Advaita Siddhi by Madhusudan Saraswati (अद्वैतसिद्धिः)
Home » Law Library Updates » Law Library » Sanskrit Documents » Advaita Siddhi by Madhusudan Saraswati (अद्वैतसिद्धिः)
अद्वैतसिद्धिः (Advaita Siddhi) (1550 CE)
मधूसूदनसरस्वती
प्रथमः परिच्छेदः
द्वितीयः परिच्छेदः
तृतीयः परिच्छेदः
चतुर्थः परिच्छेदः
मायाकल्पित मातृतामुखमृषाद्वैत प्रपञ्चाश्रयः (Maya)
सत्यज्ञानसुखात्मकः श्रुतिशिखोत्थाखण्डधीगोचरः ।
मिथ्या बन्धविधूननेन परमानन्दैकतानात्मकं
मोक्षं प्राप्त इव स्वयं विजयते विष्णुर्विकल्पोज्झितः ॥ १ ॥
Read Next
श्रीराम विश्वेश्वर माधवानामैक्येन साक्षात्कृतमाधवानाम् ।
स्पर्शेन निर्धूततमोरजोभ्यः पादोत्थितेभ्योऽस्तु नमो रजोभ्यः ॥ २ ॥
बहुभिर्विहिता बुधैः परार्थं विजयन्तेऽमितविस्तृता निबन्धाः ।
मम तु श्रम एष नूनमात्मम्भरितां भावयितुं भविष्यतीह ॥ ३ ॥
श्रद्धाधनेन मुनिना मधुसूदनेन सङ्गृह्य शास्त्रनिचयं रचितातियत्नात् ।
बोधाय वादिविजयाय च सत्वराणामद्वैतसिद्धिरियमस्तु मुदे बुधानाम् ॥ ४ ॥
Discussion
Read Next
- सत्त्वं च प्रमाणसिद्धत्वम् । प्रमाणत्वं च दोषासहकृतज्ञानकरणत्वम् ।
- तथा हि – किमिदं दृश्यत्वम् ?
- किमिदं जडत्वम् ?
- जीवब्रह्मणोर्मुखप्रतिमुखवत् बिम्बप्रतिबिम्बरूपत्वादप्यभेदोऽवगन्तव्यः ।
First Book
विप्रतिपत्तिवाक्यस्य विचाराङ्गत्वम्
तत्राद्वैतसिद्धेर्द्वैतमिथ्यात्वसिद्धिपूर्वकत्वात् द्वैतमिथ्यात्वमेव प्रथममुपपादनीयम् । उपपादनं च स्वपक्षसाधनपरपक्षनिराकरणाभ्यां भवतीति तदुभयं वादजल्पवितण्डानामन्यतमां कथामाश्रित्य सम्पादनीयम् । तत्र च विप्रतिपत्तिजन्यसंशयस्य विचाराङ्गत्वान्मध्यस्थेनादौ विप्रतिपत्तिः प्रदर्शनीया ।
यद्यपि विप्रतिपत्तिजन्यसंशयस्य न पक्षतासम्पादकतयोपयोगः, सिषाधयिषाविरहसहकृतसाधकमानाभावरूपायास्तस्याः संशयाघठितत्वात् ; अन्यथा श्रुत्यात्मनिश्चयवतोऽनुमित्सया तदनुमानं न स्यात् , वाद्यादीनां निश्चयवत्त्वेन संशयासम्भवादाहार्यसंशयस्यातिप्रसञ्जकत्वाच्च ; नापि विप्रतिपत्तेः स्वरूपत एव पक्षप्रतिपक्षपरिग्रहफलकतयोपयोगः, ‘त्वयेदं साधनीयं’, ‘अनेनेदं दूषणीय’मित्यादिमध्यस्थवाक्यादेव तल्लाभेन विप्रतिपत्तिवैयर्थ्यात् ; तथापि विप्रतिपत्तिजन्यसंशयस्यानुमित्यनङ्गत्वेऽपि व्युदसनीयतया विचाराङ्गत्वमस्त्येव । तादृशसंशयं प्रति विप्रतिपत्तेः क्वचिन्निश्चयादिप्रतिबन्धादजनकत्वेऽपि स्वरूपयोग्यत्वात् । वाद्यादीनां च निश्चयवत्त्वे नियमाभावात् ‘निश्चितौ हि वादं कुरुत’ इत्याभिमानिकनिश्चयाभिप्रायं, परपक्षमालम्ब्याप्यहंकारिणो विपरीतनिश्चयवतो जल्पादौ प्रवृत्तिदर्शनात् । तस्मात् समयबन्धादिवत् स्वकर्तव्यनिर्वाहाय मध्यस्थेन विप्रतिपत्तिः प्रदर्शनीयैव ।
Read Next
तत्र मिथ्यात्वे विप्रतिपत्तिः ब्रह्मप्रमातिरिक्ताबाध्यत्वे सति सत्त्वेन प्रतीत्यर्हं चिद्भिन्नं प्रतिपन्नोपाधौ त्रैकालिकनिषेधप्रतियोगि न वा, पारमार्थिकत्वाकारेणोक्तनिषेधप्रतियोगि न वेति ।
Read more
Second Book
आखण्डार्थलक्षणोपपत्तिः
तत्राखण्डार्थलक्षणोपपत्तिः ।
हेयं निरूप्य बन्धाख्यं तन्निवृत्तेर्निबन्धनम् । यज्ज्ञानं तदखण्डार्थमादेयमधुनोच्यते ॥
तच्चाखण्डार्थं द्विविधम् । एकं पदार्थनिष्ठम् , अपरं वाक्यार्थनिष्ठम् । एकैकं च पुनर्वैदिकलौकिकभेदेन द्विविधम् । पदार्थनिष्ठं वैदिकमपि द्विविधम्। तत्पदार्थनिष्ठं त्वंपदार्थनिष्ठं च । तत्र ‘सत्यं ज्ञानमनन्त’मित्यादि तत्पदार्थनिष्ठम् । ‘योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्योतिः पुरुष’ इत्यादि त्वंपदार्थनिष्ठम् । ‘प्रकृष्टप्रकाश’ इत्यादि तु लौकिकपदार्थनिष्ठम् । वाक्यार्थनिष्ठमपि वैदिकं ‘तत्त्वमस्या’दिवाक्यम्, ‘सोऽयं देवदत्त’ इत्यादि तु लौकिकम् ॥
अत्राहुः–किमखण्डार्थत्वम् ? न तावन्निर्भेदार्थत्वम् ; यतो निर्भेदार्थत्वस्य शब्दबोध्यत्वे विशेषणतायामुपलक्षणतायां च ‘निर्घटं भूतलमि’तिवत् सखण्डार्थतैव स्यात् , शब्दाबोध्यत्वे तु वस्तुगत्या यन्निर्भेदं ब्रह्म तद्बोधकसगुणवाक्यानामपि अखण्डार्थत्वापत्तिः । अथ यन्निर्भेदं वस्तुगत्या, तन्मात्रपरत्वम्, न; प्रकृष्टप्रकाशादिवाक्येऽव्याप्तेः, तेषां धर्मिसमसत्ताकभेदवद्वस्तुपरत्वेन वस्तुगत्या निर्भेदार्थनिष्ठत्वाभावात् ।
अत एव निर्विशेषार्थत्वमपि न । नाप्यपर्यायशब्दानां प्रातिपदिकार्थमात्रपर्यवसायित्वम् ; शीतोष्णस्पर्शवन्तौ पयःपावकावित्यादावनेकप्रातिपदिकार्थपरेऽतिव्याप्तेः । न च–संभूयार्थपरत्वमत्र नास्त्येव, प्रत्येकं त्वेकैकार्थपरत्वं लक्षणवाक्यत्वादिति नातिव्याप्तिरिति-वाच्यम् ; तथापि ब्रह्मण्यभावात् , अभिधया लक्षणया वा वेदान्तवाक्यानां निःसंबन्धे ब्रह्मणि पर्यवसानानुपपत्तेः । अत एव नैकविशेष्यपरत्वमपि; तद्विशिष्टैकविशेष्यबोधकनीलोत्पलादिवाक्ये अतिव्याप्तेरिष्टापत्तेश्च । यत्तु–अपर्यायशब्दानां संसर्गागोचरप्रमितिजनकत्वं वा तेषामेकप्रातिपदिकार्थमात्रपर्यवसायित्वं वा अखण्डार्थत्वम् । तदुक्तं पञ्चपादिकाकृद्भिः ‘पदानां परस्परानवच्छिन्नार्थानाम् अनन्याकाङ्क्षाणाम् अव्यतिरिक्तैकरसप्रातिपदिकार्थमात्रान्वयः’ इति । उक्तञ्च तत्त्वप्रदीपिकाकृद्भिः–‘संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम् । उक्ताऽखण्डार्थता यद्वा तत्प्रातिपदिकार्थता ॥’ इति ।
तन्न; आद्ये ‘अप्राप्तयोः प्राप्तिः संयोग’ इत्यादौ संयोगलक्षणवाक्येऽव्याप्तेः । अथ पदस्मारितपदार्थसंसर्गाप्रमापकत्वं विवक्षितम् , तत्रापि “द्विषदन्नं न भोक्तव्य’मित्येतत्परे ‘विषं भुङ्क्ष्वे’ति वाक्ये अतिव्याप्तिः । न च–‘द्विषदन्नं न भोक्तव्यमि’ति शास्त्रमूलत्वेन शास्त्रीयपदस्मारितपदार्थसंसर्गप्रमापकत्वादत्र नातिव्याप्तिरिति वाच्यम्; युक्तिमूलत्वेनास्य शास्त्रमूलत्वासिद्धेः । अथ प्रतिपिपादयिषितपदार्थसंसर्गाप्रमापकत्वमत्र विवक्षितम्, तत्राप्यसंभवः; चन्द्रब्रह्मादिशब्दार्थानां स्वरूपतो ज्ञाततयाऽप्रतिपिपादयिषितत्वेन संसर्गविशेषप्रतियोगित्वेनैव प्रतिपिपादयिषितत्वात् । अत एव न द्वितीयलक्षणमपि, तथाच लक्षणासंभवात् प्रमाणमप्यसंभवि; अलक्षिते प्रमाणस्योपन्यसितुमशक्यत्वात् इति । अत्रोच्यते-पदवृत्तिस्मारितातिरिक्तमत्र संसर्गपदेन विवक्षितम् । तथाचापर्यायशब्दानां पदवृत्तिस्मारितातिरिक्तागोचरप्रमाजनकत्वमाद्यलक्षणं पर्यवसितम्। तथाच न संयोगलक्षणे अव्याप्तिः; तस्य पदवृत्तिस्मारितत्वात् । नापि द्विषदन्नभोजननिषेधके अतिव्याप्तिः; तत्रानिष्टसाधनत्वसंसर्गस्य पदवृत्त्यस्मारितस्य प्रतिपाद्यत्वात् । ‘शीतोऽष्णस्पर्शवन्तौ पयःपावका’वित्यत्र त्वखण्डार्थत्वमिष्टमेव । न च-धर्मधर्मिभावासहमखण्डार्थत्वं कथं धर्मभेदं सहतामिति–वाच्यम् ; एकत्रासहिष्णुतायाः सर्वत्रासहिष्णुतायामहेतुत्वात् , शीतस्पर्शवत् पयः, उष्णस्पर्शवान् पावक इति वाक्यार्थभेदाच्च । असंभवस्तु तन्मात्रप्रश्नोत्तरत्वादिति हेत्वसिद्ध्युद्धारे निरसिष्यते । अत्र च ‘घटः कलश’ इत्यादौ संसर्गाप्रमापके एकार्थपरेऽतिव्याप्तिवारणायापर्यायशब्दानामिति ।
तत्रापि बहुवचनेन संभूयैकार्थप्रतिपादकत्वस्य लाभान्न ‘धवखदिरपलाशा’ इत्यादावतिव्याप्तिः । पदज्ञाप्येत्युक्ते अर्थापत्त्या पदज्ञाप्यमनिष्टसाधनत्वमादाय ‘विषं भुङ्क्ष्वे’ति वाक्ये अतिव्याप्तिः स्यात्तद्वारणाय-वृत्तीति । तथाप्यन्विताभिधानवादिमते शक्त्याऽभिहितान्वयवादिमते च लक्षणया वाक्यार्थभूतसंसर्गस्य वृत्तिज्ञाप्यत्वात् सर्वत्र प्रमाणवाक्ये अतिव्याप्तिः स्यात्तद्वारणाय उक्तं—स्मारितेति । आद्यपक्षे कुब्जशक्त्यङ्गीकारात्, द्वितीयपक्षे चाज्ञाताया एव पदार्थनिष्ठाया लक्षणाया वृत्तित्वाङ्गीकारात् न संसर्गस्य पदस्मारितत्वम् , किंत्वनुभाव्यत्वमित्यतिव्याप्तिपरिहारः । एवं द्वितीयमपि लक्षणं सम्यगेव । तत्राप्येकत्वं प्रातिपदिकार्थस्यैकधर्मावच्छेदेन वृत्तिविषयत्वम् , न त्वेकमात्रव्यक्तित्वम् । अतो यौगिकार्थोपगवादिप्रश्नोत्तरे ‘श्यामो दीर्घः लोहिताक्ष औपगव’ इत्यादौ अनेकार्थात्मके वनसेनादिप्रश्नोत्तरे एकदेशस्था वृक्षा वनमित्यादौ च नाव्याप्तिः । ‘शीतोष्णस्पर्शवन्तौ पयःपावकावि’ति तु प्रत्येकमेकैकार्थपरत्वात् संग्राह्यमेव । तदुक्तं कल्पतरुकृद्भिः–”अविशिष्टमपर्यायानेकशब्दप्रकाशितम् । एकं वेदान्तनिष्णाता अखण्डं प्रतिपेदिरे ॥” इति ।
ननु-प्रवृत्तिनिमित्तभेदे अपर्यायत्वम् , स चानन्तादिपदेषु न संभवति; शुद्धब्रह्ममात्रनिष्ठत्वात् , अतो वेदान्तेषु लक्षणाऽव्याप्तिरिति-चेन्न; प्रवृत्तिनिमित्तभेदं स्वीकृत्यैव लक्षणयाऽनन्तादिपदानां शुद्धब्रह्मपरत्वस्य वक्ष्यमाणत्वात् । न च शुद्धे संबन्धाभावान्न लक्षणापीति वाच्यम् ; अतात्त्विकसंबन्धेनैव लक्षणोपपत्तेः, भ्रमप्रतीतरजतत्वेन संबन्धेन शुक्तौ रजतपदलक्षणावत् । शुद्धस्यैव सर्वकल्पनास्पदत्वेन शुद्धे न कल्पितसंबन्धानुपपत्तिः । यथा चानन्तादिपदानां लाक्षणिकत्वेऽपि ब्रह्मणि नान्तवत्त्वादिप्रसङ्गः, तथा वक्ष्यते ॥
Read more
Third Book
अथ मनननिदिध्यासनयोः श्रवणाङ्गत्वोपपत्तिः
तदेवमैकात्म्ये व्यवस्थिते तत्साक्षात्काराय श्रवणमङ्गि, मनननिदिध्यासने तदङ्गतया मुमुक्षुभिरनुष्ठेये । तदुक्तं विवरणे–‘श्रवणमङ्गि ; प्रमाणस्य प्रमेयावगमं प्रत्यव्यवधानात् , मनननिदिध्यासने तु चित्तस्य प्रत्यगात्मप्रवणसंस्कारपरिनिष्पन्नतदेकाग्रवृत्तिकार्यद्वारेण ब्रह्मानुभवहेतुतां प्रतिपद्येते इति फलोपकार्यङ्गे ।
ननु श्रवणं तावद्विचाररूपं शाब्दज्ञाने न करणम् , वेदेन धर्म इव ब्रह्मणि प्रमीयमाणे विचारस्यानुमानादौ तर्कस्येव शब्दरूपे तज्ज्ञानरूपे वा करणे इतिकर्तव्यतामात्रत्वादिति–चेन्न; शब्दशक्तितात्पर्यावधारणं तावत् विचारः । अवधृततात्पर्यकश्च शब्दः करणमिति विचारस्य करणकोटिप्रवेशेनेतिकर्तव्यतात्वाभावात् अङ्गित्वनिर्णयात् । तदुक्तं विद्यासागरे अनुमितौ लिङ्गज्ञानवत्तात्पर्यविशिष्टशब्दज्ञानं करणम्, अतस्तात्पर्यावधारणरूपविचारस्याङ्गित्वम् । न च-आकाङ्क्षादिसहितशब्दज्ञानस्यैव करणत्वसंभवे तात्पर्यभ्रमनिरासोपक्षीणतयोक्ततात्पर्यज्ञानस्य करणकोटिप्रवेशे मननादेरपि तत्कोटिप्रवेशः स्यादिति-युक्तम् ; एवं साकाङ्क्षादिधियोऽपि निराकाङ्क्षादिभ्रमनिरासकत्वमात्रेणोपयोगापत्तौ आकाङ्क्षादिकमपि करणकोटिप्रविष्टं न स्यात् । न चान्योन्याश्रयः; सामान्यतोऽर्थावगमनेन तात्पर्यग्रहसंभवात् । अन्यथा नानार्थादौ विनिगमनादिकं च न स्यात् । तथा च सर्वत्र तात्पर्यज्ञानस्याजनकत्वेऽपि यत्र तात्पर्यसंशयविपर्ययोत्तरं शाब्दधीः, तत्र तात्पर्यज्ञानस्य हेतुता ग्राह्या संशयविपर्ययोत्तरप्रत्यक्षे विशेषदर्शनस्येव । अत एव न विवरणविरोधोऽपि ।
ननु तात्पर्यज्ञानस्य करणकोटिप्रवेशे वेदेऽपि तात्पर्यभ्रमसंभवात् बाह्यागमेऽपि तात्पर्यप्रमासंभवात् शाब्दज्ञानकरणस्य दुष्टत्वादुष्टत्वव्यवस्था न स्यात् इति चेन्न; वेदे कदाचित् कस्यचित् कुत्रचित्तात्पर्यभ्रमेऽपि निर्दुष्टत्वेन यथार्थतात्पर्यमस्त्येव, परागमे तु पौरुषेयतया प्रतारणादिमत्पुरुषप्रणीततया दुष्टत्वेन न तथेति दुष्टत्वादुष्टत्वव्यवस्थासंभवात् तात्पर्यांशस्यावघातादेरिव यागे, शब्दे सन्निपत्योपकारकतया करणकोटिप्रविष्टत्वेनाङ्गित्वम् । न च दृष्टान्ते करणद्रव्यशेषत्वात् तथा; सर्वसाम्यस्य दृष्टान्तत्वाप्रयोजकत्वात् । ननु–सन्निपत्योपकारकत्वेऽपि न फलोपकारकमनननिदिध्यासनरूपाङ्गं प्रति शेषिता, अन्यथा प्रयाजादिकं प्रत्यवघातादिः शेषी स्यादिति चेन्न; विशिष्टयागप्रविष्टतया शेषित्वे इष्टापत्तेः, असाधारण्येन शेषिता तु असाधारणफलोपकारकत्वे स्यात् , असंभावनाविशेषनिवृत्तिरूपासाधारणोपकारजनकत्वात् सापि श्रवणस्य संभावितैव ।
अत एवोक्तं चित्सुखाचार्यैः -“करणीभूतशब्दगतातिशयहेतुत्वात् श्रवणस्य करणत्वेनाङ्गित्वम्, मनननिदिध्यासनयोस्तु सहकारिभूतचित्तगतातिशयहेतुत्वात् फलोपकार्यङ्गतेति । न च-एवं सोमयागसहकारिभूतदीक्षणीयाद्यङ्गस्य तद्गतातिशयहेत्वभिषवग्रहणादिकं प्रत्यङ्गत्वप्रसङ्ग इति वाच्यम्; पूर्ववदुक्तोत्तरत्वात् । तदुक्तं तवशुद्धौ ‘करणीभूतशब्दधर्मशक्तितात्पर्यविषयत्वात् श्रवणस्य करणान्तर्भावेनाङ्गित्वमिति । न च–शब्देनापरोक्षज्ञप्तौ अप्रतिरुद्धापरोक्षज्ञप्तौ चोत्पाद्यायां मनननिदिध्यासनयोरिव परोक्षज्ञप्तावप्रतिरुद्धपरोक्षज्ञप्तौ चोत्पाद्यायां श्रवणस्याप्यपेक्षिततया त्रयाणामपि फलोपकार्यङ्गत्वमेवेति कथं परस्पराङ्गाङ्गिभाव इति वाच्यम् ; मनननिदिध्यासने फले जनयितव्ये शब्दस्य सहकारिणं सम्पादयतः, श्रवणं तु तस्य जनकतामेवेति विशेषात् । यत्र च नैवं तत्र तुल्यवदङ्गतैव ।
एतेन– ’यो वृष्टिकामो योऽन्नाद्यकामो यः स्वर्गकामः स सौभरेण स्तुवीत, हीषिति वृष्टिकामाय निधनं कुर्यात् ऊर्गित्यन्नाद्यकामाय ऊ इति स्वर्गकामाये’ति श्रुतानां वृष्ट्यादिफलाय सौभरेतिकर्तव्यतानिधनगतहीषादीनां श्रवणमननादिवत् परस्परमङ्गाङ्गिभावप्रसङ्ग इति–निरस्तम् ; करणस्वरूपसंपादकत्वसहकारिसंपादकत्वरूपतत्प्रयोजकस्यात्रेव तत्राभावात् । न च–एवं करणापूर्वोत्पत्तौ यागार्थस्यावघातादेः परमापूर्वोत्पत्तौ तदर्थः प्रयाजादिः शेषः स्यादिति-वाच्यम्, एकफल उभयोर्यागार्थत्वाभावेन विशेषात् । ननु–क्लृप्तं परोक्षज्ञानं लोके शब्दस्य फलम् ।
तथाच शब्दातिशयाधायकस्य श्रवणस्य साक्षात्कारफलजनकाङ्गित्वं कथमिति चेत्, साक्षात्त्वं न जातिः नवा इन्द्रियजन्यत्वादिकं नियामकं किंतु विषयगताज्ञाननिवर्तकत्वमेवापरोक्षत्वे प्रयोजकम् । तथा चाज्ञाननिवर्तकत्वं विषयपर्यन्तत्वेन । तच्चात्मपर्यन्तत्वादत्रास्त्येवेति नाटष्टकल्पना । इत्थं च प्रकरणबलादपि सिद्धमस्याङ्गित्वम् ; श्रवणस्य फलसंबन्धेन प्राधान्यसिद्धावितिकर्तव्यताकाङ्क्षायाः संभवात् । ननु–यद्यपि न चित्तैकाग्र्यस्य सूक्ष्मवस्तुज्ञानहेतुत्वं दृष्टमस्ति; तथापि मननं न चित्तैकाश्यहेतु युक्त्यनुसन्धानरूपमननस्यायुक्तत्वशङ्कानिवर्तकताया एव दृष्टत्वेन चित्तैकाश्यहेतुत्वकल्पने सति दृष्टाहान्यापत्तेः मननविधेरपूर्वविधित्वापाताच्च ‘मतिर्यावदयुक्तते’ ति स्मृतिविरोधाच्चेति चेन्न; तादृक्छङ्कायां सत्यां नानाकोटौ चित्तविक्षेपस्य तस्याश्च निवृत्तौ युक्तत्वेनावधारणविषयकोटौ चित्तप्रवणतायास्तावत्पर्यन्तत्वस्य दृष्टत्वेन दृष्टहान्यपूर्वविधिस्मृतिविरोधाभावात् ।
निदिध्यासनस्य तु विपरीतभावनानिवर्तकता सकलसिद्धा ननु तन्निवृत्तेः न ज्ञानहेतुता दृष्टा रूप्यसंस्कारानुवृत्तावपि शुक्तिसाक्षात्कारदर्शनादिति चेत्, ‘इयं शुक्तिरि’ति ज्ञानानन्तरं तद्रजततया ज्ञातमिति स्मृतेर्ज्ञानगोचरसंस्कारसत्त्वेऽपि तद्रजतमित्यस्मरणेन विपरीतसंस्कारनिवृत्तेस्तत्रापि सत्त्वात् । ननु–शब्दसामर्थ्यरूपेण लिङ्गेन ‘ततस्तु तं पश्यते निष्कलं ध्यायमान’ इत्यादिवाक्येन निदिध्यासनस्य फलसंबन्धात् प्रकरणेन च श्रवणादिकं निदिध्यासने सन्निपत्याङ्गमिति–चेन्न; निदिध्यासनपदस्य बर्हिर्देवसदनमित्यादाविव साक्षात्काररूपफलसंवन्धे न शक्तिरिति शब्दसामर्थ्याभावात् । वाक्येऽपि योग्यतावोलाच्छ्रवणमेवाध्याह्रियते । तथा च तच्छ्रवणाद्ध्यायमानो निष्कलं ब्रह्म पश्यतीत्यनुकूलार्थस्यैव पर्यवसानात् । तस्माद् ‘द्रष्टव्यः श्रोतव्य’ इति दर्शनेनाव्यवहितपाठरूपसन्निधानात् श्रवणस्य दर्शनेन साक्षादन्वयादङ्गित्वम् ।
निदिध्यासनरूपभावनाप्रकर्षजन्यत्वे साक्षात्करास्य कामिनीसाक्षात्कारवत् अप्रमात्वापातः न च मूलप्रमाणदार्ढ्यात् प्रमात्वं, तर्हि तदेव साक्षात्करणमस्तु ? किं तदुपजीविन्यायेन एतेन – निदिध्यासनसहकृतमनःकरणत्वमपि निरस्तम् ॥
Forth Book
अथ अविद्यानिवृत्तिनिरूपणम्
ननु मुक्तिस्तावदविद्यानिवृत्तिर्न संभवति ।
तथा हि—सा किमात्मरूपा तद्भिन्ना वा; नाद्यः, असाध्यत्वापत्तेः । द्वितीयेऽपि किं सती मिथ्या वा; आद्ये अद्वैतहानिः, द्वितीये अविद्यातत्कार्यान्यतरत्वापत्तिरिति-चेन्न; चरमवृत्त्युपलक्षितस्यात्मनोऽज्ञानहानिरूपत्वात् । तथा चोपलक्षणसाध्यतयैव मुक्तेरपि साध्यता ।
न चोपलक्षणनिवृत्त्या मुक्तेरपि निवृत्तिः; पाके निवृत्तेऽपि पाचकानिवृत्तिदर्शनात् । तदुक्तं- ’निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः । उपलक्षणनाशेऽपि स्यान्मुक्तिः पाचकादिवत् ॥’ इति । न च वृत्त्युपलक्षितस्य पश्चादिव पूर्वमपि सत्त्वेन मोहकालेऽपि तद्धान्यापत्तिः; पूर्वमसिद्धस्योपलक्षणत्वायोगात्; नहि पाकसंबन्धात् पूर्वं पाचको भवति तथा व्यवह्रियते वा । यत्तु-पाककर्तृत्वमेव पाचकत्वं, तदा अपचति तत्प्रयोगो भूतपूर्वन्यायेनौपचारिकः ।
यदि तु पाककर्तृतावच्छेदकावच्छिन्नत्वं तत्कर्तृत्वात्यन्ताभावानधिकरणत्वं वा, तद्द्वयमपि पश्चादस्ति । न चैवं मुक्तावात्मातिरिक्तं योग्यत्वादिकमस्ति चिन्मात्रं तु प्रागप्यस्ति इत्यसाध्यतापत्तिः, पाकोपलक्षितत्ववत् वृत्त्युपलक्षितत्वस्याधिकत्वे सविशेषतापत्तिः इति तन्न; उपलक्ष्यस्वरूपस्यासाध्यत्वेऽपि उपलक्षणगतसाध्यत्वोपपत्तेः घटाकाशे उत्पत्तिवत् । यद्वा अविद्यानिवृत्तिस्तद्विरोधिवृत्तिरेव यावत्कार्योत्पत्तिविरोधिकार्यमेव ध्वंस इत्यङ्गीकारात् ।
न च वृत्तौ नष्टायां विरोधिनः कार्यान्तरस्यानुयात् तदापि ध्वंससत्त्वेन स न ध्वंस इति वाच्यम्; यावद्विरोधिकार्योदयमेव तथात्वात् यावद्विभागं तस्य ध्वंसरूपत्वेऽपि विभागध्वंसस्याधिकरणरूपतावच्चरमवृत्तिपर्यन्तं विरोधिकार्यरूपत्वेऽपि ध्वंसस्य चरमवृत्तिध्वंसस्याधिकरणरूपतैव। ननु–इयं प्रक्रिया किमन्यत्र, इहैव वा । नाद्यः बिम्बप्रतिबिम्बैक्याज्ञाननिवृत्तिरपि ज्ञाततदैक्यरूपेति तदैक्यधीकाले सोपाधिकतद्भेदभ्रमोपादानाज्ञानानुवृत्त्ययोगात् । नान्त्यः; नियामकाभावात् ।
न चेह निवृत्तेर्ज्ञाताधिष्ठानातिरेके विश्वमिथ्यात्वश्रुतिपर्यालोचनया निवृत्तेरपि निवृत्त्यापत्तिर्नियामिका; तस्या ज्ञानाद्विश्वानिवृत्तिपरत्वेन स्वतात्पर्यविषयनिवृत्तीतरमिथ्यात्वपरत्वादिति चेन्न, न तावदाद्ये दोषः, सोपाधिकभ्रमे उपाधिविरहकालीनस्यैव तस्य तथात्वात् । नापि द्वितीयः; नेति नेतीतिश्रुतेः स्वारस्येनात्मातिरिक्तसर्वनिवृत्तावेव तात्पर्यात् ।
न च वृत्त्युपलक्षित आत्मा जीवन्मुक्तावप्यस्तीति तदापि मोक्षापत्तिः; मुक्तिमात्रापादनस्येष्टत्वात् परममुक्तेश्चरमसाक्षात्कारोपलक्षितात्मस्वरूपत्वेन तदापादकाभावात् । न च चरमसाक्षात्कारनिवृत्तेरात्मत्वेऽसाध्यत्वापत्तिः; अविद्यानिवृत्तेरसाध्यत्वेऽप्रवृत्त्यापत्तिवत् अत्र तदभावात् ।
न च जीवन्मुक्तिप्रयोजकवृत्त्यपेक्षया परममुक्तिप्रयोजकवृत्तौ आनन्दाभिव्यक्तिगतविशेषाभावे चरमक्षणेन चरमश्वासेन वा उपलक्षित आत्मा मुक्तिरिति किं न स्यादिति वाच्यम् ; प्रारब्धकर्मप्रयुक्तविक्षेपविक्षेपाभ्यामभिव्यक्तिविशेषस्याङ्गीकारात् । एतेन–वेदान्तश्रवणादिसाध्यः पुमर्थो वाच्यः, न च स त्वन्मते वक्तुं शक्यः; मुक्त्यनुस्यूतसुखज्ञप्तिरूपस्यात्मनः पुरुषार्थत्वेनाऽप्यसाध्यत्वात् , वृत्तेः साध्यत्वेऽपि स्वतोऽपुमर्थत्वात् ।
तस्मादात्मव्यतिरिक्त एव वृत्तिसाध्य आवरणनिवृत्तिरूपः आनन्दप्रकाशः पुमर्थो वाच्यः । तथा च कथमात्मैव निवृत्तिरिति-अपास्तम् ; प्राप्तप्राप्तिरूपतया फलस्यानन्दप्रकाशस्य स्वरूपतोऽसाध्यत्वेऽपि तत्तिरोधायकाज्ञाननिवर्तकवृत्तेः साध्यत्वमात्रेण साध्यत्वोपपत्तेः, कण्ठगतचामीकरादौ तथा दर्शनात् । तस्मादज्ञानहानिरात्मस्वरूपं तदाकारा वृत्तिर्वेति सिद्धम् । ये तु पञ्चमप्रकारादिपक्षाः, ते तु मन्दबुद्धिव्युत्पादनार्था इति न तत्समर्थनमर्थयामः ॥
यो लक्ष्म्या निखिलानुपेक्ष्य विबुधानेको वृतः स्वेच्छया
यः सर्वान्स्मृतमात्र एव सततं सर्वात्मना रक्षति ।
यश्चक्रेण निकृत्य नक्रमकरोन्मुक्तं महाकुञ्जरं
द्वेषेणापि ददाति यो निजपदं तस्मै नमो विष्णवे ॥ (Vishnu)
श्रीमाधवसरस्वत्यो जयन्ति यमिनां वराः ।
वयं येषां प्रसादेन शास्त्रार्थे परिनिष्ठिताः ॥
सहजसरलां प्रेम्णा दीर्घां समस्तविशोधिनीं सकृदपि कृपादृष्टिं सन्तो दिशन्तु भवद्विधाः ।
कथमपि सती पूता सद्यस्तया विषयीकृता मम कृतिरियं हित्वा दोषान्भवत्वतिसहुणा ॥
गुरूणां माहात्म्यान्निजविविधविद्यापरिचयात् श्रुतेर्यन्मे सम्यङ्मननपरिनिष्पन्नमभवत् ।
परब्रह्मानन्दस्फुरणमखिलानर्थशमनं तदेतस्मिन् ग्रन्थे निखिलमतियत्नेन निहितम् ॥
इह कुमतिरतत्वे तत्त्ववादी वराकः प्रलपति यदकाण्डे खण्डनाभासमुच्चैः ।
प्रतिवचनममुष्मै तस्य को वक्तु विद्वान् नहि रुतमनुरौति ग्रामसिंहस्य सिंहः ॥
कुतर्कगरलाकुलं भिषजितुं मनो दुर्धियां मयायमुदितो मुदा विषविघातिमत्रो महान् ।
अनेन सकलापदां विघटनेन यन्मेऽभवत् परं सुकृतमर्पितं तदखिलेश्वरे श्रीपतौ ॥
ग्रन्थस्यैतस्य यः कर्ता स्तूयतां वा स निन्द्यताम् ।
मयि नास्त्येव कर्तृत्वमनन्यानुभवात्मनि ॥
श्रीव्यासशङ्करसुरेश्वरपद्मपादान् वेदान्तशास्त्रसुनिबन्धकृतस्तथान्यान् ।
विद्याप्रदानिह यतिप्रवरान्दयालून् सर्वान् गुरून् सततमेव नमामि भक्त्या ॥
सिद्धीनामिष्टनैष्कर्म्यब्रह्मगानामियं चिरात् ।
अद्वैतसिद्धिरधुना चतुर्थी समजायत ॥
इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीविश्वेश्वरसरस्वती श्रीचरणशिष्य श्रीमधुसूदनसरस्वती विरचितायामद्वैतसिद्धिः