङ्मुखी
७.०८७.००९ कृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम्
७.०८७.०१० तां दृष्ट्वा श्रीमिवायान्तीं ब्रह्माणमनुगामिनीम्
७.०८७.०१० वाल्मीकेः पृष्ठतः सीतां साधुकारो महानभूत्
७.०८७.०११ ततो हलहला शब्दः सर्वेषामेवमाबभौ
७.०८७.०११ दुःखजेन विशालेन शोकेनाकुलितात्मनाम्
७.०८७.०१२ साधु सीतेति के चित्तु साधु रामेति चापरे
७.०८७.०१२ उभावेव तु तत्रान्ये साधु साध्विति चाब्रुवन्
७.०८७.०१३ ततो मध्यं जनौघानां प्रविश्य मुनिपुंगवः
७.०८७.०१३ सीतासहायो वाल्मीकिरिति होवाच राघवम्
७.०८७.०१४ इयं दाशरथे सीता सुव्रता धर्मचारिणी
७.०८७.०१४ अपापा ते परित्यक्ता ममाश्रमसमीपतः
७.०८७.०१५ लोकापवादभीतस्य तव राम महाव्रत
७.०८७.०१५ प्रत्ययं दास्यते सीता तामनुज्ञातुमर्हसि
७.०८७.०१६ इमौ च जानकी पुत्रावुभौ च यमजातकौ
७.०८७.०१६ सुतौ तवैव दुर्धर्षो सत्यमेतद्ब्रवीमि ते
७.०८७.०१७ प्रचेतसोऽहं दशमः पुत्रो राघवनन्दन
७.०८७.०१७ न स्मराम्यनृतं वाक्यं तथेमौ तव पुत्रकौ
७.०८७.०१८ बहुवर्षसहस्राणि तपश्चर्या मया कृता
७.०८७.०१८ तस्याः फलमुपाश्नीयामपापा मैथिली यथा
७.०८७.०१९ अहं पञ्चसु भूतेषु मनःषष्ठेषु राघव
७.०८७.०१९ विचिन्त्य सीतां शुद्धेति न्यगृह्णां वननिर्झरे
७.०८७.०२० इयं शुद्धसमाचारा अपापा पतिदेवता
७.०८७.०२० लोकापवादभीतस्य दास्यति प्रत्ययं तव
७.०८८.००१ वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत
७.०८८.००१ प्राञ्जलिर्जगतो मध्ये दृष्ट्वा तां देववर्णिनीम्
७.०८८.००२ एवमेतन्महाभाग यथा वदसि धर्मवित्
७.०८८.००२ प्रत्ययो हि मम ब्रह्मंस्तव वाक्यैरकल्मषैः
७.०८८.००३ प्रत्ययो हि पुरा दत्तो वैदेह्या सुरसंनिधौ
७.०८८.००३ सेयं लोकभयाद्ब्रह्मन्नपापेत्यभिजानता
७.०८८.००३ परित्यक्ता मया सीता तद्भवान् क्षन्तुमर्हति
७.०८८.००४ जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ
७.०८८.००४ शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिरस्तु मे
७.०८८.००५ अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः
७.०८८.००५ पितामहं पुरस्कृत्य सर्व एव समागताः
७.०८८.००६ आदित्या वसवो रुद्रा विश्वे देशा मरुद्गणाः
७.०८८.००६ अश्विनावृषिगन्धर्वा अप्सराणां गणास्तथा
७.०८८.००६ साध्याश्च देवाः सर्वे ते सर्वे च परमर्षयः
७.०८८.००७ ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः
७.०८८.००७ तं जनौघं सुरश्रेष्ठो ह्लादयामास सर्वतः
७.०८८.००८ तदद्भुतमिवाचिन्त्यं निरीक्षन्ते समाहिताः
७.०८८.००८ मानवाः सर्वराष्ट्रेभ्यः पूर्वं कृतयुगे यथा
७.०८८.००९ सर्वान् समागतान् दृष्ट्वा सीता काषायवासिनी
७.०८८.००९ अब्रवीत्प्राञ्जलिर्वाक्यमधोदृष्टिरवान्मुखी
७.०८८.०१० यथाहं राघवादन्यं मनसापि न चिन्तये
७.०८८.०१० तथा मे माधवी देवी विवरं दातुमर्हति
७.०८८.०११ तथा शपन्त्यां वैदेह्यां प्रादुरासीत्तदद्भुतम्
७.०८८.०११ भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम्
७.०८८.०१२ ध्रियमाणं शिरोभिस्तन्नागैरमितविक्रमैः
७.०८८.०१२ दिव्यं दिव्येन वपुषा सर्वरत्नविभूषितम्
७.०८८.०१३ तस्मिंस्तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम्
७.०८८.०१३ स्वागतेनाभिनन्द्यैनामासने चोपवेषयत्
७.०८८.०१४ तामासनगतां दृष्ट्वा प्रविशन्तीं रसातलम्
७.०८८.०१४ पुण्यवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत्
७.०८८.०१५ साधुकारश्च सुमहान् देवानां सहसोत्थितः
७.०८८.०१५ साधु साध्विति वै सीते यस्यास्ते शीलमीदृशम्
७.०८८.०१६ एवं बहुविधा वाचो ह्यन्तरिक्षगताः सुराः
७.०८८.०१६ व्याजह्रुर्हृष्टमनसो दृष्ट्वा सीताप्रवेशनम्
७.०८८.०१७ यज्ञवाटगताश्चापि मुनयः सर्व एव ते
७.०८८.०१७ राजानश्च नरव्याघ्रा विस्मयान्नोपरेमिरे
७.०८८.०१८ अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः
७.०८८.०१८ दानवाश्च महाकायाः पाताले पन्नगाधिपाः
७.०८८.०१९ के चिद्विनेदुः संहृष्टाः के चिद्ध्यानपरायणाः
७.०८८.०१९ के चिद्रामं निरीक्षन्ते के चित्सीतामचेतनाः
७.०८८.०२० सीताप्रवेशनं दृष्ट्वा तेषामासीत्समागमः
७.०८८.०२० तं मुहूर्तमिवात्यर्थं सर्वं संमोहितं जगत्
७.०८९.००१ तदावसाने यज्ञस्य रामः परमदुर्मनाः
७.०८९.००१ अपश्यमानो वैदेहीं मेने शून्यमिदं जगत्
७.०८९.००१ शोकेन परमायत्तो न शान्तिं मनसागमत्
७.०८९.००२ विसृज्य पार्थिवान् सर्वानृक्षवानरराक्षसान्
७.०८९.००२ जनौघं ब्रह्ममुख्यानां वित्तपूर्णं व्यसर्जयत्
७.०८९.००३ ततो विसृज्य तान् सर्वान् रामो राजीवलोचनः
७.०८९.००३ हृदि कृत्वा तदा सीतामयोध्यां प्रविवेश सः
७.०८९.००४ न सीतायाः परां भार्यां वव्रे स रघुनन्दनः
७.०८९.००४ यज्ञे यज्ञे च पत्न्यर्थं जानकी काञ्चनी भवत्
७.०८९.००५ दशवर्षसहस्राणि वाजिमेधमुपाकरोत्
७.०८९.००५ वाजपेयान् दशगुणांस्तथा बहुसुवर्णकान्
७.०८९.००६ अग्निष्टोमातिरात्राभ्यां गोसवैश्च महाधनैः
७.०८९.००६ ईजे क्रतुभिरन्यैश्च स श्रीमानाप्तदक्षिणैः
७.०८९.००७ एवं स कालः सुमहान् राज्यस्थस्य महात्मनः
७.०८९.००७ धर्मे प्रयतमानस्य व्यतीयाद्राघवस्य तु
७.०८९.००८ ऋक्षवानररक्षांसि स्थिता रामस्य शासने
७.०८९.००८ अनुरज्यन्ति राजानो अहन्यहनि राघवम्
७.०८९.००९ काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः
७.०८९.००९ हृष्टपुष्टजनाकीर्णं पुरं जनपदस्तथा
७.०८९.०१० नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तदा
७.०८९.०१० नाधर्मश्चाभवत्कश्चिद्रामे राज्यं प्रशासति
७.०८९.०११ अथ दीर्घस्य कालस्य राममाता यशस्विनी
७.०८९.०११ पुत्रपौत्रैः परिवृता कालधर्ममुपागमत्
७.०८९.०१२ अन्वियाय सुमित्रापि कैकेयी च यशस्विनी
७.०८९.०१२ धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता
७.०८९.०१३ सर्वाः प्रतिष्ठिताः स्वर्गे राज्ञा दशरथेन च
७.०८९.०१३ समागता महाभागाः सह धर्मं च लेभिरे
७.०८९.०१४ तासां रामो महादानं काले काले प्रयच्छति
७.०८९.०१४ मातॄणामविशेषेण ब्राह्मणेषु तपस्विषु
७.०८९.०१५ पित्र्याणि बहुरत्नानि यज्ञान् परमदुस्तरान्
७.०८९.०१५ चकार रामो धर्मात्मा पितॄन् देवान् विवर्धयन्
७.०९०.००१ कस्य चित्त्वथ कालस्य युधाजित्केकयो नृपः
७.०९०.००१ स्वगुरुं प्रेषयामास राघवाय महात्मने
७.०९०.००२ गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम्
७.०९०.००२ दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम्
७.०९०.००३ कम्बलानि च रत्नानि चित्रवस्त्रमथोत्तमम्
७.०९०.००३ रामाय प्रददौ राजा बहून्याभरणानि च
७.०९०.००४ श्रुत्वा तु राघवो गार्ग्यं महर्षिं समुपागतम्
७.०९०.००४ मातुलस्याश्वपतिनः प्रियं दूतमुपागतम्
७.०९०.००५ प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुगः
७.०९०.००५ गार्ग्यं संपूजयामास धनं तत्प्रतिगृह्य च
७.०९०.००६ पृष्ट्वा च प्रीतिदं सर्वं कुशलं मातुलस्य च
७.०९०.००६ उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे
७.०९०.००७ किमाह मतुलो वाक्यं यदर्थं भगवानिह
७.०९०.००७ प्राप्तो वाक्यविदां श्रेष्ठ साक्षादिव बृहस्पतिः
७.०९०.००८ रामस्य भाषितं श्रुत्वा ब्रह्मर्षिः कार्यविस्तरम्
७.०९०.००८ वक्तुमद्भुतसंकाशं राघवायोपचक्रमे
७.०९०.००९ मातुलस्ते महाबाहो वाक्यमाह नरर्षभ
७.०९०.००९ युधाजित्प्रीतिसंयुक्तं श्रूयतां यदि रोचते
७.०९०.०१० अयं गन्धर्वविषयः फलमूलोपशोभितः
७.०९०.०१० सिन्धोरुभयतः पार्श्वे देशः परमशोभनः
७.०९०.०११ तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः
७.०९०.०११ शैलूषस्य सुता वीरास्तिस्रः कोट्यो महाबलाः
७.०९०.०१२ तान् विनिर्जित्य काकुत्स्थ गन्धर्वविषयं शुभम्
७.०९०.०१२ निवेशय महाबाहो द्वे पुरे सुसमाहितः
७.०९०.०१३ अन्यस्य न गतिस्तत्र देशश्चायं सुशोभनः
७.०९०.०१३ रोचतां ते महाबाहो नाहं त्वामनृतं वदे
७.०९०.०१४ तच्छ्रुत्वा राघवः प्रीतो मरर्षिर्मातुलस्य च
७.०९०.०१४ उवाच बाढमित्येवं भरतं चान्ववैक्षत
७.०९०.०१५ सोऽब्रवीद्राघवः प्रीतः प्राञ्जलिप्रग्रहो द्विजम्
७.०९०.०१५ इमौ कुमारौ तं देशं ब्रह्मर्षे विजयिष्यतः
७.०९०.०१६ भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च
७.०९०.०१६ मातुलेन सुगुप्तौ तौ धर्मेण च समाहितौ
७.०९०.०१७ भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ
७.०९०.०१७ निहत्य गन्धर्वसुतान् द्वे पुरे विभजिष्यतः
७.०९०.०१८ निवेश्य ते पुरवरे आत्माजौ संनिवेश्य च
७.०९०.०१८ आगमिष्यति मे भूयः सकाशमतिधार्मिकः
७.०९०.०१९ ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम्
७.०९०.०१९ आज्ञापयामास तदा कुमारौ चाभ्यषेचयत्
७.०९०.०२० नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरः सुतम्
७.०९०.०२० भरतः सह सैन्येन कुमाराभ्यां च निर्ययौ
७.०९०.०२१ सा सेना शक्रयुक्तेव नरगान्निर्ययावथ
७.०९०.०२१ राघवानुगता दूरं दुराधर्षा सुरासुरैः
७.०९०.०२२ मांसाशीनि च सत्त्वानि रक्षांसि सुमहान्ति च
७.०९०.०२२ अनुजग्मुश्च भरतं रुधिरस्य पिपासया
७.०९०.०२३ भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः
७.०९०.०२३ गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः
७.०९०.०२४ सिंहव्याघ्रसृगालानां खेचराणां च पक्षिणाम्
७.०९०.०२४ बहूनि वै सहस्राणि सेनाया ययुरग्रतः
७.०९०.०२५ अध्यर्धमासमुषिता पथि सेना निरामया
७.०९०.०२५ हृष्टपुष्टजनाकीर्णा केकयं समुपागमत्
७.०९१.००१ श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः
७.०९१.००१ युधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत्
७.०९१.००२ स निर्ययौ जनौघेन महता केकयाधिपः
७.०९१.००२ त्वरमाणोऽभिचक्राम गन्धर्वान् देवरूपिणः
७.०९१.००३ भरतश्च युधाजिच्च समेतौ लघुविक्रमौ
७.०९१.००३ गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ
७.०९१.००४ श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः
७.०९१.००४ योद्धुकामा महावीर्या विनदन्तः समन्ततः
७.०९१.००५ ततः समभवद्युद्धं तुमुलं लोमहर्षणम्
७.०९१.००५ सप्तरात्रं महाभीमं न चान्यतरयोर्जयः
७.०९१.००६ ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम्
७.०९१.००६ संवर्तं नाम भरतो गन्धर्वेष्वभ्ययोजयत्
७.०९१.००७ ते बद्धाः कालपाशेन संवर्तेन विदारिताः
७.०९१.००७ क्षणेनाभिहतास्तिस्रस्तत्र कोट्यो महात्मना
७.०९१.००८ तं घातं घोरसंकाशं न स्मरन्ति दिवौकसः
७.०९१.००८ निमेषान्तरमात्रेण तादृशानां महात्मनाम्
७.०९१.००९ हतेषु तेषु वीरेषु भरतः कैकयीसुतः
७.०९१.००९ निवेशयामास तदा समृद्धे द्वे पुरोत्तमे
७.०९१.००९ तक्षं तक्षशिलायां तु पुष्करं पुष्करावतौ
७.०९१.०१० गन्धर्वदेशो रुचिरो गान्धारविषयश्च सः
७.०९१.०१० वर्षैः पञ्चभिराकीर्णो विषयैर्नागरैस्तथा
७.०९१.०११ धनरत्नौघसंपूर्णो काननैरुपशोभिते
७.०९१.०११ अन्योन्यसंघर्षकृते स्पर्धया गुणविस्तरे
७.०९१.०१२ उभे सुरुचिरप्रख्ये व्यवहारैरकल्मषैः
७.०९१.०१२ उद्यानयानौघवृते सुविभक्तान्तरापणे
७.०९१.०१३ उभे पुरवरे रम्ये विस्तरैरुपशोभिते
७.०९१.०१३ गृहमुख्यैः सुरुचिरैर्विमानैः समवर्णिभिः
७.०९१.०१४ शोभिते शोभनीयैश्च देवायतनविस्तरैः
७.०९१.०१४ निवेश्य पञ्चभिर्वर्षैर्भरतो राघवानुजः
७.०९१.०१४ पुनरायान्महाबाहुरयोध्यां कैकयीसुतः
७.०९१.०१५ सोऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम्
७.०९१.०१५ राघवं भरतः श्रीमान् ब्रह्माणमिव वासवः
७.०९१.०१६ शशंस च यथावृत्तं गन्धर्ववधमुत्तमम्
७.०९१.०१६ निवेशनं च देशस्य श्रुत्वा प्रीतोऽस्य राघवः
७.०९२.००१ तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह
७.०९२.००१ वाक्यं चाद्भुतसंकाशं भ्रातॄन् प्रोवाच राघवः
७.०९२.००२ इमौ कुमारौ सौमित्रे तव धर्मविशारदौ
७.०९२.००२ अङ्गदश्चन्द्रकेतुश्च राज्यार्हौ दृढधन्विनौ
७.०९२.००३ इमौ राज्येऽभिषेक्ष्यामि देशः साधु विधीयताम्
७.०९२.००३ रमणीयो ह्यसंबाधो रमेतां यत्र धन्विनौ
७.०९२.००४ न राज्ञां यत्र पीदा स्यान्नाश्रमाणां विनाशनम्
७.०९२.००४ स देशो दृश्यतां सौम्य नापराध्यामहे यथा
७.०९२.००५ तथोक्तवति रामे तु भरतः प्रत्युवाच ह
७.०९२.००५ अयं कारापथो देशः सुरमण्यो निरामयः
७.०९२.००६ निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः
७.०९२.००६ चन्द्रकेतोश्च रुचिरं चन्द्रकान्तं निरामयम्
७.०९२.००७ तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः
७.०९२.००७ तं च कृता वशे देशमङ्गदस्य न्यवेशयत्
७.०९२.००८ अङ्गदीया पुरी रम्या अङ्गदस्य निवेशिता
७.०९२.००८ रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा
७.०९२.००९ चन्द्रकेतुस्तु मल्लस्य मल्लभूम्यां निवेशिता
७.०९२.००९ चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा
७.०९२.०१० ततो रामः परां प्रीतिं भरतो लक्ष्मणस्तथा
७.०९२.०१० ययुर्युधि दुराधर्षा अभिषेकं च चक्रिरे
७.०९२.०११ अभिषिच्य कुमारौ द्वौ प्रस्थाप्य सबलानुगौ
७.०९२.०११ अङ्गदं पश्चिमा भूमिं चन्द्रकेतुमुदङ्मुखम्
७.०९२.०१२ अङ्गदं चापि सौमित्रिर्लक्ष्मणोऽनुजगाम ह
७.०९२.०१२ चन्द्रकेतोस्तु भरतः पार्ष्णिग्राहो बभूव ह
७.०९२.०१३ लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः
७.०९२.०१३ पुत्रे स्थिते दुराधर्षे अयोध्यां पुनरागमत्
७.०९२.०१४ भरतोऽपि तथैवोष्य संवत्सरमथाधिकम्
७.०९२.०१४ अयोध्यां पुनरगम्य रामपादावुपागमत्
७.०९२.०१५ उभौ सौमित्रिभरतौ रामपादावनुव्रतौ
७.०९२.०१५ कालं गतमपि स्नेहान्न जज्ञातेऽतिधार्मिकौ
७.०९२.०१६ एवं वर्षसहस्राणि दशतेषां ययुस्तदा
७.०९२.०१६ धर्मे प्रयतमानानां पौरकार्येषु नित्यदा
७.०९२.०१७ विहृत्य लाकं परिपूर्णमानसाः॑ श्रिया वृता धर्मपथे परे स्थिताः
७.०९२.०१७ त्रयः समिद्धा इव दीप्ततेजसा॑ हुताग्नयः साधु महाध्वरे त्रयः
७.०९३.००१ कस्य चित्त्वथ कालस्य रामे धर्मपथे स्थिते
७.०९३.००१ कालस्तापसरूपेण राजद्वारमुपागमत्
७.०९३.००२ सोऽब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशस्विनम्
७.०९३.००२ मां निवेदय रामाय संप्राप्तं कार्यगौरवात्
७.०९३.००३ दूतो ह्यतिबलस्याहं महर्षेरमितौजसः
७.०९३.००३ रामं दिदृक्षुरायातः कार्येण हि महाबल
७.०९३.००४ तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरयान्वितः
७.०९३.००४ न्यवेदयत रामाय तापसस्य विवक्षितम्
७.०९३.००५ जयस्व राजन् धर्मेण उभौ लोकौ महाद्युते
७.०९३.००५ दूतस्त्वां द्रष्टुमायातस्तपस्वी भास्करप्रभः
७.०९३.००६ तद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह
७.०९३.००६ प्रवेश्यतां मुनिस्तात महौजास्तस्य वाक्यधृक्
७.०९३.००७ सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम्
७.०९३.००७ ज्वलन्तमिव तेजोभिः प्रदहन्तमिवांशुभिः
७.०९३.००८ सोऽभिगम्य रघुश्रेष्ठं दीप्यमानं स्वतेजसा
७.०९३.००८ ऋषिर्मधुरया वाचा वर्धस्वेत्याह राघवम्
७.०९३.००९ तस्मै रामो महातेजाः पूजामर्घ्य पुरोगमाम्
७.०९३.००९ ददौ कुशलमव्यग्रं प्रष्टुं चैवोपचक्रमे
७.०९३.०१० पृष्ठश्च कुशलं तेन रामेण वदतां वरः
७.०९३.०१० आसने काञ्चने दिव्ये निषसाद महायशाः
७.०९३.०११ तमुवाच ततो रामः स्वागतं ते महामुने
७.०९३.०११ प्रापयस्व च वाक्यानि यतो दूतस्त्वमागतः
७.०९३.०१२ चोदितो राजसिंहेन मुनिर्वाक्यमुदीरयत्
७.०९३.०१२ द्वन्द्वमेतत्प्रवक्तव्यं न च चक्षुर्हतं वचः
७.०९३.०१३ यः शृणोति निरीक्षेद्वा स वध्यस्तव राघव
७.०९३.०१३ भवेद्वै मुनिमुख्यस्य वचनं यद्यवेक्षसे
७.०९३.०१४ तथेति च प्रतिज्ञाय रामो लक्ष्मणमब्रवीत्
७.०९३.०१४ द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय
७.०९३.०१५ स मे वध्यः खलु भवेत्कथां द्वन्द्वसमीरिताम्
७.०९३.०१५ ऋषेर्मम च सौमित्रे पश्येद्वा शृणुया च यः
७.०९३.०१६ ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारसंग्रहे
७.०९३.०१६ तमुवाच मुनिं वाक्यं कथयस्वेति राघवः
७.०९३.०१७ यत्ते मनीषितं वाक्यं येन वासि समाहितः
७.०९३.०१७ कथयस्व विशङ्कस्त्वं ममापि हृदि वर्तते
७.०९४.००१ शृणु राम महाबाहो यदर्थमहमाहतः
७.०९४.००१ पितामहेन देवेन प्रेषितोऽस्मि महाबल
७.०९४.००२ तवाहं पूर्वके भावे पुत्रः परपुरंजय
७.०९४.००२ मायासंभावितो वीर कालः सर्वसमाहरः
७.०९४.००३ पितामहश्च भगवानाह लोकपतिः प्रभुः
७.०९४.००३ समयस्ते महाबाहो स्वर्लोकान् परिरक्षितुम्
७.०९४.००४ संक्षिप्य च पुरा लोकान्मायया स्वयमेव हि
७.०९४.००४ महार्णवे शयानोऽप्सु मां त्वं पूर्वमजीजनः
७.०९४.००५ भोगवन्तं ततो नागमनन्तमुदके शयम्
७.०९४.००५ मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ
७.०९४.००६ मधुं च कैटभं चैव ययोरस्थिचयैर्वृता
७.०९४.००६ इयं पर्वतसंबाधा मेदिनी चाभवन्मही
७.०९४.००७ पद्मे दिव्यार्कसंकाशे नाभ्यामुत्पाद्य मामपि
७.०९४.००७ प्राजापत्यं त्वया कर्म सर्वं मयि निवेशितम्
७.०९४.००८ सोऽहं संन्यस्तभारो हि त्वामुपासे जगत्पतिम्
७.०९४.००८ रक्षां विधत्स्व भूतेषु मम तेजः करो भवान्
७.०९४.००९ ततस्त्वमपि दुर्धर्षस्तस्माद्भावात्सनातनात्
७.०९४.००९ रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान्
७.०९४.०१० अदित्यां वीर्यवान् पुत्रो भ्रातॄणां हर्षवर्धनः
७.०९४.०१० समुत्पन्नेषु कृत्येषु लोकसाह्याय कल्पसे
७.०९४.०११ स त्वं वित्रास्यमानासु प्रजासु जगतां वर
७.०९४.०११ रावणस्य वधाकाङ्क्षी मानुषेषु मनोऽदधाः
७.०९४.०१२ दशवर्षसहस्राणि दशवर्षशतानि च
७.०९४.०१२ कृत्वा वासस्य नियतिं स्वयमेवात्मनः पुरा
७.०९४.०१३ स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह
७.०९४.०१३ कालो नरवरश्रेष्ठ समीपमुपवर्तितुम्
७.०९४.०१४ यदि भूयो महाराज प्रजा इच्छस्युपासितुम्
७.०९४.०१४ वस वा वीर भद्रं ते एवमाह पितामहः
७.०९४.०१५ अथ वा विजिगीषा ते सुरलोकाय राघव
७.०९४.०१५ सनाथा विष्णुना देवा भवन्तु विगतज्वराः
७.०९४.०१६ श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम्
७.०९४.०१६ राघवः प्रहसन् वाक्यं सर्वसंहारमब्रवीत्
७.०९४.०१७ श्रुतं मे देवदेवस्य वाक्यं परममद्भुतम्
७.०९४.०१७ प्रीतिर्हि महती जाता तवागमनसंभवा
७.०९४.०१८ भद्रं तेऽस्तु गमिष्यामि यत एवाहमागतः
७.०९४.०१८ हृद्गतो ह्यसि संप्राप्तो न मेऽस्त्यत्र विचारणा
७.०९४.०१९ मया हि सर्वकृत्येषु देवानां वशवर्तिनाम्
७.०९४.०१९ स्थातव्यं सर्वसंहारे यथा ह्याह पितामहः
७.०९५.००१ तथा तयोः कथयतोर्दुर्वासा भगवानृषिः
७.०९५.००१ रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत्
७.०९५.००२ सोऽभिगम्य च सौमित्रिमुवाच ऋषिसत्तमः
७.०९५.००२ रामं दर्शय मे शीघ्रं पुरा मेऽर्थोऽतिवर्तते
७.०९५.००३ मुनेस्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा
७.०९५.००३ अभिवाद्य महात्मानं वाक्यमेतदुवाच ह
७.०९५.००४ किं कार्यं ब्रूहि भगवन् को वार्थः किं करोम्यहम्
७.०९५.००४ व्यग्रो हि राघवो ब्रह्मन्मुहूर्तं वा प्रतीक्षताम्
७.०९५.००५ तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः
७.०९५.००५ उवाच लक्ष्मणं वाक्यं निर्दहन्निव चक्षुषा
७.०९५.००६ अस्मिन् क्षणे मां सौमित्रे रामाय प्रतिवेदय
७.०९५.००६ विषयं त्वां पुरं चैव शपिष्ये राघवं तथा
७.०९५.००७ भरतं चैव सौमित्रे युष्माकं या च संततिः
७.०९५.००७ न हि शक्ष्याम्यहं भूयो मन्युं धारयितुं हृदि
७.०९५.००८ तच्छ्रुत्वा घोरसंकाशं वाक्यं तस्य महात्मनः
७.०९५.००८ चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम्
७.०९५.००९ एकस्य मरणं मेऽस्तु मा भूत्सर्वविनाशनम्
७.०९५.००९ इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत्
७.०९५.०१० लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च
७.०९५.०१० निष्पत्य त्वरितं राजा अत्रेः पुत्रं ददर्श ह
७.०९५.०११ सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा
७.०९५.०११ किं कार्यमिति काकुत्स्थः कृताञ्जलिरभाषत
७.०९५.०१२ तद्वाक्यं राघवेण्णोक्तं श्रुत्वा मुनिवरः प्रभुः
७.०९५.०१२ प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल
७.०९५.०१३ अद्य वर्षसहस्रस्य समाप्तिर्मम राघव
७.०९५.०१३ सोऽहं भोजनमिच्छामि यथासिद्धं तवानघ
७.०९५.०१४ तच्छ्रुत्वा वचनं रामो हर्षेण महतान्वितः
७.०९५.०१४ भोजनं मुनिमुख्याय यथासिद्धमुपाहरत्
७.०९५.०१५ स तु भुक्त्वा मुनिश्रेष्ठस्तदन्नममृतोपमम्
७.०९५.०१५ साधु रामेति संभाष्य स्वमाश्रममुपागमत्
७.०९५.०१६ तस्मिन् गते महातेजा राघवः प्रीतमानसः
७.०९५.०१६ संस्मृत्य कालवाक्यानि ततो दुःखमुपेयिवान्
७.०९५.०१७ दुःखेन च सुसंतप्तः स्मृत्वा तद्घोरदर्शनम्
७.०९५.०१७ अवान्मुखो दीनमना व्याहर्तुं न शशाक ह
७.०९५.०१८ ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः
७.०९५.०१८ नैतदस्तीति चोक्त्वा स तूष्णीमासीन्महायशाः
७.०९६.००१ अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवाप्लुतम्
७.०९६.००१ राघवं लक्ष्मणो वाक्यं हृष्टो मधुरमब्रवीत्
७.०९६.००२ न संतापं महाबाहो मदर्थं कर्तुमर्हसि
७.०९६.००२ पूर्वनिर्माणबद्धा हि कालस्य गतिरीदृशी
७.०९६.००३ जहि मां सौम्य विस्रब्दः प्रतिज्ञां परिपालय
७.०९६.००३ हीनप्रतिज्ञाः काकुत्स्थ प्रयान्ति नरकं नराः
७.०९६.००४ यदि प्रीतिर्महाराज यद्यनुग्राह्यता मयि
७.०९६.००४ जहि मां निर्विशङ्कस्त्वं धर्मं वर्धय राघव
७.०९६.००५ लक्ष्मणेन तथोक्तस्तु रामः प्रचलितेन्द्रियः
७.०९६.००५ मन्त्रिणः समुपानीय तथैव च पुरोधसं
७.०९६.००६ अब्रवीच्च यथावृत्तं तेषां मध्ये नराधिपः
७.०९६.००६ दुर्वासोऽभिगमं चैव प्रतिज्ञां तापसस्य च
७.०९६.००७ तच्छ्रुत्वा मन्त्रिणः सर्वे सोपाध्यायाः समासत
७.०९६.००७ वसिष्ठस्तु महातेजा वाक्यमेतदुवाच ह
७.०९६.००८ दृष्टमेतन्महाबाहो क्षयं ते लोमहर्षणम्
७.०९६.००८ लक्ष्मणेन वियोगश्च तव राम महायशः
७.०९६.००९ त्यजैनं बलवान् कालो मा प्रतिज्ञां वृथा कृथाः
७.०९६.००९ विनष्टायां प्रतिज्ञायां धर्मो हि विलयं व्रजेत्
७.०९६.०१० ततो धर्मे विनष्टे तु त्रैलोक्ये सचराचरम्
७.०९६.०१० सदेवर्षिगणं सर्वं विनश्येत न संशयः
७.०९६.०११ स त्वं पुरुषशार्दूल त्रैलोक्यस्याभिपालनम्
७.०९६.०११ लक्ष्मणस्य वधेनाद्य जगत्स्वस्थं कुरुष्व ह
७.०९६.०१२ तेषां तत्समवेतानां वाक्यं धर्मार्थसंहितम्
७.०९६.०१२ श्रुत्वा परिषदो मध्ये रामो लक्ष्मणमब्रवीत्
७.०९६.०१३ विसर्जये त्वां सौमित्रे मा भूद्धर्मविपर्ययः
७.०९६.०१३ त्यागो वधो वा विहितः साधूनामुभयं समम्
७.०९६.०१४ रामेण भाषिते वाक्ये बाष्पव्याकुलितेक्षणः
७.०९६.०१४ लक्ष्मणस्त्वरितः प्रायात्स्वगृहं न विवेश ह
७.०९६.०१५ स गत्वा सरयूतीरमुपस्पृश्य कृताञ्जलिः
७.०९६.०१५ निगृह्य सर्वस्रोतांसि निःश्वासं न मुमोच ह
७.०९६.०१६ अनुच्छ्वसन्तं युक्तं तं सशक्राः साप्सरोगणाः
७.०९६.०१६ देवाः सर्षिगणाः सर्वे पुष्पैरवकिरंस्तदा
७.०९६.०१७ अदृश्यं सर्वमनुजैः सशरीरं महाबलम्
७.०९६.०१७ प्रगृह्य लक्ष्मणं शक्रो दिवं संप्रविवेश ह
७.०९६.०१८ ततो विष्णोश्चतुर्भागमागतं सुरसत्तमाः
७.०९६.०१८ हृष्टाः प्रमुदिताः सर्वेऽपूजयनृषिभिः सह
७.०९७.००१ विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः
७.०९७.००१ पुरोधसं मन्त्रिणश्च नैगमांश्चेदमब्रवीत्
७.०९७.००२ अद्य राज्येऽभिषेक्ष्यामि भरतं धर्मवत्सलम्
७.०९७.००२ अयोध्यायां पतिं वीरं ततो यास्याम्यहं वनम्
७.०९७.००३ प्रवेशयत संभारान्मा भूत्कालात्ययो यथा
७.०९७.००३ अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम्
७.०९७.००४ तच्छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम्
७.०९७.००४ मूर्धभिः प्रणता भूमौ गतसत्त्वा इवाभवन्
७.०९७.००५ भरतश्च विसंज्ञोऽभूच्छ्रुत्वा रामस्य भाषितम्
७.०९७.००५ राज्यं विगर्हयामास राघवं चेदमब्रवीत्
७.०९७.००६ सत्येन हि शपे राजन् स्वर्गलोके न चैव हि
७.०९७.००६ न कामये यथा राज्यं त्वां विना रघुनन्दन
७.०९७.००७ इमौ कुशीलवौ राजन्नभिषिञ्च नराधिप
७.०९७.००७ कोसलेषु कुशं वीरमुत्तरेषु तथा लवम्
७.०९७.००८ शत्रुघ्नस्य तु गच्छन्तु दूतास्त्वरितविक्रमाः
७.०९७.००८ इदं गमनमस्माकं स्वर्गायाख्यान्तु माचिरम्
७.०९७.००९ तच्छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्यधो मुखान्
७.०९७.००९ पौरान् दुःखेन संतप्तान् वसिष्ठो वाक्यमब्रवीत्
७.०९७.०१० वत्स राम इमाः पश्य धरणीं प्रकृतीर्गताः
७.०९७.०१० ज्ञात्वैषामीप्सितं कार्यं मा चैषां विप्रियं कृथाः
७.०९७.०११ वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम्
७.०९७.०११ किं करोमीति काकुत्स्थः सर्वान् वचनमब्रवीत्
७.०९७.०१२ ततः सर्वाः प्रकृतयो रामं वचनमब्रुवन्
७.०९७.०१२ गच्छन्तमनुगच्छामो यतो राम गमिष्यसि
७.०९७.०१३ एषा नः परमा प्रीतिरेष धर्मः परो मतः
७.०९७.०१३ हृद्गता नः सदा तुष्टिस्तवानुगमने दृढा
७.०९७.०१४ पौरेषु यदि ते प्रीतिर्यदि स्नेहो ह्यनुत्तमः
७.०९७.०१४ सपुत्रदाराः काकुत्स्थ समं गच्छाम सत्पथम्
७.०९७.०१५ तपोवनं वा दुर्गं वा नदीमम्भोनिधिं तथा
७.०९७.०१५ वयं ते यदि न त्याज्याः सर्वान्नो नय ईश्वर
७.०९७.०१६ स तेषां निश्चयं ज्ञात्वा कृतान्तं च निरीक्ष्यच
७.०९७.०१६ पौराणां दृढभक्तिं च बाढमित्येव सोऽब्रवीत्
७.०९७.०१७ एवं विनिश्चयं कृत्वा तस्मिन्नहनि राघवः
७.०९७.०१७ कोसलेषु कुशं वीरमुत्तरेषु तथा लवम्
७.०९७.०१८ अभिषिञ्चन्महात्मानावुभावेव कुशीलवौ
७.०९७.०१८ रथानां तु सहस्राणि त्रीणि नागायुतानि च
७.०९७.०१९ दश चाश्वसहस्राणि एकैकस्य धनं ददौ
७.०९७.०१९ बहुरत्नौ बहुधनौ हृष्टपुष्टजनावृतौ
७.०९७.०२० अभिषिच्य तु तौ वीरौ प्रस्थाप्य स्वपुरे तथा
७.०९७.०२० दूतान् संप्रेषयामास शत्रुघ्नाय महात्मने
७.०९८.००१ ते दूता रामवाक्येन चोदिता लघुविक्रमाः
७.०९८.००१ प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं न चाध्वनि
७.०९८.००२ ततस्त्रिभिरहो रात्रैः संप्राप्य मधुरामथ
७.०९८.००२ शत्रुघ्नाय यथावृत्तमाचख्युः सर्वमेव तत्
७.०९८.००३ लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च
७.०९८.००३ पुत्रयोरभिषेकं च पौरानुगमनं तथा
७.०९८.००४ कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि
७.०९८.००४ कुशावतीति नाम्ना सा कृता रामेण धीमता
७.०९८.००५ श्राविता च पुरी रम्या श्रावतीति लवस्य च
७.०९८.००५ अयोध्यां विजनां चैव भरतं राघवानुगम्
७.०९८.००६ एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने
७.०९८.००६ विरेमुस्ते ततो दूतास्त्वर राजन्निति ब्रुवन्
७.०९८.००७ श्रुत्वा तं घोरसंकाशं कुलक्षयमुपस्थितम्
७.०९८.००७ प्रकृतीस्तु समानीय काञ्चनं च पुरोहितम्
७.०९८.००८ तेषां सर्वं यथावृत्तमाख्याय रघुनन्दनः
७.०९८.००८ आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह
७.०९८.००९ ततः पुत्रद्वयं वीरः सोऽभ्यषिञ्चन्नराधिपः
७.०९८.००९ सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम्
७.०९८.०१० द्विधाकृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः
७.०९८.०१० धनधान्यसमायुक्तौ स्थापयामास पार्थिवौ
७.०९८.०११ ततो विसृज्य राजानं वैदिशे शत्रुघातिनम्
७.०९८.०११ जगाम त्वरितोऽयोध्यां रथेनैकेन राघवः
७.०९८.०१२ स ददर्श महात्मानं ज्वलन्तमिव पावकम्
७.०९८.०१२ क्षौमसूक्ष्माम्बरधरं मुनिभिः सार्धमक्षयैः
७.०९८.०१३ सोऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः
७.०९८.०१३ उवाच वाक्यं धर्मज्ञो धर्ममेवानुचिन्तयन्
७.०९८.०१४ कृत्वाभिषेकं सुतयोर्युक्तं राघवयोर्धनैः
७.०९८.०१४ तवानुगमने राजन् विद्धि मां कृतनिश्चयम्
७.०९८.०१५ न चान्यदत्र वक्तव्यं दुस्तरं तव शासनम्
७.०९८.०१५ त्यक्तुं नार्हसि मां वीर भक्तिमन्तं विशेषतः
७.०९८.०१६ तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः
७.०९८.०१६ बाढमित्येव शत्रुघ्नं रामो वचनमब्रवीत्
७.०९८.०१७ तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः
७.०९८.०१७ ऋक्षराक्षससंघाश्च समापेतुरनेकशः
७.०९८.०१८ देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा
७.०९८.०१८ राम क्षयं विदित्वा ते सर्व एव समागताः
७.०९८.०१९ ते राममभिवाद्याहुः सर्व एव समागताः
७.०९८.०१९ तवानुगमने राजन् संप्राप्ताः स्म महायशः
७.०९८.०२० यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषर्षभ
७.०९८.०२० यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः
७.०९८.०२१ एवं तेषां वचः श्रुत्वा ऋष्कवानररक्षसाम्
७.०९८.०२१ विभीषणमथोवाच मधुरं श्लक्ष्णया गिरा
७.०९८.०२२ यावत्प्रजा धरिष्यन्ति तावत्त्वं वै विभीषण
७.०९८.०२२ राक्षसेन्द्र महावीर्य लङ्कास्थः स्वं धरिष्यसि
७.०९८.०२३ प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि
७.०९८.०२४ तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत्
७.०९८.०२४ जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय
७.०९८.०२५ मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर
७.०९८.०२५ तावत्त्वं धारयन् प्राणान् प्रतिज्ञामनुपालय
७.०९८.०२६ तथैवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान्
७.०९८.०२६ मया सार्धं प्रयातेति तदा तान् राघवोऽब्रवीत्
७.०९९.००१ प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः
७.०९९.००१ रामः कमलपत्राक्षः पुरोधसमथाब्रवीत्
७.०९९.००२ अग्निहोत्रं व्रजत्वग्रे सर्पिर्ज्वलितपावकम्
७.०९९.००२ वाजपेयातपत्रं च शोभयानं महापथम्
७.०९९.००३ ततो वसिष्ठस्तेजस्वी सर्वं निरवशेषतः
७.०९९.००३ चकार विधिवद्धर्म्यं महाप्रास्थानिकं विधिम्
७.०९९.००४ ततः क्षौमाम्बरधरो ब्रह्म चावर्तयन् परम्
७.०९९.००४ कुशान् गृहीत्वा पाणिभ्यां प्रसज्य प्रययावथ
७.०९९.००५ अव्याहरन् क्व चित्किं चिन्निश्चेष्टो निःसुखः पथि
७.०९९.००५ निर्जगाम गृहात्तस्माद्दीप्यमानो यथांशुमान्
७.०९९.००६ रामस्य पार्श्वे सव्ये तु पद्मा श्रीः सुसमाहिता
७.०९९.००६ दक्षिणे ह्रीर्विशालाक्षी व्यवसायस्तथाग्रतः
७.०९९.००७ शरा नानाविधाश्चापि धनुरायतविग्रहम्
७.०९९.००७ अनुव्रजन्ति काकुत्स्थं सर्वे पुरुषविग्रहाः
७.०९९.००८ वेदा ब्राह्मणरूपेण सावित्री सर्वरक्षिणी
७.०९९.००८ ओंकारोऽथ वषट्कारः सर्वे राममनुव्रताः
७.०९९.००९ ऋषयश्च महात्मानः सर्व एव महीसुराः
७.०९९.००९ अन्वगच्छन्त काकुत्स्थं स्वर्गद्वारमुपागतम्
७.०९९.०१० तं यान्तमनुयान्ति स्म अन्तःपुरचराः स्त्रियः
७.०९९.०१० सवृद्धबालदासीकाः सवर्षवरकिंकराः
७.०९९.०११ सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ
७.०९९.०११ रामव्रतमुपागम्य राघवं समनुव्रताः
७.०९९.०१२ ततो विप्रा महात्मानः साग्निहोत्राः समाहिताः
७.०९९.०१२ सपुत्रदाराः काकुत्स्थमन्वगच्छन्महामतिम्
७.०९९.०१३ मन्त्रिणो भृत्यवर्गाश्च सपुत्राः सहबान्धवाः
७.०९९.०१३ सानुगा राघवं सर्वे अन्वगच्छन् प्रहृष्टवत्
७.०९९.०१४ ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः
७.०९९.०१४ अनुजग्मुः प्रगच्छन्तं राघवं गुणरञ्जिताः
७.०९९.०१५ स्नातं प्रमुदितं सर्वं हृष्टपुष्पमनुत्तमम्
७.०९९.०१५ दृप्तं किलिकिलाशब्दैः सर्वं राममनुव्रतम्
७.०९९.०१६ न तत्र कश्चिद्दीनोऽभूद्व्रीडितो वापि दुःखितः
७.०९९.०१६ हृष्टं प्रमुदितं सर्वं बभूव परमाद्भुतम्
७.०९९.०१७ द्रष्टुकामोऽथ निर्याणं राज्ञो जानपदो जनः
७.०९९.०१७ संप्राप्तः सोऽपि दृष्ट्वैव सह सर्वैरनुव्रतः
७.०९९.०१८ ऋक्षवानररक्षांसि जनाश्च पुरवासिनः
७.०९९.०१८ अगछन् परया भक्त्या पृष्ठतः सुसमाहिताः
७.१००.००१ अध्यर्धयोजनं गत्वा नदीं पश्चान्मुखाश्रिताम्
७.१००.००१ सरयूं पुण्यसलिलां ददर्श रघुनन्दनः
७.१००.००२ अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः
७.१००.००२ सर्वैः परिवृतो देवैरृषिभिश्च महात्मभिः
७.१००.००३ आययौ यत्र काकुत्स्थः स्वर्गाय समुपस्थितः
७.१००.००३ विमानशतकोटीभिर्दिव्याभिरभिसंवृतः
७.१००.००४ पपात पुष्पवृष्टिश्च वायुमुक्ता महौघवत्
७.१००.००५ तस्मिंस्तूर्यशताकीर्णे गन्धर्वाप्सरसंकुले
७.१००.००५ सरयूसलिलं रामः पद्भ्यां समुपचक्रमे
७.१००.००६ ततः पितामहो वाणीमन्तरिक्षादभाषत
७.१००.००६ आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तोऽसि राघव
७.१००.००७ भ्रातृभिः सह देवाभैः प्रविशस्व स्वकां तनुम्
७.१००.००७ वैष्णवीं तां महातेजस्तदाकाशं सनातनम्
७.१००.००८ त्वं हि लोकगतिर्देव न त्वां के चित्प्रजानते
७.१००.००८ ऋते मायां विशालाक्ष तव पूर्वपरिग्रहाम्
७.१००.००९ त्वमचिन्त्यं महद्भूतमक्षयं सर्वसंग्रहम्
७.१००.००९ यामिच्छसि महातेजस्तां तनुं प्रविश स्वयम्
७.१००.०१० पितामहवचः श्रुत्वा विनिश्चित्य महामतिः
७.१००.०१० विवेश वैष्णवं तेजः सशरीरः सहानुजः
७.१००.०११ ततो विष्णुगतं देवं पूजयन्ति स्म देवताः
७.१००.०११ साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः
७.१००.०१२ ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश्च याः
७.१००.०१२ सुपर्णनागयक्षाश्च दैत्यदानवराक्षसाः
७.१००.०१३ सर्वं हृष्टं प्रमुदितं सर्वं पूर्णमनोरथम्
७.१००.०१३ साधु साध्विति तत्सर्वं त्रिदिवं गतकल्मषम्
७.१००.०१४ अथ विष्णुर्महातेजाः पितामहमुवाच ह
७.१००.०१४ एषां लोकाञ्जनौघानां दातुमर्हसि सुव्रत
७.१००.०१५ इमे हि सर्वे स्नेहान्मामनुयाता मनस्विनः
७.१००.०१५ भक्ता भाजयितव्याश्च त्यक्तात्मानश्च मत्कृते
७.१००.०१६ तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः
७.१००.०१६ लोकान् सान्तानिकान्नाम यास्यन्तीमे समागताः
७.१००.०१७ यच्च तिर्यग्गतं किं चिद्राममेवानुचिन्तयत्
७.१००.०१७ प्राणांस्त्यक्ष्यति भक्त्या वै संताने तु निवत्स्यति
७.१००.०१७ सर्वैरेव गुणैर्युक्ते ब्रह्मलोकादनन्तरे
७.१००.०१८ वानराश्च स्वकां योनिमृक्षाश्चैव तथा ययुः
७.१००.०१८ येभ्यो विनिःसृता ये ये सुरादिभ्यः सुसंभवाः
७.१००.०१९ ऋषिभ्यो नागयक्षेभ्यस्तांस्तानेव प्रपेदिरे
७.१००.०१९ तथोक्तवति देवेशे गोप्रतारमुपागताः
७.१००.०२० भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः
७.१००.०२० अवगाह्य जलं यो यः प्राणी ह्यासीत्प्रहृष्टवत्
७.१००.०२१ मानुषं देहमुत्सृज्य विमानं सोऽध्यरोहत
७.१००.०२१ तिर्यग्योनिगताश्चापि संप्राप्ताः सरयूजलम्
७.१००.०२२ दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन्
७.१००.०२२ गत्वा तु सरयूतोयं स्थावराणि चराणि च
७.१००.०२३ प्राप्य तत्तोयविक्लेदं देवलोकमुपागमन्
७.१००.०२३ देवानां यस्य या योनिर्वानरा ऋष्क राक्षसाः
७.१००.०२४ तामेव विविशुः सर्वे देवान्निक्षिप्य चाम्भसि
७.१००.०२४ तथा स्वर्गगतं सर्वं कृत्वा लोकगुरुर्दिवम्
७.१००.०२५ जगाम त्रिदशैः सार्धं हृष्टैर्हृष्टो महामतिः


Tags: Uttar Kanda neither contributing anything to the original story or it has any poetic competency if compared with the first six chapters

Post navigation

Previous: माण्डूक्योपनिषद्‌ – Mandukya Upanishad
Next: Intellectual property of copyright in case of derivative work prepared from sources in the public domain
Communism
Sarvarthapedia

Manifesto of the Communist Party 1848: History, Context, and Core Concepts

Arrest
Sarvarthapedia

Latin Maxims in Criminal Law: Meaning, Usage, and Courtroom Application

Abolition of Slave Trade Act 1807: Facts, Enforcement, and Historical Context

British Slavery and the Church of England: History, Theology, and the Codrington Estates

United States of America: History, Government, Economy, and Global Power

Biblical Basis for Slavery: Old and New Testament Laws, Narratives, and Interpretations

Rule of Law vs Rule by Law and Rule for Law: History, Meaning, and Global Evolution

IPS Cadre Strength 2025: State-wise Authorised Strength

Uric Acid: From 18th Century Discovery to Modern Medical Science

Christian Approaches to Interfaith Dialogue: Orthodox, Catholic, Protestant, and Pentecostal Views

Origin of Central Banking in India: From Hastings to RBI and the History of Preparatory Years (1773–1934)

Howrah District Environment Plan: Waste Management, Water Quality & Wetland Conservation

Bharatiya Nyaya Sanhita 2023: Sections (1-358), Punishments, and Legal Framework

Bengali Food Culture: History, Traditions, and Class Influences

  • Sarvarthapedia

  • Delhi Law Digest

  • Howrah Law Journal

  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Ram v. Sukhram: Tribal women’s right in ancestral property [2025] 8 SCR 272
  • Naresh vs Aarti: Cheque Bouncing Complaint Filed by POA (02/01/2025)
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders
United Kingdom, UK

Abolition of Slave Trade Act 1807: Facts, Enforcement, and Historical Context

British Slavery and the Church of England: History, Theology, and the Codrington Estates

British Slavery and the Church of England: History, Theology, and the Codrington Estates

USA, America

United States of America: History, Government, Economy, and Global Power

Biblical Basis for Slavery, english slave trade

Biblical Basis for Slavery: Old and New Testament Laws, Narratives, and Interpretations

2026 © Advocatetanmoy Law Library

  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subject Guide
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia (Articles)
  • Contact Us
  • Privacy Policy
  • FAQs
  • Library Updates