अथातो धर्मजिज्ञासा- शाबरबरभाष्यम् – Athato Dharmo Jigyasa
Home » Law Library Updates » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » अथातो धर्मजिज्ञासा- शाबरबरभाष्यम् – Athato Dharmo Jigyasa
Athato Dharmo Jigyasa
Shabar Bhasyam by Shabara Swami
Date – 57 CE
अथातो धर्मजिज्ञासा -1.1.1
Now I shall ask for Dharma
लोके येष्वर्थेषु प्रसिद्धानि पदानि, तानि सति सम्भवे तदर्थान्येव सूत्रेष्वित्यवगन्तव्यं, नाऽध्याहारादिभिरेषां परिकल्पनीयोऽर्थः परिभाषितव्यो वा। एवं वेदवाक्यान्येव एभिर्व्याख्यायन्ते। इतरथा वेदवाक्यानि व्याख्येयानि, स्वपदार्थाश्च व्याख्येया इति प्रयत्नगौरवं प्रसज्ज्येत। तत्र लोकेऽयमथशब्दो वृत्तादनन्तरस्य प्रक्रियार्थो दृष्टः। न चेह किञ्चिद् वृत्तमुपलभ्यते। भवितव्यन्तु तेन, यस्मिन् सत्यऽनन्तरं धर्मजिज्ञासाऽवकल्प्यते। तथाहि प्रसिद्धपदार्थकः स कल्पितो भवति। तत्तु वेदाध्ययनम्। तस्मिन् हि सति साऽवकल्प्यते। नैतदेवम्। अन्यस्यापि कर्मणोऽनन्तरं धर्मजिज्ञासा युक्ता, प्रागपि च वेदाध्ययनात्। उच्यते, मादृशां तु धर्मजिज्ञासामधिकृत्य अथशब्दं प्रयुक्तवानाचार्य्यः । या वेदाध्ययनमन्तरेण न सम्भवति। कथम्। वेदवाक्यानामनेकविधो विचार इह वर्त्तिष्यते ।
Read Next
अपि च नैव वयमिह वेदाध्ययनात् पूर्वं धर्मजिज्ञासायाः प्रतिषेधं शिष्मः, परस्ताच्चानन्तर्य्यम् । न ह्येतदेकं वाक्यं पुरस्ताच्च वेदाध्ययनाद्धर्मजिज्ञासां प्रतिषेधिष्यति, परस्ताच्चानन्तर्य्यं प्रकरिष्यति । भिद्येत हि तथा वाक्यम् । अन्या हि वचनव्यक्तिरस्य पुरस्ताद् वेदाध्ययनाद्धर्मजिज्ञासां प्रतिषेधत ; अन्या च परस्तादानन्तर्य्यमुपदिशतः । वेदानधीत्य इति एकस्यां विधीयतेऽनूद्य आनन्तर्य्यं, विपरीतमन्यस्याम् । अर्थैकत्वाच्चैकवाक्यतां वक्ष्यति । किञ्चाधीते वेदे द्वयमापतति, गुरुकुलाच्च समावर्त्तितव्यं, वेदवाक्यानि च विचारयितव्यानि । तत्र गुरुकुलान्मा समावर्त्तिष्ट, कथं नु वेदवाक्यानि विचारयेदित्येवमर्थोऽयमुपदेशः । यद्येवं, न तर्हि वेदाध्ययनं पूर्वं गम्यते । एवं हि समामनन्ति, वेदमधीत्य स्नायादिति । इह च वेदमधीत्य स्नास्यन् धर्मं जिज्ञासमानः इयमाम्नायमतिक्रामेत् । न चाम्नायो नाम अतिक्रामितव्यः । तदुच्यते – अतिक्रमिष्याम इयमाम्नायम् । अनतिक्रामन्तो वेदमर्थवन्तं सन्तमनर्थकमवकल्पयेम । दृष्टो हि तस्यार्थः कर्मावबोधनं नाम । न च तस्याध्ययनमात्रात् तत्र भवन्तो याज्ञिकाः फलं समामनन्ति । यदपि च समामनन्तीव, तत्रापि, द्रव्यसंस्कारकर्मसु परार्थत्वात्
फलश्रुतिरर्थवादः स्यादित्यर्थवादतां वक्ष्यति । न चाऽधीतवेदस्य स्नानानन्तर्य्यमेतद् विधीयते । न ह्यत्रानन्तर्य्यस्य वक्ता कश्चिच्छब्दोऽस्ति । पूर्वकालतायां क्त्वा स्मर्य्यते, न आनन्तर्य्ये । दृष्टार्थता वाऽध्ययनस्य आनन्तर्य्ये व्याहन्येत । लक्षणया त्वेषोऽर्थः स्यात् । न वा इदं स्नानमदृष्टार्थं विधीयते । किन्तु लक्षणया अस्नानादिनियमस्य पर्य्यवसानं वेदाध्ययनसमकालमाहुः । वेदमधीत्य स्नायाद्, गुरुकुलान्मा समावर्त्तिष्ठेति – अदृष्टार्थतापरिहारायैव । तस्माद् वेदाध्ययनमेव पूर्वमभिनिवर्त्यानन्तरं धर्मो जिज्ञासितव्य इति अथशब्दस्य सामर्थ्यम् । न च ब्रूमोऽन्यस्य कर्मणोऽनन्तरं धर्मजिज्ञासा न कर्तव्येति, किन्तु वेदमधीत्य त्वरितेन न स्नातव्यम् । अनन्तरं धर्मो जिज्ञासितव्य इति अथशब्दस्यार्थः ।।
अतः शब्दो वृत्तस्यापदेशको हेत्वर्थः । यथा, क्षेमसुभिक्षोऽयम् अतोऽहमस्मिन् देशे प्रतिवसामीति । एवम् अधीतो वेदो, धर्मजिज्ञासायां हेतुर्ज्ञातः, अनन्तरं धर्मो जिज्ञासितव्य इति अतः शब्दस्य सामर्थ्यम् । धर्माय हि वेदवाक्यानि विचारयितुमनधीतवेदो न शक्नुयाद्, अतः उ एतस्मात् कारणादनन्तरं धर्मं जिज्ञासितुमिच्छेदित्यतः शब्दस्यार्थः ।।
धर्माय जिज्ञासा धर्मजिज्ञासा, सा हि तस्य ज्ञातुमिच्छा । स कथं जिज्ञासितव्यः, को धर्मः, कथं लक्षणः, कान्यस्य साधनानि, कानि साधनाभासानि, किंपरश्चेति । तत्र को धर्मः, कथं लक्षण इति एकेनैव सूत्रेण व्याख्यातं – चोदनालक्षणोऽर्थो धर्म इति । कानि अस्य साधनानि, कानि साधनाभासानि, किंपरश्चेति शेषलक्षणेन व्याख्यातम् क्व पुरुषपरत्वं, क्व वा पुरुषो गुणभूत इत्येतासां प्रतिज्ञानां पिण्डस्यैतत् सूत्रम्,
Read Next
अथाऽतो धर्मजिज्ञासेति । धर्मः प्रसिद्धो वा स्याद्, अप्रसिद्धो वा । स चेत् प्रसिद्धो, न जिज्ञासितव्यः ।
अथाऽप्रसिद्धो, नतराम् । तदेतदनर्थकं धर्मजिज्ञासाप्रकरणम् । अथवाऽर्थवत् । धर्मं प्रति हि विप्रतिपन्ना बहुविदः । केचिदन्यं धर्ममाहुः, केचिदन्यम् । सोऽयमविचार्य्य प्रवर्त्तमानः कञ्चिदेवोपाददानो विहन्येत, अनर्थं च ऋच्छेत् । तस्माद्धर्मो जिज्ञासितव्य इति । स हि निःश्रेयसेन पुरुषं संय्युनक्तीति प्रतिजानीमहे । तदभिधीयते ।।1।।