Aswamedha Upanishad (अश्वमेध उपनिषद्)
अश्वमेध उपनिषद् (Aswamedha Upanishad)
अश्वमेधोपनिषदस्य उद्देश्यं मानवतायाः कल्याणं शान्तिं च प्रति गमनम् अस्ति। अस्मिन् ज्ञान-दिव्य-शक्ति-समृद्धि-प्राप्ति-मार्गः विविध-मन्त्रैः प्रस्तुतः अस्ति । अस्मिन् उपनिषदे मनः, प्राणः, इन्द्रः, सूर्यः इत्यादिदेवताः स्मरणेन शान्तिः प्रार्थ्यते । बलस्य, आरोग्यस्य, मैत्रीयाः च महत्त्वं व्याख्यायते । अन्ते शान्तिमन्त्रं दत्त्वा सर्वेषां भूतानाम् कल्याणं सूचितम् अस्ति। अस्मिन् उपनिषदे पूजा-ध्यानयोः महत्त्वं अपि प्रकाशितं भवति, येन जीवने संतुलनस्य, समर्पणस्य च भावः विकसितः भवति ।
Aswamedha (Chapter 36 of the Shukla Yajur Veda Samhita)
आथर्वणेन दधीचा दृष्टा ‘दध्यङ् ह वा आथर्वण एतᳪं᳭ शुक्रमेतं यज्ञं विदांचकार’ (१४ । १।१। २०) इति श्रुतेः ।
प्रजापतिरश्वमेध सृजत । सोऽस्मात्सृष्टः पराङेत्स दिशोऽनुप्राविशतन्देवाः प्रैषमैच्छस्तमिष्टिभिरनुप्रायुञ्जत तमिष्टिभिरन्वैच्छंस्तमिष्टिभिरन्वविन्दन्, यदिष्टिभिर्यजते ऽश्वमेव तन्मेध्यं यजमानोऽन्विच्छति ।। शतपथब्राह्मणम् 13.1.4.1
तदाहुः। आत्मयाजी श्रेया३न्देवयाजी३ इत्यात्मयाजीति ह ब्रूयात्स ह वा आत्मयाजी यो वेदेदं मेऽनेनाङ्गं संस्क्रियत इदं मेऽनेनाङ्गमुपधीयत इति स यथाहिस्त्वचो निर्मुच्येतैवमस्मान्मर्त्याच्छरीरात्पाप्मनो निर्मुच्यते स ऋङ्मयो यजुर्मयः साममय आहुतिमयः स्वर्गं लोकमभिसम्भवति। शतपथब्राह्मणम् 11.2.6.13
अश्वमेध उपनिषद्
ऋचं वाचं प्र पद्ये मनो यजुः प्र पद्ये साम प्राणं प्र पद्ये चक्षुः श्रोत्रं प्र पद्ये ।
वाग् ओजः सहौजो मयि प्राणापानौ ॥ 36.1
यन् मे छिद्रं चक्षुषो हृदयस्य मनसो वातितृण्णं बृहस्पतिर् मे तद् दधातु ।
शं नो भवतु भुवनस्य यस् पतिः ॥ 36.2
भूर् भुवः स्वः । तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ 36.3
कया नश् चित्र ऽ आ भुवद् ऊती सदावृधः सखा ।
कया शचिष्ठया वृता ॥ 36.4
कस् त्वा सत्यो मदानां मꣳहिष्ठो मत्सद् अन्धसः ।
दृढा चिद् आरुजे वसु ॥ 36.5
अभी षु णः सखीनाम् अविता जरितॄणाम् ।
शतं भवास्य् ऊतिभिः ॥ 36.6
कया त्वम् न ऽ ऊत्याभि प्र मन्दसे वृषन् ।
कया स्तोतृभ्य ऽ आ भर ॥ 36.7
इन्द्रो विश्वस्य राजति ।
शं नो ऽ अस्तु द्विपदे शं चतुष्पदे ॥ 36.8
शं नो मित्रः शं वरुणः शं नो भवत्व् अर्यमा ।
शं न ऽ इन्द्रो बृहस्पतिः शं नो विष्णुर् उरुक्रमः ॥ 36.9
शं नो वातः पवताꣳ शं नस् तपतु सूर्यः ।
शं नः कनिक्रदद् देवः पर्जन्यो ऽ अभि वर्षतु ॥ 36.10
अहानि शं भवन्तु नः शꣳ रात्रीः प्रति धीयताम् ।
शं न ऽ इन्द्राग्नी भवताम् अवोभिः शं न ऽ इन्द्रावरुणा रातहव्या ।
शं न ऽ इन्द्रापूषणा वाजसातौ शम् इन्द्रासोमा सुविताय शं योः ॥ 36.11
शं नो देवीर् अभिष्टय ऽ आपो भवन्तु पीतये । शं योर् अभि स्रवन्तु नः ॥ 36.12
स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः ॥ 36.13
आपो हि ष्ठा मयोभुवस् ता न ऽ ऊर्जे दधातन । महे रणाय चक्षसे ॥ 36.14
यो वः शिवतमो रसस् तस्य भाजयतेह नः । उशतीर् इव मातरः ॥ 36.15
तस्मा ऽ अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥ 36.16
द्यौः शान्तिर् अन्तरिक्षꣳ शान्तिः पृथिवी शान्तिर् आपः शान्तिर् ओषधयः शान्तिः । वनस्पतयः शान्तिर् विश्वे देवाः शान्तिर् ब्रह्म शान्तिः सर्वꣳ शान्तिः शान्तिर् एव शान्तिः सा मा शान्तिर् एधि ॥36.17
दृते दृꣳह मा मित्रस्य मा चक्षुषा सर्वाणि भूतानि सम् ईक्षन्ताम् ।
मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे ।
मित्रस्य चक्षुषा सम् ईक्षामहे ॥ 36.18
दृते दृꣳह मा ।
ज्योक् ते संदृशि जीव्यासं ज्योक् ते संदृशि जीव्यासम् ॥ 36.19
नमस् ते हरसे शोचिषे नमस् ते ऽ अस्त्व् अर्चिषे ।
अन्याꣳस् ते ऽ अस्मत् तपन्तु हेतयः पावको ऽ अस्मभ्यꣳ शिवो भव ॥ 36.20
नमस् ते ऽ अस्तु विद्युते नमस् ते स्तनयित्नवे ।
नमस् ते भगवन्न् अस्तु यतः स्वः समीहसे ॥ 36.21
यतो-यतः समीहसे ततो नो ऽ अभयं कुरु ।
शं नः कुरु प्रजाभ्यो ऽभयं नः पशुभ्यः ॥ 36.22
सुमित्रिया न ऽ आप ऽ ओषधयः सन्तु दुर्मित्रियास् तस्मै सन्तु यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥ 36.23
तच् चक्षुर् देवहितं पुरस्ताच् छुक्रम् उच् चरत् ।
पश्येम शरदः शतं जीवेम शरदः शतꣳ शृणुयाम शरदः शतं प्र ब्रवाम शरदः शतम् अदीनाः स्याम शरदः शतं भूयश् च शरदः शतात् ॥ 36.24
Commentary:
अश्वमेध सोमायागः (Soma = Milk) यस्य अध्यक्षः अभिषिक्तः सार्वभौमराजः अस्ति, तस्य यज्ञस्य आरम्भः फाल्गुन शुक्ल अष्टमी नवमी च भवति। ऋग्वेदऋषिः कथयति यत् यः मां अश्वमेधं पृच्छति, तस्मै मम एकमात्रं याचना अस्ति यत् अश्वमेधः प्रथमं मेधा अस्ति तथा च मेधां दत्त्वा ऋतस्वरूपं भवति यस्मात् कारणात् इन्द्राग्निः अस्याः अश्वमेधस्य माध्यमेन शतदानी भवति यतः तादृशाश्वमेधात् इन्द्राग्नी रूपात्मा परिणमति .अन्तर्गतं प्रकाशं सूर्यवत् प्रकाशते (Rig Veda. ५.२७.६)।
शतपथ ब्राह्मणः (१३.२.८) अश्वमेधीय अश्वरूपेण ब्रह्मसदृशं बृहस्पतिं व्याख्याय ‘गणानं त्वन’ इत्यादयः एतेषां मन्त्राणां प्रयोगं करोति । अश्वरूप गणपति ब्राह्मणस्पतिः त्रिभिः भार्याभिः परिवृतः | तेषां नाम अम्बः अम्बिका अम्बालिका च ये वस्तुतः वाग्रुपिनीः सन्ति। वस्तुतः अत्र अश्वमेधस्य अवसरे चतुष्पदब्रह्मस्य अश्वरूपेण व्याख्यातम् अस्ति। ब्रह्मा एव अश्वपतिः, यस्याः चत्वारः भार्याः सन्ति, यस्मात् त्रीणि भार्याः क्रमेण परा, पश्यन्ती, मध्यमा च सूक्ष्माः त्रयाः वाग्रूपाः सन्ति। चतुर्थी पत्नी सुभद्रिका कम्पिलवासिनी भौतिक शरीरस्य वैखारी वाणी अस्ति।
ऐतरेय ब्राह्मण (2.8) – पुरुषं वै देवाः पशुमालभन्त तस्मादालब्धान्मेध उदक्रामत्सोऽश्वं प्राविशत्तस्मादश्वो मेध्योऽभवदथैनमुत्क्रान्तमेधमत्यार्जन्त स किंपुरुषोऽभवत् इति । ते अश्वमालभन्त सोऽश्वादालब्धादुदक्रामत्स गां प्राविशत्तस्माद्गौर्मेध्योऽभवदथैनमुत्क्रान्तमेधमत्यार्जन्त स गौरमृगोऽभवत् इति । ते गामालभन्त स गोरालब्धादुदक्रामत्सोऽविं प्राविशत्तस्मादविर्मेध्योऽभवदथैनमुत्क्रान्तमेधत्यार्जन्त स गवयोऽभवत्तेऽविमालभन्त सोऽवे रालब्धादुदक्रामत्सोऽजं प्राविशत्तस्मादजो मेध्योऽभवदथैनमुत्क्रान्तमेधमत्यार्जन्त स उष्ट्रोऽभवत् इति ।
पुनः अश्वमेधयज्ञस्य उपयोगः प्राचीनभारते राजनैतिकप्रयोजनेषु सुदृढं साम्राज्यं राज्यं च स्थापयितुं प्रयुक्तम् :
- एतेन ह वा ऐन्द्रेण महाभिषेकेण च्यवनो भार्गवः शार्यातं मानवमभिषिषेच तस्मादु शार्यातो मानवः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेजे देवानां हापि सत्रे गृहपतिरास, इति । ऐब्रा 5.21
- एतेन ह वा ऐन्द्रेण महाभिषेकेण सोमशुष्मा वाजरत्नायनः शतानीकं सत्राजितमभिषिषेच तस्मादु शतानीकः सात्राजितः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेजे, इति । ऐब्रा 5.21
- एतेन ह वा ऐन्द्रेण महाभिषेकेण पर्वतनारदावाम्बाष्ठ्यमभिषिषि चतुस्तस्माद्वाम्बाष्ठ्यः समन्तं सर्वतः पृथिवीं जयन्परीयायाश्वेन च मेध्येनेजे, इति । ऐब्रा 5.21
- एतेन ह वा ऐन्द्रेण महाभिषेकेण तुरः कावषेयो जनमेजयं पारिक्षितमभिषिषेच तस्मादु जनमेजयः पारिक्षितः समन्तं सर्वतः पृथिवीं जयन् परीयायाश्वेन च मेध्येनेजे, इति । ऐब्रा 8.21
Definition of India: देशः पृथिवी । 17। तस्यां हिमवत्समुद्रान्तरमुदीचीनंजनसहस्रपरिमाणं तिर्यक्चक्रवर्तिक्षेत्रम् । 18….” कौ. अर्थ 9.1.17; 18
Definition of अश्व: : हयो देवानवहत् अर्वा असुरान्, वाजी गन्धर्वान् अश्वो मनुष्यान् । (तैसं. 7.5.25.2-3). अहर्वा अश्वस्य जायमानस्य महिमा पुरस्ताज्जायते रात्रिरेनं महिमा पश्चादनु जायते……। तैसं 7.5.25.2. सूर्य = अश्व
उषा वा अश्वस्य मेध्यस्य शिरः सूर्यश्चक्षुर्वातः प्राणश्चन्द्रमाः श्रोत्रं दिशः पादा अवान्तरदिशः पर्शवोऽहोरात्रे निमेषोऽर्धमासः पर्वाणि मासाः संधानान्यसवोऽगांनि संवत्सर आत्मा रश्मयः केशा नक्षत्राणि रूपं तारका अस्थानि नभो मांसान्योषधयो लोमानि वनस्पतयो वाला अग्निर्मुखं वैश्वानरो व्यात्तं समुद्र उदरमन्तरिक्षं पायुर्द्यावापृथिवी अण्डो ग्रावा शेपः सोमो रेतो यज्जंजभ्यते तद्विद्योतते यद्विधूनुते तत् स्तनयति यन्मेहति तद्वर्षति वागेवास्य वाक्….। तैत्तिरीयसंहिता 1 7.52.5.1, 2
Definition of मेध्य : मेध्यो वै आज्यम् । तैब्रा 3.9.12.1. यां मेधां देवगणाः पितरश्चोपासते । मा 32.14. मनो मेधामग्निं प्रयुजं स्वाहा’ मैत्रायणी 2.7.7. मस्तिष्को वै पुराडाशः तैब्रा 3.2.8.7 । प्राणाः पशवः । तैसं 5.2.6.3, तै ब्रा 3.2.8.9, मेधो वा एष पशूनां यत्पुरोडाशः कौब्रा 10.5 । तेषां ह स्मेन्द्रो मेधातिथेर्मेषस्य रूपं कृत्वा सोमं व्रतयति । जैब्रा 3.234