अथातो धर्मजिज्ञासा -१,१.१
चोदनालक्षणोऽर्थो धर्मः -१,१.२
तस्य निमित्तपरीष्टिः -१,१.३
सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम् अनिमित्तं विद्यमानोपलम्भनत्वात् -१,१.४
औत्पत्तिकस् तु शब्दस्यार्थेन संबन्धस् तस्य ज्ञानम् उपदेशोऽव्यतिरेकश् चार्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् -१,१.५
कर्मैके तत्र दर्शनात् -१,१.६
अस्थानात् -१,१.७
करोति शब्दात् -१,१.८
सत्त्वान्तरे च यौगपद्यात् -१,१.९
प्रकृति विकृत्योश् च -१,१.१०
वृद्धिश् च कर्तृभूम्नास्य -१,१.११
समं तु तत्र दर्शनम् -१,१.१२
सतः परमदर्शनं विषयानागमात् -१,१.१३
प्रयोगस्य परम् -१,१.१४
आदित्त्यवद्यौगपद्यम् -१,१.१५
वर्णान्तरम् अविकारः -१,१.१६
नादवृद्धिपरा -१,१.१७
नित्यस् तु स्याद् दर्शनस्य परार्थत्वात् -१,१.१८
सर्वत्र यौगपद्यात् -१,१.१९
संख्याभावात् -१,१.२०
अनपेक्षत्वात् -१,१.२१
प्रख्याभावाच् च योगस्य -१,१.२२
लिङ्गदर्शनाच् च -१,१.२३
उत्त्पत्तौ वावचनाः स्युर् अर्थस्यातन्निमित्तत्वात् -१,१.२४
तद्भूतानां क्रियार्थेन सामाम्नायोऽर्थस्य तन्निमित्तत्त्वात् -१,१.२५
लोके सन्नियमात् प्रयोगसन्निकर्षः स्यात् -१,१.२६
वेदांश् चैके सन्निकर्षं पुरुषाख्याः -१,१.२७
अनित्यदर्शनाच् च -१,१.२८
उक्तं तु शब्दपूर्वत्वम् -१,१.२९
आख्या प्रवचनात् -१,१.३०
परन्तु श्रुतिसामान्यमात्रम् -१,१.३१
कृते वा विनियोगः स्यात् कर्मणः संबन्धात् -१,१.३२
आम्नायस्य क्रियार्थत्वाद् आनर्थक्यम् अतदर्थानां तस्माद् अनित्यम् उच्यते -१,२.१
शास्त्रदृष्टाविरोधाच् च -१,२.२
तथाफलाभावात् -१,२.३
अन्यानर्थक्यात् -१,२.४
अभागिप्रतिषेधाच् च -१,२.५
अनित्यसंयोगात् -१,२.६
विधिना त्व् एकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः -१,२.७
तुल्यं च साम्प्रदायिकम् -१,२.८
आप्ता चानुपपत्तिः प्रयोगे हि विरोधः स्याच् छब्दार्थस् त्व् अप्रयोगभूतस् तस्माद् उपपद्येत -१,२.९
गुणवादस् तु -१,२.१०
रूपात् प्रायात् -१,२.११
दूरभूयस्त्वात् -१,२.१२
अपराधात् कर्तुश् च पुत्रदर्शनम् -१,२.१३
आकालिकेप्सा -१,२.१४
विद्याप्रशंसा -१,२.१५
सर्वत्वम् आधिकारिकम् -१,२.१६
फलस्य कर्मनिष्पत्तेस् तेषां लोकवत्परिमाणतः फलविशेषः स्यात् -१,२.१७
अन्त्ययोर् यथोक्तम् -१,२.१८
विधिर् वा स्याद् अपूर्वत्वाद् वादमात्रम ह्य् अनर्थकम् -१,२.१९
लोकवद् इति चेत् -१,२.२०
न पूर्वत्वात् -१,२.२१
उक्तं तु वाक्यशेषत्वम् -१,२.२२
विधिश् चानर्थकः क्वचित् तस्मात् स्तुतिः प्रतीयेत तत्सामान्याद् इतरेषु तथात्वम् -१,२.२३
प्रकरणे सम्भवन्नपकर्षो न कल्प्येत विध्यानर्थक्यं हि तं प्रति -१,२.२४
विधौ च वाक्यभेदः स्यात् -१,२.२५
हेतुर् वा स्याद् अर्थवत्वोपपत्तिभ्याम् -१,२.२६
स्थितिस् तु शब्दपूर्वत्वादचोदनाच तस्य -१,२.२७
व्यर्थे स्तुतिर् अन्याय्येति चेत् -१,२.२८
अर्थस् तु विधिशेषत्वाद् यथा लोके -१,२.२९
यदि च हेतुर् अवतिष्ठेत निर्देशात् सामान्याद् इति चेद् अवस्था विधीनां स्यात् -१,२.३०
तदर्थशास्त्रात् -१,२.३१
वाक्यनियमात् -१,२.३२
बुद्धिशास्त्रात् -१,२.३३
अविद्यमानवचनात् -१,२.३४
अचेतनेऽर्थबन्धनात् -१,२.३५
अर्थविप्रतिषेधात् -१,२.३६
स्वाध्यायवद्वचनात् -१,२.३७
अविज्ञेयात् -१,२.३८
अनित्यसंयोगान् मन्त्रार्थानर्थक्यम् -१,२.३९
अविशिष्टस् तु वाक्यार्थः -१,२.४०
गुणार्थेन पुनः श्रुतिः -१,२.४१
परिसंख्या -१,२.४२
अर्थवादो वा -१,२.४३
अविरुद्धं परम् -१,२.४४
संप्रैषे कर्मगर्हानुपालम्भः संस्कारत्त्वात् -१,२.४५
अभिधानेऽर्थवादः -१,२.४६
गुणाद् अप्रतिषेधः स्यात् -१,२.४७
विद्यावचनम् असंयोगात् -१,२.४८
सतः परमविज्ञानम् -१,२.४९
उक्तश् चानित्यसंयोगः -१,२.५०
लिङ्गोपदेशश् च तदर्थवत् -१,२.५१
ऊहः -१,२.५२
विधिशब्दाश् च -१,२.५३
धर्मस्य शब्दमूलत्वाद् अशब्दम् अनपेक्षं स्यात् -१,३.१
अपि वा कर्तृसामान्यात् प्रमाणम् अनुमानं स्यात् -१,३.२
विरोधे त्व् अनपेक्ष्यं स्याद् असति ह्य् अनुमानम् -१,३.३
हेतुदर्शनाच् च -१,३.४
शिष्टाकोपेऽविरुद्धम् इति चेत् -१,३.५
न शास्त्रपरिमाणत्वात् -१,३.६
अपि वा कारणग्रहणे प्रयुक्तानि प्रतीयेरन् -१,३.७
तेष्व् अदर्शनाद् विरोधस्य समा विप्रतिपत्तिः स्यात् -१,३.८
शास्त्रस्था वा तन्निमित्तत्वात् -१,३.९
चोदितं तु प्रतीयेताविरोधात् प्रमाणेन -१,३.१०
प्रयोगशास्त्रम् इति चेत् -१,३.११
नासन्नियमात् -१,३.१२
अवाक्यशेषाच् च -१,३.१३
सर्वत्र च प्रयोगात् सन्निधानशास्त्राच् च -१,३.१४
अनुमानव्यवस्थानात् तत्संयुक्तं प्रमाणं स्यात् -१,३.१५
अपि वा सर्व धर्मः स्यात् तन्न्यायत्वाद् विधानस्य -१,३.१६
दर्शनाद् विनियोगः स्यात् -१,३.१७
लिङ्गाभावाच् च नित्यस्य -१,३.१८
आख्या हि देशसंयोगात् -१,३.१९
न स्याद् देशान्तरेष्व् इति चेत् -१,३.२०
स्याद्योगाख्या हि माथुरवत् -१,३.२१
कर्मधर्मो वा प्रवणवत् -१,३.२२
तुल्यं तु कर्तृधर्मेण -१,३.२३
प्रयोगोत्पत्यशास्त्रत्वाच् छब्देषु न व्यवस्था स्यात् -१,३.२४
शब्दे प्रयत्ननिष्पत्तेर् अपराधस्य भागित्वम् -१,३.२५
अन्यायश् चानेकशब्दत्त्वम् -१,३.२६
तत्र तत्त्वम् अभियोगविशेषात् स्यात् -१,३.२७
तदशक्तिश् चानुरूपत्वात् -१,३.२८
एक देशत्वाच् च विभाक्तिव्यत्यये स्यात् -१,३.२९
प्रयोगचोदनाभावाद् अर्थैकत्वम् अविभागात् -१,३.३०
अद्रव्यशब्दत्वात् -१,३.३१
अन्यदर्शनाच् च -१,३.३२
आकृतिस् तु क्रियार्थत्वात् -१,३.३३
न क्रिया स्याद् इति चेदर्थान्तरे विधानं न द्रव्यम् इति चेत् -१,३.३४
तदर्थत्वात् प्रयोगस्याविभागः -१,३.३५
उक्तं समाम्नायैदम् अर्थ्यं तस्मात् सर्वं तदर्थं स्यात् -१,४.१
अपि वा नामधेयं स्याद् यदुत्पत्तावपूर्वम् अविधायकत्वात् -१,४.२
यस्मिन् गुणोपदेशः प्रधानतोऽभिसम्बन्धः -१,४.३
तत्प्रख्यञ् चान्यशास्त्रम् -१,४.४
तद्व्यपदेशं च -१,४.५
नामधेये गुणश्रुतेः स्याद् विधानम् इति चेत् -१,४.६
तुल्यत्वात् क्रिययोर् न -१,४.७
ऐकशब्द्ये परार्थवत् -१,४.८
तद्गुणास् तु विधायेर् अन्नविभागाद् विधानार्थे न चेद् अन्येन शिष्टाः -१,४.९
बर्हिराज्ययोर् असंस्कारे शब्दलाभाद् अतच्छब्दः -१,४.१०
प्रोक्षणीष्व् अर्थसंयोगात् -१,४.११
तथानिर्मन्थ्ये -१,४.१२
वैश्वदेवे विकल्प इति चेत् -१,४.१३
न वा प्रकरणात् प्रत्यक्षविधानाच् च न हि प्रकरणं द्रव्यस्य -१,४.१४
मिथश् चानर्थसम्बन्धः -१,४.१५
परार्थत्वाद् गुणानाम् -१,४.१६
पूर्ववन्तोऽविधानार्थास् तत्सामर्थ्यं समाम्नाये -१,४.१७
गुणस्य तु विधानार्थे तद्गुणाः प्रयोगे स्युर् अनर्थका न हि तं प्रत्यर्थवत्तास्ति -१,४.१८
तच्छेषो नोपपद्यते -१,४.१९
अविभागाद् विधानार्थे स्तुत्यर्थेनोपपद्येरन् -१,४.२०
कारणं स्याद् इति चेत् -१,४.२१
आनर्थक्याद् अकारणं कर्तुर् हि कारणानि गुणार्थो हि विधीयते -१,४.२२
तत्सिद्धिः -१,४.२३
जातिः -१,४.२४
सारूप्यात् -१,४.२५
प्रशंसा -१,४.२६
भूमा -१,४.२७
लिङ्गसमवायात् -१,४.२८
सन्दिग्धेषु वाक्यशेषात् -१,४.२९
अर्थाद् वा कल्पनैकदेशत्वात् -१,४.३०
भावार्थाः कर्मशब्दास् तेभ्यः क्रिया प्रतीयेतैष ह्य् अर्थो विधीयते -२,१.१
सर्वेषां भावोऽर्थ इति चेत् -२,१.२
येषाम् उत्पत्तौ स्वे प्रयोगे रूपोपलब्धिस् तानि नामानि तस्मात् तेभ्यः पराकाङ्क्षा भूतत्वात् स्वे प्रयोगै -२,१.३
येषां तूत्पत्ताव् अर्थे स्वे प्रयोगो न विद्यते तान्य् आख्यातानि तस्मात् तेभ्यः प्रतीयेताश्रितत्वात् प्रयोगस्य -२,१.४
चोदना पुनर् आरम्भः -२,१.५
तानि द्वैधं गुणप्रधानभूतानि -२,१.६
यैर् द्रव्यं न चिकीर्ष्यते तानि प्रधानभूतानि द्रव्यस्य गुणभूतत्वात् -२,१.७
यैस् तु द्रव्यं चिकीर्ष्यते गुणस् तत्र प्रतीयेत तस्य द्रव्यप्रधानत्वात् -२,१.८
धर्ममात्रे तु कर्म स्याद् अनिर्वृत्तेः प्रयाजवत् -२,१.९
तुल्यश्रुतित्वाद् वेतरैः सधर्मः स्यात् -२,१.१०
द्रव्योपदेश इति चेत् -२,१.११
न तदर्थत्वाल् लोकवत् तस्य च शेषभूतत्वात् -२,१.१२
स्तुतशस्त्रयोस् तु संस्कारो याज्यावद् देवताभिधानत्वात् -२,१.१३
अर्थेन त्व् अपकृष्येत देवतानाम् अचोदनार्थस्य गुणभूतत्वात् -२,१.१४
वशावद् वा गुणार्थं स्यात् -२,१.१५
न श्रुतिसमवायित्वात् -२,१.१६
व्यपदेशभेदाच् च -२,१.१७
गुणश् चानर्थकः स्यात् -२,१.१८
तथा याज्यापुरोरुचोः -२,१.१९
वशायाम् अर्थसमवायात् -२,१.२०
यच् चेति वार्थवत्त्वात् स्यात् -२,१.२१
न त्वाम्नातेषु -२,१.२२
दृश्यते -२,१.२३
अपि वा श्रुतिसंयोगात् प्रकरणे स्तौतिशंसती क्रियोत्पात्तिं विदध्याताम् -२,१.२४
शब्दपृथक्त्वाच् च -२,१.२५
अनर्थकं च तद्वचनम् -२,१.२६
अन्यश् चार्थः प्रतीयते -२,१.२७
अभिधानं च कर्मवत् -२,१.२८
फलनिर्वृत्तिश् च -२,१.२९
विधिमन्त्रयोर् ऐकार्थ्यम् ऐकशब्द्यात् -२,१.३०
अपि वा प्रयोगसामर्थ्यान् मन्त्रोऽभिधानवाची स्यात् -२,१.३१
तच्चोदकेषु मन्त्राख्या -२,१.३२
शेषे ब्राह्मणशब्दः -२,१.३३
अनाम्नातेष्व् अमन्त्रत्वमाम्नातेषु हि विभागः -२,१.३४
तेषाम् ऋग्यत्रार्थवशेन पादव्यवस्था -२,१.३५
गीतिषु स माख्या -२,१.३६
शेषे यजुः शब्दाः -२,१.३७
निगदो वा चतुर्थं स्याद् धर्मविशेषात् -२,१.३८
व्यपदेशाच् च -२,१.३९
यजूंषि वा तद्रूपत्वात् -२,१.४०
वचनाद् धर्मविशेषः -२,१.४१
अर्थाच् च -२,१.४२
गुणार्थो व्यपदेशः -२,१.४३
सर्वेषाम् इति चेत् -२,१.४४
न, ऋग्व्यपदेशात् -२,१.४५
अर्थैकत्वाद् एकं वाक्यं साकाङ्क्षं चेद् विभागे स्यात् -२,१.४६
समेषु वाक्यभेदः स्यात् -२,१.४७
अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात् -२,१.४८
व्यवायान् नानुषज्येत -२,१.४९
शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् -२,२.१
एकस्यैवं पुनः श्रुतिर् अविशेषाद् अनर्थकं हि स्यात् -२,२.२
प्रकरणं तु पौर्णमास्यां रूपावचनात् -२,२.३
विशेषदर्शनाच् च सर्वेषां समेषु ह्य् अप्रवृत्तिः स्यात् -२,२.४
गुणस् तु श्रुतिसंयोगात् -२,२.५
चोदना वा गुणानां युगपच्छास्त्राच् चोदिते हि तदर्थत्वात् तस्यतस्योपदिश्येत -२,२.६
व्यपदेशश् च तद्वत् -२,२.७
लिङ्गदर्शनाच् च -२,२.८
पौर्णमासीवद् उपांशुयाजः स्यात् -२,२.९
चोदना वाप्रकृतत्वात् -२,२.१०
गुणोपबन्धात् -२,२.११
प्राये वचनाच् च -२,२.१२
आघाराग्निहोत्रम् अरूपत्वात् -२,२.१३
संज्ञोपबन्धात् -२,२.१४
अप्रकृतत्वाच् च -२,२.१५
चोदना वा शब्दार्थस्य प्रयोगभूतत्वात् तत्सन्निधेर् गुणार्थेन पुनः श्रुतिः -२,२.१६
द्रव्यसंयोगाच् चोदना पशुसोमयोः प्रकरणे ह्य् अनर्थको द्रव्यसंयोगो न हि तस्य गुणार्थेन -२,२.१७
अचोदकाश् च संस्काराः -२,२.१८
तद्भेदात् कर्मणोऽभ्यासो द्रव्यपृथक्त्वाद् अनर्थकं हि स्याद् भेदो द्रव्यगुणीभावात् -२,२.१९
संस्कारस् तु न भिद्येत परार्थत्वाद् द्रव्यस्य गुणभूतत्वात् -२,२.२०
पृथक्त्त्वनिवेशात् संख्यया कर्मभेदः स्यात् -२,२.२१
संज्ञा चोत्पत्तिसंयोगात् -२,२.२२
गुणाश् चापूर्वसंयोगे वाक्योः समत्त्वात् -२,२.२३
अगुणे तु कर्मशब्दे गुणस् तत्र प्रतीयेत -२,२.२४
फलश्रुतेस् तु कर्म स्यात् फलस्य कर्मयोगित्वात् -२,२.२५
अतुल्यत्वात् तु वाक्ययोर् गुणे तस्य प्रतीयेत -२,२.२६
समेषु कर्मयुक्तं स्यात् -२,२.२७
सौभरे पुरुषश्रुतेर् निधनं कामसंयोगः -२,२.२८
सर्वस्य वोक्तकामत्वात् तस्मिन् कामश्रुतिः स्यान् निधनार्था पुनः श्रुतिः -२,२.२९
गुणस् तु क्रतुसंयोगात् कर्मान्तरं प्रयोजयेत् संयोगस्याशेषभूत्वात् -२,३.१
एकस्य तु लिङ्गभेदात् प्रयोजनार्थम् उच्येतैकत्वं गुणवाक्यत्वात् -२,३.२
अवेष्टौ यज्ञसंयोगात्क्रतुप्रधानमुच्यते -२,३.३
आधाने सर्वशेषत्वात् -२,३.४
अयनेषु चोदनान्तरं संज्ञोपबन्धात् -२,३.५
अगुणाच् च कर्मचोदना -२,३.६
समाप्तं च फले वाक्यम् -२,३.७
विकारो वा प्रकरणात् -२,३.८
लिङ्गदर्शनाच् च -२,३.९
गुणात् संज्ञोपबन्धः -२,३.१०
समाप्तिर् अविशिष्टा -२,३.११
संस्कारश् चाप्रकरणेऽकर्मशब्दत्वात् -२,३.१२
यावद् उक्तं वा कर्मणः श्रुतिमूलत्वात् -२,३.१३
यजतिस् तु द्रव्यफलभोक्तृसंयोगाद् एतेषां कर्मसम्बन्धात् -२,३.१४
लिङ्गदर्शनाच् च -२,३.१५
विषये प्रायदर्शनात् -२,३.१६
अर्थवादोपपत्तेश् च -२,३.१७
संयुक्तस् त्व् अर्थशब्देन तदर्थः श्रुतिसंयोगात् -२,३.१८
पात्नीवते तु पूर्वत्वाद् अवच्छेदः -२,३.१९
अद्रव्यत्वात् कवेले कर्मशेषः स्यात् -२,३.२०
अग्निस् तु लिङ्गदर्शनात् क्रतुशब्दः प्रतीयेत -२,३.२१
द्रव्यं वा स्याच् चोदनायास् तदर्थत्वात् -२,३.२२
तत्संयोगात् क्रतुस् तदाख्यः स्यात् तेन धर्मविधानानि -२,३.२३
प्रकरणान्तरे प्रयोजनान्यत्वम् -२,३.२४
फलं चाकर्मसंनिधौ -२,३.२५
संनिधौ त्व् अविभागात् फलार्थेन पुनः श्रुतिः -२,३.२६
आग्नेयसूक्तहेतुत्वाद् अभ्यासेन प्रतीयेत -२,३.२७
अविभागात् तु कर्मणां द्विरुक्तेर् न विधीयते -२,३.२८
अन्यार्था वा पुनः श्रुतिः -२,३.२९
यावज्जीविकोऽभ्यासः कर्मधर्मः प्रकरणात् -२,४.१
कर्तुर् वा श्रुतिसंयोगात् -२,४.२
लिङ्गदर्शनाच् च कर्मधर्मे हि प्रक्रमेण नियम्येत तत्रानर्थकम् अन्यत् स्यात् -२,४.३
व्यपवर्गं च दर्शयति कालश् चेत् कर्मभेदः स्यात् -२,४.४
अनित्यत्वात् तु नैवं स्यात् -२,४.५
विरोधश् चापि पूर्ववत् -२,४.६
कर्तुस् तु धर्मनियमात् कालशास्त्रं निमित्तं स्यात् -२,४.७
नामरूपधर्मविशेषपुनरुक्तिनिन्दाशाक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच् छाखान्तरेषु कर्मभेदः स्यात् -२,४.८
एकं वा संयोगरूपचोदनाख्याविशेषात् -२,४.९
न नाम्ना स्याद् अचोदनाभिधानत्वात् -२,४.१०
सर्वेषां चैककर्म्यं स्यात् -२,४.११
कृतकं चाभिधानम् -२,४.१२
एकत्वेऽपि परम् -२,४.१३
विद्यायां धर्मशास्त्रम् -२,४.१४
अग्नेयवत्पुनर्वचनम् -२,४.१५
अद्विर्वचनं वा श्रुतिसंयोगाविशेषात् -२,४.१६
अर्थासन्निधेश् च -२,४.१७
न चैकं प्रतिशिष्यते -२,४.१८
समाप्तिवच् च संप्रेक्षा -२,४.१९
एकत्वेऽपि पराणि निन्दाशक्तिसमाप्तिवचनानि -२,४.२०
प्रायश्चित्तं निमित्तेन -२,४.२१
प्रक्रमाद् वा नियोगेन -२,४.२२
समाप्तिः पूर्ववत्त्वाद्यथाज्ञाते प्रतीयेत -२,४.२३
लिङ्गमविशिष्टं सर्वशेषत्वान् न हि तत्र कर्मचोदना तस्मात् द्वादशाहस्याहारव्यपदेशः स्यात् -२,४.२४
द्रव्ये चाचोदितत्वाद् विधीनाम् अव्यवस्था स्यान् निर्देशाद् व्यतिष्ठेत तस्मान् नित्यानुवादः स्यात् -२,४.२५
विहितप्रतिषेधात् पक्षेऽतिरेकः स्यात् -२,४.२६
सारस्वते विप्रतिषेधाद्यदेति स्यात् -२,४.२७
उपहव्येऽप्रतिप्रसवः -२,४.२८
गुणार्था वा पुनः श्रुतिः -२,४.२९
प्रत्ययं चापि दर्शयति -२,४.३०
अपि वा क्रमसंयोगाद् विधिपृथक्त्वम् एकस्यां व्यवतिष्ठेत -२,४.३१
विरोधिना त्व् असंयोगाद् ऐककर्म्ये तत्संयोगाद् विधीनां सर्वकर्मप्रत्ययः स्यात् -२,४.३२
अथातः शेषलक्षणम् -३,१.१
शेषः परार्थत्वात् -३,१.२
द्रव्यगुणसंस्कारेषु बादरिः -३,१.३
कर्माण्यपि जैमिनिः फलार्थत्वात् -३,१.४
फलं च पुरुषार्थत्वात् -३,१.५
पुरुषश् च कर्मार्थत्वात् -३,१.६
तेषाम् अर्थेन सबन्धः -३,१.७
विहितस् तु सर्वधर्मः स्यात् संयोगतोऽविशेषात् प्रकरणाविशेषाच् च -३,१.८
अर्थलोपाद् अकर्मे स्यात् -३,१.९
फलं तु सह चेष्टया शब्दार्थोऽभावाद् विप्रयोगे स्यात् -३,१.१०
द्रव्यं चोत्पत्तिसंयोगात् तद् अर्थम् एव चोद्येत -३,१.११
अर्थैकत्वे द्रव्यगुणयोर् ऐककर्म्यान् नियमः स्यात् -३,१.१२
एकत्वयुक्तम् एकस्य श्रुतिसंयोगात् -३,१.१३
सर्वेषां वा लक्षणत्वाद् अविशिष्टं हि लक्षणम् -३,१.१४
चोदितेतुपरार्थत्वाद् यथाश्रुति प्रतीयेता -३,१.१५
संस्काराद् वागुणानाम् अव्यवस्था स्यात् -३,१.१६
व्यवस्थावार्थस्य श्रुतिसंयोगात् तस्य शब्द प्रमाणत्वात् -३,१.१७
आनर्थक्यात्तदङ्गेषु -३,१.१८
कर्तृगुणे तु कर्मासमवायाद् वाक्यभेदः स्यात् -३,१.१९
साकाङ्क्षं त्व् एकवाक्यं स्याद् असमाप्तं हि पूर्वेण -३,१.२०
सन्दिग्धे तुब्यवायाद् वाक्यभेदः स्यात् -३,१.२१
गुणानां च परार्थत्त्वाद् असम्बन्धः समत्वात् स्यात् -३,१.२२
मिथश् चानर्थसम्वन्धात् -३,१.२३
आनन्तर्यम् अचोदना -३,१.२४
बाक्यानां च समाप्तत्वात् -३,१.२५
शेषस् तु गुणसंयुक्तः साधारणः प्रतीयेत मिथस् तेषाम् असम्बन्धात् -३,१.२६
व्यवस्था वार्थसंयोगाल् लिङ्गस्यार्थेन सम्बन्धाल्लक्षणार्था गुणश्रुतिः -३,१.२७
अर्थाभिधानसामर्थ्यान् मन्त्रेषु शेषभावः स्यात् तस्माद् उत्पत्तिसम्बन्धोऽर्थेन नित्यसंयोगात् -३,२.१
संस्कारकत्वाद् अचोदितेन स्यात् -३,२.२
वचनात् त्व् अयथार्थम् ऐन्द्री स्यात् -३,२.३
गुणाद् वाप्य् अभिधानं स्यात् सम्बन्धस्याशास्त्रहेतुत्वात् -३,२.४
तथाहवानम् अपीति चेत् -३,२.५
नकालविधिश् चोदितत्वात् -३,२.६
गुणाभावात् -३,२.७
लिङ्गाच् च -३,२.८
विधिकोपश् चोपदेशे स्यात् -३,२.९
तथोत्थानविसर्जने -३,२.१०
सूक्तवाके च कालविधिः परार्थत्वात् -३,२.११
उपदेशो वा याज्याशब्दो हि नाकस्मात् -३,२.१२
सदेवतार्थस् तत्संयोगात् -३,२.१३
प्रतिपत्तिर् इति चेत् स्विष्टकृद्वदुभयसंस्कारः स्यात् -३,२.१४
कृत्स्नोपदेशाद् उभयत्र सर्ववचनम् -३,२.१५
यथार्थं वा शेषभूतसंस्कारात् -३,२.१६
वचनाद् इति चेत् -३,२.१७
प्रकरणाविभागाद् उभे प्रति कृत्स्नशब्दः -३,२.१८
लिङ्गक्रमसमाख्यानात् काम्ययुक्तं समामनानम् -३,२.१९
अधिकारे च मन्त्रविधिर् अतदाख्येषु शिष्टत्वात् -३,२.२०
तदाख्यो वा प्रकरणोपपत्तिभ्याम् -३,२.२१
अनर्थकश् चोपदेशः स्याद् असम्बन्धात् फलवता न ह्य् उपस्थानं फलवत् -३,२.२२
सर्वेषां चोपदिष्टत्वात् -३,२.२३
लिङ्गसमाख्यानाभ्यां भक्षार्थतानुवाकस्य -३,२.२४
तस्य रूपोपदेशाभ्याम् अपकर्षोऽर्थस्य चोदितत्वात् -३,२.२५
गुणाभिधानान् मन्द्रादिर् एकमन्त्रः स्यात् तयोर् एकार्थसंयोगात् -३,२.२६
लिङ्गविशेषनिर्देशात् समानविधानेष्व् अनैन्द्राणाम् अमन्त्रत्वम् -३,२.२७
यथादेवतं वा तत्प्रकृतित्वं हि दर्शयति -३,२.२८
पुनरभ्युन्नीतेषु सर्वेषाम् उपलक्षणं द्विशेषत्वात् -३,२.२९
अनयाद् वा पूर्वस्यानुपलक्षणम् -३,२.३०
ग्रहणाद् वापनयः स्यात् -३,२.३१
पात्नीवते तु पूर्ववत् -३,२.३२
ग्रहणाद् वापनीतं स्यात् -३,२.३३
त्वष्टारं तूपलक्षयेत् पानात् -३,२.३४
अतुल्यत्वात् तु नैवं स्यात् -३,२.३५
त्रिंशच् च परार्थत्वात् -३,२.३६
वषट्कारश् च कर्तृवत् -३,२.३७
छन्दः प्रतिषेधस् तु सर्वगामित्वात् -३,२.३८
ऐन्द्राग्ने तु लिङ्गभाबात् स्यात् -३,२.३९
एकस्मिन् वा देवतान्तराद् विभागवत् -३,२.४०
छन्दश् च देवतावत् -३,२.४१
सर्वेषु वाभावाद् एकच्छन्दसः -३,२.४२
सर्वेषां वैकमन्त्र्यम् ऐतिशायनस्य भक्तिपानत्वात् सवनाधिकारो हि -३,२.४३
श्रुतेर् जाताधिकारः स्यात् -३,३.१
वेदो वा प्रायदर्शनात् -३,३.२
लिङ्गाच् च -३,३.३
धर्मोपदेशाच् च न हि द्रव्येण सम्बन्धः -३,३.४
त्रयीविद्याख्या च तद्विद् धि -३,३.५
व्यक्तिक्रमे यथाश्रुतीति चेत् -३,३.६
न सर्वस्मिन् निवेशात् -३,३.७
वेदसंयोगान् न प्रकरणेन बाध्यते -३,३.८
गुणमुख्यव्यतिक्रमे तदर्थत्वान् मुख्येन वेदसंयोगः -३,३.९
भूयस्त्वेनोभयश्रुति -३,३.१०
असंयुक्तं प्रकरणाद् इति कर्तव्यतार्थित्वात् -३,३.११
क्रमश् च देशसामान्यात् -३,३.१२
आख्या चैवम तदर्थत्वात् -३,३.१३
श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानां समवाये पारदौर्बल्यम् अर्थविप्रकर्षात् -३,३.१४
अहीनो वा प्रकरणाद् गौणः -३,३.१५
असंयोगात् तु मुख्यस्य तस्माद् अपकृष्येत -३,३.१६
द्वित्वबहुत्वयुक्तं वा चोदनात् तस्य -३,३.१७
पक्षेणार्थकृतस्येति चेत् -३,३.१८
नकृतेर् एकसंयोगात् -३,३.१९
जाघनी चैकदेशत्वात् -३,३.२०
चोदना वापूर्वत्वात् -३,३.२१
एकदेश इति चेत् -३,३.२२
न प्रकृतेर् अशास्त्रनिष्पत्तेः -३,३.२३
सन्तर्दनं प्रकृतौ क्रयणवदनर्थलोपात् स्यात् -३,३.२४
उत्कर्षो वा ग्रहणाद् विशेषस्य -३,३.२५
कर्तृतो वा विशेषस्य तन्निमित्तत्वात् -३,३.२६
क्रतुतो वार्थवादान् उपपत्तेः स्यात् -३,३.२७
संस्थाश् च कर्तृवद् धारणार्थाविशेषात् -३,३.२८
उक्थ्यादिषु वार्थस्य विद्यमानत्वात् -३,३.२९
अविशेषात् स्तुतिर् व्यर्थेति चेत् -३,३.३०
स्याद् अनित्यत्वात् -३,३.३१
सङ्ख्यायुक्तं क्रतोः प्रकरणात् स्यात् -३,३.३२
नैमित्तिकं वा कर्तृसंयोगाल् लिङ्गस्य तन्निमित्तत्वात् -३,३.३३
पौष्णं पैषणं विकृतौ प्रतीयेताचोदनात् प्रकृतौ -३,३.३४
तत्सर्वार्थम् अविशेषात् -३,३.३५
चरौवार्थोक्तं पुरोडाशेऽर्थविप्रतिषेधात् पशौ न स्यात् -३,३.३६
चराव् अपीति चेत् -३,३.३७
न पक्तिनामत्वात् -३,३.३८
एकस्मिन्न् एकसंयोगात् -३,३.३९
धर्माविप्रतिषेधाच् च -३,३.४०
अपि वा सद्वितीये स्याद् देवतानिमित्तत्वात -३,३.४१
लिङ्गदर्शनाच् च -३,३.४२
वचनात् सर्वपेषणं तं प्रति शास्त्रवत्वाद् अर्थाभावाद् विचराव् अपेषणं भवति -३,३.४३
एकस्मिन् वार्थधर्मत्वाद् ऐन्द्राग्नव् अदुभयोर् न स्याद् अचोदितत्वात् -३,३.४४
हेतुमात्रम् अदन्तत्वम् -३,३.४५
वचनं परम् -३,३.४६
निवीताम् इति मनुष्यधर्मः शब्दस्य तत्प्रधानत्वात् -३,४.१
अपदेशो वार्थस्य विद्यमानतत्त्वात् -३,४.२
विधिस्तवर्पूर्वत्वात् स्यात् -३,४.३
स प्रायात् कर्मधर्मः स्यात् -३,४.४
वाक्यशेषत्वात् -३,४.५
तत्प्रकरणे यत् तत् संयुक्तम् अविप्रतिषेधात् -३,४.६
तत्प्रधाने वा तुल्यवत् प्रसंख्यानाद् इतरस्य तदर्थत्वात् -३,४.७
अर्थवादो वा प्रकरणात् -३,४.८
विधिना चैकवाक्यत्वात् -३,४.९
दिग्विभागश् च तद्वत् सम्बन्धस्यार्थहेतुत्वात् -३,४.१०
परुषि दितपूर्णघृतविदग्धं च तद्वत् -३,४.११
अकर्म क्रतुसंयुक्तं संयोगान् नित्यानुवादः स्यात् -३,४.१२
विधिर् वा संयोगान्तरात् -३,४.१३
अहीनवत् पुरुषस् तदर्थत्वात् -३,४.१४
प्रकरणविशेषाद् वा तद्युक्तस्य संस्कारो द्रव्यवत् -३,४.१५
व्यपदेशाद् अपकृष्येत -३,४.१६
शंयौ च सर्वपरिदानात् -३,४.१७
प्रागपरोधान् मलवद् वाससः -३,४.१८
अन्नप्रतिषेधाच् च -३,४.१९
अप्रकरणे तु तद्वर्मस् ततो विशेषात् -३,४.२०
अद्रव्यत्वात् तु शेषः स्यात् -३,४.२१
वेदसंयोगात् -३,४.२२
द्रव्यसंयोगाच् च -३,४.२३
स्याद् वास्य संयोगवत् फलेन सम्बन्धस् तस्मात् कर्मैतिशायनः -३,४.२४
शेषाः प्रकरणेऽविशेषात् सर्वकर्मणाम् -३,४.२५
होमास् तु व्यवतिष्ठेर् अन्नाहवनीयसंयोगात् -३,४.२६
शेषश् च समाख्यानात् -३,४.२७
दोषात् त्व् इष्टिर् लौकिके स्याच् छास्त्राद् धि वैदिक न दोषः स्यात् -३,४.२८
अर्थवादो वानुपपातत् तस्माद् यज्ञे प्रतीयेत -३,४.२९
अचोदित च कर्मभेदात् -३,४.३०
लिङ्गाद् आर्त्विजे स्यात् -३,४.३१
पानव्यापच् च तद्वत् -३,४.३२
दोषात् तु वैदिके स्याद् अर्थाद् धि लौकिके न दोषः स्यात् -३,४.३३
तत्सर्वत्राविशेषात् -३,४.३४
स्वामिनो वा तदर्थत्वात् -३,४.३५
लिङ्गदर्शनाच् च -३,४.३६
सर्वप्रदानं हविषस् तदर्थत्वात् -३,४.३७
निरवदानात् तु शेषः स्यात् -३,४.३८
उपायो वा तदर्थत्वात् -३,४.३९
कृतत्वात् तु कर्मणः सकृत् स्याद् द्रव्यस्य गुणभूतत्वात् -३,४.४०
शेषदर्शनाच् च -३,४.४१
अप्रयोजकत्वाद् एकस्मात् क्रियेरञ् छेषस्य गुणभूतत्वात् -३,४.४२
संस्कृतत्वाच् च -३,४.४३
सर्वेभ्यो वा कारणाविशेषात् संस्कारस्य तदर्थत्वात् -३,४.४४
लिङ्गदर्शनाच् च -३,४.४५
एकस्माच् चेद् यथाकाम्यम् अविशेषात् -३,४.४६
मुख्याद् वा पूर्वकालत्वात् -३,४.४७
भक्षाश्रवणाद् दानशब्दः परिक्रये -३,४.४८
तत्संस्तवाच् च -३,४.४९
भक्षार्थो वा द्रव्ये समत्वात् -३,४.५०
व्यादेशाद् दानसंस्तुतिः -३,४.५१
आज्याच् च सर्वसंयोगात् -३,५.१
कारणाच् च -३,५.२
एकस्मिन्त् समवत्तशब्दात् -३,५.३
आज्ये च दर्शनात्स्विष्टकृदर्थवदस्य -३,५.४
अशेषत्वात् तु नैवं स्यात् सर्वादानाद् अशेषता -३,५.५
साधारण्यान् न ध्रुवायां स्यात् -३,५.६
अवत्तत्वाच् च जुह्वां तस्य च होमसंयोगात् -३,५.७
चमसवद् इति चेत् -३,५.८
न चोदनाविरोधाद् धविः प्रकल्पनात्वाच् च -३,५.९
उत्पन्नाधिकारात् सति सर्ववचनम् -३,५.१०
जातिविशेषात् परम् -३,५.११
अन्त्यम् अरेकार्थे -३,५.१२
साकम्प्रस्थाय्ये स्विष्टकृद् इडं च तद्वत् -३,५.१३
सौत्रामण्यां च ग्रहेषु -३,५.१४
तद्वच् च शेषवचनम् -३,५.१५
द्रव्यैकत्वे कर्मभेदात् प्रतिकर्म क्रियेरन् -३,५.१६
अविभागाच् च शेषस्य सर्वान् प्रत्यविशिष्ठत्वात् -३,५.१७
ऐन्द्रवायवे तु वचनात् प्रतिकर्म भक्षः स्यात् -३,५.१८
सोमेऽवचनाद् भक्षो न विद्यते -३,५.१९
स्याद् वान्यार्थदर्शनात् -३,५.२०
वचनानि त्व् अपूर्वत्वात् तस्माद् यथोपदेशं स्युः -३,५.२१
चमसेषु समाख्यानात् संयोगस्य तन्निमित्तत्त्वात् -३,५.२२
उद्गातृचमसमेकः श्रुतिसंयोगात् -३,५.२३
सर्वे वा सर्वसंयोगात् -३,५.२४
स्तोत्रकारिणां वा तत्संयोगाद् बहुश्रुतेः -३,५.२५
सर्वे तु वेदसंयोगात् कारणाद् एकदेशे स्यात् -३,५.२६
ग्रावस्तुतो भक्षो न विद्यतेऽनाम्नानात् -३,५.२७
हारियोजने वा सर्वसंयोगात् -३,५.२८
चमसिनां वा सन्निधानात् -३,५.२९
सर्वेषां तु विधित्वात् तदर्था चमसिश्रुतिः -३,५.३०
वषट्काराच् च भक्षयेत् -३,५.३१
होमाभिषबाभ्यां च -३,५.३२
प्रत्यक्षोपदेशाच् चमसानाम् अव्यक्तः शेषे -३,५.३३
स्याद् वा कारणभावाद् अनिर्देशश् चमसानां कर्तुस् तद्वचनत्वात् -३,५.३४
चमसे चान्यदर्शनात् -३,५.३५
एकपात्रे क्रमाद् अध्वर्युः पूर्वो भक्षयेत् -३,५.३६
होता वा मन्त्रवर्णात् -३,५.३७
वचनाच् च -३,५.३८
कारणानुपूर्व्याच् च -३,५.३९
वचनाद् अनुज्ञातभक्षणम् -३,५.४०
तदुपहूत उपह्वयस्वेत्य् अनेनानुज्ञापयेलिङ्गात् -३,५.४१
तत्रार्थात् प्रतिवचनम् -३,५.४२
तदेकत्राणां समवायात् -३,५.४३
याज्यापनयेनापनीतो भक्षः प्रवरवत् -३,५.४४
यष्टुर् वा कारणागमात् -३,५.४५
प्रवृत्तत्वात् प्रवरस्यानपायः -३,५.४६
फलचमसो नैमित्तिको भक्षविकारः श्रुतिसंयोगात् -३,५.४७
इज्याबिकारो वा संस्कारस्य तदर्थत्वात् -३,५.४८
होमात् -३,५.४९
चमसैश् च तुल्यकालत्वात् -३,५.५०
लिङ्गदर्शनाच् च -३,५.५१
अनुप्रसर्पिषु सामान्यात् -३,५.५२
ब्रह्मणा वा तुल्यशब्दत्वात् -३,५.५३
तत् सर्वार्थम् अप्रकरणात् -३,६.१
प्रकृतौ वाद्विरुक्तत्वात् -३,६.२
तद्वर्जं तु वचनप्राप्ते -३,६.३
दर्शनाद् इति चेत् -३,६.४
न चोदनैकार्थ्यात् -३,६.५
उत्पत्तिर् इति चेत् -३,६.६
न तुल्यत्वात् -३,६.७
चोदनार्थकार्त्स्न्यात् तु मुख्यविप्रतिषेधात् प्रकृत्यर्थः -३,६.८
प्रकरणविशेषात् तु विकृतौ विरोधि स्यात् -३,६.९
नैमित्तिकं तु प्रकृतौ तद्विकारः संयोगविशेषात् -३,६.१०
इष्टयर्थमग्न्याधेयं प्रकरणात् -३,६.११
न वा तासां तदर्थत्वात् -३,६.१२
लिङ्गदर्शनाच् च -३,६.१३
तत्प्रकृत्यर्थं यथान्येऽनारभ्यवादाः -३,६.१४
सर्वार्थ वाग्न्यधानस्य स्वकालत्वात् -३,६.१५
तासाम् अग्निः प्रकृतितः प्रयाजवत् स्यात् -३,६.१६
न वा तासां तदर्थत्वात् -३,६.१७
तुल्यः सर्वेषां पशुविधिः प्रकरणाविशेषात् -३,६.१८
स्थानाच् च पूर्वस्य -३,६.१९
श्वस् त्व् एकेषां तत्र प्राक्श्रुतिर् गुणार्था -३,६.२०
तेनोत्कृष्टस्य कालविधिर् इति चेत् -३,६.२१
नैकदेशत्वात् -३,६.२२
अर्थेनेति चेत् -३,६.२३
न श्रुतिविप्रतिषेधात् -३,६.२४
स्थानात् तु पूर्वस्य संस्कारस्य तदर्थत्वात् -३,६.२५
लिङ्गदर्शनाच् च -३,६.२६
अचोदना गुणार्थेन -३,६.२७
दोहयोः कालभेदाद् असंयुक्तं शृतं स्यात् -३,६.२८
प्रकरणविभागाद् वा तत्संयुक्तस्य कालशास्त्रम् -३,६.२९
तद्वत् सवनान्तरे ग्रहाम्नानम् -३,६.३०
रशना च लिङ्गदर्शनात् -३,६.३१
आराच् छिष्टम् असंयुक्तम् इतरैः सन्निधानात् -३,६.३२
संयुक्तं वा तदर्थत्वाच् छेषस्य तन्निमित्तत्वात् -३,६.३३
निर्देशाद् व्यवतिष्ठेत -३,६.३४
अग्न्यङ्गम् अप्रकरणे तद्वत् -३,६.३५
नैमित्तिकम् अतुल्यत्वाद् असमानविथानां स्यात् -३,६.३६
प्रतिनिधिश् च मिमांसा-३,६.३७
तद्वत्प्रयोजनैकत्वात् -३,६.३८
अशास्त्रलक्षणत्वाच्च -३,६.३९
नियमार्था गुणश्रुतिः -३,६.४०
संस्थास् तु समानविधानाः प्रकरणाविशेषात् -३,६.४१
व्यपदेशश् च तुल्यवत् -३,६.४२
विकासस् तु कामसंयोगे नित्यस्य समत्वात् -३,६.४३
अपि वा द्विरुक्तत्वात् प्रकृतेर् भविष्यन्तीति -३,६.४४
बचनात् तु समुच्चयः -३,६.४५
प्रतिषेधाच् च पूर्वलिङ्गनाम् -३,६.४६
गुणविशेषाद् एकस्य व्यपदेशः -३,६.४७
प्रकरणविशेषाद् असंयुक्तं प्रधानस्य -३,७.१
सर्वेषां वा शेषत्वस्यातत्प्रयुक्तत्वात् -३,७.२
आरादपीति चेत् -३,७.३
न तद्वाक्यं हि तदर्थत्वात् -३,७.४
लिङ्गदर्शनाच् च -३,७.५
फलसंयोगात् तु स्वामियुक्तं प्रधानस्य -३,७.६
चिकीर्षयो च संयोगात् -३,७.७
तथाभिधानेन -३,७.८
तद्युक्ते तु फलश्रुतिस् तस्मात् सर्वचिकीर्षा स्यात् -३,७.९
गुणाभिधानात् सर्वार्थम् अभिधानम् -३,७.१०
दीक्षादक्षिणं तु वचनात् प्रधानस्य -३,७.११
निवृत्तिदर्शनाच्च -३,७.१२
तथा यूपस्य वेदि -३,७.१३
देशमात्रं वा शिष्टेनैकवाक्यत्वात् -३,७.१४
सामधेनीस् तद् अन्वाहुर् इति हविर् द्धानयोर् वचनात् सामधेनीनाम् -३,७.१५
देशमात्रं वा प्रत्यक्षं ह्य् अर्थकर्म सोमस्य -३,७.२६
समाख्यानं च तद्वत् -३,७.१७
शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् तस्मात् स्वयं प्रयोगे स्यात् -३,७.१८
उत्सर्गे तु प्रधानत्वाच् छेषकारी प्रधानस्य तस्माद् अन्यः स्वयं वा स्यात् -३,७.१९
अन्यो वा स्यात् परिक्रयाम्नानाद् विप्रतिषेधात् प्रत्यग् आत्मनि -३,७.२०
तत्रार्थात् कर्तृपरिमाणं स्याद् अनियमोऽविशेषात् -३,७.२१
अपि वा श्रुति भेदात् प्रतिनामधेयं स्युः -३,७.१२
एकस्य कर्मभेदाद् इति चेत् -३,७.१३
नोत्पत्तौ हि -३,७.१४
चमसाध्वर्यवश् च तैर् व्यपदेशात् -३,७.१५
उत्पत्तौ तु बहुश्रुतेः -३,७.१६
दशत्वं लिङ्गदर्शनात् -३,७.१७
शमिता च शब्दभेदात् -३,७.१८
प्रकरणाद् वोत्पत्त्यसंयोगात् -३,७.२९
उपगाश् च लिङ्गदर्शनात् -३,७.३०
विक्रयी त्वन्यः कर्मणोऽचोदित्वात् -३,७.३१
कर्मकार्यात् सर्वेषाम् ऋत्विक्त्वम् अविशेषात् -३,७.३२
न वा परिसंख्यानात् -३,७.३३
पक्षेणेति चेत् -३,७.३४
न सर्वेषाम् अधिकारः -३,७.३५
नियमस् तु दक्षिणाभिः श्रुतिसंयोगात् -३,७.३६
उक्त्वा च यजमानत्वं तेषां दीक्षाबिधानात् -३,७.३७
स्वामिसप्तदशाः कर्मसामान्यात् -३,७.३८
ते सर्वार्थाः प्रयुक्तत्वाद् अग्नयश् च स्वकालत्वात् -३,७.३९
तत्सयोगात् कर्मणो व्यवस्था स्यात् संयोगास्यार्थवत्वात् -३,७.४०
तस्योपदेशसमाख्यानेन निर्देशः -३,७.४१
तद्वच् च लिङ्गदर्शम् -३,७.४२
प्रैषानुवचनं मैत्रावरुणस्योपदेशात् -३,७.४३
पुरोऽनुवाक्याधिकारो वा प्रैषसन्निधानात् -३,७.४४
प्रातर् अनुवाके च होतृदर्शनात् -३,७.४५
चमसांश्चमसाध्वर्यवः सामाख्यानात् -३,७.४६
अध्वर्युर्वा तन्न्यायत्वात् -३,७.४७
चमसे चान्यदर्शनात् -३,७.४८
अशक्तौ ते प्रतीयेरन् -३,७.४९
वेदोपदेशात् पूर्ववद्वेदान्यत्वे यथोपदेशं स्युः -३,७.५०
तद्गुणाद् वा स्वधर्मः स्याद् अधिकारसामथ्यात् सहाङ्गैर् अव्यक्तः शेषे -३,७.५१
स्वामिकर्मपरिक्रयः कर्मणस् तदर्थत्वात् -३,८.१
वचनाद् इतरेषां स्यात् -३,८.२
संस्कारास् तु पुरुषसामर्थ्ये यथावेदं कर्मवद्व्यवतिष्ठेरन् -३,८.३
याजमानास् तु तत्प्रधानत्वात् कर्मवत् -३,८.४
व्यपदेशाच् च -३,८.५
गुणत्त्वे तस्य निर्देशः -३,८.६
चोदना प्रति भावाच् च -३,८.७
अतुल्यत्वाद् असमानविधानाः स्युः -३,८.८
तपश् च फलसिद्धित्वाल् लोकवत् -३,८.९
वाक्यशेषश् च तद्वत् -३,८.१०
वचनाद् इतरेषां स्यात् -३,८.११
गुणत्वाच् च वेदेन न व्यवस्था स्यात् -३,८.१२
तथा कामोऽर्थसंयोगात् -३,८.१३
व्यपदेशाद् इतरेषां स्यात् -३,८.१४
मन्त्राश् चाकर्मकरणास् तद्वत् -३,८.१५
विप्रयोगे च दर्शनात् -३,८.१६
द्व्याम्नातेषूभौ द्व्याम्नानस्यार्थवत्त्वात् -३,८.१७
ज्ञाते च वाचनं न ह्य् अविद्वान् विहितोऽस्ति -३,८.१८
याजमाने समाख्यानात् कर्माणि याजमानं स्युः -३,८.१९
अध्वर्युर् वा तदर्थो हि न्यायपूर्वे समाख्यानम् -३,८.२०
विप्रतिषेधे करणः समावायविशेषाद् इतरम् अन्यस् तेषां यतो विशेषः स्यात् -३,८.२१
प्रैषेणु च पराधिकारात् -३,८.२२
अध्वर्युस् तु दर्शनात् -३,८.२३
गौणो वा कर्मसामान्यात् -३,८.२४
ऋत्विक् फलं करणेष्व् अर्थत्त्वात् -३,८.२५
स्वामिनो वा तदर्थत्वात् -३,८.२६
लिङ्गदर्शनाच् च -३,८.२७
कर्मार्थ फलं तेषां स्वामिनं प्रत्यर्थवत्त्वात् -३,८.२८ व्यपदेशाच् च -३,८.२९
द्रव्यसंस्कारः प्रकारणाविशेषात् सर्वकर्मणाम् -३,८.३०
निर्देशात् तु विकृताव् अपूर्वस्यानधिकारः -३,८.३१
विरोधे च श्रुतिविशेषाद् अव्यक्तः शेषे -३,८.३२
अपनयस् त्व् एकदेशस्य विद्यमानसंयोगात् -३,८.३३
विकृतौ सर्वार्थः शेषः प्रकृतिवत् -३,८.३४
मुख्यार्थो वाङ्गस्याचोदितत्वात् -३,८.३५
सन्निधानाविशेषाद् असम्भवेद् अतदङ्गानाम् -३,८.३६
आधानेऽपि तथेति चेत् -३,८.३७
नाप्रकरणत्वाद् अङ्गस्यातन्निमित्तत्वात् -३,८.३८
तत्काले वा लिङ्गदर्शनात् -३,८.३९
सर्वेषां वाविशेषात् -३,८.४०
न्यायोक्ते लिङ्गदर्शनम् -३,८.४१
मांसं तु सवनीयानां चोदनाविशेषात् -३,८.४२
भक्तिर् असन्निधावन्याय्येति चेत् -३,८.४३
स्यात् प्रकृतिलिङ्गाद् वैराजवत् -३,८.४४
अथातः क्रत्वर्थपुरुषार्थयोर् जिज्ञासा -४,१.१
यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सार्थलक्षणाविभक्तत्वात् -४,१.२
तदुत्सर्गे कर्माणि पुरुषार्थाय शास्त्रस्यानतिशङ्क्यत्वान् न च द्रव्यं चिकीर्ष्यते तेनार्थेनाभिसम्बन्धात् क्रियायां पुरुषश्रुतिः -४,१.३
अविशेषात् तु शास्त्रस्य यथाश्रुति फलानि स्युः -४,१.४
अपि वा कारणाग्रहणे तदर्थम् अर्थस्यानभिसम्बन्धात् -४,१.५
तथा च लोकभूतेषु -४,१.६
द्रव्याणि त्व् अविशेषेणानर्थक्यात् प्रदीयेरन् -४,१.७
स्वेन त्वर्थे न सम्बन्धो द्रव्याणां पृथगर्थत्वात् तस्माद् यथाश्रुति स्युः -४,१.८
चोद्यन्ते चार्थकर्मसु -४,१.९
लिङ्गदर्शनाच् च -४,१.१०
तत्रैकत्वमयज्ञाङ्गम् अर्थस्य गुणभूतत्वात् -४,१.११
एकश्रुतित्वाच् च -४,१.१२
प्रतीयते इति चेत् -४,१.१३
नाशब्दं तत्प्रमाणत्वात् पूर्ववत् -४,१.१४
शब्दवत् तूपलभ्यते तदागमे हि तद्दृश्यते तस्य ज्ञानं हि यथान्येषाम् -४,१.१५
तद्वच् च लिङ्गदर्शनम् -४,१.१६
तथा च लिङ्गम् -४,१.१७
आश्रयिष्व् अविशेषेण भावोऽर्थः प्रतीयेत -४,१.१८
चोदनायां त्व् अनारम्भोऽविभक्तत्वान् न ह्य् अन्येन विधीयते -४,१.१९
स्याद् वा द्रव्यचिकीर्षायां भावोऽर्थे च गुणभूतताश्रयाद् धि गुणीभावः -४,१.२०
अर्थे समवैषम्यतो द्रव्यकर्मणाम् -४,१.२१
एकनिष्पत्तेः सर्वे समं स्यात् -४,१.२२
संसर्गरसनिश्पत्तेरामिक्षा वा प्रधानं स्यात् -४,१.२३
मुख्यशब्दाभिसंस्तवाच् च -४,१.२४
पदकर्माप्रयोजकं नयनस्य परार्थत्वात् -४,१.२५
अर्थाभिधानकर्म च भविष्यता संयोगस्य तन्निमित्तत्वात् तदर्थो हि विधीयते -४,१.२६
पशाव् अनालम्भाल् लोहितशकृतोर् अकर्मत्वम् -४,१.२७
एकदेशद्रव्यश् चोत्पत्तौ वद्यमानसंयोगात् -४,१.२८
निर्देशात् तस्यान्यद् अर्थाद् इति चेत् -४,१.२९
न शेषसन्निधानात् -४,१.३०
कर्मकार्यात् -४,१.३१
लिङ्गदर्शनाच् च -४,१.३२
अभिघारणे विप्रकर्षाद् अनूयाजवत् पात्रभेदः स्यात् -४,१.३३
न वा पात्रत्वाद् अपात्रत्वं त्व् एकदेशत्वात् -४,१.३४
हेतुत्वाच् च सहप्रयोगस्य -४,१.३५
अभावदर्शनाच् च -४,१.३६
सति सव्यवचनम् -४,१.३७
न तस्येति चेत् -४,१.३८
स्यात् तस्य मुख्यत्वात् -४,१.३९
समानयनं तु मुख्यं स्याल् लिङ्गदर्शनात् -४,१.४०
वचने हि हेत्वसामर्थ्यम् -४,१.४१
तत्रोत्पत्तिर् अविभक्ता स्यात् -४,१.४२
तत्र जौहवम् अनूयाजप्रतिषेधार्थम् -४,१.४३
औपभृतं तथेति चेत् -४,१.४४
स्याज् जुहूप्रतिषेधान् नित्यानुवादः -४,१.४५
तदष्टसङ्ख्यं श्रवणात् -४,१.४६
अनुग्रहाच् च जौहवस्य -४,१.४७
द्वयोस् तु हेतुसामर्थयं श्रवणं च समानयने -४,१.४८
स्वरुस् त्व् अनेकनिष्पत्तिः स्वकर्मशब्दत्वात् -४,२.१
जात्यन्तराच् च शङ्कते -४,२.२
तदेकदेशो वा स्वरुत्वस्य तन्निमित्तत्वात् -४,२.३
शकलश्रुतेश् च -४,२.४
प्रतियूपं च दर्शनात् -४,२.५
आदाने करोतिशब्दः -४,२.६
शाखायां तत्प्रधानत्वात् -४,२.७
शाखायां तत्प्रधानत्वाद् उपवेषेण विभागः स्याद् वैषम्यं तत् -४,२.८
श्रुत्यपायाच् च -४,२.९
हरणे तु जुहोतिर् योगसामान्याद् द्रव्याणां चार्थशेषत्वात् -४,२.१०
प्रतिपत्तिर् वा शब्दस्य तत्प्रधानत्वात् -४,२.११
अर्थेऽपि चेत् -४,२.१२
न तस्यानधिकाराद् अर्थस्य च कृतत्वात् -४,२.१३
उत्पत्त्यसंयोगात् प्रणीतानाम् आज्यवद् विभागः स्यात् -४,२.१४
संयवनार्थानां वा प्रतिपत्तिर् इतरासां तत्प्रधानत्वात् -४,२.१५
प्रासनवन् मैत्रावरुणस्य दण्डप्रदानं कृतार्थत्वात् -४,२.१६
अर्थकर्म वा कर्तृसंयोगात् स्रग्वत् -४,२.१७
कर्मयुक्ते च दर्शनात् -४,२.१८
उत्पत्तौ येन संयुक्तं तदर्थं तच्छ्रुतिहेतुत्वात् तस्यार्थान्तरगमने शेषत्वात् प्रतिपत्तिः स्यात् -४,२.१९
सौमिके च कृतार्थत्वात् -४,२.२०
अर्थकर्म वाभिधानसंयोगात् -४,२.२१
प्रतिपत्तिर् वा तन्न्यायत्वाद् देशार्थावभृथश्रुतिः -४,२.२२
कर्तृदेशकालानाम् अचोदनं प्रयोगे नित्यसमवायात् -४,२.२३
नियमार्था वा श्रुतिः -४,२.२४
तथा द्रव्येषु गुणश्रुतिर् उत्पत्तिसंयोगात् -४,२.१५
संस्कारे च तत्प्रधानत्वात् -४,२.२६
यजति चोदनाद्रव्यदेवताक्रियं समुदाये कृतार्थत्वात् -४,२.२७
तदुक्ते श्रवणाज् जुहोतिर् आसेचनाधिकः स्यात् -४,२.२८
विधेः कर्मापवर्गित्वाद् अर्थान्तरे विधिप्रदेशः स्यात् -४,२.२९
अपि वोत्पत्तिसंयोगाद् अर्थसम्बन्धोऽविशिष्टानां प्रयोगैकत्वहेतुः स्यात् -४,२.३०
द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिर् अर्थवादः स्यात् -४,२.३१
उत्पत्तेश् चातत्प्रधानत्वात् -४,३.२
फलं तु तत्प्रधानायाम् -४,३.३
नैमित्तिके विकारत्वात् क्रतुप्रधानम् अन्यत् स्यात् -४,३.४
एकस्य तूभयत्वे संयोगपृथक्त्वम् -४,३.५
शेष इति चेत् -४,३.६
नार्थपृथक्त्वात् -४,३.७
द्रव्याणान्तु क्रियार्थानां संस्कारः क्रतुधर्मस्यात् -४,३.८
पृथक्त्वाद्व्यवतिष्ठेत -४,३.९
चोदनायां फलाश्रुतेः कर्ममात्रं विधीयेत न ह्य् अशब्दं प्रतीयते -४,३.१०
अपि वाम्नानसामथर्थ्याच् चोदनार्थेन गम्येतार्थानां ह्य् अर्थत्वेन वचनानि प्रतीयन्तेऽर्थतोप्य् असमर्थानाम् आनन्तर्येऽप्य् असम्बन्धस् तस्माच् छ्रुत्येकदेशः सः -४,३.११
वाक्यार्थश् च गुणार्थवत् -४,३.१२
तत्सर्वार्थम् अनादेशात् -४,३.१३
एकं वा चोदनैकत्वात् -४,३.१४
स स्वर्गः स्यात् सर्वान् प्रत्यविशिष्टत्वात् -४,३.१५
प्रत्ययाच् च -४,३.१६
क्रतौ फलार्थवादमङ्गवत् कार्ष्णाजिनिः -४,३.१७
फलमात्रेयो निर्देशाद् अश्रुतौ ह्य् अनुमानं स्यात् -४,३.१८
अङ्गेषु स्तुतिः परार्थत्वात् -४,३.१९
काम्ये कर्मणि नित्यः स्वर्गे यथा यज्ञाङ्गे क्रत्वर्थः -४,३.२०
वीते च कारणे नियमात् -४,३.२१
कामो वा तत्संयोगेन चोद्यते -४,३.२२
अङ्गेषु स्तुतिः परार्थत्वात् -४,३.२३
वीते च नियमस् तदर्थम् -४,३.२४
सर्वकाम्यम् अङ्गकामैः प्रकरणात् -४,३.२५
फलोपदेशो वा प्रधानशब्दसंयोगात् -४,३.२६
तत्र सर्वेऽविशेषात् -४,३.२७
योगसिद्धिर् वार्थस्योत्पत्यसंयोगित्वात् -४,३.२८
समवाये चोदनासंयोगस्यार्थवत्वात् -४,३.२९
कालश्रुतौ काल इति चेत् -४,३.३०
नासमवायात्प्रयोजनेन -४,३.३१
उभयार्थाम् इति चेत् -४,३.३२
न शब्दैकत्वात् -४,३.३३
प्रकरणाद् इति चेत् -४,३.३४
नोत्पत्तिसंयोगात् -४,३.३५
अनुत्पत्तौ तु कालः स्यात् प्रयोजनेन सम्बन्धात् -४,३.३६ उतपत्तिकालविशये कालः स्याद् वाक्यस्य तत्प्रधानत्वात् -४,३.३७
फलसंयोगस् त्व् अचोदिते न स्याद् अशेषभूतत्वात् -४,३.३८
अङ्गानां तूपघातसंयोगो निमित्तार्थः -४,३.३९
प्रधानेनाभिसंयोगाद् अङ्गानां मुख्यकालत्वम् -४,३.४०
अपवृत्ते तु चोदना तत्सामान्यात् स्वकाले स्यात् -४,३.४१
प्रकरणाविभागे च विप्रतिषिद्धं ह्य् उभयम् -४,४.१
अपि वाङ्गमनिज्याः स्युस् ततो विशिष्टत्वात् -४,४.२
मध्यस्थं यस्य तन्मध्ये -४,४.३
सर्वासां वा समत्वाच् चोदनातः स्यान् न हि तस्य प्रकरणं देशार्थम् उच्यते मध्ये -४,४.४
प्रकरणाविभागे च विप्रतिषिद्धं ह्य् उभयम् -४,४.५
अपि वा कालमात्रं स्याद् अदर्शनाद् विशेशस्य -४,४.६
फलवद् वोक्तहेतुत्वाद् इतरस्य प्रधानं स्यात् -४,४.७
दधिग्रहो नैमित्तिकः श्रुतिसंयोगात् -४,४.८
नित्यश् च ज्येष्ठशब्दात् -४,४.९
सार्वरूप्याच् च -४,४.१०
नित्यो वा स्याद् अर्थवादस्तयोः कर्मण्य् असम्बन्धाद् भङ्गित्वाच् चान्तरायस्य -४,४.११
वैश्वानरश् च नित्यः स्यान् नित्यैः समानसङ्ख्यत्वात् -४,४.१२
पक्षे वोत्पन्नसंयोगात् -४,४.१३
षट्चितिः पूर्ववत्त्वात् -४,४.१४
ताभिश् च तुल्यसंख्यानात् -४,४.१५
अर्थवादोपपत्तेश् च -४,४.१६
एकचितिर् वा स्याद् अपवृक्ते हि चोद्यते निमित्तेन -४,४.१७
विप्रतिषेधात् ताभिः समानसङ्ख्यत्वम् -४,४.१८
पितृयज्ञः स्वकालत्वाद् अनङ्गं स्यात् -४,४.१९
तुल्यवच् च प्रसङ्ख्यानात् -४,४.२०
प्रतिषिद्धे च दर्शनात् -४,४.२१
पश्वङ्ग रशमा स्यात् तदागमे विधानात् -४,४.२२
यूपाङ्गं वा तत्संस्कारात् -४,४.२३
अर्थवादश् च तदर्थवत् -४,४.२४
स्वरुश्चाप्य् एकदेशत्वात् -४,४.२५
निष्क्रयश् च तदङ्गवत् -४,४.२६
पश्वङ्गं वार्थकर्मत्वात् -४,४.२७
भक्त्या निष्क्रयवादः स्यात् -४,४.२८
दर्शपूर्णमासयोर् इज्याः प्रधानान्य् अविशेषात् -४,४.२९
अपि वाङ्गानि कानि चिद्येश्वङ्गत्वेन संस्तुतिः सामान्यो ह्य् अभिसंस्तवः -४,४.३०
तथा चान्यार्थदर्शनम् -४,४.३१
अवशिष्टं तु कारणं प्रधानेषु गुणस्य विद्यमानत्वात् -४,४.३२
नानुक्तेऽन्यार्थदर्शनं परार्थत्वात् -४,४.३३
पृथवत्वे त्व् अभिधानयोर् निवेशः श्रुतितो व्यपदेशाच् च तत्पुनर्मुख्यलक्षणं यत्फलवत्वं तत्सन्निधाव् असंयुक्तं तदङ्गंस्याद्भागित्वात् कारणस्याश्रुतश् चान्यसम्बन्धः -४,४.३४
गुणाश् च नामसंयुक्ता विधीयन्ते नाङ्गेषूषपद्यन्ते -४,४.३५
तुल्या च कारणश्रुतिर् अन्यैर् अङ्गाङ्गिसम्बन्धः -४,४.३६
उत्पत्ताव् अभिसम्बन्धस् तस्माद् अङ्गोपदेशः स्यात् -४,४.३७
तथा चान्यार्थदर्शनम् -४,४.३८
ज्योतिष्टोमे तुल्यान्य् अविशिष्टं हि कारणम् -४,४.३९
गुणानां तूत्पत्तिवाक्येन सम्बन्धात् कारणश्रुतिस् तस्मात् सोमः प्रधानं स्यात् -४,४.४०
तथा चान्यार्थदर्शनम् -४,४.४१
श्रुतिलक्षणम् आनुपूर्व्यं तत्प्रमाणत्वात् -५,१.१
अर्थाच् च -५,१.२
अनियमोऽन्यत्र -५,१.३
क्रमेण वा नियम्येत क्रत्वेकत्वे तद्गुणत्वात् -५,१.४
अशाब्द इति चेत् स्याद् वाक्यशब्दत्वात् -५,१.५
अर्थकृते वानुमानं स्यात् क्रत्वेकत्वे परार्थत्वात् स्वेन त्व् अर्थेन सम्बन्धस् तस्मात् स्वशब्दम् उच्येत -५,१.६
तथा चान्यार्थदर्शनम् -५,१.७
प्रवृत्या तुल्यकालानां गुणानां तदुपक्रमात् -५,१.८
सर्वम् इति चेत् -५,१.९
नाकृतत्वात् -५,१.१०
क्रत्वन्तरवद् इति चेत् -५,१.११
नासमवायात् -५,१.१२
स्थानाच् चोत्पत्तिसंयोगात् -५,१.१३
मुख्यक्रमेण वाङ्गानां तदर्थत्वात् -५,१.१४
प्रकृतौ तु स्वशब्दत्वाद्याक्रमं प्रतीयेत -५,१.१५
मन्त्रतस् तु विरोधे स्यात् प्रयोगरूपसामर्थ्यात् तस्माद् उत्पत्तिदेशः सः -५,१.१६
तद्वचनाद् विकृतौ यथा प्रधानं स्यात् -५,१.१७
विप्रतिपत्तौ वा प्रकृत्यन्वयाद् यथाप्रकृति -५,१.१८
विकृतिः प्रकृतिधर्मत्वात् तत्काला स्याद् यथा शिष्टम् -५,१.१९
अपि वा क्रमकालसंयुक्ता सद्यः क्रियेत तत्र विधेर् अनुमानात् प्रकृतिधर्मलोपः स्यात् -५,१.२०
कालोत्कर्ष इति चेत् -५,१.२१
न तत्सम्बन्धात् -५,१.२२
अङ्गानां मुख्यकालत्वाद् यथोक्तम् उत्कर्षे स्यात् -५,१.२३
तदादि वाभिसम्बन्धात् तदन्तम् अपकर्षे स्यात् -५,१.२४
प्रवृत्या कृतकालानाम् -५,१.२५
शब्दविप्रतिषेधाच् च -५,१.२६
असंयोगात् तु वैकृतं तद् एव प्रतिकृष्येत. मिमांसा-५,१.२७
प्रासङ्गिकं च नोत्कर्षेद् असंयोगात् -५,१.२८
तथापूर्वम् -५,१.२९
सान्तपनीया तूत्कर्षेद् अग्निहोत्रं सवनवद् वैगुण्यात् -५,१.३०
अञ्यवायाच् च मिमांसा-५,१.३१
असम्बन्धात् तु नोत्कर्षेत् -५,१.३२
प्रापणाच् च निमित्तस्य -५,१.३३
सम्बन्धात् सवनोत्कर्मः -५,१.३४
षोडशी चोक्थ्यसंयोगात् -५,१.३५
सन्निपाते प्राधानानाम् एकैकस्य गुणानां सर्वकर्म स्यात् -५,२.१
सर्वेषां वैकजातीयं कृतानुपूर्व्यत्वात् -५,२.२
कारणाद् अभ्यावृत्तिः -५,२.३
मुष्टिकपालावदानाञ्जनाभ्यञ्जनवपनपावनेषु चैकेन -५,२.४
सर्वाणि त्व् एककार्यत्वादेषां तद्गुणत्वात् -५,२.५
संयुक्ते तु प्रक्रमात् तदङ्गं स्याद् इतरस्य तदर्थत्वात् -५,२.६
वचनात् तु परिव्याणान्तम् अञ्जनादिः स्यात् -५,२.७
कारणाद्वा(न) वसर्गः स्याद् यथा पात्रवृद्धिः -५,२.८
न वा शब्दकृतत्वान् न्यायमात्रमितरदर्थात् पात्रविवृद्धिः -५,२.९
पशुगणे तस्यतस्यापवर्जयेत् पश्वैकत्वात् -५,२.१०
दैवतैर् वैककर्म्यात् -५,२.११
मन्त्रस्य चार्थवत्त्वात् -५,२.१२
नानाबीजेष्वेकमुलूखलं विभवात् -५,२.१३
विवृद्धिर् वा नियामादानुपूर्व्यस्य तदर्थत्वात् -५,२.१४
एकं वा तण्डुलभावाद् धन्तेस् तदर्थत्वात् -५,२.१५
विकारे त्व् अनूयाजानां पात्रभेदोऽर्थभेदात् स्यात् -५,२.१६
प्रकृतेः पूर्वोक्तत्वाद् अपूर्वम् अन्ते स्यान् न ह्य् अचोदितस्य शेषाम्नानम् -५,२.१७
मुख्यानन्तर्यमात्रेयस् तेन तुल्यश्रुतित्वाद् अशब्दत्वात् प्राकृतानां व्यवायः स्यात् -५,२.१८
अन्ते तु बादरायणस् तेषां प्रधानशब्दत्वात् -५,२.१९
तथा चान्यार्थदर्शनम् -५,२.२०
कृतदेशात् तु पूर्वेषां स देशः स्यात् तेन प्रत्यक्षसंयोगान् नयायमात्रमितरत् -५,२.२१
प्रकृताच् च पुरस्ताद् यत् -५,२.२२
सन्निपातश् चेद् यथोक्तमन्ते स्यात् -५,२.२३
विवृद्धिः कर्मभेदात् पृषदाज्यवत् तस्यतस्योपदिश्येत -५,३.१
अपि वा सर्वसङ्ख्यत्वाद् विकारः प्रतीयेत -५,३.२
स्वस्थानात् तु विवृध्येरन् कृतानुपूर्व्यत्वात् -५,३.३
समिध्यमानवतीं समिद्धवतीं चान्तरेण धाय्याः स्युर् द्यावापृथिञ्योरन्तरालं समर्हणात् -५,३.४
तच्छब्दो वा -५,३.५
उष्णिक्ककुभोरन्ते दर्शनात् -५,३.६
स्तोमविवृद्धौ वहिष्पवमाने पुरस्तात् पर्यासाद् आगन्तवः स्युस् तथा हि दृष्टं द्वादशाहे -५,३.७
पर्यास इति चान्ताख्या -५,३.८
अन्ते वा तदुक्तम् -५,३.९
वचनात् तु द्वादशाहे -५,३.१०
अतद्विकारश् च -५,३.११
तद्विकारेऽप्य् अपूर्वत्वात् -५,३.१२
अन्ते तूत्तरयोर् दध्यात् -५,३.१३
अपि वा गायत्रीबृहत्यनुष्टुप्सु वचनात् -५,३.१४
ग्रहेष्टकम् औपानुवाक्यं सवनचितिशेषः स्यात् -५,३.१५
क्रत्वग्निशेषा वा चोदितत्वाद् अचोदनानुपूर्वस्य -५,३.१६
अन्ते स्युर् अव्यवायात् -५,३.१७
लिङ्गदर्शनाच् च -५,३.१८
मध्यमायां तु वचनाद् ब्राह्मणवत्यः -५,३.१९
प्राग्लोकम्पृणायास् तस्याः सम्पूरणार्थत्वात् -५,३.२०
संस्कृते कर्म संस्काराणां तदर्थत्वात् -५,३.२१
अनन्तरं व्रतं तद्भूतत्वात् -५,३.२२
पूर्वं च लिङ्गदर्शनात् -५,३.२३ अर्थवादो वार्थस्य विद्यमानत्वात् -५,३.२४
न्यायविप्रतिषेधाच् च -५,३.२५
सञ्चिते त्व् अग्निचिद् युक्तं प्रापणान् निमित्तस्य -५,३.२६
क्रत्वन्ते वा प्रयोगवचनाभावात् -५,३.२७
अग्नेः कर्मत्वनिर्देशात् -५,३.२८
परेणावेदनाद् दीक्षितः स्यात् सर्वैर् दीक्षाभिसम्बन्धात् -५,३.२९
इष्ट्यन्ते वा तदर्था ह्य् अविशेषार्थसन्वन्धात् -५,३.३०
समाख्यानं च तद्वत् -५,३.३१
अङ्गवत् क्रतूनाम् आनुपूर्व्यम् -५,३.३२
न वासम्बन्धात् -५,३.३३
काम्यत्वाच् च -५,३.३४
आनर्थक्यान् नेति चेत् -५,३.३५
स्याद् विद्यार्थत्वाद् यथा परेषु सर्वस्वारात् -५,३.३६
य एतेनेत्य् अग्निष्टोमः प्रकरणात् -५,३.३७
लिङ्गाच् च -५,३.३८
अथान्येनेति संस्थानां सन्निधानात् -५,३.३९
तत्प्रकृतेर् वापत्तिविहारौ न तुल्येषूपपद्यते -५,३.४०
प्रशसा च विहरणाभावात् -५,३.४१
विधिप्रत्ययाद् वा न ह्य् अकस्मात् प्रशंसा स्यात् -५,३.४२
एकस्तोमे वा क्रतुसंयोगात् -५,३.४३
सर्वेषां वा चोदनाविशेषात् प्रशंसा स्तोमानाम् -५,३.४४
क्रमकोयोऽर्थशब्दाभ्यां श्रुतिविशेषाद् अर्थपरत्वाच् च -५,४.१
अवदानाभिघारणासादनेष्व् आनुपूर्व्यं प्रवृत्या स्यात् -५,४.२
यथारप्रदानं वा तदर्थत्वात् -५,४.३
लिङ्गदर्शनाच् च -५,४.४
वचनाद् इष्टिपूर्वत्वम् -५,४.५
सोमश् चैकेषाम् अग्नयाधेयस्यर्तुनक्षत्रातिक्रमवचनात् तदन्तेनानर्थकं हि स्यात् -५,४.६
तदर्थवचनाच् च नाविशेषात् तदर्थत्वं -५,४.७
अयक्ष्यमाणस्य च पवमानहविषां कालनिर्देशाद् आनन्तर्याद् विशङ्का स्यात् -५,४.८
इष्टिर् अयक्ष्यमाणस्य तदर्थ्ये न सोमपूर्वत्वम् -५,४.९
उत्कर्षाद् ब्राह्मणस्य सोमः स्यात् -५,४.१०
पौर्णमासी वा श्रुतिसंयोगात् -५,४.११
सर्वस्य वैककर्म्यात् -५,४.१२
स्याद् वा विधिस् तदर्थेन -५,४.१३
प्रकरणात् तु कालः स्यात् -५,४.१४
स्वकाले स्याद् अविप्रतिषेधात् -५,४.१५
अपनयो वाधानस्य सर्वकालत्वात् -५,४.१६
पौर्णमास्य् ऊर्ध्वं सोमाद् ब्राह्मणस्य वचनात् -५,४.१७
एकं वा शब्दसामर्थ्यात् प्राक् कृत्स्नविधानम् -५,४.१८
पुरोडाशस् त्व् अनिर्देशे तद्युक्ते देवताभावात् -५,४.१९
आज्यमपीति चेत् -५,४.२०
न मिश्रदेवतत्वाद् ऐन्द्राग्नवत् -५,४.२१
विकृतेः प्रकृतिकालत्वात् सद्यस्कालोत्तरा विकृतिस् तयोः प्रत्यक्षशिष्टत्वात् -५,४.२२
द्वैयहकाल्ये तु यथान्यायम् -५,४.२३
वचनाद् वैककाल्यं स्यात् -५,४.२४
सन्नाय्याग्नीषोमीयविकारा ऊर्ध्वं सोमात्प्रकृतिवत् -५,४.२५
तथा सोमविकारा दर्शपूर्णमासाभ्याम् -५,४.२६
द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसम्बन्धः -६,१.१
असाधकं तु तादर्थ्यात् -६,१.२
प्रत्यर्थं चाभिसंयोगात्कर्मतो ह्य् अभिसम्बन्धस् तस्मात् कर्मोपदेशः स्यात् -६,१.३
फलार्थत्वात् कर्मणः शास्त्रं सर्वाधिकारं स्यात् -६,१.४
कर्तुर् वा श्रुतिसंयोगाद् विधिः कार्त्स्न्येन गम्यते -६,१.५
लिङ्गविशेषनिर्देशात् पुंयुक्तम् ऐतिशायनः -६,१.६
तदुक्तित्वाच् च दोषश्रुतिर् अविज्ञाते -६,१.७
जातिं तु बादरायणोऽविशेषात् तस्मात् स्त्र्य् अपि प्रतीयेत जात्यर्थस्याविशिष्टत्वात् -६,१.८
चोदितत्वाद् यथाश्रुति -६,१.९
द्रव्यवत्त्वात् तु पुंसां स्याद् द्रव्यसंयुक्तं क्रयविक्रयाभ्याम् अद्रव्यत्वं स्त्रीणां द्रव्यैः समानयोगित्वात् -६,१.१०
तथा चान्यार्थदर्शनम् -६,१.११
तादर्थ्यात् कर्म तादर्थ्यम् -६,१.१२
फलोत्साहाविशेषात् तु -६,१.१३
अर्थेन च समवेतत्वात् -६,१.१४
क्रयस्य थर्ममात्रत्वम् -६,१.१५
स्ववत्ताम् अपि दर्शयति -६,१.१६
स्ववतोस् तु वचनाद् ऐककर्म्यं स्यात् -६,१.१७
लिङ्गदर्शनाच् च -६,१.१८
क्रीतत्वात् तु भक्त्या स्वामित्वम् उच्यते -६,१.१९
फलार्थित्वात् तु स्वामित्वेनाभिसम्बन्धः -६,१.२०
फलवत्तां च दर्शयति -६,१.२१
द्व्याधानं च द्वियज्ञवत् -६,१.२२
गुणस्य तु विधानत्वात् पत्न्या द्वितीयशब्दः स्यात् -६,१.२३
तस्या यावदुक्तम् आशीर् ब्रह्मचर्यम् अतुल्यत्वात् -६,१.२४
चातुर्वर्ण्यम् अविशेषात् -६,१.२५
निर्देशाद् वा त्रयाणां स्याद् अग्न्याधेयेऽसम्बन्धः क्रतुषु ब्राह्मणश्रुतेर् इत्य् आत्रेयः -६,१.२६
निमित्तार्थे न बादरिस् तस्मात् सर्वाधिकारं स्यात् -६,१.२७
अपि वान्यार्थदर्शनाद् यथाश्रुति प्रतीयेत -६,१.२८
निर्देशात् तु पक्षे स्यात् -६,१.२९
वैगुण्यान् नेति चेत् -६,१.३०
न काम्यत्वात् -६,१.३१
संस्कारे च तत्प्रधानत्वात् -६,१.३२
अपि वा वेदनिर्देशाद् अपशूद्राणां प्रतीयेत -६,१.३३
गुणार्थित्वान् नेति चेत् -६,१.३४
संस्कारस्य तदर्थत्वाद् विद्यायां पुरुषश्रुतिः -६,१.३५
विद्यानिर्देशान् नेति चेत् -६,१.३६
अबैद्यत्वाद् अभावः कर्मणि स्यात् -६,१.३७
तथा चान्यार्थदर्शनम् -६,१.३८
त्रयाणां द्रव्यसम्पन्नः कर्मणी द्रव्यसिद्धत्वात् -६,१.३९
अनित्यत्वात् तु नैवं स्याद् अर्थाद् धि द्रव्यसंयोगः -६,१.४०
अङ्गहीनश् च तद्धर्मा -६,१.४१
उत्पत्तौ नित्यसंयोगात् -६,१.४२
अत्र्यार्षेयस्य हानं स्यात् -६,१.४३
वचनाद् रथकारस्याधानेऽस्य सर्वशेषत्वात् -६,१.४४
न्याय्यो वा कर्मसंयोगाच् छूद्रस्य प्रतिषिद्धतत्वात् -६,१.४५
अकर्मत्वात् तु नैवं स्यात् -६,१.४६
आनर्थक्यं च संयोगात् -६,१.४७
गुणार्थेनेति चेत् -६,१.४८
उक्तम् अनिमित्तत्वम् -६,१.४९
सौधन्वनास् तु हीनत्वान् मन्त्रवर्णात् प्रतीयेरन् -६,१.५०
रथपतिर् निषादः स्याच् छब्दसामर्थ्यात् -६,१.५१
लिङ्गदर्शनाच् च -६,१.५२
पुरुषार्थैकसिद्धित्वात् तस्य तस्याधिकारः स्यात् -६,२.१
अपि चोत्पत्तिसंयोगो यथा स्यात् सत्वदर्यशनं तथाभावो विभागे स्यात् -६,२.२
प्रयोगे पुरुषश्रुतेर् यथाकामी प्रयोगे स्यात् -६,२.३
प्रत्यर्थं श्रुतिभाव इति चेत् -६,२.४
तादर्थ्ये न गुणार्थतानुक्तेऽर्थान्तरत्वात् कर्तुः प्रधानभूतत्वात् -६,२.५
अपि वा कामसंयोगे सम्बन्धात् प्रयोगायोपदिश्येत प्रत्यर्थं हि विधिश्रुतिर् विषाणावत् -६,२.६
अन्यस्य स्याद् इति चेत् -६,२.७
अन्यार्थेनाभिसम्बन्धः -६,२.८
फलकामो निमित्तम् इति चेत् -६,२.९
न नित्यत्वात् -६,२.१०
कर्म तथेति चेत् -६,२.११
न समवायात् -६,२.१२
प्रकमात् तु नियम्येतारम्भस्य क्रियानिमित्तत्वात् -६,२.१३
फलार्थित्वाद् वानियमो यथानुपक्रान्ते -६,२.१४
नियमो वा तन्निमित्तत्वात् कर्तुस् तत्कारणं स्यात् -६,२.१५
लोके कर्माणि वेदवत् ततोऽधिपुरुषज्ञानम् -६,२.१६
अपराधेऽपि च तैः शास्त्रम् -६,२.१७
अशास्त्रात् तूपसम्प्राप्तिः शास्त्रं स्यान् न प्रकल्पकं तस्माद् अर्थेन गम्येताप्राप्ते शास्त्रम् अर्थवत् -६,२.१८
प्रतिषेधेष्व् अकर्मत्वात् क्रिया स्यात् प्रतिषिद्धानां विभक्तत्वाद् अकर्मणाम् -६,२.१९
शास्त्राणां त्व् अर्थवत्वेन पुरुषार्थो विधीयते तयोर् असमवायित्वात् तादर्थ्ये विध्यतिक्रमः -६,२.२०
तस्मिंस् तु शिष्यमाणानि जननेन प्रवर्तेरन् -६,२.२१
अपि वा वेदतुल्यत्वाद् उपायेन प्रवर्तेरन् -६,२.२२
अभ्यासोऽकर्मशेषत्वात् पुरुषार्थो विधीयते -६,२.२३
तस्मिन्न् असम्भवन्न् अर्थात् -६,२.२४
न कालेभ्य उपदिश्यन्ते -६,२.२५
दर्शनात् काललिङ्गानां कालविधानम् -६,२.२६
तेषाम् औत्पत्तिकत्वाद् आगमेन प्रवर्तेत -६,२.२७
तथा हि लिङ्गदर्शनम् -६,२.२८
तथान्तःक्रतुप्रयुक्तानि -६,२.२९ आचाराद् गृह्यमाणेषु तथा स्यात् पुरुषार्थत्वात् -६,२.३०
ब्राह्मणस्य तु सोमविद्याप्रजम् ऋणवाक्येन संयोगात् -६,२.३१
सर्वशक्तौ प्रवृत्तिः स्यात् तथाभूतोपदेशात् -६,३.१
अपि वाप्य् एकदेशे स्यात् प्रधाने ह्य् अर्थनिर्वृत्तिर् गुणमात्रम् इतरत् तदर्थत्वात् -६,३.२
तदकर्मणि च दोषस् तस्मात् ततो विशेषः स्यात् प्रधानेनाभिसम्बन्धात् -६,३.३
कर्माभेदं तु जैमिनिः प्रयोगवचनैकत्वात् सर्वेषाम् उपदेशः स्याद् इति -६,३.४
अर्थस्य व्यपवर्गित्वाद् एकस्यापि प्रयोगे स्याद् यथा क्रत्वन्तरेषु -६,३.५
विध्यपराधे च दर्शनात् समाप्तेः -६,३.६
प्रायश्चित्तविधानाच् च -६,३.७
काम्येषु चैवम् अर्थित्वात् -६,३.८
असंयोगात् तु नैवं स्याद् विधेः शब्दप्रमाणत्वात् -६,३.९
अकर्मणि चाप्रत्यवायात् -६,३.१०
क्रियाणाम् आश्रितत्वाद् द्रव्यान्तरे विभागः स्यात् -६,३.११
अपि वाव्यतिरेकाद् रूपशब्दाविभागाच् च गोत्ववद् ऐककर्म्यं स्यान् नामधेयं च सत्त्ववत् -६,३.१२
श्रुतिप्रमाणत्वाच् छिष्टाभावेऽनागमोऽन्यस्याशिष्टत्वात् -६,३.१३
क्वचिद् विधानाच् च -६,३.१४
आगमो वा चोदनार्थाविशेषात् -६,३.१५
नियमार्थः क्वाचिद् विधिः -६,३.१६
तन् नित्यं तच्चिकीर्षा हि -६,३.१७
न देवताग्निशब्दक्रियमन्यार्थसंयोगात् -६,३.१८
देवतायां च तदर्थत्वात् -६,३.१९
प्रतिषिद्धं चाविशेषेण हि तच्छ्रुतिः -६,३.२०
तथा स्वामिनः फलसमवायात् फलस्य कर्मयोगित्वात् -६,३.२१
बहूनां तु प्रवृत्तेऽन्यमागमयेद् अवैगुण्यात् -६,३.२२
स स्वामी स्यात् संयोगात् -६,३.२३
कर्मकरो वा भृतत्वात् -६,३.२४
तस्मिंश् च फलदर्शनात् -६,३.२५
स तद्धर्मा स्यात् कर्मसंयोगात् -६,३.२६
सामान्यं तच्चिकीर्षा हि -६,३.२७
निर्देशात् तु विकल्पे यत् प्रवृत्तम् -६,३.२८
अशब्दम् इति चेत् -६,३.२९
नानङ्गत्वात् -६,३.३०
वचनाच् चान्याय्यम् अभावे तत्सामान्येन प्रतिनिधिर् अभावाद् इतरस्य -६,३.३१
न प्रतिनिधौ समत्वात् -६,३.३२
स्याच् छ्रुतिलक्षणे नियतत्वात् -६,३.३३
न तदीप्सा हि -६,३.३४
मुख्याधिगमे मुख्यम् आगमो हि तदभावात् -६,३.३५
प्रबृत्तेऽपीति चेत् -६,३.३६
नानर्थकत्वात् -६,३.३७
द्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वात् -६,३.३८
अर्थद्रव्यविरोधेऽर्थो द्रव्याभावे तदुत्पत्तेर् द्रव्याणाम् अर्थशेषत्वात् -६,३.३९
विधिर् अप्य् एकदेशे स्यात् -६,३.४०
अपि वार्थस्य शक्यत्वाद् एकदेशेन निर्वर्तेतार्थानाम् अविभक्तत्वाद् गुणमात्रम् इतरत् तदर्थत्वात् -६,३.४१
शेषाद् द्व्यवदाननाशे स्यात् तदर्थत्वात् -६,४.१
निर्देशाद् वान्यद् आगमयेत् -६,४.२
अपि वा शेषभाजां स्याद् विशिष्टकारणत्वात् -६,४.३
निर्देशाच् छेषभक्षोऽन्यैः प्रधानवत् -६,४.४
सर्वैर् वा समवायात् स्यात् -६,४.५
निर्देशस्य गुणार्थत्वम् -६,४.६
प्रधाने श्रुतिलक्षणम् -६,४.७
अर्थवद् इति चेत् -६,४.८
न चोदनाविरोधात् -६,४.९
अर्थसमवायत् प्रायश्चित्तम् एकदेशेऽपि -६,४.१०
न त्व् अशेषे वैगुण्यात् तदर्थं हि -६,४.११
स्याद् वा प्राप्तनिमित्तत्वाद् अतद्धर्मो नित्यसंयोगान् न हितस्य गुणार्थेनानित्यत्वात् -६,४.१२
गुणानां च परार्थत्वाद् वचनाद् व्यपाश्रय स्यात् -६,४.१३
भेदार्थम् इति -६,४.१४
न शेषभूतत्वात् -६,४.१५
अनर्थकश् च सर्वनाशे स्यात् -६,४.१६
क्षामे तु सर्वदाहे स्याद् एकदेशस्यावर्जनीयत्वात् -६,४.१७
दर्शनाद् एकदेशे स्यात् -६,४.१८
अन्येन वैतच् छास्त्राद् धि कारणप्राप्तिः -६,४.१९
तद्धविःशब्दान् नेति चेत् -६,४.२०
स्याद् अन्यायत्वादिज्यागामी हविः शब्दस् तल्लिङ्गसंयोगात् -६,४.२१
यथाश्रुतीति चेत् -६,४.२२
न तल्लक्षणत्वाद् उपपातो हि कारणम् -६,४.२३
होमाभिषवभक्षणं च तद्वत् -६,४.२४
उभाभ्यां वा न हि तयोर् धर्मशास्त्रम् -६,४.२५
पुनर् आधेयम् ओदनवत् -६,४.२६
द्रव्योत्पत्तेर् वोभयोः स्यात् -६,४.२७
पञ्चशरावस् तु द्रव्यश्रुतेः प्रतिनिधिः स्यात् -६,४.२८
चोदना वा द्रव्यदेवताविधिर् अवाच्ये हि -६,४.२९
स प्रत्यामनेत् स्थानात् -६,४.३०
अङ्गविधिर् वा निमित्तसंयोगात् -६,४.३१
विश्वजित्वप्रवृत्ते भावः कर्मणि स्यात् -६,४.३२
निष्क्रयवादाच् च -६,४.३३
वत्ससंयोगे व्रतचोदना स्यात् -६,४.३४
कालो वोत्पन्नसंयोगाद् यथोक्तस्य -६,४.३५
अर्थापरिमाणाच् च -६,४.३६
वत्सस् तु श्रुतिसंयोगात् तदङ्गं स्यात् -६,४.३७
कालस् तु स्याद् अचोदनात् -६,४.३८
अनर्थकश् च कर्मसंयोगे -६,४.३९
अवचनाच् च स्वशब्दस्य -६,४.४०
कालश् चेत् सन्नयत्पक्षे तल्लिङ्गसंयोगात् -६,४.४१
कालार्थत्वाद् वोभयोः प्रतीयेत -६,४.४२
प्रस्तरे शाखाश्रयणवत् -६,४.४३
कालविधिर् वोभयोर् विद्यामानत्वात् -६,४.४४
अतत्संस्कारार्थत्वाच् च -६,४.४५
तस्माच् च विप्रयोगे स्यात् -६,४.४६
उपवेषश् च पक्षे स्यात् -६,४.४७
अभ्युदये कालापराधाद् इज्याचोदना स्याद् यथा पञ्चशरावे -६,५.१
अपनयो वा विद्यानत्वात् -६,५.२
तद्रूपत्वाच् च शब्दानाम् -६,५.३
आतञ्चनाभ्यासस्य दर्शनात् -६,५.४
अपूर्वत्वाद् विधानं स्यात् -६,५.५
पयोदोषात् पञ्चशरावेऽदुष्टं हीतरत् -६,५.६
सान्नाय्योऽपि तथेति चेत् -६,५.७
न तस्यादुष्टत्वाद् अविशिष्टं हि कारणम् -६,५.८
लक्षणार्थाश्रुतिः -६,५.९
उपांशुयाजेऽवचनाद् यथाप्रकृति -६,५.१०
अपनयो वा प्रवृत्या यथेतरेषाम् -६,५.११
निरुप्ते स्यात् तत्संयोगात् -६,५.१२
प्रवृत्ते वा प्रापणान् निमित्तस्य -६,५.१३
लक्षणमात्रम् इतरत् -६,५.१४
तथा चान्यार्थदर्शनम् -६,५.१५
अनिरुप्तेऽभ्युदिते प्राकृतीभ्यो निर्वपेद् इत्य् आश्मरथ्यस् तण्डुलभूतेष्व् अपनयात् -६,५.१६
व्यूर्ध्वभाग्भ्यस् त्व् आलेखनस् तत्कारित्वाद् देवतापनयस्य -६,५.१७
विनिरुप्ते न मुष्टीनाम् अपनयस् तद्गुणत्वात् -६,५.१८
अप्राकृतेन हि संयोगस् तत्स्थानीयत्वात् -६,५.१९
अभावाच् चेतरस्य स्यात् -६,५.२०
सान्नाय्यसंयोगान् नासन्नायतः स्यात् -६,५.२१
औषधसंयोगाद् वोभयोः -६,५.२२
वैगुण्यान् नेति चेत् -६,५.२३
नातत्संस्कारत्वात् -६,५.२४
साम्युत्थाने विश्वजित्क्रीते विभागसंयोगात् -६,५.२५
प्रवृते वा प्रापणान् निमित्तस्य -६,५.२६
आदेशार्थेतरा श्रुतिः -६,५.२७
दीक्षापरिमाणे यथाकाम्यविशेषात् -६,५.२८
द्वादशाहस् तु लिङ्गात् स्यात् -६,५.२९
पौर्णमास्याम् अनियमोऽविशेषात् -६,५.३०
आनन्तर्यात् तु चैत्री स्यात् -६,५.३१
माघी वैकाष्टकाश्रुतेः -६,५.३२
अन्या अपीति चेत् -६,५.३३
न भक्तित्वाद् एषा हि लोके -६,५.३४
दीक्षापराधे चानुग्रहात् -६,५.३५
उत्थाने चानुप्ररोहात् -६,५.३६
अस्यां च सर्वलिङ्गानि -६,५.३७
दीक्षाकालस्य शिष्टत्वाद् अतिक्रमे नियतानाम् अनुत्कर्षः प्राप्तकालत्वात् -६,५.३८
उत्कर्षो वा दीक्षितत्वाद् अविशिष्टं हि कारणम् -६,५.३९ तत्र प्रतिहोमो न विद्यते यथा पूर्वेषाम् -६,५.४०
कालप्राधान्याच् च -६,५.४१
प्रतिषेधाच् चोर्ध्वम् अवभृथादेष्टे -६,५.४२
प्रतिहोमश् चेत् सायम् अग्निहोत्रप्रभृतीनि हूयेरन् -६,५.४३
प्रातस् तु षोडशिनि -६,५.४४
प्रायश्चित्तम् अधिकारे सर्वत्र दोषमामान्यात् -६,५.४५
प्रकरणे वा शब्दहेतुत्वात् -६,५.४६
अतिद्विकारश् च -६,५.४७
व्यापन्नस्याप्सु गतौ यद् अभोज्यम् आर्याणां तत् प्रतीयेत -६,५.४८
विभागश्रुतेः प्रायश्चित्तं यौगपद्ये न विद्यते -६,५.४९
स्याद् वा प्राप्तनिमित्तत्वात् कालमात्रम् एकम् -६,५.५०
तत्र विप्रतिषेधाद् विकल्पः स्यात् -६,५.५१
प्रयोगान्तरे वोभयानुग्रहः स्यात् -६,५.५२
न चैकसंयोगात् -६,५.५३
पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत् -६,५.५४
यद्य् उद्गाता जघन्यः स्यात् पुनर् यज्ञे सर्ववेदसं दद्याद् यथेतरस्मिन् -६,५.५५
अहर्गणे यस्मिन्न् अपच्छेदस् तद् आवर्तेत कर्म पृथक्त्वात् -६,५.५६
सन्निपाते वैगुण्यात् प्रकृतिवत् तुल्यकल्पा यजेरन् -६,६.१
वचनाद् वाशिरोवत्स्यात् -६,६.२
न वानारभ्यवादत्वात् -६,६.३
स्याद् वा यज्ञार्थत्वाद् औदुम्बरीवत् -६,६.४
न तत्प्रधानत्वात् -६,६.५
औदुम्बर्याः परार्थत्वात् कपालवत् -६,६.६
अन्येनापीति चेत् -६,६.७
नैकत्वात्तस्य चानधिकाराच् छब्दस्य चाविभक्तत्वात् -६,६.८
सन्निपातात् तु निमित्तविघातः स्याद् बृहद्रथन्तरवद् विभक्तशिष्टत्वाद् वसिष्ठनिर्वर्त्ये -६,६.९
अपि वा कृत्स्नसंयोगाद् अविघातः प्रतीयेत स्वामित्वेनाभिसंबन्धात् -६,६.१०
साम्नोः कर्मवृद्ध्यैकदेशेन संयोगे गुणत्वेनाभिसंबन्धस् तस्मात् तत्र विघातः स्यात् -६,६.११
वचनात् तु द्विसंयोगस् तस्माद् एकस्य पाणिवत् -६,६.१२
अर्थाभावात् तु नैवं स्यात् -६,६.१३
अर्थानां च विभक्तत्वान् न तच्छ्रुतेन संबन्धः -६,६.१४
प्राणेः प्रत्यङ्गभावाद् असंबन्धः प्रतीयेत -६,६.१५
सत्राणि सर्ववर्णामाम् अविशेषात् -६,६.१६
लिङ्गदर्शनाच् च -६,६.१७
ब्राह्मणानां वेतरयोर् आर्त्विज्यभावात् -६,६.१८
वचनाद् इति चेत् -६,६.१९
न स्वामित्वं हि विधीयते -६,६.२०
गार्हपते वा स्याताम् अविप्रतिषेधात् -६,६.२१
न वा कल्पविरोधात् -६,६.२२
स्वामित्वाद् इतरेषाम् अहीने लिङ्गदर्शनम् -६,६.२३
वासिष्ठानां वा ब्रह्मत्वनियमात् -६,६.२४
सर्वेषां वा प्रतिप्रसवात् -६,६.२५
विश्वामित्रस्य हौत्रनियमाद् भृगुशुनकवसिष्ठानाम् अनधिकारः -६,६.२६
विहारस्य प्रभुत्वाद् अनग्नीनाम् अपि स्यात् -६,६.२७
सारस्वते च दर्शनात् -६,६.२८
प्रायश्चित्तविधानाच् च -६,६.२९
साग्नीनां वेष्टिपूर्वत्वात् -६,६.३०
स्वार्थेन च प्रयुक्तत्वात् -६,६.३१
सन्निवापं च दर्शयति -६,६.३२
जुह्वादीनाम् अप्रयुक्तत्वात् संदेहे यथाकामी प्रतीयेत -६,६.३३
अपि वान्यानि पात्राणि साधारणानि कुर्वीरन् विप्रतिषेधाच् छास्त्रकृत्वात् -६,६.३४
प्रायश्चित्तम् आपदि स्यात् -६,६.३५
पुरुषकल्पेन विकृतौ कर्तृनियमः स्याद् यज्ञस्य तद्गुणत्वाद् अभावाद् इतरान् प्रत्येकस्मिन्न् अधिकारः स्यात् -६,६.३६
लिङ्गाच् चेज्याविशेषवत् -६,६.३७
न वा संयोगपृथक्त्वाद् गुणस्येज्याप्रधानत्वाद् असंयुक्ता हि चोदना -६,६.३८
इज्यायां तद्गुणत्वाद् विशेषेण नियमयेत -६,६.३९
स्वदाने सर्वम् अविशेषात् -६,७.१
यस्य वा प्रभुः स्याद् इतरस्याशक्यत्वात् -६,७.२
न भूमिः स्यात् सर्वान् प्रत्यविशिष्टत्वात् -६,७.३
अकार्यत्वाच् च ततः पुनर् विशेषः स्यात् -६,७.४
नित्यत्वाच् चानित्यैर् नास्ति संबन्धः -६,७.५
शूद्रश् च धर्मशास्त्रत्वात् -६,७.६
दक्षिणाकाले यत् स्वं तत् प्रतीयेत तद्दानसंयोगात् -६,७.७
अशेषत्वात् तदन्तः स्यात् कर्मणो द्रव्यसिद्धित्वात् -६,७.८
अपि वा शेषकर्म स्यात् क्रतोः प्रत्यक्षशिष्टत्वात् -६,७.९
तथा चान्यार्थदर्शनम् -६,७.१०
अशेषं तु समञ्जसादानेन शेषकर्म स्यात् -६,७.११
नादानस्यानित्यत्वात् -६,७.१२
दीक्षासु विनिर्देशाद् अक्रत्वर्थेन संयोगस् तस्माद् अविरोधः स्यात् -६,७.१३
अहर्गणे च तद्धर्मः स्यात् सर्वेषाम् अविशेषात् -६,७.१४
द्वादशशतं वा प्रकृतिवत् -६,७.१५
अतद्गुणत्वात् नैवं स्यात् -६,७.१६
लिङ्गदर्शनाच् च -६,७.१७
विकारः सन्न् उभयतोऽविशेषात् -६,७.१८
अधिकं वा प्रतिप्रसवात् -६,७.१९
अनुग्रहाच् च पादवत् -६,७.२०
अपरिमिते शिष्टस्य सङ्ख्याप्रतिषेधस् तच्छ्रुतित्वात् -६,७.२१
कल्पान्तरं वा तुल्यवत् प्रसङ्ख्यानात् -६,७.२२
अनियमोऽविशेषात् -६,७.२३
अधिकं वा स्याद् बहूर्थत्वाद् इतरेषां सन्निधानात् -६,७.२४
अर्थवादश् च तदर्थवत् -६,७.२५
परकृतिपुराकल्पं च मनुष्यधर्मः स्याद् अर्थाय ह्य् अनुकीर्तनम् -६,७.२६
तद्युक्ते च प्रतिषेधात् -६,७.२७
निर्देशाद् वा तद्धर्मः स्यात् पञ्चावत्तवत् -६,७.२८
विधौ तु वेदसंयोगाद् उपदेशः स्यात् -६,७.२९
अर्थवादो वा विधिशेषत्वात् तस्मान् नित्यानुवादः स्यात् -६,७.३०
सहस्रसंवत्सरं तदायुषाम् असंभवान् मनुष्येषु -६,७.३१
अपि वा तदधिकारान् मनुष्यधर्मः स्यात् -६,७.३२
नासामर्थ्यात् -६,७.३३
सम्बन्धादर्शनात् -६,७.३४
स कुलकल्पः स्याद् इति कार्ष्णाजिनिर् एकस्मिन्न् असंभवात् -६,७.३५
अपि वा कृत्स्नसंयोगाद् एकस्यैव प्रयोगः स्यात् -६,७.३६
विप्रतिषेधात् तु गुण्यन्यतरः स्याद् इति लावुकायनः -६,७.३७
संवत्सरो विचालित्वात् -६,७.३८
सा प्रकृतिः स्याद् अधिकारात् -६,७.३९
अहानि वाभिसंख्यत्वात् -६,७.४०
इष्टिपूर्वत्वाद् अक्रतुशेषो होमः संस्कृतेष्व् अग्निषु स्याद् पूर्वोऽप्य् आधानस्य सर्वशेषत्वात् -६,८.१
इष्टित्वे न तु संस्तवश् चतुर्होतॄन् असंस्कृतेषु दर्शयति -६,८.२
उपदेशस् त्व् अपूर्वत्वात् -६,८.३
स सर्वेषाम् अविशेषात् -६,८.४
अपि वा क्रत्वभावाद् अनाहिताग्नेर् अशेषभूतनिर्देशः -६,८.५
जपो वानग्निसंयोगात् -६,८.६
इष्टित्वेन संस्तुते होमः स्याद् अनारभ्याग्निसंयोगाद् इतरेषाम् अवाच्यत्वात् -६,८.७
उभयोः पितृयज्ञवत् -६,८.८
निर्देशो वानाहिताग्नेर् अनारभ्याग्निसंयोगात् -६,८.९
पितृयज्ञे संयुक्तस्य पुनर् वचनम् -६,८.१०
उपनयन्न् आदधीत होमसंयोगात् -६,८.११
स्थपतीष्टवल् लौकिके वा विद्याकर्मानुपूर्वत्वात् -६,८.१२
आधानं च भार्यासंयुक्तम् -६,८.१३
अकर्म चोर्ध्वम् आधानात् तत्समवायो हि कर्मभिः -६,८.१४
श्राद्धवद् इति चेत् -६,८.१५
न श्रुतिविप्रतिषेधात् -६,८.१६
सर्वार्थत्वाच् च पुत्रार्थो न प्रयोजयेत् -६,८.१७
सोमपानात् तु प्रापणं द्वितीयस्य तस्माद् उपयच्छेत् -६,८.१८
पितृयज्ञे तु दर्शनात् प्राग् आधानात् प्रतीयेत -६,८.१९
स्थपतीष्टिः प्रयाजवद् अग्नयाधेयं प्रयोजयेत् तादर्थ्याच् चापवृज्येत -६,८.२०
अपि वा लौकिकेऽग्नौ स्याद् आधानस्यासर्वशेषत्वात् -६,८.२१
अवकीर्णिपशुश् च तद्वद् आधानस्याप्राप्तकलत्वात् -६,८.२२
उदगयनपूर्वपक्षाहः पुण्याहेषु दैवानि स्मृतिरूपान्य् आर्थदर्शनात् -६,८.२३
अहनि च कर्मसाकल्यम् -६,८.२४
इतरेषु तु पित्र्याणि -६,८.२५
याच्ञाक्रयणम् अविद्यमाने लोकवत् -६,८.२६
नियतं वार्थवत्वात् स्यात् -६,८.२७
तथा भक्षप्रैषाच् छादनसंज्ञप्तहोमद्वेषम् -६,८.२८
अनर्थकं त्व् अनित्यं स्यात् -६,८.२९
पशुचोदनायाम् अनियमोऽविशेषात् -६,८.३०
छागो वा मन्त्रवर्णात् -६,८.३१
न चोदनाविरोधात् -६,८.३२
आर्षेयवद् इति चेत् -६,८.३३ न तत्र ह्य् अचोदित्वात् -६,८.३४
नियमो वैकार्थ्यं ह्य् अर्थभेदाद् भेदः पृथवत्वेनाभिधानात् -६,८.३५
अनियमो वार्थान्तरत्वाद् अन्यत्वं व्यतिरेकशब्दभेदाभ्याम् -६,८.३६
रूपाल् लिङ्गाच् च -६,८.३७
छागे न कर्माख्या रूपलिङ्गाभ्याम् -६,८.३८
रूपान्यत्वान् न जातिशब्दः स्यात् -६,८.३९
विकारो नौत्पत्तिकत्वात् -६,८.४०
स नैमित्तिकः पशोर् गुणस्याचोदितत्वात् -६,८.४१
जातेर् वा तत्प्रायवचनार्थवत्वाभ्याम् -६,८.४२