Skip to content

ADVOCATETANMOY LAW LIBRARY

Research & Library Database

Sarvarthapedia

Architects of Civilization: 100 Foundational Minds Behind Human Society

Global Biographical Dictionary of Intelligence (50-Volume): Espionage and Counterintelligence

Glossary of 500 Key Concepts Across All Subjects (Part 1 – Part 13)

Biographical Dictionary of 200 Essential Thinkers (Appendix E)

Glossary of Nepali Politics: Constitution, Ethnic Identities, and Coalition Dynamics

  •  ऋग्वेदः 
  • सामवेदः
  • यजुर्वेदः
  • अथर्ववेदः
  • वेदाङ्गकल्पसूत्रम्
  • वेदाङ्गछन्दसूत्रम्
  • वेदाङ्गनिरुक्तम्
  • वेदाङ्गव्याकरणम्
  • वेदाङ्गशिक्षा
  • वेदाङ्गज्यौतिषम्
  • काठकसंहिता
  • तैत्तिरीयसंहिता
  • मैत्रायणीसंहिता
  • ऐतरेय ब्राह्मणम्
  • कौषीतकिब्राह्मणम्
  • शतपथब्राह्मणम्
  • तैत्तिरीयब्राह्मणम्
  • छान्दोग्यब्राह्मणम्
  • गोपथब्राह्मणम्
  • काठकब्राह्मणम्
  • पञ्चविंशब्राह्मणम्
  • जैमिनीयोपनिषद्ब्राह्मणम्
  • ऐतरेय आरण्यकम्
  • तैत्तिरीयारण्यकम्
  • शाङ्खायनारण्यकम्
  • ऐतरेयोपनिषद्
  • तैत्तिरीयोपनिषदत्
  • प्रश्नोपनिषत्
  • मुण्डकोपनिषद्
  • मुण्डकोपनिषद्
  • काठकोपनिषत्
  • केनोपनिषद्
  • छान्दोग्योपनिषद्
  • बृहदारण्यकोपनिषद्
  • कौटिल्यस्य अर्थशास्त्रम्
  • मनुस्मृतिः
  • याज्ञवल्क्यस्मृतिः
  • चरकसंहिता
  • सुश्रुतसंहिता
  • रामायणम्
  • महाभारतम्
  • मीमांसासूत्राणि
  • वैशेषिकसूत्रम्
  • न्यायसूत्राणि
  • श्रीविष्णुपुराणम्
  • अष्टाध्यायी-गणपाठः
  • अष्टाध्यायी-धातुपाठः
  • नाट्यशास्त्रम्
  • News
    • Editorial
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • JudgmentSupreme Court
  • Podcast
  • HLJLaw Digests
    • Supreme Court Case Notes
    • Daily Digest
  • SarvarthapediaKnowledgebase
    • Sarvarthapedia (Twelve Core Areas): Macro Structure
    • Systemic-and-systematic
    • Volume One
    • Volume Two
    • Volume Three
    • Volume Four
    • Volume Five
    • Volume Six
  • Subjects
    • Knowledge Graph
    • Glossary
  • Indian Law
  • EncyclopediaCollection
Home » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » Vedic Sanskrit Culture » Sarvarthapedia Vedic Dictionary » मठः – Math/Matt
  • Sarvarthapedia Vedic Dictionary

मठः – Math/Matt

advtanmoy 11/08/2019

मठः, पुं, छात्रादिनिलयः । इत्यमरः । २ । २ । ८ ॥ मठन्ति

वसन्ति छात्रादयोऽत्र मठः । मठ वासमर्द्दयोः
अल् । छत्रशीला विद्यार्थिनच्छात्राः । छत्रेण
गुरुसेवा लक्ष्यते गुरुदोषच्छादनात् छत्रं तच्छी-
लत्वात् छात्रः विकारसंघेति ष्णः । आदिना
परिव्राजकक्षपणकादीनां ग्रहः । छात्रादीनां
निलयो गृहं छात्रादिनिलयः । अर्थकथनमेतत् ।
नामाप्येतदिति केचित् । छात्रशाला प्रतिश्रय-
श्चात्रैव । इति भरतः ॥ गन्त्रीरथः । इति हारा-
वली ॥

॥ अथ मठादिप्रतिष्ठाप्रयोगः ।

यदि तद्दिने प्रतिमादिप्रतिष्ठा क्रियते तदा तन्त्रेण
वृद्धिश्राद्धादिकं विधाय देवप्रतिष्ठातत्त्वोक्त-
विधिना देवप्रतिष्ठां विधाय गृहप्रतिष्ठा कर्त्तव्या ।
यदिगृहप्रतिष्ठामात्रं तदा प्रातः कृतनित्यक्रियः
प्रक्षालितपाणिपाद आचान्तः प्राङ्मुख उदङ्-
मुखो वा कुशयुक्तासने उपविश्य ब्राह्मणत्रयं
गन्धादिना परितोष्य अस्मिन् विष्णुवेश्मप्रतिष्ठा-
कर्म्मणि ॐ पुण्याहं भवन्तोऽधिब्रुवन्तु इति त्रिः
श्रावयेत् । ॐ पुण्याहमिति त्रिस्तैरुक्ते अस्मिन्
विष्णुवेश्मप्रतिष्ठाकर्म्मणि ॐ स्वस्ति भवन्तोऽधि-
ब्रुवन्तु इति त्रिः श्रावयेत् । ॐ स्वस्तीति त्रिस्तै-
रुक्ते अस्मिन् विष्णुवेश्मप्रतिष्ठाकर्म्मणि ॐ ऋद्धिं
भवन्तोऽधिब्रुवन्तु इति त्रिः श्रावयेत् । ॐ ऋद्ध्य
तामिति त्रिर्वदेयुः । यजुर्वेदिनां ॐ स्वस्ति न
इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः
स्वस्ति नस्तार्क्षोऽरिष्टनेमिः स्वस्ति नोबृहस्पति-
र्दधातु । इत्यनेनाक्षतान् क्षिपेत् । सामगानान्तु ।
ॐ अस्ति सोमोऽयं सुतः । पिबन्तस्य मरुतः ।
उतस्वराजो अश्विना । अस्ति सोमोऽयं सुतः ।
पिबन्तस्य मरुतो हाइ । उतस्वराजो वा हाइ
नो हाइ । इति गीयमानेनाक्षतान् क्षिपेत् ।
गानाशक्तौ त्रिधा ऋचं वाचयेत् । ततः ।
“सूर्य्यः सोमो यमः कालः सन्ध्ये भूतान्यहः क्षपा ।
पवनो दिक्पतिर्भूमिराकाशं खचरामराः ।
ब्राह्मं शासनमास्थाय कल्पध्वमिह मन्निधिम् ॥”
इति पठित्वा । तत ॐ तद्बिष्णोः परमं पदं सदा
पश्यन्ति सूरयः । दिवीव चक्षुराततम् । इति
विष्णुं स्मृत्वा नारायणं नमस्कृत्य ॐ तत् सदित्यु-
च्चार्य्य कुशत्रयजलफलपुष्पाण्यादाय ॐ अद्या-
मुके मासि अमुकपक्षेऽमुकतिथौं अमुकगोत्रः
श्रीअमुकदेवशर्म्मा एतत्तृणकाष्ठादिमयवेश्मपर-
माणुसमसंख्यवर्षसहस्रावच्छिन्नस्वर्गलोकमहि-
तत्वकामः श्रीविष्णुप्रीतिकामो विष्णुलोकप्राप्ति-
कामो वा विष्णुवेश्मप्रतिष्ठामहं करिष्ये । इति
संकल्पयेत् इष्टकादिमये तु एतदिष्टकादिमय-
वेश्मपरमाणुसमसंख्यकवर्षसहस्रदशगुणकाला-
वच्छिन्नस्वर्गलोकमहितत्वकाम इति विशेषः ।
पाषाणवेश्मनि तु तद्दशगुणकालावच्छिन्नस्वर्ग-
लोकेति विशेषः । देवतान्तरगृहप्रतिष्ठायान्तु
तदूहेन प्रयोगः ॥ * ॥ ततः संकल्पसूक्तं पठेत् ।
सामवेदोक्तं तद्यथा ॐ देवो वो द्रविणोदाः
पूर्णां विवष्ट्यासिचम् । उद्वासिञ्चध्वमुपवा पृणु-
ध्वमादिद्वो देव ओहते ॥ यजुर्वेदोक्तं यथा, —
“ॐ यज्जाग्रतो दूरमुदैतु दैवं
तदुसुप्तस्य तथैवेति ।
दूरङ्गमं ज्योतिषां ज्योतिरेकं
तन्मे मनः शिवसङ्कल्पमस्तु ॥”
ततः सगणाधिपगौर्य्य्यादिषोडशमातृकापूजा-
वसोर्धारासम्पातनायुष्यमन्त्रजपाभ्युदयिकश्रा-
द्धानि कर्त्तव्यानि ॥ * ॥ आयुष्यमन्त्रो यथा । ॐ
आयुर्व्विश्वायुर्व्विश्वं विश्वमायुरसि । महि प्रजान्त्व-
ष्टाराधिनिधे ह्यस्मे शतं जीबेम शरदो वयन्ते ॥
ॐ आयुषो मे पवस्व वर्च्चसो मे पवस्व विदुः
पृथिव्या दिवो जनित्र्या शृण्वन्त्यापोऽधः
क्षरन्ती सोमोहोद्गाय ममायुषे मम ब्रह्मवर्च्च-
साय यजमानस्यर्द्ध्या अमुकस्य राज्याय ॥ * ॥
तत्र विष्णुवेश्मप्रतिष्ठाभ्युदयार्थमिति वाक्ये
विशेषः । एवमन्यवेश्मनि । ततः उत्तराभि-
मुखं ब्राह्मणमुपवेश्य तत्समीपे आसनमानीय
प्राङ्सुखो यजमानः प्राञ्जलिर्वदेत् । ॐ साधु
भवानास्ताम् । ॐ साध्वहमासे इति प्रतिवचनं
दत्त्वा तदासने उदङ्मख उपविशति । ततो
यजमानः ॐ अर्च्चयिष्यामो भवन्तं इति वदेत् ।
ॐअर्च्चयेति प्रतिवचनम् । ततो गन्धपुष्पताम्वूला-
लङ्कारैरभ्यर्च्च्य दक्षिणं जानु स्पृष्ट्वा ॐ अद्ये-
त्यादि अमुकगोत्रममुकप्रवरममुकदेवशर्म्माणं
भवन्तं अस्मिन् सङ्कल्पितविष्णुवेश्मप्रतिष्ठा-
कर्म्माङ्गभूतहोमकर्म्मणि ब्रह्मकर्म्मकरणाय गन्ध-
पुष्पताम्बूलालङ्कारवस्त्रैरहं वृणे । ॐ वृतो-
ऽस्मीति प्रतिवचनम् । यथाविहितं ब्रह्मकर्म्म
कुरु । ॐ यथाज्ञानं करवाणीति प्रतिवचनम् ।
स्वयं होमासामर्थ्ये होतुर्वरणमपि तथैव
कार्य्यम् । तन्त्रधारकत्वेन आचार्य्यस्यापि तथैव
कार्य्यम् । शक्तेन सदस्यस्यापि । गुरोर्वरणे तु
संकल्पितेऽस्मिन् विष्णुवेश्मप्रतिष्ठाकर्म्मणीति
वक्तव्यम् ॥ * ॥ ततो यजमानः गुरोः पादौ
धृत्वा पठेत् ।
“नारायणस्वरूपस्त्वं संसारात्त्राहि मां प्रभो ! ।
त्वत्प्रसादात् गुरो ! यज्ञं प्राप्नोमि यन्मयोदि-
तम् ॥
त्राहि नाथ ! प्रपन्नं मां भीतं संसारसाग-
रात् ।
देवतास्थापने ह्यद्य मम शान्तिं कुरु प्रभो ! ॥
ततो गुरुः ।
ॐ उत्तिष्ठ वत्स भद्रन्ते मत्प्रसादात्त्वयानघ ! ।
प्राप्तव्यं धर्म्मकामार्थं दुष्प्रापं यत् सुरासुरैः ॥ * ॥
ततो गुरुः ।
ॐ पावमानीः स्वस्त्ययनीः मृदुघा हि घृत-
श्च्युतः ।
ऋषिभिः सम्भृतो रसो ब्राह्मणे स्वमृतं
हितम् ॥
इति पावमानीसूक्तम् ॥
“असपत्नं पुरस्तान्नः शिवं दक्षिणतः कृधि ।
अभयं सततं पश्चात् भद्रमुत्तरतो गृहे ॥”
इति शाकुनसूक्तम् ॥
ॐ रक्षोहनो बलगहनः प्रोक्षामि वैष्णवान्
रक्षोहनो बलगहनोऽवनयामि वैष्णवान् रक्षो-
हनो बलगहनोऽवस्तृणामि वैष्णवान् । रक्षो-
हनौ बलगहनावुपदधामि वैष्णवी । रक्षोहनौ
बलगहनौ पर्य्यूहामि वैष्णवमसि वैष्णवाः स्थः ।
इति रक्षासूक्तम् । इति पठित्वा ।
“वेतालाश्च पिशाचाश्च राक्षसाश्च सरीसृपाः ।
अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः ॥
विनायका विघ्नकरा महोग्रा
यज्ञद्विषो ये पिशिताशनाश्च ।
सिद्धार्थकैर्वज्रसमानकल्पै-
र्मया निरस्ता विदिशः प्रयान्तु ॥”
इति श्वेतसर्षपान् विकीर्य्य स्वैः स्वैर्मन्त्रैः पञ्च-
गव्यं शोधयेत् ॥ * ॥ तच्छोधनमन्त्रा यथा ।
ॐ तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि
धियो यो नः प्रचोदयात् ।
इति गोमूत्रम् ।
ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीविणीम् ।
ईश्वरीं सर्व्वभूतानां तामिहोपह्वये श्रियम् ॥
इति गोमयम् ।
ॐ आप्यायस्व स मे तु ते विश्वतः सोमवृष्ण्यं
भवावाजस्य सङ्गथे ।
इति दुग्धम् ।
ॐ दधिक्राव्नो अकारिषं जिष्णोरश्वस्य
वाजिनः ।
सुरभिणो मुखाकरत् प्रणतायूंषि तारिषत् ॥
इति दधि ।
पृष्ठ ३/५७०
ॐ तेजोऽसि शुक्रमस्यमृतमसि धामनामासि
प्रियन्देवानामनाधृष्टं देवयजनमसि ॥
इति घृतम् ।
ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां
पूष्णो हस्ताभ्यां हस्तमाददे । इति कुशोदकम् ॥
ॐ वेद्या वेदिः समाप्यते बर्हिषा बर्हिरिन्द्रियम् ।
जपेन यूप आप्यते प्रणीतो अग्निरग्निना । इति
मन्त्रेण वेदीं संप्रोक्ष्य पञ्च घटान् घटस्थापन-
क्रमेण संस्थाप्य ॥ * ॥ घटस्थापनमन्त्रा यथा ।
सामगानाम् । ॐ महित्रीणामवोस्तुद्युक्षं मित्र-
स्यार्य्यम्नः दुराधर्षं वरुणस्य । इति भूमेः ।
ॐ धानावन्तं करम्भिणमपूपवन्तमुक्थिनं इन्द्र
प्रातर्ज्जूषस्व नः । इति धान्यस्य । ॐ आविशं
कलसं सुतो विश्वा अर्षन्नभिश्रिय इन्द्ररिन्द्राय
धीयते । इति कलसस्य ।
“ॐ अयमूर्ज्जावतो वृक्ष उर्ज्जीव फलिनी भव ।
पर्णं वनस्पते न त्वा नु त्वा च सूयतां रयि ॥”
इति पल्लवस्य ।
ॐ आनोमित्रावरुणा घृतैर्गव्युतिमुक्षतं मध्वा
रजांसि सुक्रतु । इति जलस्य । ॐ इन्द्रन्नरो
नेमधिता हवन्ते यत्पार्य्या युनयते धियस्ताः
सूरो नृषाताश्रवसश्च काम आगोमतिव्रजे
भजात्वन्नः । इति फलस्य । ॐ सिन्धोरुच्छ्वासे
पतयन्तमुक्षणं हिरण्यपावाः पशुमाशु गिभ्नते ।
इति सिन्दूरस्य । ॐ त्वावतः पुरूवसो वयमिन्द्र
प्रणेतः स्मचिस्थातर्हरीणाम् । इति स्थिरी-
करणस्य । ॐ पवमानो व्यश्नवद्रश्मिभिर्वाजसा-
तमः । दधास्तोत्रे सुवीर्य्यम् । इति पुष्पस्य ॥ * ॥
यजुषाम् । ॐ भूरसि भुवनस्य दितिरसि विश्वस्य
धाया विश्वस्य भुरणधर्त्रीम् । पृथिवीं यच्च पृथिवीं
दृँह पृथिवीं माहिँसीः । इतिभूमेः । ॐ
धान्यमसि धिनुहि देवान् धिनुहि यज्ञं धिनुहि
यज्ञपतिं धिनुहि मां यज्ञन्यम् । इति धान्यस्य ।
ॐ आजिघ्रकलसमह्यात्वा विशन्त्युन्दवः पुन-
रुर्जा निवर्त्त स्वसानः । सहसं धुक्षोरुधारा
पयस्वतीमाविशताद्रयि । इति घटस्य । ॐ
वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भः सर्जनीस्थः
वरुणस्य ऋत सदन्यसि वरुणस्य ऋत सदनमपि
वरुणस्य ऋत सदनीमासीद । इति जलस्य ।
ॐ धन्वनागा धन्वना जिञ्जयेम धन्वना तीव्राः
समदो जयेम । धनुःशत्रोरपकामं कृणोतु
धन्वना सर्व्वाः प्रतिशो जयेम । इति पल्लवस्य ।
ॐ याः फलिनीर्या अफला अपुष्पा याश्च
पुष्पिणीः बृहस्पतिप्रसूतास्ता नो मुञ्चन्तं£हसः ।
इति फलस्य ।
“ॐ सर्व्वतीर्थमयं वारि सर्व्वदेवसमन्वितम् ।
इमं घटं समारुह्य तिष्ठ देवगणैः सह ॥”
इति जलं दद्यात् । ॐ स्थिरो भव विड्डङ्ग
आशुर्भव वाह्यर्व्वन् पृथुर्भव मुसदस्त्वमग्ने पुरीष-
वाहनः । इति स्थिरीकरणस्य । ॐ सिन्धोरिव
प्राध्वने शूघनाशो वातप्रमियः । पतयन्ति यह्वा
घृतस्य धारा अरुषोण वाजी काष्ठा भिन्दन्नू-
र्म्मिभिः पिन्नमानः इति सिन्दूरस्य । ॐ श्रीश्च ते
लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपं
अश्विनौ व्याप्तं इष्टम्मनीषाण सर्व्वलोकं मनी-
षाण । इति पुष्पस्य ॥ * ॥ ततः फलपुष्पयुतं विता-
नम् । ॐ विमान एष दिवो मध्य आस्त आप
प्रवान्रोदसी अन्तरीक्षम् । सविस्वाचीरभिचष्टे
घृताचीरन्तरा पूर्ब्बमपरञ्च केतुम् ॥ साम-
गानान्तु । ॐ ऊर्द्ध्व ऊषु न ऊतये तिष्ठा देवो न
सविता ऊर्द्ध्वो वाजस्य सनिता यदञ्जिभिर्व्वा
घद्भिर्विह्वयामहे । इति मन्त्रेण बध्नीयात् । * ।
“ॐ हिरण्यगर्भः समवर्त्तताग्रे भूतस्य जातः
पतिरेक आसीत् । सदाधारपृथिवीं द्यामुतेसां
कस्मै देवाय हविषा विधेम । इति मन्त्रेण
मण्डलमध्ये सुवर्णपद्मं दत्त्वा स्वर्णशलाकया
दलान्युत्कीर्य्य मण्डलमध्ये राजतीं प्रतिमां
ॐ सूत्रामाणं पृथिवीं द्यामनेहसं सुशर्म्माण-
मदितिं सुप्रणितिम् । दैवीं नावं स्वरित्रामा
नागसमस्रवन्ती मारुहे मास्रस्तये । इति मन्त्रेण
निःक्षिप्य घटेषु देवान् पूजयेत् । * । प्रथमघटे
गणेशं सूर्य्यैं द्वितीयघटे शिवं दुर्गां तृतीयघटे
विष्णुं लक्ष्मों सरस्वतीं चतुर्थे अग्निं वास्तुपुरुषं
क्षेत्रपालान् कार्त्तिकेयमश्विनीकुमारौ पञ्चमे
ग्रहान् लोकपालांश्च स्वैः स्वैर्मन्त्रैरावाह्य
पूजयेत् । * । ततो गुरुदेवं प्रतिमायां शालग्रामे
वा यथोक्तविधिना स्नापयेत् ।
“ॐ भद्रं कर्णेभिः शृणुयाम देवा
भद्रं पश्येमाक्षिभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टवाँसस्तनू-
भिर्ब्ब्यशेमदेव हितं यदायुः ॥”
इति मन्त्रेण निवेश्य ॐ एतोन्विन्द्रं£स्तवामः
शुद्धं शुद्धेन साम्ना । शुद्धै रुक्मैर्वा वृध्वां संशुद्ध
आशीर्वान्ममत्तु । इति मन्त्रेण शुद्धोदकेन
स्नापयेत् । ॐ घृतवतीति घृतेनाभ्यज्य । ॐ
अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे ।
पृथिव्याः सप्तधामभिः । इति मसूरचूर्णेनोद्ध्यर्त्त्य ।
ॐ सप्त ते अग्ने समिधः सप्तजिह्वाः सप्त ऋषयः
सप्त धामप्रियाणि सप्त होत्राः सप्तधा त्वा
यजन्ति । सप्त योनीरापृणुस्वा घृतेन । इति
उष्णोदकेन क्षालयेत् । ॐ द्रुपदादिव मुमुचानः
स्विन्नः स्नातो मलादिव पूतं पवित्रेणे वाज्यमापः
शुन्धन्तु मैनसः इति चन्दनेनानुलिप्य ॐ आपो-
हिष्ठामयो भुवः स्नान ऊर्ज्जे दधातनः महेर-
णाय चक्षसे । इति नदीतोयेन स्नापयेत् ।
ॐ शन्नो देवीरभिष्टये आपो भवन्तु पीतये
शंयोरभिस्रवन्तु नः । इति तीर्थमृत्कलसेन
स्नापयित्वा गावत्त्र्या गन्धयुक्तजलेन स्नापयेत् ।
ॐ हिरण्यवर्णाः शुचयः पावकाः यासु जातः
कश्यपो यास्विन्द्रः । अग्नीया गर्भन्दधिरे विरू-
पास्तान् आपः शं£श्योना भवन्तु ॥ इति पञ्च-
मृत्तिकया । ॐ इमं मे गङ्गे यमुने सरस्वति
सुतुद्रि स्तोमम् सचता परुष्ण्या । असिक्न्या
मरुद्वृधे वितस्तयार्जीकीये शृणुह्या सुषोमया
इति मन्त्रेण सिकताजलेन । ॐ तद्विष्णोः परमं
पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुरा-
ततम् । इति बल्मीकतोयेन । ॐ या ओषधी
सोमराज्ञीर्विष्ठिताः पृथिवीमनु । तामह्य-
मस्मिन्नासनेऽच्छिद्रं शर्म्म यच्छत । इति सर्व्वौ-
षधिजलेन । ॐ यज्ञा यज्ञा वो अग्नये गिरा
गिरा च दक्षसे । प्रप्रवयममृतञ्जातवेदसं प्रियं
मित्रन्नशं सिषम् । इति कषाययुक्तजलेन ।
पञ्चगव्येन स्वैः स्वैर्मन्त्रैः सेचयेत् । ॐ पयः
पृथिव्यां पय औषधीषु पयो दिव्यन्तरिक्षे
पयोधाम । पयखती प्रादशः सन्तु मह्यं सम्मा
सृजामि पयसा घृतेन सम्मा सृजाम्यपहः ॥
इति पञ्चगव्येन । ॐ तस्माद्यज्ञात् सर्व्वहुतऋचः
सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माद्-
यजुस्तस्मादजायत ॥ इति पञ्चामृतेन । ॐ याः
फलिनीति फलोदकेन । ॐ सहस्रशीर्षेति वक्ष्य-
माणमन्त्रण सहस्रधारया । ॐ एतोन्विन्द्रमिति
पूर्ब्बोक्तमन्त्रेण तुलसीचन्दनयुक्तजलेन । ॐ यासां
राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्ज-
नानाम् । मधुश्च्युतः शुचयो याः पावकास्ता
आपो देवीरिह मामवन्तु ॥ इत्यनेन वेदादि
चतुष्टयेन । तद्यथा ॐ अग्निमीले पुरोहितं
यज्ञस्य देवमृत्विजं होतारं रत्नधातमम् । १ ।
ॐ इषेत्वोर्जेत्वा वायवस्थदेवो वः सविता प्रार्प-
यतु श्रेष्ठतमाय कर्म्मणे । २ । ॐ अग्न आयाहि
वीतये गृणानो हव्यदातये निहोता सत्सि
वर्हिषि । ३ । ॐ शन्नो देवीरभिष्टये शन्नो भवन्तु
पीतये शंयोरभिस्रवन्तु नः । ४ । वक्ष्यमाण-
पुरुषसूक्तेन च एकाशीतिघटैः स्नापयेत् ।
अशक्तौ अष्टाविंशतिघठैरष्टघटैर्वा स्नापयित्वा
धौतवाससा जलमपनीय यथोपचारैः संपूज्य
मण्डले आधारशक्त्यादीनि पूजयेत् । * । ॐ
आधारशक्तये नमः । एवं सर्व्वत्र प्रणवादि-
नमोऽन्तेन । प्रकृत्यै कूर्म्माय अनन्ताय पृथिव्यै
क्षीरसमुद्राय रत्नद्वीपाय रत्नोज्ज्वलसहितमहा-
मणिमण्डपाय कल्पवृक्षाय रत्नवेदिकायै रत्न-
सिंहासनाय । आग्नेय्यां धर्म्माय नैरृत्यां
ज्ञानाय वायव्यां वैराग्याय ऐशान्यां ऐश्वर्य्याय
पूर्ब्बस्यां अधर्म्माय पश्चिमायां अवैराग्याय
उत्तरस्यां अनैश्वर्य्याय । मध्ये अं अर्कमण्डलाय
उं सोममण्डलाय मं वह्निमण्डलाय । सं सत्वाय
रं रजसे तं तमसे । आं आत्मने अं अन्तरा-
त्मने पं परमात्मने ह्रीं ज्ञानात्मने । पूर्ब्बादिकेश-
रेषु प्रादक्षिण्येन ॐ विमलायै नमः । एवं उत्-
कर्षिण्यै ज्ञानायै क्रियायै यीगायै प्रह्वै सत्यायै
ईशानायै । कर्णिकायां अनुग्रहायै । कर्णिकोपरि
ॐ नमो भगवते विष्णवे सर्व्वभूतात्मने वासुदेवाय
सर्व्वात्मसंयोगयोगपीठात्मने नमः ॥ * ॥ ततो
मण्डले देवं संस्थाप्य पौराणिकमन्त्रेण पुरुष-
सूक्तेन वा षोडशोपचारैः पूजयेत् । तद्यथा ।

ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिं सर्व्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् । १ ।
सर्व्वतः स्थाने विश्वतो वृत्वा स्थाने स्पृष्ट्वा इत्यपि
पाठः । इति पठित्वा भगवन् विष्णो इहागच्छ
इहागच्छ इह तिष्ठ इह तिष्ठ इह सन्निरुद्धस्व
मम पूजां गृहाण । ततो यथाविध्यासनमानीय
वमिति वरुणबोजेनार्घ्याम्भसा संप्रोक्ष्यासनम-
भ्यर्च्च्य ॐ पुरुष एवेदं सर्व्वं यद्भूतं यच्च भाव्यं
उतामृत त्वस्पेशानो यदतेनातिरोहति २ ।
इति पठित्वा इदममुकासनं ॐ नमो भगवते
वासुदेवाय श्रीविष्णव नमः । एवं सर्व्वत्र दाने ।
ॐ भगवन् विष्णो स्वागतम् । इति स्वागतप्रश्नः ।
ततस्ताम्रपात्रस्थं पद्मश्यामाकदूर्व्वापराजितादि-
युक्तं जलं गृहीत्वा ॐ एतावानस्य महिमातो
ज्यायांश्च पूरुषः पादोऽस्य विश्व भूतानि
त्रिपादस्यामृतं दिवि ३ । इति पठित्वा इदं
पाद्यं पूर्ब्बवन्मूलेन पादयोर्द्दद्यात् । ततो
गन्ध-पुष्पाक्षतयवकुशाग्रतिलसर्षपदूर्व्वायुक्तजलं
शङ्खादिपात्रे कृत्वा ॐ त्रिपादूर्द्ध उदैत् पुरुषः
पादोऽस्येहाभवत् पुनः । ततो विश्वङ्व्यक्रामत्
शासनानशने अभि ४ ॥ ततः स्थाने तस्मा-
दित्यपि पाठः । इति पठित्वा सामगानामिद-
मर्घ्यमन्येषामेषः अर्घः इति शिरसि दद्यात् ।
जातीलवङ्गकक्कोलयुक्तं केवलं वा पात्रस्थं जलं
गृहीत्वा ॐ ततो विराडजायत विराजोऽधि-
पुरुषः स जातोऽत्यरिच्यत पश्चाद्भुविमथो
पुरः ५ ॥ इति पठित्वा इदमाचमनीयं ॐ नमो
भगवते वासुदेवाय श्रीविष्णवे स्वधा इति
दद्यात् । ततः कांस्यपात्रस्थं दधिमधुघृतात्मकं
कांस्येन पिहितं मधुपर्कं गृहीत्वा ॐ तस्माद्-
यज्ञात् सर्व्वहुतः संभृतं पृषदाज्यं पशूंस्तां
श्चके वायव्यानारण्या ग्राम्याश्च ये ६ ॥ इति
पठित्वा एष मधुपर्कः ॐ नमो भगवते वासु-
देवाय श्रीविष्णवे स्वाहा इति दद्यात् । ततः
पूर्ब्बमन्त्रं पठित्वा पुनराचमनीयञ्च दद्यात् ।
कर्पूरवासितजलं गृहीत्वा ॐ तस्माद्यज्ञात्
सर्व्वहुत ऋचः सामानि जज्ञिरे । छन्दांसि
जज्ञिरे तस्माद्यजुस्तस्मादजायत ७ ॥ इति
पठित्वा इदं स्नानीयजलं मूलेन दद्यात् ।
पूर्ब्बवत् पुनराचमनीयं दत्त्वा वस्त्रं गृहीत्वा ॐ
तस्मादश्वा अजायन्त ये के चोभयादतः । गावो
ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ८ ॥
इति पठित्वा इदं वस्त्रं मूलेन दद्यात् । एव-
मुत्तरीयवस्त्रं यज्ञोपवीतं पूर्ब्बवदाचमनीयं दत्त्वा
आभरणं गृहीत्वा ॐ तं यज्ञं वर्हिषि प्रौक्षन्
पुरुषं जातमग्रतः । तेन देवा अयजन्त साध्या
ऋषयश्च ये ९ ॥ इति पठित्वा मूलेन दद्यात् ।
ॐ यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् मुखं
किमस्यासीत् किंबाहू किमूरू पादा उच्येते १० ।
ऋग्वेदस्याश्वलायनशाखायान्तु मुखं किमस्य
कौ बाहू कावूरू पादा उच्येते इति भेदः ।
इति पठित्वा मूलेन गन्धं दद्यात् । ॐ ब्राह्मणो
ऽस्य मुखमासीत् बाहू राजन्यः कृतः । उरू
तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ११ ॥
इति पठित्वा मूलेन पुष्पं दद्यात् । ॐ चन्द्रमा
मनसो जातश्चक्षोः सूर्य्यो अजायत । श्रोत्रा-
द्वायुश्च प्राणश्च मुखादग्निरजायत १२ ॥ मुखा-
दिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत इति च पाठः ।
इति पठित्वा मूलेन धूपं दद्यात् । ॐ नाभ्या
आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्त्तत । पद्भ्यां
भूमिर्द्दिशः श्रोत्रात्तथा लोकानकल्पयन् १३ ॥
इति पठित्वा मूलेन दीपं दद्यात् । ततो नैवेद्यो-
परि मत्स्यमुद्रया मूलमन्त्रं दशधा जप्त्वाभ्यर्च्य
धेनुमुद्रां प्रदर्श्य ॐ यत्पुरुषेण हविषा देवा
यज्ञमतन्वत । वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः
शरद्धविः १४ ॥ इति पठित्वा नैवेद्यं मूलेन
दद्यात् । ॐ सप्तास्यासन् परिधयस्त्रिः सप्त
समिधा कृताः । देवा यद्यज्ञं तन्नांना अवध्नन
पुरुषं पशुम् १५ ॥ इति पठित्वा कर्पूरादि-
वासितं पानीयं ताम्बूलं पुनराचमनीयं दर्पणञ्च
दद्यात् । ॐ यज्ञेन यज्ञमयजन्त देवास्तानि
धर्म्माणि प्रथमान्यासन् । ते ह नाकं महि
मानः स चन्त यत्र पूर्ब्बे साध्याः सन्ति
देवाः १६ । इति पठित्वा अञ्जलित्रयं पुष्पं
दत्त्वा आवरणानि संपूज्य मूलमन्त्रं यथाशक्ति
जप्त्वा प्रणमेत् । * । ऋग्वेदस्याश्वलायनशाखा-
यान्तु यत्पुरुषेण हविषा इत्यादिना स्नानीयं ६
तं यज्ञं वर्हिषीत्यादिना वस्त्रं ७ तस्मात् यज्ञात्
सर्व्वहुतः संभृतभित्यादिना यज्ञोपवीतम् ८
तस्मात् यज्ञात् सर्व्वहुत ऋचः सामानीत्यादिना
चन्दनम् ९ तस्मादश्वा अजायन्त इत्यादिना
पुष्पं १० यत्पुरुषं व्यदधुरित्यादिना धूपम् ११
ब्राह्मणोऽस्य मुखमासीदित्यादिना दीपम् १२
चन्द्रमा मनसो जात इत्यादिना नैवेद्यम् १३
नाभ्या आसीदन्तरिक्षमित्यादिना ताम्बूलम् १४
सप्तास्यासन् परिधय इत्यादिना नीराजनम् १५
इति भेदः अन्यत् समानम् । * । ततो गुरुः
कुण्डपश्चिमे उपविश्य कुण्डे स्थण्डिले वा ब्राह्म
विधिना तदज्ञाने स्वगृह्योक्तविधिना साहस-
नामानमग्निं संस्थाप्य ब्रह्मस्थापनानन्तरं अभि-
षेकार्थं ऐशान्यां नवमव्रणमश्यामं बहिर्द्दध्यक्षत-
भूषितं चूताश्वत्थन्यग्रोधोडुम्बरप्लक्षपल्लवच्छन्न-
मुखं फलवस्त्रयुतं अन्तःक्षिप्तपञ्चरत्नं निर्म्मल-
जलपूर्णं दृढकलसं अक्षतानामुपरि ॐ आजिघ्र
कलसमित्यादिमन्त्रेण स्थापयेत् । तत्र वरुणस्यो-
त्तम्भनमसीति बरुणं न्यसेत् ।
“ॐ गङ्गाद्याः सरितः सर्व्वाः समुद्राश्च सरांसि
च ।
सर्व्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ।
आयान्तु यजमानस्य दुरितक्षयकारकाः ॥”
इति तीर्थानि च न्यसेत् । तत्रैव कलसे अश्व-
स्थानाद्गजस्थानात् बल्मीकात् सङ्गमात् ह्रदात् ।
गोकुलात् रथ्याया आनीय सप्त मृदः क्षिपेत् ॥
सर्व्वौषधीश्च ॥ * ॥ ततश्चरुश्रपणं कुर्य्यात् ।
अग्नेरुत्तरे द्व्यङ्गुलविस्ताराग्रां प्रादेशपरिमि-
तोडम्बरनिर्म्मितदर्व्वीं सार्द्धाङ्गुष्ठविस्ताराग्र-
प्रादेशपरिमितोडुम्बरनिर्म्मितमेक्षणं चरुस्थार्ला
आज्यस्थाली उदूखलमुषले स्रुवं पूर्णहोमार्थं
स्रुचं समिधं आज्यादीनि उदगग्राणि प्राञ्चं
प्राञ्चं विनियोगक्रमेणासादयति । संस्थाप्य
यवान् ब्रीहीन् वा तदभावे तण्डुलान् शूर्पे
निधाय । सामगः । ॐ विष्णवे त्वा जुष्टं निर्व्व-
पामि । इति यवादिप्रसृतिमेकां चरुस्थाल्यां
कृत्वा उदूखलमध्ये स्थापयेत् । यजुर्व्वेदी तु
ॐ विष्णवे त्वा जुष्टं गृह्णामि ॐ विष्णवे त्वा
जुष्टं निर्व्वपामि चमसस्थजलेन ॐ विष्णवे त्वा
जुष्टं प्रोक्षामीति त्रयं कुर्य्यात् । ऋग्वेदी तु ॐ
विष्णवे त्वा जुष्टं निर्व्वपामि ॐ विष्णवे त्वा
जुष्टं प्रोक्षामीति निर्व्वापप्रोक्षणमात्रम् । यस्य
गृहप्रतिष्ठा तस्यादौ जुष्टग्रहणम् । एवं सर्व्वत्र ।
एवमग्न्यादिषु । ॐ अग्नये त्वा जुष्टं निर्व्वपामि
एवं वायवे सूर्य्याय द्विः विष्णवे द्विः अग्नये
वायवे पुनरग्नये वरुणाय पुनरपि अग्नये
सूर्य्याय प्रजापतये अन्तरीक्षाय द्यवे ब्रह्मणे
पृथिव्यै महाराजाय सोमाय इन्द्राय अग्नये
यमाय नैरृताय वरुणाय वायवे कुवेराय
ईशानाय ब्रह्मणे अनन्ताय आदित्याय सोमाय
मङ्गलाय बुधाय बृहस्पतये शुक्राय शनैश्चराय
राहवे केतुम्य इत्थं नवत्रिंशत् प्रसृतीः स्थाप-
येत् । द्विस्तूष्णीं उपरिकृतदक्षिणवाममुष्टिभ्यां
मुषलेनावहत्य शूर्पेण प्रस्फोटयेत् । एवमपर-
वारद्वयमवहत्य शूर्पेण प्रस्फोटयेत् । तथा कर्त्तव्यं
यथा वारत्रयेण तण्डुलनिष्पत्तिर्भवति । तदशक्तौ
संस्कारमात्रार्थं तण्डुलेष्वेवम् । ततस्तण्डुलान्
त्रिः प्रक्षाल्य चरुस्थाल्याममन्त्रकं कृतोत्तराग्रं
पवित्रं निःक्षिप्य तत्र तण्डुलान् निधाय कपि-
लाया दुग्धं निःक्षिप्य तदभावे अन्यधेनो-
र्दुग्धं निःक्षिप्य दर्व्व्यां प्रागादिप्रदक्षिणमीष-
दूर्द्ध्वमवघट्टयंस्तथा पचेत् यथा दाहकाठिन्याति-
शैथिल्यमण्डगालनरहितोऽन्तरुष्मपक्वश्चरुर्भवति
ज्वलदुल्मुकेन स्थालीमध्यस्थं चरुं दृष्ट्वा ॐ
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः
दिर्वाव चक्षुराततमित्यनेन मन्त्रेणं ओमित्यनेन
च घृतेन सिक्त्वा दर्व्व्या दक्षिणावर्त्तेन संमिश्र-
येत् । ततोऽग्नेरुत्तरतोऽवतार्य्य पुनर्ज्वलदुल्मु-
केन स्थालीमध्यस्थं दृष्ट्वा पुनर्घृतेनाभिधारयेत् ।
ततः पर्य्युक्षणान्तां कुशण्डिकां समाप्य सामगस्तु
काम्यकर्म्माङ्गत्वेन तपश्च तेजश्च श्रद्धा च ह्रीश्च
सत्यञ्चाक्रोधश्च त्यागश्च धृतिश्च धर्म्मश्च सत्त्वञ्च
वाक् च मनश्चात्मा च ब्रह्म च तानि प्रपद्ये
तानि मामवन्तु । इति जपित्वा विरूपाक्षजपं
कुर्य्यात् । ततः प्रकृते कर्म्मणि ।
“ॐ पिङ्गभ्रूश्मश्रुकेशाक्षः पीनाङ्गजठरोऽरुणः ।
छागस्थः साक्षसूत्रोऽग्निः सप्तार्च्चिः शक्ति-
धारकः ॥”
इत्यादित्यपुराणीयं ध्यात्वा विष्णुवेश्मप्रतिष्ठा-
कर्म्मणि अग्ने त्वं साहसनामासीति नाम कृत्वा-
वाह्य संपूज्य प्रादेशप्रमाणां घृताक्तां समिघं
तूष्णीमग्नौ हुत्वा मेक्षणेन चरुं गृहीत्वा ॐ तद्बि-
ष्णोरित्यादिस्वाहान्तेन जुहुयात् सर्व्वत्र साम-
गानां मन्त्रान्ते देवतोद्देशो नास्ति । अन्येषां
इदं विष्णवे इति । ॐ भूः स्वाहा इदमग्नये ॐ
भुवः स्वाहा इदं वायवे ॐ स्वः स्वाहा इदं
सूर्य्याय ॐ भूर्भवः स्वः तत् सवितुर्व्वरेण्यं भर्गो
देवस्य धीमहि । धियो यो नः प्रचोदयात्
स्वाहा इदं सूर्य्याय । ॐ तद्विप्रासो विपन्यवो
जागृवांसः समिन्धते विष्णोर्यत् परमं पदं स्वाहा
इदं विष्णवे । ॐ विश्वतश्चक्षुरुत विश्वतो मुखो
विश्वतो बाहुरुत विश्वतस्पात् संबाहुभ्यां धमति
संपतत्रैर्द्यावा भूमी जनयन् देव एकः स्वाहा
इदं विष्णवे । ॐ अग्निमीले पुरोहितं यज्ञस्य
देवमृत्विजं होतारं रत्नधातमं स्वाहा इद-
मग्नये । ॐ इषेत्वोर्जेत्वा वायवस्थदेवो वः
सविता प्रार्पयतु श्रेष्ठतमाय कर्म्मणे स्वाहा इदं
वायवे । ॐ अग्न आयाहि वीतये गृणानो
हव्यदातये निहोता सत्सि बर्हिषि स्वाहा
इदमग्नये । ॐ शन्नो देवीरभीष्टये शन्नो भवन्तु
पीतये शंयोरभिस्रवस्तु नः स्वाहा इदं वरुणाय ।
ॐ भूरग्नये स्वाहा ॐ सूर्य्याय स्वाहा ॐ
प्रजापतये स्वाहा ॐ अन्तरीक्षाय स्वाहा ॐ
द्यौः स्वाहा ॐ ब्रह्मणे स्वाहा ॐ पृथिव्यै स्वाहा
ॐ महाराजाय स्वाहा एष्वपि सामगेतरै-
स्तत्तद्देवतोद्देशः पश्चात् कार्य्यः । ॐ सोमं
राजानं वरुणमग्निमन्वारभामहे आदित्यं
विष्णुं सूर्य्यं ब्रह्माणञ्च बृहस्पतिं स्वाहा इदं
सोमाय ॥ * ॥ ततो दिक्पालहोमः । ॐ
त्रातारमिन्द्रमवितारमिन्द्रं हवे हवे सुहवं
सूरमिन्द्रं ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्तिनो
मघवा धात्विन्द्रः स्वाहा इदमिन्द्राय । ॐ
अग्निं दूतं वृणीमहे होतारं विश्ववेदसं अस्य
यज्ञस्य सुक्रतुं स्वाहा इदमग्नये । ॐ नाके
सुपर्णमुपयत् पतन्तं हृदावेनन्तो अभ्यचक्षत
त्वा हिरण्यपक्षं वरुणस्य दूतं यमस्य योनी
शकुनं भुरण्यं स्वाहा इदं यमाय । ॐ वेत्था
हि निरृतीनां वज्रहस्तः परिव्रजं अहरहः
सिन्धुपरिपदामिव स्वाहा इदं निरृताय ।
ॐ घृतवती भुवनानामभिश्रियोर्व्वी पृथ्वी मधु-
दुधे सुपेशसा द्यावा पृथिवी वरुणस्य धर्म्मणा
विष्कभिते अजरे भूरिरेतसा स्वाहा इदं वरु-
णाय । ॐ वात आवातु भेषजं शम्भुमयो भुनो
हृदे प्रण आयूंषि तारिषत् स्वाहा इदं
वायवे । ॐ सोमं राजानं वरुणमग्निमन्वा-
रभामहे आदित्यं विष्णुं सूर्य्यं ब्रह्माणञ्च बृह-
स्पतिं स्वाहा इदं सोमाय । ॐ अभित्वा
शूरणोनुमोऽदुग्धा इव धेनवः । ईशानमस्य
जगतः स्वर्दुशमीशानमिन्द्र तस्थुषः स्वाहा इद-
मीशानाय । ॐ ब्रह्म यज्ज्ञानं प्रथमं पुर-
स्ताद्विसीमतः सुरुचो वेण आवः । सुबुध्न्या
उग्रमा अस्य विष्ठाः सतश्च योनिमसतश्च
विवः स्वाहा इदं ब्रह्मणे । ॐ चर्षणीधृतं मघ-
वानमुक्थ्यामिन्द्रं गिरो बृहतीरभ्यनूषत वावृ-
धानं पुरुहूतं सुवृक्तिभिरमर्त्यं जवमानं दिवे
दिवे स्वाहा । इदमनन्ताय । इति सामगो
जुहुयात् । तत्तद्देवतोद्देशस्तु न कर्त्तव्यः । तत्तद्-
देवताप्रकाशनाय च देवताविशेषा उक्ताः ॥ * ॥
यजुर्व्वेदी तु । ॐ त्रातारमिन्द्रमवितारमिन्द्रँ
हवे हवे सुहवँ सूरमिन्द्रं हुवनु शक्रं पुरुहूत
मिन्द्रँ स्वस्तिनो मघवा धात्विन्द्रः स्वाहा इद-
मिन्द्राय । ॐ वैश्वानरो न उतय आप्रयातु परा-
वतः अग्निरुक्थेन वाहसा उपयामगृहीतोऽसि
वैश्वानराय द्बैषते योनिर्व्वैश्वानराय त्वा स्वाहा
इदमग्नये । ॐ असियमोऽस्यादित्योऽर्व्वन्नसि-
त्रितो गुह्येन व्रतेन असि सोमेन समयाविपृक्त
आहुस्ते त्रीणि दिवि बन्धनानि स्वाहा इदं
यमाय । ॐ यस्ते देवी निरृ तिराबबन्ध पाशं
ग्रीवासु विश्रुत्यं तन्ते विषाम्यायुषो न मध्या-
दथैतं पित्तमद्धि प्रसूतः । नमी भूत्यै एदञ्च-
कारस्वाहा । इदं निरृतये । शाखान्तरे
तु ॐ यत्ते देवी निरृ तिराबबन्ध दासग्रीवा
स्वविच श्रर्त्यं इदन्ते तद्विष्यामायुषो न मध्या-
दथा जीवः पितुमद्धिप्रमुक्त स्वाहा इदं निरृ-
तये । ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भ-
सर्जनीस्थः वरुणस्य ऋतसदन्यसि वरुणस्य
ऋतसदनमसि वरुणस्य ऋतसदनी मासीद
स्वाहा इदं वरुणाय । ॐ वातो वावो मनो
वा गन्धर्व्वाः सप्तविंशतिस्तेऽग्रे समयुञ्जँस्ते-
ऽस्मिन् यवमादधुः स्वाहा इदं वायवे । ॐ
कुविदङ्गथवमन्तो यवञ्चिद्यथा दान्त्यनुपूर्ब्बं
वियूयम् । इहे हैषां कृणुहि भोजनानि ये
बर्हिषो नम उक्तिं न जग्मुः स्वाहा इदं कुवे-
राय । ॐ तमीशानं जगतस्तस्थुषस्पतिं धियं
जिन्नमवसे हूमहे वयम् । पूषाणो यथा वेद-
सामसद्वृधे रक्षिता पायुरदब्धस्वस्तये स्वाहा
इदमीशानाय । ॐ आब्रह्मन् ब्राह्मणो ब्रह्म-
वर्च्चसी जायता माराष्ट्रे राजन्य शूर इषव्योति
व्याधी महारथो जायतां स्वाहा इदं ब्रह्मणे ।
ॐ नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु ये
अन्तरीक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः स्वाहा
इदमनन्ताय ॥ * ॥ ऋग्वेदी तु । ॐ त्रातार-
मिन्द्रमवितारमिन्द्रं हवे हवे सुहवं सूरमिन्द्रं
ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा
धात्विन्द्रः स्वाहा इदमिन्द्राय । ॐ अग्निं दूतं
पुरोदधे हव्यवाहमुपब्रुवे देवा आसादयादिह
स्वाहा इदमग्नये । ॐ यमाय सोमं सुतनुत
यमाय जुहुता हविः यमं ह यज्ञो गच्छत्यग्नि-
दूतो अरं कृतः स्वाहा इदं यमाय । ॐ एषते
निरृतेर्भागस्तं जुषस्व स्वाहा अग्निनेत्रेभ्यो
देवेभ्यः पुरः सद्भ्यः स्वाहा यमनेत्रेभ्यो दक्षिणा-
सद्भ्यः विश्वदेवनेत्रेभ्यः देवेभ्यः स्वाहा पश्चात्
सद्भ्यः स्वाहा मित्रावरुणनेत्रेभ्यो देवामादा-
वय्य उषरा सद्भ्यः स्वाहा सोमनेत्रेभ्यो देवेभ्य
उपविशद्भ्यो दुरः सद्भ्यः स्वाहा इदं निरृ-
ताय । आश्वलायनशाखायान्तु ॐ मोषुणः
परापरा निरृ तिर्दुर्हनावधीत् । पदीष्ट तृष्णया
सह स्वाहा इदं नैरृ ताय । ॐ तत्वायामि
ब्रह्मणा बन्दमानस्तदाशास्ते यजमानो
हविर्भिः । अहेडमानो वरुणे हवोध्युरुशं
समान आयुः प्रमोषी स्वाहा इदं वरुणाय ।
ॐ वातो वावो मनो वा गन्धर्व्वाः सप्तविंशति-
स्तेग्रेऽश्वमयुञ्जँस्तेऽस्मिन् यवमादधुः स्वाहा ।
इदं वायवे । आश्वलायनशाखायान्तु ॐ तव
वाय वृतस्यते त्वष्टुर्ज्जामातरद्भुत । अवांस्या
वृणीमहे स्वाहा इदं वायवे । ॐ कुविदङ्गयव-
मन्तो यवञ्चिद्यथा दान्त्यनुपूर्ब्बं वियूय इहे
हैषां कृणुहि भोजनानि ये बर्हिषो नमो वृक्तिं
न जग्मुः स्वाहा इदं कुवेराय । ॐ तमीशानं
जगतस्तस्थुषस्पतिं धियं जिन्नमवसे हूमहे वयं
पूषाणो यथा वेद सामसद्वृधे रक्षिता पायुर-
दब्धस्वस्तये स्वाहा इदमीशानाय । ॐ ब्रह्म
यज्ज्ञानं प्रथमं पुरस्ताद्विषीमत सुरुचो वेण
आवः स्वबुध्न्या उपमा अस्य विष्ठाः सतश्च
योनिमसतश्च विवः स्वाहा इदं ब्रह्मणे । ॐ
नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु येऽन्त-
रीक्षे ये दिवि तेभ्यः सर्पेभ्यो नम स्वाहा इद-
मनन्ताय ॥ * ॥ ततो नवग्रहहोमः । ॐ आकृ-
ष्णेन रजसा वर्त्तमानो निवेशयन्नमृतं मर्त्त्यञ्च
हिरण्ययेन सविता रथेना देवो याति भुवनानि
पश्यन् स्वाहा । ॐ आप्यायस्व समेतु ते विश्वतः
सोमवृष्ट्यं भवावाजस्य सङ्गथे स्वाहा । ॐ अग्नि-
र्मूर्द्धा दिवः ककुत्पतिः पृथिव्या अयं अपाँ
रेतां£सि जिन्नति स्वाहा । ॐ अग्ने विवस्वदुषस
श्चित्रं राधोऽमर्त्य आदाशुषे जातवेदो वहा
त्वमद्या देवां उषर्व्वुधः स्वाहा । ॐ बृहस्पते
परिदीया रथेन रक्षोहा मित्रां अपबाधमानः
प्रभञ्जत्सेना प्रमृणो युधा यजन्नस्माकमेध्यविता
रथानां स्वाहा । ॐ शुक्रन्तेऽन्यद्यजन्ते अन्य-
द्बिषुरूपे अहनी द्यौरिवासि विश्वा हि माया
अवसि स्वधावन् भद्राते पूषन्निह रातिरस्तु
स्वाहा । ॐ शन्नो देवीरभीष्टये शन्नो भवन्तु
पीतये शंयोरभिस्रवन्तु नः स्वाहा । ॐ कयान-
श्चित्र आभुव दूती सदा वृधः सखा कया
सचिष्ठया वृता स्वाहा । ॐ केतुं कृन्नन्नकेतवे
पेशो मर्य्या अपेशसे समुसद्भिरजायथाः स्वाहा ।
यजुर्व्वेदी तु । ॐ आकृष्णेनेत्यादि इदं सूर्य्याय ।
ॐ इमं देवा असपत्नँ सुबद्धं महते क्षत्त्राय
महते ज्यैष्ठाय इमममुममुष्य पुत्त्रममुष्याः
पुत्त्रमस्यै विशे स्वाहा । इदं सोमाय । ॐ
अग्निर्मूद्धा दिवः ककुत्पतिः पृथिव्या अयं
अपां£ रेतां£सि जिन्नति स्वाहा । इदं मङ्ग-
लाय । ॐ उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमि-
ष्टापूर्त्ते सं£सृजेथामयञ्च । अस्मिन् सधस्थे
अध्युत्तरस्मिन् विश्वेदेवा यजमानश्च सीदत
स्वाहा । इदं बुधाय । ॐ बृहस्पते अति यदर्य्यो
अर्हाद्युमद्विभाति क्रतुमज्जनेषु । यद्दीदषच्छरस
पृष्ठ ३/५७३
ऋत प्रजात तदस्मामु द्रविणं धेहि चित्रं£
स्वाहा । इदं बृहस्पतये । ॐ अन्नात् परिश्रुतो
रसं ब्रह्मणा व्यपिबत् क्षत्त्रं पयःसोमं प्रजा-
पतिः । ऋतेन सत्यमिन्द्रियं विपानं£ शुक्र-
मन्धसः । इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु
स्वाहा । इदं शुक्राय । ॐ शन्नो देवीरभीष्ठये
आपो भवन्तु पीतये शंयोरभिस्रवन्तु नः स्वाहा ।
इदं शनैश्चराय । ॐ काण्डात् काण्डात् प्ररो-
हन्ती परुषः परुषः परि एवानो दूर्व्वे प्रतनु
सहस्रेण शतेन च स्वाहा । इदं राहवे । ॐ
केतुं कृन्नन्नकेतवे पेषो मर्य्या अपेशसे समुसद्भि-
रजायथाः स्वाहा । इदं केतुभ्यः । ऋग्वेदी तु
एभिरेव मन्त्रैर्जुहुयात् ॥ * ॥ ततो मेक्षणमग्नौ
प्रक्षिपेत् । एवं चरुहोमं समाप्य चरुशेषेण
दिग्भ्यो बलिन्दद्यात् । तद्यथा । एष पायस-
वलिः ॐ प्राच्यै दिशे नमः । एवमाग्नेय्यै अवाच्यै
निरृत्यै प्रतीच्यै वायव्यै उदीच्यै ऐशान्यै ऊर्द्ध्व-
दिशे अधोदिशे ॥ * ॥ ततो घृताक्तपलाश-
समिधा अष्टोत्तरशतं जुहुयादनेन मन्त्रेण । ॐ
तद्विष्णोरित्यादि स्वाहा इदं विष्णवे । ततः
पूर्ब्बोक्तैश्चरुहोममन्त्रैस्तत्तद्देवताभ्यः स्रुवेणा-
ज्याहुतीर्जुहुयात् । तत आज्येन पुरुषसूक्त-
नवभिर्म्मन्त्रैः सामगो जुहुयात् । यथा । ॐ
इदं विष्णुर्विचक्रमे त्रेधा निदधे पदं स मूढमस्य
पांशुले स्वाहा । १ । ॐ प्रक्षस्य विष्णो अरु-
षस्य नूसहः प्रणवोचं विदथा जातवेदसः
वैश्वानराय मतिर्नव्यसि शुचिः सोम इव पवते
चारुरग्नये स्वाहा । २ । ॐ प्रकाव्यमुषणेव
ब्रुवाणो देवो देवानां जनिमा विवक्ति महिव्रतः
शुचिबन्धुः पावकः पदा वराहो त्येति रेतन्
स्वाहा । ३ । ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः
सहस्रपात् । स भूमिं सर्व्वतो वृत्वा अत्यतिष्ठ-
द्दशाङ्गुलं स्वाहा । ४ । ॐ त्रिपादूर्द्ध्वमुदेत्
पुरुषः पादोऽस्येहाभवत् पुनः । ततो विश्वं
व्यक्रामत् शासनानशने अभि स्वाहा । ५ ।
ॐ पुरुष एवेदं सर्व्वं यद्भूतं यच्च भव्यं उतामृत
त्वस्येशानो यदन्नेनातिरोहति स्वाहा । ६ ।
ॐ एतावानस्य महिमातो ज्यायांश्च पुरुषः
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं
दिवि स्वाहा । ७ । ॐ ततो विराडजायत
विराजो अधिपूरुषः । स जातो अत्यरिच्यत
पश्चाद्भूमिमथो पुरः स्वाहा । ८ । ॐ कयान-
श्चित्र आभुवदूती सदा वृधः सखा कया सचि
ष्ठया वृता स्वाहा । ९ । * । यजुर्व्वेदी तु ।
षोडशोपचारपूजोक्तपुरुषसूक्तषोडशमन्त्रैरा-
ज्येन षोडशाहुतीर्जुहुयात् । ऋग्वेदिनाम-
प्येवम् ॥ * ॥ तत आज्यमिश्रितान् तिलान्
गृहीत्वा ॐ इरावती धेनुमती हि भूतं सूयव-
सिनी मन वेदशस्या व्यस्तभ्ना रोदसी विष्णु-
रेतेराधत्त पृथिवीमभितो मयूखैः स्वाहा । इदं
विष्णवे । इति सकृत् जुहुयात् । ॐ ब्रह्मानु-
यायिभ्यः स्वाहा । ॐ विष्ण्वनुयायिभ्यः स्वाहा ।
ॐ ईशानानुयायिभ्यः स्वाहा । एवं पूर्ब्बोक्तै-
र्नवग्रहमन्त्रैर्दशदिक्पालमन्त्रैश्च सकृत् सकृत्
जुहुयात् । एवं पर्व्वतेभ्यः स्वाहा । ॐ नदीभ्यः
स्वाहा । ॐ समुद्रेभ्यः स्वाहा । एवं तिल-
होमं समाप्य स्रुवेण महाव्याहृतिभिराज्यं
जुहुयात् । * । ततः प्रायश्चित्तहोमसङ्कल्पं
कृत्वा ॐ अग्ने त्वं विधुनामासीति नाम कृत्वा
आवाह्य पूजयित्वा परिभाषासिद्धं स्वशाखोक्तं
प्रायश्चित्तहोमादि कृत्वा पूर्णाहुत्यां मृडनामा-
नमग्निं पूजयित्वा घृतपूर्णस्रुचा उत्थाय यज-
मानेनान्वारब्धः ॐ तद्विष्णोः परममित्यादि
वौषट् इत्युच्चार्य्य पूर्णाहुतित्रयं दद्यात् । तत
आचारात् ऐशान्यां पृथ्वि त्वं शीतला भव
इत्युच्चार्य्य दुग्धादि क्षिप्त्वा स्रुवलग्नभस्मना ॐ
कश्यपस्य त्र्यायुषं इति शिरसि । ॐ यमदग्ने
स्त्र्यायुषं कण्ठे । ॐ यद्देवानां त्र्यायुषं बाहु-
मूलयोः । ॐ तन्मेऽस्तु त्र्यायुषं हृदि । अन्य-
कर्त्तृकपक्षे तु तत्तेऽस्तु त्र्यायुषमिति विशेषः ।
ततो यजमानः पञ्चगव्यं चरुशेषञ्च प्राश्य घ्रात्वा
वा पूर्णपात्रादिकां दक्षिणां ब्रह्मणे दद्यात् ततो
हेमयुक्तं सवस्त्रतिलपात्रं अलङ्कृतगवीं तन्मूल्यं
वा एतद्धोमकर्म्मप्रतिष्ठार्थमाचार्य्याय दद्यात् ।
अन्यहोतृपक्षे होत्रे दद्यात् । एतत्कृतकर्म्मणा
प्रीयतां भगवान् विष्णुरिति विष्णवे समर्पयेत् । * ।
ततः प्रासादसम्मुखे ॐ उत्तिष्ठ ब्रह्मणस्पते देवा
यजन्तस्ते महे उपप्रयान्तु मरुतः सुदानव इन्द्रः
प्राशुर्भवासचा इतिमन्त्रेण देवतामानीय विष्णु-
गृहस्य सम्मुखे गरुडं शिवगृहस्य वृषं दुर्गा-
गृहस्य सिंहं स्थापयेत् । ततो गन्धमाल्यवस्त्रा
दिना स्थपतिं परितोष्य ॐ इदं विष्णुर्विचक्रमे
इत्यादि पठित्वा ॐ चक्राय नम इति चक्रं
संपूज्य गृहोपरि यथायोग्यं चक्रादिकं विन्यस्य
गृहं वस्त्रेणाच्छाद्य गृहद्वारानुरूपं तोरणं
विधाय गृहानुरूपघण्टाचामरकिङ्किणीजाल-
वर्हिपत्रोपेतं सवस्त्रयष्टिसमेतं ध्वजं गृहस्येशान-
कोणे वायुकोणे वा स्थापयेत् । * । ततो विष्णुं
शालग्रामादौ यथार्हं गृहसमीपे नीत्वा पञ्चविं-
शतिघटैर्नारिकेलोदकैः पञ्चगव्यपञ्चामृतैस्तीर्थो-
दकैः स्नानं कारयित्वा षोडशोपचारादिभिः
पूजयेत् । वक्ष्यमाणमन्त्राणां पौराणिकत्वेन
शूद्राणामप्यधिकारः । अत्रार्घ्यपात्राम्भसा
प्रोक्षितं आसनं गृहीत्वा इदमासनं ॐ सर्व्वा-
न्तर्यामिणे देव सर्व्वबीजमयं ततम् । आत्मस्थाय
परं शुद्धमासनं कल्पयाम्यहम् ॥ ॐ विष्णवे
नम इति मूलेन दद्यात् १ । ततः कृताञ्जलिः ।
“ॐ यस्य दर्शनमिच्छन्ति देवाः स्वाभीष्टसिद्धये ।
तस्मै ते परमेशाय स्वागतं स्वागतञ्च मे ॥
कृतार्थोऽनुगृहीतोऽस्मि सफलं जीवितं मम ।
आगतो देवदेवेश ! सुस्वागतमिदं वपुः ॥”
विष्णो स्वागतमिति स्वागतप्रश्नः २ । ताम्र-
पात्रस्थं श्यामाकदूर्व्वापद्मापराजितायुक्तजलं
गृहीत्वा ।
“ॐ यद्भक्तिलेशसम्पर्कात् परमानन्दसम्भवः ।
तस्मै ते चरणाब्जाय पाद्यं शुद्धाय कल्पये ॥”
इत्युच्चार्य्य मूलेन पादयोर्द्दद्यात् ३ । इदमासन-
मितीव मन्त्रस्य पूर्ब्बमेतत् पाद्यमिति प्रयोज्य-
मेवमुत्तरत्र यथायोग्यमुल्लेखः । गन्धपुष्पाक्षत-
यवकुशाग्रतिलश्वेतसर्षपदूर्व्वात्मकं अर्घ्यं शङ्खस्थं
गृहीत्वा ।
“ॐ तापत्रयहरं दिव्यं परमानन्दलक्षणम् ।
तापत्रयविनिर्मुक्तं तवार्घ्यं कल्पयाम्यहम् ॥”
इति मूलेन शिरसि दद्यात् ४ । जातीलवङ्ग-
कक्कोलयुक्तं केवलं वा जलं गृहीत्वा ।
“ॐ देवानामपि देवाय देवानां देवतात्मने ।
आचामं कल्पयामीश शुद्धानां शुद्धिहेतवे ॥”
इति मूलेन दद्यात् ५ । कांस्यस्थं दधिमधुघृता-
त्मकं कांस्यपिहितं मधुपर्कं गृहीत्वा ।
“ॐ सर्व्वकल्मषहीनाय परिपूर्णसुखात्मने ।
मधुपर्कमिमं देव कल्पयामि प्रसीद मे ॥”
इति मूलेन दद्यात् ६ । पुनराचमनीयं गृहीत्वा ।
“ॐ उच्छिष्टोऽप्यशुचिर्वापि यस्य स्मरणमात्रतः ।
शुद्धिमाप्नोति तस्मै ते पुनराचमनीयकम् ॥”
इति मूलेन दद्यात् ७ । लौकिकषष्ट्यधिकशत-
त्रयतोलकान्यूनं तीर्थजलं गृहीत्वा ।
“ॐ परमानन्दबोधाब्धिनिमग्ननिजमूर्त्तये ।
साङ्गोपाङ्गमिदं स्नानं कल्पयाम्यहमीश ते ॥”
ॐ तद्विष्णोरिति मूलेन दद्यात् ८ । पूर्ब्बरीत्या
पुनराचमनीयञ्च दद्यात् । अर्घ्याम्भसा प्रोक्षितं
वस्त्रं गृहीत्वा ।
“ॐ मायाचित्रपटच्छन्ननिजगुह्योरुतेजसे ।
निरावरणविज्ञाय वासस्ते कल्पयाम्यहम् ॥”
इति मूलेन दद्यात् ९ । उत्तरीयवस्त्रं गृहीत्वा ।
“ॐ यमाश्रित्य महामाया जगत्संमोहिनी
सदा ।
तस्मै ते परमेशाय कल्पयाम्युत्तरीयकम् ॥”
इति मूलेन दद्यात् ९ । ततः पूर्ब्बवत् पुनराच-
मनीयञ्च दद्यात् । सुवर्णाद्याभरणमर्ध्याम्भसा
प्रोक्ष्य ।
“ॐ स्वभावसुन्दराङ्गाय नानाशक्त्याश्रयाय ते ।
भूषणानि विचित्राणि कल्पयाम्यमरार्च्चित ॥”
इति मूलेन दद्यात् १० । प्रोक्षितं गन्धं गृहीत्वा ।
“ॐ परमानन्दसौरभ्यपरिपूर्णदिगन्तर ।
गृहाण परमं गन्धं कृपया परमेश्वर ॥”
इति मूलेन दद्यात् ११ । तत्तद्देवताप्रियपुष्प-
मादाय ।
“ॐ तुरीयवनसम्भूतं नानागुणमनोहरम् ।
आनन्दसौरभं पुष्पं गृह्यतां परमेश्वर ॥”
इति मूलेन दद्यात् १२ । धूपं प्रोक्ष्य घण्टां
संपूज्य ।
“ॐ वनस्पतिरसो दिव्यो गन्धाढ्यः सुमनोहरः ।
आघ्रेयः सर्व्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥”
इत्युञ्चार्य्य वामहस्तेन घण्टां वादयन् मूलेन
दद्यात् १३ । ततो घृतादिप्रदीपमादाय ।
“ॐ सुप्रकाशो महादीपः सर्व्वतस्तिमिरापहः ।
पृष्ठ ३/५७४
सवाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ॥”
इति मूलेन दद्यात् १४ । प्रोक्षितनानाविध-
नैवेद्योपरि मत्स्यमुद्रया मूलं दशधा जप्त्वा-
भ्यर्च्च्य धेनुमुद्रयामृतीकृत्य ।
“ॐ सत्पात्रसिद्धं सुहविर्विविधानेकभक्षणम् ।
निवेदयामि देवेश सानुगाय गृहाण तत् ॥”
इति मूलेन दद्यात् १५ । जलमादाय ।
“ॐ समस्तदेवदेवेश सर्व्वतृप्तिकरं परम् ।
अखण्डानन्दसम्पूर्ण गृहाण जलमुत्तमम् ॥”
इति मूलेन दद्यात् १५ । पूर्ब्बवत् पुनराच-
मनीयञ्च । ताम्बूलं गृहीत्वा ।
“ॐ ताम्बूलं देवदेवेश कर्पूरादिसुवासितम् ।
कल्पयामि तवेशान वदनाम्भोजभूषणम् ॥”
इति मूलेन दद्यात् १५ । ततस्तत्तद्देवतानम-
स्कारमन्त्रैर्बन्दनं कुर्य्यात् । १६ । उपचारद्रव्या-
धारदाने साधारत्वेनोल्लेखः पृथग्वा तद्दानम् । * ।
तत ॐ विष्णवे नमः इति त्रिः संपूज्य घण्टा-
वितानतोरणयुक्तं वस्त्रादिच्छादितं वेश्म प्रोक्ष्य
ॐ विष्णवे नमः इति त्रिः संपूज्य ॐ तद्विष्णो-
रित्यनेन विष्णुं स्मृत्वा ॐ तत् सदित्युच्चार्य्य
वामहस्तेन धृत्वा कुशतिलजलान्यादाय अद्ये-
त्यादि अमुकगोत्रः श्रीअमुकदेवशर्म्मा एतत्तृण-
काष्ठादिमयवेश्मपरमाणुसमसंख्यवर्षसहस्राव-
च्छिन्नस्वर्गलोकमहितत्वकामः श्रीविष्णुप्रीति-
कामो वा एतत्तृणकाष्ठादिमयवेश्म विष्णुदैवतं
विष्णवे तुभ्यमहं सम्प्रददे । इत्युत्सृजेत् । इष्ट-
कादिमये तु एतदिष्टकादिमयवेश्मपरमाणुसम-
संख्यवर्षसहस्रदशगुणकालावच्छिन्नस्वर्गलोक-
महितत्वकाम एतदिष्टकादीतिविशेषः । एतत्-
प्रतिष्ठार्थं सुवर्णं तन्मूल्यं वा दक्षिणां विष्णवे
दद्यात् । पश्चादाचार्य्यादौ प्रतिपत्तिः । * ।
ततो देवं स्वयं गृहीत्वा गृहप्रदक्षिणं कारयित्वा
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्ये-
माक्षिभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवांसस्तनुभिर्व्य-
सेम देवहितं यदायुः । इत्यनेनाभिमन्त्रितं देवं
गृहं प्रवेशयेत् । ॐ देवस्य त्वा सवितुः प्रसवे-
ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां हस्तमाददे
इति मन्त्रेण पिण्डिकोपरि न्यसेत् । ॐ स्थिरो
भव वीड्डङ्ग आशुर्भव वाह्यर्व्वन् पृथुर्भव सुसदस्त्व-
मग्ने पुरीषवाहनः । इत्यनेन स्थिरीकुर्य्यात् ।
पुनर्देवं संपूज्य यथाशक्ति चामरघण्टावितान-
गोहिरण्यग्रामवाद्यभाण्डादिकं दद्यात् । तत
ॐ यावद्धराधरो देवो यावत्तिष्ठति मेदिनी ।
तावदत्र जगन्नाथ सन्निधीभव केशव ॥ इति
मन्त्रं पठेत् । ततो ध्वजसमीपं गत्वा संप्रोक्ष्य
तमारोपयेदनेन मन्त्रेण ॐ एह्येहि भगवन्नी-
श्वरविनिर्म्मित उपरिचरवायुमार्गानुसारिन्
श्रीकर श्रीनिवास रिपुध्वंसकर सुजनाधिलय
सर्व्वदेवतासम्मत कुरु शान्तिं स्वस्त्ययनञ्च मे
भवतु सर्व्वविघ्नान् हर हर स्वाहा ॐ ध्वजाय
नम इति ध्वजं संपूज्य ॐ विष्णवे नम इति
त्रिरभ्यर्च्च्य ध्वजं संप्रोक्ष्य वामहस्तेन स्पृष्ट्वा
अद्येत्यादि अमुकगोत्रः श्रीअमुकदेवशर्म्मा
महापातकादिबहुपापक्षयकामो विष्णुप्रीति-
कामो वा विष्णुवेश्मनि इमं ध्वजं विष्णुदैवतं
विष्णवे तुभ्यमहं सम्प्रददे । इत्युत्सृज्य एतत्-
प्रतिष्ठार्थं दक्षिणां विष्णवे दद्यात् । पश्चादा-
चार्य्यादौ प्रतिपत्तिः । ततो गरुडस्तम्भं समा-
रोप्य ॐ सुपर्णोऽसि गरुत्मांस्त्रिवृत्ते शिरो
गायत्त्र्यं चक्षुर्बृहद्रथन्तरे पक्षौ । स्तोम आत्मा
छन्दांस्यङ्गानि यजूंषि नाम सामते तनुर्वाम-
देव्यं यज्ञायज्ञियं पुच्छं धिष्ट्याश्च शफाः सुप-
र्णोऽसि गरुत्मान्दिवं गच्छ स्वःपते ॥ यजु-
र्वेदी तु । ॐ सुपर्णोऽसि गरुत्मान् त्रिवृत्ते
शिरो गायत्त्रं चक्षुस्तोम आत्मा साम ते तनू-
र्वामदेव्यं बृहद्रथन्तरे पक्षौ यज्ञायज्ञियं पुच्छं
छन्दांस्यङ्गानि धिष्णियाः शफाः यजूं£षि नाम ।
सुपर्णोऽसि गरुत्मान्दिवं गच्छ सुरः पत इति
पठित्वा । ॐ गरुडाय नम इति त्रिःसंपूज्य
ॐ नमस्ते पतगश्रेष्ठ पन्नगान्तकर प्रभो । त्वत्-
प्रसादान्महाबाहो मोदेयं दिवि देववत् ॥
यथा त्वं संपुटकरः सततं नतकन्धरः । तथैव
पुरतो विष्णोस्त्वत्प्रसादाद्भवाम्यहम् ॥ इति
पुटाञ्जलिः प्रार्थयेत् ॥ * ॥ ततः पिष्टप्रदीपा-
दिना निर्म्मञ्छनं कुर्य्यात् । ततो विंशान्यून-
ब्राह्मणेभ्यो भोज्यानि दद्यात् । दीनानाथकृपण-
वधिरेभ्यो यथाशक्ति दद्यात् । ततः प्रीयतां
पुण्डरीकाक्षसर्व्वयज्ञेश्वरो हरिः । तस्मिंस्तुष्टे
जगत्तुष्टं प्रीणिते प्रीणितं जगत् ॥ ततो नृत्य-
गीतवादित्रनिस्वनर्महोत्सवं कृत्वा अच्छिद्रा-
वधारणं कृत्वा वैगुण्यसमाधानार्थं तद्विष्णो-
रिति विष्णुं स्मरेत् । * । एवं रुद्रादिमठादि-
प्रतिष्ठायां आसनादिकन्तु तत्तन्मन्त्रं विहाय
केवलं प्रणवादिनमोऽन्तेन तत्तन्नाम्ना दत्त्वा
यथायोग्यं तत्तत्कर्म्मशेषं समापयेत् । * । एवं
गोपथादि प्रतिष्ठायां तत्समीपे वेदिकां कृत्वा
तत्तत्फलकामो विष्णुप्रीतिकामो वा तत्तत्-
प्रतिष्ठां करिष्ये इति सङ्कल्प्य वृद्धिश्राद्धादिकं
विधाय प्रागुक्तविधिनाग्निस्थापनादि एतत्-
कर्म्मणा प्रीयतां भगवान् विष्णुरित्यन्तं कर्म्म
कृत्वा कूपादिवत् सर्व्वभूतेभ्य उत्सृज्य दक्षिणां
दद्यात् । * । नियमव्रतादिप्रतिष्ठायान्तु विष्णु-
रित्यन्तं कर्म्म कृत्वा व्रतानुष्ठानं कृत्वा दक्षिणा-
दिकं कुर्य्यात् । * । ततो घटस्थजलेन यजमान-
मभिषिञ्चेत् । तद्यथा, —
“ॐ सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।
वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः ।
प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते ॥
आखण्डलोऽग्निर्भगवान् यमो वै नैरृ तस्तथा ।
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ।
ब्रह्मणा सहितः शेषो दिक्पालाः पान्तु ते सदा ॥
कीर्त्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्षमा मतिः ।
बुद्धिर्लज्जा वपुः शान्तिस्तुष्टिः पुष्टिश्च मातरः ।
एतास्त्वामभिषिञ्चन्तु देवपत्न्यः समागताः ॥
आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः ।
ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः ॥
देवदानवगन्धर्व्वा यक्षराक्षसपन्नगाः ।
ऋषयो मुनयो गावो देवमातर एव च ॥
देवपत्न्योऽध्वरा नागा दैत्याश्चाप्सरसा गणाः ।
अस्त्राणि सर्व्वशास्त्राणि राजानो वाहनानि च ॥
औषधानि विचित्राणि कालस्यावयवाश्च ये ।
सरितः सागराः शैलास्तीर्थानि जलदा नदाः ।
एतास्त्वामभिषिञ्चन्तु धर्म्मकामार्थसिद्धये ॥” * ॥
इति मठादिप्रतिष्ठाप्रयोगतत्त्वं समाप्तम् ॥

पक्वखाद्यवस्तुविशेषः । अस्य पाकप्रकारो यथा,
“समिता मर्द्दयेदन्यजलेनापि च सन्नयेत् ।
तस्यास्तु वटिकां कृत्वा पचेत सर्पिषि नीरसम् ॥
एला लवङ्गकर्पूरमरीचाद्यैरलङ्कृते ।
मज्जयित्वा सितापाके ततस्तञ्च समुद्धरेत् ॥
अयम्प्रकारः संसिद्धो मठ इत्यभिधीयते ॥”

[सन्नयेन्मर्द्दयेत्] तथास्य गुणाः ॥

“मठस्तु बृंहणो वृष्यो बल्यः सुमधुरो गुरुः ।
पित्तानिलहरो रुच्यो दीप्ताग्नीनां सुपूजितः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

Like this:

Like Loading…
Tags: Hindu

Post navigation

Previous मज्जा – Majja
Next बौधायन शुल्ब सूत्रम् – Sulva Sutram of Baudhayana [ 900 BEC]

More Stories

Epistemology (3-Volume): What justifies belief, the difference between opinion and truth Sarvarthapedia
  • Sarvarthapedia Vedic Dictionary

Epistemology (3-Volume): What justifies belief, the difference between opinion and truth

24/05/2026
Rigveda (ऋग्वेदः, ऋक्, ऋच्): Meaning, Structure and Vedic Interpretation Philosophy & Religion of Rigveda
  • Sarvarthapedia Vedic Dictionary

Rigveda (ऋग्वेदः, ऋक्, ऋच्): Meaning, Structure and Vedic Interpretation

28/04/2026
Isa (ईशा): Universal Controller, Karma-Phala-Data, and Inner Self Encyclopedia of Sanatan Dharma
  • Sarvarthapedia Vedic Dictionary

Isa (ईशा): Universal Controller, Karma-Phala-Data, and Inner Self

19/04/2025
  • Global Production, Supply Chains and Industrial Networks (Volume 4): Encyclopedia of International Trade and Commerce
  • Synopsis of Volume 3 of GEITAC: International Trade Theory and Economic Structures
  • International Trade Theory and Economic Structures (Volume 3): Encyclopedia of International Trade and Commerce
  • Synopsis of Volume 2 of GEITAC: Historical Evolution of World Commerce
  • Historical Evolution of World Commerce (Volume 2): Encyclopedia of International Trade and Commerce

More Updates

Global Production, Supply Chains and Industrial Networks (Volume 4): Encyclopedia of International Trade and Commerce Global Encyclopedia of International Trade and Commerce
  • Law Library

Global Production, Supply Chains and Industrial Networks (Volume 4): Encyclopedia of International Trade and Commerce

11/10/2026
Synopsis of Volume 3 of GEITAC: International Trade Theory and Economic Structures Global Encyclopedia of International Trade and Commerce
  • Law Library

Synopsis of Volume 3 of GEITAC: International Trade Theory and Economic Structures

11/10/2026
International Trade Theory and Economic Structures (Volume 3): Encyclopedia of International Trade and Commerce Global Encyclopedia of International Trade and Commerce
  • Law Library

International Trade Theory and Economic Structures (Volume 3): Encyclopedia of International Trade and Commerce

11/10/2026
Synopsis of Volume 2 of GEITAC: Historical Evolution of World Commerce Global Encyclopedia of International Trade and Commerce
  • Law Library

Synopsis of Volume 2 of GEITAC: Historical Evolution of World Commerce

11/10/2026
  • Anosh Ekka v. CBI (2026 INSC 357): SC Grants Bail to Former Jharkhand Minister in CBI DA Case
  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Indian Constitution
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders
Encyclopedia of Contemporary World History

28 September 2026 Sarvarthapedia Global Historical Record

28 September 2026 — World History and Current Affairs records the day’s major developments across war, geopolitics, maritime trade, energy security, artificial intelligence, aviation, finance, science, climate, law, religion, tourism and global ...
  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subjects
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia Meta-Concept
  • Contact Us
  • Privacy Policy
  • FAQs
  • NEET
  • Library Updates
Legal Database and Encyclopedia | © 2026 by Advocatetanmoy Law Library.
%d