Prasthanbheda of Madhusudan Saraswati (प्रस्थानभेद:)
Home » Law Library Updates » Law Library » Sanskrit Documents » Prasthanbheda of Madhusudan Saraswati (प्रस्थानभेद:)
मधुसूदनसरस्वतीववरचितः प्रस्थानभेदः
Madhusudana Sarasvati (c.1540–1640) was a Bengali scholar, born in Faridpur (Gopal Gunj Dist) of present-day Bangladesh, and studied Navya naya under Harirama Tarkavagisha and Mathuranath Tarkavagisha, and later he took sannyasa from Sankara Sampradaya and lived in Varanasi.
Indx
शास्त्रतात्पर्यं
वेदवेदाङ्खोपाङ्खस्वरूपम्
नासिक प्रस्थान वर्णनम्
वैदलक्षणं ब्राह्मण भेद
विधिस्वरूपम्
अर्थेवादस्वरूपमू
वैदान्तवाक्यविचारः
वेदानां पुरुषार्थचतुष्टयहेतु्वमू
उपवेद स्वरूपव्णेनम्
सांख्ययोगयोः स्वरूपम्
प्रस्थानानां समन्वयः
Read Next
अथ सर्वेषां शास्त्राणां भगवत्येव तात्पर्यं साक्षात्परम्परया वेति समासेन तेषां प्रस्थानभेदोऽत्रोद्दिश्यते ।
तथा हि-
ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेद इति वेदाश्चत्वारः । शिक्षा व्याकरणं निरुक्तं छन्दो ज्यौतिषं कल्प इति वेदाङ्गानि षट् । पुराणन्यायमीमांसा धर्मशास्त्राणि चेति चत्वार्युपाङ्गानि ।
अत्रोपपुराणानामपि पुराणेऽन्तर्भाव:, वैशेषिकशास्त्रस्य न्याये, वेदान्तशास्त्रस्य मीमांसायाम्, महाभारतरामायणयोः सांख्यपातञ्जलपाशुपतवैष्णवादीनां च धर्मशास्त्रे; एवं मिलित्वा चतुर्दश विद्याः ।
Read Next
तथा चोक्तं याज्ञवल्क्येन— ‘पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश’ इति । एता एव चतुर्भिरुपवेदैः सहिता अष्टादश विद्या भवन्ति ।
आयुर्वेदो धनुर्वेदो गान्धर्ववेदोऽर्थशास्त्रं चेति चत्वार उपवेदाः । सर्वेषां चास्तिकानामेतावन्त्येव शास्त्रप्रस्थानानि; अन्येषामप्येकदेशिनामेतेष्वेवान्तर्भावात् ।
ननु– नास्तिकानामपि प्रस्थानान्तराणि सन्ति; तान्येतेष्वनन्तर्भावात्पृथग्गणयितुमुचितानि ।
Read Next
तथा हि–शून्यवादेनैकं प्रस्थानं माध्यमिकानाम् । क्षणिकविज्ञानमात्रवादेनान्यद्योगाचाराणाम् । ज्ञानाकारानुमेयक्षणिकबाह्यार्थवादेनापरं सौत्रान्तिकानाम् । प्रत्यक्षसलक्षणक्षणिकबाह्यार्थवादेनापरं वैभाषिकाणाम् । एवं सौगतानां प्रस्थानचतुष्टयम् । तथा देहात्मवादेनैकं प्रस्थानं चार्वाकाणाम् । एवं देहातिरिक्तदेहपरिमाणात्मवादेन द्वितीयं प्रस्थानं दिगम्बराणाम् । एवं मिलित्वा नास्तिकानां षट् प्रस्थानानि ।
तानि कस्मान्नोच्यन्ते ?- सत्यम्; वेदबाह्यत्वात्तेषां म्लेच्छादिप्रस्थानवत्परम्परयापि पुरुषार्थानुपयोगित्वादुपेक्षणीयत्वमेव । इह च साक्षाद्वा परम्परया वा पुमर्थोपयोगिनां वेदोपकरणानामेव प्रस्थानानां भेदो दर्शितः । ततो न न्यूनत्वशङ्कावकाशः ॥
अथ संक्षेपेणैषां प्रस्थानानां स्वरूपभेदे हेतुः प्रयोजनभेद उच्यते बालानां व्युत्पत्तये–
तत्र धर्मब्रह्मप्रतिपादकमपौरुषेयं प्रमाणवाक्यं वेदः (Vedas) । स च मन्त्रब्राह्मणात्मकः । तत्र मन्त्रा अनुष्ठानकारकभूतद्रव्यदेवताप्रकाशकाः । तेऽपि त्रिविधा ऋग्यजुःसामभेदात् । तत्र पादबद्धगायत्र्यादिच्छन्दोविशिष्टा ॠचः ‘अग्निमीळे पुरोहितम्’ इत्याद्याः । ता एव गीतिविशिष्टाः सामानि । तदुभयविलक्षणानि यजूंषि । ‘अग्नीदग्नीन्विहर’ इत्यादिसंबोधनरूपा निगदमन्त्रा अपि यजुरन्तर्भूता एव । तदेवं निरूपिता मन्त्राः ॥
ब्राह्मणमपि (Brahman) त्रिविधं विधिरूपमर्थवादरूपं तदुभयविलक्षणरूपं चेति । तत्र शब्दभावना विधिरिति भाट्टाः । नियोगो विधिरिति प्राभाकराः । इष्टसाधनता विधिरिति तार्किकादयः सर्वे । विधिरपि चतुर्विध उत्पत्त्यधिकारविनियोगप्रयोगभेदात् । तत्र कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः ‘आग्नेयोऽष्टाकपालो भवति’ इत्यादिः । सेतिकर्तव्यताकस्य करणस्य यागादेः फलसंबन्धबोधको विधिरधिकारविधिः ‘दर्श पूर्णमासाभ्यां स्वर्गकामो यजेत’ इत्यादिः । अङ्गसंबन्धबोधको विधिर्विनियोगविधिः ‘व्रीहिभिर्यजेत’ ‘समिधो यजति’ इत्यादिः । साङ्गप्रधानकर्मप्रयोगैक्यबोधकः पूर्वोक्तविधित्रयमेलनरूपः प्रयोगविधिः । स च श्रौत इत्येके, कल्प्य इत्यपरे ।
कर्मस्वरूपं च द्विविधं गुणकर्मार्थकर्म चेति । तत्र ऋतुकर्मकारकाण्याश्रित्य विहितं गुणकर्म । तदपि चतुर्विधम् उत्पत्त्याप्तिविकृतिसंस्कृतिभेदात् । तत्र ‘वसन्ते ब्राह्मणोऽग्नीनादधीत’ ‘यूपं तक्षति’ इत्यादावाधानतक्षणादिना संस्कारविशेषविशिष्टाग्नियूपादेरुत्पत्तिः । ‘स्वाध्यायोऽध्येतव्यः’ ‘गां पयो दोग्धि’ इत्यादावध्ययनदोहनादिना विद्यमानस्यैव स्वाध्यायपयःप्रभृतेः प्राप्तिः ।’सोममभिषुणोति’ ‘व्रीहीनवहन्ति’ ‘आज्यं विलापयति’ इत्यादावभिषवावघातविलापनैः सोमादीनां विकारः । ‘व्रीहीन्प्रोक्षति’ ‘पत्न्यवेक्षते’ इत्यादौ प्रोक्षणावेक्षणादिभिर्व्रीह्यादिद्रव्याणां संस्कारः । एतच्चतुष्टयं चाङ्गमेव । तथा क्रतुकारकाण्याश्रित्य विहितमर्थकर्म द्विविधमङ्गं प्रधानं चेति । अन्यार्थमङ्गम् । अनन्यार्थं प्रधानम् ।
अङ्गमपि द्विविधं संनिपत्योपकारकमारा दुपकारकं चेति । तत्र प्रधानस्वरूपनिर्वाहकं प्रथमम् । फलोपकारि द्वितीयम् । एवं संपूर्णाङ्गसंयुक्तो विधिः प्रकृतिः । विकलाङ्गसंयुक्तो विधिर्विकृतिः । तदुभयविलक्षणो विधिर्दर्विहोमः । एवमन्यदप्यूह्यम् । तदेवं निरूपितो विधिभागः । प्राशस्त्यनिन्दान्यतरलक्षणया विधिशेषभूतं वाक्यमर्थवादः । स च त्रिविधः गुणवादोऽनुवादो भूतार्थवादश्चेति। तत्र प्रमाणान्तरविरुद्धार्थबोधको गुणवादः ‘आदित्यो यूपः’ इत्यादि: । प्रमाणान्तरप्राप्तार्थबोधकोऽनुवादः ‘अग्निर्हिमस्य भेषजम्’ इत्यादिः । प्रमाणान्तरविरोधतत्प्राप्तिरहितार्थबोधको भूतार्थवादः ‘इन्द्रो वृत्राय वज्रमुदयच्छत्’ इत्यादिः । तदुक्तम्– ‘विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानार्थवादस्त्रिधा मतः’ इति ।
तत्र त्रिविधानामप्यर्थवादानां विधिस्तुतिपरत्वे समानेऽपि भूतार्थवादानां स्वार्थेऽपि प्रामाण्यं देवताधिकरणन्यायात् । अबाधिताज्ञातज्ञापकत्वं हि प्रामाण्यम् ।
तच्च बाधितविषयत्वाज्ज्ञातज्ञापकत्वाच्च न गुणवादानुवादयोः । भूतार्थवादस्य तु स्वार्थे तात्पर्यरहितस्याप्यौत्सर्गिकं प्रामाण्यं न वि हन्यते । तदेवं निरूपितोऽर्थवादभागः । विध्यर्थवादोभयविलक्षणं तु वेदान्तवाक्यम् । तच्चाज्ञातज्ञापकत्वेऽप्यनुष्ठानाप्रतिपादकत्वान्न विधिः; स्वत: पुरुषार्थपरमानन्दज्ञानात्मकब्रह्मणि स्वार्थ उपक्रमोपसंहारादिषड्विधतात्पर्यलिङ्गवत्तया स्वतः प्रमाणभूतम्, सर्वानपि विधीनन्तःकरणशुद्धिद्वारा स्वशेषतामापादयत्, अन्यशेषत्वाभावाच्च नार्थवादः । तस्मादुभयविलक्षणमेव वेदवाक्यम् ।
तच्च क्वचिदज्ञातज्ञापकत्वमात्रेण विधिरिति व्यपदिश्यते, विधिपदरहितप्रमाणवाक्यत्वेन क्वचिद्भूतार्थवाद इति व्यवह्रियत इति न दोषः । तदेवं निरूपितं त्रिविधं ब्राह्मणम् । एवं च कर्मकाण्डब्रह्मकाण्डात्मको वेदो धर्मार्थकाममोक्षहेतुः ॥
स च प्रयोगत्रयेण यज्ञनिर्वाहार्थमृग्यजुःसामभेदेन भिन्नः । तत्र हौत्रप्रयोग ऋग्वेदेन, आध्वर्यवप्रयोगो यजुर्वेदेन, औद्गात्रप्रयोगः सामवेदेन । ब्राह्मयाजमानप्रयोगौ त्वत्रैवान्तर्भूतौ । अथर्ववेदस्तु यज्ञानुपयुक्तः शान्तिपौष्टिकाभिचारादिकर्मप्रतिपादकत्वेनात्यन्तविलक्षण एव । एवं प्रवचनभेदात्प्रतिवेदं भिन्ना भूयस्यः शाखाः । एव च कर्मकाण्डे व्या पारभेदेऽपि सर्वासां वेदशाखानामेकरूपत्वमेव ब्रह्मकाण्डे । इति चतुर्णां वेदानां प्रयोजनभेदेन भेदः उक्तः ॥
अथाङ्गानामुच्यते– तत्र शिक्षाया उदात्तानुदात्तस्वरितह्रस्वदीर्घप्लुतादिविशिष्टस्वरव्यञ्जनात्मकवर्णोच्चारणविशेषज्ञानं प्रयोजनम्, तदभावे मन्त्राणामनर्थकत्वात् । तथा चोक्तम्– ‘मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्’ इति । तत्र सर्ववेदसाधारणी शिक्षा ‘अथ शिक्षां प्रवक्ष्यामि–‘ इत्यादिपञ्चखण्डात्मिका पाणिनिना प्रकाशिता; प्रतिवेदशाखं च भिन्नरूपा प्रातिशाख्यसंज्ञिता अन्यैरेव मुनिभिः प्रदर्शिता ॥
एवं वैदिकपदसाधुत्वज्ञानेनोहादिकं व्याकरणस्य प्रयोजनम् । तच्च ‘वृद्धिरादैच्’ इत्याद्यध्यायाष्टकात्मकं महेश्वरप्रसादेन भगवता पाणिनिनैव प्रकाशितम् । तत्र कात्यायनेन मुनिना पाणिनीयसूत्रेषु वार्तिकं विरचितम् । तद्वार्त्तिकस्योपरि च भगवता मुनिना पतञ्जलिना महाभाष्यमारचितम् । तदेतत्त्रिमुनि व्याकरणं वेदाङगं माहेश्वरमित्याख्यायते । कौमारादिव्याकरणानि तु न वेदाङ्गानि, किं तु लौकिक- प्रयोगमात्रज्ञानार्थानीत्यवगन्तव्यम् ।।
एवं शिक्षाव्याकरणाभ्यां वर्णोच्चारणपदसाधुत्वज्ञाने, वैदिकमन्त्रपदानामर्थज्ञानाकाङ्क्ष्यायां तदर्थं भगवता यास्केन ‘समाम्नायः समाम्नात:’ ‘स व्याख्यातव्यः’ इत्यादित्रयोदशाध्याय्यात्मकं निरुक्तमारचितम् । तत्र च नामाख्यातनिपातोपसर्गभेदेन चतुर्विधं पदजातं निरूप्य वैदिकमन्त्रपदानामर्थः प्रकाशितः । मन्त्राणां चानुष्ठेयार्थप्रकाशनद्वारेणैव करणत्वात्पदार्थज्ञानाधीनत्वाच्च वाक्यार्थज्ञानस्य मन्त्रस्थपदार्थज्ञानाय निरुक्तमवश्यमपेक्षितम्, अन्यथानुष्ठानासंभवात् । ‘सृण्येव जर्भरी तुर्फरी तू’ इत्यादिदुरूहाणां प्रकारान्तरेणार्थज्ञानस्यासंभावनीयत्वाच्च । एवं निघण्टवोऽपि वैदिकद्रव्यदेवतात्मकपदार्थपर्यायशब्दात्मका निरुक्तान्तर्भूता एव । तत्रापि निघण्टुसंज्ञकः पञ्चाध्याय्यात्मको ग्रन्थो भगवता यास्केनैव कृतः ॥
एवमृङ्मन्त्राणां पादबद्धच्छन्दोविशेषविशिष्टत्वात्तदज्ञाने च निन्दाश्रवणाच्छन्दोविशेषनिमित्तानुष्ठानविशेषविधानाच्च च्छन्दोज्ञानकाङ्क्षायाम्, तत्प्रकाशनाय ‘धीः श्री: स्त्रीम्’ इत्याद्यष्टाध्याय्यात्मिका च्छन्दोविवृतिर्भगवता पिङ्गलेन विरचिता । ‘तत्राप्यलौकिकम्’ इत्यादिनाध्यायत्रयेण गायत्त्र्युष्णिगनुष्टुब्बृहती पङ्क्तिस्त्रिष्टुब्जगतीति सप्त च्छन्दांसि सावान्तरभेदानि निरूपितानि । ‘अथ लौकिकम्’ इत्यारभ्याध्यायपञ्चकेन पुराणेतिहासादावुपयोगीनि लौकिकानि च्छन्दांसि प्रसङ्गान्निरूपितानि व्याकरणे लौकिकपदनिरूपणवत् ॥
एवं वैदिककर्माङ्गदर्शादिकालज्ञानाय ज्यौतिषं भगवता आदित्येन गर्गादिभिश्च प्रणीतं बहुविधमेव ।
शाखान्तरीयगुणोपसंहारेण वैदिकानुष्ठानक्रमविशेषज्ञानाय कल्पसूत्राणि । तानि च प्रयोगत्रयभेदात्त्रिविधानि– तत्र हौत्रप्रयोगप्रतिपादकान्याश्वलायनशाङ्खायनादिप्रणीतानि; आध्वर्यवप्रयोगप्रतिपादकानि बोधायनापस्तम्बकात्यायनादिप्रणीतानि; औद्गात्रप्रयोगप्रतिपादकानि लाट्यायनद्राह्यायणादिप्रणीतानि ॥ एवं निरूपितः षण्णामङ्गानां प्रयोजनभेदः ।
चतुर्णामुपाङ्गानामधुनोच्यते–
तत्र सर्गप्रतिसर्गवंशमन्वन्तरवंशानुचरितप्रतिपादकानि भगवता बादरायणेन कृतानि पुराणानि । तानि च ब्राह्मं पाद्मं वैष्णवं शैवं भागवतं नारदीयं मार्कण्डेयमाग्नेयं भविष्यं ब्रह्मवैवर्तं लैङ्गं वाराहं स्कान्दं वामनं कौर्मं मात्स्यं गारुडं ब्रह्माण्डं चेत्यष्टादश । ‘आद्यं सनत्कुमारेण प्रोक्तं वेदविदां वराः । द्वितीयं नारसिंहाख्यं तृतीयं नान्दमेव च ॥ चतुर्थं शिवधर्माख्यं दौर्वासं पञ्चमं विदुः । षष्ठं तु नारदीयाख्यं कापिलं सप्तमं विदुः ॥ अष्टमं मानवं प्रोक्तं ततश्चोशनसेरितम् । ततो ब्रह्माण्डसंज्ञं तु वारुणाख्यं ततः परम् ॥ तत: कालीपुराणाख्यं वासिष्ठं मुनिपुंगवाः । ततो वासिष्ठलैङगाख्यं प्रोक्तं माहेश्वरं परम् ॥ ततः साम्बपुराणाख्यं ततः सौरं महाद्भुतम् । पाराशरं ततः प्रोक्तं मारीचाख्यं ततः परम् ॥ भार्गवाख्यं ततः प्रोक्तं सर्वधर्मार्थसाधकम्’ एवमुपपुराणान्यनेकप्रकाराणि द्रष्टव्यानि ॥
न्याय आन्वीक्षिकी पञ्चाध्यायी गौतमेन प्रणीता ।
प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानाख्यानां षोडशपदार्थानामुद्देशलक्षणपरीक्षाभिस्तत्त्वज्ञानं तस्याः प्रयोजनम् । एवं दशाध्याय्यात्मकं वैशेषिकं शास्त्रं कणादेन प्रणीतम् । द्रव्यगुणकर्मसामान्यविशेषसमवायानां षण्णां पदार्थानामभावसप्तमानां साधर्म्यवैधर्म्याभ्यां व्युत्पादनं तस्य प्रयोजनम् । एतदपि न्यायपदेनोक्तम् ॥
एवं मीमांसापि द्विविधा कर्ममीमांसा शारीरकमीमांसा चेति । तत्र द्वादशाध्यायी कर्ममीमांसा ‘अथातो धर्मजिज्ञासा’ इत्यादि:
‘अन्वाहार्ये च दर्शनात्’ इत्यन्ता भगवता जैमिनिना प्रणीता । तत्र धर्मप्रमाणम्, धर्मभेदाभेदौ, शेषशेषिभावः, क्रत्वर्थपुरुषार्थभेदेन प्रयुक्तिविशेष:, श्रुत्यर्थपठनादिभिः क्रमभेदः, अधिकारविशेष:, सामान्यातिदेशः, विशेषातिदेश:, ऊह:, बाध:, तन्त्रम्,प्रसङगश्चेति क्रमेण द्वादशानामध्यायानामर्थः । तथा संकर्षणकाण्डमप्यध्यायचतुष्टयात्मकं जैमिनिप्रणीतम् । तच्च देवताकाण्डसंज्ञया प्रसिद्धमप्युपासनाख्यकर्मप्रतिपादकत्वात्कर्ममीमांसान्तर्गतमेव ।
तथा चतुरध्यायी शारीरकमीमांसा ‘अथातो ब्रह्मजिज्ञासा’ इत्यादिः ‘अनावृत्तिः शब्दात्’ इत्यन्ता जीवब्रह्मैकत्वसाक्षात्कारहेतुः श्रवणाख्यविचारप्रतिपादकान्न्यायायानुपदर्शयन्ती भगवता बादरायणेन कृता । तत्र सर्वेषामपि वेदान्तवाक्यानां साक्षात्परम्परया वा प्रत्यगभिन्नाद्वितीये ब्रह्मणि तात्पर्यमिति समन्वयः प्रथमाध्यायेन प्रदर्शितः ।
तत्र च प्रथमे पादे स्पष्टब्रह्मलिङ्गयुक्तानि वाक्यानि विचारितानि । द्वितीये तु अस्पष्टब्रह्मलिङ्गानि उपास्यब्रह्मविषयाणि । तृतीये पादे अस्पष्टब्रह्मलिङ्गानि प्रायशो ज्ञेयब्रह्मविषयाणि । एवं पादत्रयेण वाक्यविचारः समापित: । चतुर्थपादे तु प्रधानविषयत्वेन संदिह्यमानान्यव्यक्ताजादिपदानि चिन्तितानि ।
एवं वेदान्तानामद्वितीये ब्रह्मणि सिद्धे समन्वये, तत्र संभावितं स्मृतितर्कादिविरोधमाशङ्क्य तत्परिहारः क्रियत इत्यविरोधो द्वितीयाध्यायेन दर्शितः । तत्राद्यपादे सांख्ययोगकाणादादिस्मृतिभिः सांख्यादिप्रयुक्तैस्तर्कैश्च विरोधो वेदान्तसमन्वयस्य परिहृतः । द्वितीये पादे सांख्यादिमतानां दुष्टत्वं प्रतिपादितम्, स्वपक्षस्थापनपरपक्षनिराकरणरूपपर्वद्वया त्मकत्वाद्विचारस्य । तृतीये पादे महाभूतसृष्ट्यादिश्रुतीनां परस्परविरोधः पूर्वभागेण परिहृतः; उत्तरभागेण तु जीवविषयाणाम् । चतुर्थपादे इन्द्रियविषयश्रुतीनां विरोधः परिहृतः । तृतीयेऽध्याये साधननिरूपणम् । तत्र प्रथमे पादे जीवस्य परलोकगमनागमननिरूपणेन वैराग्यं निरूपितम् । द्वितीये पादे पूर्वभागेण त्वंपदार्थः शोधितः, उत्तरभागेण तत्पदार्थः । तृतीये पादे निर्गुणे ब्रह्मणि नानाशाखापठितपुनरुक्तपदोपसंहारः कृत:; प्रसङ्गाच्च सगुणनिर्गुणविद्यासु शाखान्तरीयगुणोपसंहारानुपसंहारौ निरूपितौ । चतुर्थे पादे निर्गुणब्रह्मविद्याया बहिरङ्गसाधनान्याश्रमयज्ञादीन्यन्तरङ्गसाधनानि शमदमादीनि श्रवणनिदिध्यासनादीनि च निरूपितानि ।
चतुर्थेऽध्याये सगुणनिर्गुणविद्ययोः फलविशेषनिर्णयः कृतः । तत्र प्रथमे पादे श्रवणाद्यावृत्त्या निर्गुणं ब्रह्म साक्षात्कृत्य जीवतः पापपुण्यालेपलक्षणा जीवन्मुक्तिरभिहिता । द्वितीये पादे म्रियमाणस्योत्क्रान्तिप्रकारश्चिन्तितः । तृतीये पादे सगुणब्रह्मविदो मृतस्योत्तरमार्गोऽभिहितः । चतुर्थे पादे पूर्वभागेण निर्गुणब्रह्मविदो विदेहकैवल्यप्राप्तिरुक्ता; उत्तरभागेण सगुणब्रह्मविदो ब्रह्मलोकस्थितिरुक्तेति । इदमेव सर्वशास्त्राणां मूर्धन्यम् । शास्त्रान्तरं सर्वमस्यैव शेषभूतमितीदमेव मुमुक्षुभिरादरणीयं श्रीशंकरभगवत्पादोक्तप्रकारेणेति रहस्यम् ॥
एवं धर्मशास्त्राणि
मनुयाज्ञवल्क्यविष्णुयमाङ्गिरोवसिष्ठदक्षसंवर्तशातातपपराशरगौतमशङ्खलिखितहारीतापस्तम्बोशनोव्यासकात्यायनबृहस्पतिदेवलनारदपैठीनसिप्रभृतिभिः कृतानि वर्णाश्रमधर्मविशेषाणां विभागेन प्रतिपादकानि । एवं व्यासकृतं महाभारतं वाल्मीकिकृतं रामायणं च धर्मशास्त्र एवान्तर्भूतं स्वयमितिहासत्वेन प्रसिद्धम् । सांख्यादीनां धर्मशास्त्रान्तर्भावेऽपीह स्वशब्देनैव निर्देशात्पृथगेव संगतिर्वाच्या ॥
अथ वेदचतुष्टयस्य क्रमेण चत्वार उपवेदाः । तत्रायुर्वेदस्याष्टौ स्थानानि भवन्ति सूत्रं शारीरमैन्द्रियं चिकित्सा निदानं विमानं विकल्पः सिद्धिश्चेति । ब्रह्मप्रजापत्यश्विधन्वन्तरीन्द्रभरद्वाजात्रेयाग्निवेश्यादिभिरुपदिष्टश्चरकेण संक्षिप्तः । तत्रैव सुश्रुतेन पञ्चस्थानात्मकं प्रस्थानान्तरं कृतम् । एवं वाग्भटादिनापि बहुधेति न शास्त्रभेदः ।
कामशास्त्रमप्यायुर्वेदान्तर्गतमेव, तत्रैव सुश्रुतेन वाजीकरणाख्यकामशास्त्राभिधानात् । तत्र वात्स्यायनेन पञ्चाध्याय्यात्मकं कामशास्त्रं प्रणीतम् । तस्य च विषयवैराग्यमेव प्रयोजनम्, शास्त्रोद्दीपि तमार्गेणापि विषयभोगे दुःखमात्रपर्यवसानात् । चिकित्साशास्त्रस्य रोगतत्साधनरोगनिवृत्तितत्साधनज्ञानं प्रयोजनम् ॥
एवं धनुर्वेदः पादचतुष्टयात्मको विश्वामित्रप्रणीतः । तत्र प्रथमो दीक्षापादः, द्वितीयः संग्रहपादः, तृतीयः सिद्धिपादः, चतुर्थः प्रयोगपादः । तत्र प्रथमे पादे धनुर्लक्षणमधिकारिनिरूपणं च कृतम् । अत्र धनुःशब्दश्चापे रूढोऽपि धनुर्विधायुधे प्रवर्तते । तच्चतुर्विधं मुक्तममुक्तं मुक्तामुक्तं यन्त्रमुक्तं चेति । मुक्तं चक्रादि । अमुक्तं खड्गादि । मुक्तामुक्तं शल्यावान्तरभेदादि । यन्त्रमुक्तं शरादि ।
तत्र मुक्तमस्त्रमुच्यते । अमुक्तं शस्त्रमित्युच्यते । तदपि ब्राह्मवैष्णवपाशुपतप्राजापत्याग्नेयादिभेदादनेकविधम् । एवं साधिदैवतेषु समन्त्रकेषु चतुर्विधायुधेषु येषामाधिकारः क्षत्रियकुमाराणां तदनुयायिनां च, ते सर्वे चतुर्विधाः पदातिरथगजतुरगारूढा इति । दीक्षाभिषेकशकुनमङ्गलकरणादिकं च सर्वमपि प्रथमे पादे निरूपितम् । सर्वेषां शस्त्रविशेषाणामाचार्यस्य च लक्षणपूर्वकं संग्रहणप्रकारो दर्शितो द्वितीयपादे । गुरुसंप्रदायसिद्धानां शस्त्रविशेषाणां पुनः पुनरभ्यासो मन्त्रदेवतासिद्धिकरणमपि निरूपितं तृतीयपादे । एवं देवतार्चनाभ्यासादिभिः सिद्धानामस्त्रविशेषाणां प्रयोगश्चतुर्थपादे निरूपितः ।
क्षत्रियाणां स्वधर्मयुद्धाचरणं दुष्टस्य दण्डश्चोरादिभ्यः प्रजापालनं च धनुर्वेदस्य प्रयोजनम् । एवं च ब्रह्मप्रजापत्यादिक्रमेण विश्वामित्रप्रणीतं धनुर्वेदशास्त्रम् ॥
एवं गान्धर्ववेदशास्त्रं भगवता भरतेन प्रणीतम् । गीतवाद्यनृत्तभेदेन बहुविधोऽर्थः । देवताराधननिर्विकल्पकसमाध्यादिसिद्धिश्च गान्धर्ववेदस्य प्रयोजनम् ॥
एवमर्थशास्त्रं च बहुविधं नीतिशास्त्रमश्वशास्त्रं शिल्पशास्त्रं सूपकारशास्त्रं चतुःषष्टिकलाशास्त्रं चेति । नानामुनिभिः प्रणीतं तत्सर्वम् । अस्य च सर्वस्य लौकिकवत्प्रयोजनभेदो द्रष्टव्यः ॥ एवमष्टादश विद्यास्त्रयीशब्देनोक्ताः; अन्यथा न्यूनताप्रसङ्गात् ॥
तथा सांख्यशास्त्रं भगवता कपिलेन प्रणीतम् ‘अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः’ इत्यादि षडध्याय्यात्मकम् । तत्र प्रथमेऽध्याये विषया निरूपिताः । द्वितीयेऽध्याये प्रधानकार्याणि । तृतीयेऽध्याये विषयेभ्यो वैराग्यम् । चतुर्थेऽध्याये विरक्तानां पिङ्गलाकुरवादीनामाख्यायिकाः । पञ्चमेऽध्याये परपक्षनिर्णयः । षष्ठे सर्वार्थसंक्षेपः । प्रकृतिपुरुषविवेकज्ञानं सांख्यशास्त्रस्य प्रयोजनम् ॥
तथा योगशास्त्रं भगवता पतञ्जलिना प्रणीतम् ‘अथ योगानुशासनम्’ इत्यादि पादचतुष्टयात्मकम् । तत्र प्रथमपादे चित्तवृत्तिनिरोधात्मकः समाधिरभ्यासवैराग्यरूपं च तत्साधनं निरूपितम् । द्वितीये पादे विक्षिप्तचित्तस्यापि समाधिसिद्ध्यर्थं यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि निरूपितानि । तृतीये पादे योगिविभूतयः; चतुर्थपादे कैवल्यमिति । तस्य च विजातीयप्रत्ययनिरोधद्वारेण निदिध्यासनसिद्धिः प्रयोजनम् ॥ तथा पशुपतिमतं पाशुपतं शास्त्रं पशुपतिना पशुपाशविमोक्षणाय ‘अथातः पाशुपतं योगविधिं व्याख्यास्यामः’ इत्यादि पञ्चाध्यायं विरचितम् । तत्राध्यायपञ्चकेनापि कार्यरूपो जीवः पशुः, कारणं पतिरीश्वरः, योगः पशुपतौ चित्तसमाधानम्, विधिर्भस्मना त्रिषवणस्नानादिर्निरूपितः; दुःखान्तसंज्ञो मोक्षश्च प्रयोजनम् । एत एव कार्यकारणयोगविधिदुःखान्ता इत्याख्यायन्ते ॥
एवं वैष्णवं नारदादिभिः कृतं पञ्चरात्रम् । तत्र वासुदेवसंकर्षणप्रद्युम्नानिरुद्धाश्चत्वारः पदार्था निरूपिताः । भगवान्वासुदेवः सर्वकारणं परमेश्वरः । तस्मादुत्पद्यते संकर्षणाख्यो जीवः । तस्मान्मनः प्रद्युम्नः । तस्मादनिरुद्धोऽहंकारः । सर्वे चैते भगवतो वासुदेवस्यैवांशभूतास्तदभिन्ना एवेति भगवतो वासुदेवस्य मनोवाक्कायवृत्तिभिराराधनं कृत्वा कृतकृत्यो भवतीत्यादि च निरूपितम् ॥
तदेवं दर्शितः प्रस्थानभेदः ।
सर्वेषां च संक्षेपेण त्रिविध एव प्रस्थानभेदः– तत्रारम्भवाद एकः; परिणामवादो द्वितीयः; विवर्तवादस्तृतीय: ।
पार्थिवाप्यतैजसवायवी याश्चतुर्विधाः परमाणवो द्व्यणुकादिक्रमेण ब्रह्माण्डपर्यन्तं जगदारभन्ते, असदेव कार्यं कारकव्यापारादुत्पद्यते इति प्रथमस्तार्किकाणां मीमांसकानां च । सत्त्वरजस्तमोगुणात्मकं प्रधानमेव महदहंकारादिक्रमेण जगदाकारेण परिणमते, पूर्वमपि सूक्ष्मरूपेण सदेव कार्यं कारणव्यापारेणाभिव्यज्यते इति द्वितीयः पक्षः सांख्ययोगपातञ्जलपाशुपतानाम् । ब्रह्मणः परिणामो जगदिति वैष्णवानाम् । स्वप्रकाशपरमानन्दाद्वितीयं ब्रह्म स्वमायावशान्मिथ्यैव जगदाकारेण कल्पत इति तृतीयः पक्षो ब्रह्मवादिनाम् । सर्वेषां प्रस्थानकर्तॄणां मुनीनां विवर्तवादपर्यवसानेनाद्वितीये परमेश्वरे प्रतिपाद्ये तात्पर्यम् ।
न हि ते मुनयो भ्रान्ताः, सर्वज्ञत्वात्तेषाम् । किं तु बहिर्विषयप्रवणानामापाततः पुरुषार्थे प्रवेशो न संभवतीति नास्तिक्यवारणाय तैः प्रकारभेदाः प्रदर्शिताः । तत्र तेषां तात्पर्यमबुद्ध्वा वेदविरुद्धेऽप्यर्थे तात्पर्यमुत्प्रेक्षमाणास्तन्मतमेवोपादेयत्वेन गृह्णन्तो जना नानापथजुषो भवन्तीति सर्वमनवद्यम् ॥
इति श्रीमधुसूदनसरस्वतीविरचितः
प्रस्थानभेदः संपूर्णः ।