त्रयाणामाश्रमाणां तु गृहस्थो योनिरुच्यते ।
अन्ये तमुपजीवन्ति तस्माच्छ्रेयान् गृहाश्रमी ।। २.४९
ऐकाश्रम्यं गृहस्थस्य चतुर्णां श्रुतिदर्शनात् ।
तस्माद् गार्हस्थ्यमेवैकं विज्ञेयं धर्मसाधनम् ।। २.५०
परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ ।
सर्वलोकविरुद्धं च धर्ममप्याचरेन्न तु ।। २.५१
धर्मात् संजायते ह्यर्थो धर्मात् कामोऽभिजायते ।
धर्म एवापवर्गाय तस्माद् धर्मं समाश्रयेत् ।। २.५२
धर्मश्चार्थश्च कामश्च त्रिवर्गस्त्रिगुणो मतः ।
सत्त्वं रजस्तमश्चेति तस्माद्धर्मं समाश्रयेत् ।। २.५३
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ।। २.५४
यस्मिन् धर्मसमायुक्तावर्थकामौ व्यवस्थितौ
इह लोके सुखी भूत्वा प्रेत्यानन्त्याय कल्पते ।। २.५५
धर्मात् संजायते मोक्षो ह्यर्थात् कामोऽभिजायते ।
एवं साधनसाध्यत्वं चातुर्विध्ये प्रदर्शितम् ।। २.५६
य एवं वेद धर्मार्थकाममोक्षस्य मानवः ।
माहात्म्यं चानुतिष्ठेत स चानन्त्याय कल्पते ।। २.५७
तस्मादर्थं च कामं च त्यक्त्वा धर्मं समाश्रयेत् ।
धर्मात् संजायते सर्वमित्याहुर्ब्रह्मवादिनः ।। २.५८
धर्मेण धार्यते सर्वं जगत् स्थावरजङ्गमम् । अनादिनिधना शक्तिः सैषा ब्राह्मी द्विजोत्तमाः ।। २.५९
कर्मणा प्राप्यते धर्मो ज्ञानेन च न संशयः ।
तस्माज्ज्ञानेन सहितं कर्मयोगं समाचरेत् ।। २.६०
श्रीकूर्मपुराणे पूर्वविभागे द्वितीयोऽध्यायः
front page › Forums › धर्मसाधनम् – Dharma Sadhanam
Tagged: Dharma, HinduReligion
© Advocatetanmoy Law Library
© Advocatetanmoy Law Library