चोदनालक्षणोऽर्थो धर्मः -1.1.2
चोदना इति क्रियायाः प्रवर्तकं वचनमाहुः । आचार्य्यचोदितः करोमीति हि दृश्यते । लक्ष्यते येन तल्लक्षणं, धूमो लक्षणमग्नेरिति हि वदन्ति । तया यो लक्ष्यते, सोऽर्थः पुरुषं निःश्रेयसेन सँय्युनक्तीति प्रतिजानीमहे । चोदना हि भूतं, भवन्तं, भविष्यन्तं, सूक्ष्मं, व्यवहितं, विप्रकृष्टमित्येवञ्जातीयकमर्थं शक्नोत्यवगमयितुं, नान्यत् किञ्चनेन्द्रियम् । नन्वतथाभूतमप्यर्थं ब्रूयाच्चोदना, यथा यत्किञ्चन लौकिकं वचनं, नद्यास्तीरे फलानि सन्ति इति ।
तत् तथ्यमपि भवति, वितथमपि भवतीति ।
उच्यते । विप्रतिषिद्धमिदमुच्यते, ब्रवीति वितथञ्चेति । ब्रवीति- इति उच्यतेऽवबोधयति, बुध्यमानस्य निमित्तं भवतीति । यस्मश्च निमित्तभूते सति अवबुध्यते सोऽवबोधयति । यदि च चोदनायां सत्यामग्निहोत्रात् स्वर्गो भवतीति गम्यते कथमुच्यते न तथा भवतीति । अथ न तथा भवतीति कथमवबुध्यते । असन्तमर्थमवबुध्यते इति विप्रतिषिद्धम् । न च, स्वर्गकामो यजेतेत्यतो वचनात् सन्दिग्धमवगम्यते, भवति वा स्वर्गो, न वा भवतीति । न च निश्चितमवगम्यमानमिदं मिथ्या स्यात् । यो हि जनित्वा प्रध्वंसते, नैतदेवमिति, स मिथ्याप्रत्ययः । न चैष कालान्तरे, पुरुषान्तरे, अवस्थान्तरे, देशान्तरे वा विपर्य्येति । तस्मादवितथः । यत्तु लौकिकं वचनं, तच्चेत् प्रत्ययितात् पुरुषात्, इन्द्रियविषयं वा अवितथमेव तत् । अथाऽप्रत्ययिताद् अनिन्द्रियविषयं वा तावत् पुरुषबुद्धिप्रभवप्रमाणम्। अशक्यं हि तत् पुरुषेण ज्ञातुं, ऋते वचनात्। अपरस्मात् पौरुषेयाद्वचनात् तदवगतमिति चेत्। तदपि तेनैव तुल्यम्। नैवञ्जातीयकेष्वर्थेषु पुरुषवचनं प्रामाण्यमुपैति,जात्यन्धानामिव वचनं रूपविशेषेषु। न च विदुषामुपदेशो नाऽवकल्प्यते। उपदिष्टवन्तश्च मन्वादयस्तस्मात् पुरुषात् सन्तो विदितवन्तश्च। यथा चक्षुषा रूपमुपलभ्यते इति दर्शनादेवावगतम्। उच्यते। उपदेशा हि व्यामोहादपि भवन्ति। असति व्यामोहे वेदादपि भवन्ति अपि च पैरुषेयाद्वचनात् एवमयं पुरुषो वेदेति भवति प्रत्ययां, नैवमयमर्थ इति। विप्लवते हि खल्वपि कश्चित् पुरुषकृताद् वचनात् प्रत्ययः। न तुवेदवचनस्य मिथात्वे किञ्जन प्रमाणमस्ति। ननु सामान्यतो दृष्टं पौरुषेयं वचनं वितथमुपलभ्य वचनसाम्यादिदमपि वितथमवगम्यते। न । अन्यत्वात्। न ह्यन्यस्य वितथभावेऽन्यस्य वैतथ्यं भवितुमर्हति, अन्यत्वादेव। न हि देवदत्तस्य श्यामत्वे यज्ञदत्तस्यापि श्यामत्वं भवितुमर्हति। अपिच पुरुषवचनसाधर्म्याद् वेदवचनं वितथमिति अनुमानं व्यापदेशादवगम्यते। प्रत्यक्षस्तु वेदवचनेन प्रत्ययः। न चानुमानं प्रत्यक्षविरोधि प्रामाणं भवति। तस्माच्चोदनालक्षणोऽर्थः श्रेयस्करः। एवं तर्हि श्रेयस्करो जिज्ञासितव्यः।
किं धर्मजिज्ञासया। उच्यते। य एव श्रेयस्करः, स एव धर्मशब्देनोच्यते। कथमवगम्यताम्। यो हि यागमनुतिष्ठति , तं धार्मिकं इति समाचक्षते। यश्च यस्य कर्त्ता स तेन व्यपदिश्यते। यथा , पावकः, लावकः इति। तेन यः पुरुषं निःश्रेयसेन संयुनक्ति, स धर्मशब्देनोच्यते। न केवलं लोके, वेदेऽपि ,यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् इति यजतिशब्दवाच्यमेव धर्मं समामनन्ति। उभयमिह चोदनया लक्ष्यते, अर्थोऽनर्थश्चेति। कोऽर्थः। यो निःश्रेयसाय, ज्योतिष्टोमादिः। कोऽनर्थः। यः प्रत्यवायाय, श्येनो , वज्रः, इषुरित्येवमादिः। तत्र , अनर्थो धर्म उक्तो मा भूदिति अर्थग्रहणम्।
कथं पुनरसावनर्थः। हिंसा हि सा। हिंसा च प्रतिषिद्धेति । कथं पुनरनर्थः कर्त्तव्यतयोपदिश्यते। उच्यते। नैव श्येनादयः कर्त्तव्या विज्ञायन्ते। यो हि हिंसितुमिच्छेत् ,तस्यायमभ्युपाय इति हि तेषामुपदेशः। श्येनेनाऽभिचरन् यजेतेति हि समामनन्ति, न अभिचरितव्यमिति। नन्वऽशक्तमिक्तमिदं सूत्रम् इमावर्थावभिवदितुम् – चोदनालक्षणो धर्मः , न इन्द्रियादिलक्षणः , अर्थश्च धर्मः , न अनर्थः इति । एकं हीदं वाक्यं, तदेवं सति भिद्येत। उच्यते। यत्र वाक्यादर्थोऽवगम्यते, तत्रैवम्। तत्तु वैदिकेषु , न सूत्रेषु।
अन्यतोऽवगतेऽर्थे, सूत्रम्, एवमर्थमिदमित्यवगम्यते। तेन च, एकदेशः सूर्त्यत इति सूत्रम्। तत्र भिन्नयोरेव वाक्ययोरिमावेकदेशावित्यवगन्तव्यम्। अथवा अर्थस्य सतश्चोदनालक्षणस्य धर्मत्वमुच्यते इत्येकार्थमेवेति।।2।।
तस्य निमित्तपरीष्टिः।।3।।
उक्तमस्माभिः, चोदनानिमित्तं धर्मस्य ज्ञानमिति। तत् प्रतिज्ञामात्रेणोक्तम्, इदानीं तस्य निमित्तं परीक्षिष्यामहे । किं चोदनैवेति,अन्यदपीति। तस्मान्न तावन्निश्चीयते चोदना लक्षणोऽर्थो धर्म इति। तदुच्यते ।।3।।
Home › Forums › चोदनालक्षणोऽर्थो धर्मः-शबरभाष्यम् Chodana Lakshn Artha Dharma
Tagged: Dharma, Mimamsha, Sanskrit Devanagari
© Advocatetanmoy Law Library
© Advocatetanmoy Law Library