Skip to content

Advocatetanmoy Law Library

Research & Library Database

Yuddha Gita (1st Vol): The First Question of Human Civilization

Search

  • Genesis-1 (Bereshit-1) — Torah Reading: Bereshit Bara Elohim – The Creation of the World
  • An Introduction to the Rashtriya Swayamsevak Sangh
  • Swami Pranabananda and the Making of Shyama Prasad Mukherjee’s Early Political Outlook
  • 18th Lok Sabha Election 2024 in West Bengal: Party Position and Elected Members
  • Sarvarthapedia: The Knowledge Universe of Civilization
  • Dakshineswar Bhabatarini Kali: Three Kali Idols, Rani Rashmoni, and Temple History
  • Political Evolution of Bengal (1300–2000): A 700-Year History of State, Society and Power
  • Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System
  • West Bengal Govt Budget Statement In Bengali (2026-2027) by Swapan Dasgupta
  • Encyclopedia of Physical Measurement (3-Volume)
Primary Menu
  • News
    • Editorial
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • JudgmentSupreme Court
  • Podcast
  • Legal Brief
    • Legal Eagal
  • HLJLaw Digests
    • Supreme Court Case Notes
    • Daily Digest
  • SarvarthapediaKnowledgebase
    • Sarvarthapedia (Twelve Core Areas): Macro Structure
    • Systemic-and-systematic
    • Volume One
    • Volume Two
    • Volume Three
    • Volume Four
    • Volume Five
    • Volume Six
  • Subjects
    • Knowledge Graph
    • Glossary
  • Indian Law
  • EncyclopediaCollection
Home » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » Vedic Sanskrit Culture » Sisupal Badham by Magh (650 CE)
  • Sanskrit Documents
  • Vedic Sanskrit Culture

Sisupal Badham by Magh (650 CE)

श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि । वसन् ददर्शावतरन्तमम्बराद् हिरण्यगर्भाङ्गभुवं मुनिं हरिः
advtanmoy 25/10/2019 1 minute read

© Advocatetanmoy Law Library

  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on Telegram (Opens in new window) Telegram
Krishna

Sanskrit Text

Chapter-1

Chapter-2

श्रीमन्माघकविप्रणीतं शिशुपालवधम्

शिशुपालवधम् – Sisupal Badham Maha Kavyam by Magh Kavi

First Chanto – प्रथमः सर्गः

श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि ।
वसन् ददर्शावतरन्तमम्बराद् हिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥ १ ॥

गतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वं ज्वलनम हविर्भुजः ।
पतत्यधो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः ॥ २ ॥

चयस्त्विषामित्यवधारितं पुरस्ततः शरीरिति विभाविताकृतिम् ।
विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥ ३ ॥

नवानधोsधो बृहतः पयोधरान्‌ समूढकर्पूरपरागपाण्डुरम्‌ ।
क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शंभुना ॥ ४ ॥

दधानमम्भोरुहकेसरद्युती र्जटाः शरच्चन्द्रमरीचिरोचिष‌म्‌ ।
विपाकपिङ्गास्तुहिनस्थलीरुहो धराधरेन्द्रं व्रततीततीरिव ॥ ५ ॥

पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्जनद्युति ।
सुवर्णसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम्‌ ॥ ६ ॥

विहङ्गराजाङ्गरुहैरिवाततै र्हिरण्यमयोर्वीरुहवल्लितन्तुभिः ।
कृतोपवीतं हिमशुभ्रमुच्चकै र्घनं धनान्ते तडितां गुणैरिव ॥ ७ ॥

निसर्गचित्रोज्ज्वलसूक्ष्मपक्ष्म्णा लसद्बिसच्छेदसिताङ्गसङ्गिना ।
चकासतं चारूचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम्‌ ॥ ८ ॥

अजस्रमास्फालितवल्लकीगुण क्षतोज्ज्वलांगुष्ठनखांशुभिन्नया ।
पुरः प्रवालैरिव पूरितार्द्धया विभान्तमच्छस्फटिकाक्षमालया ॥ ९ ॥

रण्द्भिराघट्टनया नभस्वतः पृथग्विभिनाश्रुतिमण्डलैः स्वरैः ।
स्फुटीभवद्ग्रामविशेषमूर्च्छना मवेक्षमाणं महतीं मूहुर्मूहुः ॥ १० ॥

निवर्त्य सो नुव्रजतः कृतानतीनतीन्द्रियज्ञाननिधिर्नभःसदः ।
समासदत्‌ सादितदैत्यसम्पदः पदं महेन्द्रालयचारु चक्रिणः ॥ ११ ॥

पतन्‌ पतङ्गप्रतिमस्तपोनिधिः पुरो स्य यावन्न भुवि व्यलीयत ।
गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठादुदतिष्ठदच्युतः ॥ १२ ॥

अथ प्रयत्नोन्नमितानमत्फणैर्धृते कथंचित्फणिनां गणैरधः ।
न्यधायिषातामभिदेवकीसुतं सुतेन धातुश्चरणौ भुवस्तले ॥ १३ ॥

तमर्घ्यमर्घ्यादिकयादिपूरुषः सपर्यया साधु स पर्य्यपूपुजत्‌ ।
गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः ॥ १४ ॥

न यावदेतावुदपश्यदुत्थितौ जनस्तुषारासाराञ्जनपर्वताविव ।
स्वहस्तदत्ते मुनिमास्ने मुनि श्चिरंतनस्तावदभिन्यवीविशत्‌ ॥ १५ ॥

महामहानीलशिलारुचः पुरो निषेदिवान्‌ कंसकृषः स विष्टरे ।
श्रितोदयाद्रेरभिसायकमुच्च्कै रचूचुरच्च्न्द्रमसो भिरामताम्‌ ॥ १६ ॥

विधाय तस्यापचितिं प्रसेदुषः प्रकाममप्रीयत यज्वनां प्रियः ।
ग्रहीतुमार्यान्‌ परिचर्यया मूहुर्महानुभावा हि नितान्तमर्थिनः ॥ १७ ॥

अशेषतीर्थीपहृताः कमण्डलोर्निधाय पाणावृषिणाभ्युदीरिताः ।
अधौधविध्वंसविधौ पटीयसीर्नतेन मूर्ध्ना हरिरग्रहीदपः ॥ १८ ॥

स काञ्चने यत्र मुनेरनुज्ञया नवाम्बुदश्यामवपुर्न्यविक्षत ।
जिघाय जम्बूजनितश्रियः श्रियं सुमेरुश्रुङ्गस्य तदा तदासनम्‌ ॥ १९ ॥

स तप्तकार्तस्वरभास्वराम्बरः कठोरताराधिपलाञ्छनच्छविः ।
वोदोद्युते वाडवजातवेदसः शिखाभिराश्लिष्ट इवाम्भसां निधिः ॥ २० ॥

रथाङ्गपाणेः पटलेन रोचिषामृषित्विषः संवलिता विरेजिरे ।
चलत्पलाशान्तरगोचरास्तरोस्तुषारमूर्तेरिव नक्तमंशवः ॥ २१ ॥

प्रफुल्ततापिच्छनिभैरभीशुभिः शुभैश्च सप्तच्छदपांसुपाण्डुभिः ।
परस्परेण च्छुरितामलच्छवी तदैकवर्णाविव तौ बभूवतुः ॥ २२ ॥

युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत ।
तनौ ममुस्तत्र न कैटभद्विषस्तपोधनाभ्याजामसंभवा मुदः ॥ २३ ॥

निधाघधामानमिवाधिदीधितिं मुदा विकासं यतिमभ्युपेयुषी ।
विलोचने बिभ्रदधिश्रितश्रिणी स पूण्डरीकाक्ष इति स्फुटो भवत्‌ ॥ २४ ॥

सितं सितिम्ना सुतरां मुनेर्वपुर्विसारिभिः सौधमिवाथ लम्भयन्‌ ।
द्‍विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ॥ २५ ॥

हरत्ययं सम्प्रति हेतुरेष्यतः शुभस्य पूर्वाचरितः कृतं शुभैः ।
शरीरभाजां भवदीयदर्शनं व्यनक्ति कालतत्रितये पि योग्यताम्‌ ॥ २६ ॥

जगत्यपर्याप्तसहस्रभानुना न यन्नियन्तुं समभावि भानुना ।
प्रसह्य तेजोभिरसंख्यतां गतैरदस्त्वया नुत्तमनुत्तमं तमः ॥ २७ ॥

कृतः प्रजाक्षेमकृता प्रजासृजा सुपात्रनिक्षेपनिराकुलात्मना ।
सदोपयोगे पि गुरुस्त्वमक्षतिर्निधिः श्रुतीनां धनसंपदामिव ॥ २८ ॥

विलोकनेनैव तवामुना मुने कृतः कृताथो स्मि निबृंहितांहसा ।
तथापि शुश्रूषुरहं गरीयसीर्गिरो थवा श्रेयसि केन तृप्यते ॥ २९ ॥

गतस्पृहो प्यागमनप्रयोजनं वदेति वक्तुं व्यवसीयते यया ।
तनोति नस्तामुदितात्मगौरवो गुरुस्तवैवागम एष धृष्टताम्‌ ॥ ३० ॥

इति ब्रुवन्तं तमुवाच स व्रती न वाच्यमित्थं पुरुषोत्तम त्वया ।
त्वमेव साक्षात्करणीय इत्यतः किमस्ति कार्य्यं गुरु योगिनामपि ॥ ३१ ॥

उदीर्णरागप्रतिरोधकं जनैरभीक्ष्णमक्षुण्णतयातिदुर्गमम्‌ ।
उपेयुषो मोक्षपथं मनस्विनस्त्वमग्रभूमिर्निपायसंश्रया ॥ ३२ ॥

उदासितारं निगृहीतमानसैर्गृहीतमध्यात्मदृशा कथंचन ।
बहिर्विकारं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरूषं पुराविदः ॥ ३३ ॥

निवेशयामासिथ हेलयोद्धतं फणाभृतां छाद्नमेकमोकसः ।
जगत्त्रयैकस्थपतिस्त्वमुच्चकैरहीश्वरस्तम्भशिरःसु भूतलम्‌ ॥ ३४ ॥

अनन्यगुर्व्यास्तव केन केवलः पुराणमूर्तेर्महिमावगम्यते ।
मनुष्यजन्मापि सुरासुरान्‌ गुणैर्भवान्‌ भवेच्छेदकरैः करोत्यधः ॥ ३५ ॥

लघूकरिष्यन्नतिभारभङ्गुराममूं किल त्वं त्रिदिवादवातरः ।
उदूडलोकत्रितयेन सांप्रतं गुरूर्धरित्री क्रियतेतरां त्वया ॥ ३६ ॥

निजौजसोज्जासयितुं जगद्द्रुहामुपाजिहीथा न महीतलं यदि ।
समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथमीश मादृशाम्‌ ॥ ३७ ॥

उपप्लुतं पातुमदो मदोद्धतैस्त्वमेव विश्वंभर विश्वमीशिषे ।
ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं नभः ॥ ३८ ॥

करोति कंसादिमहीभृतां वधाज्जनो मृगाणामिव यत्त्व स्तवम्‌ ।
हरेर्हिरण्याक्षपुरःसरासुरद्‍विपद्‍विषः प्रत्युत सा तिरस्क्रिया ॥ ३९ ॥

प्रवृत एव स्वयमुञ्झितश्रमः क्रमेण पेष्टुं भुवनद्विषामसि ।
तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुभं मनः ॥ ४० ॥

तदिन्द्रसंदिष्टमुपेन्द्र यद्वचः क्षणं मया विश्वजनीनमुच्यते ।
समस्तकार्येषु गतेन धुर्यतामहिद्‍विषस्तद्भवता निशम्यताम्‌ ॥ ४१ ॥

अभूदभूमिः प्रतिपक्षजन्मनां भियां तनूजस्तपनद्युतिर्दितेः ।
यमिन्द्रशब्दार्थनिसूदनं हरेर्हिरण्यपूर्वं कशिपुं प्रचक्षते ॥ ४२ ॥

समत्सरेणासुर इत्युपेयुषा चिराय नाम्नः प्रथमाभिधेयताम्‌ ।
भवस्य पूर्वावतारस्तरस्विना मनःसु येन द्युसदां व्यधीयत ॥ ४३ ॥

दिशामधीशांश्चतुरो यतः सुरानपास्य तं रागहृताः सिषेविरे ।
अवापुरारभ्य ततश्चला इति प्रवादमुच्चैरयशस्करं श्रियः ॥ ४४ ॥

पुराणि दुर्गाणि निशातमायुधं बलानि शूराणि घनाश्च कञ्चुकाः ।
स्वरूपशोभैकगुणानि नाकिनां गणैस्तमाशङ्क्य तदादि चक्रिरे ॥ ४५ ॥

स सम्चरिष्णुर्भुवनान्तराणि यां यदृच्छयाशिश्रियदाश्रयः श्रियः ।
अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसं।ध्यं त्रिदशैर्दिशे नमः ॥ ४६ ॥

सटच्छटाभिन्नधनेन बिभ्रता नृसिंह सैंहीमतनुं तनुं त्वया ।
स मुग्धकान्तास्तनसङ्गभङ्गुरैरुरोविदारं प्रतिचस्करे नखैः ॥ ४७ ॥

विनोदनिच्छन्नथ दर्पजन्मनो रणेन कण्ड्वास्त्रिदशैः समं पुनः ।
स रावणो नाम निकामभीषणं बभूव रक्षः क्षतरक्षणं दिवः ॥ ४८ ॥

प्रभुर्बुभूषुर्भवनत्रयस्य यः शिरो तिरागाद्दशमं चिकर्तिषुः ।
अतर्कयद्विघ्नमिवेष्टसाहसः प्रसादमिच्छासदृशं पिनाकिनः ॥ ४९ ॥

समुत्क्षिपन्‌ यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः ।
त्रसत्तुषाराद्रिसुताससंभ्रमस्वयंग्रहाश्लेषमुखेन निष्क्रयाम्‌ ॥ ५० ॥

पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः ।
विगृह्य चक्रे नमुचिद्‍विषा वशी य इत्थनस्वास्थ्यमहर्दिवं दिवः ॥ ५१ ॥

सलीलयातानि न भर्तुरभ्रमोर्न चित्रमुच्चैःश्रवसः पदक्रमम्‌ ।
अनुद्रुतः संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम्‌ ॥ ५२ ॥

अश्क्नुवन्‌ सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम्‌ ।
प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्‌ दिवसानि कौशिकः ॥ ५३ ॥

बृहच्छिलानिष्ठुरकण्ठघट्टनाविकीर्णलोलाग्निकणं सुरद्विषः ।
जगत्प्रभोरप्रसहिष्णु वैष्णवं न चक्रमस्याक्रमताधिकन्धर‌म्‌ ॥ ५४ ॥

विभिन्नशङ्खः कलुषीभवन्मुहुर्मदेन दन्तीव मनुष्यधर्मणः ।
निरस्तगाम्भीर्यमपास्तपुष्पकः प्रकम्पयामास न मानसं न सः ॥ ५५ ॥

रणेषु तस्य प्रहिताः प्रचेतसा सरोषहुङ्कारपराङ्मुखीकृताः ।
प्रहर्तुरेवोरगराजरज्जवो जवेन कण्ठं सभयं प्रप्रेदिर ॥ ५६ ॥

परेतभर्तुर्महिषो मुना धनुर्विधातुमुत्खातविषाणमण्डलः ।
हृते पि भारे महतस्त्रपाभरा दुवाह दुःखेन भृशानतं शिरः ॥ ५७ ॥

स्पृशन्‌ सशङ्कः समये शुचावइ स्थितः कराग्रैरसमग्रपातिभिः ।
अधर्मधर्मोदकबिन्दुमौक्तिकैरलंचकारास्य वधूरहस्करः ॥ ५८ ॥

कलासमग्रेणा गृहानमुञ्चता मनस्विनीरुत्कयितुं पटीयसा ।
विलासिनस्तस्य वितन्वता रतिं न नर्म्साचिव्यमकारि नेन्दुना ॥ ५९ ॥

विदग्धलीलोचितदन्तपत्रिकाचिकीर्षय नूनमेन मानिना ।
न जातु वैनायकमेकमुद्धृतं विषाणमद्‍यापि पुनः प्ररोहति ॥ ६० ॥

निशान्तनारीपरिधानधूननस्फुटागसाप्यूरुषु लोलचक्षुषः ।
प्रियेण तस्यानपराधबाधिताः प्रकम्पनेनानुचकम्पिरे सुराः ॥ ६१ ॥

तिरस्कृतस्तस्य जनाभिभाविना मुहुर्महिम्ना महसां महीयसाम्‌ ।
बभार वाष्पैर्द्विगूणीकृतं तनुस्तनूनपाद्धूमवितानमाधिजैः ॥ ६२ ॥

तदीयमातङ्गघटाविघट्टितैः कटास्थलप्रोषितदानवारिभिः ।
गृहीतदिक्कैरपुनर्निवर्तिभिश्चिरस्य याथार्थ्यमलम्भि दिग्गजैः ॥ ६३ ॥

परस्य मर्माविधमुञ्झतां निजं द्विजिहृतादोषमजिह्मगामिभिः ।
तमिद्धमाराधयितुं सकर्णकैः कुलैर्न भेजे फणिनां भुजङ्गता ॥ ६४ ॥

तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिर समेत्य च ।
प्रसूनक्लृप्तं ददतः सदर्त्तवः पुरे स्य वास्तव्यदुटुम्बितां दधुः ॥ ६५ ॥

अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रवन्दीश्वसितानिलैर्यथा ।
सचन्दनाम्भःकणकोमलैस्तथा वपुर्जलार्द्रापवनैर्न निर्ववौ ॥ ६६ ॥

अमानवं जातमजं कुले मनोः प्रभाविनं भाविनमन्तमात्मनः ।
मुमोच जानन्नपि जानकीं न यः सदाभ्मानैकघना हि मानिनः ॥ ६७ ॥

स्मरस्यदो दाशरथिर्भवन्‌ भवानमुं वनान्ताद्वनितापहारिणम्‌ ।
पयोधिमाविद्धचलज्जलाविलं विलङ्घ्य लङ्कां निकषा हनिष्यति ॥ ६८ ॥

अथोपपत्तिं छलनापरो परामवाप्य शैलूष इवैष भूमिकाम्‌ ।
तिरोहितात्मा शिशुपालसंज्ञया प्रतीयते संप्रति सो प्यसः परैः ॥ ६९ ॥

स बालः आसीद्वपुष चतुर्भुजो मुखेन पूर्णेन्दुरुचिस्त्रिलोचनः ।
युवा कराक्रान्तमहीभृच्चकैरसंशयं संप्रति तेजसा रविः ॥ ७० ॥

स्वयं विधाता सुरदैत्यरक्षसामनुग्रहापग्रहयोर्यदृच्छया ।
दशाननादीनभिराद्धदेवतावितीर्णवीर्यातिशयान्‌ हसत्यसौ ॥ ७१ ॥

बलावलेपादधुनापि पूर्ववत्‌ प्रबाध्यते तेन जगज्जिगीषुणा ।
सतीव योषित्‌ प्रकृतिः सुनिश्चिता पुमांसमन्वेति भवान्तरेष्वपि ॥ ७२ ॥

तदेनमुल्लङ्घितशासनं विधएर्विधेहि कीनाशनिवेशनातिथिम्‌ ।
शुभेतराचारविपक्रिमापदो विपादनीया हि सतामसाधवः ॥ ७३ ॥

हृदयमरिवधोदयादुपोढद्रढिम दधातु पुनः पुरन्दरस्य ।
धनपुलकपुलोमजाकुचाग्रद्रुतपरिरम्भनिपीडनक्षमत्वम्‌ ॥ ७४ ॥

ओमित्युक्तवतो थ शार्ङ्गिण इति व्याहृत्य वाचं नभ-
स्तस्मिन्नुत्पतितं पुरः सुरमुनाविन्दोः श्रियं बिभ्रति ।
शत्रूणामनिशं विनाशपिशुनः क्रुद्धस्य चैद्यं प्रति
व्योम्नीव भृकुटिच्छलेन वदने केतुश्चकारास्पदम्‌ ॥ ७५ ॥

इति माघभट्टविरचिते शिशुपालवधमहाकाव्ये कृष्णनारदसंभाषणं नाम प्रथमः सर्गः॥

Tags: Sanskrit Devanagari

Post navigation

Previous: Current Affairs-2019 October 24TH
Next: Raghu Vamsha Maha Kavya in Sanskrit Language
Pages: 1 2

Related Stories

Sarvarthapedia of Hindu Scriptures and Interpretation (10-Volume): From the Vedic Period up to 2026
  • Vedic Sanskrit Culture

Kautsavya’s Nirukta Nighantu: The Ancient Vedic Concordance of Sanskrit Words

advtanmoy 10/09/2026
Manu Smriti , Manu Samhita, Manusmriti
  • Vedic Sanskrit Culture

Manusmriti Chapter 1 Verses 1–30: Creation, Cosmology and Consciousness

advtanmoy 26/08/2026
Mahabhasya of Patanjali: Bengali Commentary By Tanmoy Bhattacharyya
  • Sanskrit Documents

 Pūrvatra asiddham (Patanjali Mahābhāṣya) Aṣṭādhyāyī-8.2.1

advtanmoy 10/03/2026
Encyclopedia of Rashtriya Swayamsevak Sangh

Encyclopedia of Rashtriya Swayamsevak Sangh (13-Volume): History, Ideology and Organisation

The Encyclopedia of Chaitanya Mahaprabhu

Encyclopedia of Sree Krishna Chaitanya Bharati (12-Volume): The Golden Gouranga of Bengal

Encyclopedia of Macroscopic Human Social System Analysis

Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System

Encyclopedia of European Invasions in India

Encyclopedia of European Invasions in India (11-Volume): Colonialism, Resistance, and Restoration

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Deep Grammar of Civilization (13-Volume): What Are the Irreducible Components of Civilization?

Encyclopedia of Begging

Encyclopedia of Begging (6-Volume): A Global History of Asking, Giving, and Resource Acquisition

Encyclopedia of the Communist Party of China

Encyclopedia of the Communist Party of China (31-Volume): Making of Modern Chinese Civilization

Indo-Pakistan war 1971

Encyclopedia of the Indo–Pakistan War of 1971 (5-Volume): The Creation of Bangladesh

Sarvarthapedia

Encyclopedia of India’s Internal and External Intelligence System: Special Emphasis on the (R&AW)

The Encyclopedia of Political History of Bangladesh

Encyclopedia of Political History of Bangladesh (18-Volume): Identity, Liberation, And Democracy

Encyclopedia of Ecumenical Movements

Encyclopedia of Ecumenical Movements (21-Volume): History, Theology, Institutions and Dialogues

Encyclopedia of Dalit Christians and Their Theology

Encyclopedia of Dalit Christians and Their Theology (5-Volume): Crisis of Caste Culture within Christians in India

Encyclopedia of Indian Military Civilization

Encyclopedia of Indian Military Civilization (55-Volume): War Strategy and Armed Institutions From Antiquity to 2026

Sarvarthapedia

Ontology (25-Volume): Encyclopedia of All Known Conceptions of Reality and Existence

Synthesis-of-Greco-Roman-Ideologies-Shaping-Christianity and Historical Critiques of Christianity and Christian Theology

Encyclopedia of Historical Critiques of Christianity and Christian Theology: A (50-Volume) Research and Documentation

Sarvarthapedia Astronautical Engineering Knowledge Universe (SAEKU): A 250-Volume Master Reference for Space Science and Engineering

Astronautical Engineering Knowledge Universe: A 250-Volume Reference for Space Science and Engineering

Encyclopedia of Indian Economy

Encyclopedia of Indian Economy (56-Volume): A Civilisational Perspective

Encyclopedia of Constitution and Constitutional Law of the United Kingdom

Encyclopedia of Constitution and Constitutional Law of the United Kingdom (10-Volume): History and Development

Encyclopedia of Astrology

Encyclopedia of Astrology (15-Volume): The Human Quest to Predict the Future

Civilizational Encyclopedia of American Governance

Civilizational Encyclopedia of American Governance (100-Volume): Governing the American Government

Human rights conditions in the United States

Human Rights and United States (15-Volume): Violations, Resistance, and Global Impact

Civilizational History of North America

Civilizational History of North America (315-Volume): The Turtle Island and the American Imperium

Sarvarthapedia

Sarvarthapedia of Human Technological Civilization (12-Volume)

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Ultimate-Order Concepts (17-Volume): Fundamental Reason for Existence of Intelligence System

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Meta-Civilizational Architecture: How Complex Systems Survive

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Global Encyclopedia (180-Volume) of Intelligence, Espionage, and Counterintelligence

British Parliament

Encyclopedia of the British Parliamentary System: A 100-Volume Statement on British Politics

Encyclopedia of Global Capital Markets (100 Volumes): A Comprehensive Reference to Banking, Securities, Finance, and Investment Systems

The Global Capital Markets Encyclopedia (100-Volume): Reference on Finance, Banking, and Investment Systems

The Atlas of Self-Sabotage: A 12-Volume Encyclopedia of How Lives Quietly Go Wrong

The Atlas of Self-Sabotage: A 12-Volume Encyclopedia of How Lives Quietly Go Wrong

Encyclopedia of History of Ancient and Modern India

Encyclopedia of Ancient and Modern India: A 120-Volume Civilizational Knowledge System

Contemporary World History

Encyclopedia of Contemporary World History (2001–Present): A 100-Volume Statement on World System

Non-Proliferation of Nuclear Weapons: 12-Volume Reference and Research Architecture

Non-Proliferation of Nuclear Weapons: 12-Volume Reference and Research Architecture

Encyclopedia of American Law

Encyclopedia of American Law: 180‑Volume Statement on American Law

Roman empire and Law

Roman Empire Political History (15-Volume): Rise and Destruction (300 BCE – 1453 CE)

India

Encyclopedia of Contemporary Indian Politics: 111-Volume Statement on Indian Politics (1857–2026)

Encyclopedia of Psychology

Encyclopedia of Psychology (12-Volume): Of Mind, Behavior, and Society

Encyclopedia History of Pakistan (12-Volume): From Hindustan to an Islamic Republic

Encyclopedia History of Pakistan (12-Volume): From Hindustan to an Islamic Republic

Africa and African Union

Encyclopedia of African Studies (10-Volume): History, Culture, and Development

African Studies

African Studies, Synopsis (10-Volume) and How to Study Africa

Encyclopedia of Disease and Disease Detection

Encyclopedia of Disease and Disease Detection (12-Volume): Foundations, Technologies, and Clinical Applications

Sarvarthapedia

Encyclopedia of Religion, Faith, and Beliefs (12-Volume): History, Theology, Politics, and Conflict with Science 

Cyber Security

Cybersecurity Encyclopedia (Volume-8): From ENIAC to Modern Cyber Warfare and Data Protection Laws

Sarvarthapedia of Hindu Scriptures and Interpretation (10-Volume): From the Vedic Period up to 2026

Sarvarthapedia of Hindu Scriptures and Interpretation (10-Volume): From the Vedic Period up to 2026

Sarvarthapedia

Encyclopedia of Strategic Geography (13-Volume): Spatial Logic of Civilization 

Encyclopedia of Medical Science and Research

Encyclopedia of Medical Science and Research (7-Volume): Early Civilizations to Modern Healthcare Systems

Computer Science

Computer Science Encyclopedia (13-Volume): From Its Theoretical Origins Up To 2026

Sarvarthapedia

Anthropology (12-Volume): The Study of Humankind – From Origins to 2026

Sanatan Dharma

Encyclopedia of Sanatan Dharma: Society, Politics, Militia, Rituals, and Philosophy of Vedic Civilization

Encyclopedia of Panini Ashtadhyayi

Encyclopedia of Panini’s Ashtadhyayi: Reading of Panini Grammar (Sutra Path – सूत्र पाठः)

Encyclopedia of Indian Law

Indian Law Encyclopedia: 101-Volume Statement on Indian Law

  • Anosh Ekka v. CBI (2026 INSC 357): SC Grants Bail to Former Jharkhand Minister in CBI DA Case
  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Ram v. Sukhram: Tribal women’s right in ancestral property [2025] 8 SCR 272
  • Indian Constitution
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders

Genesis-1 (Bereshit-1) — Torah Reading: Bereshit Bara Elohim – The Creation of the World

An Introduction to the Rashtriya Swayamsevak Sangh

Swami Pranabananda and the Making of Shyama Prasad Mukherjee’s Early Political Outlook

18th Lok Sabha Election 2024 in West Bengal: Party Position and Elected Members

Sarvarthapedia: The Knowledge Universe of Civilization

Dakshineswar Bhabatarini Kali: Three Kali Idols, Rani Rashmoni, and Temple History

Sarvarthapedia

  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subjects
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia Meta-Concept
  • Contact Us
  • Privacy Policy
  • FAQs
  • NEET
  • Library Updates
2026 All rights reserved © Advocatetanmoy Law Library by advocatetanmoy.