Skip to content

ADVOCATETANMOY LAW LIBRARY

Research & Library Database

Sarvarthapedia

Architects of Civilization: 100 Foundational Minds Behind Human Society

Global Biographical Dictionary of Intelligence (50-Volume): Espionage and Counterintelligence

Glossary of 500 Key Concepts Across All Subjects (Part 1 – Part 13)

Biographical Dictionary of 200 Essential Thinkers (Appendix E)

Glossary of Nepali Politics: Constitution, Ethnic Identities, and Coalition Dynamics

  •  ऋग्वेदः 
  • सामवेदः
  • यजुर्वेदः
  • अथर्ववेदः
  • वेदाङ्गकल्पसूत्रम्
  • वेदाङ्गछन्दसूत्रम्
  • वेदाङ्गनिरुक्तम्
  • वेदाङ्गव्याकरणम्
  • वेदाङ्गशिक्षा
  • वेदाङ्गज्यौतिषम्
  • काठकसंहिता
  • तैत्तिरीयसंहिता
  • मैत्रायणीसंहिता
  • ऐतरेय ब्राह्मणम्
  • कौषीतकिब्राह्मणम्
  • शतपथब्राह्मणम्
  • तैत्तिरीयब्राह्मणम्
  • छान्दोग्यब्राह्मणम्
  • गोपथब्राह्मणम्
  • काठकब्राह्मणम्
  • पञ्चविंशब्राह्मणम्
  • जैमिनीयोपनिषद्ब्राह्मणम्
  • ऐतरेय आरण्यकम्
  • तैत्तिरीयारण्यकम्
  • शाङ्खायनारण्यकम्
  • ऐतरेयोपनिषद्
  • तैत्तिरीयोपनिषदत्
  • प्रश्नोपनिषत्
  • मुण्डकोपनिषद्
  • मुण्डकोपनिषद्
  • काठकोपनिषत्
  • केनोपनिषद्
  • छान्दोग्योपनिषद्
  • बृहदारण्यकोपनिषद्
  • कौटिल्यस्य अर्थशास्त्रम्
  • मनुस्मृतिः
  • याज्ञवल्क्यस्मृतिः
  • चरकसंहिता
  • सुश्रुतसंहिता
  • रामायणम्
  • महाभारतम्
  • मीमांसासूत्राणि
  • वैशेषिकसूत्रम्
  • न्यायसूत्राणि
  • श्रीविष्णुपुराणम्
  • अष्टाध्यायी-गणपाठः
  • अष्टाध्यायी-धातुपाठः
  • नाट्यशास्त्रम्
  • News
    • Editorial
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • JudgmentSupreme Court
  • Podcast
  • HLJLaw Digests
    • Supreme Court Case Notes
    • Daily Digest
  • SarvarthapediaKnowledgebase
    • Sarvarthapedia (Twelve Core Areas): Macro Structure
    • Systemic-and-systematic
    • Volume One
    • Volume Two
    • Volume Three
    • Volume Four
    • Volume Five
    • Volume Six
  • Subjects
    • Knowledge Graph
    • Glossary
  • Indian Law
  • EncyclopediaCollection
Home » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » Vedic Sanskrit Culture » Amaru Satakam (By King Amaru of Kashmir)
  • Vedic Sanskrit Culture

Amaru Satakam (By King Amaru of Kashmir)

Amru Satakam attributed to King Amaru highlights the profound emotional expressions found in love poetry. Anandavardhana, a notable ninth-century critic, praised Amaru's poetry for its ability to convey love's essence within brief verses. Amaru's verses explore various facets of love, longing, and intimacy through intricate imagery and metaphors, reflecting the poet's deep emotional insights. The verses depict varied themes such as yearning, jealousy, and tenderness, showcasing the complexity of romantic interactions. In essence, Amaru's poetry encapsulates the spirit of love, making it resonate deeply with readers, transcending time and cultural boundaries.
advtanmoy 11/11/2024
Sanskrit

By King Amaru of Kashmir.

The ninth-century literary critic Anandavardhana declared in his Dhvanyaloka that “a single stanza of the poet Amaru … may provide the taste of love equal to what’s found in whole volumes

Sanskrit Devanagari Script

अमरूशतकम्

ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठ- 
प्रेङ्खन्नखांशुचयसंवलितोऽम्बिकायाः । 
त्वां पातु मञ्जरितपल्लवकर्णपूर- 
लोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः ॥१॥(१) 

क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंशुकान्तं 
गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण । 
आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः 
कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥२॥(२) 

आलोलामलकावलीं विलुलितां बिभ्रच्चलत्कुण्डलं 
किञ्चिन्मृष्टविशेषकं तनुतरैः खेदाम्भसां शीकरैः । 
तन्व्या यत्सुरतान्ततान्तनयनं वक्त्रं रतिव्यत्यये 
तत्त्वां पातु चिराय किं हरिहरब्रह्मादिभिर्दैवतैः ॥३॥(३) 

अलसवलितैः प्रेमार्द्रार्द्रैर्मुहुर्मुकुलीकृतैः 
क्षणमभिमुखैर्लज्जालोलैर्निमेषपराङ्मुखैः । 
हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः 
कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥४॥(४) 

दत्तोऽस्याः प्रणयस्त्वयैव भवता चेयं चिरं लालिता 
दैवाद् अद्य किल त्वमेव कृतवान् अस्या नवं विप्रियम् । 
मन्युर्दुःसह एष यात्युपशमं नो सान्त्ववादैः स्फुटं 
हे निस्त्रंश विमुक्तकण्ठकरुणं तावत्सखी रोदितु ॥५॥(६) 

लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो 
निराहाराः स्कह्यः सततरुदितोच्छूणनयनाः । 
परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैस् 
तवावस्था चेयं विसृज कठिने मानमधुना ॥६॥(७) 

नार्यस्तन्वि हठाद्धरन्ति रमणं तिष्ठन्ति नो वारितास् 
तत्किं ताम्यसि किं च रोदिषि मुधा तासां प्रियं मा कृथाः । 
कान्तः केलिरुचिर्युवा सहृदयस्तादृक्पतिः कातरए 
किं नो बर्करकर्करैः प्रियशतैराक्रम्य विक्रीयते ॥७॥(८) 

कोपात्कोमललोलबाहुलतिकापाशेन बद्धा दृढं 
नीत्वा केलिनिकेतनं दयितया सायं सखीनां पुरः । 
भूयोऽप्येवमिति स्खलन् मृदुगिरा संसूच्य दुश्चेष्टितं 
धन्यो हन्यत एव निह्नुतिपरः प्रेयान् रुदत्या हसन् ॥८॥(९) 

प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेऽथवा 
किमुत सकले जाते वाह्निप्रिय त्वमिहैष्यसि । 
इति दिनशतप्राप्यं देशं प्रियस्य यियासतो 
हरति गमनं बालालापैः सबाष्पगलज्जलैः ॥९॥(१२) 

याताः किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृते 
नो कार्या नितरां कृशामि कथयत्येवं सबाष्पे मयि । 
लज्जामन्थरतारकेण निपतद्धाराश्रुणा चक्षुषा 
दृष्ट्वा मां हासितेन भाविमरणोत्साहस्तया सूचितः ॥१०॥(१०) 

धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिं 
दीर्घोच्छ्वासमुदश्रुणा विरहिणीं बालां चिरं ध्यायता । 
अध्वन्येन विमुक्तकण्ठमखिलां रात्रिं तथा क्रन्दितं 
ग्रामीणैर्व्रजतो जनस्य वसतिर्ग्रामे निषिद्धा यथा ॥११॥(१३) 

कथमपि सखि क्रीडाकोपाद् व्रजेति मयोदिते 
कठिनहृदयस्त्यक्त्वा शय्यां बलाद् गत एव सः । 
इति सरभसं ध्वस्तप्रेम्णि व्यपेतघृणे जने 
पुनरपि हतव्रीडं चेतः प्रयाति करोमि किम् ॥१२॥(१५) 

दम्पत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद्वचस् 
तत्प्रातर्गुरुसन्निधौ निगदतस्तस्योपहारं वधूः । 
कर्णालङ्कृतिपद्मरागशकलं विन्यस्य चञ्चूपुटे 
व्रीडार्ता प्रकरोति दाडिमफलव्याजेन वाग्बन्धनम् ॥१३॥(१६) 

अज्ञानेन पराङ्मुखीं परिभवाद् आश्लिष्य मां दुःखितां 
किं लब्धं चटुल त्वयेह नयता सौभाग्यमेतां दशाम् । 
पश्यैतद् दयिताकुचव्यतिकरोन् मृष्टाङ्गरागारुणं 
वक्षस्ते मलतैलपङ्कशवलैर्वेणीपदैरङ्कितम् ॥१४॥(१७) 

एकत्रासनसंस्थितिः परिहता प्रतुद्गमाद् दूरतस् 
ताम्बूलानयनच्छलेन रभसाशेल्षोऽपि संविघ्नितः । 
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके 
कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥१५॥ (१८) 

(मानिनी, सद्. ६९२, रसार्णवसुधाकर २.६७ग्) 

दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चाद् उपेत्यादराद् 
एकस्या नयने पिद्याय विहितक्रीडानुबन्धच्छलः । 
ईषद्वक्रिमकन्धरः सपुलकः प्रेमोल्लसन्मानसाम् 
अन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥१६॥(१९) 

चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखे 
निभृतकितवाचारेत्युक्त्वा रुषा पुरुषीकृते । 
व्रजति रमणे निःश्वस्योच्चैः स्तनस्थितहस्तया 
नयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता ॥१७॥(२०) 

काञ्च्या गाढतरावरुद्धवसनप्रान्ता किमर्थं पुनर् 
मुग्धाक्षी स्वैप्तीति तत्परिजनं स्वैरं प्रिये पृच्छति । 
मातः स्वप्तुमपीह वारयति मामित्याहितक्रोधया 
पर्यस्य स्वपितिच्छलेन शयने दत्तोऽवकाशस्तया ॥१८॥(२१) 

एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोर् 
अन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोर्गौरवम् । 
दम्पत्योः शनकैरपाङ्गवलनान् मिश्रीभवच्चक्षुषोर् 
भग्नो मानकलिः सहासरभसं व्यासक्तकण्ठग्रहम् ॥१९॥(२३) 

पश्यामो मयि किं प्रपद्यत इति स्थैर्यं मयालम्बितं 
किं मामालपतीत्ययं खल शठः कोपस्तयाप्याश्रितः । 
इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे 
सव्याजं हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तया ॥२०॥(२४) 

परिम्लाने माने मुखशशिनि तस्याः करधृते 
मयि क्षीणोपाये प्रणिपतनमात्रैकशरणे । 
तया पक्ष्मप्रान्तव्रजपुटनिरुद्धेन सहसा 
प्रसादो बाष्पेन स्तनतटविशीर्णेन कथितः ॥२१॥(२५) 

तस्याः सान्द्रविलेपनस्तनतटप्रश्लेषमुद्राङ्कितं 
किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते । 
इत्युक्ते क्व तद् इत्युदीर्य सहसा तत्सम्प्रमार्ष्टुं मया 
साश्लिष्टा रभसेन तत्सुखवशात्तन्व्यापि तद् विस्मृतम् ॥२२॥(२६) 

त्वं मुग्धाक्षि विनैव कञ्चुलिकया धत्से मनोहारिणीं 
लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकां संस्पृशि । 
शय्योपान्तनिविष्टसस्मितमुखीनेत्रोत्सवानन्दितो 
निर्यातः शनकैरलीकवचनोपन्यासमालीजनः ॥२३॥(२७) 

भ्रूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते 
कार्कश्यं गमितेऽपि चेतसि तनूरोमाञ्चमालम्बते । 
रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते 
दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने ॥२४॥(२८) 

कान्ते कत्यपि वासराणि गमय त्वं मीलयित्वा दृशौ 
स्वस्ति स्वस्ति निमीलयामि नयने यावन् न शून्या दिशः । 
आयाता वयमागमिष्यति सुहृद्वर्गस्य भाग्योदयैः 
सन्देशो वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः ॥२५॥ 

सा पत्युः प्रथमापराधसमये सख्योपदेशं विना 
नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् । 
स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला 
बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥२६॥(२९) 

भवतु विदितं छद्मालापैरलं प्रिय गम्यतां 
तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः । 
तव यथा तथाभूतं प्रेम प्रपन्नमिमां दशां 
प्रकृतिचपले का नः पीडा गते हतजीविते ॥२७॥(३०) 

उरसि निहितस्तारो हारः कृता जघने घने 
कलकलवती काञ्ची पादौ क्वणन्मणिनूपुरौ । 
प्रियमभिसरस्येवं मुग्धे समाहतडिण्डिमा 
यदि किमधिकत्रासोत्कम्पं दिशः समुदीक्षसे ॥२८॥(३१) 

प्रातः प्रातरुपागतेन जनिता निर्निद्रिता चक्षुषोर् 
मन्दायां मयि गौरवव्यपगमाद् उत्पादितं लाघवम् । 
किं मुग्धे न मया कृतं रमणधीर्मुक्ता त्वया गम्यतां 
दुस्थं तिष्ठसि यच्च पथ्यमधुना कर्तास्मि तच्छ्रोष्यसि ॥२९॥(३३) 

सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः 
सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् । 
साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं 
दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥३०॥(३४) 

प्रस्थानं वलयैः कृतं प्रियसखैरजस्रं गतं 
धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः । 
गन्तुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता 
गन्तव्ये सति जीवितप्रियसुहृत्सार्थः किमु त्यज्यते ॥३१॥(३५) 

सन्दष्टाधरपल्लवा सचकितं हस्ताग्रमाधुन्वती 
मामामुञ्च शठेति कोपवचनैरानर्तितभ्रूलता । 
शीत्काराञ्चितलोचना सरभसं यैश्चुम्बिता मानिनी 
प्राप्तं तैरमृतं मुधैव मथितो मूढैः सुरैः सागरः ॥३२॥(३६) 

सुप्तोऽयं सखि सुप्यतामिति गताः सख्यस्ततोऽनन्तरं 
प्रेमावासितया मया सरलया न्यस्तं मुखं तन्मुखे । 
ज्ञातेऽलीकनिमीलने नयनयोर्धूर्तस्य रोमाञ्चितो 
लज्जासीन् मम तेन साप्यपहृता तत्कालयोग्यैः क्रमैः ॥३३॥(३७) 

कोपो यत्र भ्रूकुटिरचना निग्रहो यत्र मौनं 
यत्रान्योन्यस्मितमनुनयो यत्र दृष्टिः प्रसादः । 
तस्य प्रेम्णस्तद् इदमधुना वैषमं पश्य जातं 
त्वं पादान्ते लुठसि नहि मे मन्युमोक्षः खलायाः ॥३४॥(३८) 

सुतनु जहिहि कोपं पश्य पादानतं मां 
न खलु तव कदाचित्कोप एवं विधोऽभूत् । 
इति निगदति नाथे तिर्यगामीलिताक्ष्या 
नयनजलमनल्पं मुक्तमुक्तं न किञ्चित् ॥३५॥(३९) 

गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्गमा 
सान्द्रस्नेहरसातिरेकविगलत्श्रीमन्नितम्बाम्बरा । 
मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी 
सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ॥३६॥(४०) 

पटालग्ने पत्यौ नमयति मुखं जातविनया 
हठाश्लेषं वाञ्छत्यपहरति गात्राणि निभृतम् । 
न शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना 
ह्रिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥३७॥(४१) 

गते प्रेमाबन्धे प्रणयबहुमाने विगलिते 
निवृत्ते सद्भावे जन इव जने गच्छति पुरः । 
तद् उत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस्तांश्च दिवसान् 
न जाने को हेतुर्दलति शतधा यन् न हृदयम् ॥३८॥(४३) 

चिरविरहिणोरुत्कण्ठार्तिश्लथीकृतगात्रयोर् 
नवमिव जगज् जातं भूयश्चिराद् अभिनन्दतोः । 
कथमपि दिने दीर्घे याते निशामधिरूढयोः 
प्रसरति कथा बह्वी यूनोर्यथा न तथा रतिः ॥३९॥(४४) 

दीर्घा वन्दनमालिका विरचिता हृष्ट्यैव नेन्दीवरैः 
पुष्पाणां प्रकरः स्मितेन रचितो नो कुन्दजात्यादिभिः । 
दत्तः स्वेदमुचा पयोधरयुगे नार्घ्यो न कुम्भाम्भसा 
स्वैरेवावयवैः प्रियस्य विशतस्तन्व्या कृतं मङ्गलम् ॥४०॥(४५) 

कान्ते सागसि शायिते प्रियसखीवेशं विधायागते 
भ्रान्त्यालिङ्ग्य मया रहस्यमुदितं तत्सङ्गमाकाङ्क्षया । 
मुग्धे दुष्करमेतद् इत्यतितरामुक्त्वा सहासं बलाद् 
आलिङ्ग्य छलितास्मि तेन कितवेनाद्य प्रदोषागमे ॥४१॥(४६) 

आशङ्क्य प्रणतिं पटान्तपिहितौ पादौ करोत्यादरात् 
व्याजेनागतमावृणोति हसितं न स्पष्टमुद्वीक्षते । 
मय्यालापवति प्रतीपवचनं सख्या सहाभाषते 
तस्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः ॥४२॥(४७) 

सा यावन्ति पदान्यलीकवचनैरालीजनैः शिक्षिता 
तावन्त्येव कृतागसो द्रुततरं व्याहृत्य पत्युः पुरः । 
प्रारब्धा पुरतो यथा मनसिजस्याज्ञा तथा वर्तितुं 
प्रेम्णो मौग्ध्यविभूषणस्य सहजः कोऽप्येष कान्तः क्रमः ॥४३॥(४८) 

दूरादुत्सुकमागते विवलितं सम्भाषिणि स्फारितं 
संश्लिष्यत्यरुणं गृहीतवसने किञ्चिन् नतभ्रूलतम् । 
मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं 
चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥४४॥(४९) 

अङ्गानामतितानवं कथमिदं कम्पश्च कस्मात्कुतो 
मुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति । 
तन्व्या सर्वमिदं स्वभावजमिति व्याहृत्य पक्ष्मान्तर 
व्यापी बाष्पभरस्तया चलितया निःश्वस्य मुक्तोऽन्यतः ॥४५॥(५०) 

पुरस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखः 
प्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतकः । 
स्फुटो रेखान्यासः कथमपि स तादृक् परिणतो 
गता येन व्यक्तं पुनरवयवैः सैव तरुणी ॥४६॥(५१) 

ततश्चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा 
मनस्विन्या रूढप्रणयसहसोद्गद्गदगिरा । 
अहो चित्रं चित्रं स्फुटमिति निगद्याश्रुकलुषं 
रुषा ब्रह्मास्त्रं मे शरसि निहितो वामचरणः ॥ 

कठिनहृदये मुञ्च भ्रान्तिं व्यलीककथाश्रितां 
पिशुनवचनैर्दुखं नेतुं न युक्तमिमं जनम् । 
किमिदमथवा सत्यं मुग्धे त्वया हि विनिश्चितं 
यद् अभिरुचितं तन् मे कृत्वा प्रिये सुखमास्यताम् ॥४७॥(५३) 

मन्दं मुद्रितपांशवः परिपतज्झङ्कारझञ्झामरुद् 
वेगध्वस्तकुटीरकान्तरगतच्छिद्रेषु लब्धान्तराः । 
कर्मव्यग्रकुटुम्बिनीकुचतटस्वेदच्छिदः प्रावृषः 
प्रारम्भे निपतन्ति कन्दलदलोल्लासाः पयोबिन्दवः ॥४८॥ 

पीतस्तुषारकिरणो मधुनैव सार्धम् 
अन्तः प्रविश्य चषके प्रतिबिम्बवर्ती । 
मानान्धकारमपि मानवतीजनस्य 
नूनं बिभेद यद् असौ प्रससाद सद्यः ॥४९॥ 

नभसि जलदलक्ष्मीं सम्भृतां वीक्ष्य दिष्ट्या 
प्रसरसि यदि कान्तेत्यर्धमुक्त्वा कथञ्चित् । 
मम पटमवलम्ब्य प्रोल्लिखन्ती धरित्रीं 
तदनुकृतवती सा यत्र वाचो निवृत्ताः ॥५०॥ 

इयमसौ तरलायतलोचना 
गुरुसमुन्नतपीनपयोधरा । 
पृथुनितम्बभरालसगामिनी 
प्रियतमा मम जीवितहारिणी ॥५१॥ 

सालक्तकेन नवपल्लवकोमलेन 
पादेन नूपुरवता मदनालसेन । 
यस्ताड्यते दयितया प्रणयाराधात् 
सोऽङ्गीकृतो भगवता मकरध्वजेन ॥५२॥ 

बाले नाथ विमुञ्च मानिनि रुषं रोषान् मया किं कृतं 
खेदोऽस्मासु न मेऽपराध्यति भवान् सर्वेऽपराधा मयि । 
तत्किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते 
नन्वेतन् मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥५३॥(५७) 

नीत्वोच्चैर्विक्षिपन्तः कृततुहिनकणासारसङ्गान् परागान् 
कौन्दान् आनन्दितालीन् अतितरसुरभीन् भूरिशो दिङ्मुखेषु । 
एते ते कुङ्कुमाक्तस्तनकलसभरास्फालनाद् उच्छलन्तः 
पीत्वा शीत्कारिवक्त्रं शिशुहरिदृशां हैमना वान्ति वाताः॥५४॥ 

श्रुत्वा तन्व्या निशीथे नवघनरसितं विश्लथाङ्कं पतित्वा 
शय्यायां भूमिपृष्ठे करतलधृतया दुःखितालीजनेन । 
सोत्कण्ठं मुक्तकण्ठं कठिनकुचतटाघातशीर्णाश्रुबिन्दु 
स्मृत्वा स्मृत्वा प्रियस्य स्खलितमृदुवचो रुद्यते पान्थबध्वा ॥५५॥ 

श्लिष्टः कण्ठे किमिति न मया मूढया प्राणनाथश् 
चुम्बत्यस्मिन् वदनविधुतिः किं कृता किं न दृष्टः । 
नोक्तः कस्माद् इति नववधूचेष्टितं चिन्तयन्ती 
पश्चात्तापं वहति तरुणी प्रेम्णि जाते रसज्ञा ॥५६॥(५८) 

श्रुत्वा नामापि यस्य स्फुटघनपुलकं जायतेऽङ्गं समन्तात् 
दृष्ट्वा यस्याननेन्दुं भवति वपुरिदं चन्द्रकान्तानुकारि । 
तस्मिन्नागत्य कण्ठग्रहणसरभसस्थायिनि प्राणनाथे 
भग्ना मानस्य चिन्ता भवति मम प्नर्वज्रमय्याः कदा नु ॥५७॥(५९) 

रामाणां रमणीयवक्त्रशशिनः स्वेदोदबिन्दुप्लुतो 
व्यालोलालकवल्लरीं प्रचलयन् धुन्वन् नितम्बाम्बरम् । 
प्रातर्वाति मधौ प्रकामविकसद्राजीवराजीरजो 
जालामोदमनोहरो रतिरसग्लानिं हरन्मारुतः ॥५८॥ 

अङ्गं चन्दनपाण्डुपल्लवमृदुस्ताम्बूलताम्राधरो 
धारायन्त्रजलाभिषेककलुषे धौताञ्जने लोचने । 
अन्तःपुष्पसुगन्धिरार्द्रकवरी सर्वाङ्गलग्नाम्बरं 
रोमाणां रमणीयतां विदधति ग्रीष्मापराह्वागमे ॥५९॥ 

वरमसौ दिवसो न पुनर्निशा 
ननु निशैव वरं न पुनर्दिवा । 
उभयमेतद् उपैत्वथवा क्षयं 
प्रियजनेन न यत्र समागमः ॥६०॥ 

लोलैर्लोचनवारिभिः सशपथैः पादप्रणामैः प्रियैर् 
अन्यास्ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितम् । 
पुण्याहं व्रज मङ्गलं सुदिवसं प्रातः प्रयातस्य ते 
यत्स्नेहोचितमीहितं प्रियतम त्वं निर्गतः श्रोष्यसि ॥६१॥(६१) 

लग्ना नांशुकपल्लवे भुजलता न द्वारदेशेऽपिता 
नो वा पादतले तया निपतितं तिष्ठेति नोक्तं वचः । 
काले केवलमम्बुदातिमलिने गन्तुं प्रवृत्तः शठः 
तन्व्या बाष्पजलौघकल्पितनदीपूरेण बद्धः प्रियः ॥६२॥(६२) 

न जाने संमुखायाते प्रियाणि वदति प्रिये । 
सर्वाण्यङ्गानि मे यान्ति श्रोत्रतां किमु नेत्रताम् ॥६३॥(६४) 

विरहविषमः कामो वामस्तनुं कुरुते तनुं 
दिवसगणनाद् अक्षश्चासौ व्यपेतघृणो यमः । 
त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हे 
किशलयमृदुर्जीवेद् एवं कथं प्रमदाजनः ॥६४॥(६७) 

पादासक्ते सुचिरमिह ते वामता कैव कान्ते 
सन्मार्गस्थे प्रणयिनि जने कोपने कोऽपराधः । 
इत्थं तस्याः पर्जनकथा कोपवेगोपशान्तौ 
बाष्पोद्भेदैस्तद् अनु सहसा न स्थितं न प्रयातम् ॥६५॥(६८) 

पुराभूदस्माकं नियतमविभिन्ना तनुरियं 
ततो नु त्वं प्रेयान्वयमपि हताशाः प्रियतमाः । 
इदानीं नाथस्त्वं वयमपि कलत्रं किमपरं 
मयाप्तं प्राणानां कुलिशकठिनानां फलमिदम् ॥६६॥(६९) 

मुग्धे मुद्घतयैव नेतुमखिलः कालः किमारभ्यते 
मानं धत्स्व धृतिं वधान ऋजुतां दूरे कुरु प्रेयसि । 
सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना 
नीचेः शंस हृदि स्थितो ननु स मे प्राणेश्वरः श्रोष्यति ॥६७॥(७०) 

पीतो यतः प्रभृति कामपिपासितेन 
तस्या मयाधररसः प्रचुरः प्रियायाः । 
तृष्णा ततः प्रभृति मे द्विगुणत्वमेति 
तावण्यमस्ति बहु तत्र किमपि चित्रम् ॥६८॥ 

क्व प्रस्थितासि करभोरु घने निशीथे 
प्राणाधिको वसति यत्र जनः प्रियो मे । 
एकाकिनी वद कथं न बिभेषि बाले 
नन्वस्ति पुङ्खितशरो मदनः सहायः ॥६९॥(७१) 

लीलात्तामरसाहतोऽन्यवनितानिःशङ्कदष्टाधरः 
कश्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः । 
मुग्धा कुद्मलिताननेन दधतो वायुं स्थिता तस्य सा 
भ्रान्त्या धूर्ततया च वेपथुमती तेनानिशं चुम्बिता ॥७०॥(७२) 

स्फुटतु हृदयं कामं कामं करतु तनुं तनुं 
न सखि चटुलप्रेम्णा कार्यं पुनर्दयितेन मे । 
इति सरभसं मानाटोपाद् उदीर्य वचस्तया 
रमणपदवी सारङ्गाक्ष्या सशङ्कितमीक्षिता ॥७१॥(७३) 

गाढाश्लेषविशीर्णचन्दनरजःपुञ्जप्रकर्षादियं 
शय्या सम्प्रति कोमलाङ्गि परुषेत्यारोप्य मां वक्षसि । 
गाढौष्ठग्रहपूर्वमाकुलतया पादाग्रसंदंशके- 
नाकृष्याम्बरमात्मनो यदुचितं धूर्तेन तत्प्रस्तुतम् ॥७२॥(७४) 

कथमपि कृतप्रत्याख्याने प्रिये स्खलितोत्तरे 
विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतं । 
असहनसखीश्रोत्रप्राप्तिप्रमादससंभ्रमं 
विगलितदृशा शून्ये गेहे समुच्छ्वसितं पुनः ॥७३॥(७५) 

आदृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया 
विच्छिन्नेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति । 
दत्तैकं सशुचा गृहं प्रति पदं पान्थस्त्रियास्मिन्क्षणे 
मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम् ॥७४॥(७६) 

आयाते दयिते मनोरथशतैर्नीत्वा कथंचिद्दिनं 
वैदग्ध्यापगमाज्जडे परिजने दीर्घां कथां कुर्वति । 
दष्टास्मीत्यभिधाय सत्वरपदं व्याधूय चीनांशुकं 
तन्वङ्ग्या रतिकातरेण मनसा नीतः प्रदीपः शमम् ॥७५॥(७७) 

आलम्ब्याङ्गणवाटिकापरिसरे चूतद्रुमे मञ्जरीं 
सर्पत्सान्द्रपरागलम्पटरटद्भृङ्गाङ्गनाशोभिनीम् । 
मन्ये स्वां तनुमुत्तरीयशकलेनाच्छाद्य बाला स्फुरत्- 
कण्ठध्वाननिरोधकम्पितकुचश्वासोद्गमा रोदिति ॥७६॥(७८) 

यास्यामिति समुद्यतस्य गदितं विस्रब्धमाकर्णितं 
गच्छन्दूरमुपेक्षितो मुहुरसौ व्यावृत्य तिष्ठन्नपि । 
तच्छून्ये पुनरास्थितास्मि भवने प्राणास्त एते दृढाः 
सख्यस्तिष्ठत जीवितव्यसनिनी दम्भादहं रोदिमि ॥७७॥(७९) 

शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनैर् 
निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् ॥ 
विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्तलीं 
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥७८॥(८२) 

लोलद्भ्रूलतया विपक्षदिगुपन्यासेऽवधूतं शिरस् 
तद्वृत्तान्तनिरीक्षणे कृतनमस्कारो विलक्षः स्थितः । 
कोपात्ताम्रकपोलभित्तिनि मुखे दृष्ट्या गतः पादयोर् 
उत्सृष्टो गुरुसन्निधावपि विधिर्द्वाभ्यां न कालोचितः ॥७९॥(८३) 

जाता नोत्कलिका स्तनौ न लुलितौ गात्रं न रोमाञ्चितं 
वक्त्रं स्वेदकणान्वित न सहसा यावच्छठेनामुना । 
दृष्टेनाव मनो हृतं धृतिमुषा प्राणेश्वरेणाद्य मे 
तत्केनात्र निरूप्यमाणनिपुणो मानः समाधीयताम् ॥८०॥(८४) 

दृष्टः कातरनेत्रया चिर्तरं बद्धाञ्जलिं याचित् 
पश्चादंशुकपल्लवेन विधृतो निर्व्याजमालिङ्गितः । 
इत्याक्षिप्य यदा समस्तमघृणो गन्तुं प्रवृत्तः शठः 
पूर्वं प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥८१॥(८५) 

कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः 
शिरस्याज्ञा न्यस्ता प्रतिवचनवत्यानतिमति । 
न दृष्टेः शैथिल्यं मिलन इति चेतो दहति मे 
निगूढान्तःकोपात्कठिणहृदये संवृतिरियम् ॥८२॥(१४) 

एकस्मिञ्शयने विपक्षरमणीनामग्रहे मुग्धया 
सद्यः कोपपराङ्मुखं शयितया चाटूनि कुर्वन्नपि । 
आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणात् 
मा भूस्सुप्त इवैष मन्दवलितग्रीवं पुनर्वीक्षितः ॥८३॥(२२) 

मलयमरुतां व्राता याता विकासितमल्लिका 
परिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि । 
घन घटयितुं निस्नेहं त्वां य एव निवर्तने 
प्रभवति गवां किन्नश्छिन्नं स एव धनञ्जयः ॥८४॥(३२) 

स्वं दृष्ट्वा करजक्षतं मधुमदक्षीवा विचार्येर्ष्यया 
गच्छन्ती क्व नु गच्छसीति विधृता बाला पटान्ते मया । 
प्रत्यावृत्तमुखी सबाष्पनयना मां मुञ्च मुञ्चेति सा 
कोपात्प्रस्फुरिताधरा यदवदत्तत्केन विस्मर्यते ॥८५॥(५५) 

सालक्तकं शतदलाधिककान्तिरम्यं 
रत्नौघधामनिकरारुणनूपुरं च । 
क्षिप्तं भृशं कुपितया तरलोत्पलाक्ष्या 
सौभाग्यचिह्नमिव मूर्ध्नि पदं विरेजे ॥८६॥ 

कपोले पत्राली करतलनिरोधेन मृदिता 
निपीतो निःश्वासैरयममृतहृद्योऽधररसः । 
मुहुः कण्ठे लग्नस्तरलयति बाष्पः स्तनतटं 
प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥८७॥(८१) 

लाक्षालक्ष्मललाटपट्टमभितः केयूरमुद्रा गले 
वक्त्रे कज्जलकालिमा नयनयोर्स्ताम्बूलरागो घनः । 
दृष्टा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो 
लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥८८॥(६०) 

तप्ते महाविरहवह्निशिखावलीभिर् 
आपाण्डुरस्तनतटे हृदये प्रियायाः । 
रथ्यालिवीक्षणनिवेशितलोलदृष्टेर् 
नूनं छनच्छनिति बाष्पकणाः पतन्ति ॥८९॥(८६) 

चिन्तामोहविनिश्चलेन मनसा मौनेन पादानतः 
प्रत्याख्यानपराङ्मुखः प्रियतमो गन्तुं प्रवृत्तोऽधुना । 
सव्रीडैरलसैर्निरन्तरलुठद्बाष्पाकुलैर्लोचनैः 
श्वासोत्कम्पकुचं निरीक्ष्य सुचिरं जीवाशया वारितः ॥९०॥(८७) 

तन्वङ्ग्या गुरुसन्निधौ नयनजं यद् वारि संस्तम्भितं 
तेनान्तर्गलितेन मन्मथशिखी सिक्तोऽनुषङ्गोद्भवः । 
मन्ये तस्य निरस्यमानकिरणस्यैषा मुखेनोद्गता 
श्वासामोदसमाकुलालिनिकरव्याजेन धूमावलिः ॥९१॥(९६) 

भ्रूभेदो रचितः चिरं नयनयोरभ्यस्तमामीलनं 
रोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः । 
धैर्यं कर्तुमपि स्थिरीकृतमिदं चेतः कथञ्चिन् मया 
बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवस्थिता ॥९२॥(९७) 

भ्रूभङ्गो गुणितश्चिरं नयनयोरभ्यस्तमामीलनं 
रोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः । 
धैर्यं कर्तुमपि स्थिरीकृतमिदं चेतः कथञ्चिन् मया 
बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता ॥ 

देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननैर् 
यत्नेनापि न याति लोचनपथं कान्तेति जानन्नपि । 
उद्ग्रीवश्चरणार्धरुद्धवसुधः कृत्वाश्रुपूर्णां दृशं 
तामाशां पथिकस्तथापि किमपि ध्यायंश्चिरं वीक्षते ॥९३॥(९९) 

म्लानं पाण्डु कृशं वियोगविधुरं लम्बालकं सालसं 
भूयस्तत्क्षणजातकान्ति रभसप्राप्ते मयि प्रोषिते । 
साटोपं रतिकेलिकालसरसं रम्यं किमप्यादराद् 
यत्पीतं सुतनोर्मया वदनकं वक्तुं न तत्पार्यते ॥९४॥(८८) 

सैवाहं प्रमदा नृणामधिगतावेतौ च तौ नूपुराव् 
एषास्माकमवृत्तिरेव सहजव्रीडाधनः स्त्रीजनः । 
इत्थं लज्जितया स्मृतेरुपगमे मत्वा तनुं सम्भ्रमात् 
पुम्भावः प्रथमं रतिव्यतिकरे मुक्तस्ततो वल्लभः ॥९५॥(८९) 

करकिसलयं धूत्वा धूत्वा विमार्गति वाससी 
क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति । 
स्थगयति मुहुः पत्युर्नेत्रे विहस्य समाकुला 
सुरतविरता रम्या तन्वी मुहुर्मुहुरीक्षते ॥९६॥(९०) 

सन्त्येवात्र गृहे गृहे युवतयस्ताः पृच्छ गत्वाधुना 
प्रेयांसः प्रणमन्ति किं तव पुनर्दासो यथा वर्तते । 
आत्मद्रोहिणि दुर्जनैः प्रलपितं कर्णेऽनिशं मा कृथाश् 
छिन्नस्नेहरसा भवन्ति पुरुषा दुःखानुवर्त्याः पुनः ॥९७॥(९१) 

निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मथ्यते 
निद्रा नेति न दृश्यते प्रियमुखं रात्रिन्दिवं रुद्यते । 
अङ्गं शोषमुपैति पादपतितः प्रेयांस्तथोपेक्षितः 
सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥९८॥(९२) 

अद्यारभ्य यदि प्रिये पुनरहं मानस्य वाऽन्यस्य वा 
गृह्णीयां शठदुर्नयेन मनसा नामापि संक्षेपतः । 
तत्तेनैव विना शशाङ्कधवलाः स्पष्टाट्टहासा निशा 
एको वा दिवसः पयोदमलिनो यायान्मम प्रावृषि ॥९९॥(९३) 

इदं कृष्णं कृष्णं प्रियतम तनु श्वेतमथ किं 
गमिष्यामो यामो भवतु गमनेनाथ भवतु । 
पुरा येनावं मे चिरमनुसृता चित्तपदवी 
स एवान्यो जातः सखि परिचिताः कस्य पुरुषाः ॥१००॥(९४) 

चरणपतनं सख्यालापा मनोहरचाटवः 
कृशतरतनोर्गाढाश्लेषो हठात्परिचुम्बनम् । 
इति हि चपलो मानारम्भस्तथापि हि नोत्सहे 
हृदयदयितः कान्तः कामं किमत्र करोम्यहम् ॥१०१॥(९५) 

अहं तेनाहूता किमपि कथयामीति विजने 
समीपे चासीना सरसहृदयत्वादवहिता । 
ततः कर्णोपान्ते किमपि वदताघ्राय वदनं 
गृहीता धर्मिल्ले सखि स च मया गाढमधरे ॥१०२॥(९८) 

चक्षुःप्रीतिप्रसक्ते मनसि परिचये चिन्त्यमानाभ्युपाये 
रागे यातेऽतिभूमिं विकसति सुतरां गोचरे दूतिकायाः । 
आस्तां दूरेण तावत्सरभसदयितालिङ्गनानन्दलाभस् 
तद्गेहोपान्तरथ्याभ्रमणमपि परां निर्वृतिं सन्तनोति ॥१०३॥(१००) 

कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनाद् 
वासो विश्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम् । 
एतावत्सखि वेद्मि साम्प्रतमहं तस्याङ्गसङ्गे पुनः 
कोऽयं कास्मि रतं नु वा कथमिति स्वल्पापि मे न स्मृतिः ॥१०४॥(१०१) 

प्रासादे सा दिशि दिशि च सा पृष्ठतः सा पुरः सा 
पर्यङ्के सा पथि पथि च सा तद्वियोगातुरस्य । 
हंहो चेतः प्रकृतिरपरा नास्ति मे कापि सा सा 
सा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥१०५॥(१०२)

Amaru Shatakam With Bhaswati Tantra Commentary (भास्वतीतन्त्रभाष्यं)

Like this:

Like Loading…
Tags: 900 CE Bharatiya Sanskriti Hindu Kashmir

Post navigation

Previous Aa No Vhadra Suktam (Aano Bhadra Suktam Rig 1.89)
Next Autopsy

More Stories

Sama Veda Samhita (SC Vol 1): Agna ā yāhi vītaye gṛṇāno havyadātaye Kouthumiya Sama Veda Samhita Scholastic Commentary
  • Vedic Sanskrit Culture

Sama Veda Samhita (SC Vol 1): Agna ā yāhi vītaye gṛṇāno havyadātaye

18/09/2026
Sama Veda Samhita (Index): Sarvarthapedia Commentary Kouthumiya Sama Veda Samhita Scholastic Commentary
  • Vedic Sanskrit Culture

Sama Veda Samhita (Index): Sarvarthapedia Commentary

18/09/2026
Kautsavya’s Nirukta Nighantu: The Ancient Vedic Concordance of Sanskrit Words Sarvarthapedia of Hindu Scriptures and Interpretation (10-Volume): From the Vedic Period up to 2026
  • Vedic Sanskrit Culture

Kautsavya’s Nirukta Nighantu: The Ancient Vedic Concordance of Sanskrit Words

10/09/2026
  • Global Production, Supply Chains and Industrial Networks (Volume 4): Encyclopedia of International Trade and Commerce
  • Synopsis of Volume 3 of GEITAC: International Trade Theory and Economic Structures
  • International Trade Theory and Economic Structures (Volume 3): Encyclopedia of International Trade and Commerce
  • Synopsis of Volume 2 of GEITAC: Historical Evolution of World Commerce
  • Historical Evolution of World Commerce (Volume 2): Encyclopedia of International Trade and Commerce

More Updates

Global Production, Supply Chains and Industrial Networks (Volume 4): Encyclopedia of International Trade and Commerce Global Encyclopedia of International Trade and Commerce
  • Law Library

Global Production, Supply Chains and Industrial Networks (Volume 4): Encyclopedia of International Trade and Commerce

11/10/2026
Synopsis of Volume 3 of GEITAC: International Trade Theory and Economic Structures Global Encyclopedia of International Trade and Commerce
  • Law Library

Synopsis of Volume 3 of GEITAC: International Trade Theory and Economic Structures

11/10/2026
International Trade Theory and Economic Structures (Volume 3): Encyclopedia of International Trade and Commerce Global Encyclopedia of International Trade and Commerce
  • Law Library

International Trade Theory and Economic Structures (Volume 3): Encyclopedia of International Trade and Commerce

11/10/2026
Synopsis of Volume 2 of GEITAC: Historical Evolution of World Commerce Global Encyclopedia of International Trade and Commerce
  • Law Library

Synopsis of Volume 2 of GEITAC: Historical Evolution of World Commerce

11/10/2026
  • Anosh Ekka v. CBI (2026 INSC 357): SC Grants Bail to Former Jharkhand Minister in CBI DA Case
  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Indian Constitution
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders
Encyclopedia of Contemporary World History

28 September 2026 Sarvarthapedia Global Historical Record

28 September 2026 — World History and Current Affairs records the day’s major developments across war, geopolitics, maritime trade, energy security, artificial intelligence, aviation, finance, science, climate, law, religion, tourism and global ...
  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subjects
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia Meta-Concept
  • Contact Us
  • Privacy Policy
  • FAQs
  • NEET
  • Library Updates
Legal Database and Encyclopedia | © 2026 by Advocatetanmoy Law Library.
%d