Vagvyavaharadarsah (वाग्व्यवहारादर्शः) of Charudev Shastri: A Mirror to Sanskrit Usage
Home » Law Library Updates » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » Vedic Sanskrit Culture » Vagvyavaharadarsah (वाग्व्यवहारादर्शः) of Charudev Shastri: A Mirror to Sanskrit Usage
वाग्व्यवहारादर्शः (1976)
चारुदेवशास्त्री
ॐ नमः परमात्मने
नमो भगवते पाणिनये । नमः पूर्वेभ्यः पथिकृद्भ्यः । नमः शिष्टेभ्यः ।
अभिधेयाभिधानस्य वाचि वाचि व्यवस्थितः ।
प्रकारो विद्यते लोके कश्चिदेव स्वलक्षणः ॥ १ ॥
शिष्टैः प्रमाणितः सम्यक् छीलितः पूर्वसूरिभिः ।
संस्कृतेऽपि प्रकारोऽस्ति नियतोऽसौ निरूप्यते ॥ २ ॥
प्रस्मृतः प्रायशो लोको व्यवहारं तथाविधम् ।
तस्य प्रबोधनायैषा प्रवृत्ता नो निरूपणा ॥ ३ ॥
शास्त्रेष्वधीतिनो ये च ये च व्याकृतिचुञ्चवः ।
व्यवहारं व्यतीयन्ते प्राधीतैरपि ते समम् ॥ ४ ॥
अत्र सूदाहृतिस्तोमैर्व्यवहारो निरूपितः ।
प्रचरत्सु प्रयोगेषु व्यभिचारश्च दर्शितः ॥ ५ ॥
Read Next
१. वाग्व्यवहारे शिष्टप्रामाण्यम्
इह वयं वाग्व्यवहारमधिकृत्य किञ्चित्प्रस्तुमः ।
न खलु यथा तथा प्रवर्तमानो वाचो व्यवहारो नो विमर्शस्य विषयः । सामान्येन हि तेन विमृष्टेन नार्थः । न चापि यस्याः कस्याश्चिद् वाच एव स विवक्षितः । किन्तर्हि पारम्पर्यागतः शिष्टाभ्यनुज्ञातः संस्कृतव्यपदेशभाजो दैव्या वाचो विशिष्टो व्यवहार एवाभिप्रेतः । यानि यथा वा पदानि शिष्टैरुच्चार्यन्ते तानि तथैव साधूनि भवन्ति । तथा साधुत्वमभ्युपेत्य चेतरैरप्यनुवृत्यानि भवन्तीत्यत्र पृषोदरादीनि यथोपदिष्ष्टम् (६।३।१०९) इति सूत्रकारवचनमेव मानम् ।
यदि शिष्टाः (standard) शब्देषु प्रमाणं किमष्टाध्याय्या क्रियते । शिष्टपरिज्ञानार्थाष्टाध्यायीति भाष्यमपि सूत्राशयं स्फारं स्फारयच्छिष्टानां वाचि प्रामाण्यमङ्गीकुरुते ।
के पुनः शिष्टा इत्याकाङ्क्षायामित्याहुर्भगवन्तो भाष्यकाराः–आर्यावर्ते (Aryavarta) निवासे ये ब्राह्मणाः कुम्भीधान्या१ अलोलुपा अगृह्यमाणकारणाः किञ्चिदन्तरेण कस्याश्चिद्विद्यायाः पारङ्गतास्तत्र भवन्तः शिष्टाः।
Read Next
वयं तु पश्यामः शिष्टाः खलु न केवलं पृष्ठोदरप्रकारेष्वविहितलोपागमविकारेषु शब्देष्वेव प्रमाणमपि त्वन्यत्रापि वाङ्मयेऽविशेषेणेत्यत्र निरुक्ता यदि शिष्टाः शब्देष्वित्यादिर्भाष्यकृदुक्तिरेव ज्ञापिका । शास्त्रे तावत् तिङ्कृत्तद्धितसमासैरभिधानमुक्तमर्थानाम् । तद्यथा श्राद्धे शरदः (४।३।१२)
इति शास्त्रं शरच्छब्दाच्छ्राद्धेऽभिधेये ठञं विधत्ते । तेन शारदिकशब्दश्च निष्पद्यते । श्राद्धशब्देन चोभयमुच्यते श्रद्धावत्कर्म श्रद्धावान्पुरुषश्च । इह तु श्रद्धावान् पुरुषो न गृह्यते । तत्कस्मात् । अनभिधानात् । किमिदमनभिधानं नाम । शिष्टैरप्रयुक्तत्वम् । न हि शिष्टाः श्राद्धे पुरुषे विषये शारदिकशब्दं प्रयुञ्जते । महाभागास्ते सामान्येन विहितमपि ठञं तत्रार्थे नेच्छन्ति । तेन दीव्यति खनति जयति जितम् (४।४।२) ।
अत्र जितमित्यर्थे सामान्येन ठग्विहितः, देवदत्तेन जितमित्यत्र न भवति, अनभिधानात्। एवमङ्गुल्या खनतीत्यत्रापि न, अनभिधानादेव । तस्येदम् (४।३।१२०) इति सामान्येनाणादयो घादयश्च विधीयन्ते । अण्युपगोरिदमौपगवम् । परं देवदत्तस्यानन्तरमित्यत्र न भवत्यण्, अनभिधानात् । समानकर्तृकेषु तुमुन् (३।३।१५८) इत्यनेनेच्छार्थेषु धातुषूपपदेषु धातुमात्रात्तुमुन्विहितः । इह कस्मान्न भवति इच्छन्करोति । अनभिधानादेव । सततशब्दाद् भावकर्मणोः ष्यञ् भवति, सन्ततात्तु नेति, कस्मात् । अनभिधानादेव । इत्यलं निदर्शनाय शिष्टप्रयोगाः प्रधानमुपसर्जनं व्याकरणमित्यस्यार्थस्य । अयमत्र सारः ।
Read Next
शिष्टैः प्रयुक्तपूर्वा एव शब्दाः शास्त्रेण संस्क्रियन्तेऽनुशिष्यन्तेऽन्वाख्यायन्ते वा । तस्माद् व्याकरणमन्वाख्यानस्मृतिरिति संविज्ञायते । तत्रापि नेदं युज्यते वक्तुं तावन्त एव शब्दाः सन्ति यावन्तश्शास्त्रेण परिगृहीता इति । अनन्वाख्याता अपि भूरय इति तेषां साधुत्वेऽपि शिष्टा एव मानम् ।
शिष्टा एव सर्वत्र वाग्व्यवहारे प्रमाणमिति यदुक्तमधस्तात्तत् सम्प्रति प्रसिषाधयिषामः । इदं तावद् व्यवस्थितं यां वाग्वर्तनीमनुवर्तन्ते शिष्टास्तामेवानुविवृत्सति लोकः । का नाम निरवद्या वाक्यप्रणीतिरिति शिष्टपद्धतेरेव शक्यमञ्जसा विज्ञातुम् । तत्र हि त एव प्रमाणं नेतरे । तन्मुखप्रेक्षी लोको यथाजातीयकं वाग्विन्यासं ते प्रयुञ्जते तथाजातीयकमेव स प्रमाणीकुरुते । यया विधया ते तं तमर्थं सन्दृभन्ति तामेवानुकरोति लोकः ।
व्याकरणे च पदान्येव संस्क्रियन्ते न वाक्यानि, तेन न तदायत्तो वाक्यसाधुत्वप्रत्ययः । वाक्यं च न केवलं साध्विष्यते साधीयश्च, साधिष्ठमपि चेष्यते । इदं च तारतम्यं शिष्टप्रयोगतोऽवसातव्यं भवति नान्यतः । अनलङ्कर्मीणं तत्र व्याकरणम् (Grammar) । नैतदेव । एवं नाम व्यवस्थितो वाग्व्यवहारो यत्तत्रादृतो जनः शास्त्रमपि नाद्रियते । तदेतद्भगवन्तो भाष्यकारा इत्थङ्कारं निदर्शयन्ति–देवश्चेद् वृष्टो निष्पन्नाः शालयः । तत्र भवितव्यं सम्पत्स्यन्ते शालय इति । सिद्धमेतत् । कथम् । भविष्यत्प्रतिषेधात् । यल्लोको भविष्यद्वाचिनः शब्दस्य प्रयोगं न मृष्यति । कश्चिदाह देवश्चेद्वृष्टः सम्पत्स्यन्ते
१. स्वकुटुम्बपोषणे षडहमात्रपर्याप्तधान्याः ।