Skip to content

Advocatetanmoy Law Library

Research & Library Database

Yuddha Gita (1st Vol): The First Question of Human Civilization

Search

  • Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System
  • West Bengal Govt Budget Statement In Bengali (2026-2027) by Swapan Dasgupta
  • Encyclopedia of Physical Measurement (3-Volume)
  • West Bengal Day, 20 June: History of the Formation of West Bengal in 1947
  • Noble Bengali Families of Kolkata (1760–1860): Rise of Abhijat Bhadralok in Colonial Bengal
  • Bishop’s College Kolkata: India’s Oldest Anglican Theological Institution (1820–2026)
  • Deep Grammar of Civilization (13-Volume): What Are the Irreducible Components of Civilization?
  • Good Life (3-Volume): An encyclopedia of everything humanity seeks when it speaks of “a better life”
  • Smallest Library for the Largest Understanding: 10 Books that give the Highest Intellectual Return per page read
  • Life After Death (Part-III)
Primary Menu
  • News
    • Editorial
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • JudgmentSupreme Court
  • Podcast
  • Legal Brief
    • Legal Eagal
  • HLJLaw Digests
    • Supreme Court Case Notes
    • Daily Digest
  • SarvarthapediaKnowledgebase
    • Sarvarthapedia (Twelve Core Areas): Macro Structure
    • Systemic-and-systematic
    • Volume One
    • Volume Two
    • Volume Three
    • Volume Four
    • Volume Five
    • Volume Six
  • Subjects
    • Knowledge Graph
    • Glossary
  • Indian Law
  • EncyclopediaCollection
Home » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » Vedic Sanskrit Culture » Sarvarthapedia Vedic Dictionary » लक्ष्मी -Lakshmi
  • Sanskrit Documents
  • Sarvarthapedia Vedic Dictionary

लक्ष्मी -Lakshmi

साक्षिणी सर्वभूतानां लक्षयामि शुभाशुभम्। लक्ष्मीश्चास्मि हरेर्नित्यं लक्ष्यं सर्वमितेरहम्
advtanmoy 12/10/2019 1 minute read

© Advocatetanmoy Law Library

  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on Telegram (Opens in new window) Telegram
Photo by Mr. Kartik Kundu Advocate

The Deity of Lakshmi and Her Tantrik Sadhana

 ओं हिरण्यवर्णायै नमः

ओं हिरण्मय्यै नमः।

ॐ साक्षिणी सर्वभूतानां लक्षयामि शुभाशुभम्।
लक्ष्मीश्चास्मि हरेर्नित्यं लक्ष्यं सर्वमितेरहम् ।।

ददती क्षेपणी चास्मि नित्या त्रिप्रेरणी तथा।
तथा ज्ञानस्वरूपाहं लक्षणीया मितौ मितौ ।।

लये निवासे निर्माणे प्रेरणी प्रकृतेरहम्।
लक्षणाख्यस्य भावस्य कलाकाष्ठादिरूपिणी ।।

अव्यक्तव्यक्तसत्त्वस्था प्रेरयित्री सदास्म्यहम्।
लक्षं नयामि चात्मानं लामि चान्ते क्षिपामि च ।। 

क्षिपामि क्षपयाम्येका क्षिणोमि दुरितं सताम्।
क्षमे क्षमा हि भूतानां मिमे मन्ये च मामि च ।।

ओं लक्ष्म्यै नमः। ओं लक्ष्म्यै नमः। ओं लक्ष्म्यै नमः।।


ॐ श्रीः

शब्द ब्रह्म स्वरूपत्वमाह

श्रीं ह्रीं ओं, ओं श्रियै नमः 

अथो लक्ष्मी स्वरूपं बक्षेहं।। 1 ।।

शब्दार्थप्रविभागेन द्विधा लक्ष्मीः प्रवर्तते।
शान्ता पश्याथ मध्या च वैखरी चेति संज्ञया ।। 2 ।।
शब्दोन्मेषश्चतुर्धायमर्थोन्मेषस्तथाविधः।
प्रत्यस्तमितसंस्कारा स्वरवर्णादिवर्जिता ।। 3 ।।
शाब्दी या संस्थितिः प्राच्या सा शान्ता शान्तसाधना।
अर्थबोधकरूपं यच्छब्दशक्तेरसंस्कृतम् ।। 4 ।।
केवलो यः समुन्मेषः पश्यन्ती सा प्रकीर्तिता।
अर्थबोधकरूपं यत् स शब्दः परिकीर्तितः ।। 5 ।।
न हिंसयन्ति संस्कारा यदा मध्याथ सा तदा।
एवं संस्कारसंपन्ना विकल्पशतशालिनी ।। 6 ।।
विविधं रमते वैषु यतो न प्राकृतीष्वथ।
रूपं शकलशः कृत्वा स्थानेष्वष्टसु सा तदा ।। 7 ।।

वैखरी नाम सा वाच्या विविधं वक्ति वर्णिनी।
शान्ता नाम परा या सा सर्वत्र समतां गता ।। 8 ।।
कोटिकोटिसहस्रांशस्तस्या वागथ मद्यमा।
कोटिकोटिसहस्रांशस्तस्या वागथ वैखरी ।। 9 ।।
वर्णाः पदानि वाक्यानि त्रिविधा वैखरीगतिः।
संकोचं क्रमशो याति सेयं वर्णादिवर्त्मना ।। 10 ।।

इयं चतुर्विधा शक्तिः प्रतिलोमानुलोमजा।
चतुर्धा सोदयं याति शान्तापश्यादिभिः क्रमात् ।। 11 ।।
चतुर्धास्तमयं याति वैखरीमध्यमादिभिः।
व्यक्ता व्यक्तसमाव्यक्ता सा विज्ञेया त्रिधा पुनः ।। 12 ।।
व्यक्ता प्राणिशरीरस्था योदेत्यस्तमुपैति च।
वीणावेणुमृदङ्गाद्यैर्व्यक्ता तद्व्यज्यते हि या ।। 13 ।।
विवक्षाकरणोद्योगैः प्राणिभिः साथ तत्समा।
मरुदाघट्‌टनात् सिन्धुसरिद्गिरिदरीमुखैः ।। 14 ।।
व्यज्यते शब्दशक्तिर्या सा त्वव्यक्ता समीरिता।
उदयेऽस्तमये चासां पूर्वोक्तौ व्युत्क्रमोत्क्रमौ ।। 15 ।।

वाच्यं चतुर्विधं ज्ञेयं शान्तादिप्रविभागवत्।
एवं व्यवस्थिता शक्तिस्तारिकेति निरूपणम् ।। 16 ।।
जपोऽसौ मध्यमो नाम परितो वर्णवर्णनम्।
वर्णरूपा च शक्तिर्या या च संयोगसंभवा ।। 17 ।।
शक्तिनद्धानुविद्धा या विवक्षासंभवा च या।
एतच्छक्तिचतुष्कं तद्विनिर्णयपुरःसरम् ।। 18 ।।
अर्थाध्यासस्तु शब्दे यस्चरमोऽसौ प्रकीर्तितः।
वाच्यं बुद्ध्वा पृथग् बुद्ध्वा तां त्रिधाकारसंस्थिताम् ।। 19 ।।
तत्संबोधो हि यो मन्त्रैः स जपस्तु परावरः।
लक्ष्मीतन्त्रे समुद्दिष्टा त्वग्नीषोममयी हि या ।। 20 ।।
तत्तद्रूपमतिक्रम्य वाच्यवाचकसंज्ञितम्।
लक्ष्मीमयीं निशां तीर्त्वा तारिकारूपरूपिणीम् ।। 21 ।।
निस्तरङ्गमहानन्दसंवित्तारामहोदधौ।
विशोध्य सकलान् मन्त्रास्तद्भावन्याससंयुतः ।। 22 ।।

तानुपास्य ततस्तस्यां तत्तदाप्यायनोज्ज्वलान्।
तत्सामान्यविशेषाभ्यां भावयेन्मन्त्रदेवताम् ।। 23 ।।
तथा युक्तो जपेन्मन्त्रान् नित्योऽयं पूजितो जपः।
तत्तच्छास्रोक्तसंस्थानसंस्कारक्रमशालिनीः ।। 24 ।।
तैस्तैर्भावैः समेताश्च भावयन्मन्त्रदेवताः।
जपेत सर्वदर्शी यज्जपोऽयं परमः स्मृतः ।। 25 ।।


 Source : लक्ष्मीतन्त्रम् अध्यायः ५७


मंत्र रूपा लक्ष्मी

श्रीः अथ मन्त्रमयं मार्गं शृणु वत्स पुरंदर।
प्रकाशानन्दरूपाहं पूर्णाहंता हरेरहम् ।। 1 ।।

मन्त्रमातेति मां विद्धि प्राणाख्यां शुद्धचिन्मयीम्।
उद्यन्ति मत्त एवैते यान्ति चास्तं मयि ध्रुवम् ।। 2 ।।

अहं च बलमेतेषां मद्रूपत्वं विदन्ति ते।
एकधा च द्विधा चैव त्रिधा चैवाहमूर्जिता ।। 3 ।।
चतुर्धा पञ्चधा षोढा सप्तधा चाष्टधा तथा।
तथा षोडशधा चैव पञ्चविंशतिधा तथा ।। 4 ।।
पञ्चाशद्धा पुनश्चैव पुनश्चाहं त्रिषष्टिधा।
उदेमि बहुधा चैव चिन्तामणिरिवेश्वरी ।। 5 ।।

स्वराश्च व्यञ्जनाश्चैव स्वरव्यञ्जनसंहतिः।
अक्षराणि पदान्येवं वाक्यप्रकरणैः सह ।। 6 ।।

आह्निकाध्याययोश्चैव शास्रतन्त्रव्यवस्थितिः।
आगमा बहुधा चैव बाह्याबाह्यव्यवस्थितिः ।। 7 ।।
लौकिका वैदिकाश्चैवं भाषाश्च विविधास्तथा।
मन्त्ररूपमिदं विद्धि सर्वं मद्रूपवेदिनाम् ।। 8 ।।

भावनातारतम्येन ग्राह्यग्राहकसंस्थितिः।
आसत्तिविप्रकर्षौ च भावनातारतम्यतः ।। 9 ।।

बीजं पिण्डं पदं संज्ञेत्येवं मन्त्राश्चतुर्विधाः।
तेषां प्रधानतो विद्धि पञ्च रत्नानि वासव ।। 10 ।।
मत्सूक्ते तानि बीजानि दध्नि सर्पिरिवाहितम्।
सूर्यसोमाग्निखण्डोत्थं नादवत् पाकशासन ।। 11 ।।

यदत्र सूर्यरूपं तज्जाग्रत्पदमुदाहृतम्।
वह्निः स्वाप्नं सुषिप्तिश्च सोमो माया पराह्वया ।। 12 ।।
खण्डं यदिन्दुखण्डाख्यं तुर्यं नादस्ततः परम्।
शक्तिः शान्तात्मिकावस्था नादस्यैव तु संस्थितिः ।। 13 ।।
ततः परं तु यद्‌ ब्रह्म लक्ष्मीनारायणं तु तत्।
स्वराणां षट्‌चतुःषट्‌कं सूर्याग्नीन्दुसमुद्गतम् ।। 14 ।।
शेषा वर्णाः स्वरोत्पन्ना इतीयं वर्णसंस्थितिः।
इतीदं परमं बीजं सर्वकामफलप्रदम् ।। 15 ।।

पुत्रदं पुत्रकामानां राज्यकामस्य राज्यदम्।
भूतिदं भूतिकामानां मोक्षकामस्य मोक्षदम् ।। 16 ।।
विध्वंसयति शत्रूंश्चाप्याकर्षयति वाञ्छितम्।
चिन्तामणरिदं नाम नैव चिन्तामणिर्मणिः ।। 17 ।।
तस्यैव चानुगं बीजं शकाद्यं सर्वकामदम्।
युग्मैर्मायाक्षरादेशैराद्यन्तस्वरषट्‌कयोः ।। 18 ।।
अङ्गक्लृप्तिरियं कार्या जातिमुद्रासमन्विता।
शिष्टबीजचतुष्कस्याप्येवमेव व्यवस्थितिः ।। 19 ।।
पूर्णाहंतासमावेशादादिबीजसमन्वयात्।
नानाविधो मन्त्रगणो मदीयत्वं प्रपद्यते ।। 20 ।।

मन्त्राणां देवता या सा सा मच्छक्त्यधिनिष्ठिता।
मद्भावभाविनी चैव तस्माद्ध्येयास्मि तत्र वै ।। 21 ।।
तां तां वै देवतां तत्र नारीरूपामनुस्मरेत्।
तत्तद्वर्णायुधाकारभूषणादिसमन्विताः ।। 22 ।।
मदीयत्वं समासाद्य ताः शीघ्रफलदास्तथा।
इति ते मन्त्रमार्गोऽयं लेशतः शक्र वर्णितः ।। 23 ।।


Source: लक्ष्मीतन्त्रम् अध्यायः ५२


सनातनी नारायणी लक्ष्मी

श्रीः-साधु संबोधिता सम्यग् वत्स वृत्रनिषूदन।
शृणु संक्षेपमाख्यामि तन्त्रादस्मात् समुद्धृतम् ।। 9 ।।

अहंता सर्वभूतानामहमस्मि सनातनी।
आरोहेणावरोहेण विश्वसिद्धिकरी स्मृता ।। 10 ।।
परमं यदहंताख्यं तुर्यातीतं तदुच्यते।
परं ब्रह्म परं धाम लक्ष्मीनारायणं तु तत् ।। 11 ।।
न तत्र प्रविबागो नौ भवद्भावव्यवस्थितौ।
उन्मेषस्तत्र यो नाम यथा चन्द्रोदयेऽम्बुधौ ।। 12 ।।

अहं नारायणी शक्तिः सिसृक्षालक्षणा तथा।
तुर्यावस्था च सा मे स्यात् परिणामोद्भवात्मिका ।। 13 ।।
शुद्धाशुद्धमयो भावः सर्वोऽप्यन्तर्गतस्तदा।
व्यूहाश्च विभवाश्चैव तथा व्यूहान्तरादिकाः ।। 14 ।।
अयं शुद्धमयो भावो यच्चान्यद्भगवन्मयम्।
व्यूहे च विभवे चैव तथा व्यूहान्तरादिके ।। 15 ।।
सुषुप्ताद्या अवस्था मे प्रत्येकं चैवमुन्नयेत्।
अव्यक्तमहदाद्याश्च तथा वैकारिकं जगत् ।। 16 ।।
शुद्धेतरस्त्वयं भावस्तिस्रोऽवस्थाश्च तत्र वै।
प्रत्येकमुन्नयेच्चैवं तत्र तत्र दिवस्पते ।। 17 ।।
भूते स्थिते च विज्ञेया दसा एताश्चतुर्विधाः।
अपरोऽस्ति क्रमस्त्वेवं शुद्धाशुद्धमयेऽध्वनि ।। 18 ।।
प्रमातृकरणज्ञेयेष्वारोहेषु मदात्मके।
शून्यप्राणादिभेदेन क्रमान्मातृगणा दश ।। 19 ।।
करणं द्विविधं विद्धि बाह्यमाभ्यन्तरं तथा।
उभयोरपि तावद्धि तूष्णींभावादिके क्रमे ।। 20 ।।

ज्ञेयं बहुविधं प्रोक्तं तत्राप्येवं समुन्नयेत्।
तुर्यातीतत्वमेतेषां भगवद्भाववेदनम् ।। 21 ।।
अवरोहोऽयमुद्दिष्ट आरोहमपि मे शृणु।
चरमां कोटिमारभ्य मदन्तोऽभूद्व्यवस्थितः ।। 22 ।।
आरोहः स तु विज्ञेयः शुद्धाशुद्धमयेऽध्वनि।
आरोहमवरोहं च संततं भावयन्नरः ।। 23 ।।
मच्चित्तो मद्गतप्राणो मद्भावं समुपाश्नुते।
आकारकालदेशान्मे परिच्छेदोऽस्ति नैव च ।। 24 ।।
मयैव ज्ञानरूपिण्या व्याप्तास्ते पाकशासन।
आत्मभित्तौ जगत् सर्वमिच्छयोन्मीलयाम्यहम् ।। 25 ।।
तद्रूपतारतम्येन ग्राह्यग्राहकसंस्थितिः।
वाच्यात्मपरिणामोऽयं लेशतस्ते प्रदर्शितः ।। 26 ।।

वाचकात्मानमस्य त्वं समाहितमनाः शृणु।
शुद्धसंविन्मयी पूर्वं विवर्ते प्राणरूपतः ।। 27 ।।
तत्तत्स्थानप्रसङ्गेन विवर्ते शब्दतस्तथा।
शान्ता सूक्ष्मा तथा मध्या वैखरीति विवेकिनी ।। 28 ।।
चतूरूपं चतूरूपवाचि वाच्यं स्वनिर्मितम्।
शान्ता विवर्तमानाहं प्रपद्ये सूक्ष्मसंस्थितिम् ।। 29 ।।
शक्तिर्नाद इति द्वेधा सूक्ष्मरूपव्यवस्थितिः।
सूक्ष्मा विवर्तमानाहं प्रपद्ये मध्यमां स्थितिम् ।। 30 ।।
बिन्दुसंस्कारसंपत्तिः सावस्थाक्षरसंततेः।
मध्या विवर्तमानाहं प्रपद्ये वैखरीस्थितिम् ।। 31 ।।
पञ्चाशदादिभेदेन सावस्थाक्षरसंततेः।
आरोहमवरोहं च संततं भावयन्निमौ।
शब्दब्रह्मणि निष्णातः शब्दातीतं प्रपद्येत् ।। 32 ।।


Source: लक्ष्मीतन्त्रम् -अध्यायः ५१


ओं हिरण्यवर्णायै नमः – हरिणीति नाम निरुच्यतेऽत्र। हरिणीवत् दूरधावनादिति, हरन्ति बध्नन्ति योगिन एनामिति च निर्वचनद्वयम् ।।


ऋद्धिः, वृद्धिः, समृद्धिः, विभूतिरिति चतस्रो लक्ष्मीसख्यः। तासां बीजमन्त्राः ऋं, वृं, सिं, विं इति  प्रत्येकं टं इति सहिताः ।। ओं ऋं टं ऋद्ध्यै स्वाहा इत्यादयो मन्त्राः।

ओं ह्रीं श्रीं नमो विष्णवे।

मानसिक उपासना रहश्य  

प्राणयन्ती प्राणती च प्राणा प्राणावबोधिनी।
परा बोधेति ता एता भ्रूमध्यान्तःस्थपद्मगाः ।। 46 ।।
रत्नदीपशिखाभेषु भावयेन्मां क्रमोत्क्रमात्।
गृणन्मां तारिकां दीर्घां दीर्घघण्टानदोपमाम् ।। 47 ।।
इत्थं मां चिन्तयन् योगी सुरूपां वापि संस्मरन्।
विहाय सकलं क्लेशं मद्भावं प्रतिपद्यते ।। 48 ।।

लक्षयेद्वापि पद्मेषु नवस्वेषु क्रमोत्क्रमात्।
आधारे त्रीणि पद्मानि हृदयाधोऽम्बुजत्रयम् ।। 49 ।।

मूर्ध्नोऽधस्रीणि पद्मानि नवपद्मविधिक्रमः।
द्वादशस्वथवाब्जेषु मूर्धाद्येषु द्विके द्विके ।। 50 ।।

षट्‌सु वा प्रथमाब्जेषु त्रिषु वा मूलहृद्भुवि।
भ्रूमध्ये चिन्तयेद्वापि तारिका तारनादिनीम् ।। 51 ।।

तद्बिन्दुं चिन्तयेत् पूर्वं मुद्गमात्रं सुभास्वरम्।
ततः सर्षपमात्रं तु ततश्चित्रमनाकृतिम् ।। 52 ।।

यो यो वा गृह्यते भावो घटकुड्यादिरूपवान्।
चिन्तयेत्तत्र तत्त्वानि यानि यावन्ति शास्रतः ।। 53 ।।
मन्मयीकृत्य तत्रैतान्यहंभावनया स्मरेत्।
हेतुमद्धेतुभूतानि लोके वस्तूनि यानि वा ।। 54 ।।
आश्रिताश्रयरूपाणि यानि स्वच्छघनानि वा।
भावतद्वत्स्वरूपाणि शुभाशुभमयानि च ।। 55 ।।
प्रसवाप्रसवात्मानि गुणगुण्याकृतीनि वा।
आधाराधेयभूतानि शक्तितद्वन्मयानि वा ।। 56 ।।
भोग्यभोक्तृस्वरूपाणि नारीनरमयानि वा।
क्रियाकर्तृस्वरूपाणि ह्युपायोपेयकानि वा ।। 57 ।।

स्रीपुंप्रत्ययरूपाणि शब्दरूपाणि यानि वा।
द्वन्द्वभूतानि वस्तूनि लोकेऽस्मिन् यानि कानिचित् ।। 58 ।।

तानि योगी धिया पश्येल्लक्ष्मीनारायणात्मना।
तन्त्रस्य परमं गुह्यं व्रतं शृणु पुरंदर ।। 59 ।।
योगिना यदनुष्ठेयं लक्ष्मीयोगविधिक्रमे।
प्रवर्तमानया पूर्वमादिदेवाज्जगद्विधौ ।। 60 ।।

आत्तं सीमन्तिनीरूपं मया साभिनिवेशया।
चिकीर्षुर्मत्प्रियं योगी लक्ष्मीतन्त्रविचक्षणः ।। 61 ।।

न स्मरेत् कामिनीनिन्दां कर्मणा मनसा गिरा।
यत्राहं तत्र तत्त्वानि यत्राहं तत्र देवताः ।। 62 ।।

यत्राहं तत्र पुण्यानि यत्राहं तत्र केशवः।
वनितायामहं तस्मान्नारी सर्वजगन्मयी ।। 63 ।।

योऽभिनिन्दति तां नारीं स लक्ष्मीमभिनिन्दति।
योऽभिनन्दति तां लक्ष्मीं त्रैलोक्यमभिनन्दति ।। 64 ।।
यो द्वेष्टि वनितां कांचित् स द्वेष्टि हरिवल्लभाम्।
यो हरेर्वल्लभां द्वेष्टि स द्वेष्टि सकलं जगत् ।। 65 ।।

ज्योत्स्नामिव स्रियं दृष्ट्वा यस्य चित्तं प्रसीदति।
नापध्यायति यत्किंचित् स मे प्रियतमो मतः ।। 66 ।।

यथा नारायणे नास्ति मयि वा शक्र किल्बिषम्।
यथा गवि यथा विप्रे यथा वेदान्तवेदिनि ।। 67 ।।
वनितायां तथा शक्र दुरितं नैव विद्यते।
अकल्मषा यथा गङ्गा यथा पुण्या सरस्वती ।। 68 ।।
अरुणा ह्यापगा यद्वत्तथा सीमन्तिनी वरा।
यदस्मि जननी नाम त्रयाणां जगतामहम् ।। 69 ।।
तदिदं नार्यवष्टम्भात् सा हि मे परमं बलम्।
त्रैलोक्यजननी देवी सर्वकामसमृद्धिनी ।। 70 ।।

मत्तनुर्वनिता साक्षाद्योगी कस्मान्न पूजयेत्।
न कुर्याद् वृजिननं नार्याः कुवृत्तं न स्मरेत् स्रियाः ।। 71 ।।

ऋते पापात् प्रियं नार्याः कार्यं योगमभीप्सता।
जननीमिव तां पश्येद्देवतामिव मामिव ।। 72 ।।

यो द्वेष्टि वनितां मोहात्तत्साहाय्यं न चाचरेत्।
इदं च शृणु देवेश यद्वक्ष्यामि प्रियोऽसि मे ।। 73 ।।

श्रुत्वा त्वयाप्यनुष्ठेयं नैव वाच्यं हि कस्यचित्।
या रूपिणी वरारोहा काचिद् दृष्टिपथं गता ।। 74 ।।

तस्यां मां भावयेद्योगी तारिकां मनसा गृणन्।
अलोलुपेन चित्तेन तस्या रूपमनुस्मरेत् ।। 75 ।।
प्राणं सूर्यं परात्मानं नारीहृदयपूरुषम्।
संस्मरेदनलं तत्र रूपलावण्यसंपदम् ।। 76 ।।
अशेषसंपदोपेतां तां नारीं मामनुस्मरेत्।
अनुस्मृत्य गृणन् ब्रह्म भावयेदेव मां धिया ।। 77 ।।
ततः समाधिसंपत्तौ तत्राविष्टा भवाम्यहम्।
स्तब्धसर्वाङ्गविस्रंसो मदावेशस्य लक्षणम् ।। 78 ।।

अलोलुपेन चित्तेन मां समाराध्य यत्नतः।
विरमेदेव युञ्जानः पाप्मानं परिवर्जयन् ।। 79 ।।

एतत्तु परदारेषु नैव कार्यं विजानता।
अयं समाधिर्यत्रासीत् सानुरज्यति तद् ध्रुवम् ।। 80 ।।

स्वस्रियामेव कुर्वीत साधारण्यामधापि वा।
विप्लवोऽपि न दोषोऽत्र यतो मद्भावभावना ।। 81 ।।

संस्पर्शजेषु भोगेषु यः संहर्षमहोदयः।
मद्रूपं तदनुध्यायेदविक्षिप्तेन चेतसा ।। 82 ।।

प्रशस्तविषयोत्थं यत् सुखं लेखनमन्थनात्।
स्मरतस्तत्प्रहर्षो यस्तद्भावमनुशीलयेत् ।। 83 ।।
चक्षुषा विषये दृष्टे या प्रीतिरुपजायते।
रसिते च श्रुते घ्राते सा मे सुखमयी तनुः ।। 84 ।।
यदृच्छोपनतेष्वेवं शब्दस्पर्शरसादिषु।
उपपत्तिरियं प्रोक्ता चेतो दमयतो यतेः ।। 85 ।।

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते।
आदिमन्तोऽन्तवन्तश्च न तेषु रमयेन्मनः ।। 86 ।।
निरस्तरजसा ध्वस्ततमसा सत्त्ववर्तिना।
यदन्तःकरणेनान्तर्व्यज्यते सुखमुत्तमम् ।। 87 ।।
आद्यन्तविधुरं तन्मे सुखं ज्ञानमयं वपुः।
तत्तादृग्व्यज्यते नैव संस्पर्शैर्विषयाश्रितैः ।। 88 ।।
अनुबध्नन्ति यद्‌ दुःखं विषयाः सुखवाहिनः।
मध्वन्तर्विषसंसृष्टं मधुरं यदि भक्षणे ।। 89 ।।
किं तेनानन्तरं यत्तद्व्यापादयति भक्षिणम्।
क्रुद्धस्य फणिनश्छायां यः श्रयेदातपार्दितः ।। 90 ।।
स सेवेत नरो भोगान् सुखाय स्पर्शसंभवान्।
साध्यान् दुःखव्ययायासैः सुदर्शान् दुःखमिश्रितान् ।। 91 ।।
तनीयसः क्षयिष्णूंश्च कः श्रयेद्विषयान् सुखी।
जप्यपूतमिताहारदिव्यसत्त्वतनूकृतौ ।। 92 ।।

रजस्तमोगुणौ क्षिण्वन् मत्प्रियाचारकर्मणा।
योगी समाधये शश्वद्यत्नेन दमयेन्मनः ।। 93 ।।

जिते मनसि वै शश्वद्विश्वं तेन विजीयते।
जिते मनसि शुद्धा मे तनुरुन्मिषति स्वयम् ।। 94 ।। ॐ श्रीः


Photo credit: Mr. Kartik Kundu [Advocate Howrah District Court]

Tags: Hindu Religion Tantram

Post navigation

Previous: Santhal Santhali and Ol Chiki
Next: Current Affairs-2019 October 12TH

Related Stories

Sarvarthapedia
  • Sarvarthapedia Vedic Dictionary

Epistemology (3-Volume): What justifies belief, the difference between opinion and truth

advtanmoy 24/05/2026
Philosophy & Religion of Rigveda
  • Sarvarthapedia Vedic Dictionary

Rigveda (ऋग्वेदः, ऋक्, ऋच्): Meaning, Structure and Vedic Interpretation

advtanmoy 28/04/2026
Mahabhasya of Patanjali: Bengali Commentary By Tanmoy Bhattacharyya
  • Sanskrit Documents

 Pūrvatra asiddham (Patanjali Mahābhāṣya) Aṣṭādhyāyī-8.2.1

advtanmoy 10/03/2026
The Encyclopedia of Chaitanya Mahaprabhu

Encyclopedia of Sree Krishna Chaitanya (12-Volume): The Golden Gouranga of Bengal

Encyclopedia of Macroscopic Human Social System Analysis

Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System

Encyclopedia of European Invasions in India

Encyclopedia of European Invasions in India (11-Volume): Colonialism, Resistance, and Restoration

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Deep Grammar of Civilization (13-Volume): What Are the Irreducible Components of Civilization?

Encyclopedia of Begging

Encyclopedia of Begging (6-Volume): A Global History of Asking, Giving, and Resource Acquisition

Encyclopedia of the Communist Party of China

Encyclopedia of the Communist Party of China (31-Volume): Making of Modern Chinese Civilization

Indo-Pakistan war 1971

Encyclopedia of the Indo–Pakistan War of 1971 (5-Volume): The Creation of Bangladesh

Sarvarthapedia

Encyclopedia of India’s Internal and External Intelligence System: Special Emphasis on the (R&AW)

The Encyclopedia of Political History of Bangladesh

Encyclopedia of Political History of Bangladesh (18-Volume): Identity, Liberation, And Democracy

Encyclopedia of Ecumenical Movements

Encyclopedia of Ecumenical Movements (21-Volume): History, Theology, Institutions and Dialogues

Encyclopedia of Dalit Christians and Their Theology

Encyclopedia of Dalit Christians and Their Theology (5-Volume): Crisis of Caste Culture within Christians in India

Encyclopedia of Indian Military Civilization

Encyclopedia of Indian Military Civilization (55-Volume): War Strategy and Armed Institutions From Antiquity to 2026

Sarvarthapedia

Ontology (25-Volume): Encyclopedia of All Known Conceptions of Reality and Existence

Synthesis-of-Greco-Roman-Ideologies-Shaping-Christianity and Historical Critiques of Christianity and Christian Theology

Encyclopedia of Historical Critiques of Christianity and Christian Theology: A (50-Volume) Research and Documentation

Sarvarthapedia Astronautical Engineering Knowledge Universe (SAEKU): A 250-Volume Master Reference for Space Science and Engineering

Astronautical Engineering Knowledge Universe: A 250-Volume Reference for Space Science and Engineering

Encyclopedia of Indian Economy

Encyclopedia of Indian Economy (56-Volume): A Civilisational Perspective

Encyclopedia of Astrology

Encyclopedia of Astrology (15-Volume): The Human Quest to Predict the Future

The Governing of America: A Civilizational Study of the United States Government

Governing the American Government (100-Volume): The Civilizational Encyclopedia of American Governance

Human rights conditions in the United States

Human Rights and United States (15-Volume): Violations, Resistance, and Global Impact

Civilizational History of North America

Civilizational History of North America (315-Volume): The Turtle Island and the American Imperium

Sarvarthapedia

Encyclopedia of Human Technological Civilization (12-Volume)

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Ultimate-Order Concepts (17-Volume): Fundamental Reason for Existence of Intelligence System

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Meta-Civilizational Architecture: How Complex Systems Survive

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Global Encyclopedia (180-Volume) of Intelligence, Espionage, and Counterintelligence

British Parliament

Encyclopedia of the British Parliamentary System: A 100-Volume Statement on British Politics

Encyclopedia of Global Capital Markets (100 Volumes): A Comprehensive Reference to Banking, Securities, Finance, and Investment Systems

The Global Capital Markets Encyclopedia (100-Volume): Reference on Finance, Banking, and Investment Systems

The Atlas of Self-Sabotage: A 12-Volume Encyclopedia of How Lives Quietly Go Wrong

The Atlas of Self-Sabotage: A 12-Volume Encyclopedia of How Lives Quietly Go Wrong

Encyclopedia of History of Ancient and Modern India

Encyclopedia of Ancient and Modern India: A 120-Volume Civilizational Knowledge System

Contemporary World History

Encyclopedia of Contemporary World History (2001–Present): A 100-Volume Statement on World System

Non-Proliferation of Nuclear Weapons: 12-Volume Reference and Research Architecture

Non-Proliferation of Nuclear Weapons: 12-Volume Reference and Research Architecture

Encyclopedia of American Law

Encyclopedia of American Law: 180‑Volume Statement on American Law

Roman empire and Law

Roman Empire Political History (15-Volume): Rise and Destruction (300 BCE – 1453 CE)

India

Encyclopedia of Contemporary Indian Politics: 111-Volume Statement on Indian Politics (1857–2026)

Encyclopedia of Psychology

Encyclopedia of Psychology (12-Volume): Of Mind, Behavior, and Society

The History of Pakistan

History of Pakistan (12-Volume): From Hindustan to an Islamic Republic

Africa and African Union

Encyclopedia of African Studies (10-Volume): History, Culture, and Development

African Studies

African Studies, Synopsis (10-Volume) and How to Study Africa

Encyclopedia of Disease and Disease Detection

Encyclopedia of Disease and Disease Detection (12-Volume): Foundations, Technologies, and Clinical Applications

Sarvarthapedia

Encyclopedia of Religion, Faith, and Beliefs (12-Volume): History, Theology, Politics, and Conflict with Science 

Cyber Security

Cybersecurity Encyclopedia (Volume-8): From ENIAC to Modern Cyber Warfare and Data Protection Laws

Sanatan Dharma

Hindu Scriptures and Interpretation (10-Volume): From Vedic Period up to 2026

Sarvarthapedia

Encyclopedia of Strategic Geography (13-Volume): Spatial Logic of Civilization 

Encyclopedia of Medical Science and Research

Encyclopedia of Medical Science and Research (7-Volume): Early Civilizations to Modern Healthcare Systems

Computer Science

Computer Science Encyclopedia (13-Volume): From Its Theoretical Origins Up To 2026

Sarvarthapedia

Anthropology (12-Volume): The Study of Humankind – From Origins to 2026

Sanatan Dharma

Encyclopedia of Sanatan Dharma: Society, Politics, Militia, Rituals, and Philosophy of Vedic Civilization

ISRAEL

Jewish Encyclopedia Library (52-Volume): Jewish Canon, Israel, and Diaspora Life

Encyclopedia of Indian Law

Indian Law Encyclopedia: 101-Volume Statement on Indian Law

  • Anosh Ekka v. CBI (2026 INSC 357): SC Grants Bail to Former Jharkhand Minister in CBI DA Case
  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Ram v. Sukhram: Tribal women’s right in ancestral property [2025] 8 SCR 272
  • Indian Constitution
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders

Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System

West Bengal Govt Budget Statement In Bengali (2026-2027) by Swapan Dasgupta

Encyclopedia of Physical Measurement (3-Volume)

West Bengal Day, 20 June: History of the Formation of West Bengal in 1947

Noble Bengali Families of Kolkata (1760–1860): Rise of Abhijat Bhadralok in Colonial Bengal

Bishop’s College Kolkata: India’s Oldest Anglican Theological Institution (1820–2026)

Sarvarthapedia

  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subjects
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia Meta-Concept
  • Contact Us
  • Privacy Policy
  • FAQs
  • NEET
  • Library Updates
2026 All rights reserved © Advocatetanmoy Law Library by advocatetanmoy.