Significance of Rigveda (ऋग्वेद) and the meaning of ‘Rigveda’
Home » Law Library Updates » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » Vedic Sanskrit Culture » Significance of Rigveda (ऋग्वेद) and the meaning of ‘Rigveda’
Significance of Rigveda: Rigveda, is an ancient Indian collection of Vedic Sanskrit hymns. It consists of 10 mandalas and detailed descriptions of their characteristics are provided. The article discusses the significance of Rig Veda, its different branches, the importance of its study, the division of verses, and the distinction between various branches of Rig Veda. The article also addresses the differences in the number of hymns found in various branches and the meaning and explanation of various terms associated with Rig Veda.
What do we understand by Rigveda?
Significance of Rigveda in वाचस्पत्यम्
ऋग्वेद पु० ऋच्यते स्तूयते ऋक् कर्म्म० । वेदभेदे । स च मन्त्र ब्राह्मणोभयात्मकः । तत्र मन्त्रसमूहात्मकः ऋक्शब्दे बक्ष्यमाणलक्षणर्गात्मकः संहितारूपो ग्रन्थः । तत्र दश मण्डलानि तत्राद्ये मण्डले २४ अनुवाकाः “अग्नि- मीले” इत्यादीनि आग्नेयानि १९१ सूक्तानि तानि शतर्चिकर्षिदृष्टानि अध्यायोपाकरणोत्सर्गयोर्विनियुक्तानि । द्वितीये शौनकगृत्समदर्षिदृष्टे चत्वारि अनुवाकाः । त्वमग्न इत्यादीनि ४३ सूक्तानि आग्नेयानि उपाकरणो- त्सर्गयोर्विनियुक्तानि । शौनक गृत्समदः ऋषिरेतन्मण्डद्रष्टा स च पूर्ब्बमाङ्गिरसकुले शुनहोत्रस्य पुत्रः सन् यज्ञकालेऽ- सुरैर्गृहीत इन्द्रेण मोचितः ।
Read Next
पश्चात्तद्वचनेनैव भृगुकुले शुनक पुत्रो गृत्समदनामाऽभूत् । “य आङ्गिरसः शौनहोत्रो भूत्वा भार्गवः शौनकोऽभवत् स गृत्समदो द्वितीयमण्डल- मपश्यत्” सर्वानु० उक्तेः । “त्वमग्न इति गृत्समदः शौनको भृगुतां गतः । शौनहोत्रः प्रकृत्या तु य आङ्गिरस उच्यते” इति ऋष्यनुक्रमोक्तेश्च । ऋग्वेदभाष्यम् । तृतीये विश्वामित्रदृष्टे पञ्चानुवाकाः सोमस्य मेत्यादीनि ६२ सूक्तानि । तानि च आग्नेयानि प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसि विनियुक्तानि । चतुर्थे वामदेवर्षिदृष्टे पञ्चानुवाकाः । आग्नेयानि त्वां ह्यग्ने इत्यादीनि ५८ सूक्तानि । आद्याध्यायोपाकरणे मण्डलादिहोमे च विनियुक्तानि ।
पञ्चमे आत्रेयबुधगविष्ठिराद्यर्षिके षड् अनुवाकाः ८७ अबोध्यग्निरित्यादीनि सूक्तानि आग्नेयानि आग्नेगे क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे चत्वारि शिष्टानि अध्यायोत्सर्ज्जनीपाकरणयोर्विनियुक्तानि । षष्ठे भरद्वाजदृष्टे षडनुवाकाः त्वं ह्यग्ने प्रथम इत्यादीनि ७५ सूक्तानि आग्नेयानि तत्र प्रातरनुवाके आग्नेये क्रतौ त्रैष्टभे छन्दसि एतदादिसूक्ताष्टकं द्वितीयवर्जं विनियुक्तम् शिष्टानि आद्योपाकरणे विनियुक्तानि । सप्तमे वसिष्ठदृष्टे ६ अनुवाकाः अग्निं नर इत्यादीनि १०४ सूक्तानि आग्नेयानि तेषां विशेषतो विनियोगोबाहुल्यात् योक्त आकरे दृश्यः ।
अष्टमे मेधातिथिमेध्यातिथ्यादिनानर्षिक । दशानुवाकाः । इन्द्रादिदैवत्यानि “मा चिदन्यद्वीत्यादीनि १०३ सूक्तानि महाव्रतादौ विनियुक्तानि । नवमे वैश्वामित्रमधुछन्दआद्यृषिके सप्तानुवाकाः पावमानसोमादिदेवताकानि स्वादिष्ठयेत्यादीनि ११४ सूक्तानि तेषाञ्च उपाकर्म्मणि मण्डलादिग्रहणे च यथायथं विनियोगः ।
दशमे मण्डले आप्त्यत्रिताद्यर्षिके द्वादशानुवाकाः अश्वे वृहन्नित्यादीनि १९१ सूक्तानि आग्मेयादीनि । प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ त्रैष्टुभे छन्दसी- त्यादि कर्मसु विनियुक्तानि । इत्येवं दशसु मण्डलेषु १ म० १९१, २ म० ४३, ३ म० ६२, ४ म० ५८, ५ म० ८७, ६ म० ७५, ७ म० १०४, ८ म० १०३, ९ म० ११४, १० म० ११९१ । इत्येवं समष्टि भूतानि १०२८ सूक्तानि । सूक्तानि च एकद्व्यादिकर्ग् घटितानि यथायथं तत्तत्सूक्तेषु दृश्यानि । एतत्संख्या च बालखिलसहितानां तद्व्यतिरिक्तानि तु १०१७ सूक्तानि तच्च चरणव्यूह-
भाष्ययोः स्पष्टम् । तस्य च पकारान्तरेण विभागः तस्य अष्टाष्टकानि प्रत्येकाष्टके च अष्टौ अष्टौ अध्यायाः इत्येवं ६४ अध्यायाः तत्र च वर्गा २००६ संख्यकाश्चरणव्यूहोक्ताः खिलसहितस्तु ततोऽप्यधिकाः । चरणव्यूहभाष्ययोर्दर्शित- विभागो दर्श्यते यथा ।
Read Next
“चातुर्वेद्य चत्वारोवेदा विज्ञाता भवन्ति ऋग्वेदो-यजुर्वेदः सामवेदोऽथर्ववेदश्चेति तत्र ऋग्वेदस्या- ष्टभेदा भवन्ति चर्चा श्रावकश्चर्चक श्रवर्णायपारः क्रमपारः क्रमजटाः क्रमदण्डश्चेति चतुष्पारायणमेतेषां शाखाः पञ्च भवन्त्याश्वलायनी सांख्यायनी शाकला बाष्कला माण्डूकाश्चेति तेषामध्ययनम् । अध्यायानां चतुःषष्टिर्मण्ड- लानि दशैव तु । वर्गाणां परिसंख्यातं द्वे सहस्रे षडुत्तरे सहस्रमेकं सूक्तानां निर्विशङ्गं विकल्पितम् । दश सप्त च पठ्यन्ते संख्यातं वै पदक्रमात् । एकशतसहस्रं वा द्वि- पञ्चाशत्सहस्रार्द्धमेतानि चतुर्दश वासिष्ठानामितरेषां पञ्चाशीतिः ।
ऋचां दश सहस्राणि ऋचां पञ्चशतानि च । ऋचामशीतिः पादश्च पारायणं प्रकीर्त्तितम् । एकर्च एकवर्गश्च नवकश्च तथा स्मृतः । द्वौ वर्गौ द्विऋचौ ज्ञेयौ ऋक्त्रयं शतं च स्मृतम् । चतुरृचां पञ्च- सप्तत्यघिकञ्च शतं तथा । पञ्चऋचां तु द्विशतं सहस्रं रुद्रसंयुतम् । पञ्चचत्वार्य्यधिकं तु षड् ऋचां च शतत्रयम् । सप्त ऋचां शत ज्ञेयं विंशति- श्चाधिकाः स्मृताः । अष्टऋचां तु पञ्चाशत् पञ्चाधिका- स्तथैव च । दशाघिकद्विसहस्राः पञ्चशाखासु निश्चिताः । वर्ग संज्ञा न सूक्तस्य चत्वारश्चात्र कीर्त्तिताः” चरणव्यूहः । वेदपारायणचतुर्विभागात् चरण उच्यते ।
तस्य व्यूहः समुदायः, चतुर्वेदानां समुदायं व्याख्या-स्यामः इत्यर्थः । कथमेकोवेदः तदुक्त आरण्यके, “सर्वे वेदाः सर्वेघोषा एकैव व्याहृतिः प्राणा एव प्राणा ऋच इत्येता विद्यादिति” तस्य चतुर्धा भागः कृतः ।
Read Next
तथा चोक्तं भागवते । “तेनासौ चतुरो वेदाः चतुर्भिर्वदनैः
प्रभुः । सव्याहृतिकान्सोङ्कारांश्चतुर्होत्रविचक्षणः । पुत्रा
नध्यापयंस्तां तु ब्रह्मषिर्ब्रह्मकोविदान् । ते तु धर्म-
पदेष्टारः स्वपुत्रेभ्यः समादिशन् । ते परम्परया प्राप्ता
स्तत्तच्छिष्यैर्धृतव्रतैः । चतुर्युगेष्वप्यव्यस्ता द्वापारादौ
महर्षिभिः । क्षीणायुःक्षीणसत्यञ्च दुर्मेधा वीक्ष्य
कालतः । वेदान् ब्रह्मर्षयोव्यस्तान् हृदिस्थाऽच्युतनोदितः ।
अस्मिन्मन्वन्तरे ब्रह्मन् स्वर्गत्वा लोकभावनः । ब्रह्मेशा-
द्यैर्लोकपालैर्याचितोधर्मगुप्तये । पराशरात् सत्यवत्यामंशां-
शकलया विभुः । अवतीर्णोमहाभागो बेदं चक्रे चतुविधम् । ऋगथर्वयजुःसाम्नोराशीनुद्धृत्य वर्गशः ।
चतस्रः संहिताश्चक्रे मन्त्रैर्मणिगणा इव ।
तासां स चतुरः-शिष्यान् उपाहूय महामतिः । एकैकसंहितां ब्रह्मन्नेकेकस्मै
ददा विभः । पेलायः संहितामाद्यां बह्वृचाख्यामुवाच ह ।
शैम्पायनसंज्ञाय निगदाख्यं यजुर्गणम् । साम्नां जैमिनये
प्रादात्तथा छन्दोगसंहिताम् । अथर्वाङ्गिरसं नाम
स्वशिष्याय सुमन्ततये । पैलः स्वसंहितामूचे इन्द्रप्रमित-
ये मुनिः । बाष्कलाय च सोऽप्याह शिष्येभ्यः संहितां
स्वकाम् । चतुर्धा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव! ।
पराशरायाग्निहोत्रे इन्द्रप्रमतिरात्मवान् । अध्यापयत्
संहितां स्वां माण्डूकेयमृषिङ्कविम् । तच्छिष्यो देवमित्रश्च
सौभार्यादिभ्य ऊचिवान् । (इन्द्रप्रमतिसुतो माण्डूकेयः ।
माण्डूकेयसुतः शाकल्यः । शाकल्यशिष्यो देवमित्रः) ।
शाकल्यस्तत्सुतः स्वान्तु पञ्चधा व्यस्य संहिताम् । वात्स्य
मुद्गलशालीयगोखल्यशिशिरेष्वधात् । जातूकर्णश्च तच्छिष्यः
सनिरुक्तां स्वसंहिताम् । बालाकपैङ्ग्यवेतालविरजेभ्योददौ
सुनिः । वाष्कलिः प्रतिशाखाभ्यो बालखिल्याख्यसंहि-
ताम् । चक्रे बालायनिर्भुज्यः काशारश्चैव तां दधुः ।
बह्वृचाः संहिताह्येता एतैर्ब्रह्मर्षिभिर्धृताः । श्रुत्वैव
छन्दसां व्यासं सर्वपापैः प्रमुच्यते” भाग० १२, ६ अ० ।
“ब्रह्मणा नोदितो व्यासोवेदान् व्यस्यन् प्रचक्रमे । अथ
शिष्यान् सञ्जग्राह चतुरोवेदपारगान् । ऋग्वेदश्रावकं
पैलं सञ्जग्राह महामतिः । वैशम्पायननामानं
यजुर्वेदस्य चाग्रहीत् । जैमिनिः सामवेदस्य तथैवाथर्ववेद-
वित् । सुमन्तुस्तस्य शिष्योभूद्वेदव्यासस्य धोमतः” विष्णुपु०
गृह्यसूत्रम् । “सुमन्तुजैमिनिवैशम्पायनपैलाः सूत्र-
भाष्यमहाभारतधर्माचार्या” इति । जलतिबाह-
वीत्यारभ्य माण्डूकेया इत्यन्तामाण्डूकगणाः गर्गीवाचक्न-
वीत्यारभ्य सांख्यायनमित्यन्ताः सांख्यायनगणाः । एतेषां
कौषीतकीसूत्रं ब्राह्मणम् आरण्यकं च । ऐतरेय इत्या-
रभ्य आश्वलायनान्ताः आश्वलायनगणाः एषन्तु ऐतरेय
आरण्यकं ब्राह्मणम् । आश्वलायनसूत्रम् ।
तत्र यदुक्तं चातुर्वेद्यं चत्वारोवेदाविज्ञाता भवन्ति ।अस्मिन् ग्रन्थे चातुर्वेद्यं तेन चत्वारोवेदाविज्ञाता भवन्ति ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदश्चेति इति स्पष्टार्थः ।
Significance of Rigveda in connection with yagna (यज्ञाः)
वेदा हि यज्ञार्थम् अभिप्रवृत्ताः । ते यज्ञाः द्विविधाः । अग्नौ हूयमाना, अनग्नौ प्रहुताः । अग्नौ हूयमाना वैताविकाः । अनग्नौ प्रहुता नित्याभ्यासो ब्रह्मयज्ञः पारा- यणं च । अत्र गृह्यसूत्रे ब्रह्मयज्ञखण्डे “यद्वचोऽधीतेप- यआहुतिभिरेव तद्देवतास्तर्पयति, यद्यजूंषि घृताहुतिभिः, यत्सामानि मध्वाहुतिभिः, यदथर्वाङ्गिरसः सोमाहुतिभिः, यत् ब्राह्मणानि कल्पान् गाथानाराशंसीरितिहासपुरा- णानीत्यमृताहुतिभिर्यदृचोऽधीते स्वधा अस्य पितॄन् उपक्षरन्ति” इति । तत्र ऋग्वेदस्याष्टभेदा भवन्ति । स्थानानि भवन्तीति पाठान्तरम् । शाकलबाष्कलौ २ ऐतरेयब्राह्म- णारण्यकौ ४ साङ्खायनमाण्डूकौ ६ । कौषीतकीय ब्राह्मणारण्मकाविति ८ अष्टभेदाः ।
अन्यच्च “वेदाश्च विकृतिः शाखाभेदस्तु त्रिविधस्ततः । पृथग्नामाभिधानेन
व्यासेन कथितं पुरा” इति । अत्राष्टभेदेनाष्टस्थानेन वा
प्रकृतिर्ग्राह्या विकृतिस्तु अग्रे वक्ष्यामः । तस्मात् ब्रह्म-
यज्ञार्थे पारायणार्थे च ऋग्वेदस्याध्ययनं कर्त्तव्यम् । ततश्चतु-
ष्पदेन वक्ष्यति । चर्चेत्यादि चर्चाध्ययनम् । ताल्वोष्टपुट-
व्यापारेण शब्दस्योच्चारणं क्रियते सा चर्चा । तस्याध्ययनस्य
गुरुः श्रावकः । तस्य चर्चकः शिष्यः श्रवणीयपारः । श्रवणीयो
वेदः । तस्य पारं समाप्तिः । इति चतुष्पदेन अध्ययनं
सूचितम् । अग्रे चतुष्पदेन चत्वारि पारायणानि
सूचयढि । तत्पारायणं द्विविषम् । प्रकृतिविकृतिरूपम्
का प्रकृतिः? । प्रकृतिः संहिता । सा द्विविधा रूढा
योगा च रूढा यथा! “अग्निमीले पुरोहितमिति । योगा
यथा । अग्निम् ईले पुरोहितमिति । प्रातिशाख्ये
द्वितीयपटले भाष्यकारेण व्याख्यातम् । अथ चतुष्पारा-
यणं यथा । क्रमपारः क्रमपदः क्रमजटाः क्रमदण्डश्चेति चतुष्पारायणम् ।
क्रमशब्देन उभयसंहिता बाच्या स कथम्? । “अनुलोमविलोमाभ्यां द्विवारं हि पठेत् क्रमम् । विलोमे पदवत्सन्धिरनुलोमे यथाक्र-
मम्” । यथाक्रमं यथा संहिता इत्यर्थः । अन्यच्च वर्णक्रमः । अक्षरसमाम्नाय एवेत्यारण्यके । “कथमभिष्टुयादित्यक्षरशः चतुरक्षरशः पच्छः अर्द्ध्वर्चशः ऋक्शः” ।
इति ब्राह्मणम् ।
क्रमः संहितावाची कथम्? । पद प्रकृतिः संहिता इति नैरुक्तवचनात् । सा क्रमरूपा इत्यर्थः । क्रमपदः । क्रमः संहिता तस्याः पदानि इति प्रकृतिपारायणे द्वेप्रकृतिरूपे । विकृतिस्तु अष्टधा भवति । तच्च “जटा माला शिस्वा लेखा ध्वजो दण्डोरथोघनः ।
अष्टौ विकृतयः प्रोक्ताः क्रमपूर्बा महर्षिभिः” इति आसां मध्ये जटदण्डयोः प्राधान्यं तत्कथम्? । जटानुसारिणी शिखा दण्डानुसारिणो मालालेखाध्वजोरथश्च । घनस्तु उभयोरेवात्तुसारी । तत्र जटापटले जटावाक्यम् । “क्रमे यथोक्ते पदजातमेव द्विरभ्यसेदुत्तरमेव पूर्ब्बम् । अभ्यस्य पूर्ब्बं च तथातरे पदेऽवसानमेवं हि जटाभिधीयते” अस्यार्थः । क्रमे यथोक्ते सति क्रमोत्क्रमाभ्यामित्युक्ते क्रमप्रकारे पदजातं पदद्वयं वा पदत्रयं वा द्विवारमभ्यसेत् । द्विवारम्पठेत् । अभ्यासप्रक रः । उत्तरमेव पूर्ब्बम् ।
क्रमवतपदद्वयं गृहीत्वा पूर्ब्बेण समं प्रथमम् उत्तरपदम-
भ्यसेत् । ततः उत्तरपूर्ब्बपदयोः सन्धानद्वारा पूर्ब्बम्
द्विरभ्यस्योत्तरपदे अवसानम् एवंप्रकारेण अध्ययनं
जटा अभिधीयते उदाहरणेन दर्श्यते । अग्निसील
ईलेऽग्निमग्निमीले ईले पुरोहितं पुरोहितमील ईले
पुरोहितमित्यादि ज्ञेयम् । अथ दण्डलक्षणम् । “क्रम-
मुक्तं विपर्य्यस्य पुनश्च क्रममुत्तरम् । अद्धर्चादेव मुक्त्योक्तः
क्रमदण्डोऽभिधीयते । उदाहरणम् । अग्निमीले ईलेऽ-
ग्निम् अग्निमालईलेपुरोहितम् पुरोहितमीलेऽग्नि मत्यादि
ज्ञेयम् । अथ मालालक्षणम् । “ब्रूयात् क्रमविपर्य्यासा-
बर्घर्चस्यादिवोऽन्ततः । अन्तं चादिन्नयेदेवं क्रममालेति
गीयते । माला मालेव पुष्पाणां पदानाङ्ग्रथिनी हिता ।
आवर्त्तने क्रमस्तस्यां क्रमव्युत्क्रममंव मा० । अथ शिखा-
लक्षणम् । “पदोत्तराञ्जटामेव शिखामार्य्याः प्रचक्षते ।
अथ लेखालक्षणम् । क्रमद्वित्रिचतुःपञ्चपदक्रममुदाहरेत् ।
पृथक् पृथक् विपर्य्यस्य लेखामाहुः पुनः क्रमात्” । अथ
ध्वजलक्षणम् । “ब्रूयादादेः क्रमं सम्यगान्तादुत्तारये-
द्यदि । वर्गे च ऋचि यत्र स्यात् पठनं स ध्वजः स्मृतः” ।
अथ रथलक्षणम् । “पादशोर्द्धर्चशो वापि सहोक्त्या दण्ड-
वद्रथः” । अथ घनलक्षणम् । “जटमुक्त्वा विपर्यस्य घनमाहु
र्मनोषिणः” । अन्यच्च । “जटाशिखाघनाः प्रोक्ता क्रमपूर्ब्बा
मतोषिभिः” । इति विकृतिलक्षणान्यूक्तानि ।
अध्ययने संहितापारायणम् पदपारायणम् जटापारायणम् क्रमदण्डपारायणं चतुष्पारायणमिन्यर्थः! एतेषां शाखाः पञ्च भवन्ति । एतेषां वेदपारायणानां पञ्च शाखा भवन्ती-त्यर्थः । ताः काः? । आश्वलायनी सांख्यायनी शाकला बाष्कला माण्डूका चेति इति प्रसिद्धाः । तेषामसध्ययनम् । तेषाम् आश्वलायनादिशाखानां समानाध्ययनं सूचयति । अध्यायाश्चतुःषष्टिः । अग्निमीले अयं देवायेत्यादि । चतुःषष्टिरध्याया इत्यर्थः । मण्डलानि दशैव तु । अग्निमीले–कुषुम्भकम् इत्यादि उपाकम्मणि प्रसिद्धानि इत्यर्थः!
वर्गाणां परिसंख्यातन्द्वे सहस्रे षड्त्तरे । वर्गादिः आऋ-चान्ताः संख्या बालखिल्यैर्विना ज्ञेया । षडुत्तरसहस्र-द्वयं वर्गा इत्यर्थः । सहस्रमेकं सूक्तानां निर्विशङ्कं विकल्पितम् । दश सप्त च पठ्यन्ते । सप्तदशाधिकसहस्रं सूक्तानीत्यर्थः ।
संख्यातं वै पदक्रमम् । एकं शतसहस्रं च द्विपञ्चाशत्सहस्रकम् सार्द्धम् चतुर्दश वासिष्ठानामि-तरेषां पञ्चाशीतिः । एकलक्षद्विपञ्चाशत्सहस्रपञ्चशतं चतुर्दश वाशिष्टानां वसिष्ठगोत्रिणाम् इन्द्रोभिरेकसप्तति-पदात्मकोवर्गोनास्ति । एतद्गोत्रीयाणां पञ्चाशीत्यधिकपदा-लीत्यर्थः । अथ बालखिल्यसहितपदसंख्या उच्यते ।
लक्षैकन्तु त्रिपञ्चाशत्सहस्रं शतसप्तकम् । पदानि च द्विन-
वतिः प्रमाणं शाकलस्य च । एकलक्षत्रिपञ्चाशत्सहस्रसप्त-
शतं द्विनवति श्चाधिकानि पदानि इत्यर्थः । पदानि
बालखिल्यस्य अर्कसंख्याशतानि च । अधिकानि तु सप्तैव वर्गा
अष्टादश स्मृताः सप्ताधिकद्वादशशतानि पदानीत्यर्थः ।
इत्याश्वलक्षायनानाम् सांख्यायनानान्तु बालखिल्यसहित
पदसंख्या उच्यते । शाकल्यदृष्टे पदलक्षपेकं सार्द्धं तथैव
त्रिसहस्रयुक्तम् । शतानि सप्तैव तथाधिकानि चत्वारि-
त्रिंशच्च पदानि चर्चा । शाकल्योमाण्डूकगणस्थस्तत्-
संहितापदानि एकलक्षत्रिपञ्चाशत्सहस्रसप्तशतचतुस्त्रिं-
शदघिकानि पदानीत्यर्थः । पदानि बालखिल्यस्य रुद्रसं ख्या
शतानि च षड़शीत्यधिकानि वर्गाः सप्तदशापि च ।
एकादशशतषट्पञ्चाशदधिकानि बालखिल्य पदानीत्यर्थः ।
अष्टपञ्चाशत्पदात्मकर्क्त्रयस्य यमृत्विजो वर्गोनास्ति
आश्वलायनानाञ्चतुरृचात्मको वर्गः । इत्याश्वलायन-
साख्यायनशाख्योरध्ययनयोर्भेद इत्यर्थः ।
अथ पारायणे ऋक्परिमाणमुच्यते । ऋचां दश सहस्राणि ऋचां पञ्च- शतानि च । ऋचामशीतिः पादस्य पारायणं प्रकीर्त्तितम् एतत्पारायणं बालखिल्मैर्विना संख्यातम् । बालखि- ल्यानि पारायणे न सन्ति । तदुच्यते । ऋग्वेदान्तर्गत बालखिल्यमेकादशसूक्तम् सूक्तसहस्रसप्तदशाधिकमित्यत्र ऋचां दशसहस्राणीत्येतत्संख्या व्यतिरिक्तानि वालखिल्यानीति प्रसिद्धिः” भाष्यम् ।
अत्र प्रधान शाखाभेदाभिप्रायेण पञ्चविधत्वमुक्तम् “ऋग्वेदस्य तु शाखाः स्यरेक-विंशतिसंख्यकाः” मुक्तिकोपनिषदि एकोनविंशतिभे-दोक्तिः प्रशाखाभिप्रायेण अत एव प्रशाखाभ्य इति प्रागुक्तभाग० वाक्ये तथोक्तम् । षस्य उपनिषद्भेदस्तु उपनिषच्छब्दे उक्तः ।
“ऋग्वेदो देवदैवत्यो यजुर्वेदस्तु मानुषः । सामवेदः स्मृतः पैत्रस्तस्मात्तस्याशुचिर्ध्वनिः मनुः । “ऋग्वेदाधिपतिर्जीवः” ज्यो० उक्तेः जीवस्य ऋग्वे- दाधिपत्वं तेन तस्य वारे तद्बले च तत्तत्कर्म ऋग्वेदिभिः करणीयम् “शाखाधिपे बलिनि वीर्य्ययुतेऽथवाम्मिन्” । ज्यो० त० तद्ध्यानं तु “ऋग्वेदः पद्मपत्राक्षो गायत्राः सोमदैवतः । आत्रेयगोत्रः” इति विधा० पा० उक्तम् । ऋग्वेदोऽध्येयत्वेनास्त्यस्य इनि । ऋग्वेदिन् तत्पाठके ।
Rig Veda Samhita
- Rig Veda First Mandala [ऋग्वेद ]
- Rig Veda Second Mandala ऋग्वेद
- Rig Veda Third Mandala [ऋग्वेद]
- Rig Veda Forth Mandala[ऋग्वेद]
- Rig Veda Fifth Mandala [ऋग्वेद]
- Rig Veda Sixth Mandala [ऋग्वेद]
- Rig Veda Seventh Mandala[ऋग्वेद]
- Rig Veda Eighth Mandala [ऋग्वेद]
- Rig Veda Ninth Mandala [ऋग्वेद]
- Rig Veda Tenth Mandala [ऋग्वेद]