To be corrected
मधुसूदनसरस्वतीववरचितः प्रस्थानभेदः
Madhusūdana Sarasvatī (c.1540–1640)
शास्रतात्प्येव्णनम्
वेदवेदाङ्खोपाङ्खस्वरूपम्
नासिक प्रस्थान वर्णनम्
वैदलक्षणं ब्राह्मण भेद
विधिस्वरूपम्
अर्थेवादस्वरूपमू
वैदान्तवाक्यविचारः
वेदानां पुरुषार्थचतुष्टयहेतु्वमू
उपवेद स्वरूपव्णेनम्
सांख्ययोगयोः स्वरूपम्
प्रस्थानानां समन्वयः
॥ प्रस्थानभेदः ॥
अथ सर्वेषां शाद्लाणां भगवयेव तात्पर्य ॑साक्षास्रम्प- रया वेति समासेन तेषां प्रस्थानभेदोऽत्रोदिदयते । तथा
दि–
ऋम्बेदो यजुर्वेदः सामवेदोऽधववेद इति वेदाश्चत्वारः । शिक्षा कत्पो व्याकरणं निरुक्तं छम्दो ज्योतिषमिति वेदाङ्धानि षट् ।
। पुराणन्यायमीमांसा धममक्लास्ञाणि चेति चत्वायुपाज्गा- नि । अत्रोपपुराणानामपि पुराणेऽन्तभौवः, वैश्ेषिकशासख्स्य न्याये, वेदान्तद्ा्लस्य मीमांसायाम् , महाभारतरामायणयोः सांख्यपातलरूपाञ्युपतवैष्णवादीनां च धर्मञ्चाखे ; एवं भिकि- त्वा चतुर्दश विद्याः । तथा चोक्तं याज्ञवर्क्येन– ° पुराण-
न्यायमीमांसाधर्मशाख्चाङ्गमिभिताः । वेदाः स्थानानि विद्यानां र प्र्थानभेदः ।
धर्मस्य च चतुदश इति । एता एव चतुर्भिरुपवेदैः सहिता अष्टादश विद्या भवन्ति । आयुर्वेदो धसुर्वेदो गान्धवेवेदो ऽथ ङाख्रं चेति चत्वार उपवेदाः । सर्वेषां चास्तिकानामेतावन्त्येव
दाखप्रस्थानानि ; अन्येषामप्येकदेश्िनामेतेष्वेवान्तभांवात् ।
ननु– नास्तिकानामपि प्रस्थानान्तराणि सन्ति; तान्येते-
घवनन्तभोवात्पथग्गणयिवुसुचितानि । तथा हि– शून्यवादे-
नैकं प्रस्थानं माध्यमिकानाम् । क्षणिकबिज्ञानमात्रवदेनान्य-
द्योगाचाराणाम्। ज्ञानाकारायुमेयक्षणिकबाद्याथेव देनापरं सौ-
त्रान्तिकानाम् । प्रयक्षसरश्चणक्षणिकबाह्यार्थवादेनापरं बेभा-
षिकाणाम् । एवे सौगतानां प्रस्थानचवुष्टयम् । तथा देहा-
त्मवदिनेकं प्रस्थानं चावकाणाम् । एवं देहातिरिक्तदेहप-
रिमाणात्मवादेन द्वितीयं प्रस्थानं दिगम्बराणाम् । एवं मि-
छित्वा नास्तिकानां षट् प्रस्थानानि । तानि कस्मान्नोच्य-
न्ते सयम् ; वेद्बाह्यत्वात्तेषां स्टेच्छादिप्रस्थानवत्पर-
स्परयापि पुरुषाथोलुपयोगित्वादुपेश्च णीयत्वमेव । इह च सा-
क्षाद्वा परम्परया वा पुमर्थोपयोगिनां वेदोपकरणानामेव
भस्थानानां भेदो दुर्हितः । ततो न न्यूनत्वश्ङ्कावकाश्चः ॥।
अथ सक्षेपेणेषां प्रस्थानानां स्वरूपभेदे देतु: प्रयोजन भेद् उच्यते बालानां व्युत्पत्तये
तत्र धमेत्रह्यप्रतिपाद्कमपौरुषेयं प्रमाणवाक्यं वेदः । ख
च मन्तन्रद्णात्मकः । तत्र मन्त्रा अनुष्ठानकारकभूतद्रव्य-
देवताभ्रकारकाः । तेऽपि त्रिविधा ऋग्यज्चुःसामभेदात् ।
तत्र॒ पादचद्धगायल्यादिच्छन्दोविशिण्टा ऋचः ” अच्चिमीष्छे
पुरोहितम् इव्या्याः । ता एव गीतिविशिष्टाः सामानि ।
तदुभयविक्षणानि यजूंषि । ° अम्रीदभ्नीन्विहर ` ईइयादि-
संबोधनरूपा निगदमन्त्रा अपि यजुरन्तभूता एव । तदेवं
निरूपिता मन्ता: |
ब्राह्मणमपि त्रिविधं विधिरूपमथेवादरूपं तदु भयविलशक्ष-
णरूपं चेति । तत्र शब्दभावना विधिरिति भाषाः । नियोमो
विधिरिति भ्राभाकराः । इष्टसाधनता विधिरिति तार्फिका-
दयः सर्वे। विधिरपि चतुर्विघ उत्पत््यधिकारविनियोगप्रयोग-
भेद्ात्। तत्र कमेस्वरूपमात्रबोधको विधिरूखत्तिविधिः ‹ जआ-
म्रेयोऽष्टाकपाखो भवति ` इलादिः । सेतिकतंञ्यताकस्य कर-
णस्य यागादेः फटसंबन्धवोधको विधिरधिकारविधिः दशै-
पुणेमासाभ्यां स्वमैकामो यजेत इयादिः । अङ्कसंबन्धवबो –
धको बविधिर्बिनियोगविधिः ‘ ब्रीहिभियैजेतः ‹ खभिधो यज-
ति” इयादिः । साङ्गप्रधानकर्मप्रयोतैक्यबोधकः पूर्वोक्तवि-
धित्रयमेखनरूपः प्रयोगविधिः । स च श्रौत इयेके, करप्य
इत्यपरे । कमेस्वषूपं च द्विविधं गुणकमोथेंकमे चेति ।
तत्र कतुकमेकारकाण्याभ्चिटय विदितं गुणकम । तदपि चतु.
विधम् उत्पन्त्याप्निविकृतिसंस्कतिभेदात् । तन्न ‹ वसन्ते
ब्राह्मणोऽग्रीनादघीत ‘ ‹ युपं तक्षति” इलयादावाधानतश्चणा-
दिनि संस्कारविरोषविशिष्टाम्नियुपादेरुत्पत्तिः । ‹ स्वाध्यायो-
ऽध्येतव्य: ` ‹ गां पयो दोग्धि ` इ्यादावध्ययनदोहनादिना
विद्यमानस्यैव स्वाध्यायपयःप्रथ्तेः प्रापि: । ‹ सोममभिषुणोा-
ति ` ‹ व्रीहीनवहन्ति ‘ ‘ आज्यं विखापयति ‘ इदयादावभिषवा-
वघातविरापनैः सोमादीनां विकारः । ” ब्रीहीन्प्रोक्षति ` “प-
टन्यवेक्षते ` इत्यादौ प्रोक्षणावेश्वणादिभिर्ब्रीह्यादिद्रव्याणां सखं-
स्कारः । एतच्चतुष्टयं चाङ्कमेव । तथा क्रतुकारकाण्याश्रिय
विहितमथेकमं द्विविधमङ्कः प्रधानं चेति । अन्याथेमङ्गम् । अ-
नन्यार्थं प्रधानम् । अङ्गमपि दिबिधं संनिपलयोपकारकमारा दुपकारकं चेति । तत्र भ्रधानस्वरूपनिवहकं प्रथमम् । फ-
रोपकारि द्वितीयम् । एवं संपृणौङ्गसंयुक्तो विधिः भ्रकृतिः ।
विकलाङ्गसंयुक्तो विधिर्विकृतिः । तदुभयविखुक्षणो विधिदं-
विहोमः । एवमन्यदप्यूह्यम् । तदेवं निरूपितो विधिभागः ।
पराश्चस्त्यनिन्दान्यतर लक्षणया विधिशेषमूतं वाक्यमथेवा-
द्ः | स॒ च त्रिविधः गुणवादोऽुवादो भूतार्थवाद
श्चेति । तत ॒प्रमाणान्तरविरुद्धाथेनोधको गुणवादः !आ-
दियो यूषः ` इल्यादिः । भ्रमाणान्तरप्राप्राथैवोधकोऽनुबादः
८ अभ्मिहिमस्य भेषजम् इत्यादिः । प्रमाणान्तरविरोधतत्परा-
धिरदिताथेबोधको मूताथवाद्ः ‹ इन्द्रो बृन्नाय वजयुदय-
च्छत्” इलयादिः । तदुक्तम्– ‹ विरोधे गुणवादः स्यादनु-
वादोऽवधारिते । भूताथवादस्तद्धानाद्र्थवाद्स्िघा मतः
इति । तत्र लिविधानामप्यथेवादानां विधिस्तुतिपरत्वे सखमा-
नेऽपि भूताथवाद्ानां स्वार्थेऽपि प्रामाण्यं देवताधिकरणन्या-
यात् । अबाधिताज्ञातज्ञापकसत्वं हि प्रामाण्यम् । तच्च वाधि-
तविषयत्वाञज्ञातज्ञापकलाच्च न गुणवादानुवादयोः । भूताथे-
वादस्य तु सारथे तात्पयरहितस्याप्यौत्खशिकं प्रामाण्यं न विहन्यते । तदेवं निरूपितो ऽथैवादभागः । विभ्यथेवादोभयवि-
क्षणं तु वेदान्तवाक्यम् । तश्चाज्ञातज्ञापकतवेऽप्यनुष्ठानाघ्र-
तिषादकत्वान्न विधिः ; स्वतः पुरुषा्थपरमानन्दज्ञानात्मक-
बरह्मणि स्वाथे उपक्रमोपसंहारादि षड्विधतात्पयेलिङ्खवत्तया
सखतः प्रमाणभूतम्, सर्वानपि विधीनन्तःकरणशुद्धिद्धारा
स्वदोषतामापादयत्, अन्यशेषत्वाभावाञ्च नाथवादः |
तस्मादुमयविलक्षणमेव वेदवाक्यम् । तश्च कचिदज्ञातन्ञापकत्वमात्रेण विधिरिति व्यपदिरयते, विधिपद्रहितप्रमाणवा- कयत्वेन कचिद्भूताथवाद् इति व्यवद्धियत इति न दोषः । तदेवं निरूपितं त्रिविधं जाद्यणम् । एवं च कमेकाण्डनक्ष- काण्डत्मको वेदो घमोर्थकाममोश्चहेतुः ॥
स च प्रयोगत्रयेण यज्ञनिवौदा्थ॑सग्यज्जुःसाममेदेन भिन्नः ।
त्र होत्रप्रयोग ऋग्वेदेन, आध्वर्यवप्रयोगो यज्ुवेदेन, ओ-
दरात्तप्रयोगः सामवेदेन । बाद्ययाजमानप्रयोगौ त्वत्रैवान्त-
भूतो । अथर्ववेदस्तु यज्ञानुपयुक्तः शआान्तिपौ्िकाभिचारा-
दिकमेभ्रतिपादकतवेनालयन्तविङक्षण एव । एवं प्रवचनभेदा-
स्मतिवेदं भिन्ना भूयस्यः शाखाः । एवं च कर्मकाण्डे व्यापारभेदेऽपि सवासां बेद्राखानामेकरूपत्वमेव ब्रह्मकाण्डे |
इति चतुर्णा वेदानां प्रयोजनभेदेन भेद उक्तः ॥
अथाङ्गानामुच्यते- तच्र श्षिक्षाया उद्त्तानुदात्तस्वरितङ्स्रदीचषप्ठुतादिविशिष्टस्वरठ्यजनात्मकवर्णोज्वारणविशेष-
ज्ञाने प्रयोजनम्, तदभावे मन्त्राणामनथेकत्वात् । तथा चोक्तम् मन्त्रो हीनः स्वरतो वणेतो चा मिथ्यप्रयु-
क्तो न तमथंमाह् । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्र
शत्रुः स्वरतोऽपराधात् ‘ इति । तत्र सवेबेदसाधारणी शिक्षा
‘ अथ रिक्षा प्रवक््याभमि– इदयादिपच्चखण्डास्मिका पाणि-
निना प्रकाशिता; प्रतिवेदशाखं च भिन्नरूपा प्रातिश्चाख्य संज्ञिता अन्यैरेव मुनिभिः प्रदृरिता ।
एवं वेदिकपदसाधुत्वज्ञानेनोद्ादिकं व्याकरणस्य प्रयोजनम् । तच्च “वृद्धिरादैच् इयाद्यध्यायाष्टकात्मकं महे्र-
प्रसदिन भगवता पाणिनिनैव प्रकाषितम् । तत्र कायायनेन मुनिना पाणिनीयसूत्रेषु वार्तिकं विरचितम् । तद्धान्िकस्या –
परि च भगवता मुनिना पतखजखिना महाभाष्यमारचितम् । तदेतस्िमुनि व्याकरणं वेदाङ्गं माहेधरमिलयाख्यायते ।
कौमारादिव्याकरणानि तु न वेदाङ्गानि, किं तु लकिकप्रयोगमाच्रज्ञानाथीनीलयवगन्तव्यम् ॥
एवं शिक्षाव्याकरणाम्यां वर्णोच्वारणपदसाधुत्वज्ञाने, वै-
दिकमन्त्रपदानामर्थज्ञानाकाह्रायां तदथं भगवत्ता यास्केन
‘समाञ्नायः समाभ्नातः’ ° स व्याख्यातव्यः › इलयादित्रयोद्श्चा-
भ्याय्यात्मकं निरुक्तमार चितम् । तत्र च नामाख्यातनिपातो-
पसर्ममेदेन चतुर्विधं पदजातं निरूप्य वेदि कमन्लपदानामर्थैः
प्रकारितः । मन्त्राणां चानुष्ठेया्थत्रकारनद्वारेणेव करणत्वा-
त्पदाथेज्ञानाधीनत्वाच्च वाक्याथज्ञानस्य मन्त्रखपद्ाथज्ञा-
नाय निरुक्तमवदयमपेक्नितम् , अन्यथानुष्ठानासं मवत् ।
° छण्येव जमरी तुफरी तू” इयादिदुरूहाणां प्रकारान्तरे
णाथज्ञानस्यासंभावनीयत्वाच्च । एवं निघण्टवबोऽपि वेदिक-
द्रव्यदेवतात्मकपदाथेपयायजञब्दात्मका निरुक्तान्तभूता एव ।
तत्रापि निघण्टुसंज्ञकः पच्चाध्याय्यात्मको म्रन्थो भगवता
यास्केनैव कृतः ॥
एव मृ्न्त्राणां पाद बद्धच्छन्दो विरोषविरिष्टत्वात्तदज्ञाने च॒ निन्द्श्रवणाच्छन्दोविशेषनिमित्ताचुष्ठानविशेषविधानाच्च च्छन्दोज्ञानाकाह्रूायाम् , तस्रकाङनाय वीः श्रीः सखीम् ‘
इलयादयष्टाध्यास्यास्मिका च्छन्दोविव्ृतिभभगवता पिङ्गलेन वि-
रचिता । ° तत्राप्यदौकिकम् ` इत्यादिनाध्यायत्रयेण गाय-
त्ञ्युष्णिगनुष््छृहती पङ्किखिष्टुन्जगतीति सप्र च्छन्दांसि
सावान्तरभेदानि निरूपितानि । ° अथ ङोकिकम् ‘ इल्यार-
भ्याध्यायपच्चकेन पुराणेतिहासाद्ावुपयोगीनि छोकिकानि
च्छन्दांसि प्रसङ्धान्निरूपितानि व्याकरणे ङौकिकपदनि-
रूपणवत् ॥।
एवं तरैदिककमाङ्गदशांदिकाटज्ञानाय उ्योतिषं भगवता आदित्येन गगादिभिश्च प्रणीतं बहुवि धमेव ॥
शाखान्तरीयगुणोपसंहारेण वैदिकानुष्ठानक्रमविरोषन्ञा-
नाय कल्पसूत्राणि । तानि च प्रयोगत्रयमेदात्रिविधानि–
तत्र॒ हौत्रप्रयोगप्रतिपाद्कान्याशरलायनश्चाङ्कायनादिश्रणीता-
नि; आध्वयैवप्रयोगप्रतिपादकानि बोधायनापस्तम्बकाया-
यनादिप्रणीतानि; ओद्रा्नप्रयोगघ्रतिपादकानि खास्यायन-
द्राह्यायणादिध्रणीतानि ॥
एवं निशूपितः षण्णामङ्गानां प्रयोजनमेद्ः । चतु्णासु-
पाङ्गानामधुनोच्यते-
तत्र॒ सखर्गप्रतिखगवश्चमन्वन्तरवंश्चाद्चरितप्रतिपादकानि
भगवता बादरायणेन कृतानि पुराणानि । तानि च जाद्यं
पाद्यं वैष्णवं हवं भागवतं नारदीयं माकण्डेयमाम्नेयं
भविष्यं ब्रह्मेव छेङ्ग वाराहं स्कान्दं वामनं कौर्म
मात्स्यं गारुड ब्रह्माण्डं चेत्यष्टादश्च ! ‹ आदं सनत्कु-
मारेण प्रोक्त वेदविदां वराः । द्वितीयं नारसिहाख्यं तृतीयं
नान्दमेव च ॥ चतुथ शिवधर्माख्यं दौर्वासं पञ्चमं बिदुः ।
घष्ठ तु नारदीयाख्यं कापिर सप्रमं विदुः ॥ अष्टम मानवं
प्रोक्तं ततश्चोशनसेरितम् । ततो ब्रह्माण्डसंज्ञं तु वारुणाख्यं
ततः परम् ॥ ततः कालीपुराणाख्यं वासिष्ठं मुनिपुंगवाः ।
ततो वासिष्ठलेज्गाख्ये प्रोक्तं मादे्धरं परम् ॥ ततः साम्बपु-
राणाख्यं ततः सौरं महाद्भुतम् । पाराशरं ततः प्रोक्तं मा-
रीचाख्यं ततः परम् ॥ भागैवाख्यं ततः प्रोक्त सरवेधर्माथ-
साधकम् ‘ एवमुपपुराणान्यनेकप्रकाराणि द्रष्टव्यानि ॥
न्याय आन्वीक्षिकी पञ्चाध्यायी गौतमेन प्रणीता |
प्रमाणप्रमेयसंश्चयप्रयोजनदष्टान्तिद्धान्तावयवतकं निर्णयवा- दृजल्पवितण्डाहेस्वामासच्छलजातिनिग्रहस्थानाख्यानां षोड-
रापदाथानामदेशरक्चणपरीक्षाभिस्तन््वज्ञानं तस्याः प्रयोज.
नम् । एव दशाध्याय्यात्मकं वैशेषिकं शाखं कणादेन प्रणी-
तम् । द्रव्यगुणकर्मसामान्यविशेषसमवायानां षण्णां पदार्था-
नामभावसप्रमानां साधम्पैतरैषम्यौमभ्यां व्युत्पादनं तस्य भयोजनम् । एतदपि न्यायपदेनोक्तम् ॥
एवं मीमांखरापि द्विविधा कमेमीमांसा शारीरकमीमांसा
चेति । तत्र दादृशाध्यायी कर्ममीमांसा ‘ अथातो धर्मनि-
ज्ञाखा ` इयादिः ‘ अन्वाहार्ये च दशनात् ` इयन्ता भगवता
जेमिनिना प्रणीता । तत्र धर्मप्रमाणम् , धर्ममेदाभेदौ, शेष-
रोधिभावः, कत्वर्थपुरुषार्थेभेदेन प्रयुक्तिविशेषः, श्रव्य्थपठना-
दिभिः कमभेद्ः, अधिकारविशेषः, सामान्यातिदेशः, विरे –
षातिदेशः, ऊहः, बाधः, तन्त्रम्, प्रसङ्गश्चेति क्रमेण द्वाद्-
खछानामध्यायानामर्थः । तथा संकषेणकाण्डमप्यभ्यायचतुष्ट –
यात्मकं जेभिनिप्रणीतम् । तश्च देवताकाण्डसंज्ञया प्रसिद्ध
मप्युपाखनाख्यकरभप्रतिपादकत्वात्कमेमीमांसान्तगेतमेव । तथा
चतुरध्यायी दारीरकमीमांसा (अथातो जद्यजिज्ञासा `
इलयादिः “अनावृत्तिः शब्दात्” इत्यन्ता जी वब्रह्मैकत्वसा-
क्षात्कारहेतुः श्रवणाख्यविचारप्रतिपाद्काशयायानुपदश्चेयन्ती
भगवता बादरायणेन कता । तच्र सर्वेषामपि वेदान्तवाक्यानां
साक्षात्परम्परया वा प्रत्यगभिन्नाद्धितीये ब्रह्मणि तास्पये-
भिति समन्वयः प्रथमाध्यायेन प्रदरितः । तत्र च
प्रथमे पादे स्पष्टब्रह्मङिङ्गयुक्तानि वाक्यानि विचारितानि ।
द्वितीये तु अस्पष्ट्रह्मटिङ्गानि उपास्यब्रह्यतिषयाणि । वृतीये
पादे अस्पष्ठव्रह्मलिङ्गानि श्रायश्चो ज्ञेयन्रह्यविषयाणि । एवं
पादत्रयेण वाक्यविचारः समापितः । चतुधेपादे तु श्र
धानविषयत्वेन संदिष्यमानान्यन्यक्ताजादिपदानि चिन्तिता.
नि । एवं वेदान्तानामद्वितीये ब्रह्मणि सिद्ध समन्वये, तत्र
संभावितं स्परृतितकादिबिरोधमाशङ्कय तत्परिहारः क्रियत
इलयविरोधो द्वितीयाध्ययेन दर्चितः । तत्राद्यपादे सांख्ययो-
गकाणादादिस्परतिभिः सांख्यादिप्रयुक्तैस्तकेश्च विरोधो वेदा-
न्तसमन्वयस्य परिहृतः । द्वितीये पादे सांख्यादिमतानां दुष्ट-
त्वं प्रतिपादितम् ; स्वपक्षस्थापनपरपक्षनिराकरणरूपपवद्रया-
स्मकत्वाद्विचारस्य । वतीये पादे महाभूतसश्टयादिश्च॒तीनां षर-
स्परविरोधः पूर्वभागेण परिहृतः; उत्तरभागेण तु जीव विष-
याणाम् । चतुर्थपादे इन्द्रियविषयश्रतीनां विरोधः परिहत: ।
तृतीयेऽध्याये साघननिरूपणम् । तत्न प्रथमे पाद् जीवस्य पर-
लोकगमनागमननिरूपणेन वैराग्यं निरूपितम् । द्वितीये पादे
पूवेभागेण स्वपदार्थे; शोधितः, उत्तरभागेण तत्पदार्थः । तृती-
ये पादे निगुणे ब्रह्मणि नानाश्चाखापरितपुनरुक्तपदोपसंहारः
करतः ; प्रसङ्गाच्च सगुणनिगुणविद्यासु शाखान्तसीयगुणोप-
संहारानुपसंहारौ निरूपितौ । चतुर्थे पादे नियणव्रह्मविद्याया
बहिरङ्गसाधनान्याश्रमयज्ञादीन्यन्तरङ्गसाधनानि शमदमादी-
नि श्रवणनिदिध्यासनादीनि च निरूपितानि । चतुर्थेऽध्याये
सखगुणनि्गुणविद्ययोः फरविरोषनिणैयः कृतः । तच प्रथ-
मे पादे श्रवणाद्यावृत्या निगणं ब्रह्म साक्षात्कृ जीवतः
पापपुण्याङेपरक्षणा जीबन्मुक्तिरभिष्टिता । द्वितीये षदे
म्रियमाणस्योत्कान्तिप्रकारश्चिन्तितः । तृतीये पादे सगुण-
ब्रह्मविदो मृतस्योत्तरमार्गोऽभिदहित्तः । चतुर्थे पदे पृवेभा-
गेण निगणन्रद्यनिदो बिदेहकेवल्यप्राप्निसक्ता ; उत्तरभागेण
सगुणब्रह्मविदो ब्रह्मरोकस्थितिरुक्तेति । इदमेव स्वेशाख्राणां
मूधैन्यम् । शाख्ञान्तरं सखवेमस्यैव शेषमूतमितीद्मेव सुमु्च-
भिराद्रणीयं श्रीश्चंकरभगवत्पादोक्तम्रकारेणेति रहखम् ॥
एवं धमेश्चाख्नाणि मनुयाज्ञवस्क्यविष्णुयमाङ्गिरोवसिष्ठ-
दक्षसंबतंरातातपपराशरगौतमशद्कङिखितदहारी तापस्तम्बो शच-
म
नाव्यासकालयायननब्रहस्पतिदेवखनार्दपरीनसिप्र्तिभिः क-
तनि वणांश्रमधमविश्ेषाणां विमगेन प्रतिपादकानि । एवं
व्यासचछतं महाभारतं वास्मीकिकरतं रामायणं च धमशा
एवान्तभूतं स्रयभितिद्दासत्वेन प्रसिद्धम् । सांख्यादीनां धमं –
शाखान्तभावेऽपीह स्वशब्देनैव निर्देदात्प्रथगेव संगति-
वौच्या ॥
अथ वेद्चतुष्टयस्य कमेण चत्वार उपवेदाः । तत्रायु-
दस्यौ खानानि भवन्ति सूत्रं शारीरमैन्द्रियं चिकित्सा
निदान विमानं विकस्पः सिद्धिश्ति । जद्यप्रजापलयश्िघन्व-
न्तरीन्द्रभरद्वाजात्रेयाभिवेह्यादिभिसपदिष्ट्चरकेण संक्षिप्तः ।
त्रैव सुश्रुतेन पथ्चस्थानात्मकं श्रस्थानान्तरं कृतम् । एवं
वारभटादिनापि बहुधेति न ज्ाखमेद्ः । कामश्ाख्रमप्या-
युर्वदान्तगैतमेव, तत्नैव सुश्चतेन वाजीकरणाख्यकामश्ाञ्चा-
भिधानात् । तत्र वात्खछायनेन पच्वाध्याय्यात्मकं कामश्ास्ं
प्रणीतम् । तस्य च विषयवैराग्यमेव प्रयोजनम् , शास्नोदीपि-
तमार्गेणापि विषयभोगे दुःःखमाब्रपर्थैवसरानात् । चिकित्ला-
शाखस्य रोगत्टसाधनरोगनिवृत्तितत्साघनज्ञानं प्रयोजनम् ॥
एवं धनुर्वेदः पादचतुष्टयात्मको विग्धामित्रप्रणीतः । तच्र
प्रथमो दीक्षापादः; द्वितीयः संग्रहपादः, तृतीयः सिद्धिपादः;
चतुथः प्रयोगपादः । तच प्रथमे पादे धनुङुक्षणमधिकारि-
चिरूपणं च कृतम् । अत्र धतुःशचब्द्श्चपे रूढोऽपि धनुषि.
घायुधे प्रवतेते । तच्तुर्विधं मुक्तममुक्तं मुक्तामुक्तं यन्त्रमुक्तं
चेति । मुक्तं चक्रादि । अमुक्तं खङ्धादि । मुक्तामुक्तं शल्या-
वान्तरभेदादि । यन्तरसुक्तं रादि । तत्र॒ सुक्तमस्रमुच्यते ।
मुक्तं दाखमित्युच्यते । तदपि त्राद्यवैष्णवपाुपतप्राजाप-
द्याद्चेयादिमेदादनेकतिधम् । एवं साधिदैवतेषु समन्त्रकेषु
चचतुनिधायुषेषु येषामधिकारः श्चत्रियङ्कुमाराणां तदनुयाये-
नां च, ते सर्वे चतुर्विधाः पदात्तिरथगजवुरगारूढा इति ।
दीक्षाभिषेकशङ्कनमङ्गखकरणादिकं च सर्वमपि प्रथमे पादे
निरूपितम् । सर्वेषां शखविदोषाणामाचार्य॑स्य च खक्षण-
पूवेकं संम्रहणभ्रकारो दृश्चितो द्वितीयपादे । गुरुसंप्रदायाधि-
द्धानां शरख्विशचेषाणां पुनः पुनरभ्यासो मन्त्रदेबतालिद्धिक-
रणमपिं निरूपितं दतीयपादे । एवं देवताचैनाभ्यासा-
दिभिः सिद्धानामसख्विश्चेषाणां प्रयोगश्च तुथपादे निरूपित्तः ।
क्षत्रियाणां स्वधमंयुद्धाचरणं दुष्टस्य दण्डब्योरादिभ्यः प्रजा-
पारनं च धुेद्स्य प्रयोजनम् । एवं च जद्यप्रजापल्यादि-
कमेण विश्यामिन्नग्रणीतं धनुर्वेदशाख्लम् ॥
एवं गान्धववेदसाख्रं भगवता भरतेन प्रणीतम् । गीत-
वाद्यचत्तभेदेन बहुविधोऽथेः । देवताराघननिर्विकस्पकसमा-
ध्यादिसिद्धिश्च गान्धवेवेदस्य प्रयोजनम् ॥
एवम्थंश्चाखरं च बहुविधं नीतिशाख्रमश्शाखं शिस्प-
शाखं सूपकारशाखरं चतुःषष्टिकराश्चाखरं चेति । ननास्यु-
निभिः प्रणीतं तत्सवेम् । अस्य च सखनैस्य रौ किकवस्रयो-
जनभेदो द्रष्टव्यः ॥
एवमष्टादश विद्याख्रयीशब्देनोक्ताः ; अन्यथा न्युनता प्रसङ्गात् ॥
तथा सांख्यश्चाख्चं भगवता कपिलेन प्रणीतम् “अथ
त्रिविधदुःखायन्तनिवृत्तिरयन्तपुरूषाथः ‘ इत्यादि षडध्या-
य्यात्मकम् । तत्र प्रथमेऽध्याये विषया निरूपिताः । द्िती-
येऽध्याये प्रधानकार्याणि । वृतीयेऽध्याये विषयेभ्यो वैरा-
ग्यम् । चतुर्थेऽध्याये विरक्तानां पिङ्गखाक्कुरवादीनामाख्या-
यिका: । पच्चमेऽध्याये परपक्षनिर्णयः । षष्ठे सवोथसेक्षेपः ।
प्रकृतिपुरूषविवेकज्ञानं सांख्यश्चा्चस्य प्रयोजनम् ॥
तथा योगक्चास्ं भगवता पतखटिना प्रणीतम् ” अथ
योगातुश्ासनम् ` इलयादि पादचतुष्टयास्मकम् । तत्र प्रथम-
पादे वचित्तवृत्तिनिरोधात्मकः समाधिरम्यासतैराग्यरूपं ख
तत्साधनं निरूपितम् । द्वितीये पादे विक्षिप्रचित्तस्यापि ख.
माधिसिद्धध्य यमनियमासनप्राणायामप्रयाहारधारणाध्यान-
सखमाधयोऽष्टावङ्गानि निरूपितानि । कृतीये पादे योगिचिभू
तयः ; चपुथेपद् कैवल्यमिति । तस्य च विजातीयप्रययनि-
रोघद्वारेण निदिभ्यासनसिद्धिः प्रयोजनम् ॥
तथा पद्युपतिमतं पाञ्चुपतं शाद पड्युपत्तिना पहुपाश्च-
विमोक्षणाय ‘ अथातः पाङ्युपतं योगविधिं व्याख्यास्यामः ›
इयादि पच्चाध्यायं विरचितम् । तत्राध्यायपच्केनापि
कायेरूपो जीवः पञ्चः, कारणं पतिरीशरः, योगः पडुपतौ
चित्तसमाधानम् , विधिभस्मना बविषवणस्नानादिनिरूपितः ;
दुःखान्तसंज्ञो मोक्षश्च प्रयोजनम् । एत एव कार्यंकारणयो-
गविधिदुःखान्ता इद्याख्यायन्ते ॥
एवं वैष्णवं नारदादिभिः कतं पञ्चरावम् । तत्र वासु-
देवसंकषणप्र्युन्नानिसद्धाश्चत्वारः पदाथा निरूपिताः । भग-
वान्वासुदेवः सवैकारणं परमेश्वरः । तस्मादुत्पद्यते संकषं-
णाख्यो जीवः । तस्मान्मनः ्रद्यु्नः । तस्मादनिरुद्धोऽद-
कारः! सर्वे चैत भगवतो वासुदेवस्यैवांशभूतास्तद्भिन्ना
एवेति भगवतो वासुदेवस्य मनोवाद्धायव्त्तिमिराराधनं कूला
कृतछयो भवतीलयादि च निरूपितम् ॥
तदेवं दशितः प्रस्थानभेदः । सर्वेषां च संक्षेपेण त्रिविध
एव प्रस्थानभेदः– तत्रारम्भयाद् एकः; परिणामवादो
द्वितीयः; बिबतेवादस्लृततीयः । पार्थिवाण्यतेजसयायवी –
यश्चतुविधाः परमाणवो द्रथणुकादिक्रमेण ब्रह्माण्डपयेन्तं जगदारभन्ते, असदेव कार्यं कारकव्यापारादुत्पद्यते इति प्रथमस्ताकिंकाणां मीमांसकानां च । खच््वरजस्तमोगुणा-
त्मकं भरधानमेव महदहकारादिक्रमेण जगदाकारेण परिणमते,
पूवैमपि सृक्ष्मरूपेण सदेव कायं कारणव्यापरिणाभिज्यञ्यते
इति द्वितीयः पक्षः सांस्ययोगपातश्जलपाञ्चुपतानाम् । ब्रह्मणः परिणामो जगदिति वैष्णवानाम् । स्वप्रकाश्चपरमानन्दा – दितीयं नह्य स्वमायावरान्मिथ्यैव जगदाकारेण कट्पत इति चतीयः पक्षो जह्यवादिनाम् । सर्वेषां ्रस्थानकतृणां सनीनां
विवतेवादपयंवसानेनाद्ितीये परमेश्वरे प्रतिपाद्ये तास्पयेम्
न हि ते मुनयो भ्रान्ताः, सववेज्ञटवात्तेषाम् । किं तु बहिर्विषयप्रवणानामापततः पुरुषार्थे प्रवेश्चो न खंभवतीति नास्ति – क्य वारणाय तैः प्रकारभेदाः प्रदर्शिताः । तत्र तेषां तात्प्॑-
मुदा वेदविरद्धे ऽप्यर्थे तात्पयेमुसरक्षमाणास्तन्मतमेवोपादेय त्वेन गृह्न्तो जना नानापथजुषो भवन्तीति सर्वंमनवश्म् ॥
इति मधुसूदनसरस्वतीववरचितः प्रस्थानभेदः संपूणेः |
› Forums › Prasthanbheda of Madhusudan Saraswati (प्रस्थानभेद:)
Tagged: Hindu Theology
› Forums › Prasthanbheda of Madhusudan Saraswati (प्रस्थानभेद:)
© Advocatetanmoy Law Library
› Forums › Prasthanbheda of Madhusudan Saraswati (प्रस्थानभेद:)
© Advocatetanmoy Law Library