Sanskrit

गोपथ ब्राह्मणम् – Gopath Brahman

ओं ब्रह्म ह वा इदम् अग्र आसीत् स्वयंभ्व् एकम् एव तदैक्षत महद् वै यक्षम् यद् एकम् एवास्मि हन्ताहं मद् एव मन्मात्रं द्वितीयं देवं निर्मिमा इति तद् अभ्यश्राम्यद् अभ्यतपत् समतपत् तस्य श्रान्तस्य तप्तस्य संतप्तस्य ललाटे स्नेहो यद् आर्द्रम् आजायत तेनानन्दत् तद् अब्रवीत् महद् वै यक्षं सुवेदम् अविदम् अहम् इति तद् यद् अब्रवीत् महद् वै यक्षं सुवेदम् अविदम् अहम् इति तस्मात् सुवेदो ऽभवत् तं वा एतं सुवेदं सन्तं स्वेद इत्य् आचक्षते परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः ॥ १ ॥ 1.1.1|

1.1.2 स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत् तस्य श्रान्तस्य तप्तस्य संतप्तस्य सर्वेभ्यो रोमगर्तेभ्यः पृथक्स्वेदधाराः प्रास्यन्दन्त ताभिर् अनन्दत् तद् अब्रवीत् आभिर् वा अहम् इदं सर्वं धारयिष्यामि यद् इदं किं च आभिर् वा अहम् इदं सर्वं जनयिष्यामि यद् इदं किं च आभिर् वा अहम् इदं सर्वं आप्स्यामि यद् इदं किं चेति तद् यद् अब्रवीत् आभिर् वा अहम् इदं सर्वं धारयिष्यामि यद् इदं किं चेति तस्माद् धारा अभवन् तद् धाराणां धारात्वं यच् चासु ध्रियते तद् यद् अब्रवीत् आभिर् वा अहम् इदं सर्वं जनयिष्यामि यद् इदं किं चेति तस्माज् जाया अभवन् तज् जायानां जायात्वं यच् चासु पुरुषो जायते यच् च पुत्रः पुन् नाम नरकम् अनेकशततारम् तस्मात् त्रातीति पुत्रस् तत् पुत्रस्य पुत्रत्वम् तद् यद् अब्रवीत् आभिर् वा अहम् इदं सर्वं आप्स्यामि यद् इदं किं चेति तस्माद् आपो ऽभवन् तद् अपाम् अप्त्वम् आप्नोति वै स सर्वान् कामान् यान् कामयते ॥ २ ॥

1.1.3 ता अपः सृष्ट्वान्वैक्षत तासु स्वां छायाम् अपश्यत् ताम् अस्येक्षमाणस्य स्वयं रेतो ऽस्कन्दत् तद् अप्सु प्रत्यतिष्ठत् तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत् ताः श्रान्तास् तप्ताः संतप्ताः सार्धम् एव रेतसा द्वैधम् अभवन् तासाम् अन्यतरा अतिलवणा अपेया अस्वाद्व्यस् ता अशान्ता रेतः समुद्रं वृत्वातिष्ठन् अथेतराः पेयाः स्वाद्व्यः शान्तास् तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत् ताभ्यः श्रान्ताभ्यस् तप्ताभ्यः संतप्ताभ्यो यद् रेत आसीत् तद् अभृज्ज्यत [ असीत्] तस्माद् भृगुः समभवत् तद् भृगोर् भृगुत्वम् भृगुर् इव वै स सर्वेषु लोकेषु भाति य एवं वेद ॥ ३ ॥

1.1.4 स भृगुं सृष्ट्वान्तरधीयत स भृगुः सृष्टः प्राङ् ऐजत तं वाग् अन्ववदत् वायो वाय इति स न्यवर्तत स दक्षिणां दिशम् ऐजत तं वाग् अन्ववदत् मातरिश्वन् मातरिश्वन्न् इति स न्यवर्तत स प्रतीचीं दिशम् ऐजत तं वाग् अन्ववदत् पवमान पवमानेति स न्यवर्तत स उदीचीं दिशम् ऐजत तं वाग् अन्ववदत् वात वातेति तम् अब्रवीत् न न्व् अविदम् अहम् इति न हीति अथार्वाङ् एनम् एतास्व् एवाप्स्व् अन्विच्छेति तद् यद् अब्रवीद् अथार्वाङ् एनम् एतास्व् एवाप्स्व् अन्विच्छेति तद् अथर्वाभवत् तद् अथर्वणो ऽथर्वत्वम् तस्य ह वा एतस्य भगवतो ऽथर्वण ऋषेर् यथैव ब्रह्मणो लोमानि यथाङ्गानि यथा प्राण एवम् एवास्य सर्व आत्मा समभवत् तम् अथर्वाणं ब्रह्माब्रवीत् प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति तद् यद् अब्रवीत् प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति तस्मात् प्रजापतिर् अभवत् तत् प्रजापतेः प्रजापतित्वम् अथर्वा वै प्रजापतिः प्रजापतिर् इव वै स सर्वेषु लोकेषु भाति य एवं वेद ॥ ४ ॥

1.1.5 तम् अथर्वाणम् ऋषिम् अभ्यश्राम्यद् अभ्यतपत् समतपत् तस्माच् छ्रान्तात् तप्तात् संतप्ताद् दशतयान् अथर्वण ऋषीन् निरमिमतैकर्चान् द्व्यृचांस् तृचांस् चतुरृचान् पञ्चर्चान्त् षडर्चान्त् सप्तर्चान् अष्टर्चान् नवर्चान् दशर्चान् इति [एद्.॒ षडर्चांत्] तान् अथर्वण ऋषीन् अभ्यश्राम्यद् अभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो दशतयान् आथर्वणान् आर्षेयान् निरमिमतैकादशान् द्वादशांस् त्रयोदशांश् चतुर्दशान् पञ्चदशान् षोडशान्त् सप्तदशान् अष्टादशान् नवदशान् विंशान् इति [एद्.॒ षोडशांत्, नोते अल्सो पञ्चर्चान्त् अबोवे] तान् अथर्वण ऋषीन् आथर्वणांश् चार्षेयान् अभ्यश्राम्यद् अभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो यान् मन्त्रान् अपश्यत् स आथर्वणो वेदो ऽभवत् तम् आथर्वणं वेदम् अभ्यश्राम्यद् अभ्यतपत् समतपत् तस्माच् छ्रान्तात् तप्तात् संतप्ताद् ओम् इति मन एवोर्ध्वम् अक्षरम् उदक्रामत् स य इच्छेत् सर्वैर् एतैर् अथर्वभिश् चाथर्वणैश् च कुर्वीयेत्य् एतयैव तन् महाव्याहृत्या कुर्वीत सर्वैर् ह वा अस्यैतैर् अथर्वभिश् चाथर्वणैश् च कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतया महाव्याहृत्या कुरुते ॥ ५ ॥

1.1.6 स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत् स आतमत एव त्रींल् लोकान् निरमिमीत पृथिवीम् अन्तरिक्षं दिवम् इति स खलु पादाभ्याम् एव पृथिवीं निर्ममिमीत उदराद् अन्तरिक्षं मूर्ध्नो दिवम् स तांस् त्रींल् लोकान् अभ्यश्राम्यद् अभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यस् त्रीन् देवान् निरमिमीत अग्निं वायुम् आदित्यम् इति स खलु पृथिव्या एवाग्निं निरमिमीतान्तरिक्षाद् वायुं दिव आदित्यम् स तांस् त्रीन् देवान् अभ्यश्राम्यद् अभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यस् त्रीन् वेदान् निरमिमीत ऋग्वेदं यजुर्वेदं सामवेदम् इति अग्नेर् ऋग्वेदं वायोर् यजुर्वेदं आदित्यात् सामवेदम् स तांस् त्रीन् वेदान् अभ्यश्राम्यद् अभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यस् तिस्रो महाव्याहृतीर् निरमिमीत भूर् भुवः स्वर् इति भूर् इत्य् ऋग्वेदाद् भुव इति यजुर्वेदात् स्वर् इति सामवेदात् स य इच्छेत् सर्वैर् एतैस् त्रिभिर् वेदैः कुर्वीयेत्य् एताभिर् एव तन् महाव्याहृतिभिः कुर्वीत सर्वैर् ह वा अस्यैतैस् त्रिभिर् वेदैः कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एताभिर् महाव्याहृतिभिः कुरुते ॥ ६ ॥

1.1.7 ता या अमू रेतः समुद्रं वृत्वातिष्ठंस् ताः प्राच्यो दक्षिणाच्यः प्रतीच्य उदीच्यः समवद्रवन्त तद् यत् समवद्रवन्त तस्मात् समुद्र उच्यते ता भीता अब्रुवन् भगवन्तम् एव वयं राजानं वृणीमह इति यच् च वृत्वातिष्ठंस् तद् वरणो ऽभवत् तं वा एतं वरणं सन्तं वरुण इत्य् आचक्षते परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः स समुद्राद् अमुच्यत स मुच्युर् अभवत् तं वा एतं मुच्युं सन्तं मृत्युर् इत्य् आचक्षते परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषस् तं वरुणं मृत्युम् अभ्यश्राम्यद् अभ्यतपत् समतपत् तस्य श्रान्तस्य तप्तस्य संतप्तस्य सर्वेभ्यो ऽङ्गेभ्यो रसो ऽक्षरत् सो ऽङ्गरसो ऽभवत् तं वा एतं अङ्गरसं सन्तम् अङ्गिरा इत्य् आचक्षते परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः ॥ ७ ॥

1.1.8 तम् अङ्गिरसम् ऋषिम् अभ्यश्राम्यद् अभ्यतपत् समतपत् तस्माच् छ्रान्तात् तप्तात् संतप्ताद् विंशिनो ऽङ्गिरस ऋषीन् निरमिमीत तान् विंशिनो ऽङ्गिरस ऋषीन् अभ्यश्राम्यद् अभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो दशतयान् आङ्गिरसान् आर्षेयान् निरमिमीत षोडशिनो ऽष्टादशिनो द्वादशिन एकर्चान् द्व्यृचांस् तृचांश् चतुरृचान् पञ्चर्चान् षडर्चान् सप्तर्चान् इति तान् अङ्गिरस ऋषीन् आङ्गिरसांश् चार्षेयान् अभ्यश्राम्यद् अभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो यान् मन्त्रान् अपश्यत् स आङ्गिरसो वेदो ऽभवत् ताम् आङ्गिरसं वेदम् अभ्यश्राम्यद् अभ्यतपत् समतपत् तस्माच् छ्रान्तात् तप्तात् संतप्ताज् जनद् इति द्वैतम् अक्षरं व्यभवत् स य इच्छेत् सर्वैर् एतैर् अङ्गिरोभिश् चाङ्गिरसैश् च कुर्वीयेत्य् एतयैव तन् महाव्याहृत्या कुर्वीत सर्वैर् ह वा अस्यैतैर् अङ्गिरोभिश् चाङ्गिरसैश् च कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतया महाव्याहृत्या कुरुते ॥ ८ ॥

1.1.9 स ऊर्ध्वो ऽतिष्ठत् स इमांल् लोकान् व्यष्टभ्नात् तस्माद् अङ्गिरसो ऽधीयान ऊर्ध्वस् तिष्ठति तद् व्रतं स मनसा ध्यायेद् यद् वा अहं किं च मनसा ध्यास्यामि तथैव तद् भविष्यति [एद्.॒ येद्] तद् ध स्म तथैव भवति तद् अप्य् एतद् ऋचोक्तम् श्रेष्ठो ह वेदस् तपसो ऽधि जातो ब्रह्मज्यानां क्षितये संबभूव । ऋज्यद् भूतं यद् असृज्यतेदं निवेशनम् अनृणं दूरम् अस्येति  ता वा एता अङ्गिरसां जामयो यन् मेनयः करोति मेनिभिर् वीर्यं य एवं वेद ॥ ९ ॥

1.1.10 स दिशो ऽन्वैक्षत प्राचीं दक्षिणां प्रतीचीम् उदीचीं ध्रुवाम् ऊर्ध्वाम् इति तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत् ताभ्यः श्रान्ताभ्यस् तप्ताभ्यः संतप्ताभ्यः पञ्च वेदान् निरमिमीत सर्पवेदं पिशाचवेदम् असुरवेदम् इतिहासवेदं पुराणवेदम् इति स खलु प्राच्या एव दिशः सर्पवेदं निरमिमीत दक्षिणस्याः पिशाचवेदम् प्रतीच्या असुरवेदम् उदीच्या इतिहासवेदम् ध्रुवायाश् चोर्ध्वायाश् च पुराणवेदम् स तान् पञ्च वेदान् अभ्यश्राम्यद् अभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यः पञ्च महाव्याहृतीर् निरमिमीत वृधत् करद् रुहन् महत् तद् इति वृधद् इति सर्पवेदात् करद् इति पिशाचवेदात् रुहद् इत्य् असुरवेदात् महद् इतीतिहासवेदात् तद् इति पुराणवेदात् स य इच्छेत् सर्वैर् एतैः पञ्चभिर् वेदैः कुर्वीयेत्य् एताभिर् एव तन् महाव्याहृतिभिः कुर्वीत सर्वैर् ह वा अस्यैतैः पञ्चभिर् वेदैः कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एताभिर् महाव्याहृतिभिः कुरुते ॥ १० ॥

1.1.11 स आवतश् च परावतश् चान्वैक्षत तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत् ताभ्यः श्रान्ताभ्यस् तप्ताभ्यः संतप्ताभ्यः शम् इत्य् ऊर्ध्वम् अक्षरम् उदक्रामत् स य इच्छेत् सर्वाभिर् एताभिर् आवद्भिश् च परावद्भिश् च कुर्वीयेत्य् एतयैवा तन् महाव्याहृत्या कुर्वीत सर्वाभिर् ह वा अस्यैताभिर् आवद्भिश् च परावद्भिश् च कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतया महाव्याहृत्या कुरुते ॥ ११ ॥

1.1.12 स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत् स मनस एव चन्द्रमसं निरमिमीत नखेभ्यो नक्षत्राणि लोमभ्य ओषधिवनस्पतीन् क्षुद्रेभ्यः प्राणेभ्यो ऽन्यान् बहून् देवान् स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत् स एतं त्रिवृतं सप्ततन्तुम् एकविंशतिसंस्थं यज्ञम् अपश्यत् [एद्. एकविशतिसंस्थं] तद् अप्य् एतद् ऋचोक्तम् <अग्निर् यज्ञं त्रिवृतं सप्ततन्तुम् [पै.सं. ५.२८.१च्]> इति अथाप्य् एष प्राक्रीडितः श्लोकः प्रत्यभिवदति सप्त सुत्याः सप्त च पाकयज्ञा इति ॥ १२ ॥

1.1.13 तम् आहरत् तेनायजत तस्याग्निर् होतासीत् वायुर् अध्वर्युः सूर्य उद्गाता चन्द्रमा ब्रह्मा पर्जन्यः सदस्यः ओषधिवनस्पतयश् चमसाध्वर्यवः विश्वे देवा होत्रकाः अथर्वाङ्गिरसो गोप्तारस् तं ह स्मैतम् एवंविद्वांसः पूर्वे श्रोत्रिया यज्ञं ततं सावसाय ह स्माहेत्य् अभिव्रजन्ति मा नो ऽयं घर्म उद्यतः प्रमत्तानाम् अमृताः प्रजाः प्रधाक्षीद् इति तान् वा एतान् परिरक्षकान्त् सदःप्रसर्पकान् इत्य् आचक्षते दक्षिणासमृद्धान् तद् उ ह स्माह प्रजापतिः यद् वै यज्ञे ऽकुशला ऋत्विजो भवन्त्य् अचरितिनो ब्रह्मचर्यम् अपराग्या वा तद् वै यज्ञस्य विरिष्टम् इत्य् आचक्षते यज्ञस्य विरिष्टम् अनु यजमानो विरिष्यते यजमानस्य विरिष्टम् अन्व् ऋत्विजो विरिष्यन्ते ऋत्विजां विरिष्टम् अनु दक्षिणा विरिष्यन्ते दक्षिणानां विरिष्टम् अनु यजमानः पुत्रपशुभिर् विरिष्यते पुत्रपशूनां विरिष्टम् अनु यजमानः स्वर्गेण लोकेन विरिष्यते स्वर्गस्य लोकस्य विरिष्टम् अनु तस्यार्धस्य योगक्षेमो विरिस्.यते यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम् ॥ १३ ॥

1.1.14 तं ह स्मैतम् एवंविद्वांसं ब्रह्माणं यज्ञविरिष्टी वा यज्ञविरिष्टिनो वेत्य् उपाधावेरन् नमस् ते अस्तु भगवन् यज्ञस्य नो विरिष्टं सन्धेहीति तद् यत्रैव विरिष्टं स्यात् तत्राग्नीन् उपसमाधाय शान्त्युदकं कृत्वा पृथिव्यै श्रोत्रायेति त्रिर् एवाग्नीन्त् सम्प्रोक्षति त्रिः पर्युक्षति त्रिः कारयमानम् आचामयति च संप्रोक्षति च यज्ञवास्तु व सम्प्रोक्षति अथापि वेदानां रसेन यज्ञस्य विरिष्टं सन्धीयते तद् यथा लवणेन सुवर्णं संदध्यात् सुवर्णेन रजतं रजतेन लोहं लोहेन सीसं सीसेन त्रप्व् एवम् एवास्य यज्ञस्य विरिष्टं संधीयते यज्ञस्य संधितिम् अनु यजमानः संधीयते [एद्. संघीयते] यजमानस्य संधितिम् अन्व् ऋत्विजः संधीयन्ते ऋत्विजां संधितिम् अनु दक्षिणाः संधीयन्ते दक्षिणानां संधितिम् अनु यजमानः पुत्रपशुभिः संधीयते पुत्रपशूनां संधितिम् अनु यजमानः स्वर्गेण लोकेन संधीयते स्वर्गस्य लोकस्य संधितिम् अनु तस्यार्धस्य योगक्षेमः संधीयते यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम् ॥ १४ ॥

1.1.15 तद् उ ह स्माहाथर्वा देवो विजानन् यज्ञविरिष्टानन्दानीत्य् उपशमयेरन् यज्ञे प्रायश्चित्तिः क्रियते ऽपि च यद् उ बह्व् इव यज्ञे विलोमं क्रियते न चैवास्य का चनार्तिर् भवति न च यज्ञविष्कन्धम् उपयात्य् अपहन्ति पुनर्मृत्युम् अपात्येति पुनाराजातिं कामचारो ऽस्य सर्वेषु लोकेषु भाति य एवं वेद यश् चैवंविद्वान् ब्रह्मा भवति यस्य चैवंविद्वान् ब्रह्मा दक्षिणतः सदो ऽध्यास्ते यस्य चैवंविद्वान् ब्रह्मा दक्षिणत उदङ्मुख आसीनो यज्ञ आज्याहुतीर् जुहोतीति ब्राह्मणम् ॥ १५ ॥

1.1.16 ब्रह्म ह वै ब्रह्माणं पुष्करे ससृजे स खलु ब्रह्मा सृष्टश् चिन्ताम् आपेदे केनाहम् एकेनाक्षरेण सर्वांश् च कामान्त् सर्वांश् च लोकान्त् सर्वांश् च देवान्त् सर्वांश् च वेदान्त् सर्वांश् च यज्ञान्त् सर्वांश् च शब्दान्त् सर्वाश् च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्य् अनुभवेयम् इति स ब्रह्मचर्यम् अचरत् स ओम् इत्य् एतद् अक्षरम् अपश्यद् द्विवर्णं चतुर्मात्रं सर्वव्यापि सर्वविभ्वयातयामब्रह्म ब्राह्मीं व्याहृतिं ब्रह्मदैवताम् तया सर्वांश् च कामान्त् सर्वांश् च लोकान्त् सर्वांश् च देवान्त् सर्वांश् च वेदान्त् सर्वांश् च यज्ञान्त् सर्वांश् च शब्दान्त् सर्वाश् च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्य् अन्वभवत् तस्य प्रथमेन वर्णेनापः स्नेहं चान्वभवत् तस्य द्वितीयेन वर्णेन तेजो ज्योतींष्य् अन्वभवत् ॥ १६ ॥

1.1.17 तस्य प्रथमया स्वरमात्रया पृथिवीम् अग्निम् ओषधिवनस्पतीन् ऋग्वेदं भूर् इति व्याहृतिं गायत्रं छन्दस् त्रिवृतं स्तोमं प्राचीं दिशं वसन्तम् ऋतुं वाचम् अध्यात्मं जिह्वां रसम् इतीन्द्रियाण्य् अन्वभवत् ॥ १७ ॥

1.1.18 तस्य द्वितीयया स्वरमात्रयान्तरिक्षं वायुं यजुर्वेदं भुव इति व्याहृतिं त्रैष्टुभं छन्दः पञ्चदशं स्तोमं प्रतीचीं दिशं ग्रीष्मम् ऋतुं प्राणम् अध्यात्मं नासिके गन्धघ्राणम् इतीन्द्रियाण्य् अन्वभवत् ॥ १८ ॥

1.1.19 तस्य तृतीयया स्वरमात्रया दिवम् आदित्यं सामवेदं स्वर् इति व्याहृतिं जागतं छन्दः सप्तदशं स्तोमम् उदीचीं दिशं वर्षा ऋतुं ज्योतिर् अध्यात्मं चक्षुषी दर्शनम् इतीन्द्रियान्य् अन्वभवत् ॥ १९ ॥

1.1.20 तस्य वकारमात्रयापश् चन्द्रमसम् अथर्ववेदं नक्षत्राण्य् ओम् इति स्वम् आत्मानं जनद् इत्य् अङ्गिरसाम् आनुष्टुभं छन्द एकविंशं स्तोमं दक्षिणां दिशं शरदम् ऋतुं मनो ऽध्यात्मं ज्ञानं ज्ञेयम् इतीन्द्रियाण्य् अन्वभवत् ॥ २० ॥

1.1.21 तस्य मकारश्रुत्येतिहासपुराणं वाकोवाक्यं गाथा नाराशंसीर् उपनिषदो ऽनुशासनानीति वृधत् करद् रुहन् महत् तच् छम् ओम् इति व्याहृतीः स्वरशम्यनानातन्त्रीः स्वरनृत्यगीतवादित्राण्य् अन्वभवच् चैत्ररथं दैवतं वैद्युतं ज्योतिर् बार्हतं छन्दस् त्रिणवत्रयस्त्रिंशौ स्तोमौ ध्रुवाम् ऊर्ध्वां दिशं हेमन्तशिशिराव् ऋतू श्रोत्रम् अध्यात्मं शब्दश्रवणम् इतीन्द्रियाण्य् अन्वभवत् ॥ २१ ॥

1.1.22 सैषैकाक्षरर्ग् ब्रह्मणस् तपसो ऽग्रे प्रादुर्बभूव ब्रह्मवेदस्याथर्वणं शुक्रम् अत एव मन्त्राः प्रादुर्बभूवुः स तु खलु मन्त्राणाम् अतपसासुश्रूषानध्यायाध्ययनेन यद् ऊनं च विरिष्टं च यातयामं च करोति तद् अथर्वणां तेजसा प्रत्याप्याययेत् मन्त्राश् च माम् अभिमुखीभवेयुर् गर्भा इव मातरम् अभिजिघांसुः पुरस्ताद् ओंकारं प्रयुङ्क्ते एतयैव तद् ऋचा प्रत्याप्यायेत् एषैव यज्ञस्य पुरस्ताद् युज्यते एषा पश्चात् सर्वत एतया यज्ञस् तायते तद् अप्य् एतदृचोक्तम् या पुरस्ताद् युज्यत ऋचो अक्षरे परमे व्योमन्न् इति तद् एतद् अक्षरं ब्राह्मणो यं कामम् इच्छेत् त्रिरात्रोपोषितः प्राङ्मुखो वाग्यतो बर्हिष्य् उपविश्य सहस्रकृत्व आवर्तयेत् सिध्यन्त्य् अस्यार्थाः सर्वकर्माणि चेति ब्राह्मणम् ॥ २२ ॥

1.1.23 वसोर् धाराणाम् ऐन्द्रं नगरम् तद् असुराः पर्यवारयन्त ते देवा भीता आसन् क इमान् असुरान् अपहनिष्यतीति [एद्. ईमान्] त ओंकारं ब्रह्मणः पुत्रं ज्येष्ठं ददृश्रुस् ते तम् अब्रुवन् भवता मुखेनेमान् असुराञ् जयेमेति स होवाच किं मे प्रतीवाहो भविष्यतीति वरं वृणीष्वेति वृणा इति स वरम् अवृणीत न माम् अनीरयित्वा ब्राह्मणा ब्रह्म वदेयुः यदि वदेयुर् अब्रह्म तत् स्याद् इति तथेति ते देवा देवयजनस्योत्तरार्धे ऽसुरैः संयत्ता आसन् तान् ओंकारेणाग्नीध्रीयाद् देवा असुरान् पराभावयन्त तद् यत् पराभावयन्त तस्माद् ओंकारः पूर्वम् उच्यते यो ह वा एतम् ओंकारं न वेदावशी स्याद् इत्य् अथ य एवं वेद ब्रह्मवशी स्याद् इति तस्माद् ओंकार ऋच्य् ऋग् भवति यजुषि यजुः साम्नि साम सूत्रे सूत्रम् ब्राह्मणे ब्राह्मणम् श्लोके श्लोकः प्रणवे प्रणव इति ब्राह्मणम् ॥ २३ ॥

1.1.24 ओंकारं पृच्छामः को धातुः किं प्रातिपदिकम् किं नामाख्यातम् किं लिङ्गम् किं वचनम् का विभक्तिः कः प्रत्ययः कः स्वर उपसर्गो निपातः किं वै व्याकरणम् को विकारः को विकारी कतिमात्रः कतिवर्णः कत्यक्षरः कतिपदः कः संयोगः किं स्थानानुप्रदानकरणं शिक्षुकाः किम् उच्चारयन्ति किं छन्दः को वर्ण इति पूर्वे प्रश्राः अथोत्तरे मन्त्रः कल्पो ब्राह्मणम् ऋग् यजुः साम कस्माद् ब्रह्मवादिन ओंकारम् आदितः कुर्वन्ति किं दैवतम् किं ज्योतिषम् किं निरुक्तम् किं स्थानम् ब्का प्रकृतिः च्किमध्यात्मम् इति द्षट्त्रिंशत् प्रश्र्नाः पूर्वोत्तराणां त्रयो वर्गा द्वादशकाः एतैर् ओंकारं व्याख्यास्यामः ॥ २४ ॥

1.1.25 इन्द्रः प्रजापतिम् अपृच्छत् भगवन्न् अभिष्टूय पृच्छामीति पृच्छ वत्सेत्य् अब्रवीत् किम् अयम् ओंकारः कस्यः पुत्रः किं चैतच् छन्दः किं चैतद् वर्णः किं चैतद् ब्रह्मा ब्रह्म सम्पद्यते तस्माद् वै तद् भद्रम् ओंकारं पूर्वम् आलेभे स्वरितोदात्त एकाक्षर ओंकार ऋग्वेदे त्रैस्वर्योदात एकाक्षर ओंकारो यजुर्वेदे दीर्घप्लुतोदात्त एकाक्षर ओंकारः सामवेदे ह्रस्वोदात्त एकाक्षर ओंकारो ऽथर्ववेदे उदात्तोदात द्विपद अ उ इत्य् अर्धचतस्रो मात्रा मकारे व्यञ्जनम् इत्य् आहुः या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन यस् तां ध्यायते नित्यं स गच्छेद् ब्राह्मं पदम् या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेन यस् तां ध्यायते नित्यं स गच्छेद् वैष्णवं पदम् या सा तृतीया मात्रैशानदेवत्या कपिला वर्णेन यस् तां ध्यायते नित्यं स गच्छेद् ऐशानं पदम् या सार्धचतुर्थी मात्रा सर्वदेवत्या व्यक्तीभूता खं विचरति शुद्धस्फटिकसन्निभा वर्णेन यस् तां ध्यायते नित्यं स गच्छेत् पदम् अनामकम् ओंकारस्य चोत्पत्तिः विप्रो यो न जानाति तत्पुनरुपनयनम् तस्माद् ब्राह्माणवचनम् आदर्तव्यं यथा लातव्यो गोत्रो ब्रह्मणः पुत्रः गायत्रं च्छन्दः शुक्लो वर्णः ब्पुंसो वत्सः च्रुद्रो देवता द्ओंकारो वेदानाम् ॥ २५ ॥

1.1.26 को धातुर् इति आपृधातुः अवतिम् अप्य् एके रूपसामान्याद् अर्थसामान्यं नेदीयस् तस्माद् आपेर् ओंकारः सर्वम् आप्नोतीत्य् अर्थः कृदन्तम् अर्थवत् प्रातिपदिकम् अदर्शनम् प्रत्ययस्य नाम संपद्यते निपातेषु चैनं वैयाकरणा उदात्तं समामनन्ति तद् अव्ययीभूतम् अन्वर्थवाची शब्दो न व्येति कदा चनेति सदृशं त्रिषु लिङ्गेषु सर्वासु व विभक्तिषु वचनेषु च सर्वेषु यन् न व्येति तद् अव्ययम् को विकारी च्यवते प्रसारणम् आप्नोतेर् आकरपकारौ विकार्यौ आदित ओंकारो विक्रियते द्वितीयो मकारः एव द्विवर्ण एकाक्षर ओम् इत्य् ओंकारो निर्वृत्तः ॥ २६ ॥

1.1.27 कतिमात्र इति आदेस् तिस्रो मात्राः अभ्यादाने हि प्लवते मकारश् चतुर्थीम् किं स्थानम् इति उभाव् ओष्ठौ स्थानम् नादानुप्रदानकरणौ च द्विस्थानम्  संध्यक्षरम् अवर्णलेशः कण्ठ्यो यथोक्तशेषः पूर्वो विवृतकरणस्थितश् च द्वितीयस्पृष्टकरणस्थितश् च न संयोगो विद्यते आख्यातोपसर्गानुदात्तस्वरितलिङ्गविभक्तिवचनानि च संस्थानाध्यायिन आचार्याः पूर्वे बभूवुः श्रवणाद् एव प्रतिपद्यन्ते न कारणं पृच्छन्ति अथापरपक्षीयाणां कविः पञ्चालचण्डः परिपृच्छको बभूवांबु पृथगुद्गीथदोषान् भवन्तो ब्रुवन्त्व् इति तद् वाच्य् उपलक्षयेद् वर्णाक्षरपदाङ्कशः विभक्त्याम् ऋषिनिषेविताम् इति वाचं स्तुवन्ति तस्मात् कारणं ब्रूमः वर्णानाम् अयम् इदं भविष्यतीति षडङ्गविदस् तत् तथाधीमहे किं छन्द इति गायत्रं हि छन्दः गायत्री वै देवानाम् एकाक्षरा श्वेतवर्णा च व्याख्याता द्वौ द्वादशकौ वर्गौ एतद् वै व्याकरणं धात्वर्थवचनं शैक्ष्यं छन्दोवचनं च अथोत्तरौ द्वौ द्वादशकौ वर्गौ वेदरहसिकी व्याख्याता मन्त्रः कल्पो ब्राहमणम् ऋग् यजुः सामाथर्वाणि एषा व्याहृतिश् चतुर्णां वेदानाम् आनुपूर्वेणों भूर् भुवः स्वर् इति व्याहृतयः ॥ २७ ॥

1.1.28 असमीक्ष्यप्रवल्हितानि श्रूयन्ते द्वापरादाव् ऋषीणाम् एकदेशो दोषपतिर् इह चिन्ताम् आपेदे त्रिभिः सोमः पातव्यः समाप्तम् इव भवति तस्माद् ऋग्यजुःसामान्य् अपक्रान्ततेजांस्य् आसन् तन्त्र महर्षयः परिदेवयां चक्रिरे महच् छोकभयं प्राप्ताः स्मः न चैतत् सर्वैः समभिहितम् ते वयं भगवन्तम् एवोपधावाम सर्वेषाम् एव शर्म भवानीति ते तथेत्य् उक्त्वा तूष्णीम् अतिष्ठन् नानुपसन्नेभ्य इति उपोपसीदामीति नीचैर् बभूवुः स एभ्य उपनीय प्रोवाच मामिकाम् एव व्याहृतिम् आदित आदितः कृणुध्वम् इति एवं मामका आधीयन्ते नर्ते भृग्वङ्गिरोविद्भ्यः सोमः पातव्यः ऋत्विजः पराभवन्ति यजमानो रजसापध्वस्यति श्रुतिश् चापध्वस्ता तिष्ठतीति एवम् एवोत्तरोत्तराद् योगात् तोकं तोकं प्रशाध्वम् इति एवं प्रतापो न पराभविष्यतीति तथा ह तथा ह भगवन्न् इति प्रतिपेदिर आप्याययन् ते तथा वीतशोकभया बभूवुस् तस्माद् ब्रह्मवादिन ओंकारम् आदितः कुर्वन्ति ॥ २८ ॥

1.1.29 किं देवतम् इति ऋचाम् अग्निर् देवतम् तद् एव ज्योतिः गायत्रं छन्दः पृथिवी स्थानम् <अग्निम् ईऌए पुरोहितं यज्ञस्य देवम् ऋत्विजं होतारं रत्नधातमम् [ऋ V १.१.१]> इत्य् एवम् आदिं कृत्वा ऋग्वेदम् अधीयते यजुषां वायुर् देवतम् तद् एव ज्योतिस् त्रैष्टुभं छन्दः अन्तरिक्षं स्थानम् <इषे त्वोर्जे त्वा वायव स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे >इत्य् एवम् आदिं कृत्वा यजुर्वेदम् अधीयते साम्नाम् आदित्यो देवतम् तद् एव ज्योतिः जागतं छन्दः द्यौः स्थानम् <अग्न आ याहि वीतये गृणानो हव्यदातये नि होता सत्सि बर्हिषि [V १.१]>इत्य् एवम् आदिं कृत्वा समावेदम् अधीयते अथर्वणां चन्द्रमा देवतम् तद् एव ज्योतिः सर्वाणि छन्दांसि आपः स्थानम् <शं नो देवीर् अभिष्टय [पै.सं. १.१.१]> इत्य् एवम् आदिं कृत्वाथर्ववेदम् अधीयते अद्भ्यः स्थावरजङ्गमो भूतग्रामः संभवति तस्मात् सर्वम् आपोमयं भूतं सर्वं भृग्वङ्गिरोमयम् अन्तरैते त्रयो वेदा भृगून् अङ्गिरसः श्रिता इत्य् अब् इति प्रकृतिर् अपाम् ओंकारेण च एतस्माद् व्यासः पुरोवाच भृग्वङ्गिरोविदा संस्कृतो ऽन्यान् वेदान् अधीयीत नान्यत्र संस्कृतो भृग्ङ्गिरसो ऽधीयीत ब्सामवेदे ऽथ खिलश्रुतिर् ब्रह्मचर्येण चैतस्माद् अथर्वाङ्गिरसो ह यो वेद स वेद सर्वम् इति ब्राह्मणम् ॥ २९ ॥

1.1.30 अध्यात्मम् आत्मभैषज्यम् आत्मकैवल्यम् ओंकारः आत्मानं निरुध्य सङ्गममात्रीं भूतार्थचिन्तां चिन्तयेत् अतिक्रम्य वेदेभ्यः सर्वपरम् अध्यात्मफलं प्राप्नोतीत्यर्थः सवितर्कं ज्ञानमयम् इत्य् एतैः प्रश्नैः प्रतिवचनैश् च यथार्थं पदम् अनुविचिन्त्य प्रकरणज्ञो हि प्रबलो विषयी स्यात् सर्वस्मिन् वाकोवाक्य इति ब्राह्मणम् ॥ ३० ॥

1.1.31 एतद् ध स्मैतद् विद्वांसम् एकादशाक्षं मौद्गल्यं ग्लावो मैत्रेयो ऽभ्याजगाम स तस्मिन् ब्रह्मचर्यं वसतो विज्ञायोवाच किं स्विन् मर्या अयं तन् मौद्गल्यो ऽध्येति यद् अस्मिन् ब्रह्मचर्यं वसतीति तद् धि मौद्गल्यस्यान्तेवासी शुश्राव स आचार्यायाव्रज्याचचष्टे दुरधीयानं वा अयं भवन्तम् अवोचद् यो ऽयम् अद्यातिथिर् भवति किं सौम्य विद्वान् इति त्रीन् वेदान् ब्रूते भो इति तस्य सौम्य विपष्टो विजिगीषो ऽन्तेवासी तं मे ह्वयेति तम् आजुहाव तम् अभ्युवाचासाव् इति भो इति किं सौम्य त आचार्यो ऽध्येतीति त्रीन् वेदान् ब्रूते भो इति यन् नु खलु सौम्यास्माभिः सर्वे वेदा मुखतो गृहीताः कथं त एवम् आचार्यो भाषते कथं नु शिष्टाः शिष्टेभ्य एवं भाषेरन् यं ह्य् एनम् अहं प्रश्नं पृच्छामि न तं विवक्ष्यति न ह्य् एनम् अध्येतीति स ह मौद्गल्यः स्वम् अन्तेवासिनम् उवाच परेहि सौम्य ग्लावं मैत्रेयम् उपसीद अधीहि भोः सावित्रीं गायत्रीं चतुर्विंशतियोनिं द्वादशमिथुनाम् यस्या भृग्वङ्गिरसश् चक्षुः यस्यां सर्वम् इदं श्रितं तां भवान् प्रब्रवीत्व् इति स चेत् सौम्य दुरधीयानो भविष्यत्य् आचार्योवाच ब्रह्मचारी ब्रह्माचारिणो सावित्रीं प्राहेति वक्ष्यति तत् त्वं ब्रूयाद् दुरधीयानं तं वै भवान् मौद्गल्यम् अवोचत् स त्वा यं प्रश्नम् अप्राक्षीन् न तं व्यवोचः पुरा संवत्सराद् आर्तिम् आरिष्यसीति ॥ ३१ ॥

1.1.32 स तत्राजगाम यत्रेतरो बभूव तं ह पप्रच्छ स ह न प्रतिपेदे तं होवाच दुरधीयानं तं वै भवान् मौद्गल्यम् अवोचत् स त्वा यं प्रश्नम् अप्राक्षीन् न तं व्यवोचः पुरा संवत्सराद् आर्तिम् आरिष्यसीति स ह मैत्रेयः स्वान् अन्तेवासित उवाच यथार्थं भवन्तो यथागृहं यथामनो विप्रसृज्यन्ताम् दुरधीयानं वा अहं मौद्गल्यम् अवोचम् स मा यं प्रश्नम् अप्राक्षीन् न तं व्यवोचम् तम् उपैष्यामि शान्तिं करिष्यामीति स ह मैत्रेयः प्रातः समित्पाणिर् मौद्गल्यम् उपससादासौ वा अहं भो मैत्रेयः किमर्थम् इति दुरधीयानं वा अहं भवन्तम् अवोचम् त्वं मा यं प्रश्नम् अप्राक्षीर् न तं व्यवोचम् त्वाम् उपैष्यामि शान्तिं करिष्यामीति स होवाचात्र वा उपेतं च सर्वं च कृतं पापकेन त्वा यानेन चरन्तम् आहुः अथो ऽयं मम कल्याणस्  तं ते ददामि तेन याहीति स होवाचैतद् एवात्रात्विषं चानृशंस्यं च यथा भवान् आह उपायामि त्वेव भवन्तम् इति तं होपेयाय तं होपेत्य पप्रच्छ किं स्विद् आहुर् भोः सवितुर् वरेण्यं भर्गो देवस्य कवयः किम् आहुः। धियो विचक्ष्व यदि ताः प्रवेत्थ प्रचोदयात् सविता याभिर् एतीति।  तस्मा एतत् प्रोवाच — वेदांश् छन्दांसि सवितुर् वरेण्यम् भर्गो देवस्य कवयो ऽन्नम् आहुः। कर्माणि धियस् तद् उ ते प्रब्रवीमि प्रचोदयात् सविता याभिर् एतीति [पाठ. प्रचोदयन्त्] तम् उपसंगृह्य पप्रच्छाधीहि भोः कः सविता का सावित्री ॥ ३२ ॥

1.1.33 मन एव सविता वाक् सावित्री यत्र ह्य् एव मनस् तद् वाग् यत्र वै वाक् तन् मन इति एते द्वे योनी एकं मिथुनम् अग्निर् एव सविता पृथिवी सावित्री यत्र ह्य् एवाग्निस् तत् पृथिवी यत्र वै पृथिवी तद् अग्निर् इति एते द्वे योनी एकं मिथुनम् वायुर् एव सवितान्तरिक्षं सावित्री यत्र ह्य् एव वायुस् तद् अन्तरिक्षं यत्र वा अन्तरिक्षं तद् वायुर् इति एते द्वे योनी एकं मिथुनम् आदित्य एव सविता द्यौः सावित्री यत्र ह्य् एवादित्यस् तद् द्यौर् यत्र वै द्यौस् तद् आदित्य इति एते द्वे योनी एकं मिथुनम् चन्द्रमा एव सविता नक्षत्राणि सावित्री यत्र ह्य् एव चन्द्रमास् तन् नक्षत्राणि यत्र वै नक्षत्राणि तच् चन्द्रमा इति एते द्वे योनी एकं मिथुनम् अहर् एव सविता रात्रिः सावित्री यत्र ह्य् एवाहस् तद् रात्रिर् यत्र वै रात्रिस् तद् अहर् इति एते द्वे योनी एक मिथुनम् उष्णम् एव सविता शीतं सावित्री यत्र ह्य् एवोष्णं तच् छीतं यत्र वै शीतं तद् उष्णम् इति एते द्वे योनी एकं मिथुनम् अभ्रम् एव सविता वर्षं सावित्री यत्र ह्य् एवाभ्रं तद् वर्षं यत्र वै वर्षं तद् अभ्रम् इति एते द्वे योनी एकं मिथुनम् विद्युद् एव सविता स्तनयित्नुः सावित्री यत्र ह्य् एव विद्युत् तत् स्तनयित्नुर् यत्र वै स्तनयित्नुस् तद् विद्युद् इति एते द्वे योनी एकं मिथुनम् ब्प्राण एव सवितान्नं सावित्री च्यत्र ह्य् एव प्राणस् तद् अन्नं यत्र वा अन्नं तत् प्राण इति द्एते द्वे योनी एकं मिथुनम् वेदा एव सविता छन्दांसि सावित्री [एद्. ओमित्स् सेन्तेन्चे एन्द् मर्केर्] यत्र ह्य् एव वेदास् तच् छन्दांसि यत्र वै छन्दांसि तद् वेदा इति ग्एते द्वे योनी एकं मिथुनम् ह्यज्ञ एक सविता दक्षिणाः सावित्री यत्र ह्य् एव यज्ञस् तद् दक्षिणा यत्र वै दक्षिणास् तद् यज्ञ इति ज्एते द्वे योनी एकं मिथुनम् क्एतद् ध स्मैतद् विद्वांसम् ओपाकारिम् आसस्तुर् ब्रह्मचारी ते संस्थित इत्य् अथैत आसस्तुर् आचित इव चितो बभूव ल्अथोत्थाय प्राव्राजीद् इत्य् एतद् वा अहं वेद नैतासु योनिष्व् इत एतेभ्यो वा मिथुनेभ्यः संभूतो ब्रह्मचारी मम पुरायुषः प्रेयाद् इति ॥ ३३ ॥

1.1.34 ब्रह्म हेदं श्रियं प्रतिष्ठाम् आयतनम् ऐक्षत तत् तपस्व यदि तद् व्रते ध्रियेत तत् सत्ये प्रत्यतिष्ठत् स सविता सावित्र्या ब्राह्मणं सृष्ट्वा तत् सवित्रीं पर्यदधात् तत् सवितुर् वरेण्यम् इति सावित्र्याः प्रथमः पादः [एद्. सवित्र्याः] पृथिव्य् अर्चं समदधात् ऋचाग्निम् अग्निना श्रियम् श्रिया स्त्रियम् स्त्रिया मिथुनम् मिथुनेन प्रजाम् प्रजया कर्म कर्मणा तपस् [एद्. कमणा] तपसा सत्यम् सत्येन ब्रह्म ब्रह्मणा ब्राह्मणम् ब्राह्मणेन व्रतम् व्रतेन वै ब्राह्मणः संशितो भवति अशून्यो भवत्य् अविछिन्नो भवत्य् अविछिन्नो ऽस्य तन्तुर् अविछिन्नं जीवनं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतं सावित्र्याः प्रथमं पादं व्याचष्टे ॥ ३४ ॥

1.1.35 भर्गो देवस्य धीमहीति सावित्र्या द्वितीयः पादः अन्तरिक्षेण यजुः समदधात् यजुषा वायुम् वायुनाभ्रम् अभ्रेण वर्षम् वर्षेणौषधिवनस्पतीन् ओषधिवनस्पतिभिः पशून् पशुभिः कर्म कर्मणा तपस् तपसा सत्यम् सत्येन ब्रह्म ब्रह्मणा ब्राह्मणम् ब्राह्मणेन व्रतम् व्रतेन वै ब्राह्मणः संशितो भवति अशून्यो भवत्य् अविछिन्नो भवत्य् अविछिन्नो ऽस्य तन्तुर् अविछिन्नं जीवनं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतं सावित्र्या द्वितीयं पादं व्याचष्टे ॥ ३५ ॥

1.1.36 धियो यो नः प्रचोदयाद् इति सावित्र्यास् तृतीयः पादः दिवा साम समदधात् साम्नादित्यम् आदित्येन रश्मीन्  रश्मिभिर् वर्षम् वर्षेणौषधिवनस्पतीन् ओषधिवनस्पतिभिः पशून् पशुभिः कर्म कर्मणा तपस् तपसा सत्यम् सत्येन ब्रह्म ब्रह्मणा ब्राह्मणम् ब्राह्मणेन व्रतम् व्रतेन वै ब्राह्मणः संशितो भवति अशून्यो भवत्य् अविछिन्नो भवत्य् अविछिन्नो ऽस्य तन्तुर् अविछिन्नं जीवनं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतं सावित्र्यास् तृतीयं पादं व्याचष्टे ॥ ३६ ॥

1.1.37 तेन ह वा एवंविदुषा ब्राह्मणेन ब्रह्माभिपन्नं ग्रसितं परामृष्टम् ब्रह्मणाकाशम् अभिपन्नं ग्रसितं परामृष्टम् आकाशेन वायुर् अभिपन्नो ग्रसितः परामृष्टः वायुना ज्योतिर् अभिपन्नं ग्रसितं परामृष्टम् ज्योतिषापो ऽभिपन्ना ग्रसिताः परामृष्टाः अद्भिर् भूमिर् अभिपन्ना ग्रसिता परामृष्टा भूम्यान्नम् अभिपन्नं ग्रसितं परामृष्टम् अन्नेन प्राणो ऽभिपन्नो ग्रसितः परामृष्टः प्राणेन मनो ऽभिपन्नं ग्रसितं परामृष्टम् मनसा वाग् अभिपन्ना ग्रसिता परामृष्टा वाचा वेदा अभिपन्ना ग्रसिताः परामृष्टाः वेदैर् यज्ञो ऽभिपन्नो ग्रसितः परामृष्टस् [एद्. परिमृष्टस्] तानि ह वा एतानि द्वादशमहाभूतान्य् एवंविदि प्रतिष्ठितानि तेषां यज्ञ एव परार्ध्यः ॥ ३७ ॥

1.1.38 तं ह स्मैतम् एवांविद्वांसो मन्यन्ते विद्मैनम् इति याथातथ्यम् अविद्वांसः अयं यज्ञो वेदेषु प्रतिष्ठितः वेदा वाचि प्रतिष्ठिताः वाङ् मनसि प्रतिष्ठिता मनः प्राणे प्रतिष्ठितम् प्राणो ऽन्ने प्रतिष्ठितः अन्नं भूमौ प्रतिष्ठितम् भूमिर् अप्सु प्रतिष्ठिता आपो ज्योतिषि प्रतिष्ठिताः ज्योतिर् वायौ प्रतिष्ठितम् वायुर् आकाशे प्रतिष्ठितः आकाशं ब्रह्मणि प्रतिष्ठितम् ब्रह्म ब्राह्मणे ब्रह्मविदि प्रतिष्ठितम् यो ह वा एवंवित् स ब्रह्मवित् पुण्यां च कीर्तिं लभते सुरभींश् च गन्धान् सो ऽपहतपाप्मा अनन्तां श्रियम् अश्नुते य एवं वेद यश् चैवंविद्वान् एवम् एतां वेदानां मातरं सावित्रीं संपदम् उपनिषदम् उपास्त इति ब्राह्मणम् ॥ ३८ ॥

1.1.39 <आपो गर्भं जनयन्तीर् [पै.सं. ४.१.८]> इति अपां गर्भः पुरुषः स यज्ञः अद्भिर् यज्ञः प्रणीयमानः प्राङ् तायते तस्माद् आचमनीयं पूर्वम् आहारयति स यद् आचामति त्रिर् आचामति द्विः परिशुम्भति आयुर् अवरुह्य पाप्मानं निर्णुदति उपसाद्य यजुषोद्धृत्य मन्त्रान् प्रयुज्यावसाय प्राचीः शाखाः संधाय निरङ्गुष्ठे पाणाव् अमृतम् अस्य् अमृतोपस्तरणम् अस्य् अमृताय त्वोपस्तृणामीति पाणाव् उदकम् आनीय <जीवा स्थ [पै.सं. १९.५५.१२-१५, शौ १९.६९.१-४]>इति सूक्तेन त्रिर् आचामति स यत् पूर्वम् आचामति सप्त प्राणांस् तान् एतेनास्मिन्न् आप्याययति या ह्य् एमा बाह्याः शरीरान् मात्रास् तद् यथैतद् अग्निं वायुम् आदित्यं चन्द्रमसम् अपः पशून् अन्यांश् च प्रजास् तान् एतेनास्मिन्न् आप्याययति आपो ऽमृतम् स यद् द्वितीयम् आचामति सप्तापानांस् तान् एतेनास्मिन्न् आप्याययति या ह्य् एमा बाह्याः शरीरान् मात्रास् तद् यथैतत् पौर्णमासीम् अष्टकाम् अमावास्यां श्रद्धां दीक्षां यज्ञं दक्षिणास् तान् एतेनास्मिन्न् आप्याययति आपो ऽमृतम् स यत् तृतीयम् आचामति सप्त व्यानांस् तान् एतेनास्मिन्न् आप्याययति या ह्य् एमा बाह्याः शरीरान् मात्रास् तद् यथैतत् पृथिवीम् अन्तरिक्षं दिवम् नक्षत्राण्य् ऋतून् आर्तवान् संवत्सरांस् तान् एतेनास्मिन्न् आप्याययति आपो ऽमृतम् पुरुषो ब्रह्म अथाप्रियनिगमो भवति तस्माद् वै विद्वान् पुरुषम् इदं पुण्डरीकम् इति [एद्. अथाप्रींग्निगमो, बुत् सेए ড়त्यल् प्. ४४] प्राण एष स पुरि शेते संपुरि शेत इति पुरिशयं सन्तं प्राणं पुरुष इत्य् आचक्षते परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः स यत् पूर्वम् आचामति पुरस्ताद्धोमांस् तेनास्मिन्न् अवरुन्द्धे स यद् द्वितीयम् आचामत्य् आज्यभागौ तेनास्मिन्न् अवरुन्द्धे स यत् तृतीयम् आचामति संस्थितहोमांस् तेनास्मिन्न् अवरुन्द्धे ब्स यद् द्विः परिशुम्भति तत् समित्संबर्हिः  । स यत् सर्वाणि खानि सर्वं देहम् आप्याययति यच् चान्यदातारं मन्त्रकार्यं यज्ञे स्कन्दति सर्वं तेनास्मिन्नवरुन्द्धे । स यद् ओंपूर्वान् मन्त्रान् प्रयुङ्क्त आ सर्वमेधाद् एते क्रतव एत एवास्य सर्वेषु लोकेषु सर्वेषु देवेषु सर्वेषु वेदेषु सर्वेषु भूतेषु सर्वेषु सत्त्वेषु कामचारः कामविमोचनं भवत्य् अर्धे च न प्रमीयते य एवं वेद। तद् अप्य् एतद् ऋचोक्तम् —

आपो भृग्वङ्गिरो रूपम् आपो भृग्वङ्गिरोमयं ।
सर्वम् आपोमयं भूतं सर्वं भृग्वङ्गिरोमयम् ।
अन्तरैते त्रयो वेदा भृगून् अङ्गिरसो ऽनुगाः ॥
अपां पुष्पं मूर्तिराकाशं पवित्रम् उत्तमम् ।इति
आचम्याभ्युक्ष्यात्मानम् अनुमन्त्रयत <इन्द्र जीव [पै.सं. २०.४३.१, शौ १९.७०.१]>इति ब्राह्मणं ॥ ३९ ॥

॥इत्य् अथर्ववेदे गोपथब्राह्मणपूर्वभागे प्रथमः प्रपाठकः ॥

1.1.1 ओं ब्रह्म ह वा इदम् अग्र आसीत् स्वयंभ्व् एकम् एव
तदैक्षत
महद् वै यक्षम् यद् एकम् एवास्मि
हन्ताहं मद् एव मन्मात्रं द्वितीयं देवं निर्मिमा इति
तद् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तस्य श्रान्तस्य तप्तस्य संतप्तस्य ललाटे स्नेहो यद् आर्द्रम् आजायत
तेनानन्दत्
तद् अब्रवीत्
महद् वै यक्षं सुवेदम् अविदम् अहम् इति
तद् यद् अब्रवीत्
महद् वै यक्षं सुवेदम् अविदम् अहम् इति
तस्मात् सुवेदो ऽभवत्
तं वा एतं सुवेदं सन्तं स्वेद इत्य् आचक्षते परोक्षेण
परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः ॥ १ ॥
1.1.2
स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत्
तस्य श्रान्तस्य तप्तस्य संतप्तस्य सर्वेभ्यो रोमगर्तेभ्यः पृथक्स्वेदधाराः प्रास्यन्दन्त
ताभिर् अनन्दत्
तद् अब्रवीत्
आभिर् वा अहम् इदं सर्वं धारयिष्यामि यद् इदं किं च
आभिर् वा अहम् इदं सर्वं जनयिष्यामि यद् इदं किं च
आभिर् वा अहम् इदं सर्वं आप्स्यामि यद् इदं किं चेति
तद् यद् अब्रवीत्
आभिर् वा अहम् इदं सर्वं धारयिष्यामि यद् इदं किं चेति
तस्माद् धारा अभवन्
तद् धाराणां धारात्वं यच् चासु ध्रियते
तद् यद् अब्रवीत्
आभिर् वा अहम् इदं सर्वं जनयिष्यामि यद् इदं किं चेति
तस्माज् जाया अभवन्
तज् जायानां जायात्वं यच् चासु पुरुषो जायते यच् च पुत्रः [एद्.॒ याच्]
पुन् नाम नरकम् अनेकशततारम्
तस्मात् त्रातीति पुत्रस्
तत् पुत्रस्य पुत्रत्वम्
तद् यद् अब्रवीत्
आभिर् वा अहम् इदं सर्वं आप्स्यामि यद् इदं किं चेति
तस्माद् आपो ऽभवन्
तद् अपाम् अप्त्वम्
आप्नोति वै स सर्वान् कामान् यान् कामयते ॥ २ ॥
1.1.3
ता अपः सृष्ट्वान्वैक्षत
तासु स्वां छायाम् अपश्यत्
ताम् अस्येक्षमाणस्य स्वयं रेतो ऽस्कन्दत्
तद् अप्सु प्रत्यतिष्ठत्
तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत्
ताः श्रान्तास् तप्ताः संतप्ताः सार्धम् एव रेतसा द्वैधम् अभवन्
तासाम् अन्यतरा अतिलवणा अपेया अस्वाद्व्यस्
ता अशान्ता रेतः समुद्रं वृत्वातिष्ठन्
अथेतराः पेयाः स्वाद्व्यः शान्तास्
तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत्
ताभ्यः श्रान्ताभ्यस् तप्ताभ्यः संतप्ताभ्यो यद् रेत आसीत् तद् अभृज्ज्यत [एद्.॒ असीत्]
तस्माद् भृगुः समभवत्
तद् भृगोर् भृगुत्वम्
भृगुर् इव वै स सर्वेषु लोकेषु भाति य एवं वेद ॥ ३ ॥
1.1.4
स भृगुं सृष्ट्वान्तरधीयत
स भृगुः सृष्टः प्राङ् ऐजत
तं वाग् अन्ववदत्
वायो वाय इति
स न्यवर्तत स दक्षिणां दिशम् ऐजत
तं वाग् अन्ववदत्
मातरिश्वन् मातरिश्वन्न् इति
स न्यवर्तत स प्रतीचीं दिशम् ऐजत
तं वाग् अन्ववदत्
पवमान पवमानेति
स न्यवर्तत स उदीचीं दिशम् ऐजत
तं वाग् अन्ववदत्
वात वातेति
तम् अब्रवीत्
न न्व् अविदम् अहम् इति
न हीति
अथार्वाङ् एनम् एतास्व् एवाप्स्व् अन्विच्छेति
तद् यद् अब्रवीद् अथार्वाङ् एनम् एतास्व् एवाप्स्व् अन्विच्छेति तद् अथर्वाभवत्
तद् अथर्वणो ऽथर्वत्वम्
तस्य ह वा एतस्य भगवतो ऽथर्वण ऋषेर् यथैव ब्रह्मणो लोमानि यथाङ्गानि यथा प्राण एवम् एवास्य सर्व आत्मा समभवत्
तम् अथर्वाणं ब्रह्माब्रवीत् प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति
तद् यद् अब्रवीत् प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति तस्मात् प्रजापतिर् अभवत्
तत् प्रजापतेः प्रजापतित्वम्
अथर्वा वै प्रजापतिः
प्रजापतिर् इव वै स सर्वेषु लोकेषु भाति य एवं वेद ॥ ४ ॥
1.1.5
तम् अथर्वाणम् ऋषिम् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तस्माच् छ्रान्तात् तप्तात् संतप्ताद् दशतयान् अथर्वण ऋषीन् निरमिमतैकर्चान् द्व्यृचांस् तृचांस् चतुरृचान् पञ्चर्चान्त् षडर्चान्त् सप्तर्चान् अष्टर्चान् नवर्चान् दशर्चान् इति [एद्.॒ षडर्चांत्]
तान् अथर्वण ऋषीन् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो दशतयान् आथर्वणान् आर्षेयान् निरमिमतैकादशान् द्वादशांस् त्रयोदशांश् चतुर्दशान् पञ्चदशान् षोडशान्त् सप्तदशान् अष्टादशान् नवदशान् विंशान् इति [एद्.॒ षोडशांत्, नोते अल्सो पञ्चर्चान्त् अबोवे]
तान् अथर्वण ऋषीन् आथर्वणांश् चार्षेयान् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो यान् मन्त्रान् अपश्यत् स आथर्वणो वेदो ऽभवत्
तम् आथर्वणं वेदम् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तस्माच् छ्रान्तात् तप्तात् संतप्ताद् ओम् इति मन एवोर्ध्वम् अक्षरम् उदक्रामत्
स य इच्छेत् सर्वैर् एतैर् अथर्वभिश् चाथर्वणैश् च कुर्वीयेत्य् एतयैव तन् महाव्याहृत्या कुर्वीत
सर्वैर् ह वा अस्यैतैर् अथर्वभिश् चाथर्वणैश् च कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतया महाव्याहृत्या कुरुते ॥ ५ ॥
1.1.6
स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत्
स आतमत एव त्रींल् लोकान् निरमिमीत पृथिवीम् अन्तरिक्षं दिवम् इति
स खलु पादाभ्याम् एव पृथिवीं निर्ममिमीत
उदराद् अन्तरिक्षं मूर्ध्नो दिवम्
स तांस् त्रींल् लोकान् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यस् त्रीन् देवान् निरमिमीत
अग्निं वायुम् आदित्यम् इति
स खलु पृथिव्या एवाग्निं निरमिमीतान्तरिक्षाद् वायुं दिव आदित्यम्
स तांस् त्रीन् देवान् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यस् त्रीन् वेदान् निरमिमीत ऋग्वेदं यजुर्वेदं सामवेदम् इति
अग्नेर् ऋग्वेदं वायोर् यजुर्वेदं आदित्यात् सामवेदम्
स तांस् त्रीन् वेदान् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यस् तिस्रो महाव्याहृतीर् निरमिमीत भूर् भुवः स्वर् इति
भूर् इत्य् ऋग्वेदाद् भुव इति यजुर्वेदात् स्वर् इति सामवेदात्
स य इच्छेत् सर्वैर् एतैस् त्रिभिर् वेदैः कुर्वीयेत्य् एताभिर् एव तन् महाव्याहृतिभिः कुर्वीत
सर्वैर् ह वा अस्यैतैस् त्रिभिर् वेदैः कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एताभिर् महाव्याहृतिभिः कुरुते ॥ ६ ॥
1.1.7
ता या अमू रेतः समुद्रं वृत्वातिष्ठंस् ताः प्राच्यो दक्षिणाच्यः प्रतीच्य उदीच्यः समवद्रवन्त
तद् यत् समवद्रवन्त तस्मात् समुद्र उच्यते
ता भीता अब्रुवन्
भगवन्तम् एव वयं राजानं वृणीमह इति
यच् च वृत्वातिष्ठंस् तद् वरणो ऽभवत्
तं वा एतं वरणं सन्तं वरुण इत्य् आचक्षते परोक्षेण
परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः
स समुद्राद् अमुच्यत
स मुच्युर् अभवत्
तं वा एतं मुच्युं सन्तं मृत्युर् इत्य् आचक्षते परोक्षेण
परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषस्
तं वरुणं मृत्युम् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तस्य श्रान्तस्य तप्तस्य संतप्तस्य सर्वेभ्यो ऽङ्गेभ्यो रसो ऽक्षरत्
सो ऽङ्गरसो ऽभवत्
तं वा एतं अङ्गरसं सन्तम् अङ्गिरा इत्य् आचक्षते परोक्षेण
परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः ॥ ७ ॥
1.1.8
तम् अङ्गिरसम् ऋषिम् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तस्माच् छ्रान्तात् तप्तात् संतप्ताद् विंशिनो ऽङ्गिरस ऋषीन् निरमिमीत
तान् विंशिनो ऽङ्गिरस ऋषीन् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो दशतयान् आङ्गिरसान् आर्षेयान् निरमिमीत षोडशिनो ऽष्टादशिनो द्वादशिन एकर्चान् द्व्यृचांस् तृचांश् चतुरृचान् पञ्चर्चान् षडर्चान् सप्तर्चान् इति
तान् अङ्गिरस ऋषीन् आङ्गिरसांश् चार्षेयान् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो यान् मन्त्रान् अपश्यत् स आङ्गिरसो वेदो ऽभवत्
ताम् आङ्गिरसं वेदम् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तस्माच् छ्रान्तात् तप्तात् संतप्ताज् जनद् इति द्वैतम् अक्षरं व्यभवत्
स य इच्छेत् सर्वैर् एतैर् अङ्गिरोभिश् चाङ्गिरसैश् च कुर्वीयेत्य् एतयैव तन् महाव्याहृत्या कुर्वीत
सर्वैर् ह वा अस्यैतैर् अङ्गिरोभिश् चाङ्गिरसैश् च कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतया महाव्याहृत्या कुरुते ॥ ८ ॥
1.1.9
स ऊर्ध्वो ऽतिष्ठत्
स इमांल् लोकान् व्यष्टभ्नात्
तस्माद् अङ्गिरसो ऽधीयान ऊर्ध्वस् तिष्ठति
तद् व्रतं स मनसा ध्यायेद् यद् वा अहं किं च मनसा ध्यास्यामि तथैव तद् भविष्यति [एद्.॒ येद्]
तद् ध स्म तथैव भवति
तद् अप्य् एतद् ऋचोक्तम्
श्रेष्ठो ह वेदस् तपसो ऽधि जातो ब्रह्मज्यानां क्षितये संबभूव ।
ऋज्यद् भूतं यद् असृज्यतेदं निवेशनम् अनृणं दूरम् अस्येति [एद्.॒ ऋच्य् ऋग्भूतं – सेए नोते ড়त्यल्]
ता वा एता अङ्गिरसां जामयो यन् मेनयः
करोति मेनिभिर् वीर्यं य एवं वेद ॥ ९ ॥
1.1.10
स दिशो ऽन्वैक्षत प्राचीं दक्षिणां प्रतीचीम् उदीचीं ध्रुवाम् ऊर्ध्वाम् इति
तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत्
ताभ्यः श्रान्ताभ्यस् तप्ताभ्यः संतप्ताभ्यः पञ्च वेदान् निरमिमीत
सर्पवेदं पिशाचवेदम् असुरवेदम् इतिहासवेदं पुराणवेदम् इति
स खलु प्राच्या एव दिशः सर्पवेदं निरमिमीत
दक्षिणस्याः पिशाचवेदम्
प्रतीच्या असुरवेदम्
उदीच्या इतिहासवेदम्
ध्रुवायाश् चोर्ध्वायाश् च पुराणवेदम्
स तान् पञ्च वेदान् अभ्यश्राम्यद् अभ्यतपत् समतपत्
तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यः पञ्च महाव्याहृतीर् निरमिमीत
वृधत् करद् रुहन् महत् तद् इति
वृधद् इति सर्पवेदात्
करद् इति पिशाचवेदात्
रुहद् इत्य् असुरवेदात्
महद् इतीतिहासवेदात्
तद् इति पुराणवेदात्
स य इच्छेत् सर्वैर् एतैः पञ्चभिर् वेदैः कुर्वीयेत्य् एताभिर् एव तन् महाव्याहृतिभिः कुर्वीत
सर्वैर् ह वा अस्यैतैः पञ्चभिर् वेदैः कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एताभिर् महाव्याहृतिभिः कुरुते ॥ १० ॥
1.1.11
स आवतश् च परावतश् चान्वैक्षत
तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत्
ताभ्यः श्रान्ताभ्यस् तप्ताभ्यः संतप्ताभ्यः शम् इत्य् ऊर्ध्वम् अक्षरम् उदक्रामत्
स य इच्छेत् सर्वाभिर् एताभिर् आवद्भिश् च परावद्भिश् च कुर्वीयेत्य् एतयैवा तन् महाव्याहृत्या कुर्वीत
सर्वाभिर् ह वा अस्यैताभिर् आवद्भिश् च परावद्भिश् च कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतया महाव्याहृत्या कुरुते ॥ ११ ॥
1.1.12
स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत्
स मनस एव चन्द्रमसं निरमिमीत
नखेभ्यो नक्षत्राणि
लोमभ्य ओषधिवनस्पतीन्
क्षुद्रेभ्यः प्राणेभ्यो ऽन्यान् बहून् देवान्
स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत्
स एतं त्रिवृतं सप्ततन्तुम् एकविंशतिसंस्थं यज्ञम् अपश्यत् [एद्. एकविशतिसंस्थं]
तद् अप्य् एतद् ऋचोक्तम्
<अग्निर् यज्ञं त्रिवृतं सप्ततन्तुम् [पै.सं. ५.२८.१च्]> इति
अथाप्य् एष प्राक्रीडितः श्लोकः प्रत्यभिवदति
सप्त सुत्याः सप्त च पाकयज्ञा इति ॥ १२ ॥
1.1.13
तम् आहरत्
तेनायजत
तस्याग्निर् होतासीत्
वायुर् अध्वर्युः
सूर्य उद्गाता
चन्द्रमा ब्रह्मा
पर्जन्यः सदस्यः
ओषधिवनस्पतयश् चमसाध्वर्यवः
विश्वे देवा होत्रकाः
अथर्वाङ्गिरसो गोप्तारस्
तं ह स्मैतम् एवंविद्वांसः पूर्वे श्रोत्रिया यज्ञं ततं सावसाय ह स्माहेत्य् अभिव्रजन्ति
मा नो ऽयं घर्म उद्यतः प्रमत्तानाम् अमृताः प्रजाः प्रधाक्षीद् इति
तान् वा एतान् परिरक्षकान्त् सदःप्रसर्पकान् इत्य् आचक्षते दक्षिणासमृद्धान्
तद् उ ह स्माह प्रजापतिः
यद् वै यज्ञे ऽकुशला ऋत्विजो भवन्त्य् अचरितिनो ब्रह्मचर्यम् अपराग्या वा
तद् वै यज्ञस्य विरिष्टम् इत्य् आचक्षते
यज्ञस्य विरिष्टम् अनु यजमानो विरिष्यते
यजमानस्य विरिष्टम् अन्व् ऋत्विजो विरिष्यन्ते
ऋत्विजां विरिष्टम् अनु दक्षिणा विरिष्यन्ते
दक्षिणानां विरिष्टम् अनु यजमानः पुत्रपशुभिर् विरिष्यते
पुत्रपशूनां विरिष्टम् अनु यजमानः स्वर्गेण लोकेन विरिष्यते
स्वर्गस्य लोकस्य विरिष्टम् अनु तस्यार्धस्य योगक्षेमो विरिस्.यते यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम् ॥ १३ ॥
1.1.14
तं ह स्मैतम् एवंविद्वांसं ब्रह्माणं यज्ञविरिष्टी वा यज्ञविरिष्टिनो वेत्य् उपाधावेरन्
नमस् ते अस्तु भगवन्
यज्ञस्य नो विरिष्टं सन्धेहीति
तद् यत्रैव विरिष्टं स्यात् तत्राग्नीन् उपसमाधाय शान्त्युदकं कृत्वा पृथिव्यै श्रोत्रायेति त्रिर् एवाग्नीन्त् सम्प्रोक्षति त्रिः पर्युक्षति
त्रिः कारयमानम् आचामयति च संप्रोक्षति च
यज्ञवास्तु व सम्प्रोक्षति
अथापि वेदानां रसेन यज्ञस्य विरिष्टं सन्धीयते
तद् यथा लवणेन सुवर्णं संदध्यात् सुवर्णेन रजतं रजतेन लोहं लोहेन सीसं सीसेन त्रप्व् एवम् एवास्य यज्ञस्य विरिष्टं संधीयते
यज्ञस्य संधितिम् अनु यजमानः संधीयते [एद्. संघीयते]
यजमानस्य संधितिम् अन्व् ऋत्विजः संधीयन्ते
ऋत्विजां संधितिम् अनु दक्षिणाः संधीयन्ते
दक्षिणानां संधितिम् अनु यजमानः पुत्रपशुभिः संधीयते
पुत्रपशूनां संधितिम् अनु यजमानः स्वर्गेण लोकेन संधीयते
स्वर्गस्य लोकस्य संधितिम् अनु तस्यार्धस्य योगक्षेमः संधीयते यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम् ॥ १४ ॥
1.1.15
तद् उ ह स्माहाथर्वा देवो विजानन् यज्ञविरिष्टानन्दानीत्य् उपशमयेरन् यज्ञे प्रायश्चित्तिः क्रियते ऽपि च यद् उ बह्व् इव यज्ञे विलोमं क्रियते न चैवास्य का चनार्तिर् भवति न च यज्ञविष्कन्धम् उपयात्य् अपहन्ति पुनर्मृत्युम् अपात्येति पुनाराजातिं कामचारो ऽस्य सर्वेषु लोकेषु भाति य एवं वेद यश् चैवंविद्वान् ब्रह्मा भवति यस्य चैवंविद्वान् ब्रह्मा दक्षिणतः सदो ऽध्यास्ते यस्य चैवंविद्वान् ब्रह्मा दक्षिणत उदङ्मुख आसीनो यज्ञ आज्याहुतीर् जुहोतीति ब्राह्मणम् ॥ १५ ॥
1.1.16
ब्रह्म ह वै ब्रह्माणं पुष्करे ससृजे
स खलु ब्रह्मा सृष्टश् चिन्ताम् आपेदे
केनाहम् एकेनाक्षरेण सर्वांश् च कामान्त् सर्वांश् च लोकान्त् सर्वांश् च देवान्त् सर्वांश् च वेदान्त् सर्वांश् च यज्ञान्त् सर्वांश् च शब्दान्त् सर्वाश् च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्य् अनुभवेयम् इति
स ब्रह्मचर्यम् अचरत्
स ओम् इत्य् एतद् अक्षरम् अपश्यद् द्विवर्णं चतुर्मात्रं सर्वव्यापि सर्वविभ्वयातयामब्रह्म ब्राह्मीं व्याहृतिं ब्रह्मदैवताम्
तया सर्वांश् च कामान्त् सर्वांश् च लोकान्त् सर्वांश् च देवान्त् सर्वांश् च वेदान्त् सर्वांश् च यज्ञान्त् सर्वांश् च शब्दान्त् सर्वाश् च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्य् अन्वभवत्
तस्य प्रथमेन वर्णेनापः स्नेहं चान्वभवत्
तस्य द्वितीयेन वर्णेन तेजो ज्योतींष्य् अन्वभवत् ॥ १६ ॥
1.1.17
तस्य प्रथमया स्वरमात्रया पृथिवीम् अग्निम् ओषधिवनस्पतीन् ऋग्वेदं भूर् इति व्याहृतिं गायत्रं छन्दस् त्रिवृतं स्तोमं प्राचीं दिशं वसन्तम् ऋतुं वाचम् अध्यात्मं जिह्वां रसम् इतीन्द्रियाण्य् अन्वभवत् ॥ १७ ॥
1.1.18
तस्य द्वितीयया स्वरमात्रयान्तरिक्षं वायुं यजुर्वेदं भुव इति व्याहृतिं त्रैष्टुभं छन्दः पञ्चदशं स्तोमं प्रतीचीं दिशं ग्रीष्मम् ऋतुं प्राणम् अध्यात्मं नासिके गन्धघ्राणम् इतीन्द्रियाण्य् अन्वभवत् ॥ १८ ॥
1.1.19
तस्य तृतीयया स्वरमात्रया दिवम् आदित्यं सामवेदं स्वर् इति व्याहृतिं जागतं छन्दः सप्तदशं स्तोमम् उदीचीं दिशं वर्षा ऋतुं ज्योतिर् अध्यात्मं चक्षुषी दर्शनम् इतीन्द्रियान्य् अन्वभवत् ॥ १९ ॥
1.1.20
तस्य वकारमात्रयापश् चन्द्रमसम् अथर्ववेदं नक्षत्राण्य् ओम् इति स्वम् आत्मानं जनद् इत्य् अङ्गिरसाम् आनुष्टुभं छन्द एकविंशं स्तोमं दक्षिणां दिशं शरदम् ऋतुं मनो ऽध्यात्मं ज्ञानं ज्ञेयम् इतीन्द्रियाण्य् अन्वभवत् ॥ २० ॥
1.1.21
तस्य मकारश्रुत्येतिहासपुराणं वाकोवाक्यं गाथा नाराशंसीर् उपनिषदो ऽनुशासनानीति वृधत् करद् रुहन् महत् तच् छम् ओम् इति व्याहृतीः स्वरशम्यनानातन्त्रीः स्वरनृत्यगीतवादित्राण्य् अन्वभवच् चैत्ररथं दैवतं वैद्युतं ज्योतिर् बार्हतं छन्दस् त्रिणवत्रयस्त्रिंशौ स्तोमौ ध्रुवाम् ऊर्ध्वां दिशं हेमन्तशिशिराव् ऋतू श्रोत्रम् अध्यात्मं शब्दश्रवणम् इतीन्द्रियाण्य् अन्वभवत् ॥ २१ ॥
1.1.22
सैषैकाक्षरर्ग् ब्रह्मणस् तपसो ऽग्रे प्रादुर्बभूव ब्रह्मवेदस्याथर्वणं शुक्रम्
अत एव मन्त्राः प्रादुर्बभूवुः
स तु खलु मन्त्राणाम् अतपसासुश्रूषानध्यायाध्ययनेन यद् ऊनं च विरिष्टं च यातयामं च करोति तद् अथर्वणां तेजसा प्रत्याप्याययेत्
मन्त्राश् च माम् अभिमुखीभवेयुर् गर्भा इव मातरम् अभिजिघांसुः
पुरस्ताद् ओंकारं प्रयुङ्क्ते
एतयैव तद् ऋचा प्रत्याप्यायेत्
एषैव यज्ञस्य पुरस्ताद् युज्यते
एषा पश्चात्
सर्वत एतया यज्ञस् तायते
तद् अप्य् एतदृचोक्तम्
या पुरस्ताद् युज्यत ऋचो अक्षरे परमे व्योमन्न् इति
तद् एतद् अक्षरं ब्राह्मणो यं कामम् इच्छेत् त्रिरात्रोपोषितः प्राङ्मुखो वाग्यतो बर्हिष्य् उपविश्य सहस्रकृत्व आवर्तयेत्
सिध्यन्त्य् अस्यार्थाः सर्वकर्माणि चेति ब्राह्मणम् ॥ २२ ॥
1.1.23
वसोर् धाराणाम् ऐन्द्रं नगरम्
तद् असुराः पर्यवारयन्त
ते देवा भीता आसन्
क इमान् असुरान् अपहनिष्यतीति [एद्. ईमान्]
त ओंकारं ब्रह्मणः पुत्रं ज्येष्ठं ददृश्रुस्
ते तम् अब्रुवन्
भवता मुखेनेमान् असुराञ् जयेमेति
स होवाच
किं मे प्रतीवाहो भविष्यतीति
वरं वृणीष्वेति
वृणा इति
स वरम् अवृणीत
न माम् अनीरयित्वा ब्राह्मणा ब्रह्म वदेयुः
यदि वदेयुर् अब्रह्म तत् स्याद् इति
तथेति
ते देवा देवयजनस्योत्तरार्धे ऽसुरैः संयत्ता आसन्
तान् ओंकारेणाग्नीध्रीयाद् देवा असुरान् पराभावयन्त
तद् यत् पराभावयन्त तस्माद् ओंकारः पूर्वम् उच्यते
यो ह वा एतम् ओंकारं न वेदावशी स्याद् इत्य् अथ य एवं वेद ब्रह्मवशी स्याद् इति
तस्माद् ओंकार ऋच्य् ऋग् भवति
यजुषि यजुः
साम्नि साम
सूत्रे सूत्रम्
ब्राह्मणे ब्राह्मणम्
श्लोके श्लोकः
प्रणवे प्रणव इति ब्राह्मणम् ॥ २३ ॥
1.1.24
ओंकारं पृच्छामः
को धातुः
किं प्रातिपदिकम्
किं नामाख्यातम्
किं लिङ्गम्
किं वचनम्
का विभक्तिः
कः प्रत्ययः
कः स्वर उपसर्गो निपातः
किं वै व्याकरणम्
को विकारः
को विकारी
कतिमात्रः
कतिवर्णः
कत्यक्षरः
कतिपदः
कः संयोगः
किं स्थानानुप्रदानकरणं शिक्षुकाः किम् उच्चारयन्ति
किं छन्दः
को वर्ण इति पूर्वे प्रश्राः
अथोत्तरे
मन्त्रः कल्पो ब्राह्मणम् ऋग् यजुः साम
कस्माद् ब्रह्मवादिन ओंकारम् आदितः कुर्वन्ति
किं दैवतम्
किं ज्योतिषम्
किं निरुक्तम्
किं स्थानम्
ब्का प्रकृतिः
च्किमध्यात्मम् इति
द्षट्त्रिंशत् प्रश्र्नाः
पूर्वोत्तराणां त्रयो वर्गा द्वादशकाः
एतैर् ओंकारं व्याख्यास्यामः ॥ २४ ॥
1.1.25
इन्द्रः प्रजापतिम् अपृच्छत्
भगवन्न् अभिष्टूय पृच्छामीति
पृच्छ वत्सेत्य् अब्रवीत्
किम् अयम् ओंकारः
कस्यः पुत्रः
किं चैतच् छन्दः
किं चैतद् वर्णः
किं चैतद् ब्रह्मा ब्रह्म सम्पद्यते
तस्माद् वै तद् भद्रम् ओंकारं पूर्वम् आलेभे
स्वरितोदात्त एकाक्षर ओंकार ऋग्वेदे
त्रैस्वर्योदात एकाक्षर ओंकारो यजुर्वेदे
दीर्घप्लुतोदात्त एकाक्षर ओंकारः सामवेदे
ह्रस्वोदात्त एकाक्षर ओंकारो ऽथर्ववेदे
उदात्तोदात द्विपद अ उ इत्य् अर्धचतस्रो मात्रा मकारे व्यञ्जनम् इत्य् आहुः
या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन
यस् तां ध्यायते नित्यं स गच्छेद् ब्राह्मं पदम्
या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेन
यस् तां ध्यायते नित्यं स गच्छेद् वैष्णवं पदम्
या सा तृतीया मात्रैशानदेवत्या कपिला वर्णेन
यस् तां ध्यायते नित्यं स गच्छेद् ऐशानं पदम्
या सार्धचतुर्थी मात्रा सर्वदेवत्या व्यक्तीभूता खं विचरति शुद्धस्फटिकसन्निभा वर्णेन
यस् तां ध्यायते नित्यं स गच्छेत् पदम् अनामकम्
ओंकारस्य चोत्पत्तिः
विप्रो यो न जानाति तत्पुनरुपनयनम्
तस्माद् ब्राह्माणवचनम् आदर्तव्यं यथा लातव्यो गोत्रो ब्रह्मणः पुत्रः
गायत्रं च्छन्दः
शुक्लो वर्णः
ब्पुंसो वत्सः
च्रुद्रो देवता
द्ओंकारो वेदानाम् ॥ २५ ॥
1.1.26
को धातुर् इति
आपृधातुः
अवतिम् अप्य् एके
रूपसामान्याद् अर्थसामान्यं नेदीयस्
तस्माद् आपेर् ओंकारः सर्वम् आप्नोतीत्य् अर्थः कृदन्तम् अर्थवत्
प्रातिपदिकम् अदर्शनम्
प्रत्ययस्य नाम संपद्यते निपातेषु चैनं वैयाकरणा उदात्तं समामनन्ति तद् अव्ययीभूतम्
अन्वर्थवाची शब्दो न व्येति कदा चनेति
सदृशं त्रिषु लिङ्गेषु सर्वासु व विभक्तिषु वचनेषु च सर्वेषु यन् न व्येति तद् अव्ययम्
को विकारी च्यवते
प्रसारणम्
आप्नोतेर् आकरपकारौ विकार्यौ
आदित ओंकारो विक्रियते
द्वितीयो मकारः
एव द्विवर्ण एकाक्षर ओम् इत्य् ओंकारो निर्वृत्तः ॥ २६ ॥
1.1.27
कतिमात्र इति
आदेस् तिस्रो मात्राः
अभ्यादाने हि प्लवते
मकारश् चतुर्थीम्
किं स्थानम् इति
उभाव् ओष्ठौ स्थानम्
नादानुप्रदानकरणौ च द्विस्थानम् [एद्. नादान-, च्f. ড়त्यल् प्. २८]
संध्यक्षरम् अवर्णलेशः कण्ठ्यो यथोक्तशेषः
पूर्वो विवृतकरणस्थितश् च
द्वितीयस्पृष्टकरणस्थितश् च
न संयोगो विद्यते
आख्यातोपसर्गानुदात्तस्वरितलिङ्गविभक्तिवचनानि च संस्थानाध्यायिन आचार्याः पूर्वे बभूवुः
श्रवणाद् एव प्रतिपद्यन्ते न कारणं पृच्छन्ति
अथापरपक्षीयाणां कविः पञ्चालचण्डः परिपृच्छको बभूवांबु पृथगुद्गीथदोषान् भवन्तो ब्रुवन्त्व् इति
तद् वाच्य् उपलक्षयेद् वर्णाक्षरपदाङ्कशः
विभक्त्याम् ऋषिनिषेविताम् इति वाचं स्तुवन्ति
तस्मात् कारणं ब्रूमः
वर्णानाम् अयम् इदं भविष्यतीति
षडङ्गविदस् तत् तथाधीमहे
किं छन्द इति
गायत्रं हि छन्दः
गायत्री वै देवानाम् एकाक्षरा श्वेतवर्णा च व्याख्याता
द्वौ द्वादशकौ वर्गौ
एतद् वै व्याकरणं धात्वर्थवचनं शैक्ष्यं छन्दोवचनं च
अथोत्तरौ द्वौ द्वादशकौ वर्गौ वेदरहसिकी व्याख्याता
मन्त्रः कल्पो ब्राहमणम् ऋग् यजुः सामाथर्वाणि
एषा व्याहृतिश् चतुर्णां वेदानाम् आनुपूर्वेणों भूर् भुवः स्वर् इति व्याहृतयः ॥ २७ ॥
1.1.28
असमीक्ष्यप्रवल्हितानि श्रूयन्ते
द्वापरादाव् ऋषीणाम् एकदेशो दोषपतिर् इह चिन्ताम् आपेदे त्रिभिः सोमः पातव्यः समाप्तम् इव भवति
तस्माद् ऋग्यजुःसामान्य् अपक्रान्ततेजांस्य् आसन्
तन्त्र महर्षयः परिदेवयां चक्रिरे
महच् छोकभयं प्राप्ताः स्मः
न चैतत् सर्वैः समभिहितम्
ते वयं भगवन्तम् एवोपधावाम
सर्वेषाम् एव शर्म भवानीति
ते तथेत्य् उक्त्वा तूष्णीम् अतिष्ठन्
नानुपसन्नेभ्य इति
उपोपसीदामीति नीचैर् बभूवुः
स एभ्य उपनीय प्रोवाच
मामिकाम् एव व्याहृतिम् आदित आदितः कृणुध्वम् इति
एवं मामका आधीयन्ते नर्ते भृग्वङ्गिरोविद्भ्यः सोमः पातव्यः
ऋत्विजः पराभवन्ति
यजमानो रजसापध्वस्यति
श्रुतिश् चापध्वस्ता तिष्ठतीति
एवम् एवोत्तरोत्तराद् योगात् तोकं तोकं प्रशाध्वम् इति
एवं प्रतापो न पराभविष्यतीति
तथा ह तथा ह भगवन्न् इति प्रतिपेदिर आप्याययन्
ते तथा वीतशोकभया बभूवुस्
तस्माद् ब्रह्मवादिन ओंकारम् आदितः कुर्वन्ति ॥ २८ ॥
1.1.29
किं देवतम् इति
ऋचाम् अग्निर् देवतम्
तद् एव ज्योतिः
गायत्रं छन्दः
पृथिवी स्थानम्
<अग्निम् ईऌए पुरोहितं यज्ञस्य देवम् ऋत्विजं होतारं रत्नधातमम् [ऋV १.१.१]> इत्य् एवम् आदिं कृत्वा ऋग्वेदम् अधीयते
यजुषां वायुर् देवतम्
तद् एव ज्योतिस्
त्रैष्टुभं छन्दः
अन्तरिक्षं स्थानम्
<इषे त्वोर्जे त्वा वायव स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे >इत्य् एवम् आदिं कृत्वा यजुर्वेदम् अधीयते
साम्नाम् आदित्यो देवतम्
तद् एव ज्योतिः
जागतं छन्दः
द्यौः स्थानम्
<अग्न आ याहि वीतये गृणानो हव्यदातये नि होता सत्सि बर्हिषि [ष्V १.१]>इत्य् एवम् आदिं कृत्वा समावेदम् अधीयते
अथर्वणां चन्द्रमा देवतम्
तद् एव ज्योतिः
सर्वाणि छन्दांसि
आपः स्थानम्
<शं नो देवीर् अभिष्टय [पै.सं. १.१.१]> इत्य् एवम् आदिं कृत्वाथर्ववेदम् अधीयते
अद्भ्यः स्थावरजङ्गमो भूतग्रामः संभवति
तस्मात् सर्वम् आपोमयं भूतं सर्वं भृग्वङ्गिरोमयम्
अन्तरैते त्रयो वेदा भृगून् अङ्गिरसः श्रिता इत्य् अब् इति प्रकृतिर् अपाम् ओंकारेण च
एतस्माद् व्यासः पुरोवाच
भृग्वङ्गिरोविदा संस्कृतो ऽन्यान् वेदान् अधीयीत
नान्यत्र संस्कृतो भृग्ङ्गिरसो ऽधीयीत
ब्सामवेदे ऽथ खिलश्रुतिर् ब्रह्मचर्येण चैतस्माद् अथर्वाङ्गिरसो ह यो वेद स वेद सर्वम् इति ब्राह्मणम् ॥ २९ ॥
1.1.30
अध्यात्मम् आत्मभैषज्यम् आत्मकैवल्यम् ओंकारः
आत्मानं निरुध्य सङ्गममात्रीं भूतार्थचिन्तां चिन्तयेत्
अतिक्रम्य वेदेभ्यः सर्वपरम् अध्यात्मफलं प्राप्नोतीत्यर्थः
सवितर्कं ज्ञानमयम् इत्य् एतैः प्रश्नैः प्रतिवचनैश् च यथार्थं पदम् अनुविचिन्त्य प्रकरणज्ञो हि प्रबलो विषयी स्यात् सर्वस्मिन् वाकोवाक्य इति ब्राह्मणम् ॥ ३० ॥
1.1.31
एतद् ध स्मैतद् विद्वांसम् एकादशाक्षं मौद्गल्यं ग्लावो मैत्रेयो ऽभ्याजगाम
स तस्मिन् ब्रह्मचर्यं वसतो विज्ञायोवाच किं स्विन् मर्या अयं तन् मौद्गल्यो ऽध्येति यद् अस्मिन् ब्रह्मचर्यं वसतीति
तद् धि मौद्गल्यस्यान्तेवासी शुश्राव
स आचार्यायाव्रज्याचचष्टे
दुरधीयानं वा अयं भवन्तम् अवोचद् यो ऽयम् अद्यातिथिर् भवति
किं सौम्य विद्वान् इति
त्रीन् वेदान् ब्रूते भो इति
तस्य सौम्य विपष्टो विजिगीषो ऽन्तेवासी तं मे ह्वयेति
तम् आजुहाव
तम् अभ्युवाचासाव् इति
भो इति
किं सौम्य त आचार्यो ऽध्येतीति
त्रीन् वेदान् ब्रूते
भो इति
यन् नु खलु सौम्यास्माभिः सर्वे वेदा मुखतो गृहीताः कथं त एवम् आचार्यो भाषते
कथं नु शिष्टाः शिष्टेभ्य एवं भाषेरन्
यं ह्य् एनम् अहं प्रश्नं पृच्छामि न तं विवक्ष्यति
न ह्य् एनम् अध्येतीति
स ह मौद्गल्यः स्वम् अन्तेवासिनम् उवाच परेहि सौम्य ग्लावं मैत्रेयम् उपसीद
अधीहि भोः सावित्रीं गायत्रीं चतुर्विंशतियोनिं द्वादशमिथुनाम्
यस्या भृग्वङ्गिरसश् चक्षुः
यस्यां सर्वम् इदं श्रितं तां भवान् प्रब्रवीत्व् इति
स चेत् सौम्य दुरधीयानो भविष्यत्य् आचार्योवाच ब्रह्मचारी ब्रह्माचारिणो सावित्रीं प्राहेति वक्ष्यति तत् त्वं ब्रूयाद् दुरधीयानं तं वै भवान् मौद्गल्यम् अवोचत्
स त्वा यं प्रश्नम् अप्राक्षीन् न तं व्यवोचः
पुरा संवत्सराद् आर्तिम् आरिष्यसीति ॥ ३१ ॥
1.1.32
स तत्राजगाम यत्रेतरो बभूव
तं ह पप्रच्छ
स ह न प्रतिपेदे
तं होवाच दुरधीयानं तं वै भवान् मौद्गल्यम् अवोचत्
स त्वा यं प्रश्नम् अप्राक्षीन् न तं व्यवोचः
पुरा संवत्सराद् आर्तिम् आरिष्यसीति
स ह मैत्रेयः स्वान् अन्तेवासित उवाच यथार्थं भवन्तो यथागृहं यथामनो विप्रसृज्यन्ताम्
दुरधीयानं वा अहं मौद्गल्यम् अवोचम्
स मा यं प्रश्नम् अप्राक्षीन् न तं व्यवोचम्
तम् उपैष्यामि
शान्तिं करिष्यामीति
स ह मैत्रेयः प्रातः समित्पाणिर् मौद्गल्यम् उपससादासौ वा अहं भो मैत्रेयः
किमर्थम् इति
दुरधीयानं वा अहं भवन्तम् अवोचम्
त्वं मा यं प्रश्नम् अप्राक्षीर् न तं व्यवोचम्
त्वाम् उपैष्यामि
शान्तिं करिष्यामीति
स होवाचात्र वा उपेतं च सर्वं च कृतं पापकेन त्वा यानेन चरन्तम् आहुः
अथो ऽयं मम कल्याणस् [ড়त्यल्ऽस् त्रन्स्ल्. इम्प्लिएस् थे एमेन्दतिओन् आहू रथो]
तं ते ददामि
तेन याहीति
स होवाचैतद् एवात्रात्विषं चानृशंस्यं च यथा भवान् आह
उपायामि त्वेव भवन्तम् इति
तं होपेयाय
तं होपेत्य पप्रच्छ किं स्विद् आहुर् भोः सवितुर् वरेण्यं भर्गो देवस्य कवयः किम् आहुः।
धियो विचक्ष्व यदि ताः प्रवेत्थ प्रचोदयात् सविता याभिर् एतीति। [पाठ. प्रचोदयन्त्, चोर्र्. ড়त्यल्]
तस्मा एतत् प्रोवाच —
वेदांश् छन्दांसि सवितुर् वरेण्यम् भर्गो देवस्य कवयो ऽन्नम् आहुः।
कर्माणि धियस् तद् उ ते प्रब्रवीमि प्रचोदयात् सविता याभिर् एतीति [पाठ. प्रचोदयन्त्]
तम् उपसंगृह्य पप्रच्छाधीहि भोः कः सविता का सावित्री ॥ ३२ ॥
1.1.33
मन एव सविता वाक् सावित्री
यत्र ह्य् एव मनस् तद् वाग् यत्र वै वाक् तन् मन इति
एते द्वे योनी एकं मिथुनम्
अग्निर् एव सविता पृथिवी सावित्री
यत्र ह्य् एवाग्निस् तत् पृथिवी यत्र वै पृथिवी तद् अग्निर् इति
एते द्वे योनी एकं मिथुनम्
वायुर् एव सवितान्तरिक्षं सावित्री
यत्र ह्य् एव वायुस् तद् अन्तरिक्षं यत्र वा अन्तरिक्षं तद् वायुर् इति
एते द्वे योनी एकं मिथुनम्
आदित्य एव सविता द्यौः सावित्री
यत्र ह्य् एवादित्यस् तद् द्यौर् यत्र वै द्यौस् तद् आदित्य इति
एते द्वे योनी एकं मिथुनम्
चन्द्रमा एव सविता नक्षत्राणि सावित्री
यत्र ह्य् एव चन्द्रमास् तन् नक्षत्राणि यत्र वै नक्षत्राणि तच् चन्द्रमा इति
एते द्वे योनी एकं मिथुनम्
अहर् एव सविता रात्रिः सावित्री
यत्र ह्य् एवाहस् तद् रात्रिर् यत्र वै रात्रिस् तद् अहर् इति
एते द्वे योनी एक मिथुनम्
उष्णम् एव सविता शीतं सावित्री
यत्र ह्य् एवोष्णं तच् छीतं यत्र वै शीतं तद् उष्णम् इति
एते द्वे योनी एकं मिथुनम्
अभ्रम् एव सविता वर्षं सावित्री
यत्र ह्य् एवाभ्रं तद् वर्षं यत्र वै वर्षं तद् अभ्रम् इति
एते द्वे योनी एकं मिथुनम्
विद्युद् एव सविता स्तनयित्नुः सावित्री
यत्र ह्य् एव विद्युत् तत् स्तनयित्नुर् यत्र वै स्तनयित्नुस् तद् विद्युद् इति
एते द्वे योनी एकं मिथुनम्
ब्प्राण एव सवितान्नं सावित्री
च्यत्र ह्य् एव प्राणस् तद् अन्नं यत्र वा अन्नं तत् प्राण इति
द्एते द्वे योनी एकं मिथुनम्
वेदा एव सविता छन्दांसि सावित्री [एद्. ओमित्स् सेन्तेन्चे एन्द् मर्केर्]
यत्र ह्य् एव वेदास् तच् छन्दांसि यत्र वै छन्दांसि तद् वेदा इति
ग्एते द्वे योनी एकं मिथुनम्
ह्यज्ञ एक सविता दक्षिणाः सावित्री
यत्र ह्य् एव यज्ञस् तद् दक्षिणा यत्र वै दक्षिणास् तद् यज्ञ इति
ज्एते द्वे योनी एकं मिथुनम्
क्एतद् ध स्मैतद् विद्वांसम् ओपाकारिम् आसस्तुर् ब्रह्मचारी ते संस्थित इत्य् अथैत आसस्तुर् आचित इव चितो बभूव
ल्अथोत्थाय प्राव्राजीद् इत्य् एतद् वा अहं वेद नैतासु योनिष्व् इत एतेभ्यो वा मिथुनेभ्यः संभूतो ब्रह्मचारी मम पुरायुषः प्रेयाद् इति ॥ ३३ ॥
1.1.34
ब्रह्म हेदं श्रियं प्रतिष्ठाम् आयतनम् ऐक्षत
तत् तपस्व
यदि तद् व्रते ध्रियेत तत् सत्ये प्रत्यतिष्ठत्
स सविता सावित्र्या ब्राह्मणं सृष्ट्वा तत् सवित्रीं पर्यदधात्
तत् सवितुर् वरेण्यम् इति सावित्र्याः प्रथमः पादः [एद्. सवित्र्याः]
पृथिव्य् अर्चं समदधात्
ऋचाग्निम्
अग्निना श्रियम्
श्रिया स्त्रियम्
स्त्रिया मिथुनम्
मिथुनेन प्रजाम्
प्रजया कर्म
कर्मणा तपस् [एद्. कमणा]
तपसा सत्यम्
सत्येन ब्रह्म
ब्रह्मणा ब्राह्मणम्
ब्राह्मणेन व्रतम्
व्रतेन वै ब्राह्मणः संशितो भवति
अशून्यो भवत्य् अविछिन्नो भवत्य् अविछिन्नो ऽस्य तन्तुर् अविछिन्नं जीवनं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतं सावित्र्याः प्रथमं पादं व्याचष्टे ॥ ३४ ॥
1.1.35
भर्गो देवस्य धीमहीति सावित्र्या द्वितीयः पादः
अन्तरिक्षेण यजुः समदधात्
यजुषा वायुम्
वायुनाभ्रम्
अभ्रेण वर्षम्
वर्षेणौषधिवनस्पतीन्
ओषधिवनस्पतिभिः पशून्
पशुभिः कर्म
कर्मणा तपस्
तपसा सत्यम्
सत्येन ब्रह्म
ब्रह्मणा ब्राह्मणम्
ब्राह्मणेन व्रतम्
व्रतेन वै ब्राह्मणः संशितो भवति
अशून्यो भवत्य् अविछिन्नो भवत्य् अविछिन्नो ऽस्य तन्तुर् अविछिन्नं जीवनं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतं सावित्र्या द्वितीयं पादं व्याचष्टे ॥ ३५ ॥
1.1.36
धियो यो नः प्रचोदयाद् इति सावित्र्यास् तृतीयः पादः
दिवा साम समदधात्
साम्नादित्यम्
आदित्येन रश्मीन् [एद्. रश्मि+ईन्]
रश्मिभिर् वर्षम्
वर्षेणौषधिवनस्पतीन्
ओषधिवनस्पतिभिः पशून्
पशुभिः कर्म
कर्मणा तपस्
तपसा सत्यम्
सत्येन ब्रह्म
ब्रह्मणा ब्राह्मणम्
ब्राह्मणेन व्रतम्
व्रतेन वै ब्राह्मणः संशितो भवति
अशून्यो भवत्य् अविछिन्नो भवत्य् अविछिन्नो ऽस्य तन्तुर् अविछिन्नं जीवनं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतं सावित्र्यास् तृतीयं पादं व्याचष्टे ॥ ३६ ॥
1.1.37
तेन ह वा एवंविदुषा ब्राह्मणेन ब्रह्माभिपन्नं ग्रसितं परामृष्टम्
ब्रह्मणाकाशम् अभिपन्नं ग्रसितं परामृष्टम्
आकाशेन वायुर् अभिपन्नो ग्रसितः परामृष्टः
वायुना ज्योतिर् अभिपन्नं ग्रसितं परामृष्टम्
ज्योतिषापो ऽभिपन्ना ग्रसिताः परामृष्टाः
अद्भिर् भूमिर् अभिपन्ना ग्रसिता परामृष्टा
भूम्यान्नम् अभिपन्नं ग्रसितं परामृष्टम्
अन्नेन प्राणो ऽभिपन्नो ग्रसितः परामृष्टः
प्राणेन मनो ऽभिपन्नं ग्रसितं परामृष्टम्
मनसा वाग् अभिपन्ना ग्रसिता परामृष्टा
वाचा वेदा अभिपन्ना ग्रसिताः परामृष्टाः
वेदैर् यज्ञो ऽभिपन्नो ग्रसितः परामृष्टस् [एद्. परिमृष्टस्]
तानि ह वा एतानि द्वादशमहाभूतान्य् एवंविदि प्रतिष्ठितानि
तेषां यज्ञ एव परार्ध्यः ॥ ३७ ॥
1.1.38
तं ह स्मैतम् एवांविद्वांसो मन्यन्ते विद्मैनम् इति याथातथ्यम् अविद्वांसः
अयं यज्ञो वेदेषु प्रतिष्ठितः
वेदा वाचि प्रतिष्ठिताः
वाङ् मनसि प्रतिष्ठिता
मनः प्राणे प्रतिष्ठितम्
प्राणो ऽन्ने प्रतिष्ठितः
अन्नं भूमौ प्रतिष्ठितम्
भूमिर् अप्सु प्रतिष्ठिता
आपो ज्योतिषि प्रतिष्ठिताः
ज्योतिर् वायौ प्रतिष्ठितम्
वायुर् आकाशे प्रतिष्ठितः
आकाशं ब्रह्मणि प्रतिष्ठितम्
ब्रह्म ब्राह्मणे ब्रह्मविदि प्रतिष्ठितम्
यो ह वा एवंवित् स ब्रह्मवित्
पुण्यां च कीर्तिं लभते सुरभींश् च गन्धान्
सो ऽपहतपाप्मा
अनन्तां श्रियम् अश्नुते य एवं वेद यश् चैवंविद्वान् एवम् एतां वेदानां मातरं सावित्रीं संपदम् उपनिषदम् उपास्त इति ब्राह्मणम् ॥ ३८ ॥
1.1.39
<आपो गर्भं जनयन्तीर् [पै.सं. ४.१.८]> इति
अपां गर्भः पुरुषः
स यज्ञः
अद्भिर् यज्ञः प्रणीयमानः प्राङ् तायते
तस्माद् आचमनीयं पूर्वम् आहारयति
स यद् आचामति त्रिर् आचामति
द्विः परिशुम्भति
आयुर् अवरुह्य पाप्मानं निर्णुदति
उपसाद्य यजुषोद्धृत्य मन्त्रान् प्रयुज्यावसाय प्राचीः शाखाः संधाय निरङ्गुष्ठे पाणाव् अमृतम् अस्य् अमृतोपस्तरणम् अस्य् अमृताय त्वोपस्तृणामीति पाणाव् उदकम् आनीय <जीवा स्थ [पै.सं. १९.५५.१२-१५, श्ष् १९.६९.१-४]>इति सूक्तेन त्रिर् आचामति
स यत् पूर्वम् आचामति सप्त प्राणांस् तान् एतेनास्मिन्न् आप्याययति
या ह्य् एमा बाह्याः शरीरान् मात्रास् तद् यथैतद् अग्निं वायुम् आदित्यं चन्द्रमसम् अपः पशून् अन्यांश् च प्रजास् तान् एतेनास्मिन्न् आप्याययति
आपो ऽमृतम्
स यद् द्वितीयम् आचामति सप्तापानांस् तान् एतेनास्मिन्न् आप्याययति
या ह्य् एमा बाह्याः शरीरान् मात्रास् तद् यथैतत् पौर्णमासीम् अष्टकाम् अमावास्यां श्रद्धां दीक्षां यज्ञं दक्षिणास् तान् एतेनास्मिन्न् आप्याययति
आपो ऽमृतम्
स यत् तृतीयम् आचामति सप्त व्यानांस् तान् एतेनास्मिन्न् आप्याययति
या ह्य् एमा बाह्याः शरीरान् मात्रास् तद् यथैतत् पृथिवीम् अन्तरिक्षं दिवम्
नक्षत्राण्य् ऋतून् आर्तवान् संवत्सरांस् तान् एतेनास्मिन्न् आप्याययति
आपो ऽमृतम्
पुरुषो ब्रह्म
अथाप्रियनिगमो भवति तस्माद् वै विद्वान् पुरुषम् इदं पुण्डरीकम् इति [एद्. अथाप्रींग्निगमो, बुत् सेए ড়त्यल् प्. ४४]
प्राण एष स पुरि शेते संपुरि शेत इति
पुरिशयं सन्तं प्राणं पुरुष इत्य् आचक्षते परोक्षेण
परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः
स यत् पूर्वम् आचामति पुरस्ताद्धोमांस् तेनास्मिन्न् अवरुन्द्धे
स यद् द्वितीयम् आचामत्य् आज्यभागौ तेनास्मिन्न् अवरुन्द्धे
स यत् तृतीयम् आचामति संस्थितहोमांस् तेनास्मिन्न् अवरुन्द्धे
ब्स यद् द्विः परिशुम्भति तत् समित्संबर्हिः [एद्. संमित्, च्f. ড়त्यल् प्. ४५]
च्स यत् सर्वाणि खानि सर्वं देहम् आप्याययति यच् चान्यदातारं मन्त्रकार्यं यज्ञे स्कन्दति सर्वं तेनास्मिन्नवरुन्द्धे
द्स यद् ओंपूर्वान् मन्त्रान् प्रयुङ्क्त आ सर्वमेधाद् एते क्रतव एत एवास्य सर्वेषु लोकेषु सर्वेषु देवेषु सर्वेषु वेदेषु सर्वेषु भूतेषु सर्वेषु सत्त्वेषु कामचारः कामविमोचनं भवत्य् अर्धे च न प्रमीयते य एवं वेद
तद् अप्य् एतद् ऋचोक्तम् आपो भृग्वङ्गिरो रूपम् आपो भृग्वङ्गिरोमयं सर्वम् आपोमयं भूतं सर्वं भृग्वङ्गिरोमयम् अन्तरैते त्रयो वेदा भृगून् अङ्गिरसो ऽनुगाः ॥
अपां पुष्पं मूर्तिर् आकाशं पवित्रम् उत्तमम् इति
ग्आचम्याभ्युक्ष्यात्मानम् अनुमन्त्रयत -इन्द्र जीव [पै.सं. २०.४३.१, श्ष् १९.७०.१]इति ब्राह्मणं ॥ ३९ ॥

अथर्ववेदे गोपथब्राह्मणपूर्वभागे प्रथमः प्रपाठकः ॥
1.2.1
ओं <ब्रह्मचारीष्णंश् चरति रोदसी उभे [शौ.अ. ११.३.१अ, पै.सं. १६.१५३.१अ]> इत्य् आचार्यम् आह <तस्मिन् देवाः संमनसो भवन्ति [शौ.अ. ११.३.१, पै.सं. १६.१५३.१ब् (?)]>इति वायुम् आह <स सद्य एति पूर्वस्माद् उत्तरं समुद्रम् [शौ.अ. ११.३.६, पै.सं. १६.१५३.६]> इत्य् आदित्यम् आह दीक्षितो दीर्घश्मश्रुः एष दीक्षित एष दीर्घश्मश्रुर् एष एवाचार्यस्थाने तिष्ठन्न् आचार्य इति स्तूयते वैद्युतस्थाने तिष्ठन् वायुर् इति स्तूयते द्यौस्थाने तिष्ठन्न् आदित्य इति स्तूयते तद् अप्य् एतद् ऋचोक्तं <ब्रह्मचारीष्णन् [शौ.अ. ११.३.१, पै.सं. १६.१५३.१]>इति ब्राह्मणम् ॥ १ ॥

1.2.2 जायमानो ह वै ब्राह्मणः सप्तेन्द्रियाण्य् अभिजायते ब्रह्मवर्चसं च यशश् च स्वप्नं च क्रोधं च श्लाघां च रूपं च पुण्यम् एव गन्धं सप्तमम् तानि ह वा अस्यैतानि ब्रह्मचर्यम् उपेत्योपक्रामन्ति मृगान् अस्य ब्रह्मवर्चसं गच्छति आचार्यं यशः अजगरं स्वप्नः वराहं क्रोधः अपः श्लाघा कुमारीं रूपम् ओषधिवनस्पतीन् पुण्यो गन्धः स यन् मृगाजिनानि वस्ते तेन तद् ब्रह्मवर्चसम् अवरुन्द्धे यद् अस्य मृगेषु भवति स ह स्नातो ब्रह्मवर्चसी भवति स यद् अहरहर् आचार्याय कर्म करोति तेन तद् यशो ऽवरुन्द्धे यद् अस्याचार्ये भवति स ह स्नातो यशस्वी भवति स यत् सुषुप्सुर् निद्रां निनयति तेन तं स्वप्नम् अवरुन्द्धे यो ऽस्याजगरे भवति तं ह स्नातं स्वपन्तम् आहुः स्वपितु मैनं बोबुधथेति स यत् क्रुद्धो वाचा न कं चन हिनस्ति पुरुषात्पुरुषात् पापीयान् इव मन्यमानस् तेन तं क्रोधम् अवरुन्द्धे यो ऽस्य वराहे भवति तस्य ह स्नातस्य क्रोधाः श्लाघीयसं विशन्ते अथाद्भिः श्लाघमानो न स्नायात् तेन तां श्लाघाम् अवरुन्द्धे यास्याप्सु भवति स ह स्नातः श्लाघीयो ऽन्येभ्यः श्लाघ्यते अथैतद् ब्रह्मचारिणो रूपं यत् कुमार्यास् तां नग्नां नोदीक्षेत इति वेति वा मुखं विपरिधापयेत् तेन तद् रूपम् अवरुन्द्धे यद् अस्य कुमार्यां भवति तं ह स्नातं कुमारीम् इव निरीक्षन्ते अथैतद् ब्रह्मचारिणः पुण्यो गन्धो य ओषधिवनस्पतीनां तासां पुण्यं गन्धं प्रच्छिद्य नोपजिघ्रेत् तेन तं पुण्यं गन्धम् अवरुन्द्धे यो ऽस्यौषधिवनस्वपतिषु भवति स ह स्नातः पुण्यगन्धिर् भवति ॥ २ ॥

1.2.3 स वा एष उपयंश् चतुर्धोपैत्य् अग्निं पादेनाचार्यं पादेन ग्रामं पादेन मृत्युं पादेन स यद् अहरहः समिध आहृत्य सायंप्रातर् अग्निं परिचरेत् तेन तं पादम् अवरुन्द्धे यो ऽस्याग्नौ भवति स यद् अहरहर् आचार्याय कर्म करोति तेन तं पादम् अवरुन्द्धे यो ऽस्याचार्ये भवति स यद् अहरहर् ग्रामं प्रविश्य भिक्षाम् एव परीप्सति न मैथुनं तेन तं पादम् अवरुन्द्धे यो ऽस्य ग्रामे भवति स यत् क्रुद्धो वाचा न कं चन हिनस्ति पुरुषात्पुरुषात् पापीयान् इव मन्यमानस् तेन तं पादम् अवरुन्द्धे यो ऽस्य मृत्यौ भवति ॥ ३ ॥

1.2.4 पञ्च ह वा एते ब्रह्मचारिण्य् अग्नयो धीयन्ते द्वौ पृथग्घस्तयोर् मुखे हृदय उपस्थ एव पञ्चमः स यद् दक्षिणेन पाणिना स्त्रियं न स्पृशति तेनाहरहर्याजिनां लोकम् अवरुन्द्धे यत् सव्येन तेन प्रव्राजिनाम् यन् मुखेन तेनाग्निप्रस्कन्दिनाम् यद् धृदयेन तेन शूराणाम् यद् उपस्थेन तेन गृहमेधिनाम् तैश् चेत् स्त्रियं पराहरत्य् अनग्निर् इव शिष्यते स यद् अहरहर् आचार्याय कुले ऽनुतिष्ठते सो ऽनुष्ठाय ब्रूयाद् धर्म गुप्तो मा गोपायेति धर्मो हैनं गुप्तो गोपायति तस्य ह प्रजा श्वः श्वः श्रेयसी श्रेयसीह भवति धाय्यैव प्रतिधीयते स्वर्गे लोके पितॄन् निदधाति तान्तवं न वसीत यस् तान्तवं वस्ते क्षत्रं वर्धते न ब्रह्म तस्मात् तान्तवं न वसीत ब्रह्म वर्धतां मा क्षत्रम् इति नोपर्य् आसीत यद् उपर्य् आस्ते प्राणम् एव तदात्मनो ऽधरं कुरुते यद् वातो वहति अध एवासीताधः शयीताधस् तिष्ठेद् अधो व्रजेत् एवं ह स्म वै तत् पूर्वे ब्राह्मणा ब्रह्मचर्यं चरन्ति तं ह स्म तत्पुत्रं भ्रातरं वोपतापिनम् आहुर् उपनयेतैनम् इति आ समिद्धारात् स्वर् एष्यन्तो ऽन्नम् अद्यात् अथाह जघनम् आहुः स्नापयेतैनम् इतिय् आ समिद्धारात् न ह्य् एतानि व्रतानि भवन्ति तं चेच् छयानम् आचार्यो ऽभिवदेत् स प्रतिसंहाय प्रतिशृणुयात् तं चेच् छयानम् उत्थाय तं चेद् उत्थितम् अभिप्रक्रम्य तं चेद् अभिप्रक्रान्तम् अभिपलायमानम् एवं ह स्म वै तत् पूर्वे ब्राह्मणा ब्रह्मचर्यं चरन्ति तेषां ह स्म वैषा पुण्या कीर्तिर् गच्छत्य् आ ह वा अयं सो ऽद्य गमिष्यतीति ॥ ४ ॥

1.2.5 जनमेजयो ह वै पारीक्षितो मृगयां चरिष्यन् हंसाभ्याम् असिष्यन्न् उपावतस्थ इति ताव् ऊचतुर् जनमेजयं पारीक्षितम् अभ्याजगाम स होवाच नमो वां भगवन्तौ कौ नु भगवन्ताव् इति ताव् ऊचतुर् दक्षिणाग्निश् चाहवनीयश् चेति स होवाच नमो वां भगवन्तौ तद् आकीयताम् इति इहोपारामम् इति अपि किल देवा न रमन्ते न हि देवा न रमन्तए अपि चैकोपारामाद् देवा आरामम् उपसंक्रामन्तीति स होवाच नमो वां भगवन्तौ किं पुण्यम् इति ब्रह्मचर्यम् इति किं लौक्यम् इति ब्रह्मचर्यम् एवेति तत् को वेद इति दन्तावलो धौम्रः अथ खलु दन्तावलो धौम्रो यावति तावति काले पारीक्षितं जनमेजयम् अभ्याजगाम तस्मा उत्थाय स्वयम् एव विष्टरं निदधौ तम् उपसंगृह्य पप्रच्छाधीहि भो किं पुण्यम् इति ब्रह्मचर्यम् इति किं लौक्यम् इति ब्रह्मचर्यम् एवेति तस्मा एतत् प्रोवाचाष्टाचत्वारिंशद् वर्षं सर्ववेदब्रह्मचर्यम् तच् चतुर्धा वेदेषु व्युह्य द्वादशवर्षं ब्रह्मचर्यं द्वादशवर्षाण्य् अवरार्धम् अपि स्नायंश् चरेद् यथाशक्त्य् अपरम् तस्मा उहस्यृषभौ सहस्रं ददौ अप्य् अपकीर्तितम् आचार्यो ब्रह्मचारीत्य् एक आहुर् आकाशम् अधिदैवतम् अथाध्यात्मं ब्राह्मणो व्रतवांश् चरणवान् ब्रह्मचारी ॥ ५ ॥

1.2.6 ब्रह्म ह वै प्रजा मृत्यवे संप्रायच्छत् ब्रह्मचारिणम् एव न संप्रददौ स होवाचाश्याम् अस्मिन्न् इति किम् इति यां रात्रीं समिधम् अनाहृत्य वसेत् ताम् आयुषो ऽवरुन्धीयेति तस्माद् ब्रह्मचार्य् अहरहः समिध आहृत्य सायंप्रातर् अग्निं परिचरेत् नोपर्य् उपसादयेद् अथ प्रतिष्ठापयेत् यद् उपर्य् उपसादयेज् जीमूतवर्षी तद् अहः पर्जन्यो भवति ते देवा अब्रुवन् ब्राह्मणो वा अयं ब्रह्मचर्यं चरिष्यति ब्रूतास्मै भिक्षा इति गृहपतिर् ब्रूत बहुचारी गृहपत्न्या इति किम् अस्या वृञ्जीताददत्या इति इष्टापूर्तसुकृतद्रविणम् अवरुन्ध्याद् इति तस्माद् ब्रह्मचारिणे ऽहरहर् भिक्षां दद्याद् गृहिणी मा मायम् इष्टापूर्तसुकृतद्रविणम् अवरुन्ध्याद् इति सप्तमीं नातिनयेत् सप्तमीम् अतिनयन् न ब्रह्मचारी भवति समिद्भैक्षे सप्तरात्रम् अचरितवान् ब्रह्मचारी पुनरुपनेयो भवति ॥ ६ ॥

1.2.7 नोपरिशायी स्यान् न गायनो न नर्तनो न सरणो न निष्ठीवेत् यद् उपरिशायी भवत्य् अभीक्ष्णं निवासा जायन्ते यद् गायनो भवत्य् अभीक्ष्णश आक्रन्दान् धावन्ते यन् नर्तनो भवत्य् अभीक्ष्णशः प्रेतान् निर्हरन्ते यत् सरणो भवत्य् अभीक्ष्णशः प्रजाः संविशन्ते यन् निष्ठीवति मध्य एव तदात्मनो निष्ठीवति स चेन् निष्ठीवेद् <दिवो नु माम् [शौ.अ. ६.१२४.१, पै.सं. १९.४०.४, वै.श्रौ. १२.७]> <यद् अत्रापि मधोर् अहं [पै.सं. २०.३८.६, वै.श्रौ. १२.८]> <यद् अत्रापि रसस्य मे [पै.सं. २०.२७.८, वै.श्रौ. १२.९]>इत्य् आत्मानम् अनुमन्त्रयते <यद् अत्रापि मधोर् अहं निरष्ठविषम् अस्मृतम् अग्निश् च तत् सविता च पुनर् मे जठरे धत्तां [पै.सं. २०.३८.६, वै.श्रौ. १२.८]> ॥ <यद् अत्रापि रसस्य मे परापपातास्मृतं तद् इहोपह्वयामहे तन् म आप्यायतां पुनः [पै.सं. २०.२७.८]>इति न श्मशानम् आतिष्ठेत् स चेद् अभितिष्ठेद् उदकं हस्ते कृत्वा <यदीद् अमृतुकाम्येत्य् [पै.सं. २०.५४.९]> अभिमन्त्र्य जपन्त् सम्प्रोक्ष्य परिक्रामेत् समयायोपरिव्रजेद् <यदीद् अमृतुकाम्याघं रिप्रम् उपेयिम । अन्धः श्लोण इव हीयतां मा नो ऽन्वागाद् अघं यतः [पै.सं. २०.५४.९]>इति अथ हैतद् देवानां परिषूतं यद् ब्रह्मचारी तद् अप्य् एतद् ऋचोक्तं देवानाम् एतत् परिषूतम् अनभ्यारूढं चरति रोचमानं तस्मिन् सर्वे पशवस् तत्र यज्ञास् तस्मिन्न् अन्नं सह देवताभिर् इति ब्राह्मणम् ॥ ७ ॥

1.2.8 प्राणापानौ जनयन्न् इति शङ्खस्य मुखे महर्षेर् वसिष्ठस्य पुत्र एतां वाचं ससृजे शीतोष्णाव् इहोत्सौ प्रादुर् भवेयाताम् इति तथा तच् छश्वद् अनुवर्तते अथ खलु विपाण् मध्ये वसिष्ठशिला नाम प्रथम आश्रमः द्वितीयः कृष्णशिलास् तस्मिन् वसिष्ठः समतपत् विश्वामित्रजमदग्नी जामदग्ने तपतः गौतमभरद्वाजौ सिंहौ प्रभवे तपतः गुंगुर् गुंगुवासे तपति ऋषिर् ऋषिद्रोणे ऽभ्यतपत् अगस्त्यो ऽगस्त्यतीर्थे तपति दिव्य् अत्रिर् ह तपति स्वयम्भूः कश्यपः कश्यपतुङ्गे ऽभ्यतपत् उलवृकर्क्षुतरक्षुः श्वा वराहचिल्वटिबब्रुकाः सर्पदंष्ट्रनः संहनुकृण्वानाः कश्यपतुङ्गदर्शनात् सरणवाटात् सिद्धिर् भवति ब्राह्म्यं वर्षसहस्रम् ऋषिवने ब्रह्मचार्येकपादेनातिष्ठति द्वितीयं वर्षसहस्रं मूर्धन्य् एवामृतस्य धाराम् आधारयत् ब्राह्माण्यष्टाचत्वारिंशद् वर्षसहस्राणि सलिलस्य पृष्ठे शिवो ऽभ्यतपत् तस्मात् तप्तात् तपसो भूय एवाभ्यतपत् तद् अप्य् एता ऋचो ऽभिवदन्ति प्राणापानौ जनयन्न् इति ब्राह्मणम् ॥ ८ ॥

1.2.9 एकपाद् द्विपद इति वायुर् एकपात् तस्याकाशं पादः चन्द्रमा द्विपात् तस्य पूर्वपक्षापरपक्षौ पादौ आदित्यस् त्रिपात् तस्येमे लोकाः पादाः अग्निः षट्पादस् तस्य पृथिव्य् अन्तरिक्षं द्यौर् आप ओषधिवनस्पतय इमानि भूतानि पादास् तेषां सर्वेषां वेदा गतिर् आत्मा प्रतिष्ठिताश् चतस्रो ब्रह्मणः शाखाः अथो आहुः षड् इति मूर्तिर् आकाशश् चेति [एद्. अहुः] ऋचा मूर्तिः याजुषी गतिः साममयं तेजः भृग्वङ्गिरसा माया एतद् ब्रह्मैव यज्ञश् चतुष्पाद् द्विः संस्थित इति तस्य भृग्वङ्गिरसः संस्थे अथो आहुर् एकसंस्थित इति यद् धोतर्चां मण्डलैः करोति पृथिवीं तेनाप्याययति एतस्यां ह्य् अग्निश् चरति तद् अप्य् एतद् ऋचोक्तम् <अग्निवासाः पृथिव्य् असितज्ञूः [शौ.अ. १२.१.२१, पै.सं. १७.३.२]>इति यद् अध्वर्युर् यजुषा करोत्य् अन्तरिक्षं तेनाप्याययति तस्मिन् वायुर् न निविशते कतमच् च नाहर् इति तद् अप्य् एतद् ऋचोक्तम् <अन्तरिक्षे पथिभिर् ह्रीयमाणो न नि विशते कतमच् च नाहः । अपां योनिः प्रथमजा ऋतस्य क्व स्विज् जातः कुत आ बभूव [पै.सं. १.१०७.४]>इति यद् उद्गाता साम्ना करोति दिवं तेनाप्याययति तत्र ह्य् आदित्यः शुक्रश् चरति तद् अप्य् एतद् ऋचोक्तम् <उच्चा पतन्तम् अरुणं सुपर्णम् [शौ.अ. १३.२.३६, पै.सं. १८.२४.३]> इति यद् ब्रह्मर्चां काण्डैः करोत्य् अपस् तेनाप्याययति चन्द्रमा ह्य् अप्सु चरति तद् अप्य् एतद् ऋचोक्तं चन्द्रमा अप्स्व् अन्तर् इति तासाम् ओषधिवनस्पतयः काण्डानि ततो मूलकाण्डपर्णपुष्पफलप्ररोहरसगन्धैर् यज्ञो वर्तते अद्भिः कर्णाणि प्रवर्तन्ते अद्भिः सोमो ऽभिषूयते तद् यद् ब्रह्माणां कर्णाणि कर्मण्य् आमन्त्रयत्य् अपस् तेनानुजानाति एषो ह्य् अस्य भागस् तद् यथा भोक्ष्यमाणः अप एव प्रथमम् आचामयेद् अप उपरिष्टाद् एवं यज्ञो ऽद्भिर् एव प्रवर्तते अप्सु संस्थाप्यते तस्माद् ब्रह्मा पुरस्ताद्धोमसंस्थितहोमैर् यज्ञो वर्तते अन्तरा हि पुरस्ताद्धोमसंस्थितहोमैर् यज्ञं परिगृह्णाति अन्तरा हि भृग्वङ्गिरसो वेदान् आदुह्य भृग्वङ्गिरसः सोमपानं मन्यन्ते सोमात्मको ह्य् अयं वेद तद् अप्य् एतद् ऋचोक्तं सोमं मन्यते पपिवान् इति तद् यथेमां पृथिवीम् उदीर्णां ज्योतिषा धूमायमानां वर्षं शमयति एवं ब्रह्मा भृग्वङ्गिरोभिर् व्याहृतिभिर् यज्ञस्य विरिष्टं शमयति अग्निर् आदित्याय शमयति एते ऽङ्गिरसः एत इदं सर्वं समाप्नुवन्ति वायुर् आपश् चन्द्रमा इत्य् एते भृगवः एत इदं सर्वं समाप्याययन्ति एकम् एव संस्थं भवतीति ब्राह्मणम् ॥ ९ ॥

1.2.10 विचारी ह वै काबन्धिः कबन्धस्याथर्वणस्य पुत्रो मेधावी मीमांसको ऽनूचान आस स ह स्वेनातिमानेन मानुषं वित्तं नेयाय तं मातोवाच त एवैतद् अन्नम् अवोचंस् त इम एषु कुरुपञ्चालेष्व् अङ्गमगधेषु काशिकौशलेषु शाल्वमत्स्येषु सवशोशीनरेषूदीच्येष्व् अन्नम् अदन्तीति अथ वयं तवैवातिमानेनानाद्याः स्मः वत्स वाहनम् अन्विच्छेति स मान्धातुर् यौवनाश्वस्य सार्वभौमस्य राज्ञः सोमं प्रसूतम् आजगाम स सदो ऽनुप्रविश्यर्त्विजश् च यजमानं चामन्त्रयाम् आस तद् याः प्राच्यो नद्यो वहन्ति याश् च दक्षिणाच्यो याश् च प्रतीच्यो याश् चोदीच्यस् ताः सर्वाः पृथङ्नामधेया इत्य् आचक्षते तासां समुद्रम् अभिपद्यमानानां छिद्यते नामधेयं समुद्र इत्य् आचक्षते एवम् इमे सर्वे वेदा निर्मिताः सकल्पाः सरहस्याः सब्राह्मणाः सोपनिषत्काः सेतिहासाः सान्वाख्यानाः सपुराणाः सस्वराः ससंस्काराः सनिरुक्ताः सानुशासनाः सानुमार्जनाः सवाकोवाक्यास् तेषां यज्ञम् अभिपद्यमानानां छिद्यते नामधेयं यज्ञ इत्य् एवाचक्षते ॥ १० ॥

1.2.11 भूमेर् ह वा एतद् विच्छिन्नं देवयजनं यद् अप्राक्प्रवणं यद् अनुदक्प्रवणं यत्कृत्रिमं यत् समविषमम् इदं ह त्व् एव देवयजनं यत् समं समूलम् अविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणं समं समास्तीर्णम् इव भवति यत्र ब्राह्मणस्य ब्राह्मणतां विद्याद् ब्रह्मा ब्रह्मत्वं करोतीति वोचे छन्दस् तन् न विन्दामो येनोत्तरम् एमहीति तान् ह पप्रच्छ किं विद्वान् होता हौत्रं करोति किं विद्वान् अध्वर्युर् आध्वर्यवं करोति किं विद्वान् उद्गातौद्गात्रं करोति किं विद्वान् ब्रह्मा ब्रह्मत्वं करोतीति वोचे छन्दस् तन् न विन्दामो येनोत्तरम् एमहीति ते ब्रूमो वाग् एव होता हौत्रं करोति वाचो हि स्तोमाश् च वषट्काराश् चाभिसम्पद्यन्ते ते ब्रूमो वाग् एव होता वाग् ब्रह्म वाग् देव इति प्राणापानाभ्याम् एवाध्वर्युर् आध्वर्यवं करोति प्राणप्रणीतानि ह भूतानि प्राणप्रणीताः प्रणीतास् ते ब्रूमः प्राणापानाव् एवाध्वर्युः प्राणापानौ ब्रह्म प्राणापानौ देव इति चक्षुषैवोद्गातौद्गात्रं करोति चक्षुषा हीमानि भूतानि पश्यन्ति अथो चक्षुर् एवोद्गाता चक्षुर् ब्रह्म चक्षुर् देव इति मनसैव ब्रह्मा ब्रह्मत्वं करोति मनसा हि तिर्यक् च दिश ऊर्ध्वं यच् च किं च मनसैव करोति तद् ब्रह्म ते ब्रूमो मन एव ब्रह्मा मनो ब्रह्म मनो देव इति ॥ ११ ॥

1.2.12 तद् यथा ह वा इदं यजमानश् च याजयितारश् च दिवं ब्रूयुः पृथिवीति पृथिवीं वा द्यौर् इति ब्रूयुस् तद् अन्यो नानुजानात्य् एताम् एवं नानुजानाति यद् एतद् ब्रूयात् अथ नु कथम् इति होतेत्य् एव होतारं ब्रूयाद् वाग् इति वाचं ब्रह्मेति ब्रह्म देव इति देवम् अध्वर्युर् इत्य् एवाध्वर्युं ब्रूयात् प्राणापानाव् इति प्राणापानौ ब्रह्मेति ब्रह्म देव इति देवम् उद्गातेत्य् एवोद्गातारं ब्रूयाच् चक्षुर् इति चक्षुर् ब्रह्मेति ब्रह्म देव इति देवं ब्रह्मेत्य् एव ब्रह्माणं ब्रूयान् मन इति मनो ब्रह्मेति ब्रह्म देव इति देवम् ॥ १२ ॥

1.2.13 नानाप्रवचनानि ह वा एतानि भूतानि भवन्ति ये चैवासोमपं याजयन्ति ये च सुरापं ये च ब्राह्मणं विच्छिन्नं सोमयाजिनं तं प्रातः समित्पाणय उपोदेयुर् उपायामो भवन्तम् इति किमर्थम् इति यान् एव नो भवांस् तान् ह्यः प्रश्नान् अपृच्छत् तान् एव नो भवान् व्याचक्षीतेति तथेति तेभ्य एतान् प्रश्नान् व्याचचष्टे तद् येन ह वा इदं विद्यमानं चाविद्यमानं चाभिनिदधाति तद् ब्रह्म तद् यो वेद स ब्राह्मणो ऽधीयानो ऽधीत्याचक्षत इति ब्राह्मणम् ॥ १३ ॥

1.2.14 अथातो देवयजनानि आत्मा देवयजनम् श्रद्धा देवयजनम् ऋत्विजो देवयजनम् भौमं देवयजनम् तद् वा एतद् आत्मा देवयजनं यद् उपव्यायच्छमानो वानुपव्यायच्छमानो वा शरीरम् अधिवसति एष यज्ञः एष यजतः एतं यजन्तः एतद् देवयजनम् अथैतच् छ्रद्धा देवयजनम् यदैव कदा चिद् आदध्यात् श्रद्धा त्व् एवैनं नातीयात् तद् देवयजनम् अथैतद् ऋत्विजो देवयजनम् यत्र क्व चिद् ब्राह्मणो विद्यावान् मन्त्रेण करोति तद् देवयजनम् अथेतद् भौमं देवयजनम् यत्रापस् तिष्ठन्ति यत्र स्यन्दन्ति प्र तद् वहन्त्य् उद्वहन्ति तद् देवयजनम् यत् समं समूलम् अविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणं समं समास्तीर्णम् इव भवति यस्य श्वभ्र ऊर्मो वृक्षः पर्वतो नदी पन्था वा पुरस्तात् स्यात् न देवयजनमात्रं पुरस्तात् पर्यवशिष्येत् नोत्तरतो ऽग्नेः पर्युपसीदेरन्न् इति ब्राह्मणम् ॥ १४ ॥

1.2.15 अदितिर् वै प्रजाकामौदनम् अपचत् तत उच्छिष्टम् आश्नात् सा गर्भम् अधत्त तत आदित्या अजायन्त य एष ओदनः पच्यत आरम्भणम् एवैतत् क्रियत आक्रमणम् एव प्रादेशमात्रीः समिधो भवन्ति एतावान् ह्य् आत्मा प्रजापतिना संमितः अग्नेर् वै या यज्ञिया तनूर् अश्वत्थे तया समगच्छत एषास्य घृत्या तनूर् यद् घृतम् यद् घृतेन समिधो ऽनक्ति ताभ्याम् एवैनं तत् तनूभ्यां समर्धयति यन् निर्मार्गस्यादधात्य् अवगूर्त्या वै वीर्यं क्रियते यन् निर्मार्गस्यादधात्य् अवगूर्त्या एव संवत्सरो वै प्रजननम् अग्निः प्रजननम् एतत् प्रजननम् यत् संवत्सर ऋचाग्नौ समिधम् आदधाति प्रजननाद् एवैनं तत् प्रजनयिता प्रजनयति अभक्तर्तुर् वै पुरुषः न हि तद् वेद यम् ऋतुम् अभिजायते यन् नक्षत्रं तद् आप्नोति य एष ओदनः पच्यते योनिर् एवैषा क्रियते यत् समिध आधीयन्ते रेतस् तद् धीयते संवत्सरे वै रेतो हितं प्रजायते यः संवत्सरे पर्येते ऽग्निम् आधत्ते प्रजातम् एवैनम् आधत्ते द्वादशसु रात्रीषु पुरा संवत्सरस्याधेयास् ता हि संवत्सरस्य प्रतिमा अथो तिसृष्व् अथो द्वयोर् अथो पूर्वेद्युर् आधेयास् त एवाग्निम् आदधानेन आदित्या वा इत उत्तमा अमुं लोकम् आयन् ब्ते पथिरक्षयस् त इयक्षमाणं प्रतिनुदन्तः च्उच्छेषणभाजा वा आदित्याः द्[यद् उच्छिष्टम्] यद् उच्छिष्टेन समिधो ऽनक्ति तेभ्य एव प्रावोचत् तेभ्य एव प्रोच्य स्वर्गं लोकं याति ॥ १५ ॥

1.2.16 प्रजापतिर् अथर्वा देवः स तपस् तप्त्वैतं चातुःप्राश्यं ब्रह्मौदनं निरमिमीत चतुर्लोकं चतुर्देवं चतुर्वेदं चतुर्हौत्रम् इति चत्वारो वा इमे लोकाः पृथिव्य् अन्तरिक्षं द्यौर् आप इति चत्वारो वा इमे देवा अग्निर् वायुर् आदित्यश् चन्द्रमाः चत्वारो वा इमे वेदा ऋग्वेदो यजुर्वेदः सामवेदो ब्रह्मवेद इति चतस्रो वा इमा होत्रा हौत्रम् आध्वर्यवम् औद्गात्रं ब्रह्मत्वम् इति तद् अप्य् एतद् ऋचोक्तं <चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आविवेश [पै.सं. ८.१३.३]>इति चत्वारि शृङ्गेति वेदा वा एत उक्तास् त्रयो अस्य पादा इति सवनान्य् एव द्वे शीर्षे इति ब्रह्मौदनप्रवर्ग्याव् एव सप्त हस्तासो अस्येति छन्दांस्य् एव त्रिधा बद्ध इति मन्त्रः कल्पो ब्राह्मणम् वृषभो रोरवीत्य् एष ह वै वृषभ एष तद् रोरवीति यद् यज्ञेषु शस्त्राणि शंसत्य् ऋग्भिर् यजुर्भिः सामभिर् ब्रह्मभिर् इति महो देवो मर्त्यां आविवेशेत्य् एष ह वै महान् देवो यद् यज्ञः एष मर्त्यां आविवेश यो विद्यात् सप्त प्रवत इति प्राणान् आह सप्त विद्यात् परावत इत्य् अपानान् आह शिरो यज्ञस्य यो विद्याद् इत्य् एतद् वै यज्ञस्य शिरो यन् मन्त्रवान् ब्रह्मौदनः यो ह वा एतम् अमन्त्रवन्तं ब्रह्मौदनम् उपेयाद् अपशिरसा ह वा अस्य यज्ञम् उपेतो भवति तस्मान् मन्त्रवन्तम् एव ब्रह्मौदनम् उपेयान् नामन्त्रवन्तम् इति ब्राह्मणम् ॥ १६ ॥ [एद्. ब्राह्मनम्]

1.2.17 किम् उपज्ञ आत्रेयो भवतीति आदित्यं हि तमो जग्राह तद् अत्रिर् अपनुनोद तद् अत्रिर् अन्वपश्यत् तद् अप्य् एतद् ऋचोक्तं <स्रुताद् यम् अत्रिर् दिवम् उन्निनाय [शौ.अ. १३.२.४च्, पै.सं. १८.२०.८च्]> <दिवि त्वात्रिर् अधारयत् सूर्या मासाय कर्तवे [शौ.अ. १३.२.१२अब्, पै.सं. १८.२१.६अब्]>इति तं होवाच वरं वृणीष्वेति स होवाच दक्षिणीया मे प्रजा स्याद् इति तस्माद् आत्रेयाय प्रथमं दक्षिणा यज्ञे दीयन्त इति ब्राह्मणम् ॥ १७ ॥

1.2.18 प्रजापतिर् वेदान् उवाचाग्नीन् आदधीयेति तान् वाग् अभ्युवाचाश्वो वै सम्भाराणाम् इति तं घोरात् क्रूरात् सलिलात् सरस उदानिन्युस् तान् वाग् अभ्युवाचाश्वः शम्येतेति तथेति तम् ऋग्वेद एत्योवाचाहम् अश्वं शमेयम् इति तस्मा अभिसृप्ताय महद् भयं ससृजे स एतां प्राचीं दिशं भेजे स होवाचाशान्तो न्व् अयम् अश्व इति तं यजुर्वेद एत्योवाचाहम् अश्वं शमेयम् इति तस्मा अभिसृप्ताय महद् भयं ससृजे स एतां प्रतीचीं दिशं भेजे स होवाचाशान्तो न्व् अयम् अश्व इति तं सामवेद एत्योवाचाहम् अश्वं शमेयम् इति केन नु त्वं शमयिष्यसीति रथन्तरं नाम मे सामाघोरं चाक्रूरं च तेनाश्व अभिष्टूयेतेति तस्मा अप्य् अभिसृप्ताय तद् एव महद् भयं ससृजे स एताम् उदीचीं दिशं भेजे स होवाचाशान्तो न्व् अयम् अश्व इति तान् वाग् अभ्युवाच शंयुमाथर्वणं गच्छतेति ते शंयुमाथर्वणम् आसीनं प्राप्योचुर् नमस् ते अस्तु भगवन्न् अश्वः शम्येतेति तथेति स खलु कबन्धस्याथर्वणस्य पुत्रम् आमन्त्रयाम् आस विचारिन्न् इति भगो इति हास्मै प्रतिश्रुतं प्रतिश्रुश्राव अश्व शम्येतेति तथेति स खलु शान्त्युदकं चकाराथर्वणीभिश् चाङ्गिरसीभिश् च चातनैर् मातृनामभिर् वास्तोष्पत्यैर् इति शमयति तस्य ह स्नातस्याश्वस्याभ्युक्षितस्य सर्वेभ्यो रोमसमरेभ्यो ऽङ्गारा आशीर्यन्त सो ऽश्वस् तुष्टो नमस्कारं चकार नमः शंयुमाथर्वणाय यो मा यज्ञियम् अचीकॢपद् इति भविष्यन्ति ह वा अतो ऽन्ये ब्राह्मणा लघुसम्भारतमास् ग्त आदित्यस्य पद आधास्यन्त्य् अनडुहो वत्सस्याजस्य श्रवणस्य ब्रह्मचारिणो वा एतद् वा आदित्यस्य पदं यद् भूमिस् तस्यैव पद आहितं भविष्यतीति सो ऽग्नौ प्रणीयमाणे ऽश्वे ऽन्वारब्धं ब्रह्मा यजमानं वाचयति <यद् अक्रन्दः प्रथमं जायमानः [ऋ. १.१६३.१]>इति पञ्च तं ब्राह्मणा उपवहन्ति तं ब्रह्मोपाकुरुत एष ह वै विद्वान्त् सर्वविद् ब्रह्मा यद् भृङ्गिरोविद् इति ब्राह्मणम् ॥ १८ ॥

1.2.19 देवाश् च ह वा असुराश् चास्पर्धन्त ते देवा इन्द्रम् अब्रुवन्न् इमं नस् तावद् यज्ञं गोपाय यावद् असुरैः संयतामहा इति स वै नस् तेन रूपेण गोपाय येन नो रूपेण भूयिष्ठं छादयसि येन शक्ष्यसि गोप्तुम् इति स ऋग्वेदो भूत्वा पुरस्तात् परीत्योपातिष्ठत् तं देवा अब्रुवन्न् अन्यत् तद् रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुम् इति स यजुर्वेदो भूत्वा पश्चात् परीत्योपातिष्ठत् तं देवा अब्रुवन्न् अन्यत् तद् रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुम् इति स समावेदो भूत्वोत्तरतः परीत्योपातिष्ठत् तं देवा अब्रुवन्न् अन्यद् एव तद् रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुम् इति स इन्द्र उष्णीषी ब्रह्मवेदो भूत्वा दक्षिणतः परीत्योपातिष्ठत् तं देवा अब्रुवन्न् एतत् तद् रूपं कुरुष्वैतेन नो रूपेण भूयिष्ठं छादयस्य् एतेन शक्ष्यसि गोप्तुम् इति तद् यद् इन्द्र उष्णीषी ब्रह्मवेदो भूत्वा दक्षिणतः परीत्योपातिष्ठत् तद् ब्रह्माभवत् तद् ब्रह्मणो ब्रह्मत्वम् तद् वा एतद् अथर्वणो रूपं यद् उष्णीषी ब्रह्मा तं दक्षिणतो विश्वे देवा उपासीदन् तं यद् दक्षिणतो विश्वे देवा उपासीदंस् तत् सदस्यो ऽभवत् तत् सदस्यस्य सदस्यत्वम् बलेर् ह वा एतद् बलम् उपजायते यत् सदस्ये आमयतो वै व्रजस्य बहुलतरं व्रजं विदन्ति घोरा वा एषा दिग् दक्षिणा शान्ता इतरास् तद् यानि स्तुतानि ब्रह्मानुमन्त्रयते मनसैव तानि सदस्यो जनद् इत्य् एतां व्याहृतिं जपति आत्मानं जनयति नजित्यात्मानम् अपित्वे दधाति तं देवा अब्रुवन् वरं वृणीष्वेति वृणा इति स वरम् अवृणीत अस्याम् एव मां होत्रायाम् इन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तस् तिष्ठेयुर् इति [एद्. तिस्थेयुर्, चोर्र्. ড়त्यल्] तं तस्याम् एव होत्रायाम् इन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठन् ब्तं यत् तस्याम् एव होत्रायाम् इन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठंस् तद् ब्राह्मणाच्छंस्य् अभवत् तद् ब्राह्मणाच्छंसिनो ब्राह्मणाच्छंसित्वम् सैषैन्द्री होत्रा यद् ब्राह्मणाच्छंसीया द्वितीयं वरं वृणीष्वेति वृणा इति स वरम् अवृणीत अस्याम् एव मां होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तस् तिस्थेयुर् इति [एद्. तिस्थेयुर्] तं तस्याम् एव होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठन् तं यत् तस्याम् एव होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठंस् तत् पोताभवत् तत् पोतुः पोतृत्वम् सैषा वायव्या होत्रा यत् पोत्रीया तृतीयं वरं वृणीष्वेति वृणा इति स वरम् अवृणीत अस्याम् एव मां होत्रायाम् अग्निभूतम् इन्धानाः पुनन्त स्तुवन्त शंसन्तस् तिष्ठेयुर् इति [एद्. तिस्थेयुर्] तं तस्याम् एव होत्रायाम् अग्निभूतम् इन्धानाः पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठन् [एद्. ऽतिस्थंस्, चोर्र्. ড়त्यल्] तं यत् तस्याम् एव होत्रायाम् अग्निभूतम् इन्धानाः पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठंस् तद् आग्नीध्रो ऽभवत् [एद्. ऽतिस्थंस्] स्तद् आग्नीध्रस्याग्नीध्रत्वम् त्सैषाग्नेयी होत्रा यद् आग्नीध्रीयेति ब्राह्मणम् ॥ १९ ॥

1.2.20 ब्राह्मणो ह वा इमम् अग्निं वैश्वानरं बभार सो ऽयम् अग्निर् वैश्वानरो ब्राह्मणेन भ्रियमाण इमांल् लोकाञ् जनयते अथायम् ईक्षते ऽग्निर् जातवेदा ब्राह्मणद्वितीयो ह वा अयम् इदम् अग्निर् वैश्वानरो ज्वलति हन्ताहं यन् मयि तेज इद्रियं वीर्यं तद् दर्शयाम्य् उत वै मा बिभृयाद् इति स आत्मानम् आप्याय्यैतं पयो ऽधोक् तम् इमं ब्राह्मणं दर्शयित्वात्मन्य् अजुहोत् स द्वितीयम् आत्मानम् आप्याय्यैतं घृतम् अधोक् तम् इमं ब्राह्मणं दर्शयित्वात्मन्य् अजुहोत् स तृतीयम् आत्मानम् आप्याय्यैतद् इदं विश्वं विकृतम् अन्नाद्यम् अधोक् तम् इमं ब्राह्मणं दर्शयित्वात्मन्य् अजुहोत् स चतुर्थम् आत्मानम् आप्याय्यैतेन ब्राह्मणस्य जायां विराजम् अपश्यत् ताम् अस्मै प्रायच्छत् सात्मा अपित्वम् अभवत् तत इमम् अग्निं वैश्वानरं परास्युर् ब्राह्मणो ऽग्निं जातवेदसम् अधत्त सो ऽयम् अब्रवीद् अग्ने जातवेदो ऽभिनिधेहि मेहीति तस्य द्वैतं नामाधत्ताघोरं चाक्रूरं च सो ऽश्वो भवत् तस्माद् अश्वो वहेन रथं न भवति पृस्थेन सादिनम् स देवान् आगच्छत् स देवेभ्यो ऽन्वातिष्ठत् तस्माद् देवा अबिभयुस् तं ब्रह्मणे प्रायच्छत् तम् एतयर्चाशमयत् ॥ २० ॥

1.2.21 <अग्निं त्वाहुर् वैश्वानरं सदनान् प्रदहन्व् अगाः । स नो देवत्राधि ब्रूहि मा रिषामा वयं तव [पै.सं. १.९५.३, सकल अल्सो अत् वै.श्रौ. ६.७]>इति तम् एताभिः पञ्चभिर् ऋग्भिर् उपाकुरुते <यद् अक्रन्दः प्रथमं जायमानः [ऋ. १.१६३.१]>इति [एद्. प्रतमं, चोर्रेच्तेद् प्. ३०२] सो ऽशाम्यत् तस्माद् अश्वः पशूनां जिघत्सुतमो भवति वैश्वानरो ह्य् एष तस्माद् अग्निपदम् अश्वं ब्रह्मणे ददाति ब्रह्मणे हि प्रत्तम् तस्य रसम् अपीडयत् स रसो ऽभवत् रसो ह वा एष तं वा एतं रसं सन्तं रथ इत्य् आचक्षते परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः स देवान् आगच्छत् स देवेभ्यो ऽन्वातिष्ठत् तस्माद् देवा अबिभयुस् तं ब्रह्मणे प्रायच्छत् तम् एतयर्चाज्याहुत्याभ्यजुहोत् <इन्द्रस्यौजो मरुताम् अनीकम् [शौ.अ. ६.१२५.३, च्f. पै.सं. १५.११.७]> इति रथम् अभिहुत्य तम् एतयर्चातिष्ठद् <वनस्पते वीड्वङ्गो हि भूयाः [शौ.अ. ६.१२५.१, पै.सं. १५.११.८]> इति तस्माद् आग्न्याधेयिकं रथं ब्रह्मणे ददाति ब्रह्मणे हि प्रत्तम् तस्य तक्षाणस् तनूं ज्येष्ठां दक्षिणां निरमिमत तां पञ्चस्व् अपश्यद् ऋचि यजुषि साम्नि शान्ते ऽथ घोरे तासां द्वे ब्रह्मणे प्रायच्छद् वाचं च ज्योतिश् च वाग् वै धेनुर् ज्योतिर् हिरण्यम् तस्माद् आग्न्याधेयिकां चातुःप्राश्यां धेनुं ब्रह्मणे ददाति ब्रह्मणे हि प्रत्ता पशुषु शाम्यमानेषु चक्षुर् हापयन्ति चक्षुर् एव तद् आत्मनि धत्ते यद् वै चक्षुस् तद् धिरण्यम् तस्माद् आग्न्याधेयिकं हिरण्यं ब्रह्मणे ददाति ब्रह्मणे हि प्रत्तं तस्यात्मन्न् अधत्त तेन प्राज्वलयत् यन् नाधत्त तद् आग्लाभवत् तद् आग्ला भूत्वा सा समुद्रं प्राविशत् [च्f. पै.सं. १७.२८.१ fओर् थिस् अन्द् थे fओल्लोwइन्ग् सेन्तेन्चेस्] सा समुद्रम् अदहत् तस्मात् समुद्रो दुर्गिरवपि वैश्वानरेण हि दग्धः सा पृथिवीम् उदैत् सा पृथिवीं व्यदहत् सा देवान् आगच्छत् सा देवान् अहेडत् ते देवा ब्रह्माणम् उपाधावन् स नैवागायन् नानृत्यत् सैषाग्ला एषा कारुविदा नम तं वा एतम् आग्लाहतं सन्तम् आग्लागृध इत्य् आचक्षते परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषाः [एद्. -द्विषो] य एष ब्राह्मणो गायनो नर्तनो वा भवति तम् आग्लागृध इत्य् आचक्षते तस्माद् ब्राह्मणो नैव गायेन् न नृत्येन् माग्लागृधः स्यात् तस्माद् ब्राह्म्यं पूर्वं हविर् अपरं प्राजापत्यं प्राजापत्याद् ब्राह्म्यम् एवोत्तरम् इति ब्राह्मणम् ॥ २१ ॥

1.2.22 अथर्वाणश् च ह वा अङ्गिरसश् च भृगुचक्षुषी तद् ब्रह्माभिव्यपश्यन् तदजानन्वयं वा इदं सर्वं यद् भृग्वङ्गिरस इति ते देवा ब्राह्म्यं हविर् यत् सांतपने ऽग्नाव् अजुहवुः एतद् वै ब्राह्म्यं हविर् यत् सांतपने ऽग्नौ हूयत एष ह वै सांतपनो ऽग्निर् यद् ब्राह्मणस् तस्योर्जयोर्जां देवा अभजन्त सुमनस एव स्वधां पितरः श्रद्धया स्वर्गं लोकं ब्राह्मणास् तेन सुन्वन्त्य् ऋषयो ऽन्तत स्त्रियः केवल आत्मन्य् अवारुन्धत बाह्या उभयेन सुन्वन्ति यद् वै यज्ञे ब्राह्म्यं हविर् न निरुप्येतानृजवः प्राजापत्यहविषो मनुष्या जायेरन् असौ यांल् लोकाञ् छृण्व् इति पिता ह्य् एष आहवनीयस्य गार्हपत्यस्य दक्षिणाग्नेर् यो ऽग्निहोत्रं जुहोतीति [एद्. याल्लोकाञ्, आहवणीयस्य] देवाः प्रिये धामनि मदन्ति तेषाम् एषो ऽग्निः सांतपनः श्रेष्ठो भवति एतस्य वाचि तृप्तायाम् अग्निस् तृप्यति प्राणे तृप्ते वायुस् तृप्यति चक्षुषि तृप्त आदित्यस् तृप्यति मनसि तृप्ते चन्द्रमास् तृप्यति श्रोत्रे तृप्ते दिशश् चान्तर्देशाश् च तृप्यन्ति स्नेहेषु तृप्तेष्व् आपस् तृप्यन्ति लोमेषु तृप्तेष्व् ओषधिवनस्पतयस् तृप्यन्ति शरीरे तृप्ते पृथिवी तृप्तति एवम् एषो ऽग्निः सांतपनः श्रेष्ठस् तृप्तः सर्वांस् तृप्तांस् तर्पयतीति ब्राह्मणम् ॥ २२ ॥

1.2.23 सांतपना इदं हविर् इति एष ह वै सांतपनो ऽग्निर् यद् ब्राह्मणो यस्य गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणनिष्क्रमणान्नप्राशनगोदानचूडाकरणोपनयनाप्लवनाग्निहोत्रव्रतचर्यादीनि कृतानि भवन्ति स सांतपनः अथ यो ऽयमनग्निकः स कुम्भे लोष्टस् तद् यथा कुम्भे लोष्टः प्रक्षिप्तो नैव शौचार्थाय कल्पते नैव शस्यं निर्वर्तयत्य् एवम् एवायं ब्राह्मणो ऽनग्निकस् तस्य ब्राह्मणस्यानग्निकस्य नैव दैवं दद्यान् न पित्र्यं न चास्य स्वाध्यायाशिषो न यज्ञाशिषः स्वर्गंगमा भवन्ति तद् अप्य् एतद् ऋचोक्तम् <अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् [शौ.अ. २०.१०१.१, ऋ. १.१२.१]> इति ब्राह्मणम् ॥ २३ ॥

1.2.24 अथ ह प्रजापतिः सोमेन यक्ष्यमाणो वेदान् उवाच कं वो होतारं वृणीय कम् अध्वर्युं कम् उद्गातारं कं ब्राह्मणम् इति त ऊचुर् ऋग्विदम् एव होतारं वृणीष्.व यजुर्विदम् अध्वर्युं सामविदम् उद्गातारम् अथर्वाङ्गिरोविदं ब्राह्मणम् तथा हास्य यज्ञश् चतुर्षु लोकेषु चतुर्षु देवेषु चतुर्षु वेदेषु चतसृषु होत्रासु चतुष्पाद् यज्ञः प्रतितिष्ठति प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद तस्माद् ऋग्विदम् एव होतारं वृणीष्व स हि हौत्रं वेद अग्निर् वै होता पृथिवी वा ऋचाम् आयतनम् अग्निर् देवता गायत्रं छन्दो भूर् इति शुक्रम् तस्मात् तम् एव होतारं वृणीष्वेत्य् एतस्य लोकस्य जितये एतस्य लोकस्य विजितये एतस्य लोकस्य संजितये एतस्य लोकस्यावरुद्धये एतस्य लोकस्य विवृद्धये एतस्य लोकस्य समृद्धये एतस्य लोकस्योदात्तये एतस्य लोकस्य व्याप्तये एतस्य लोकस्य पर्याप्तये एतस्य लोकस्य समाप्तये अथ चेन् नैवंविदं होतारं वृणुते पुरस्ताद् एवैषां यज्ञो रिच्यते यजुर्विदम् एवाध्वर्युं वृणीष्व स ह्य् आध्वर्यवं वेद वायुर् वा अध्वर्युः अन्तरिक्षं वै यजुषाम् आयतनम् वायुर् देवता त्रैष्टुभं छन्दो भुव इति शुक्रम् तस्मात् तम् एवाध्वर्युं वृणीष्वेत्य् एतस्य लोकस्येत्य् एव अथ चेन् नैवंविदम् अध्वर्युं वृणुते पश्चाद् एवैषां यज्ञो रिच्यते सामविदम् एवोद्गातारं वृणीष्व स ह्य् औद्गात्रं वेद आदित्यो वा उद्गाता द्यौर् वै साम्नाम् आयतनम् आदित्यो देवता जागतं छन्दः स्वर् इति शुक्रम् तस्मात् तम् एवोद्गातारं वृणीष्वेत्य् एतस्य लोकस्येत्य् एव अथ चेन् नैवंविदम् उद्गातारं वृणुत उत्तरत एवैषां यज्ञो रिच्यते अथर्वाङ्गिरोविदम् एव ब्रह्माणं वृणीष्व स हि ब्रह्मत्वं वेद चन्द्रमा वै ब्रह्मा [एद्. ब्रहापो] आपो वै भृगवङ्गिरसाम् आयतनम् चन्द्रमा देवता वैद्युतश् चोष्णिक्काकुभे छन्दसी ओम् इत्य् अथर्वणां शुक्रं जनद् इत्य् अङ्गिरसाम् तस्मात् तम् एव ब्रह्माणं वृणीष्वेत्य् एतस्य लोकस्य जितये एतस्य लोकस्य विजितये एतस्य लोकस्य संजितये एतस्य लोकस्यावरुद्धये एतस्य लोकस्य विवृद्धये एतस्य लोकस्य समृद्धये तस्य लोकस्योदात्तये एतस्य लोकस्य व्याप्तये एतस्य लोकस्य पर्याप्तये एतस्य लोकस्य समाप्तये अथ चेन् नैवंविदं ब्रह्माणं वृणुते दक्षिणत एवैषां यज्ञो रिच्यते दक्षिणत एवैषां यज्ञो रिच्यते ॥ २४ ॥

 अथर्ववेदे गोपथब्राह्मणपूर्वभागे द्वितीयः प्रपाठकः ॥
1.2.1
ओं <ब्रह्मचारीष्णंश् चरति रोदसी उभे [शौ.अ. ११.३.१अ, पै.सं. १६.१५३.१अ]> इत्य् आचार्यम् आह
<तस्मिन् देवाः संमनसो भवन्ति [शौ.अ. ११.३.१, पै.सं. १६.१५३.१ब् (?)]>इति वायुम् आह
<स सद्य एति पूर्वस्माद् उत्तरं समुद्रम् [शौ.अ. ११.३.६, पै.सं. १६.१५३.६]> इत्य् आदित्यम् आह
दीक्षितो दीर्घश्मश्रुः
एष दीक्षित एष दीर्घश्मश्रुर् एष एवाचार्यस्थाने तिष्ठन्न् आचार्य इति स्तूयते
वैद्युतस्थाने तिष्ठन् वायुर् इति स्तूयते द्यौस्थाने तिष्ठन्न् आदित्य इति स्तूयते
तद् अप्य् एतद् ऋचोक्तं <ब्रह्मचारीष्णन् [शौ.अ. ११.३.१, पै.सं. १६.१५३.१]>इति ब्राह्मणम् ॥ १ ॥
1.2.2
जायमानो ह वै ब्राह्मणः सप्तेन्द्रियाण्य् अभिजायते ब्रह्मवर्चसं च यशश् च स्वप्नं च क्रोधं च श्लाघां च रूपं च पुण्यम् एव गन्धं सप्तमम्
तानि ह वा अस्यैतानि ब्रह्मचर्यम् उपेत्योपक्रामन्ति
मृगान् अस्य ब्रह्मवर्चसं गच्छति
आचार्यं यशः
अजगरं स्वप्नः
वराहं क्रोधः
अपः श्लाघा
कुमारीं रूपम्
ओषधिवनस्पतीन् पुण्यो गन्धः
स यन् मृगाजिनानि वस्ते तेन तद् ब्रह्मवर्चसम् अवरुन्द्धे यद् अस्य मृगेषु भवति
स ह स्नातो ब्रह्मवर्चसी भवति
स यद् अहरहर् आचार्याय कर्म करोति तेन तद् यशो ऽवरुन्द्धे यद् अस्याचार्ये भवति
स ह स्नातो यशस्वी भवति
स यत् सुषुप्सुर् निद्रां निनयति तेन तं स्वप्नम् अवरुन्द्धे यो ऽस्याजगरे भवति
तं ह स्नातं स्वपन्तम् आहुः स्वपितु मैनं बोबुधथेति
स यत् क्रुद्धो वाचा न कं चन हिनस्ति पुरुषात्पुरुषात् पापीयान् इव मन्यमानस् तेन तं क्रोधम् अवरुन्द्धे यो ऽस्य वराहे भवति
तस्य ह स्नातस्य क्रोधाः श्लाघीयसं विशन्ते
अथाद्भिः श्लाघमानो न स्नायात्
तेन तां श्लाघाम् अवरुन्द्धे यास्याप्सु भवति
स ह स्नातः श्लाघीयो ऽन्येभ्यः श्लाघ्यते
अथैतद् ब्रह्मचारिणो रूपं यत् कुमार्यास्
तां नग्नां नोदीक्षेत
इति वेति वा मुखं विपरिधापयेत्
तेन तद् रूपम् अवरुन्द्धे यद् अस्य कुमार्यां भवति
तं ह स्नातं कुमारीम् इव निरीक्षन्ते
अथैतद् ब्रह्मचारिणः पुण्यो गन्धो य ओषधिवनस्पतीनां तासां पुण्यं गन्धं प्रच्छिद्य नोपजिघ्रेत्
तेन तं पुण्यं गन्धम् अवरुन्द्धे यो ऽस्यौषधिवनस्वपतिषु भवति
स ह स्नातः पुण्यगन्धिर् भवति ॥ २ ॥
1.2.3
स वा एष उपयंश् चतुर्धोपैत्य् अग्निं पादेनाचार्यं पादेन ग्रामं पादेन मृत्युं पादेन
स यद् अहरहः समिध आहृत्य सायंप्रातर् अग्निं परिचरेत् तेन तं पादम् अवरुन्द्धे यो ऽस्याग्नौ भवति
स यद् अहरहर् आचार्याय कर्म करोति तेन तं पादम् अवरुन्द्धे यो ऽस्याचार्ये भवति
स यद् अहरहर् ग्रामं प्रविश्य भिक्षाम् एव परीप्सति न मैथुनं तेन तं पादम् अवरुन्द्धे यो ऽस्य ग्रामे भवति
स यत् क्रुद्धो वाचा न कं चन हिनस्ति पुरुषात्पुरुषात् पापीयान् इव मन्यमानस् तेन तं पादम् अवरुन्द्धे यो ऽस्य मृत्यौ भवति ॥ ३ ॥
1.2.4
पञ्च ह वा एते ब्रह्मचारिण्य् अग्नयो धीयन्ते
द्वौ पृथग्घस्तयोर् मुखे हृदय उपस्थ एव पञ्चमः
स यद् दक्षिणेन पाणिना स्त्रियं न स्पृशति तेनाहरहर्याजिनां लोकम् अवरुन्द्धे
यत् सव्येन तेन प्रव्राजिनाम्
यन् मुखेन तेनाग्निप्रस्कन्दिनाम्
यद् धृदयेन तेन शूराणाम्
यद् उपस्थेन तेन गृहमेधिनाम्
तैश् चेत् स्त्रियं पराहरत्य् अनग्निर् इव शिष्यते
स यद् अहरहर् आचार्याय कुले ऽनुतिष्ठते सो ऽनुष्ठाय ब्रूयाद् धर्म गुप्तो मा गोपायेति
धर्मो हैनं गुप्तो गोपायति
तस्य ह प्रजा श्वः श्वः श्रेयसी श्रेयसीह भवति
धाय्यैव प्रतिधीयते
स्वर्गे लोके पितॄन् निदधाति
तान्तवं न वसीत
यस् तान्तवं वस्ते क्षत्रं वर्धते न ब्रह्म
तस्मात् तान्तवं न वसीत ब्रह्म वर्धतां मा क्षत्रम् इति
नोपर्य् आसीत
यद् उपर्य् आस्ते प्राणम् एव तदात्मनो ऽधरं कुरुते यद् वातो वहति
अध एवासीताधः शयीताधस् तिष्ठेद् अधो व्रजेत्
एवं ह स्म वै तत् पूर्वे ब्राह्मणा ब्रह्मचर्यं चरन्ति
तं ह स्म तत्पुत्रं भ्रातरं वोपतापिनम् आहुर् उपनयेतैनम् इति
आ समिद्धारात् स्वर् एष्यन्तो ऽन्नम् अद्यात्
अथाह जघनम् आहुः स्नापयेतैनम् इतिय् आ समिद्धारात्
न ह्य् एतानि व्रतानि भवन्ति
तं चेच् छयानम् आचार्यो ऽभिवदेत् स प्रतिसंहाय प्रतिशृणुयात्
तं चेच् छयानम् उत्थाय तं चेद् उत्थितम् अभिप्रक्रम्य तं चेद् अभिप्रक्रान्तम् अभिपलायमानम्
एवं ह स्म वै तत् पूर्वे ब्राह्मणा ब्रह्मचर्यं चरन्ति
तेषां ह स्म वैषा पुण्या कीर्तिर् गच्छत्य् आ ह वा अयं सो ऽद्य गमिष्यतीति ॥ ४ ॥
1.2.5
जनमेजयो ह वै पारीक्षितो मृगयां चरिष्यन् हंसाभ्याम् असिष्यन्न् उपावतस्थ इति
ताव् ऊचतुर् जनमेजयं पारीक्षितम् अभ्याजगाम
स होवाच
नमो वां भगवन्तौ कौ नु भगवन्ताव् इति
ताव् ऊचतुर् दक्षिणाग्निश् चाहवनीयश् चेति
स होवाच नमो वां भगवन्तौ तद् आकीयताम् इति
इहोपारामम् इति
अपि किल देवा न रमन्ते न हि देवा न रमन्तए
अपि चैकोपारामाद् देवा आरामम् उपसंक्रामन्तीति
स होवाच नमो वां भगवन्तौ किं पुण्यम् इति
ब्रह्मचर्यम् इति
किं लौक्यम् इति
ब्रह्मचर्यम् एवेति
तत् को वेद इति
दन्तावलो धौम्रः
अथ खलु दन्तावलो धौम्रो यावति तावति काले पारीक्षितं जनमेजयम् अभ्याजगाम
तस्मा उत्थाय स्वयम् एव विष्टरं निदधौ
तम् उपसंगृह्य पप्रच्छाधीहि भो किं पुण्यम् इति
ब्रह्मचर्यम् इति
किं लौक्यम् इति
ब्रह्मचर्यम् एवेति
तस्मा एतत् प्रोवाचाष्टाचत्वारिंशद् वर्षं सर्ववेदब्रह्मचर्यम्
तच् चतुर्धा वेदेषु व्युह्य द्वादशवर्षं ब्रह्मचर्यं द्वादशवर्षाण्य् अवरार्धम्
अपि स्नायंश् चरेद् यथाशक्त्य् अपरम्
तस्मा उहस्यृषभौ सहस्रं ददौ
अप्य् अपकीर्तितम् आचार्यो ब्रह्मचारीत्य् एक आहुर् आकाशम् अधिदैवतम्
अथाध्यात्मं ब्राह्मणो व्रतवांश् चरणवान् ब्रह्मचारी ॥ ५ ॥
1.2.6
ब्रह्म ह वै प्रजा मृत्यवे संप्रायच्छत्
ब्रह्मचारिणम् एव न संप्रददौ
स होवाचाश्याम् अस्मिन्न् इति
किम् इति
यां रात्रीं समिधम् अनाहृत्य वसेत् ताम् आयुषो ऽवरुन्धीयेति
तस्माद् ब्रह्मचार्य् अहरहः समिध आहृत्य सायंप्रातर् अग्निं परिचरेत्
नोपर्य् उपसादयेद् अथ प्रतिष्ठापयेत्
यद् उपर्य् उपसादयेज् जीमूतवर्षी तद् अहः पर्जन्यो भवति
ते देवा अब्रुवन् ब्राह्मणो वा अयं ब्रह्मचर्यं चरिष्यति
ब्रूतास्मै भिक्षा इति गृहपतिर् ब्रूत बहुचारी गृहपत्न्या इति
किम् अस्या वृञ्जीताददत्या इति
इष्टापूर्तसुकृतद्रविणम् अवरुन्ध्याद् इति
तस्माद् ब्रह्मचारिणे ऽहरहर् भिक्षां दद्याद् गृहिणी मा मायम् इष्टापूर्तसुकृतद्रविणम् अवरुन्ध्याद् इति
सप्तमीं नातिनयेत् सप्तमीम् अतिनयन् न ब्रह्मचारी भवति
समिद्भैक्षे सप्तरात्रम् अचरितवान् ब्रह्मचारी पुनरुपनेयो भवति ॥ ६ ॥
1.2.7
नोपरिशायी स्यान् न गायनो न नर्तनो न सरणो न निष्ठीवेत्
यद् उपरिशायी भवत्य् अभीक्ष्णं निवासा जायन्ते
यद् गायनो भवत्य् अभीक्ष्णश आक्रन्दान् धावन्ते
यन् नर्तनो भवत्य् अभीक्ष्णशः प्रेतान् निर्हरन्ते
यत् सरणो भवत्य् अभीक्ष्णशः प्रजाः संविशन्ते
यन् निष्ठीवति मध्य एव तदात्मनो निष्ठीवति
स चेन् निष्ठीवेद् <दिवो नु माम् [शौ.अ. ६.१२४.१, पै.सं. १९.४०.४, वै.श्रौ. १२.७]> <यद् अत्रापि मधोर् अहं [पै.सं. २०.३८.६, वै.श्रौ. १२.८]> <यद् अत्रापि रसस्य मे [पै.सं. २०.२७.८, वै.श्रौ. १२.९]>इत्य् आत्मानम् अनुमन्त्रयते
<यद् अत्रापि मधोर् अहं निरष्ठविषम् अस्मृतम् अग्निश् च तत् सविता च पुनर् मे जठरे धत्तां [पै.सं. २०.३८.६, वै.श्रौ. १२.८]> ॥ <यद् अत्रापि रसस्य मे परापपातास्मृतं तद् इहोपह्वयामहे तन् म आप्यायतां पुनः [पै.सं. २०.२७.८]>इति
न श्मशानम् आतिष्ठेत्
स चेद् अभितिष्ठेद् उदकं हस्ते कृत्वा <यदीद् अमृतुकाम्येत्य् [पै.सं. २०.५४.९]> अभिमन्त्र्य जपन्त् सम्प्रोक्ष्य परिक्रामेत्
समयायोपरिव्रजेद्
<यदीद् अमृतुकाम्याघं रिप्रम् उपेयिम । अन्धः श्लोण इव हीयतां मा नो ऽन्वागाद् अघं यतः [पै.सं. २०.५४.९]>इति
अथ हैतद् देवानां परिषूतं यद् ब्रह्मचारी
तद् अप्य् एतद् ऋचोक्तं देवानाम् एतत् परिषूतम् अनभ्यारूढं चरति रोचमानं तस्मिन् सर्वे पशवस् तत्र यज्ञास् तस्मिन्न् अन्नं सह देवताभिर् इति ब्राह्मणम् ॥ ७ ॥
1.2.8
प्राणापानौ जनयन्न् इति शङ्खस्य मुखे महर्षेर् वसिष्ठस्य पुत्र एतां वाचं ससृजे शीतोष्णाव् इहोत्सौ प्रादुर् भवेयाताम् इति
तथा तच् छश्वद् अनुवर्तते
अथ खलु विपाण् मध्ये वसिष्ठशिला नाम प्रथम आश्रमः
द्वितीयः कृष्णशिलास्
तस्मिन् वसिष्ठः समतपत्
विश्वामित्रजमदग्नी जामदग्ने तपतः
गौतमभरद्वाजौ सिंहौ प्रभवे तपतः
गुंगुर् गुंगुवासे तपति
ऋषिर् ऋषिद्रोणे ऽभ्यतपत्
अगस्त्यो ऽगस्त्यतीर्थे तपति
दिव्य् अत्रिर् ह तपति
स्वयम्भूः कश्यपः कश्यपतुङ्गे ऽभ्यतपत्
उलवृकर्क्षुतरक्षुः
श्वा वराहचिल्वटिबब्रुकाः सर्पदंष्ट्रनः संहनुकृण्वानाः कश्यपतुङ्गदर्शनात् सरणवाटात् सिद्धिर् भवति
ब्राह्म्यं वर्षसहस्रम् ऋषिवने ब्रह्मचार्येकपादेनातिष्ठति
द्वितीयं वर्षसहस्रं मूर्धन्य् एवामृतस्य धाराम् आधारयत्
ब्राह्माण्यष्टाचत्वारिंशद् वर्षसहस्राणि सलिलस्य पृष्ठे शिवो ऽभ्यतपत्
तस्मात् तप्तात् तपसो भूय एवाभ्यतपत्
तद् अप्य् एता ऋचो ऽभिवदन्ति प्राणापानौ जनयन्न् इति ब्राह्मणम् ॥ ८ ॥
1.2.9
एकपाद् द्विपद इति
वायुर् एकपात्
तस्याकाशं पादः
चन्द्रमा द्विपात्
तस्य पूर्वपक्षापरपक्षौ पादौ
आदित्यस् त्रिपात्
तस्येमे लोकाः पादाः
अग्निः षट्पादस्
तस्य पृथिव्य् अन्तरिक्षं द्यौर् आप ओषधिवनस्पतय इमानि भूतानि पादास्
तेषां सर्वेषां वेदा गतिर् आत्मा प्रतिष्ठिताश् चतस्रो ब्रह्मणः शाखाः
अथो आहुः षड् इति मूर्तिर् आकाशश् चेति [एद्. अहुः]
ऋचा मूर्तिः
याजुषी गतिः
साममयं तेजः
भृग्वङ्गिरसा माया
एतद् ब्रह्मैव यज्ञश् चतुष्पाद् द्विः संस्थित इति
तस्य भृग्वङ्गिरसः संस्थे
अथो आहुर् एकसंस्थित इति
यद् धोतर्चां मण्डलैः करोति पृथिवीं तेनाप्याययति
एतस्यां ह्य् अग्निश् चरति
तद् अप्य् एतद् ऋचोक्तम् <अग्निवासाः पृथिव्य् असितज्ञूः [शौ.अ. १२.१.२१, पै.सं. १७.३.२]>इति
यद् अध्वर्युर् यजुषा करोत्य् अन्तरिक्षं तेनाप्याययति
तस्मिन् वायुर् न निविशते कतमच् च नाहर् इति
तद् अप्य् एतद् ऋचोक्तम् <अन्तरिक्षे पथिभिर् ह्रीयमाणो न नि विशते कतमच् च नाहः । अपां योनिः प्रथमजा ऋतस्य क्व स्विज् जातः कुत आ बभूव [पै.सं. १.१०७.४]>इति
यद् उद्गाता साम्ना करोति दिवं तेनाप्याययति
तत्र ह्य् आदित्यः शुक्रश् चरति
तद् अप्य् एतद् ऋचोक्तम् <उच्चा पतन्तम् अरुणं सुपर्णम् [शौ.अ. १३.२.३६, पै.सं. १८.२४.३]> इति
यद् ब्रह्मर्चां काण्डैः करोत्य् अपस् तेनाप्याययति
चन्द्रमा ह्य् अप्सु चरति
तद् अप्य् एतद् ऋचोक्तं चन्द्रमा अप्स्व् अन्तर् इति तासाम् ओषधिवनस्पतयः काण्डानि
ततो मूलकाण्डपर्णपुष्पफलप्ररोहरसगन्धैर् यज्ञो वर्तते
अद्भिः कर्णाणि प्रवर्तन्ते
अद्भिः सोमो ऽभिषूयते
तद् यद् ब्रह्माणां कर्णाणि कर्मण्य् आमन्त्रयत्य् अपस् तेनानुजानाति
एषो ह्य् अस्य भागस्
तद् यथा भोक्ष्यमाणः
अप एव प्रथमम् आचामयेद् अप उपरिष्टाद् एवं यज्ञो ऽद्भिर् एव प्रवर्तते
अप्सु संस्थाप्यते तस्माद् ब्रह्मा पुरस्ताद्धोमसंस्थितहोमैर् यज्ञो वर्तते
अन्तरा हि पुरस्ताद्धोमसंस्थितहोमैर् यज्ञं परिगृह्णाति
अन्तरा हि भृग्वङ्गिरसो वेदान् आदुह्य भृग्वङ्गिरसः सोमपानं मन्यन्ते
सोमात्मको ह्य् अयं वेद
तद् अप्य् एतद् ऋचोक्तं सोमं मन्यते पपिवान् इति
तद् यथेमां पृथिवीम् उदीर्णां ज्योतिषा धूमायमानां वर्षं शमयति
एवं ब्रह्मा भृग्वङ्गिरोभिर् व्याहृतिभिर् यज्ञस्य विरिष्टं शमयति
अग्निर् आदित्याय शमयति
एते ऽङ्गिरसः
एत इदं सर्वं समाप्नुवन्ति
वायुर् आपश् चन्द्रमा इत्य् एते भृगवः
एत इदं सर्वं समाप्याययन्ति
एकम् एव संस्थं भवतीति ब्राह्मणम् ॥ ९ ॥
1.2.10
विचारी ह वै काबन्धिः कबन्धस्याथर्वणस्य पुत्रो मेधावी मीमांसको ऽनूचान आस
स ह स्वेनातिमानेन मानुषं वित्तं नेयाय
तं मातोवाच
त एवैतद् अन्नम् अवोचंस् त इम एषु कुरुपञ्चालेष्व् अङ्गमगधेषु काशिकौशलेषु शाल्वमत्स्येषु सवशोशीनरेषूदीच्येष्व् अन्नम् अदन्तीति
अथ वयं तवैवातिमानेनानाद्याः स्मः
वत्स वाहनम् अन्विच्छेति
स मान्धातुर् यौवनाश्वस्य सार्वभौमस्य राज्ञः सोमं प्रसूतम् आजगाम
स सदो ऽनुप्रविश्यर्त्विजश् च यजमानं चामन्त्रयाम् आस
तद् याः प्राच्यो नद्यो वहन्ति याश् च दक्षिणाच्यो याश् च प्रतीच्यो याश् चोदीच्यस् ताः सर्वाः पृथङ्नामधेया इत्य् आचक्षते
तासां समुद्रम् अभिपद्यमानानां छिद्यते नामधेयं समुद्र इत्य् आचक्षते
एवम् इमे सर्वे वेदा निर्मिताः सकल्पाः सरहस्याः सब्राह्मणाः सोपनिषत्काः सेतिहासाः सान्वाख्यानाः सपुराणाः सस्वराः ससंस्काराः सनिरुक्ताः सानुशासनाः सानुमार्जनाः सवाकोवाक्यास्
तेषां यज्ञम् अभिपद्यमानानां छिद्यते नामधेयं यज्ञ इत्य् एवाचक्षते ॥ १० ॥
1.2.11
भूमेर् ह वा एतद् विच्छिन्नं देवयजनं यद् अप्राक्प्रवणं यद् अनुदक्प्रवणं यत्कृत्रिमं यत् समविषमम्
इदं ह त्व् एव देवयजनं यत् समं समूलम् अविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणं समं समास्तीर्णम् इव भवति यत्र ब्राह्मणस्य ब्राह्मणतां विद्याद् ब्रह्मा ब्रह्मत्वं करोतीति
वोचे छन्दस् तन् न विन्दामो येनोत्तरम् एमहीति
तान् ह पप्रच्छ किं विद्वान् होता हौत्रं करोति किं विद्वान् अध्वर्युर् आध्वर्यवं करोति किं विद्वान् उद्गातौद्गात्रं करोति किं विद्वान् ब्रह्मा ब्रह्मत्वं करोतीति
वोचे छन्दस् तन् न विन्दामो येनोत्तरम् एमहीति
ते ब्रूमो वाग् एव होता हौत्रं करोति
वाचो हि स्तोमाश् च वषट्काराश् चाभिसम्पद्यन्ते
ते ब्रूमो वाग् एव होता वाग् ब्रह्म वाग् देव इति
प्राणापानाभ्याम् एवाध्वर्युर् आध्वर्यवं करोति
प्राणप्रणीतानि ह भूतानि प्राणप्रणीताः प्रणीतास्
ते ब्रूमः प्राणापानाव् एवाध्वर्युः प्राणापानौ ब्रह्म प्राणापानौ देव इति
चक्षुषैवोद्गातौद्गात्रं करोति
चक्षुषा हीमानि भूतानि पश्यन्ति
अथो चक्षुर् एवोद्गाता चक्षुर् ब्रह्म चक्षुर् देव इति
मनसैव ब्रह्मा ब्रह्मत्वं करोति
मनसा हि तिर्यक् च दिश ऊर्ध्वं यच् च किं च मनसैव करोति तद् ब्रह्म
ते ब्रूमो मन एव ब्रह्मा मनो ब्रह्म मनो देव इति ॥ ११ ॥
1.2.12
तद् यथा ह वा इदं यजमानश् च याजयितारश् च दिवं ब्रूयुः पृथिवीति पृथिवीं वा द्यौर् इति ब्रूयुस् तद् अन्यो नानुजानात्य् एताम् एवं नानुजानाति यद् एतद् ब्रूयात्
अथ नु कथम् इति
होतेत्य् एव होतारं ब्रूयाद् वाग् इति वाचं ब्रह्मेति ब्रह्म देव इति देवम् अध्वर्युर् इत्य् एवाध्वर्युं ब्रूयात् प्राणापानाव् इति प्राणापानौ ब्रह्मेति ब्रह्म देव इति देवम् उद्गातेत्य् एवोद्गातारं ब्रूयाच् चक्षुर् इति चक्षुर् ब्रह्मेति ब्रह्म देव इति देवं ब्रह्मेत्य् एव ब्रह्माणं ब्रूयान् मन इति मनो ब्रह्मेति ब्रह्म देव इति देवम् ॥ १२ ॥
1.2.13
नानाप्रवचनानि ह वा एतानि भूतानि भवन्ति
ये चैवासोमपं याजयन्ति ये च सुरापं ये च ब्राह्मणं विच्छिन्नं सोमयाजिनं तं प्रातः समित्पाणय उपोदेयुर् उपायामो भवन्तम् इति
किमर्थम् इति
यान् एव नो भवांस् तान् ह्यः प्रश्नान् अपृच्छत् तान् एव नो भवान् व्याचक्षीतेति
तथेति
तेभ्य एतान् प्रश्नान् व्याचचष्टे
तद् येन ह वा इदं विद्यमानं चाविद्यमानं चाभिनिदधाति तद् ब्रह्म
तद् यो वेद स ब्राह्मणो ऽधीयानो ऽधीत्याचक्षत इति ब्राह्मणम् ॥ १३ ॥
1.2.14
अथातो देवयजनानि
आत्मा देवयजनम्
श्रद्धा देवयजनम्
ऋत्विजो देवयजनम्
भौमं देवयजनम्
तद् वा एतद् आत्मा देवयजनं यद् उपव्यायच्छमानो वानुपव्यायच्छमानो वा शरीरम् अधिवसति
एष यज्ञः
एष यजतः
एतं यजन्तः
एतद् देवयजनम्
अथैतच् छ्रद्धा देवयजनम्
यदैव कदा चिद् आदध्यात्
श्रद्धा त्व् एवैनं नातीयात्
तद् देवयजनम्
अथैतद् ऋत्विजो देवयजनम्
यत्र क्व चिद् ब्राह्मणो विद्यावान् मन्त्रेण करोति तद् देवयजनम्
अथेतद् भौमं देवयजनम्
यत्रापस् तिष्ठन्ति यत्र स्यन्दन्ति प्र तद् वहन्त्य् उद्वहन्ति तद् देवयजनम्
यत् समं समूलम् अविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणं समं समास्तीर्णम् इव भवति यस्य श्वभ्र ऊर्मो वृक्षः पर्वतो नदी पन्था वा पुरस्तात् स्यात्
न देवयजनमात्रं पुरस्तात् पर्यवशिष्येत्
नोत्तरतो ऽग्नेः पर्युपसीदेरन्न् इति ब्राह्मणम् ॥ १४ ॥
1.2.15
अदितिर् वै प्रजाकामौदनम् अपचत्
तत उच्छिष्टम् आश्नात्
सा गर्भम् अधत्त
तत आदित्या अजायन्त
य एष ओदनः पच्यत आरम्भणम् एवैतत् क्रियत आक्रमणम् एव
प्रादेशमात्रीः समिधो भवन्ति
एतावान् ह्य् आत्मा प्रजापतिना संमितः
अग्नेर् वै या यज्ञिया तनूर् अश्वत्थे तया समगच्छत
एषास्य घृत्या तनूर् यद् घृतम्
यद् घृतेन समिधो ऽनक्ति ताभ्याम् एवैनं तत् तनूभ्यां समर्धयति
यन् निर्मार्गस्यादधात्य् अवगूर्त्या वै वीर्यं क्रियते
यन् निर्मार्गस्यादधात्य् अवगूर्त्या एव
संवत्सरो वै प्रजननम्
अग्निः प्रजननम्
एतत् प्रजननम्
यत् संवत्सर ऋचाग्नौ समिधम् आदधाति प्रजननाद् एवैनं तत् प्रजनयिता प्रजनयति
अभक्तर्तुर् वै पुरुषः
न हि तद् वेद यम् ऋतुम् अभिजायते
यन् नक्षत्रं तद् आप्नोति
य एष ओदनः पच्यते योनिर् एवैषा क्रियते
यत् समिध आधीयन्ते रेतस् तद् धीयते
संवत्सरे वै रेतो हितं प्रजायते
यः संवत्सरे पर्येते ऽग्निम् आधत्ते प्रजातम् एवैनम् आधत्ते
द्वादशसु रात्रीषु पुरा संवत्सरस्याधेयास्
ता हि संवत्सरस्य प्रतिमा
अथो तिसृष्व् अथो द्वयोर् अथो पूर्वेद्युर् आधेयास् त एवाग्निम् आदधानेन
आदित्या वा इत उत्तमा अमुं लोकम् आयन्
ब्ते पथिरक्षयस् त इयक्षमाणं प्रतिनुदन्तः
च्उच्छेषणभाजा वा आदित्याः
द्[यद् उच्छिष्टम्]
यद् उच्छिष्टेन समिधो ऽनक्ति तेभ्य एव प्रावोचत् तेभ्य एव प्रोच्य स्वर्गं लोकं याति ॥ १५ ॥
1.2.16
प्रजापतिर् अथर्वा देवः स तपस् तप्त्वैतं चातुःप्राश्यं ब्रह्मौदनं निरमिमीत चतुर्लोकं चतुर्देवं चतुर्वेदं चतुर्हौत्रम् इति
चत्वारो वा इमे लोकाः पृथिव्य् अन्तरिक्षं द्यौर् आप इति
चत्वारो वा इमे देवा अग्निर् वायुर् आदित्यश् चन्द्रमाः
चत्वारो वा इमे वेदा ऋग्वेदो यजुर्वेदः सामवेदो ब्रह्मवेद इति
चतस्रो वा इमा होत्रा हौत्रम् आध्वर्यवम् औद्गात्रं ब्रह्मत्वम् इति
तद् अप्य् एतद् ऋचोक्तं <चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आविवेश [पै.सं. ८.१३.३]>इति
चत्वारि शृङ्गेति वेदा वा एत उक्तास्
त्रयो अस्य पादा इति सवनान्य् एव
द्वे शीर्षे इति ब्रह्मौदनप्रवर्ग्याव् एव
सप्त हस्तासो अस्येति छन्दांस्य् एव
त्रिधा बद्ध इति मन्त्रः कल्पो ब्राह्मणम्
वृषभो रोरवीत्य् एष ह वै वृषभ एष तद् रोरवीति यद् यज्ञेषु शस्त्राणि शंसत्य् ऋग्भिर् यजुर्भिः सामभिर् ब्रह्मभिर् इति
महो देवो मर्त्यां आविवेशेत्य् एष ह वै महान् देवो यद् यज्ञः
एष मर्त्यां आविवेश
यो विद्यात् सप्त प्रवत इति प्राणान् आह
सप्त विद्यात् परावत इत्य् अपानान् आह
शिरो यज्ञस्य यो विद्याद् इत्य् एतद् वै यज्ञस्य शिरो यन् मन्त्रवान् ब्रह्मौदनः
यो ह वा एतम् अमन्त्रवन्तं ब्रह्मौदनम् उपेयाद् अपशिरसा ह वा अस्य यज्ञम् उपेतो भवति
तस्मान् मन्त्रवन्तम् एव ब्रह्मौदनम् उपेयान् नामन्त्रवन्तम् इति ब्राह्मणम् ॥ १६ ॥ [एद्. ब्राह्मनम्]
1.2.17
किम् उपज्ञ आत्रेयो भवतीति
आदित्यं हि तमो जग्राह
तद् अत्रिर् अपनुनोद
तद् अत्रिर् अन्वपश्यत्
तद् अप्य् एतद् ऋचोक्तं <स्रुताद् यम् अत्रिर् दिवम् उन्निनाय [शौ.अ. १३.२.४च्, पै.सं. १८.२०.८च्]>
<दिवि त्वात्रिर् अधारयत् सूर्या मासाय कर्तवे [शौ.अ. १३.२.१२अब्, पै.सं. १८.२१.६अब्]>इति
तं होवाच वरं वृणीष्वेति
स होवाच दक्षिणीया मे प्रजा स्याद् इति
तस्माद् आत्रेयाय प्रथमं दक्षिणा यज्ञे दीयन्त इति ब्राह्मणम् ॥ १७ ॥
1.2.18
प्रजापतिर् वेदान् उवाचाग्नीन् आदधीयेति
तान् वाग् अभ्युवाचाश्वो वै सम्भाराणाम् इति
तं घोरात् क्रूरात् सलिलात् सरस उदानिन्युस्
तान् वाग् अभ्युवाचाश्वः शम्येतेति
तथेति
तम् ऋग्वेद एत्योवाचाहम् अश्वं शमेयम् इति
तस्मा अभिसृप्ताय महद् भयं ससृजे
स एतां प्राचीं दिशं भेजे
स होवाचाशान्तो न्व् अयम् अश्व इति
तं यजुर्वेद एत्योवाचाहम् अश्वं शमेयम् इति
तस्मा अभिसृप्ताय महद् भयं ससृजे
स एतां प्रतीचीं दिशं भेजे
स होवाचाशान्तो न्व् अयम् अश्व इति
तं सामवेद एत्योवाचाहम् अश्वं शमेयम् इति
केन नु त्वं शमयिष्यसीति
रथन्तरं नाम मे सामाघोरं चाक्रूरं च
तेनाश्व अभिष्टूयेतेति
तस्मा अप्य् अभिसृप्ताय तद् एव महद् भयं ससृजे
स एताम् उदीचीं दिशं भेजे
स होवाचाशान्तो न्व् अयम् अश्व इति
तान् वाग् अभ्युवाच शंयुमाथर्वणं गच्छतेति
ते शंयुमाथर्वणम् आसीनं प्राप्योचुर् नमस् ते अस्तु भगवन्न् अश्वः शम्येतेति
तथेति
स खलु कबन्धस्याथर्वणस्य पुत्रम् आमन्त्रयाम् आस विचारिन्न् इति
भगो इति हास्मै प्रतिश्रुतं प्रतिश्रुश्राव
अश्व शम्येतेति
तथेति
स खलु शान्त्युदकं चकाराथर्वणीभिश् चाङ्गिरसीभिश् च चातनैर् मातृनामभिर् वास्तोष्पत्यैर् इति शमयति
तस्य ह स्नातस्याश्वस्याभ्युक्षितस्य सर्वेभ्यो रोमसमरेभ्यो ऽङ्गारा आशीर्यन्त
सो ऽश्वस् तुष्टो नमस्कारं चकार
नमः शंयुमाथर्वणाय यो मा यज्ञियम् अचीकॢपद् इति
भविष्यन्ति ह वा अतो ऽन्ये ब्राह्मणा लघुसम्भारतमास्
ग्त आदित्यस्य पद आधास्यन्त्य् अनडुहो वत्सस्याजस्य श्रवणस्य ब्रह्मचारिणो वा
एतद् वा आदित्यस्य पदं यद् भूमिस्
तस्यैव पद आहितं भविष्यतीति
सो ऽग्नौ प्रणीयमाणे ऽश्वे ऽन्वारब्धं ब्रह्मा यजमानं वाचयति <यद् अक्रन्दः प्रथमं जायमानः [ऋ. १.१६३.१]>इति पञ्च
तं ब्राह्मणा उपवहन्ति तं ब्रह्मोपाकुरुत
एष ह वै विद्वान्त् सर्वविद् ब्रह्मा यद् भृङ्गिरोविद् इति ब्राह्मणम् ॥ १८ ॥
1.2.19
देवाश् च ह वा असुराश् चास्पर्धन्त
ते देवा इन्द्रम् अब्रुवन्न् इमं नस् तावद् यज्ञं गोपाय यावद् असुरैः संयतामहा इति
स वै नस् तेन रूपेण गोपाय येन नो रूपेण भूयिष्ठं छादयसि येन शक्ष्यसि गोप्तुम् इति
स ऋग्वेदो भूत्वा पुरस्तात् परीत्योपातिष्ठत्
तं देवा अब्रुवन्न् अन्यत् तद् रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुम् इति
स यजुर्वेदो भूत्वा पश्चात् परीत्योपातिष्ठत्
तं देवा अब्रुवन्न् अन्यत् तद् रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुम् इति
स समावेदो भूत्वोत्तरतः परीत्योपातिष्ठत्
तं देवा अब्रुवन्न् अन्यद् एव तद् रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुम् इति
स इन्द्र उष्णीषी ब्रह्मवेदो भूत्वा दक्षिणतः परीत्योपातिष्ठत्
तं देवा अब्रुवन्न् एतत् तद् रूपं कुरुष्वैतेन नो रूपेण भूयिष्ठं छादयस्य् एतेन शक्ष्यसि गोप्तुम् इति
तद् यद् इन्द्र उष्णीषी ब्रह्मवेदो भूत्वा दक्षिणतः परीत्योपातिष्ठत् तद् ब्रह्माभवत्
तद् ब्रह्मणो ब्रह्मत्वम्
तद् वा एतद् अथर्वणो रूपं यद् उष्णीषी ब्रह्मा
तं दक्षिणतो विश्वे देवा उपासीदन्
तं यद् दक्षिणतो विश्वे देवा उपासीदंस् तत् सदस्यो ऽभवत्
तत् सदस्यस्य सदस्यत्वम्
बलेर् ह वा एतद् बलम् उपजायते यत् सदस्ये
आमयतो वै व्रजस्य बहुलतरं व्रजं विदन्ति
घोरा वा एषा दिग् दक्षिणा शान्ता इतरास्
तद् यानि स्तुतानि ब्रह्मानुमन्त्रयते मनसैव तानि सदस्यो जनद् इत्य् एतां व्याहृतिं जपति
आत्मानं जनयति नजित्यात्मानम् अपित्वे दधाति
तं देवा अब्रुवन् वरं वृणीष्वेति
वृणा इति
स वरम् अवृणीत
अस्याम् एव मां होत्रायाम् इन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तस् तिष्ठेयुर् इति [एद्. तिस्थेयुर्, चोर्र्. ড়त्यल्]
तं तस्याम् एव होत्रायाम् इन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठन्
ब्तं यत् तस्याम् एव होत्रायाम् इन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठंस् तद् ब्राह्मणाच्छंस्य् अभवत्
तद् ब्राह्मणाच्छंसिनो ब्राह्मणाच्छंसित्वम्
सैषैन्द्री होत्रा यद् ब्राह्मणाच्छंसीया
द्वितीयं वरं वृणीष्वेति
वृणा इति
स वरम् अवृणीत
अस्याम् एव मां होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तस् तिस्थेयुर् इति [एद्. तिस्थेयुर्]
तं तस्याम् एव होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठन्
तं यत् तस्याम् एव होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठंस् तत् पोताभवत्
तत् पोतुः पोतृत्वम्
सैषा वायव्या होत्रा यत् पोत्रीया
तृतीयं वरं वृणीष्वेति
वृणा इति
स वरम् अवृणीत
अस्याम् एव मां होत्रायाम् अग्निभूतम् इन्धानाः पुनन्त स्तुवन्त शंसन्तस् तिष्ठेयुर् इति [एद्. तिस्थेयुर्]
तं तस्याम् एव होत्रायाम् अग्निभूतम् इन्धानाः पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठन् [एद्. ऽतिस्थंस्, चोर्र्. ড়त्यल्]
तं यत् तस्याम् एव होत्रायाम् अग्निभूतम् इन्धानाः पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठंस् तद् आग्नीध्रो ऽभवत् [एद्. ऽतिस्थंस्]
स्तद् आग्नीध्रस्याग्नीध्रत्वम्
त्सैषाग्नेयी होत्रा यद् आग्नीध्रीयेति ब्राह्मणम् ॥ १९ ॥
1.2.20
ब्राह्मणो ह वा इमम् अग्निं वैश्वानरं बभार
सो ऽयम् अग्निर् वैश्वानरो ब्राह्मणेन भ्रियमाण इमांल् लोकाञ् जनयते
अथायम् ईक्षते ऽग्निर् जातवेदा ब्राह्मणद्वितीयो ह वा अयम् इदम् अग्निर् वैश्वानरो ज्वलति
हन्ताहं यन् मयि तेज इद्रियं वीर्यं तद् दर्शयाम्य् उत वै मा बिभृयाद् इति
स आत्मानम् आप्याय्यैतं पयो ऽधोक्
तम् इमं ब्राह्मणं दर्शयित्वात्मन्य् अजुहोत्
स द्वितीयम् आत्मानम् आप्याय्यैतं घृतम् अधोक्
तम् इमं ब्राह्मणं दर्शयित्वात्मन्य् अजुहोत्
स तृतीयम् आत्मानम् आप्याय्यैतद् इदं विश्वं विकृतम् अन्नाद्यम् अधोक्
तम् इमं ब्राह्मणं दर्शयित्वात्मन्य् अजुहोत्
स चतुर्थम् आत्मानम् आप्याय्यैतेन ब्राह्मणस्य जायां विराजम् अपश्यत्
ताम् अस्मै प्रायच्छत्
सात्मा अपित्वम् अभवत्
तत इमम् अग्निं वैश्वानरं परास्युर् ब्राह्मणो ऽग्निं जातवेदसम् अधत्त
सो ऽयम् अब्रवीद् अग्ने जातवेदो ऽभिनिधेहि मेहीति
तस्य द्वैतं नामाधत्ताघोरं चाक्रूरं च
सो ऽश्वो भवत्
तस्माद् अश्वो वहेन रथं न भवति पृस्थेन सादिनम्
स देवान् आगच्छत्
स देवेभ्यो ऽन्वातिष्ठत्
तस्माद् देवा अबिभयुस्
तं ब्रह्मणे प्रायच्छत्
तम् एतयर्चाशमयत् ॥ २० ॥
1.2.21
<अग्निं त्वाहुर् वैश्वानरं सदनान् प्रदहन्व् अगाः । स नो देवत्राधि ब्रूहि मा रिषामा वयं तव [पै.सं. १.९५.३, सकल अल्सो अत् वै.श्रौ. ६.७]>इति
तम् एताभिः पञ्चभिर् ऋग्भिर् उपाकुरुते <यद् अक्रन्दः प्रथमं जायमानः [ऋ. १.१६३.१]>इति [एद्. प्रतमं, चोर्रेच्तेद् प्. ३०२]
सो ऽशाम्यत्
तस्माद् अश्वः पशूनां जिघत्सुतमो भवति
वैश्वानरो ह्य् एष
तस्माद् अग्निपदम् अश्वं ब्रह्मणे ददाति
ब्रह्मणे हि प्रत्तम्
तस्य रसम् अपीडयत्
स रसो ऽभवत्
रसो ह वा एष
तं वा एतं रसं सन्तं रथ इत्य् आचक्षते परोक्षेण
परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः
स देवान् आगच्छत्
स देवेभ्यो ऽन्वातिष्ठत्
तस्माद् देवा अबिभयुस्
तं ब्रह्मणे प्रायच्छत्
तम् एतयर्चाज्याहुत्याभ्यजुहोत्
<इन्द्रस्यौजो मरुताम् अनीकम् [शौ.अ. ६.१२५.३, च्f. पै.सं. १५.११.७]> इति रथम् अभिहुत्य तम् एतयर्चातिष्ठद् <वनस्पते वीड्वङ्गो हि भूयाः [शौ.अ. ६.१२५.१, पै.सं. १५.११.८]> इति
तस्माद् आग्न्याधेयिकं रथं ब्रह्मणे ददाति
ब्रह्मणे हि प्रत्तम्
तस्य तक्षाणस् तनूं ज्येष्ठां दक्षिणां निरमिमत
तां पञ्चस्व् अपश्यद् ऋचि यजुषि साम्नि शान्ते ऽथ घोरे
तासां द्वे ब्रह्मणे प्रायच्छद् वाचं च ज्योतिश् च
वाग् वै धेनुर् ज्योतिर् हिरण्यम्
तस्माद् आग्न्याधेयिकां चातुःप्राश्यां धेनुं ब्रह्मणे ददाति
ब्रह्मणे हि प्रत्ता
पशुषु शाम्यमानेषु चक्षुर् हापयन्ति
चक्षुर् एव तद् आत्मनि धत्ते
यद् वै चक्षुस् तद् धिरण्यम्
तस्माद् आग्न्याधेयिकं हिरण्यं ब्रह्मणे ददाति
ब्रह्मणे हि प्रत्तं
तस्यात्मन्न् अधत्त
तेन प्राज्वलयत्
यन् नाधत्त तद् आग्लाभवत्
तद् आग्ला भूत्वा सा समुद्रं प्राविशत् [च्f. पै.सं. १७.२८.१ fओर् थिस् अन्द् थे fओल्लोwइन्ग् सेन्तेन्चेस्]
सा समुद्रम् अदहत्
तस्मात् समुद्रो दुर्गिरवपि
वैश्वानरेण हि दग्धः
सा पृथिवीम् उदैत्
सा पृथिवीं व्यदहत्
सा देवान् आगच्छत्
सा देवान् अहेडत्
ते देवा ब्रह्माणम् उपाधावन्
स नैवागायन् नानृत्यत्
सैषाग्ला
एषा कारुविदा नम
तं वा एतम् आग्लाहतं सन्तम् आग्लागृध इत्य् आचक्षते परोक्षेण
परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषाः [एद्. -द्विषो]
य एष ब्राह्मणो गायनो नर्तनो वा भवति तम् आग्लागृध इत्य् आचक्षते
तस्माद् ब्राह्मणो नैव गायेन् न नृत्येन् माग्लागृधः स्यात्
तस्माद् ब्राह्म्यं पूर्वं हविर् अपरं प्राजापत्यं
प्राजापत्याद् ब्राह्म्यम् एवोत्तरम् इति ब्राह्मणम् ॥ २१ ॥
1.2.22
अथर्वाणश् च ह वा अङ्गिरसश् च भृगुचक्षुषी तद् ब्रह्माभिव्यपश्यन्
तदजानन्वयं वा इदं सर्वं यद् भृग्वङ्गिरस इति
ते देवा ब्राह्म्यं हविर् यत् सांतपने ऽग्नाव् अजुहवुः
एतद् वै ब्राह्म्यं हविर् यत् सांतपने ऽग्नौ हूयत
एष ह वै सांतपनो ऽग्निर् यद् ब्राह्मणस्
तस्योर्जयोर्जां देवा अभजन्त सुमनस एव स्वधां पितरः श्रद्धया स्वर्गं लोकं ब्राह्मणास्
तेन सुन्वन्त्य् ऋषयो ऽन्तत स्त्रियः केवल आत्मन्य् अवारुन्धत बाह्या उभयेन सुन्वन्ति
यद् वै यज्ञे ब्राह्म्यं हविर् न निरुप्येतानृजवः प्राजापत्यहविषो मनुष्या जायेरन्
असौ यांल् लोकाञ् छृण्व् इति पिता ह्य् एष आहवनीयस्य गार्हपत्यस्य दक्षिणाग्नेर् यो ऽग्निहोत्रं जुहोतीति [एद्. याल्लोकाञ्, आहवणीयस्य]
देवाः प्रिये धामनि मदन्ति
तेषाम् एषो ऽग्निः सांतपनः श्रेष्ठो भवति
एतस्य वाचि तृप्तायाम् अग्निस् तृप्यति
प्राणे तृप्ते वायुस् तृप्यति
चक्षुषि तृप्त आदित्यस् तृप्यति
मनसि तृप्ते चन्द्रमास् तृप्यति
श्रोत्रे तृप्ते दिशश् चान्तर्देशाश् च तृप्यन्ति
स्नेहेषु तृप्तेष्व् आपस् तृप्यन्ति
लोमेषु तृप्तेष्व् ओषधिवनस्पतयस् तृप्यन्ति
शरीरे तृप्ते पृथिवी तृप्तति
एवम् एषो ऽग्निः सांतपनः श्रेष्ठस् तृप्तः सर्वांस् तृप्तांस् तर्पयतीति ब्राह्मणम् ॥ २२ ॥
1.2.23
सांतपना इदं हविर् इति
एष ह वै सांतपनो ऽग्निर् यद् ब्राह्मणो यस्य गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणनिष्क्रमणान्नप्राशनगोदानचूडाकरणोपनयनाप्लवनाग्निहोत्रव्रतचर्यादीनि कृतानि भवन्ति स सांतपनः
अथ यो ऽयमनग्निकः स कुम्भे लोष्टस्
तद् यथा कुम्भे लोष्टः प्रक्षिप्तो नैव शौचार्थाय कल्पते नैव शस्यं निर्वर्तयत्य् एवम् एवायं ब्राह्मणो ऽनग्निकस् तस्य ब्राह्मणस्यानग्निकस्य नैव दैवं दद्यान् न पित्र्यं न चास्य स्वाध्यायाशिषो न यज्ञाशिषः स्वर्गंगमा भवन्ति
तद् अप्य् एतद् ऋचोक्तम् <अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् [शौ.अ. २०.१०१.१, ऋ. १.१२.१]> इति ब्राह्मणम् ॥ २३ ॥
1.2.24
अथ ह प्रजापतिः सोमेन यक्ष्यमाणो वेदान् उवाच कं वो होतारं वृणीय कम् अध्वर्युं कम् उद्गातारं कं ब्राह्मणम् इति
त ऊचुर् ऋग्विदम् एव होतारं वृणीष्.व यजुर्विदम् अध्वर्युं सामविदम् उद्गातारम् अथर्वाङ्गिरोविदं ब्राह्मणम्
तथा हास्य यज्ञश् चतुर्षु लोकेषु चतुर्षु देवेषु चतुर्षु वेदेषु चतसृषु होत्रासु चतुष्पाद् यज्ञः प्रतितिष्ठति
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद
तस्माद् ऋग्विदम् एव होतारं वृणीष्व स हि हौत्रं वेद
अग्निर् वै होता
पृथिवी वा ऋचाम् आयतनम्
अग्निर् देवता गायत्रं छन्दो भूर् इति शुक्रम्
तस्मात् तम् एव होतारं वृणीष्वेत्य् एतस्य लोकस्य जितये
एतस्य लोकस्य विजितये
एतस्य लोकस्य संजितये
एतस्य लोकस्यावरुद्धये
एतस्य लोकस्य विवृद्धये
एतस्य लोकस्य समृद्धये
एतस्य लोकस्योदात्तये
एतस्य लोकस्य व्याप्तये
एतस्य लोकस्य पर्याप्तये
एतस्य लोकस्य समाप्तये
अथ चेन् नैवंविदं होतारं वृणुते पुरस्ताद् एवैषां यज्ञो रिच्यते
यजुर्विदम् एवाध्वर्युं वृणीष्व स ह्य् आध्वर्यवं वेद
वायुर् वा अध्वर्युः
अन्तरिक्षं वै यजुषाम् आयतनम्
वायुर् देवता त्रैष्टुभं छन्दो भुव इति शुक्रम्
तस्मात् तम् एवाध्वर्युं वृणीष्वेत्य् एतस्य लोकस्येत्य् एव
अथ चेन् नैवंविदम् अध्वर्युं वृणुते पश्चाद् एवैषां यज्ञो रिच्यते
सामविदम् एवोद्गातारं वृणीष्व
स ह्य् औद्गात्रं वेद
आदित्यो वा उद्गाता
द्यौर् वै साम्नाम् आयतनम्
आदित्यो देवता जागतं छन्दः स्वर् इति शुक्रम्
तस्मात् तम् एवोद्गातारं वृणीष्वेत्य् एतस्य लोकस्येत्य् एव
अथ चेन् नैवंविदम् उद्गातारं वृणुत उत्तरत एवैषां यज्ञो रिच्यते
अथर्वाङ्गिरोविदम् एव ब्रह्माणं वृणीष्व
स हि ब्रह्मत्वं वेद
चन्द्रमा वै ब्रह्मा [एद्. ब्रहापो]
आपो वै भृगवङ्गिरसाम् आयतनम्
चन्द्रमा देवता वैद्युतश् चोष्णिक्काकुभे छन्दसी ओम् इत्य् अथर्वणां शुक्रं जनद् इत्य् अङ्गिरसाम्
तस्मात् तम् एव ब्रह्माणं वृणीष्वेत्य् एतस्य लोकस्य जितये
एतस्य लोकस्य विजितये
एतस्य लोकस्य संजितये
एतस्य लोकस्यावरुद्धये
एतस्य लोकस्य विवृद्धये
एतस्य लोकस्य समृद्धये
तस्य लोकस्योदात्तये
एतस्य लोकस्य व्याप्तये
एतस्य लोकस्य पर्याप्तये
एतस्य लोकस्य समाप्तये
अथ चेन् नैवंविदं ब्रह्माणं वृणुते दक्षिणत एवैषां यज्ञो रिच्यते दक्षिणत एवैषां यज्ञो रिच्यते ॥ २४ ॥

 अथर्ववेदे गोपथब्राह्मणपूर्वभागे द्वितीयः प्रपाठकः ॥

1.3.1
ओं दक्षिणाप्रवणा भूमिर् दक्षिणत आपो वहन्ति
तस्माद् यज्ञास् तद्भूमेर् उन्नततरम् इव भवति यत्र भृग्वङ्गिरसो विष्ठास्
तद् यथाप इमांल् लोकान् अभिवहन्त्य् एवम् एव भृग्वङ्गिरसः सर्वान् देवान् अभिवहन्ति
एवम् एवैषा व्याहृतिः सर्वान् वेदान् अभिवहत्य् ओम् इति हर्चाम् ओम् इति यजुषाम् ओम् इति साम्नाम् ओम् इति सर्वस्याहाभिवादस्
तं ह स्मैतद् उत्तरं यज्ञे विद्वांसः कुर्वन्ति
देवा ब्रह्माण आगच्छतागच्छतेति
एते वै देवा ब्रह्माणो यद् भृग्वङ्गिरसस्
तान् एवैतद् गृणानास् तान् वृणाना ह्वयन्तो मन्यन्ते
नान्यो ऽभृग्वङ्गिरोविदो वृतो यज्ञम् आगच्छेन्
यज्ञस्य तेजसा तेज आप्नोत्य् ऊर्जयोर्जां यशसा यशः
नान्यो ऽभृग्वङ्गिरोविदो वृतो यज्ञम् आगच्छेन् नेद् यज्ञं परिमुष्णीयाद् इति
तद् यथा पूर्वं वत्सो ऽधीत्य गां धयेद् एवं ब्रह्मा भृग्वङ्गिरोविद् वृतो यज्ञम् आगच्छेन् नेद् यज्ञं परिमुष्णीयाद् इति
तद् यथा गौर् वाश्वो वाश्वतरो वैकपाद् द्विपात् त्रिपाद् इति स्यात् किम् अभिवहेत् किम् अभ्यश्नुयाद् इति
तस्माद् ऋग्विदम् एव होतारं वृणीष्व यजुर्विदम् अध्वर्युं सामविदम् उद्गातारम् अथर्वाङ्गिरोविदं ब्रह्माणम्
तथा हास्य यज्ञश् चतुर्षु लोकेषु चतुर्षु देवेषु वेदेषु चतसृषु होत्रासु चतुष्पाद् यज्ञः प्रतितिष्ठति
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद यश् चैवम् ऋत्विजाम् आर्त्विज्यं वेद यश् च यज्ञे यजनीयं वेदेति ब्राह्मणम् ॥ १ ॥
1.3.2
प्रजापतिर् यज्ञम् अतनुत
स ऋचैव हौत्रम् अकरोद् यजुषाध्वर्यवं साम्नौद्गात्रम् अथर्वाङ्गिरोभिर् ब्रह्मत्वम्
तं वा एतं महावाद्यं कुरुते यद् ऋचैव हौत्रम् अकरोद् यजुषाध्वर्यवं साम्नौद्गात्रम् अथर्वाङ्गिरोभिर् ब्रह्मत्वम्
स वा एष त्रिभिर् वेदैर् यज्ञस्यान्यतरः पक्षः संस्क्रियते
मनसैव ब्रह्मा यज्ञस्यान्यत्रं पक्षं संस्करोति
अयम् उ वै यः पवते स यज्ञस्
तस्य मनश् च वाक् च वर्तनी
मनसा चैव हि वाचा च यज्ञो वर्तते
अद एव मन इयम् एव वाक्
स यद् वदन् नास्ति विद्याद् अर्धं मे ऽस्य यज्ञस्यान्तरगाद् इति
तद् यथैकपात् पुरुषो यन्न् एकचक्रो वा रथो वर्तमानो भ्रेषं न्येत्य् एवम् एवास्य यज्ञो भ्रेषं न्येति
यज्ञस्य भ्रेषम् अनु यजमानो भ्रेषं न्येति
यजमानस्य भ्रेषम् अन्व् ऋत्विजो भ्रेषं नियन्ति
ऋत्विजां भ्रेषम् अनु दक्षिणा भ्रेषं नियन्ति
दक्षिणानां भ्रेषम् अनु यजमानः पुत्रपशुभिर् भ्रेषं न्येति
पुत्रपशूनां भ्रेषम् अनु यजमानः स्वर्गेण लोकेन भ्रेषं न्येति
स्वर्गस्य लोकस्य भ्रेषम् अनु तस्यार्धस्य योगक्षेमो भ्रेषं न्येति यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम् ॥ २ ॥
1.3.3
तद् उ ह स्माह श्वेतकेतुर् आरुणेयो ब्रह्माणं दृष्ट्वा भाषमाणम् अर्धं मे ऽस्य यज्ञस्यान्तरगाद् इति
तस्माद् ब्रह्मा स्तुते बहिःपवमाने वाचोयम्यम् उपांश्व् अन्तर्यामाभ्याम्
अथ ये पवमाना ओदृचस् तेषु
अथ यानि स्तोत्राणि सशस्त्राण्य् आ वषट्कारात् तेषु
स यद् ऋक्तो भ्रेषं न्यृच्छेद् ओं भूर् जनद् इति गार्हपत्ये जुहुयात्
यदि यजुष्ट ओं भुवो जनद् इति दक्षिणाग्नौ जुदुयात्
यदि सामत ओं स्वर् जनद् इत्य् आहवनीये जुहुयात्
यद्य् अनाज्ञाताद् ब्रह्मतो वों भूर् भुवः स्वर् जनद् ओम् इत्य् आहवनीय एव जुहुयात्
तद् वाकोवाक्यस्यर्चां यजुषां साम्नाम् अथर्वाङ्गिरसाम्
अथापि वेदानां रसन यज्ञस्य विरिष्टं संधीयते
तद् यथा लवणेनेत्य् उक्तम्
तद् यथोभयपात् पुरुषो यन्न् उभयचक्रो वा रथो वर्तमानो ऽभ्रेषं न्येति एवम् एवास्य यज्ञो ऽभ्रेषं न्येति
यज्ञस्याभ्रेषम् अनु यजमानो ऽभ्रेषं न्येति
यजमानस्याभ्रेषम् अन्व् ऋत्विजो ऽभ्रेषं नियन्ति
ऋत्विजाम् अभ्रेषम् अनु दक्षिणा अभ्रेषं नियन्ति
दक्षिणानाम् अभ्रेषम् अनु यजमानः पुत्रपशुभिर् अभ्रेषं न्येति
पुत्रपशूनाम् अभ्रेषम् अनु यजमानः स्वर्गेण लोकेनाभ्रेषं न्येति
स्वर्गस्य लोकस्याभ्रेषम् अनु तस्यार्धस्य योगक्षेमो ऽभ्रेषं न्येति यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम् ॥ ३ ॥
1.3.4
तद् यद् औदुम्बर्यां म आसिष्ट हिङ्ङ् अकार्षीन् मे प्रास्तावीन् म उदगासीन् मे सुब्रह्मण्याम् आह्वासीद् इत्य् उद्गात्रे दक्षिणा नीयन्ते
ग्रहान् मे ऽग्रहीत् प्राचारीन् मे ऽशुश्रुवन् मे समनसस् कार्षीद् अयाक्षीन् मे ऽवषट्कार्षीन् म इत्य् अध्वर्यवे
होतृषदन आसिष्टायाक्षीन् मे ऽशांसीन् मे ऽवषट्कार्षीन् म इति होत्रे
देवयजनं मे चीकॢपद् ब्रह्मासादं मे ऽसीसृपद् ब्रह्मजपान् मे ऽजपीत् पुरस्ताद्धोमसंस्थितहोमान् मे ऽहौषीद् अयाक्षीन् मे ऽशांसीन् मे ऽवषट्कार्षीन् म इति ब्रह्मणे
भूयिष्ठेन मा ब्रह्मणाकार्षीद् इति
एतद् वै भूयिष्ठं ब्रह्म यद् भृग्वङ्गिरसः
ये ऽङ्गिरसः स रसो ये ऽथर्वाणो ये ऽथर्वाणस् तद्भेषजम्
यद् भेषजं तद् अमृतं यद् अमृतं तद् ब्रह्म
स वा एष पूर्वेषाम् ऋत्विजाम् अर्धभागस्यार्धम् इतरेषाम् अर्धं ब्रह्मण इति ब्राह्मणम् ॥ ४ ॥
1.3.5
देवाश् च ह वा असुराश् च संग्रामं समयतन्त
तत्रैतास् तिस्रो होत्रा जिह्मं प्रतिपेदिरे
तासाम् इन्द्र उक्थानि सामानि लुलोप
तानि होत्रे प्रायच्छत्
आज्यं ह वै होतुर् बभूव
प्रउगं पोतुर् वैश्वदेवं ह वै होतुर् बभूव
निष्केवल्यं नेष्टुः
मरुत्वतीयं ह वै होतुर् बभूव
अग्निमारुतम् आग्नीध्रस्य
तस्माद् एतद् अभ्यस्ततरम् इव शस्यते यद् आग्निमारुतम्
तस्माद् एते संशंसुका इव भवन्ति यद् धोता पोता नेष्टा
आग्नीध्रो मुमुहे वसीत
तद् ब्रह्मेयसामिवास
तासाम् अर्धं प्रतिलुलोप प्रथमार्हणं च प्रथमपदं चैतद् दक्षिणां चैतत् परिशिषेदेद् इति ब्राह्मणम् ॥ ५ ॥
1.3.6
उद्दालको ह वा आरुणिर् उदीच्यान् वृतो धावयां चकार
तस्य ह निष्क उपाहितो बभूवोपवादाद् बिभ्यतो यो मा ब्राह्मणो ऽनूचान उपवदिष्यति तस्मा एतं प्रदास्यमीति
तद् धोदीच्यान् ब्राह्मणान् भयं विवेदोद्दालको ह वा अयम् आयाति कौरुपञ्चोलो ब्रह्मा ब्रह्मपुत्रः
स ऊर्ध्वं वृतो न पर्यादधीत
केनेमं वीरेण प्रतिसंयतामहा इति
तं यत एव प्रपन्नं दध्रे तत एवम् अनुप्रतिपेदिरे ते ह स्वैदायनं शौनकम् ऊचुः स्वैदायन त्वं वै नो ब्रह्मिष्ठो ऽसीति
त्वयेमं वीरेण प्रतिसंयतामहा इति
तं यत एव प्रपन्नं दध्रे तत एवम् अनुप्रतिपेदिरे
तं ह स्वैदायना इत्य् आमन्त्रयाम् आस
स भो गौतमस्य पुत्रेति हास्मा असूया प्रतिश्रुतं प्रतिशुश्राव
स वै गौतमस्य पुत्र ऊर्ध्वं वृतो धावेत् ॥ ६ ॥
1.3.7
यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमाः प्रजाः शिरस्तः प्रथमं लोमशा जायन्ते कस्माद् आसाम् अपरम् इव श्मश्रूण्य् उपकक्षाण्य् अन्यानि लोमानि जायन्ते
यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमाः प्राजाः शिरस्तः प्रथमं पलिता भवन्ति कस्माद् अन्ततः सर्वा एव पलिता भवन्ति
यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमाः प्रजा अदन्तिका जायन्ते कस्माद् आसाम् अपरम् इव जायन्ते
यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् आसां सप्तवर्षाष्टवर्षाणां प्रभिद्यन्ते कस्माद् आसां पुनर् एव जायन्ते कस्माद् अन्ततः सर्व एव प्रभिद्यन्ते
यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् अधरे दन्ताः पूर्वे जायन्ते पर उत्तरे
यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् अधरे दन्ताः अणीयांसो ह्रसीयांसः प्रथीयांसो वर्षीयांस उत्तरे
यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमौ दंष्ट्रौ दीर्घतरौ कस्मात् समे इव जंभे
यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमे श्रोत्रे अन्तरतः समे इव दीर्णे
यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्मात् पुमांसः श्मश्रुवन्तो ऽश्मश्रुवः स्त्रियः
यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् आसां संततम् इव शरीरं भवति कस्माद् आसाम् अस्थीनि दृढतराणीव भवन्ति
यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् आसां प्रथमे वयसि रेतः सिक्तं न संभवति कस्माद् आसां मध्यमे वयसि रेतः सिक्तं संभवति कस्माद् आसाम् उत्तमे वयसि रेतः सिक्तं न संभवति
यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इदं शिश्नम् उच्चश एति नीची पद्यते [एद्. इं]
कस्मात् सकृद् अपानम् ॥ ७ ॥
1.3.8
अथ यः पुरस्ताद् अष्टाव् आज्यभागान् विद्यान् मध्यतः पञ्च हविर्भागाः षट् प्राजापत्या उपरिष्टाद् अष्टाव् आज्यभागान् विद्यात्
अथ यो गायत्रीं हरिणीं ज्योतिष्पक्षां सर्वैर् यज्ञैर् यजमानं स्वर्गं लोकम् अभिवहन्तीं विद्यात्
अथ यः अपङ्क्तिं पञ्चपदां सप्तदशाक्षरां सर्वैर् यज्ञैर् यजमानं स्वर्गं लोकम् अभिवहन्तीं विद्यात्
तस्मै ह निष्कं प्रयच्छन्न् उवाचानूचानो ह वै स्वैदायनासि सुवर्णं वै सुवर्णविदे ददामीति
तद् उपयम्य निश्चक्राम
तत्रापवव्राज यत्रेतरो बभूव
तं ह पप्रच्छ किम् एष गौतमस्य पुत्र इति
एष ब्रह्मा ब्रह्मापुत्र इति होवाच यद् एनं कश् चिद् उपवदेतोत मीमांसेत ह वा मूर्धा वा अस्य विपतेत् प्राणा वैनं जह्युर् इति
ते मिथ एव चिक्रन्देयुर् विप्रापवव्रज यत्रेतरो बभूव
ते प्रातः समित्पाणय उपोदेयुर् उपायामो भवन्तम् इति
किम् अर्थम् इति
यान् एव नो भवांस् तान् ह्यः प्रश्नान् अपृच्छत् तान् एव नो भवान् व्याचक्षीतेति
तथेति
तेभ्य एतान् प्रश्नान् व्याचचष्टे ॥ ८ ॥
1.3.9
यत् पुरस्ताद् वेदेः प्रथमं बर्हि स्तृणाति तस्माद् इमाः प्रजाः शिरस्तः प्रथमं लोमशा जायन्ते
यद् अपरम् इव प्रस्तरम् अनुप्रस्तृणाति तस्माद् आसाम् अपरम् इव श्मश्रूण्य् उपकक्षाण्य् अन्यानि लोमानि जायन्ते
यत् प्राग् बर्हिषः प्रस्तरम् अनुप्रहरति तस्माद् इमाः प्रजाः शिरस्तः प्रथमं पलिता भवन्ति
यद् अन्ततः सर्वम् एवानुप्रहरति तस्माद् अन्ततः सर्व एव पलिता भवन्ति
यत् प्रयाजा अपुरोऽनुवाक्यावन्तो भवन्ति तस्माद् इमाः प्रजा अदन्तिका जायन्ते
यद् धवींषि पुरोऽनुवाक्यावन्ति भवन्ति तस्माद् आसाम् अपरम् इव जायन्ते
यद् अनुयाजा अपुरोऽनुवाक्यावन्तो भवन्ति तस्माद् आसां सप्तवर्षाष्टवर्षाणां प्रभिद्यन्ते
यत् पत्नीसंयाजाः पुरोऽनुवाक्यावन्तो भवन्ति तस्माद् आसां पुनर् एव जायन्ते
यत् समिष्टयजुर् अपुरोऽनुवाक्यावद् भवति तस्माद् अन्ततः सर्व एव प्रभिद्यन्ते
यद् गायत्र्यानूच्य त्रिष्टुभा यजति तस्माद् अधरे दन्ताः पूर्वे जायन्ते पर उत्तरे
यद् ऋचानूच्य यजुषा यजति तस्माद् अधरे दन्ता अणीयांसो ह्रसीयांसः प्रथीयांसो वर्षीयांस उत्तरे [एद्. वर्सीयांस]
यद् आघारौ दीर्घतरौ प्राञ्चाव् आघारयति तस्माद् इमौ दंष्ट्रौ दीर्घतरौ
यत् संयाज्ये सच्छन्दसी तस्मात् समे इव जम्भे
यच् चतुर्थे प्रयाजे समानयति तस्माद् इमे श्रोत्रे अन्तरतः समे इव दीर्णे
यज् जपं जपित्वाभिहिंकृणोति तस्मात् पुमांसः श्मश्रुवन्तो ऽश्मश्रुव स्त्रियः
यत् सामिधेनीः संतन्वन्न् अन्वाह तस्माद् आसां संततम् इव शरीरं भवति
यत् सामिधेन्यः काष्ठहविषो भवन्ति तस्माद् आसाम् अस्थीनि दृढतराणीव भवन्ति
यत् प्रयाजा आज्यहविषो भवन्ति तस्माद् आसां प्रथमे वयसि रेतः सिक्तं न संभवति
यन् मध्ये हविषां दध्ना च पुरोडाशेन च प्रचरन्ति तस्माद् आसां मध्यमे वयसि रेतः सिक्तं संभवति
यद् अनुयाजा आज्यहविषो भवन्ति तस्माद् आसाम् उत्तमे वयसि रेतः सिक्तं न संभवति
यद् उत्तमे ऽनुयाजे सकृद् अपानिति तस्माद् इदं शिश्नम् उच्चश एति नीची पद्यते
यन् नापानेत् सकृच्छूनं स्यात्
यन् मुहुर् अपानेत् सकृत्पन्नं स्यात्
तस्मात् सकृद् अपानिति नेत् सकृच्छूनं स्यात् सकृत्पन्नं वेति ॥ ९ ॥
1.3.10
अथ ये पुरस्ताद् अष्टाव् आज्यभागाः पञ्च प्रयाजा द्वाव् आघारौ द्वाव् आज्यभागाव् आग्नेय आज्यभागानां प्रथमः सौम्यो द्वितीयो हविर्भागानाम्
हविर् ह्य् एव सौम्यम्
आग्नेयः पुरोडाशः
अग्नीषोमीयः पुरोडाशो ऽग्निः स्विष्टकृद् इत्य् एते मध्यतः पञ्च हविर्भागाः
अथ ये षट् प्राजापत्या इडा च प्राशित्रं च यच् चाग्नीध्रायावद्यति ब्रह्मभागो यजमानभागो ऽन्वाहार्य एव षष्ठः
अथ य उपरिष्टाद् अष्टाव् आज्यभागास् त्रयो ऽनुयाजाश् चत्वारः पत्नीसंयाजाः समिष्टयजुर् अष्टमम्
अथ या गायत्री हरिणी ज्योतिष्पक्षा सर्वैर् यज्ञैर् यजमानं स्वर्गं लोकम् अभिवहति वेदिर् एव सा
तस्य ये पुरस्ताद् अष्टाव् आज्याभागाः स दक्षिणः पक्षः
अथ य उपरिष्टाद् अष्टाव् आज्यभागाः स उत्तरः पक्षः [एद्. इपरिष्टाद्]
हवींष्य् आत्मा [एद्. हविंष्य्]
गार्हपत्यो जघनम्
आहवनीयः शिरः
सौवर्णराजतौ पक्षौ
तद् यद् आदित्यं पुरस्तात् पर्यन्तं न पश्यन्ति तस्माद् अज्योतिष्क उत्करो भवति
अथ या पङ्क्तिः पञ्चपदा सप्तदशाक्षरा सर्वैर् यज्ञैर् यजमानं स्वर्गं लोकम् अभिवहति याज्यैव सा
तस्या ओं श्रावयेति चतुरक्षरम्
अस्तु श्रौषद् इति चतुरक्षरम्
यजेति द्व्यक्षरम्
ये यजामह इति पञ्चाक्षरम्
द्व्यक्षरो वै वषट्कारः सैषा पङ्क्तिः
पञ्चपदा सप्तदशाक्षरा सर्वैर् यज्ञैर् यजमानं स्वर्गं लोकम् अभिवहति
तद् यत्रास्यैश्वर्यं स्याद् यत्र वैनम् अभिवहेयुर् एवंविदम् एव तत्र ब्रह्माणं वृणीयान् नानेवंविदम् इति ब्राह्मणम् ॥ १० ॥
1.3.11
अथ ह प्राचीनयोग्य आजगामाग्निहोत्रं भवन्तं पृच्छामि गौतमेति
पृच्छ प्राचीनयोग्येति
किंदेवत्यं ते गवीडायाम्
किंदेवत्यम् उपहूतायाम्
किंदेवत्यम् उपसृष्टायाम्
किंदेवत्यं वत्सम् उन्नीयमानम्
किंदेवत्यं वत्सम् उन्नीतम्
किंदेवत्यं दुह्यमानम्
किंदेवत्यं दुग्धम्
किंदेवत्यं प्रक्रम्यमाणम्
किंदेवत्यं ह्रियमाणम्
किंदेवत्यम् अधिश्रीयमाणम्
किंदेवत्यम् अधिश्रितम्
किंदेवत्यम् अभ्यवज्वाल्यमानम्
किंदेवत्यम् अभ्यवज्वालितम्
किंदेवत्यं समुद्वान्तम्
किंदेवत्यं विष्यण्णम्
किंदेवत्यम् अद्भिः प्रत्यानीतम्
किंदेवत्यम् उद्वास्यमानम्
किंदेवत्यम् उद्वासितम्
किंदेवत्यम् उन्नीयमानम्
किंदेवत्यम् उन्नीतम्
किंदेवत्यं प्रक्रम्यमाणम्
किंदेवत्यं ह्रियमाणम्
किंदेवत्यम् उपसाद्यमानम्
किंदेवत्यम् उपसादितम्
किंदेवत्या समित्
किंदेवत्यां प्रथमाम् आहुतिम् अहौषीः
किंदेवत्यं गार्हपत्यम् अवेक्षिष्ठाः
किंदेवत्योत्तराहुतिः
किंदेवत्यं हुत्वा स्रुचं त्रिर् उदञ्चम् उदनैषीः
किंदेवत्यं बर्हिषि स्रुचं निधायोन्मृज्योत्तरतः पाणी निरमार्क्षीः
किंदेवत्यं द्वितीयम् उन्मृज्य पित्र्युपवीतं कृत्वा दक्षिणतः पितृभ्यः स्वधाम् अकार्षीः
किंदेवत्यं प्रथमं प्राशीः
किंदेवत्यं द्वितीयम्
किंदेवत्यम् अन्ततः सर्वम् एव प्राशीः
किंदेवत्यम् अप्रक्षालितयोदकं स्रुचा न्यनैषीः
किंदेवत्यं प्रक्षालितया
किंदेवत्यम् अपरेणाहवनीयम् उदकं स्रुचा न्यनैषीः [एद्. उदक]
किंदेवत्यं स्रुवं स्रुचं च प्रत्यताप्सीः
किंदेवत्यं रात्रौ स्रुग्दण्डम् अवामार्क्षीः
किंदेवत्यं प्रातर् उदमार्क्षीर् इति
एतच् चेद् वेत्थ गौतम हुतं ते यद्य् उ न वेत्थाहुतं त इति ब्राह्मणम् ॥ ११ ॥
1.3.12
स होवाच रौद्रं मे गवीडयाम्
मानव्यम् उपहूतायाम्
वायव्यम् उपसृष्टायाम्
वैराजं वत्सम् उन्नीयमानम्
जागतम् उन्नीतम्
आश्विनं दुह्यमानम्
सौम्यं दुग्धम्
बार्हस्पत्यं प्रक्रम्यमाणम्
द्यावापृथिव्यं ह्रियमाणम् [एद्. ह्रियमानम्, चोर्र्. ড়त्यल्]
आग्नेयम् अधिश्रीयमाणम्
वैश्वानरीयम् अधिश्रितम्
वैष्णवम् अभ्यवज्वाल्यमानम्
मारुतम् अभ्यवज्वालितम्
पौष्णं समुद्वान्तम्
वारुणं विष्यन्नम्
सारस्वतम् अद्भिः प्रत्यानीतम्
त्वाष्ट्रम् उद्वास्यमानम्
धात्रम् उद्वासितम्
वैश्वदेवम् उन्नीयमानम्
सावित्रम् उन्नीतम्
बार्हस्पत्यं प्रक्रम्यमाणम्
द्यावापृथिव्यं ह्रियमाणम्
ऐन्द्रम् उपसाद्यमानम्
बलायोपसन्नम्
आग्नेयी समित्
यां प्रथमाम् आहुतिम् अहौषं माम् एव तत् स्वर्गे लोके ऽधाम्
यद् गार्हपत्यम् अवेक्षिषम् अस्य लोकस्य संतत्यै
प्राजापत्योत्तराहुतिस्
तस्मात् पूर्णतरा मनसैव सा
यद् धुत्वा स्रुचं त्रिर् उदञ्चम् उदनैषं रुद्रांस् तेनाप्रैषम्
यद् बर्हिषि स्रुचं निधायोन्मृज्योत्तरतः पाणी निरमार्क्षम् ओषधिवनस्पतींस् तेनाप्रैषम्
यद् द्वितीयम् उन्मृज्य पित्र्युपवीतं कृत्वा दक्षिणतः पितृभ्यः स्वधाम् अकार्षं पितॄंस् तेनाप्रैषम्
यत् प्रथमं प्राशिषं प्राणांस् तेनाप्रैषम्
यद् द्वितीयं गर्भांस् तेन
तस्माद् अनश्नन्तो गर्भा जीवन्ति
यद् अन्ततः सर्वम् एव प्राशिषं विश्वान् देवांस् तेनाप्रैषम्
यद् अप्रक्षालितयोदकं स्रुचा न्यनैषं सर्पेतरजनांस् तेनाप्रैषम्
यत् प्रक्षालितया सर्पपुण्यजनांस् तेन
यद् अपरेणाहवनीयम् उदकं स्रुचा न्यनैषं गन्धर्वाप्सरसस् तेनाप्रैषम्
यत् स्रुवं स्रुचं च प्रत्यताप्सं सप्तर्षींस् तेनाप्रैषम्
यद् रात्रौ स्रुग्दण्डम् अवामार्क्षं ये रात्रौ संविशन्ति दक्षिणांस् तान् उदनैषम्
यत् प्रातर् उदमार्क्षं ये प्रातः प्रव्रजन्ति दक्षिणांस् तानुदनैषम् इति ब्राह्मणम् ॥ १२ ॥
1.3.13
एवम् एवैतद् भो यथा भवान् आह
पृच्छामि त्वेव भवन्तम् इति
पृच्छ प्राचीनयोग्येति
यस्य सायम् अग्नय उपसमाहिताः स्युः सर्वे ज्वलयेयुः प्रक्षालितानि यज्ञपात्राण्य् उपसन्नानि स्युर् अथ चेद् दक्षिणागिर् उद्वायात् किं वा ततो भयम् आगच्छेद् इति
क्षिप्रम् अस्य पत्नी प्रैति यो ऽविद्वाञ् जुहोति
विद्यया त्वेवाहम् अभिजुहोमीति
का ते विद्या का प्रायश्चित्तिर् इति
गार्हपत्याद् अधि दक्ष्.इणाग्निं प्रणीय प्राचो ऽङ्गारान् उद्धृत्य प्राणापानाभ्यं स्वाहेति जुहुयात्
अथ प्रातर् यथास्थानम् अग्नीन् उपसामधाय यथापुरं जुहुयात्
सा मे विद्या सा प्रायश्चित्तिर् इति
अथ चेद् आहवनीय उद्वायात् किं वा ततो भयम् आगच्छेद् इति
क्षिप्रम् अस्य पुत्रः प्रैति यो ऽविद्वाञ् जुहोति
विद्यया त्वेवाहम् अभिजुहोमीति
का ते विद्या का प्रायश्चित्तिर् इति
गार्हपत्याद् अध्य् आहवनीयं प्रणीय प्रतीचो ऽङ्गारान् उद्धृत्य समानव्यानाभ्यां स्वाहेति जुहुयात्
अथ प्रातर् यथास्थानम् अग्नीन् उपसमाधाय यथापुरं जुहुयात्
सा मे विद्या सा प्रायश्चित्तिर् इति
अथ चेद् गार्हपत्य उद्वायात् किं वा ततो भयम् आगच्छेद् इति
क्षिप्रं गृहपतिः प्रैति यो ऽविद्वाञ् जुहोति
विद्यया त्वेवाहम् अभिजुहोमीति
का ते विद्या का प्रायश्चित्तिर् इति
सभस्मकम् आहवनीयं दक्षिणेन दक्षिणाग्निं परिहृत्य गार्हपत्यस्यायतने प्रतिष्ठाप्य तत आहवनीयं प्रणीय उदीचो ऽङ्गारान् उद्धृत्योदानरूपाभ्यां स्वाहेति जुहुयात्
अथ प्रातर् यथास्थानम् अग्नीन् उपसमाधाय यथापुरं जुहुयात्
सा मे विद्या सा प्रायश्चित्तिर् इति
अथ चेत् सर्वे ऽग्नय उद्वायेयुः किं वा ततो भयम् आगच्छेद् इति
क्षिप्रं गृहपतिः सर्वज्यानिं जीयते यो ऽविद्वाञ् जुहोति
विद्यया त्वेवाहम् अभिजुहोमीति
का ते विद्या का प्रायश्चित्तिर् इति
आनडुहेन शकृत्पिण्डेनाग्न्यायतनानि परिलिप्य होम्यम् उपसाद्याग्निं निर्मथ्य प्राणापानाभ्यां स्वाहा समानव्यानाभ्यां स्वाहोदानरूपाभ्यां स्वाहेति जुहुयात्
अथ प्रातर् यथास्थानम् अग्नीन् उपसमाधाय यथापुरं जुहुयात्
सा मे विद्या सा प्रायश्चित्तिर् इति
अथ चेन् नाग्निं जनयितुं शक्नुयुर् न कुतश् चन वातो वायात् किं वा ततो भयम् आगच्छेद् इति
मोघम् अस्वेष्टं च हुतं च भवति यो ऽविद्वाञ् जुहोति
विद्यया त्वेवाहम् अभिजुहोमीति
का ते विद्या का प्रायश्चित्तिर् इति
आनडुहेनैव शकृत्पिण्डेनाग्न्यायतनानि परिलिप्य होम्यम् उपसाद्य <वात आ वातु भेषजम् [ড়ष् १९.४६.७-९]> इति सूक्तेनात्मन्य् एव जुहुयात्
अथ प्रातर् अग्निं निर्मथ्य यथास्थानम् अग्नीन् उपसमाधाय यथापुरं जुहुयात्
सा मे विद्या सा प्रायश्चित्तिर् इति ब्राह्मणम् ॥ १३ ॥
1.3.14
एवम् एवैतद् भो भगवन् यथा भवान् आह
उपयामि त्वेव भवन्तम् इति
एवं चेन् नावक्ष्यो मूर्धा ते व्यपतिष्यद् इति
हन्त तु ते तद् वक्ष्यामि यथा ते न विपतिष्यतीति
यो ह वा एवंविद्वान् अश्नाति च पिबति च वाक् तेन तृप्यति
वाचि तृप्तायाम् अग्निस् तृप्यति
अग्नौ तृप्ते पृथिवी तृप्यति
पृथिव्यां तृप्तायां यानि पृथिव्यां भूतान्य् अन्वायत्तानि तानि तृप्यन्ति
यो ह वा एवंविद्वान् अश्नाति च पिबति च प्राणस् तेन तृप्यति
प्राणे तृप्ते वायुस् तृप्यति [एद्. प्रणे]
वायौ तृप्ते ऽन्तरिक्षं तृप्यति
अन्तरिक्षे तृप्ते यान्य् अन्तरिक्षे भूतान्य् अन्वायत्तानि तानि तृप्यन्ति
यो ह वा एवंविद्वान् अश्नाति च पिबति च चक्षुस् तेन तृप्यति
चक्षुषि तृप्त आदित्यस् तृप्यति
आदित्ये तृप्ते द्यौस् तृप्यति
दिवि तृप्तायां यानि दिवि भूतान्य् अन्वायत्तानि तानि तृप्यन्ति
यो ह वा एवंविद्वान् अश्नाति च पिबति च मनस् तेन तृप्यति
मनसि तृप्ते चन्द्रमास् तृप्यति
चन्द्रमसि तृप्त आपस् तृप्यन्ति
अप्सु तृप्तासु यान्य् अप्सु भूतान्य् अन्वायत्तानि तानि तृप्यन्ति
यो ह वा एवंविद्वान् अश्नाति च पिबति च श्रोत्रं तेन तृप्यति
श्रोत्रे तृप्ते दिशश् चान्तर्देशाश् च तृप्यन्ति
दिक्षु चान्तर्देशेषु च तृप्तेषु यानि दिक्षु चान्तर्देशेषु च भूतान्य् अन्वायत्तानि तानि तृप्यन्ति
यो ह वा एवंविद्वान् अश्नाति च पिबति च तस्यायम् एव दक्षिणः पाणिर् जुहूः
सव्य उपभृत्
कण्ठो ध्रुवा
अन्नं हविः
प्राणा ज्योतींषि
सदेष्टं सदा हुतं सदाशितं पायितम् अग्निहोत्रं भवति य एवं वेद यश् चैवंविद्वान् अग्निहोत्रं जुहोतीति ब्राह्मणम् ॥ १४ ॥
1.3.15
प्रियमेधा ह वै भरद्वाजा यज्ञविदो मन्यमानास्
ते ह स्म न कञ् चन वेदविदम् उपयन्ति
ते सर्वम् अविदुस्
ते सहैवाविदुस्
ते ऽग्निहोत्र एव न समवदन्त
तेषाम् एकः सकृद् अग्निहोत्रम् अजुहोद् द्विर् एकस् त्रिर् एकस्
तेषां यः सकृद् अग्निहोत्रम् अजुहोत् तम् इतराव् अपृच्छतां कस्मै त्वं जुहोषीति
एकधा वा इदं सर्वं प्रजापतिः
प्रजापतय एवाहं सायं जुहोमीति प्रजापतये प्रातर् इति
तेषां यो द्विर् अजुहोत् तम् इतराव् अपृच्छतां काभ्यां त्वं जुहोषीति
अग्नये प्रजापतय इति सायं सूर्याय प्रजापतय इति प्रातस्
तेषां यस् त्रिर् अजुहोत् तम् इतराव् अपृच्छतां केभ्यस् त्वं जुहोषीत्य् अग्नये प्रजापतये ऽनुमतय इति सायं सूर्याय प्रजापतये ऽग्नये स्विष्टकृत इति प्रातस्
तेषां यो द्विर् अजुहोत् स आर्ध्नोत्
स भूयिष्ठो ऽभवत्
प्रजया चेतरौ श्रिया चेतराव् अत्याक्रामत्
तस्य ह प्रजाम् इतरयोः प्रजे सजातत्वम् उपैताम्
तस्माद् द्विर् होतव्यं यजुषा चैव मनसा च
याम् एव स ऋद्धिम् आर्ध्नोत् ताम् ऋध्नोति य एवं वेद यश् चैवंविद्वान् अग्निहोत्रं जुहोतीति ब्राह्मणम् ॥ १५ ॥
1.3.16
स्वाहा वै कुतः संभूता
केन प्रकृता
किं वास्या गोत्रम्
कत्य् अक्षरा
कति पदा
कति वर्णा
किं पूर्वावसाना
क्व चित् स्थिता
किम् अधिष्ठाना
ब्रूहि स्वाहाया यद् दैवतं रूपं च
स्वाहा वै सत्यसंभूता
ब्रह्मणा प्रकृता
लामगायनसगोत्रा
द्वे अक्षरे
एकं पदम्
त्रयश् च वर्णाः शुक्लः पद्मः सुवर्ण इति
सर्वच्छन्दसां वेदेषु समासभूतैकोच्छ्वासा वर्णान्ते चत्वारो वेदाः शरीरे [एद्. समासभुत्-, चोर्र्. ড়त्यल्]
षडङ्गान्य् ओषधिवनस्पतयो लोमानि
चक्षुषी सूर्याचन्द्रमसौ
सा स्वाहा सा स्वधा यज्ञेषु वषट्कारभूता प्रयुज्यते
तस्या अग्निर् दैवतम्
ब्राह्मणो रूपम् इति ब्राह्मणम् ॥ १६ ॥
1.3.17
अथापि कारवो ह नाम ऋषयो ऽल्पस्वा आसन्
त इमम् एकगुम् अग्निष्टोमं ददृशुस्
तम् आहरन्
तेनायजन्त
ते स्वर् ययुः
स य इच्छेत् स्वर् इयाम् इति स एतेनैकगुनाग्निष्टोमेन यजेतेति ब्राह्मणम् ॥ १७ ॥
1.3.18
अथातः सवनीयस्य पशोर् विभागं व्याख्यास्यामः
उद्धृत्यावदानानि हनू सजिह्वे प्रस्तोतुः
कण्ठः सकाकुद्रः प्रतिहर्तुः
श्येनं वक्ष उद्गातुः
दक्षिणं पार्श्वं सांसम् अध्वर्योः
सव्यम् उपगातॄणाम्
सव्यो ऽंसः प्रतिप्रस्थातुः
दक्षिणा श्रोणिरथ्यास्त्री ब्रह्मणः
अवरसक्थं ब्राह्मणाच्छंसिनः
ऊरुः पोतुः
सव्या श्रोणिर् होतुः
अवरसक्थं मैत्रावरुणस्य
अरुर् अच्छावाकस्य
दक्षिणा दोर् नेष्टुः
सव्या सदस्यस्य
सदं चानूकं च गृहपतेः
जाघनी पत्न्यास्
तां सा ब्राह्मणेन प्रतिग्राहयति
वनिष्ठुर् हृदयं वृक्कौ चाङ्गुल्यानि दक्षिणो बाहुर् आग्नीध्रस्य
सव्य आत्रेयस्य
दक्षिणौ पादौ गृहपतेर् व्रतप्रदस्य
सव्यौ पादौ गृहपत्न्याः व्रतप्रदायाः
सहैवैनयोर् ओष्ठस्
तं गृहपतिर् एवानुशिनष्टि
मणिकाश् च स्कन्ध्यास् तिस्रश् च कीकसा ग्रावस्तुतस्
तिस्रश् चैव कीकसा अर्धं चापानस्योन्नेतुः
अत ऊर्ध्वं चमसाध्वर्यूणां क्लोमा शमयितुः
शिरः सुब्रह्मण्यस्य
यः श्वःसुत्याम् आह्वयते तस्य चर्म
तथा खलु षट्त्रिंशत् सम्पद्यन्ते
षट्त्रिंशदवदाना गौः
षट्त्रिंशदक्षरा बृहती
बार्हतो वै स्वर्गो लोकः
बृहत्या वै देवाः स्वर्गे लोके यजन्ते
बृहत्या स्वर्गे लोके प्रतितिष्ठन्ति
प्रतितिष्ठन्ति प्रजया पशुभिर् य एवं विभजन्ते
अथ यद् अतो ऽन्यथाशीलिको वा पापकृतो वा हुतादो वान्यजना वा विमथ्नीरन्न् एवम् एवैषां पशुर् विमथतो भवत्य् अस्वर्ग्यः
देवभाजो ह वा इमं श्रुतऋषिः पशोर् विभागं विदां चकार
तम् उ गिरिजाय बाभ्रव्यायान्यो मनुष्येभ्यः प्रोवाच
ततो ऽयम् अर्वाङ् मनुष्येष्व् आसीद् इति ब्राह्मणम् ॥ १८ ॥ [एद्. मनुष्येस्व्]
1.3.19
अथातो दीक्षा
कस्य स्विद् धेतोर् दीक्षित इत्याचक्षते
श्रेष्ठां धियं क्षियतीति
तं वा एतं धीक्षितं सन्तं दीक्षित इत्य् आचक्षते परोक्षेण
परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः
कस्य स्विद् धेतोर् दीक्षितो ऽप्रत्युत्थायिको भवत्य् अनभिवादुकः प्रत्युत्थेयो ऽभिवाद्यः
ये प्रत्युत्थेया अभिवाद्यास् त एनम् आविष्टा भवन्त्य् अथर्वाङ्गिरसस्
तस्य किम् आथर्वणम् इति
यद् आत्मन्य् एव जुह्वति न परस्मिन्
एवं हाथर्वणानाम् ओदनसवानाम् आत्मन्य् एव जुह्वति न परस्मिन् [एद्. अदनसवानाम्, चोर्र्. ড়त्यल्]
अथास्य किम् आङ्गिरसम् इति
यद् आत्मनश् च परेषां च नामानि न गृह्णात्य् एवं ह तस्मिन्नासाद् आत्मनश् चैव परेषां च नामानि न गृह्यन्ते
विचक्षणवतीं वाचं भाषन्ते चनसितवतीम्
विचक्षयन्ति ब्राह्मणं चनसयन्ति प्राजापत्यम्
सैषा व्रतधुग् अथर्वाङ्गिरसस्
तां ह्य् अन्वायत्ताः
कस्य स्विद् धेतोर् दीक्षितो ऽनाश्यन्नो भवति नास्य नाम गृह्णन्ति
अन्नस्थो नामस्थो भवतीत्य् आहुस् तस्य ये ऽन्नम् अदन्ति ते ऽस्य पाप्मानम् अदन्ति
अथास्य ये नाम गृह्णन्ति ते ऽस्य नाम्नः पाप्मानम् अपाघ्नते
अथापि वेदानां गर्भभूतो भवतीत्य् आहुस्
तस्याजातस्याविज्ञातस्याक्रीतसोमस्याभोजनीयं भवतीत्य् आहुः
स दीक्षाणां प्रातर् जायते सोमं क्रीणन्ति तस्य जातस्य विज्ञातस्य क्रीतसोमस्य भोजनीयं भवतीत्य् आहुः
कस्य स्विद् धेतोः संसवा परिजिहीर्षिता भवन्ति
यतरो वीर्यवत्तरो भवति स परस्य यज्ञं परिमुष्णाति
कस्य स्विद् धेतोर् दैवे न ध्यायेत् संस्थिते नाधीयीतेति
संसवस्यैव हेतोर् इति
विद्योतमाने स्तनयत्य् अथो वर्षति वायव्यम् अभिषुण्वन्ति वै देवाः सोमं च भक्षयन्ति
तद् अभिषुण्वन्ति ब्राह्मणाः शुश्रुवांसो ऽनूचानास्
तेषां सर्वरसभक्षाः पितृपितामहा भवन्ति
स दैवे न ध्यायेत् संस्थिते नाधीयीतेति ब्राह्मणम् ॥ १९ ॥
1.3.20
समावृत्ता आचार्या निषेदुस्
तान् ह यज्ञो दीक्षिष्यमाणान् ब्राह्मणरूपं कृत्वोपोदेयाय
इत्थं चेद् वो ऽपसमवत्सुर् हन्त वो ऽहं मध्ये दीक्षा इति [एद्. ऽपसमवत्सुर्, ড়त्यल् प्रोपोसेस् अपसमवतस्थुर्, एद्. दिक्षा]
त ऊचुर् नैव त्वा विद्म न जानीमः
को हीदविज्ञायमानेन सह दीक्षिष्यतीति
यन् न्व् इदं दीक्षिष्यध्वे भूयो न दीक्षिष्यध्वे
अथ वा उ एवं दीक्षयिष्यथ सं वै तर्हि मोहिष्यथ
मोहिष्यति वो यज्ञः सर्वे ते दीक्षयिष्यथेति
अथ वा उ एकं दीक्षयिष्यथ ते वा अहीनर्त्विजो गृहपतयो भविष्यथ
ते तूष्णीं ध्यायन्त आसां चक्रिरे
स होवाच किं नु तूष्णीम् आध्वे
भूयो वः पृच्छामः
पृच्छतेति यन् न्व् इदं दीक्षिष्यध्व उपमे एतस्मिन् संवत्सरे मिथुनं चरिष्यथ नोपैष्यथेति [ড়त्यल् fइन्द्स् उपमय् एतस्मिन् इन् त्wओ BOऋई म्स्स्. अन्द् प्रोपोसेस् तो अच्चेप्त् थिसे रेअदिन्ग्]
धिग् इति होचुः
कथं न दीक्षिता उपैष्यामो नोपैष्यामहा इति
ते वै ब्राह्मणानाम् अभिमन्तारो भविष्यथ
रेतो ह वो य एतस्मिन् संवत्सरे ब्राह्मणास् तद् अभविष्यंस् ते बोधिमता भविष्यथेति
अथ वा उपेष्यामो नोपेष्यामहा इति
ते वै दीक्षिता अवकीर्णिनो भविष्यथ
न ह वै देवयानः पन्था प्रादुर् भविष्यतीति
तिरो वै देवयानः पन्था भविष्यतीति
ते वयं भगवन्तम् एवोपधावाम यथा स्वस्ति संवत्सरस्योदृचं समश्नवामहा इति ब्राह्मणम् ॥ २० ॥
1.3.21
स होवाच द्वादश ह वै वसूनि दीक्षिताद् उत्क्रामन्ति
न ह वै दीक्षितो ऽग्निहोत्रं जुहुयात्
न पौर्णमासेन यज्ञेन यजेत
नामावास्येन
अस्मिन् वसीत
न पितृयज्ञेन यजेत
न तत्र गच्छेद् यत्र मनसा जिगमिषेत्
नेष्ट्या यजेत
न वाचा यथाकथा चिद् अभिभाषेत
न मिथुनं चरेत्
नान्नास्य यथाकामम् उपयुञ्जीत
न पशुबन्धेन यज्ञेन यजेत
न तत्र गच्छेद् यत्र चक्षुषा परापश्येत्
कृष्णाजिनं वसीत
कुरीरं धारयेत्
मुष्टी कुर्यात्
अङ्गुष्ठप्रभृतयस् तिस्र उच्छ्रयेत्
मृगशृङ्गं गृह्णीयात्
तेन कषेत
अथ यस्य दीक्षितस्य वाग् वायता स्यान् मुष्टी वा विसृष्टौ स एतानि जपेत् ॥ २१ ॥
1.3.22
अग्निहोत्रं च मा पौर्णमासश् च यज्ञः पुरस्तात् प्रत्यञ्चम् उभौ कामप्रौ भूत्वा क्षित्या सहाविशताम्
वसतिश् च मामावास्यश् च यज्ञः पश्चात् प्राञ्चम् उभाव् इति समानम्
मनश् च मा पितृयज्ञश् च यज्ञो दक्षिणत उदञ्चम् उभाव् इति समानम्
वाक् च मेष्टिश् चोत्तरतो दक्षिणाञ्चम् उभाव् इति समानम्
रेतश् च मान्नं चेत ऊर्ध्वम् उभाव् इति समानम्
चक्षुश् च मा पशुबन्धश् च यज्ञो ऽमुतो ऽर्वाञ्चम् उभौ कामप्रौ भूत्वाक्षित्या सहाविशताम् इति खलु ह वै दीक्षितो य आत्मनि वसूनि धत्ते न चैवास्य का चनार्तिर् भवति न च यज्ञविष्कन्धम् उपयात्य् अपहन्ति पुनर्मृत्युम्
अपात्येति पुनराजातिम्
कामचारो ऽस्य सर्वेषु लोकेषु भाति य एवं वेद यश् चैवंविद्वान् दीक्षाम् उपैतीति ब्राह्मणम् ॥ २२ ॥
1.3.23
अथ यस्य दीक्षितस्यर्तुमती जाया स्यात् प्रतिस्नावा प्रतिस्नावा सरूपवत्साया गोः पयसि स्थालीपाकं श्रपयित्वाभिघार्योद्वास्योद्धृत्याभिहिंकृत्य गर्भवेदनपुंसवनैः संपातवन्तं कृत्वा तं परैव प्राश्नीयात्
रेतो वा अन्नम्
वृषा हिंकारः
एवं हीश्वरा या दीक्षिताय दीक्षिता जाया पुत्रं लभेतेति
एतेनैव प्रक्रमेण यजेतेति ब्राह्मणम् ॥ २३ ॥

अथर्ववेदे गोपथब्राह्मणपूर्वभागे तृतीयः प्रपाठकः ॥

1.4.1
ओम् अयं वै यज्ञो यो ऽयं पवते
तम् एत ईप्सन्ति ये संवत्सराय दीक्षन्ते
तेषां गृहपतिः प्रथमो दीक्षते
अयं वै लोको गृहपतिः
अस्मिन् वा इदं सर्वं लोके प्रतिष्ठितम्
गृहपता उ एव सर्वे सत्त्रिणः प्रतिष्ठिताः
प्रतिष्ठाया एवैनं तत् प्रतिष्ठित्यै दीक्षन्ते ॥ १ ॥
1.4.2
अथ ब्रह्माणं दीक्षयति चन्द्रमा वै ब्रह्माधिदैवं मनो ऽध्यात्मम्
मनसैव तद् ओषधीः संदधाति
तद् या ओषधीर् वेद स एव ब्रह्मौषधीस्
तद् अनेन लोकेन संदधाति
तस्माद् एताव् अन्तरेणान्यो न दीक्षेत
स यद् एताव् अन्तरेणान्यो दीक्षेतेमं तं लोकम् ओषधिभिर् व्यापादयेत्
उच्छोषुका ह स्युस्
तस्माद् एताव् अन्तरेणान्यो न दीक्षेत ॥ २ ॥
1.4.3
अथोद्गातारं दीक्षयति
आदित्यो वा उद्गाताधिदैवं चक्षुर् अध्यात्मम्
पर्जन्य आदित्यः
पर्जन्याद् अधि वृष्टिर् जायते
वृष्टिर् एव तद् ओषधीः संदधाति
तस्माद् एताव् अन्तरेणान्यो न दीक्षेत
स यद् एताव् अन्तरेणान्यो दीक्षेतेमं तं लोकं वर्षेण व्यापादयेत्
अवर्षुका ह स्युस्
तस्माद् एताव् अन्तरेणान्यो न दीक्षेत ॥ ३ ॥
1.4.4
अथ होतारं दीक्षयति
अग्निर् वै होताधिदैवं वाग् अध्यात्मम्
अन्नं वृष्टिः
वाचं चैव तद् अग्निं चान्नेन संदाधाति
तस्माद् एताव् अन्तरेणान्यो न दीक्षेत
स यद् एताव् अन्तरेणान्यो दीक्षेतेमं तं लोकम् अन्नेन व्यापादयेत्
अशनायुका ह स्युस्
तस्माद् एताव् अन्तरेणान्यो न दीक्षेत ॥ ४ ॥
1.4.5
अथाध्वर्युं प्रतिप्रस्थाता दीक्षयति
वायुर् वा अध्वर्युर् अधिदैवं प्राणो ऽध्यात्मम्
अन्नं वृष्टिः
वायुं चैव तत् प्राणं चान्नेन संदधाति
तस्माद् एताव् अन्तरेणान्यो न दीक्षेत [एद्. एतव्]
स यद् एताव् अन्तरेणान्यो दीक्षेतेमं तं लोकं प्राणेन व्यापादयेत्
प्रमायुका ह स्युस्
तस्माद् एताव् अन्तरेणान्यो न दीक्षेत ॥ ५ ॥
1.4.6
अथ ब्रह्मणे ब्राह्मणाच्छंसिनं दीक्षयति
अथोद्गात्रे प्रस्तोतारं दीक्षयति
अथ होत्रे मैत्रावरुणं दीक्षयति
अथाध्वर्यवे प्रतिप्रस्थातारं नेष्टा दीक्षयति
स हैनम् अनु
एतेषां वै नवानां कॢप्तिम् अन्व् इतरे कल्पन्ते
नव वै प्राणाः
प्राणैर् यज्ञस् तायते
अथ ब्रह्मणे पोतारं दीक्षयति
अथोद्गात्रे प्रतिहर्तारं दीक्षयति
अथ होत्रे ऽच्छावाकं दीक्षयति
अथाध्वर्यवे नेष्टारम् उन्नेता दीक्षयति
स हैनम् अनु
अथ ब्रह्मण आग्नीध्रं दीक्ष्यति
अथोद्गात्रे सुब्रह्मण्यं दीक्षयति
अथ होत्रे ग्रावस्तुतं दीक्षयति
अथ तमन्यः स्नातको वा ब्रह्मचारी वा दीक्षयति
न पूतः पावयेद् इत्य् आहुः
सैषानुपूर्वं दीक्षा
तद् य एवं दीक्षन्ते दीक्षिष्यमाणा एव ते सत्त्रिणां प्रायश्चित्तं न विन्दन्ते
सत्त्रिणां प्रायश्चित्तम् अनु तस्यार्धस्य योगक्षेमः कल्पते यस्मिन्न् अर्धे दीक्षन्त इति ब्राह्मणम् ॥ ६ ॥
1.4.7
श्रद्धया वै देवा दीक्षणीयां निरमिमतादितेः प्रायणीयाम्
सोमात् क्रयम्
विष्णोर् आतिथ्यम्
आदित्यात् प्रवर्ग्यम्
स्वधाया उपसदः
अग्नीषोमाभ्याम् औपवसथ्यम् अहः
प्रातर्यावद्भ्यो देवेभ्यः प्रातरनुवाकम्
वसुभ्यः प्रातःसवनम्
रुद्रेभ्यो माध्यंदिनं सवनम्
आदित्येभ्यस् तृतीयसवनम्
वरुणाद् अवभृथम्
अदितेर् उदयनीयाम्
मित्रावरुणाभ्याम् अनूबन्ध्याम्
त्वष्टुस् त्वाष्ट्रम्
देवीभ्यो देविकाभ्यो देवताहवींषि
कामाद् दशातिरात्रम्
स्वर्गाल् लोकाद् उदवसानीयाम्
तद् वा एतद् अग्निष्टोमस्य जन्म
स य एवम् एतद् अग्निष्टोमस्य जन्म वेदाग्निष्टोमेन सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम् ॥ ७ ॥

1.4.8
अथ यद् दीक्षणीयया यजन्ते श्रद्धाम् एव तद् देवीं देवतां यजन्ते
श्रद्धा देवी देवता भवन्ति
श्रद्धाया देव्याः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यत् प्रायणीयया यजन्ते ऽदितिम् एव तद् देवीं देवतां यजन्ते
अदितिर् देवी देवता भवन्ति
अदित्या देव्याः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यत् क्रयम् उपयन्ति सोमम् एव तद् देवं देवतां यजन्ते
सोमो देवो देवता भवन्ति [ दवता]
सोमस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् आतिथ्यया यजन्ते विष्णुम् एव तद् देवं देवतां यजन्ते
विष्णुर् देवो देवता भवन्ति
विष्णोर् देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यत् प्रवर्ग्यम् उपयन्त्य् आदित्यम् एव तद् देवं देवतां यजन्ते [एद्. दवतां]
आदित्यो देवो देवता भवन्ति
आदित्यस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् उपसदम् उपयन्ति स्वधाम् एव तद् देवीं देवतां यजन्ते
स्वधा देवी देवता भवन्ति
स्वधाया देव्याः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् औपवसथ्यम् अहर् उपयन्त्य् अग्नीषोमाव् एव तद् देवौ देवते यजन्ते
अग्नीषोमौ देवौ देवते भवन्ति
अग्नीषोमयोर् देवतयोः सायुज्यं सलोकतां यन्ति ये एतद् उपयन्ति [एद्. ऽग्नीषोमयोर्]
अथ यत् प्रातरनुवाकम् उपयन्ति प्रातर्याव्ण एव तद् देवान् देवता यजन्ते
प्रातर्यावाणो देवा देवता भवन्ति
प्रातर्याव्णां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यत् प्रातःसवनमुपयन्ति वसून् एव तद् देवान् देवता यजन्ते
वसवो देवा देवता भवन्ति
वसूनां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यन् माध्यंदिनं सवनम् उपयन्ति रुद्रान् एव तद् देवान् देवता यजन्ते
रुद्रा देवा देवता भवन्ति
रुद्राणां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यत्तृतीयसवनम् उपयन्त्य् आदित्यान् एव तद् देवान् देवता यजन्ते
आदित्या देवा देवता भवन्ति
आदित्यानां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् अवभृथम् उपयन्ति वरुणम् एव तद् देवं देवतां यजन्ते
वरुणो देवो देवता भवन्ति
वरुणस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् उदयनीयया यजन्ते ऽदितिम् एव तद् देवीं देवतां यजन्ते
अदितिर् देवी देवता भवन्ति
अदित्या देव्याः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति [एद्. आदित्या]
अथ यद् अनूबन्ध्यया यजन्ते मित्रावरुणाव् एव तद् देवौ देवते यजन्ते
मित्रावरुणौ देवौ देवते भवन्ति
मित्रावरुणयोर् देवयोः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यत् त्वाष्ट्रेण पशुना यजन्ते त्वष्टारम् एव तद् देवं देवतां यजन्ते
त्वष्टा देवो देवता भवन्ति
त्वष्टुर् देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् देविकाहविर्भिश् चरन्ति या एता उपसत्सु भवन्त्य् अग्निः सोमो विष्णुर् इति देव्यो देविका देवता भवन्ति
देवीनां देविकानां देवतानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् दशातिरात्रम् उपयन्ति कामम् एव तद् देवं देवतां यजन्ते
कामो देवो देवता भवन्ति
कामस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् उदवसानीयया यजन्ते स्वर्गम् एव तल् लोकं देवं देवतां यजन्ते
स्वर्गो लोको देवो देवता भवन्ति
स्वर्गस्य लोकस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
तद् वा एतद् अग्निष्टोमस्य जन्म
स य एवम् एतद् अग्निष्टोमस्य जन्म वेदाप्त्वैव तद् अग्निष्टोमं स्वर्गे लोके प्रतितिष्ठति
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद
अग्निष्टोमेन सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम् ॥ ८ ॥

1.4.9
अहोरात्राभ्यां वै देवाः प्रायणीयम् अतिरात्रं निरमिमत
अर्धमासेभ्यश् चतुर्विंशम् अहः
ब्रह्मणो ऽभिप्लवम्
क्षत्रात् पृष्ठ्यम्
अग्नेर् अभिजितम्
अद्भ्यः स्वरसाम्नः
सूर्याद् विषुवन्तम्
उक्ता आवृत्ताः स्वरसामानः
इन्द्राद् विश्वजितम्
उक्तौ पृष्ठ्यभिप्लवौ
मित्रावरुणाभ्यां गवायुषी
विश्वेभ्यो देवेभ्यो दशरात्रम्
दिग्भ्यो दाशरात्रिकं पृष्ठ्यं षडहम्
एभ्यो लोकेभ्यश् छन्दोमं त्र्यहम्
संवत्सराद् दशमम् अहः
प्रजापतेर् महाव्रतम्
स्वर्गाल् लोकाद् उदयनीयम् अतिरात्रम्
तद् वा एतत् संवत्सरस्य जन्म
स य एवम् एतत् संवत्सरस्य जन्म वेद संवत्सरेण सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम् ॥ ९ ॥

1.4.10
अथ यत् प्रायणीयम् अतिरात्रम् उपयन्त्य् अहोरात्राव् एव तद् देवौ देवते यजन्ते
अहोरात्रौ देवौ देवते भवन्ति
अहोरात्रयोर् देवयोः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति [एद्. ऽहोरात्रयोर्]
अथ यच् चतुर्विंशम् अहर् उपयन्त्य् अर्धमासान् एव तद् देवान् देवता यजन्ते
अर्धमासा देवा देवता भवन्ति
अर्धमासानां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् अभिप्लवम् उपयन्ति ब्रह्माणम् एव तद् देवं देवतां यजन्ते
ब्रह्मा देवो देवता भवन्ति
ब्रह्मणो देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यत् पृष्ठ्यम् उपयन्ति क्षत्रम् एव तद् देवं देवतां यजन्ते
क्षत्रं देवो देवता भवन्ति
क्षत्रस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् अभिजितम् उपयन्त्य् अग्निम् एव तद् देवं देवतां यजन्ते
अग्निर् देवो देवता भवन्ति
अग्नेर् देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यत् स्वरसाम्न उपयन्त्य् एव तद् देवीर् देवता यजन्त आपो देव्यो देवता भवन्ति
अपां देवीनां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् विषुवन्तम् उपयन्ति सूर्यम् एव तद् देवं देवतां यजन्ते
सूर्यो देवो देवता भवन्ति
सूर्यस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
उक्ता आवृत्ताः स्वरसामानः
अथ यद् विश्वजित मुपयन्तीन्द्रम् एव तद् देवं देवतां यजन्ते
इन्द्रो देवो देवता भवन्ति
इन्द्रस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
उक्तौ पृष्ठ्याभिप्लवौ
अथ यद् गवायुषी उपयन्ति मित्रावरुणाव् एव तद् देवौ देवते यजन्ते
मित्रावरुणौ देवौ देवते भवन्ति
ब्मित्रावरुणयोर् देवयोः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् दशरात्रम् उपयन्ति विश्वान् एव तद् देवान् देवता यजन्ते
विश्वे देवा देवता भवन्ति
विश्वेषां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् दाशरात्रिकं पृष्ठ्यं षडहम् उपयन्ति दिश एव तद् देवीर् देवता यजन्ते
दिशो देव्यो देवता भवन्ति
दिशां देवीनां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यच् छन्दोमं त्र्यहम् उपयन्तीमान् एव तल् लोकान् देवान् देवता यजन्ते
इमे लोका देवा देवता भवन्ति
एषां लोकानां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् दशमम् अहर् उपयन्ति संवत्सरम् एव तद् देवं देवतां यजन्ते
संवत्सरो देवो देवता भवन्ति [एद्. दवता]
संवत्सरस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यन् महाव्रतम् उपयन्ति प्रजापतिम् एव तद् देवं देवतां यजन्ते
प्रजापतिर् देवो देवता भवन्ति [एद्. दवता]
प्रजापतेर् देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
अथ यद् उदयनीयम् अतिरात्रम् उपयन्ति स्वर्गम् एव तल् लोकं देवं देवतां यजन्ते
स्वर्गो लोको देवो देवता भवन्ति
स्वर्गस्य लोकस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति
तद् वा एतत् संवत्सरस्य जन्म
स य एवम् एतत् संवत्सरस्य जन्म वेदाप्त्वैव तत् संवत्सरं स्वर्गे लोके प्रतितिष्ठति
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद
संवत्सरेण सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम् ॥ १० ॥

1.4.11
स वा एष संवस्तरो ऽधिदैवं चाध्यात्मं च प्रतिष्ठितः
स य एवम् एतत् संवत्सरम् अधिदैवं चाध्यात्मं च प्रतिष्ठितं वेद प्रतितिष्ठति
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद ॥ ११ ॥

1.4.12
स वा एष संवत्सरो बृहतीम् अभिसंपन्नः
द्वाव् अक्षराव् अह्नां षडहौ द्वौ पृष्ठ्याभिप्लवौ
गवायुषी दशरात्रस्
तथा खलु षट्त्रिंशद् संपद्यन्ते
षट्त्रिंशदवदाना गौः
षट्त्रिंशदक्षरा बृहती
बार्हतो वै स्वर्गो लोकः
बृहत्या वै देवाः स्वर्गे लोके यजन्ते
बृहत्या स्वर्गे लोके प्रतितिष्ठति
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद ॥ १२ ॥
1.4.13
स वा एष संवत्सरस् त्रिमहाव्रतः
चतुर्विंशे महाव्रतं विषुवति महाव्रतं महाव्रत एव महाव्रतम्
तं ह स्मैतम् एवंविद्वांसः पूर्वे त्रिमहाव्रतम् उपयन्ति
ते तेजस्विन आसंत् सत्यवादिनः संशितव्रताः
य एनम् अद्य तथोपेयुर् यथामपात्रम् उदक आसिक्ते निर्मृत्येद् एवं यजमाना निर्मृत्येरन्न् उपर्य् उपयन्ति
तथा हास्य सत्येन तपसा व्रतेन चाभिजितम् अवरुद्धं भवति य एवं वेद ॥ १३ ॥

1.4.14
अथ यच् चतुर्विंशम् अहर् उपेत्यानुपेत्य विषुवन्तं महाव्रतम् उपेयात् कथम् अनागूर्त्यै भवतीति
यम् एवामुं पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्ति तेनेति ब्रूयात्
अभिप्लवात् पृष्ठ्यो निर्मितः
पृष्ठ्याद् अभिजित्
अभिजितः स्वरसामानः
स्वरसामभ्यो विषुवान्
विषुवतः स्वरसामानः
स्वरसामभ्यो विश्वजित्
विश्वजितः पृष्ठ्याभिप्लवौ
पृष्ठ्याभिप्लवाभ्यां गवायुषी
गवायुर्भ्यां दशरात्रः
दशरात्रान् महाव्रतम्
महाव्रताद् उदयनीयो ऽतिरात्रः
उदयनीयो ऽतिरात्रः स्वर्गाय लोकायान्नाद्याय प्रतिष्ठित्यै ॥ १४ ॥

1.4.15
अथ यच् चतुर्विंशम् अहर् उपेत्यानुपेत्य विषुवन्तं महाव्रतम् उपेयात् कथम् अनागूर्त्यै भवतीति
यम् एवामुं पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्ति तेनेति ब्रूयात्
अभिप्लवात् पृष्ठ्यो निर्मितः
पृष्ठ्याद् अभिजित्
अभिजितः स्वरसामानः
स्वरसामभ्यो विषुवान् [एद्. विषवान्]
विषुवतः स्वरसमानः
स्वरसामभ्यो विश्वजित्
विश्वजितः पृष्ठ्याभिप्लवौ
पृष्ठ्याभिप्लवाभ्यां गवायुषी
गवायुर्भ्यां दशरात्रः
अथ ह देवेभ्यो महाव्रतं न तस्थे कथम् ऊर्ध्वै स्तोमैर् विषुवन्तम् उपागातावृत्तैर् माम् इति
ते देवा इहसामिवासुर्
उप तं यज्ञक्रतुं जानीमो च ऊर्ध्वस्तोमो येनैतद् अहर् अवाप्नुयामेति
तत एतं द्वादशरात्रम् ऊर्ध्वस्तोमं ददृशुस्
तम् आहरन्
तेनायजन्त
तत एभ्यो ऽतिष्ठन्
तिष्ठति हास्मै महाव्रतम्
प्रतितिष्ठति
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद ॥ १५ ॥

1.4.16
अथ यच् चतुर्विंशम् अहर् उपेत्यानुपेत्य विषुवन्तं महाव्रतम् उपेयात् कथम् अनागूर्त्यै भवतीति
यम् एवामुं पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्ति तेनेति ब्रूयात्
तद् आहुः कति संवत्सरस्य पराञ्च्य् अहानि भवन्ति कत्य् अर्वाञ्चि
तद् यानि सकृत्सकृद् उपयन्ति तानि पराञ्चि
अथ यानि पुनःपुनर् उपयन्ति तान्य् अर्वाञ्चीत्य् एवैनान्य् उपासीरन्
षडहयोर् ह्य् आवृत्तिम् अन्वावर्तन्ते ॥ १६ ॥

1.4.17
अथ यच् चतुर्विंशम् अहर् उपेत्यानुपेत्य विषुवन्तं महाव्रतम् उपेयात् कथम् अनागूर्त्यै भवतीति
यम् एवामुं पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्ति तेनेति ब्रूयात् [एद्. ऽतिरत्रम्]
अभिप्लवं पुरस्ताद् विषुवतः पूर्वम् उपयन्ति
पृष्ट्यम् उपरिष्टात्
पिता वा अभिप्लवः पुत्रः पृष्ठ्यस्
तस्मात् पूर्वे वयसि पुत्राः पितरम् उपजीवन्ति
पृष्ठ्यं पश्चाद् विषुवतः पूर्वम् उपयन्त्य् अभिप्लवम् उपरिष्टात्
पिता वा अभिप्लवः पुत्रः पृष्ठ्यस्
तस्माद् उत्तमे वयसि पुत्रान् पितोपजीवति य एवं वेद
तद् अप्य् एतद् ऋचोक्तं <शतम् इन् नु शरदो अन्ति देवा यत्रा नश् चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर् गन्तोः [ऋV १.८९.९]इति
उप ह वा एनं पूर्वे वयसि पुत्राः पितरम् उपजीवन्त्य् उपोत्तमे वयसि पुत्रान् पितोपजीवति य एवं वेद ॥ १७ ॥

1.4.18

अथ हैष महासुपर्णस्
तस्य यान् पुरस्ताद् विषुवतः षण्मासान् उपयन्ति स दक्षिणः पक्षः
अथ यान् आवृत्तान् उपरिष्टात् षड् उपयन्ति स उत्तरः पक्षः
आत्मा वै संवत्सरस्य विषुवान् अङ्गानि पक्षौ
यत्र वा आत्मा तत् पक्षौ
यत्र वै पक्षौ तद् आत्मा
न वा आत्मा पक्षाव् अतिरिच्यते
नो पक्षाव् आत्मानम् अतिरिच्येते इति
एवम् उ हैव तद् अपरेषां स्विदितमह्नां परेषाम् इत्य् अपरेषां चैव परेषां चेति ब्रूयात् ॥ १८ ॥ [एद्. बूयात्]

1.4.19
तद् आहुर् यद् द्वादश मासाः संवत्सरो ऽथ हैतद् अहर् अवाप्नुयामेति
यद् वैषुवतम् अपरेषां स्विदितमहां परेषाम् इति
अपरेषां चैव परेषां चेति ब्रूयात्
आत्मा वै संवत्सरस्य विषुवान् अङ्गानि मासाः
यत्र वा आत्मा तद् अङ्गानि
यत्राङ्गानि तद् आत्मा
न वा आत्माङ्गान्य् अतिरिच्यते नो ऽङ्गान्य् आत्मानम् अतिरिच्यन्त इति
एवम् उ हैव तद् अपरेषां स्विदितमह्नां परेषाम् इत्य् अपरेषां चैव परेषां चेति ब्रूयात्
स वा एष संवत्सरः ॥ १९ ॥

1.4.20
तद् आहुः कथम् उभयतोज्योतिषो ऽभिप्लवा अन्यतरतोज्योतिः पृष्ठ्य इति
उभयतोज्योतिषो वा इमे लोका अग्निनेत आदित्येनामुत इति
एष ह वा एतेषां ज्योतिर् य एनं प्रमृदीव तपति
देवचक्रे ह वा एते पृष्ठ्यप्रतिष्ठिते पाप्मानं तृंहती परिप्लवेते
तद् य एवंविदुषां दीक्षितानां पापकं कीर्तयद् एते एवास्य तद् देवचक्रे शिरश् छिन्दतः
दशरात्रम् उद्धिः
पृष्ठ्याभिप्लवौ चक्रे
दशरात्रम् उद्धिं पृष्ठ्याभिप्लवौ चक्रे तन्त्रं कुर्वीतेति ह स्माह वास्युस्
तयो स्तोत्राणि च शस्त्राणि च संचारेयत्
यः संचारयेत् तस्माद् इमे पुरुषे प्राणा नाना सन्त एकोदयाच् छरीरम् अधिवसति यन् न संचारयेत् प्रमायुको ह यजमानः स्यात्
एष ह वै प्रमायुको यो ऽन्धो वा बधिरो वा
नवाग्निष्टोमा मासि संपद्यन्ते
नव वै प्राणाः
प्राणैर् यज्ञस् तायते
एकविंशतिर् उक्थ्याः
एक उक्थ्यः षोडशी
अन्नं वा उक्थ्यः
वीर्यं षोडश्य् एव
तथा रूढ्वा स्वर्गं लोकम् अध्यारोहन्ति ॥ २० ॥

1.4.21
अथातो ऽह्नाम् अध्यारोहः
प्रायणीयेनातिरात्रेणोदयनीयम् अतिरात्रम् अध्यारोहन्ति चतुर्विंशेन महाव्रतम्
अभिप्लवेन परम् अभिप्लवम्
पृष्ठ्येन परं पृष्ठ्यम्
अभिजिताभिजितं स्वरसामभिः परान्त् स्वरसामानः
अथैतद् अहर् अवाप्नुयामेति यद् वैषुवतम् अपरेषां स्विदितमह्नां परेषाम् इत्य् अपरेषां चैव परेषां चेति ब्रूयात्
स वा एष संवत्सरः ॥ २१ ॥

1.4.22
अथातो ऽह्नां निवाहः
प्रायणीयो ऽतिरात्रश् चतुर्विंशायाह्ने निवहति
चतुर्विंशम् अहर् अभिप्लवाय
अभिप्लवः पृष्ठ्याय
पृष्ठ्यो ऽभिजिते
अभिजित् स्वरसामभ्यः
स्वरसामानो विषुवते
विषुवान्त् स्वरसामभ्यः
स्वरसामनो विश्वजिते
विश्वजित् पृष्ठ्याभिप्लवाभ्याम्
पृष्ठ्याभिप्लवौ गवायुर्भ्याम्
गवायुषी दशरात्राय
दशरात्रो महाव्रताय
महाव्रतम् उदनीयायातिरात्राय
उदयनीयो ऽतिरात्रः स्वर्गाय लोकायान्नाद्याय प्रतिष्ठित्यै ॥ २२ ॥ [एद्. ऽतिरत्रः]

1.4.23
आदित्याश् च ह वा अङ्गिरसश् च स्वर्गे लोके ऽस्पर्धन्त वयं पूर्वे स्वर् एष्यामो वयं पूर्व इति
त आदित्या लघुभिः सामभिश् चतुर्भि स्तोमैर् द्वाभ्यां पृष्ठ्याभ्यां स्वर्गं लोकम् अभ्यप्लवन्त
यद् अभ्यप्लवन्त तस्माद् अभिप्लवः
अन्वञ्च एवाङ्गिरसो गुरुभिः सामभिः सर्वै स्तोमैः सर्वैः पृष्ठ्यैः स्वर्गं लोकम् अभ्यस्पृशन्त
यद् अभ्यस्पृशन्त तस्मात् स्पृश्यस्
तं वा एतं स्पृश्यं सन्तं पृष्ठ्य इत्य् आचक्षते परोक्षेण
परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः
अभिप्लवात् पृष्ठ्यो निर्मितः
पृष्ठ्याद् अभिजित्
अभिजितः स्वरसामानः
स्वरसामभ्यो विषुवान्
विषुवतः स्वरसामानः
स्वरसामभ्यो विश्वजित्
विश्वजितः पृष्ठ्याभिप्लवौ
पृष्ठ्याभिप्लवाभ्यां गवायुषी
गवायुर्भ्यां दशरात्रस् [एद्. दशरत्रस्]
तानि ह वा एतानि यज्ञारण्यानि यज्ञकृन्तत्राणि
तेषां शतंशतं रथानान्यन्तरं तद् यथारण्यान्य् आरूढा अशनापिपासे ते पाप्मानं तृंहती परिप्लवेते
एवं हैवैते प्रप्लवन्ते ये ऽविद्वांस उपयन्त्यि
अथ ये विद्वांस उपयन्ति तद् यथा प्रवाहात् प्रवाहं स्थलात् स्थलं समात् समं सुखात् सुखम् अभयाद् अभयम् उपसंक्रामन्तीत्य् एवं हैवैते संवत्सरस्योदृचं समश्नवामहा इति ब्राह्मणम् ॥ २३ ॥

1.4.24

प्रेदिर् ह वै कौशाम्बेयः कौसुरुबिन्दुर् उद्दालक आरुणौ ब्रह्मचर्यम् उवास
तम् आचार्यः पप्रच्छ कुमार कति ते पिता संवत्सरस्याहान्य् अमन्यतेति
कति त्वेवेति
दशेति होवाच
दश वा इति होवाच
दशाक्षरा विराड् विराजो यज्ञः
कति त्वेवेति
नवेति होवाच
नव वा इति होवाच
नव वै प्राणाः
प्राणैर् यज्ञस् तायते
कति त्वेवेति
अष्टेति होवाच
अष्टौ वा इति होवाच
अष्टाक्षरा गायत्री
गायत्री यज्ञः
कति त्वेवेति
सप्तेति होवाच
सप्त वा इति होवाच
सप्त छन्दांसि
छन्दोभिर् यज्ञस् तायते
कति त्वेवेति
षड् इति होवाच
षड् वा इति होवाच
षड् वा ऋतवः
ऋतूनाम् आप्त्यै
कति त्वेवेति
पञ्चेति होवाच
पञ्च वा इति होवाच
पञ्चपदा पङ्क्तिः
पाङ्क्तो यज्ञः
कति त्वेवेति
चत्वारीति होवाच
चत्वारि वा इति होवाच
चत्वारो वै वेदाः
वेदैर् यज्ञस् तायते
कति त्वेवेति
त्रीणीति होवाच
त्रीणि वा इति होवाच
त्रिषवणो वै यज्ञः
सवनैर् यज्ञस् तायते
कति त्वेवेति
द्वे इति होवाच
द्वे वा इति होवाच
द्विपाद् वै पुरुषः
द्विप्रतिष्ठः पुरुषः
पुरुषो वै यज्ञः
कति त्वेवेति
एकम् इति होवाच
एकं वा इति होवाच
अहरहर् इत्य् एव सर्वं संवत्सरं ॥ २४ ॥

अथर्ववेदे गोपथब्राह्मणपूर्वभागे चतुर्थः प्रपाठकः ॥

1.5.1
ओम् अभिप्लवः षडहः। षड् ढ्य् अहानि भवन्ति ज्योतिर् गौर् आयुर् गौर् आयुर् ज्योतिः। अभिप्लवः पञ्चाहः। पञ्च ह्य् एवाहानि भवन्ति। यद् ध्य् एव प्रथमम् अहस् तद् उत्तमम् अहः। अभिप्लवश् चतुरहः। चत्वारो हि स्तोमा भवन्ति त्रिवृत् पञ्चदशः सप्तदश एकविंश एव। अभिप्लवस् त्र्यहस्। त्र्यावृत्तिर् ज्योतिर् गौर् आयुः। अभिप्लवो द्व्यहः। द्वे ह्येव सामनी भवतो बृहद्रथन्तरे एव। अभिप्लव एकाह। एकाहस्य हि स्तोमैस् तायते। चतुर्णाम् उक्थ्यानां द्वादश स्तोत्राण्य् अतिरिच्यन्ते। स सप्तमो ऽग्निष्टोमस्। तथा खलु सप्ताग्निष्टोमा मासि संपद्यन्त इति ब्राह्मणम् ॥ १ ॥। ।

1.5.2
अथातो गाधप्रतिष्ठा। समुद्रं वा एते प्रतरन्ति ये संवत्सराय दीक्षन्ते। तेषां तीर्थम् एव प्रायणीयो ऽतिरात्रस्। तीर्थेन हि प्रतरन्ति। तद् यथा समुद्रं तीर्थेन प्रतरेयुस् तादृक् तत्। गाधं प्रतिष्ठा चतुर्विंशम् अहर् यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत्। प्रस्नयो ऽभिप्लवः। प्रस्नेयः पृष्ठ्यः। गाधं प्रतिष्ठाभिजिद् यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत्। नीविदग्ध एव प्रथमः स्वरसामा। जानुदग्धो द्वितीयः। कुल्फदग्धस् तृतीयः। द्वीपः प्रतिष्ठा विषुवान् यथोपकक्षदग्धं वा कण्ठदन्घं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत्। कुल्फदग्ध एव प्रथमो ऽर्वाक् स्वरसामा। जानुदग्धो द्वितीयः। नीविदग्धस् तृतीयः। गाधं प्रतिष्ठा विश्वजिद् यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत्। प्रस्नेयः पृष्ठ्यः प्रस्नेयो ऽभिप्लवः प्रस्नेये गवायुषी प्रस्नेयो दशरात्रः। गाधं प्रतिष्ठा महाव्रतं यथोपकक्षदग्धं वा क्ण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत्। तेषां तीर्थम् एवोदयनीयो ऽतिरात्रस्। तीर्थेन ह्य् उद्यन्ति। तद् यथा समुद्रं तीर्थेनोदेयुस् तादृक् तत्। अथ ह स्माह श्वेतकेतुर् आरुणेयः संवत्सराय न्व् अहं दीक्षा इति [एद्. दिक्षा]। तस्य ह पिता मुखम् उदीक्ष्योवाच वेत्थ नु त्वम् आयुष्मन्त् संवत्सरस्य गाधप्रतिष्ठे इति [एद्. वत्थ, चोर्र्. ড়त्यल्]। वेदेति। एतद् ध स्मैतद् विद्वानाहेति ब्राह्मणम् ॥ २ ॥

1.5.3
पुरुषो वाव संवत्सरस्। तस्य पादाव् एव प्रायणीयो ऽतिरात्रः। पादाभ्यां हि प्रयन्ति तयोर् यच् छुक्लं तद् अह्नो रूपम्। यत् कृष्णं तद् रात्रेः। नखानि नक्षत्राणां रूपम्। लोमान्य् ओषधिवनस्पतीनाम्। ऊरू चतुर्विंशम् अहः। उरो ऽभिप्लवः। पृष्ठं पृष्ठ्यः। शिर एव त्रिवृत् त्रिवृतं ह्य् एव शिरो भवति त्वग् अस्थि मज्जा मस्तिष्कम्। ग्रीवाः पञ्चदशश् चतुर्दश ह्य् एवैतस्यां करूकराणि भवन्ति। वीर्यं पञ्चदशम्। तस्माद् आभिरण्वीभिः सतीभिर् गुरुं भारं हरति। तस्माद् ग्रीवाः पञ्चदशः। उरः सप्तदश.। अष्टाव् अन्ये जत्रवो ऽष्टाव् अन्य उरः सप्तदशम्। तस्माद् उरः सप्तदशः। उदरम् एकविंशः। विंशतिर् ह्य् एवैतस्यान्तर उदरे कुन्तापानि भवन्त्य् उदरम् एकविंशम्। तस्माद् उदरम् एकविंशः। पार्श्वे त्रिणवस्। त्रयोदशान्याः पर्शवस् त्रयोदशान्याः पार्श्वे त्रिणवे। तस्मात् पार्श्वे त्रिणवः। अनूकं त्रयस्त्रिंशः। द्वात्रिंशतिर् ह्य् एवैतस्य पृष्टीकुण्डीलानि भवन्ति। अनूकं त्रयस्त्रिशम्। तस्माद् अनूकं त्रयस्त्रिंशस्। तस्यायम् एव दक्षिणो बाहुर् अभिजित्। तस्येमे दक्षिणे त्रयः प्राणाः स्वरसामानः। आत्मा विषुवान्। तस्येमे सव्ये त्रयः प्राणा अर्वाक् स्वरसामानस्। तस्यायं सव्यो बाहुर् विश्वजित्। उक्तौ पृष्ठ्याभिप्लवौ। याव् अवाञ्चौ प्राणौ ते गवायुषी। अङ्गानि दशरात्रः। मुखं महाव्रतम्। तस्य हस्ताव् एवोदयनीयो ऽतिरात्रः। हस्ताभ्यां ह्य् उद्यन्ति ॥ ३ ॥

1.5.4
पुरुषो वाव संवत्सरस्। तस्य प्राण एव प्रायणीयो ऽतिरात्रः। प्राणेन हि प्रयन्ति। वाग् आरम्भणीयम् अहः। यद्यद् आरभते वाग् आरभते। वाचैव तद् आरभते। तस्यायम् एव दक्षिणः पाणिर् अभिप्लवस्। तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्। गायत्र्या आयतने। तस्माद् इयम् अस्यै ह्रसिष्ठा। तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्। त्रिष्टुभ आयतने। तस्माद् इयम् अस्यै वरिष्ठा। तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्। जगत्या आयतने। तस्माद् इयम् अनयोर् वरिष्ठा। तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्। पङ्क्त्या आयतने। पृथुर् इव वै पङ्क्तिस्। तस्माद् इयम् आसां प्रथिष्ठा। तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्। विराज आयतने। अन्नं वै श्रीः। विराड् अन्नाद्यम्। अन्न्नाद्यस्य श्रियो ऽवरुद्ध्यै। तस्माद् इयम् आसां वरिष्ठा। तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्। अतिछन्दस आयतने। अतिछन्दो वै छन्दसाम् आयतनम्। तस्माद् इदं प्रथिष्ठं फलकम्। तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्। स इतः स इतो ऽभिप्लवः स इत आत्मा पृष्ठ्यः। प्लवतीवाभिप्लवस्। तिष्ठतीव पृष्ठ्यः। प्लवत इव ह्य् एवम् अङ्गैस्। तिष्ठतीवात्मना। तस्यायम् एव दक्षिणः कर्णो ऽभिजित्। तस्य यद् दक्षिणम् अक्ष्णः शुक्लं स प्रथमः स्वरसामा। यत् कृष्णं स द्वितीयः। यन् मण्डलं स तृतीयः। नासिके विषुवान् मण्डलम् एव प्रथमो ऽर्वाक् स्वरसामा। यत् कृष्णं स द्वितीयः। यच् छुक्लं स तृतीयस्। तस्यायं सव्यः कर्णो विश्वजित्। उक्तौ पृष्ठ्याभिप्लवौ। याव् अवाञ्चौ प्राणौ ते गवायुषी। अङ्गानि दशरात्रः। मुखं महाव्रतम्। तस्योदान एवोदयनीयो ऽतिरात्रः। उदानेन ह्य् उद्यन्ति ॥ ४ ॥

1.5.5
पुरुषो वाव संवत्सरः। पुरुष इत्य् एकम्। संवत्सर इत्य् एकम्। अत्र तत् समम्। द्वे अहोरात्रे संवत्सरस्य। द्वाव् इमौ पुरुषे प्राणाव् इति। अत्र तत् समम्। त्रयो वा ऋतवः संवत्सरस्य। त्रय इमे पुरुषे प्राणा इति। अत्र तत् समम्। षड् वा ऋतवः संवत्सरस्य। षड् इमे पुरुषे प्राणा इति। अत्र तत्समम्। सप्त वा ऋतवः संवत्सरस्य। सप्तेमे पुरुषे प्राणा इति। अत्र तत् समम्। द्वादश मासाः संवत्सरस्य। द्वादशेमे पुरुषे प्राणा इति। अत्र तत् समम्। त्रयोदश मासाः संवत्सरस्य। त्रयोदशेमे पुरुषे प्राणा इति। अत्र तत् समम्। चतुर्विंशतिर् अर्धमासाः संवत्सरस्य। चतुर्विंशो ऽयं पुरुषः। विंशत्यङ्गुलिश् चतुरङ्ग इति। अत्र तत् समम्। षड्विंशतिर् अर्धमासाः संवत्सरस्य। षड्विंशो ऽयं पुरुषः। प्रतिष्ठे षड्विंशे इति। अत्र तत् समम्। त्रीणि च ह वै शतानि षष्टिश् च संवत्सरस्याहोरात्राणीति। एतावन्त एव पुरुषस्य प्राणा इति। अत्र तत् समम्। सप्त च ह वै शतानि विंशतिश् च संवत्सरस्याहानि च रात्रयश् चेति। एतावन्त एव पुरुषस्यास्थीनि च मज्जानश् चेति। अत्र तत् समम्। चतुर्दश च ह वै शतानि चत्वारिंशच् च संवत्सरस्यार्धाहाश् चार्धरात्रयश् चेति। एतावन्त एव पुरुषस्य स्थूरा मांसानीति। अत्र तत् समम्। अष्टाविंशतिश् च ह वै शतान्य् अशीतिश् च संवत्सरस्य पादाहाश् च पादरात्रयश् चेति। एतावन्त एव पुरुषस्य स्नावा बन्ध्या इति। अत्र तत् समम्। दश च ह वै सहस्राण्य् अष्टौ च शतानि संवत्सरस्य मुहूर्ता इति। एतावन्त एव पुरुषस्य पेशशमरा इति। अत्र तत् समम्। यावन्तो मुहूर्ताः पञ्चदश कृत्वस् तावन्तः प्राणाः। यावन्तः प्राणाः पञ्चदश कृत्वस् तावन्तो ऽपानाः। यावन्तो ऽपानाः पञ्चदश कृत्वस् तावन्तो व्यानाः। यावन्तो व्यानाः पञ्चदश कृत्वस् तावन्तः समानाः। यावन्तः समानाः पञ्चदश कृत्वस् तावन्त उदानाः। यावन्त उदानाः पञ्चदश कृत्वस् तावन्त्य् एतादीनि। यावन्त्य् एतादीनि तावन्त्य् एतर्हीणि। यावन्त्य् एतर्हीणि तावन्ति स्वेदायनानि। ब्यावन्ति स्वेदायनानि तावन्ति क्षिप्रायणानि। च्यावन्ति क्षिप्रायणानि तावन्तो रोमकूपाः। द्यावन्तो रोमकूपाः पञ्चदश कृत्वस् तावन्तो वर्षतो धारास्। तद् एतत् क्रोशशतिकं परिमाणम्। तद् अप्य् एतद् ऋचोक्तं <श्रमाद् अन्यत्र परिवर्तमानश् चरन् वासीनो यदि वा स्वपन्न् अपि । अहोरात्राभ्यां पुरुषः क्षणेन कति कृत्वः प्राणिति चापानीति च शतं शतानि परिवत्सराणाम् अष्टौ च शतानि संवत्सरस्य मुहूर्तान् यान् वदन्त्य् अहोरात्राभ्यां पुरुषः समेन कति कृत्वः प्राणिति चापानीति च [शब्रा १२.३.२.७-८>इति ब्राह्मणम् ॥ ५ ॥।

1.5.6
संवत्सरस्य समता वेदितव्येति ह स्माह वास्युः। एकम् एव पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्त्य् एकम् उपरिष्टात्। त्रिपञ्चाशतम् एव पुरस्ताद् विषुवतो ऽग्निष्टोमान् उपयन्ति त्रिपञ्चाशतम् उपरिष्टात्। विंशतिशतम् एव पुरस्ताद् विषुवत उक्थ्यान् उपयन्ति विंशतिशतम् उपरिष्टात्। षड् एव पुरस्ताद् विषुवतः षोडशिन उपयन्ति षड् उपरिष्टात्। त्रिंशद् एव पुरस्ताद् विषुवतः षडहान् उपयन्ति त्रिंशद् उपरिष्टात्। सैषा संवत्सरस्य समता। स य एवम् एतां संवत्सरस्य समतां वेद संवत्सरेण सात्मा सलोको भूत्वा देवान् अप्येतीति ब्रह्मणम् ॥ ६ ॥

1.5.7
अथातो यज्ञक्रमाः। अग्न्याधेयम्। अग्न्याधेयात् पूर्णाहुतिः। पूर्णहुतेर् अग्निहोत्रम्। अग्निहोत्राद् दर्शपूर्णमासौ। दर्शपूर्णमासाभ्याम् आग्रयणम्। आग्रयणाच् चातुर्मास्यानि। चातुर्मास्येभ्यः पशुबन्धः। पशुबन्धाद् अग्निष्टोमः। अग्निष्टोमाद् राजसूयः। राजसूयाद् वाजपेयः। वाजपेयाद् अश्वमेधः। अश्वमेधात् पुरुषमेधः। पुरुषमेधात् सर्वमेधः। सर्वमेधाद् दक्षिणावन्तः। दक्षिणावद्भ्यो ऽदक्षिणाः। अदक्षिणाः सहस्रदक्षिणे प्रत्यतिष्ठन्। ते वा एते यज्ञक्रमाः। स य एवम् एतान् यज्ञक्रमान् वेद यज्ञेन सात्मा सलोको भूत्वा देवान् अप्येतीति ब्राह्मणम् ॥ ७ ॥

1.5.8
प्रजापतिर् अकामयतानन्त्यम् अश्नुवीयेति। सो ऽग्नीन् आधाय पूर्णाहुत्यायजत। सो ऽन्तम् एवापश्यत्। सो ऽग्निहोत्रेणेष्ट्वान्तम् एवापश्यत्। स दर्शपूर्णमासाभ्याम् इष्ट्वान्तम् एवापश्यत्। स आग्रयणेनेष्ट्वान्तम् एवापश्यत्। स चातुर्मास्यैर् इष्ट्वान्तम् एवापश्यत्। स पशुबन्धेनेष्ट्वान्तम् एवापश्यत्। सो ऽग्निष्टोमेनेष्ट्वान्तम् एवापश्यत्। स राजसूयेनेष्ट्वा राजेति नामाधत्त। सो ऽन्तम् एवापश्यत्। स वाजपेयेनेष्ट्वा सम्राड् इति नामाधत्त। सो ऽन्तम् एवापश्यत्। सो ऽश्वमेधेनेष्ट्वा स्वराड् इति नामाधत्त। सो ऽन्तम् एवापश्यत्। स पुरुषमेधेनेष्ट्वा विराड् इति नामाधत्त। सो ऽन्तम् एवापश्यत्। स सर्वमेधेनेष्ट्वा सर्वराड् इति नामाधत्त। सो ऽन्तम् एवापश्यत्। सो ऽहीनैर् दक्षिणावद्भिर् इष्ट्वान्तम् एवापश्यत्। सो ऽहीनैर् अदक्षिणावद्भिर् इष्ट्वान्तम् एवापश्यत्। स सत्त्रेणोभयतो ऽतिरात्रेणान्ततो ऽयजत। वाचं ह वै होत्रे प्रायच्छत्। प्राणम् अध्वर्यवे चक्षुर् उद्गात्रे मनो ब्रह्मणे ऽङ्गानि होत्रकेभ्य आत्मानं सदस्येभ्यः। एवम् आनन्त्यम् आत्मानं दत्त्वानन्त्यम् आश्नुत। तद् या दक्षिणा आनयत् ताभिर् आत्मानं निष्क्रीणीय। तस्माद् एतेन ज्योतिष्टोमेनाग्निष्टोमेनात्मनिष्क्रयणेन सहस्रदक्षिणेन पृष्ठशमनीयेन त्वरेत। यो ह्य् अनिष्ट्वा पृष्ठशमनीयेन प्रैत्यात्मानं सो ऽनिष्क्रीय प्रैतीति ब्राह्मणम् ॥ ८ ॥

1.5.9
यद् वै संवत्सराय संवत्सरसदो दीक्षन्ते कथम् एषाम् अग्निहोत्रम् अनन्तरितं भवति। व्रतेतेति ब्रूयात्। कथम् एषां दर्शो ऽनन्तरितो भवति। दध्ना च पुरोडाशेन चेति ब्रूयात्। कथम् एषां पौर्णमासम् अनन्तरितं भवति। आज्येन च पुरोडाशेन चेति ब्रूयात्। कथम् एषाम् आग्रयणम् अनन्तरितं भवति। सौम्येन चरुणेति ब्रूयात्। कथम् एषां चातुर्मास्यान्य् अनन्तरितानि भवन्ति। पयस्ययेति ब्रूयात्। कथम् एषां पशुबन्धो ऽनन्तरितो भवति। पशुना च पुरोडाशेन चेति ब्रूयात्। कथम् एषां सौम्यो ऽध्वरो ऽनन्तरितो भवति। ग्रहैर् इति ब्रूयात्। कथम् एषां गृहमेधो ऽनन्तरितो भवति। धानाकरम्भैर् इति ब्रूयात्। कथम् एषां पितृयज्ञो ऽनन्तरितो भवति। औपासनैर् इति ब्रूयात्। कथम् एषां मिथुनम् अनन्तरितं भवति। हिंकारेनेति ब्रूयात्। सैषा संवत्सरे यज्ञक्रतूनाम् अपीतिः। स य एवम् एतां संवत्सरे यज्ञक्रतूनाम् अपीतिं वेद यज्ञेन सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम् ॥ ९ ॥।

1.5.10
देवा ह वै सहस्रसंवत्सराय दिदीक्षिरे। तेषां पञ्च शतानि संवत्सराणां पर्युपेतान्य् आसन्न् अथेदं सर्व शश्राम ये स्तोमा यानि पृष्ठानि यानि शस्त्राणि। ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा। को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति। तद् अयातयाम मध्ये यज्ञस्यापश्यन्। तेनायातयाम्ना या वेदे व्यष्टिर् आसीत् तां पञ्चस्व् अपश्यन्न् ऋचि यजुषि साम्नि शान्ते ऽथ घोरे। ता वा एताः पञ्च व्याहृतयो भवन्त्य् ओ श्रावयास्तु श्रौषड् यज ये यजामहे वौषड् इति। ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा [एद्. दवा]। को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति। तत एतं तापश्चितं सहस्रसंवत्सरस्याञ्जस्यम् अपश्यन्। ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि। स खलु द्वादश मासान् दीक्षाभिर् एति द्वादशमासान् उपसद्भिर् द्वाशमासांत् सुत्याभिः। अथ यद् द्वादश मासान् दीक्षाभिर् एति द्वादशमासान् उपसद्भिस् तेनैताव् अग्न्यर्काव् आप्नोति। अथ यद् द्वादश मासांत् सुत्याभिस् तेनेदं महदुक्थम् अवाप्नोति। ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा। को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति। तत एतं संवत्सरंम् तापश्चितस्याञ्जस्यम् अपश्यन्। ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि। ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा। को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति। तत एतं द्वादशाहं संवत्सरस्याञ्जस्यम् अपश्यन्। ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि। स खलु द्वादशाहं दीक्षाभिर् एति द्वादशाहम् उपसद्भिर् द्वादशाहं सुत्याभिः। अथ यद् द्वादशाहं दीक्षाभिर् एति द्वादशाहम् उपसद्भिस् तेनैताव् अग्न्यर्काव् आप्नोति। अथ यद् द्वादशाहं सुत्याभिस् तेनेदं महदुक्थम् अवाप्नोति। ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा [एद्. इहसमिवासुरुप]। को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति। ब्तत एतं पृष्ठ्यं षडहं द्वादशाहस्याञ्जस्यम् अपश्यन्। ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि। ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा। को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति। तत एतं विश्वजितं पृष्ठ्यषडहस्याञ्जस्यम् अपश्यन्। ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि। ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा। को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति। स वा एष विश्वजिद् यः सहस्रसंवत्सरस्य प्रतिमा। एष ह प्रजानां प्रजापतिर् यद् विश्वजिद् इति ब्राह्मणम् ॥ १० ॥।

1.5.11
पुरुषं ह वै नारायणं प्रजापतिर् उवाच यजस्य यजस्वेति। स होवाच यजस्व यजस्वेत्य् एवं हात्थ मा। त्रिर् अपि क्षत मे वसवः प्रातःसवनेनागू रुद्रा माध्यंदिनसवनेनादित्यास् तृतीयसवनेन। यज्ञवास्तुन्य् एव पर्यशिषो यज्ञवास्तुम् इत्य् एवम् आशिषो ऽहं वा एतद् वेद यज्ञे वसवः प्रातःसवनेनागू रुद्रा माध्यंदिनसवनेनादित्यास् तृतीयसवनेन यज्ञवास्तुन्य् एव पर्यशिषो यज्ञवास्तुम् इत्य् एवम् आशिषो विद्वांसो नूनं त्वा याजयेयुः। एते ह वा अविद्वांसो यत्रानृग्विद् धोता भवत्य् अयजुर्विद् अध्वर्युर् असामविद् उद्गाताभृग्वङ्गिरोविद् ब्रह्मा। यजस्वैव हन्त तु ते तद् वक्ष्यामि। यथा सूत्रे मणिर् इव सूत्रम् एतान्य् उक्थाहानि भवन्ति सूत्रम् इव वा मणाव् इति। तस्माद् य एव सर्ववित् स्यात् तं ब्रह्माणं कुर्वीत। एष ह वै विद्वांत् सर्वविद् ब्रह्मा यद् भृग्वङ्गिरोवित्। एते ह वा अस्य सर्वस्य शमयितारः पालयितारस्। तमाद् ब्रह्मा स्तुते बहिःपवमाने वाचयति ॥ ११ ॥

1.5.12
श्येनो ऽसि गायत्रछन्दा। अनु त्वारभे। स्वस्ति मा संपारयेति। स यद् आह श्येनो ऽसीति सोमं वा एतद् आह। एष ह वा अग्निर् भूत्वास्मिंल् लोके संशाययति। तद् यत् संशाययति तस्माच् छेयनस्। तच् छेयनस्य श्येनत्वम्। स यद् आह गायत्रछन्दा अनुत्वारभ इति गायत्रेण छन्दसा वसुर्भिर् देवैः प्रातःसवने ऽस्मिंल् लोके ऽग्निं सन्तम् अन्वारभते। स यद् आह स्वस्ति मा संपारयेति गायत्रेणैव छन्दसा वसुभिर् देवैः प्रातःसवने ऽस्मिंल् लोके ऽग्निना देवेन स्वस्ति मा संपारयेति गायत्रेणैवैनं तच् छन्दसा वसुभिर् देवैः प्रातःसवने ऽस्मिंल् लोके ऽग्निना देवेन स्वस्ति संपद्यते य एवं वेद।
1.5.13
अथ माध्यंदिने पवमाने वाचयति सम्राड् असि त्रिष्टुप्छन्दा। अनु त्वारभे। स्वस्ति मा संपारयेति। स यद् आह सम्राड् असीति सोमं वा एतद् आह। एष ह वै वायुर्भूत्वान्तरिक्षलोके सम्राजति। तद् यत् सम्राजति तस्मात् सम्राट्।। तत् सम्राजस्य सम्राट्त्वम्। स यद् आह त्रिष्टुप्छन्दा अनु त्वारभ इति त्रैष्टुभेन छन्दसा रुद्रैर् देवैर् माध्यंदिने सवने ऽन्तरिक्षलोके वायुं सन्तम् अन्वारभते। स यद् आह स्वस्ति मा संपारयेति त्रैष्टुभेनैव छन्दसा रुद्रैर् देवैर् माध्यंदिने सवने अन्तरिक्षलोके वायुना देवेन स्वस्ति मा संपारयेति। त्रैष्टुभेनैवैनं तच् छन्दसा रुद्रैर् देवैर् माध्यंदिने सवने अन्तरिक्षलोके वायुना देवेन स्वस्ति संपद्यते य एवं वेद ॥ १३ ॥
1.5.14
अथार्भवे पवमाने वाचयति स्वरो ऽसि गयो ऽसि जगच्छन्दा। अनु त्वारभे। स्वस्ति मा संपारयेति। स यद् आह स्वरो ऽसीति सोमं वा एतद् आह। एष ह वै सूर्यो भूत्वामुष्मिंल् लोके स्वरति। तद् यत् स्वरति तस्मात् स्वरस्। तत् स्वरस्य स्वरत्वम्। स यद् आह गयो ऽसीति सोमं वा एतद् आह। एष ह वै चन्द्रमा भूत्वा सर्वांल् लोकान् गच्छति। तद् यद् गच्छति तस्माद् गयस्। तद् गयस्य गयत्वम्। स यद् आह जगच्छन्दा अनु त्वारभ इति जागतेन छन्दसादित्यैर् देवैस् तृतीयसवने ऽमुष्मिंल् लोके सूर्यं सन्तम् अन्वारभते। स यद् आह स्वस्ति मा संपारयेति जागतेनैव छन्दसादित्यैर् देवैस् तृतीयसवने ऽमुष्मिंल् लोके सूर्येण देवेन स्वस्ति मा संपारयेति जागतेनैवैनं तच् छन्दसादित्यैर् देवैस् तृतीयसवने ऽमुष्मिंल् लोके सूर्येण देवेन स्वस्ति संपद्यते य एवं वेद ॥ १४ ॥।
1.5.15
अथ संस्थिते संस्थिते सवने वाचयति मयि भर्गो मयि महो मयि यशो मयि सर्वम् इति। पृथिव्य् एव भर्गो ऽन्तरिक्ष एव महो द्यौर् एव यशो ऽप एव सर्वम्। अग्निर् एव भर्गो वायुर् एव मह आदित्य एव यशश् चन्द्रमा एव सर्वम् [एद्. आदित्या]। वसव एव भर्गो रुद्रा एव मह आदित्या एव यशो विश्वेदेवा एव सर्वम्। गायत्र्य् एव भर्गस् त्रिष्टुब् एव महो जगत्य् एव यशो ऽनुष्टुब् एव सर्वम्। प्राच्य् एव भर्गः प्रतीच्य् एव मह उदीच्य् एव यशो दक्षिणैव सर्वम्। वसन्त एव भर्गो ग्रीष्म एव महो वर्षा एव यशः शरद् एव सर्वम्। त्रिवृद् एव भर्गः पञ्चदश एव महः सप्तदश एव यश एकविंश एव सर्वम्। ऋग्वेद एव भर्गो यजुर्वेद एव महः सामवेद एव यशो ब्रह्मवेद एव सर्वम्। होतैव भर्गो ऽध्वर्युर् एव मह उद्गातैव यशो ब्रह्मैव सर्वम्। वाग् एव भर्गः प्राण एव महश् चक्षुर् एव यशो मन एव सर्वम् ॥ १५ ॥।
1.5.16
स यद् आह मयि भर्ग इति पृथिवीम् एवैतल् लोकानाम् अहाग्निं देवानां वसून् देवान् देवगणानां गायत्रं छन्दसां प्राचीं दिशां वसन्तम् ऋतूनां त्रिवृतं स्तोमानाम् ऋग्वेदं वेदानां हौत्रं होत्रकाणां वाचम् इन्द्रियाणाम् ॥ १६ ॥।
1.5.17
स यद् आह मयि मह इत्य् अन्तरिक्षम् एवैतल् लोकानाम् आह वायुं देवानां रुद्रान् देवान् देवगणानां त्रैष्टुभं छन्दसां प्रतीचीं दिशां ग्रीष्मम् ऋतूनां पञ्चदशं स्तोमानां यजुर्वेदं वेदानाम् आध्वर्यवं होत्रकाणां प्राणम् इन्द्रियाणाम् ॥ १७ ॥
1.5.18
स यद् आह मयि यश इति दिवम् एवैतल् लोकानाम् आहादित्यं देवानाम् आदित्यान् देवगणानां जागतं छन्दसाम् उदीचीं दिशां वर्षा ऋतूनां सप्तदशं स्तोमानां सामवेदं वेदानाम् औद्गात्रं होत्रकाणां चक्षुर् इन्द्रियाणाम् ॥ १७ ॥
1.5.19
स यद् आह मयि सर्वम् इत्य् अप एवैतल् लोकानाम् आह चन्द्रमसं देवानां विश्वान् देवान् देवगणानाम् आनुष्टुभं छन्दसां दक्षिणां दिशां शरदम् ऋतूनाम् एकविंशं स्तोमानां ब्रह्मवेदं वेदानां ब्रह्मत्वं होत्रकाणां मन इन्द्रियाणाम् ॥ १८ ॥

1.5.20
स वा एष दशधा चतुः संपद्यते। दश च ह वै चतुर् विराजो ऽक्षराणि। तं गर्भा उपजीवन्ति। श्रीर् वै विराड्। यशो ऽन्नाद्यम्। श्रियम् एव तद् विराजं यशस्य् अन्नाद्यो प्रतिष्ठापयति। प्रतिष्ठन्तीर् इदं सर्वम् अनुप्रतिष्ठति। प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद ॥ २० ॥

1.5.21
अनर्वाणं ह वै देवं दध्यङ्ङ् आङ्गिरस उपसीदं ह यज्ञस्य श्नुष्टिं समश्नवामह इति। स दध्यङ्ङ् आङ्गिरसो ऽब्रवीद् यो वै सप्तदशं प्रजापतिं यज्ञे ऽन्वितं वेद नास्य यज्ञो रिष्यते। न यज्ञपतिं रिष्यन्त इति। ता वा एताः पञ्च व्याहृतयो भवन्त्य् ओ श्रावयास्तु श्रौषड् यज ये यजामहे वौषड् इति। स दध्यङ्ङ् आङ्गिरसो ऽब्रवीन् न वयं विद्मो यदि ब्राह्मणाः स्मो यद्य् अब्राह्मणाः स्मो यदि तस्यर्षेः स्मो वान्यस्येति। अनर्वाणश् च ह वा ऋतावन्तश् च पितरः स्वधायाम् आवृषायन्त वयं वदामहै वयं वदामहा इति। सो ऽयात् स्वायंभुवो वा ऋतावन्तो मदयातां न वयं वदामहा इति। तस्मात् प्रवरे प्रव्रियमाणे वाचयेद् देवाः पितर इति तिस्रः। य एति संयजति स भवति यश् च न ब्रूते यश् च न ब्रूत इति ब्राह्मणम् ॥ २१ ॥।

1.5.22
सावित्रं ह स्मैतं पूर्वे पुरस्तात् पशुम् आलभन्त इत्य् एतर्हि प्राजापत्यम्। यो ह्य् एव सविता स प्रजापतिर् इति वदन्तस्। तस्माद् उ समुप्याग्नींस् तेन यजेरन्। ते समानधिष्ण्या एव स्युर् ओखासंभरणीयायाः। उखासंभरणीयायां विन्युपयाग्नींस् तया यजेरन्। ते नानाधिष्ण्या एव स्युर् आ दीक्षणीयायाः। दीक्षणीयायां संन्युप्याग्नींस् तया यजेरन्। ते समानधिष्ण्या एव स्युर् ओदवसानीयायाः। उदवसानीयायां विन्युप्याग्नींस् तया यजेरन्। ते नानाधिष्ण्या एव स्युः। अथ यदि यजमानस्योपतपेत् पार्श्वतो ऽग्नीन् आधाय तावद् आसीत यावद् अगदः स्यात्। यदि प्रेयात् स्वैर् एव तम् अग्निभिर् दहेत्। अशवाग्निभिर् इतरे यजमाना आसत इति वदन्तस्। तस्य तद् एव ब्राह्मणं यद् अदः पुरःसवने। पितृमेध आशिषो व्याख्याताः ॥ २२ ॥।

1.5.23
सायंप्रातर्होमौ स्थालीपाको नवश् च यः । बलिश् च पितृयज्ञश् चाष्टका सप्तमः पशुः ॥ इत्य् एते पाकयज्ञाः। अग्न्याधेयम् अग्निहोत्रं पौर्णमास्यमावास्ये । नवेष्टिश् चातुर्मास्यानि पशुबन्धो ऽत्र सप्तमः ॥ इत्य् एते हविर्यज्ञाः। अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडशिमांस् ततः । वाजपेयो ऽतिरात्रश् चाप्तोर्यामात्र सप्तमः ॥ इत्य् एते सुत्याः। के स्विद् देवा प्रवोवाजाः के स्विद् देवा अभिद्यवः । के स्विद् देवा हविष्मन्तः किं स्विज् जिगाति सुम्नयुः ॥। ऋतव एव प्रवोवाजा मासा देवा अभिद्यवः । अर्धमासा हविष्मन्तस् तज् जिगाति सुन्मयुः ॥। कति स्विद् रात्रयः कत्य् अहानि कति स्तोत्राणि कति शस्त्राण्य् अस्य । कति स्वित् सवनाः संवत्सरस्य स्तोत्रियाः पदाक्षराणि कत्य् अस्य ॥। [द्वाव् अतिरात्रौ षट् शतम् अग्निष्टोमा द्वे विंशतिशते उक्थ्यानां । द्वादश षोडशिनः षष्टिः षडहा वैषुवतं च [Vऐत्ष् ३१.१५]] ॥ अहान्यस्य विंशतिशतानि त्रीण्य् अहश् चैकं तावद् अस्य । संवत्सरस्य सवनाः सहस्रम् असीति त्रीणि च संस्तुतस्य ॥। षट्षष्टिश् च द्वे च शते भवत स्तुतशस्त्राणाम् अयुतं चैकम् अस्य । स्तोत्रियाश् च नवतिसहस्रा द्वे नियुते नवतिश् चाति षट् च ॥। अष्टौ शतान्य् अयुतानि त्रिंशच् चतुर्नवतिश् च पदान्य् अस्य । संवत्सरस्य कविभिर् मितस्यैतावती मध्यमा देवमात्रा ॥। अयुतम् एकं प्रयुतानि त्रिंशद् द्वे नियुते तथा ह्य् अनुसृष्टाः । अष्टौ शतानि नव चाक्षराण्य् एतावान् आत्मा परमः प्रजापतेः ॥। आद्यं वषट्कारः प्रदानान्तम् एतम् अग्निष्टोमे पर्वशः साधु कॢप्तम् । सौभेषजं छन्द ईप्सन् यद् अग्नौ चतुःशतं बहुधा हूयते यत् ॥। प्रातःसवन स्तुत एकविंशो गायत्रस्तोममित एक एव । माध्यंदिनः सप्तदशेन कॢप्तस् त्रयस्त्रिंशेन सवनं तृतीयम् ॥ २३ ॥।

1.5.24
श्रद्धायां रेतस् तपसा तपस्वी वैश्वानरः सिषिचे ऽपत्यम् ईप्सन् । ततो जज्ञे लोकजित् सोमजम्भा ऋषेर् ऋषिर् अङ्गिराः संनभूव ॥। ऋषेर् यज्ञस्य चतुर्विधस्य श्रद्धां यः श्रेयसीं लोकम् अमुं जिगाय । यस्मै वेदाः प्रसृताः सोमबिन्दु युक्ता वहन्ति सुकृताम् उ लोकम् ॥। ऋचो ऽस्य भागांश् चतुरो वहन्त्य् उक्थशस्त्रैः प्रमुदो मोदमानाः । ग्रहैर् हविर्भिश् च कृताकृतश् च यजूंषि भागांश् चतुरो वहन्ति ॥। औदुम्बर्यां सामघोषेण तावत् सविष्टुतिभिश् च स्तोमैः छन्दसा । सामानि भागांश् चतुरो वहन्ति गीत्या स्तोमेन सह प्रस्तावेन च ॥। प्रायश्चित्तैर् भेषजैः संस्तुवन्तो ऽथर्वाणो ऽङ्गिरसश् च शान्ताः । ब्रह्मा ब्रह्मत्वेन प्रमुदो मोदमाना असंसृष्टान् भागांश् चतुरो वहन्ति ॥। यो ब्रह्मवित् सो ऽभिकरो ऽस्तु वः शिवो धिया धीरो रक्षतु धर्मम् एतम् । मा वः प्रमत्ताम् अमृताच् च यज्ञात् कर्माच् च येनान् अङ्गिरसो ऽपियासीत् ॥। मायुं दशं मारुशस्ताः प्रमेष्टा मा मे भूर् युक्ता विदहाथ लोकान् । दिव्यं भयं रक्षत धर्मम् उद्यतं यज्ञं कालाश स्तुतिगोपनायनम् ॥। होता च मैत्रावरुणश् च पादम् अच्छावाकः सह ग्रावस्तुतैकम् । ऋग्भि स्तुवन्तो ऽहरहः पृथिव्या अग्निं पादं ब्रह्मणा धारयन्ति ॥। अध्वर्युः प्रतिप्रस्थाता नेष्टोन्नेता निहितं पादम् एकम् । सम् अन्तरिक्षं यजुषा स्तुवन्तो वायुं पादं ब्रह्मणा धारयन्ति ॥। साम्नोद्गाता छादयन्न् अप्रमत्त औदुम्बर्यां स्तोभदेयः सगद्गदः । विद्वान् प्रस्तोता विदहाथ सुष्टुतिं सुब्रह्मण्यः प्रतिहर्ताथ यज्ञे ॥। साम्ना दिव्य् एकं निहितं स्तुवन्तः सूर्यं पादं ब्रह्मणा धारयन्ति । ब्रह्मा हैकं ब्राह्मणाच्छंसिनः सह पोताग्नीध्रो निहितं पादम् एकम् ॥। अथर्वभिर् अङ्गिरोभिश् च गुप्तो ऽप्सु चन्द्रं पादं ब्रह्मणा धारयन्ति । षोडशिकं होत्रका अभिष्टुवन्ति वेदेषु युक्ताः प्रपृथक् चतुर्धा ॥। मनीषिणो दीक्षिताः श्रद्दधाना होतारो गुप्ता अभिवहन्ति यज्ञम् । दक्षिणतो ब्रह्मणस्यों जनद् इत्य् एतां व्याहृतिं जपन् ॥। सप्तदशं सदस्यं तं कीर्तयन्ति पुरा विदुः । अष्टादशी दीक्षिता दीक्षितानां यज्ञे पत्नी श्रद्दधानेह युक्ता ॥। एकोनविंशः शमिता बभूव विंशो यज्ञे गृहपतिर् एव सुन्वन् । एकविंशतिर् एवैषां संस्थायाम् अङ्गिरो वह ॥। वेदैर् अभिष्टुतो लोको नानावेशापराजितः । ॥ २४ ॥

1.5.25

सप्त सुत्याः सप्त च पाकयज्ञाः हविर्यज्ञाः सप्त तथैकविंशतिः । सर्वे ते यज्ञा अङ्गिरसो ऽपियन्ति नूतना यान् ऋषयो सृजन्ति ये च सृष्टाः पुराणैः ॥। एतेषु वेदेष्व् अपि चैकम् एवापव्रजम् ऋत्विजां संभरन्ति । कृट्स्तृपात् सचते ताम् अशस्तिं विष्कन्धम् एनं विसृतं प्रजासु ॥। निवर्तन्ते दक्षिणा नीयमानाः सुते सोमे वितते यज्ञतन्त्रे । मोघाशिषो यन्त्य् अनिवर्तमाना अनिष्टयज्ञा न तरन्ति लोकान् ॥। द्वादशवर्षं ब्रह्मचर्यं पृथग् वेदेषु तत् स्मृतम् । एवं व्यवस्थिता वेदाः सर्व एव स्वकर्मसु ॥। सन्ति चैषां समानाः मन्त्राः कल्पाश् च ब्राह्मणानि च । व्यवस्थानं तु तत् सर्वं पृथग्वेदेषु तत् स्मृतम् ॥। ऋग्वेदस्य पृथिवी स्थानम् अन्तरिक्षस्थानो ऽध्वरः । द्यौ स्थानं सामवेदस्यापो भृग्वङ्गिरसां स्मृतम् ॥। अग्निर् देवत ऋग्वेदस्य यजुर्वेदो वायुदेवतः । आदित्यः सामवेदस्य चन्द्रमा वैद्युतश् च भृग्वङ्गिरसाम् ॥। त्रिवृत्स्तोम ऋग्वेदस्य यजूंषि पञ्चदशेन सह जज्ञिरे । सप्तदशेन सामवेद एकविंशो ब्रह्मसंमितः ॥। वाग् अध्यात्मम् ऋग्वेदस्य यजुषां प्राण उच्यते । चक्षुषी सामवेदस्य मनो भृग्वङ्गिरसां स्मृतम् ॥। ऋग्भिः सह गायत्रं जागतम् आहुर् यजूंषि त्रैष्टुभेन सह जज्ञिरे । उष्णिक्ककुभ्यां भृग्वङ्गिरसो जगत्या सामानि कवयो वदन्ति ॥। ऋग्भिः पृथिवीं यजुषान्तरिक्षं साम्ना दिवं लोकजित् सोमजम्भाः । अथर्वभिर् अङ्गिरोभिश् च गुप्तो यज्ञश् चतुष्पाद् दिवम् उद्वहेत ॥। ऋग्भिः सुशस्तो यजुषा परिष्कृतः सविष्टुतः सामजित् सोमजम्भाः । अथर्वभिर् अङ्गिरोभिश् च गुप्तो यज्ञश् चतुष्पाद् दिवम् आरुरोह ॥। ऋचो विद्वान् पृथिवीं वेद संप्रति यजूंषि विद्वान् बृहद् अन्तरिक्षम् । दिवं वेद सामगो यो विपश्चित् सर्वान् लोकान् यद् भृग्वङ्गिरोवित् ॥। यांश् च ग्रामे यांश् चारण्ये जपन्ति मन्त्रान् नार्थान् बहुधा जनासः । सर्वे ते यज्ञा अङ्गिरसो ऽपियन्ति नूतना सा हि गतिर् ब्रह्मणो यावरार्ध्या ॥। त्रिविष्टपं त्रिदिवं नाकम् उत्तमं तम् एतया त्रय्या विद्ययैति । अत उत्तरे ब्रह्मलोका महान्तो ऽथर्वणाम् अङ्गिरसां च सा गतिः ॥ अथर्वणाम् अङ्गिरसां च सा गतिर् इति ब्राह्मणम् ॥ २५ ॥।

अथर्ववेदे गोपथब्राह्मणपूर्वभागे पञ्चमः प्रपाठकः ॥। ।

इति पूर्वब्राह्मणं समाप्तम्। ।

1.5.1
ओम् अभिप्लवः षडहः
षड्ढ्य् अहानि भवन्ति ज्योतिर् गौर् आयुर् गौर् आयुर् ज्योतिः
अभिप्लवः पञ्चाहः
पञ्च ह्य् एवाहानि भवन्ति
यद् ध्य् एव प्रथमम् अहस् तद् उत्तमम् अहः
अभिप्लवश् चतुरहः
चत्वारो हि स्तोमा भवन्ति त्रिवृत् पञ्चदशः सप्तदश एकविंश एव
अभिप्लवस् त्र्यहस्
त्र्यावृत्तिर् ज्योतिर् गौर् आयुः
अभिप्लवो द्व्यहः
द्वे ह्येव सामनी भवतो बृहद्रथन्तरे एव
अभिप्लव एकाह
एकाहस्य हि स्तोमैस् तायते
चतुर्णाम् उक्थ्यानां द्वादश स्तोत्राण्य् अतिरिच्यन्ते
स सप्तमो ऽग्निष्टोमस्
तथा खलु सप्ताग्निष्टोमा मासि संपद्यन्त इति ब्राह्मणम् ॥ १ ॥

1.5.2
अथातो गाधप्रतिष्ठा
समुद्रं वा एते प्रतरन्ति ये संवत्सराय दीक्षन्ते
तेषां तीर्थम् एव प्रायणीयो ऽतिरात्रस्
तीर्थेन हि प्रतरन्ति
तद् यथा समुद्रं तीर्थेन प्रतरेयुस् तादृक् तत्
गाधं प्रतिष्ठा चतुर्विंशम् अहर् यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत्
प्रस्नयो ऽभिप्लवः
प्रस्नेयः पृष्ठ्यः
गाधं प्रतिष्ठाभिजिद् यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत्
नीविदग्ध एव प्रथमः स्वरसामा
जानुदग्धो द्वितीयः
कुल्फदग्धस् तृतीयः
द्वीपः प्रतिष्ठा विषुवान् यथोपकक्षदग्धं वा कण्ठदन्घं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत्
कुल्फदग्ध एव प्रथमो ऽर्वाक् स्वरसामा
जानुदग्धो द्वितीयः
नीविदग्धस् तृतीयः
गाधं प्रतिष्ठा विश्वजिद् यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत्
प्रस्नेयः पृष्ठ्यः प्रस्नेयो ऽभिप्लवः प्रस्नेये गवायुषी प्रस्नेयो दशरात्रः
गाधं प्रतिष्ठा महाव्रतं यथोपकक्षदग्धं वा क्ण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत्
तेषां तीर्थम् एवोदयनीयो ऽतिरात्रस्
तीर्थेन ह्य् उद्यन्ति
तद् यथा समुद्रं तीर्थेनोदेयुस् तादृक् तत्
अथ ह स्माह श्वेतकेतुर् आरुणेयः संवत्सराय न्व् अहं दीक्षा इति [एद्. दिक्षा]
तस्य ह पिता मुखम् उदीक्ष्योवाच वेत्थ नु त्वम् आयुष्मन्त् संवत्सरस्य गाधप्रतिष्ठे इति [एद्. वत्थ, चोर्र्. ড়त्यल्]
वेदेति
एतद् ध स्मैतद् विद्वानाहेति ब्राह्मणम् ॥ २ ॥

1.5.3

पुरुषो वाव संवत्सरस्
तस्य पादाव् एव प्रायणीयो ऽतिरात्रः
पादाभ्यां हि प्रयन्ति तयोर् यच् छुक्लं तद् अह्नो रूपम्
यत् कृष्णं तद् रात्रेः
नखानि नक्षत्राणां रूपम्
लोमान्य् ओषधिवनस्पतीनाम्
ऊरू चतुर्विंशम् अहः
उरो ऽभिप्लवः
पृष्ठं पृष्ठ्यः
शिर एव त्रिवृत् त्रिवृतं ह्य् एव शिरो भवति त्वग् अस्थि मज्जा मस्तिष्कम्
ग्रीवाः पञ्चदशश् चतुर्दश ह्य् एवैतस्यां करूकराणि भवन्ति
वीर्यं पञ्चदशम्
तस्माद् आभिरण्वीभिः सतीभिर् गुरुं भारं हरति
तस्माद् ग्रीवाः पञ्चदशः
उरः सप्तदश.
अष्टाव् अन्ये जत्रवो ऽष्टाव् अन्य उरः सप्तदशम्
तस्माद् उरः सप्तदशः
उदरम् एकविंशः
विंशतिर् ह्य् एवैतस्यान्तर उदरे कुन्तापानि भवन्त्य् उदरम् एकविंशम्
तस्माद् उदरम् एकविंशः
पार्श्वे त्रिणवस्
त्रयोदशान्याः पर्शवस् त्रयोदशान्याः पार्श्वे त्रिणवे
तस्मात् पार्श्वे त्रिणवः
अनूकं त्रयस्त्रिंशः
द्वात्रिंशतिर् ह्य् एवैतस्य पृष्टीकुण्डीलानि भवन्ति
अनूकं त्रयस्त्रिशम्
तस्माद् अनूकं त्रयस्त्रिंशस्
तस्यायम् एव दक्षिणो बाहुर् अभिजित्
तस्येमे दक्षिणे त्रयः प्राणाः स्वरसामानः
आत्मा विषुवान्
तस्येमे सव्ये त्रयः प्राणा अर्वाक् स्वरसामानस्
तस्यायं सव्यो बाहुर् विश्वजित्
उक्तौ पृष्ठ्याभिप्लवौ
याव् अवाञ्चौ प्राणौ ते गवायुषी
अङ्गानि दशरात्रः
मुखं महाव्रतम्
तस्य हस्ताव् एवोदयनीयो ऽतिरात्रः
हस्ताभ्यां ह्य् उद्यन्ति ॥ ३ ॥

1.5.4

पुरुषो वाव संवत्सरस्
तस्य प्राण एव प्रायणीयो ऽतिरात्रः
प्राणेन हि प्रयन्ति
वाग् आरम्भणीयम् अहः
यद्यद् आरभते वाग् आरभते
वाचैव तद् आरभते
तस्यायम् एव दक्षिणः पाणिर् अभिप्लवस्
तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्
गायत्र्या आयतने
तस्माद् इयम् अस्यै ह्रसिष्ठा
तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्
त्रिष्टुभ आयतने
तस्माद् इयम् अस्यै वरिष्ठा
तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्
जगत्या आयतने
तस्माद् इयम् अनयोर् वरिष्ठा
तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्
पङ्क्त्या आयतने
पृथुर् इव वै पङ्क्तिस्
तस्माद् इयम् आसां प्रथिष्ठा
तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्
विराज आयतने
अन्नं वै श्रीः
विराड् अन्नाद्यम्
अन्न्नाद्यस्य श्रियो ऽवरुद्ध्यै
तस्माद् इयम् आसां वरिष्ठा
तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्
अतिछन्दस आयतने
अतिछन्दो वै छन्दसाम् आयतनम्
तस्माद् इदं प्रथिष्ठं फलकम्
तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्
स इतः स इतो ऽभिप्लवः स इत आत्मा पृष्ठ्यः
प्लवतीवाभिप्लवस्
तिष्ठतीव पृष्ठ्यः
प्लवत इव ह्य् एवम् अङ्गैस्
तिष्ठतीवात्मना
तस्यायम् एव दक्षिणः कर्णो ऽभिजित्
तस्य यद् दक्षिणम् अक्ष्णः शुक्लं स प्रथमः स्वरसामा
यत् कृष्णं स द्वितीयः
यन् मण्डलं स तृतीयः
नासिके विषुवान् मण्डलम् एव प्रथमो ऽर्वाक् स्वरसामा
यत् कृष्णं स द्वितीयः
यच् छुक्लं स तृतीयस्
तस्यायं सव्यः कर्णो विश्वजित्
उक्तौ पृष्ठ्याभिप्लवौ
याव् अवाञ्चौ प्राणौ ते गवायुषी
अङ्गानि दशरात्रः
मुखं महाव्रतम्
तस्योदान एवोदयनीयो ऽतिरात्रः
उदानेन ह्य् उद्यन्ति ॥ ४ ॥

1.5.5
पुरुषो वाव संवत्सरः
पुरुष इत्य् एकम्
संवत्सर इत्य् एकम्
अत्र तत् समम्
द्वे अहोरात्रे संवत्सरस्य
द्वाव् इमौ पुरुषे प्राणाव् इति
अत्र तत् समम्
त्रयो वा ऋतवः संवत्सरस्य
त्रय इमे पुरुषे प्राणा इति
अत्र तत् समम्
षड् वा ऋतवः संवत्सरस्य
षड् इमे पुरुषे प्राणा इति
अत्र तत्समम्
सप्त वा ऋतवः संवत्सरस्य
सप्तेमे पुरुषे प्राणा इति
अत्र तत् समम्
द्वादश मासाः संवत्सरस्य
द्वादशेमे पुरुषे प्राणा इति
अत्र तत् समम्
त्रयोदश मासाः संवत्सरस्य
त्रयोदशेमे पुरुषे प्राणा इति
अत्र तत् समम्
चतुर्विंशतिर् अर्धमासाः संवत्सरस्य
चतुर्विंशो ऽयं पुरुषः
विंशत्यङ्गुलिश् चतुरङ्ग इति
अत्र तत् समम्
षड्विंशतिर् अर्धमासाः संवत्सरस्य
षड्विंशो ऽयं पुरुषः
प्रतिष्ठे षड्विंशे इति
अत्र तत् समम्
त्रीणि च ह वै शतानि षष्टिश् च संवत्सरस्याहोरात्राणीति
एतावन्त एव पुरुषस्य प्राणा इति
अत्र तत् समम्
सप्त च ह वै शतानि विंशतिश् च संवत्सरस्याहानि च रात्रयश् चेति
एतावन्त एव पुरुषस्यास्थीनि च मज्जानश् चेति
अत्र तत् समम्
चतुर्दश च ह वै शतानि चत्वारिंशच् च संवत्सरस्यार्धाहाश् चार्धरात्रयश् चेति
एतावन्त एव पुरुषस्य स्थूरा मांसानीति
अत्र तत् समम्
अष्टाविंशतिश् च ह वै शतान्य् अशीतिश् च संवत्सरस्य पादाहाश् च पादरात्रयश् चेति
एतावन्त एव पुरुषस्य स्नावा बन्ध्या इति
अत्र तत् समम्
दश च ह वै सहस्राण्य् अष्टौ च शतानि संवत्सरस्य मुहूर्ता इति
एतावन्त एव पुरुषस्य पेशशमरा इति
अत्र तत् समम्
यावन्तो मुहूर्ताः पञ्चदश कृत्वस् तावन्तः प्राणाः
यावन्तः प्राणाः पञ्चदश कृत्वस् तावन्तो ऽपानाः
यावन्तो ऽपानाः पञ्चदश कृत्वस् तावन्तो व्यानाः
यावन्तो व्यानाः पञ्चदश कृत्वस् तावन्तः समानाः
यावन्तः समानाः पञ्चदश कृत्वस् तावन्त उदानाः
यावन्त उदानाः पञ्चदश कृत्वस् तावन्त्य् एतादीनि
यावन्त्य् एतादीनि तावन्त्य् एतर्हीणि
यावन्त्य् एतर्हीणि तावन्ति स्वेदायनानि
ब्यावन्ति स्वेदायनानि तावन्ति क्षिप्रायणानि
च्यावन्ति क्षिप्रायणानि तावन्तो रोमकूपाः
द्यावन्तो रोमकूपाः पञ्चदश कृत्वस् तावन्तो वर्षतो धारास्
तद् एतत् क्रोशशतिकं परिमाणम्
तद् अप्य् एतद् ऋचोक्तं <श्रमाद् अन्यत्र परिवर्तमानश् चरन् वासीनो यदि वा स्वपन्न् अपि । अहोरात्राभ्यां पुरुषः क्षणेन कति कृत्वः प्राणिति चापानीति च शतं शतानि परिवत्सराणाम् अष्टौ च शतानि संवत्सरस्य मुहूर्तान् यान् वदन्त्य् अहोरात्राभ्यां पुरुषः समेन कति कृत्वः प्राणिति चापानीति च इति ब्राह्मणम् ॥ ५ ॥

1.5.6
संवत्सरस्य समता वेदितव्येति ह स्माह वास्युः
एकम् एव पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्त्य् एकम् उपरिष्टात्
त्रिपञ्चाशतम् एव पुरस्ताद् विषुवतो ऽग्निष्टोमान् उपयन्ति त्रिपञ्चाशतम् उपरिष्टात्
विंशतिशतम् एव पुरस्ताद् विषुवत उक्थ्यान् उपयन्ति विंशतिशतम् उपरिष्टात्
षड् एव पुरस्ताद् विषुवतः षोडशिन उपयन्ति षड् उपरिष्टात्
त्रिंशद् एव पुरस्ताद् विषुवतः षडहान् उपयन्ति त्रिंशद् उपरिष्टात्
सैषा संवत्सरस्य समता
स य एवम् एतां संवत्सरस्य समतां वेद संवत्सरेण सात्मा सलोको भूत्वा देवान् अप्येतीति ब्रह्मणम् ॥ ६ ॥

1.5.7

अथातो यज्ञक्रमाः
अग्न्याधेयम्
अग्न्याधेयात् पूर्णाहुतिः
पूर्णहुतेर् अग्निहोत्रम्
अग्निहोत्राद् दर्शपूर्णमासौ
दर्शपूर्णमासाभ्याम् आग्रयणम्
आग्रयणाच् चातुर्मास्यानि
चातुर्मास्येभ्यः पशुबन्धः
पशुबन्धाद् अग्निष्टोमः
अग्निष्टोमाद् राजसूयः
राजसूयाद् वाजपेयः
वाजपेयाद् अश्वमेधः
अश्वमेधात् पुरुषमेधः
पुरुषमेधात् सर्वमेधः
सर्वमेधाद् दक्षिणावन्तः
दक्षिणावद्भ्यो ऽदक्षिणाः
अदक्षिणाः सहस्रदक्षिणे प्रत्यतिष्ठन्
ते वा एते यज्ञक्रमाः
स य एवम् एतान् यज्ञक्रमान् वेद यज्ञेन सात्मा सलोको भूत्वा देवान् अप्येतीति ब्राह्मणम् ॥ ७ ॥

1.5.8
प्रजापतिर् अकामयतानन्त्यम् अश्नुवीयेति
सो ऽग्नीन् आधाय पूर्णाहुत्यायजत
सो ऽन्तम् एवापश्यत्
सो ऽग्निहोत्रेणेष्ट्वान्तम् एवापश्यत्
स दर्शपूर्णमासाभ्याम् इष्ट्वान्तम् एवापश्यत्
स आग्रयणेनेष्ट्वान्तम् एवापश्यत्
स चातुर्मास्यैर् इष्ट्वान्तम् एवापश्यत्
स पशुबन्धेनेष्ट्वान्तम् एवापश्यत्
सो ऽग्निष्टोमेनेष्ट्वान्तम् एवापश्यत्
स राजसूयेनेष्ट्वा राजेति नामाधत्त
सो ऽन्तम् एवापश्यत्
स वाजपेयेनेष्ट्वा सम्राड् इति नामाधत्त
सो ऽन्तम् एवापश्यत्
सो ऽश्वमेधेनेष्ट्वा स्वराड् इति नामाधत्त
सो ऽन्तम् एवापश्यत्
स पुरुषमेधेनेष्ट्वा विराड् इति नामाधत्त
सो ऽन्तम् एवापश्यत्
स सर्वमेधेनेष्ट्वा सर्वराड् इति नामाधत्त
सो ऽन्तम् एवापश्यत्
सो ऽहीनैर् दक्षिणावद्भिर् इष्ट्वान्तम् एवापश्यत्
सो ऽहीनैर् अदक्षिणावद्भिर् इष्ट्वान्तम् एवापश्यत्
स सत्त्रेणोभयतो ऽतिरात्रेणान्ततो ऽयजत
वाचं ह वै होत्रे प्रायच्छत्
प्राणम् अध्वर्यवे चक्षुर् उद्गात्रे मनो ब्रह्मणे ऽङ्गानि होत्रकेभ्य आत्मानं सदस्येभ्यः
एवम् आनन्त्यम् आत्मानं दत्त्वानन्त्यम् आश्नुत
तद् या दक्षिणा आनयत् ताभिर् आत्मानं निष्क्रीणीय
तस्माद् एतेन ज्योतिष्टोमेनाग्निष्टोमेनात्मनिष्क्रयणेन सहस्रदक्षिणेन पृष्ठशमनीयेन त्वरेत
यो ह्य् अनिष्ट्वा पृष्ठशमनीयेन प्रैत्यात्मानं सो ऽनिष्क्रीय प्रैतीति ब्राह्मणम् ॥ ८ ॥

1.5.9

यद् वै संवत्सराय संवत्सरसदो दीक्षन्ते कथम् एषाम् अग्निहोत्रम् अनन्तरितं भवति
व्रतेतेति ब्रूयात्
कथम् एषां दर्शो ऽनन्तरितो भवति
दध्ना च पुरोडाशेन चेति ब्रूयात्
कथम् एषां पौर्णमासम् अनन्तरितं भवति
आज्येन च पुरोडाशेन चेति ब्रूयात्
कथम् एषाम् आग्रयणम् अनन्तरितं भवति
सौम्येन चरुणेति ब्रूयात्
कथम् एषां चातुर्मास्यान्य् अनन्तरितानि भवन्ति
पयस्ययेति ब्रूयात्
कथम् एषां पशुबन्धो ऽनन्तरितो भवति
पशुना च पुरोडाशेन चेति ब्रूयात्
कथम् एषां सौम्यो ऽध्वरो ऽनन्तरितो भवति
ग्रहैर् इति ब्रूयात्
कथम् एषां गृहमेधो ऽनन्तरितो भवति
धानाकरम्भैर् इति ब्रूयात्
कथम् एषां पितृयज्ञो ऽनन्तरितो भवति
औपासनैर् इति ब्रूयात्
कथम् एषां मिथुनम् अनन्तरितं भवति
हिंकारेनेति ब्रूयात्
सैषा संवत्सरे यज्ञक्रतूनाम् अपीतिः
स य एवम् एतां संवत्सरे यज्ञक्रतूनाम् अपीतिं वेद यज्ञेन सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम् ॥ ९ ॥

1.5.10

देवा ह वै सहस्रसंवत्सराय दिदीक्षिरे
तेषां पञ्च शतानि संवत्सराणां पर्युपेतान्य् आसन्न् अथेदं सर्व शश्राम ये स्तोमा यानि पृष्ठानि यानि शस्त्राणि
ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा
को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
तद् अयातयाम मध्ये यज्ञस्यापश्यन्
तेनायातयाम्ना या वेदे व्यष्टिर् आसीत् तां पञ्चस्व् अपश्यन्न् ऋचि यजुषि साम्नि शान्ते ऽथ घोरे
ता वा एताः पञ्च व्याहृतयो भवन्त्य् ओ श्रावयास्तु श्रौषड् यज ये यजामहे वौषड् इति
ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा [एद्. दवा]
को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
तत एतं तापश्चितं सहस्रसंवत्सरस्याञ्जस्यम् अपश्यन्
ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि
स खलु द्वादश मासान् दीक्षाभिर् एति द्वादशमासान् उपसद्भिर् द्वाशमासांत् सुत्याभिः
अथ यद् द्वादश मासान् दीक्षाभिर् एति द्वादशमासान् उपसद्भिस् तेनैताव् अग्न्यर्काव् आप्नोति
अथ यद् द्वादश मासांत् सुत्याभिस् तेनेदं महदुक्थम् अवाप्नोति
ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा
को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
तत एतं संवत्सरंम् तापश्चितस्याञ्जस्यम् अपश्यन्
ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि
ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा
को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
तत एतं द्वादशाहं संवत्सरस्याञ्जस्यम् अपश्यन्
ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि
स खलु द्वादशाहं दीक्षाभिर् एति द्वादशाहम् उपसद्भिर् द्वादशाहं सुत्याभिः
अथ यद् द्वादशाहं दीक्षाभिर् एति द्वादशाहम् उपसद्भिस् तेनैताव् अग्न्यर्काव् आप्नोति
अथ यद् द्वादशाहं सुत्याभिस् तेनेदं महदुक्थम् अवाप्नोति
ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा [एद्. इहसमिवासुरुप]
को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
ब्तत एतं पृष्ठ्यं षडहं द्वादशाहस्याञ्जस्यम् अपश्यन्
ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि
ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा
को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
तत एतं विश्वजितं पृष्ठ्यषडहस्याञ्जस्यम् अपश्यन्
ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि
ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा
को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
स वा एष विश्वजिद् यः सहस्रसंवत्सरस्य प्रतिमा
एष ह प्रजानां प्रजापतिर् यद् विश्वजिद् इति ब्राह्मणम् ॥ १० ॥
1.5.11
पुरुषं ह वै नारायणं प्रजापतिर् उवाच यजस्य यजस्वेति
स होवाच यजस्व यजस्वेत्य् एवं हात्थ मा
त्रिर् अपि क्षत मे वसवः प्रातःसवनेनागू रुद्रा माध्यंदिनसवनेनादित्यास् तृतीयसवनेन
यज्ञवास्तुन्य् एव पर्यशिषो यज्ञवास्तुम् इत्य् एवम् आशिषो ऽहं वा एतद् वेद यज्ञे वसवः प्रातःसवनेनागू रुद्रा माध्यंदिनसवनेनादित्यास् तृतीयसवनेन यज्ञवास्तुन्य् एव पर्यशिषो यज्ञवास्तुम् इत्य् एवम् आशिषो विद्वांसो नूनं त्वा याजयेयुः
एते ह वा अविद्वांसो यत्रानृग्विद् धोता भवत्य् अयजुर्विद् अध्वर्युर् असामविद् उद्गाताभृग्वङ्गिरोविद् ब्रह्मा
यजस्वैव हन्त तु ते तद् वक्ष्यामि
यथा सूत्रे मणिर् इव सूत्रम् एतान्य् उक्थाहानि भवन्ति सूत्रम् इव वा मणाव् इति
तस्माद् य एव सर्ववित् स्यात् तं ब्रह्माणं कुर्वीत
एष ह वै विद्वांत् सर्वविद् ब्रह्मा यद् भृग्वङ्गिरोवित्
एते ह वा अस्य सर्वस्य शमयितारः पालयितारस्
तमाद् ब्रह्मा स्तुते बहिःपवमाने वाचयति ॥ ११ ॥

1.5.12
श्येनो ऽसि गायत्रछन्दा
अनु त्वारभे
स्वस्ति मा संपारयेति
स यद् आह श्येनो ऽसीति सोमं वा एतद् आह
एष ह वा अग्निर् भूत्वास्मिंल् लोके संशाययति
तद् यत् संशाययति तस्माच् छेयनस्
तच् छेयनस्य श्येनत्वम्
स यद् आह गायत्रछन्दा अनुत्वारभ इति गायत्रेण छन्दसा वसुर्भिर् देवैः प्रातःसवने ऽस्मिंल् लोके ऽग्निं सन्तम् अन्वारभते
स यद् आह स्वस्ति मा संपारयेति गायत्रेणैव छन्दसा वसुभिर् देवैः प्रातःसवने ऽस्मिंल् लोके ऽग्निना देवेन स्वस्ति मा संपारयेति गायत्रेणैवैनं तच् छन्दसा वसुभिर् देवैः प्रातःसवने ऽस्मिंल् लोके ऽग्निना देवेन स्वस्ति संपद्यते य एवं वेद

1.5.13

अथ माध्यंदिने पवमाने वाचयति सम्राड् असि त्रिष्टुप्छन्दा
अनु त्वारभे
स्वस्ति मा संपारयेति
स यद् आह सम्राड् असीति सोमं वा एतद् आह
एष ह वै वायुर्भूत्वान्तरिक्षलोके सम्राजति
तद् यत् सम्राजति तस्मात् सम्राट्
तत् सम्राजस्य सम्राट्त्वम्
स यद् आह त्रिष्टुप्छन्दा अनु त्वारभ इति त्रैष्टुभेन छन्दसा रुद्रैर् देवैर् माध्यंदिने सवने ऽन्तरिक्षलोके वायुं सन्तम् अन्वारभते
स यद् आह स्वस्ति मा संपारयेति त्रैष्टुभेनैव छन्दसा रुद्रैर् देवैर् माध्यंदिने सवने अन्तरिक्षलोके वायुना देवेन स्वस्ति मा संपारयेति
त्रैष्टुभेनैवैनं तच् छन्दसा रुद्रैर् देवैर् माध्यंदिने सवने अन्तरिक्षलोके वायुना देवेन स्वस्ति संपद्यते य एवं वेद ॥ १३ ॥

1.5.14

अथार्भवे पवमाने वाचयति स्वरो ऽसि गयो ऽसि जगच्छन्दा
अनु त्वारभे
स्वस्ति मा संपारयेति
स यद् आह स्वरो ऽसीति सोमं वा एतद् आह
एष ह वै सूर्यो भूत्वामुष्मिंल् लोके स्वरति
तद् यत् स्वरति तस्मात् स्वरस्
तत् स्वरस्य स्वरत्वम्
स यद् आह गयो ऽसीति सोमं वा एतद् आह
एष ह वै चन्द्रमा भूत्वा सर्वांल् लोकान् गच्छति
तद् यद् गच्छति तस्माद् गयस्
तद् गयस्य गयत्वम्
स यद् आह जगच्छन्दा अनु त्वारभ इति जागतेन छन्दसादित्यैर् देवैस् तृतीयसवने ऽमुष्मिंल् लोके सूर्यं सन्तम् अन्वारभते
स यद् आह स्वस्ति मा संपारयेति जागतेनैव छन्दसादित्यैर् देवैस् तृतीयसवने ऽमुष्मिंल् लोके सूर्येण देवेन स्वस्ति मा संपारयेति जागतेनैवैनं तच् छन्दसादित्यैर् देवैस् तृतीयसवने ऽमुष्मिंल् लोके सूर्येण देवेन स्वस्ति संपद्यते य एवं वेद ॥ १४ ॥

1.5.15

अथ संस्थिते संस्थिते सवने वाचयति मयि भर्गो मयि महो मयि यशो मयि सर्वम् इति
पृथिव्य् एव भर्गो ऽन्तरिक्ष एव महो द्यौर् एव यशो ऽप एव सर्वम्
अग्निर् एव भर्गो वायुर् एव मह आदित्य एव यशश् चन्द्रमा एव सर्वम् [ आदित्या]
वसव एव भर्गो रुद्रा एव मह आदित्या एव यशो विश्वेदेवा एव सर्वम्
गायत्र्य् एव भर्गस् त्रिष्टुब् एव महो जगत्य् एव यशो ऽनुष्टुब् एव सर्वम्
प्राच्य् एव भर्गः प्रतीच्य् एव मह उदीच्य् एव यशो दक्षिणैव सर्वम्
वसन्त एव भर्गो ग्रीष्म एव महो वर्षा एव यशः शरद् एव सर्वम्
त्रिवृद् एव भर्गः पञ्चदश एव महः सप्तदश एव यश एकविंश एव सर्वम्
ऋग्वेद एव भर्गो यजुर्वेद एव महः सामवेद एव यशो ब्रह्मवेद एव सर्वम्
होतैव भर्गो ऽध्वर्युर् एव मह उद्गातैव यशो ब्रह्मैव सर्वम्
वाग् एव भर्गः प्राण एव महश् चक्षुर् एव यशो मन एव सर्वम् ॥ १५ ॥

1.5.16
स यद् आह मयि भर्ग इति पृथिवीम् एवैतल् लोकानाम् अहाग्निं देवानां वसून् देवान् देवगणानां गायत्रं छन्दसां प्राचीं दिशां वसन्तम् ऋतूनां त्रिवृतं स्तोमानाम् ऋग्वेदं वेदानां हौत्रं होत्रकाणां वाचम् इन्द्रियाणाम् ॥ १६ ॥
1.5.17
स यद् आह मयि मह इत्य् अन्तरिक्षम् एवैतल् लोकानाम् आह वायुं देवानां रुद्रान् देवान् देवगणानां त्रैष्टुभं छन्दसां प्रतीचीं दिशां ग्रीष्मम् ऋतूनां पञ्चदशं स्तोमानां यजुर्वेदं वेदानाम् आध्वर्यवं होत्रकाणां प्राणम् इन्द्रियाणाम् ॥ १७ ॥
1.5.18
स यद् आह मयि यश इति दिवम् एवैतल् लोकानाम् आहादित्यं देवानाम् आदित्यान् देवगणानां जागतं छन्दसाम् उदीचीं दिशां वर्षा ऋतूनां सप्तदशं स्तोमानां सामवेदं वेदानाम् औद्गात्रं होत्रकाणां चक्षुर् इन्द्रियाणाम् ॥ १७ ॥
1.5.19
स यद् आह मयि सर्वम् इत्य् अप एवैतल् लोकानाम् आह चन्द्रमसं देवानां विश्वान् देवान् देवगणानाम् आनुष्टुभं छन्दसां दक्षिणां दिशां शरदम् ऋतूनाम् एकविंशं स्तोमानां ब्रह्मवेदं वेदानां ब्रह्मत्वं होत्रकाणां मन इन्द्रियाणाम् ॥ १८ ॥

1.5.20
स वा एष दशधा चतुः संपद्यते
दश च ह वै चतुर् विराजो ऽक्षराणि
तं गर्भा उपजीवन्ति
श्रीर् वै विराड्
यशो ऽन्नाद्यम्
श्रियम् एव तद् विराजं यशस्य् अन्नाद्यो प्रतिष्ठापयति
प्रतिष्ठन्तीर् इदं सर्वम् अनुप्रतिष्ठति
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद ॥ २० ॥

1.5.21

अनर्वाणं ह वै देवं दध्यङ्ङ् आङ्गिरस उपसीदं ह यज्ञस्य श्नुष्टिं समश्नवामह इति
स दध्यङ्ङ् आङ्गिरसो ऽब्रवीद् यो वै सप्तदशं प्रजापतिं यज्ञे ऽन्वितं वेद नास्य यज्ञो रिष्यते
न यज्ञपतिं रिष्यन्त इति
ता वा एताः पञ्च व्याहृतयो भवन्त्य् ओ श्रावयास्तु श्रौषड् यज ये यजामहे वौषड् इति
स दध्यङ्ङ् आङ्गिरसो ऽब्रवीन् न वयं विद्मो यदि ब्राह्मणाः स्मो यद्य् अब्राह्मणाः स्मो यदि तस्यर्षेः स्मो वान्यस्येति
अनर्वाणश् च ह वा ऋतावन्तश् च पितरः स्वधायाम् आवृषायन्त वयं वदामहै वयं वदामहा इति
सो ऽयात् स्वायंभुवो वा ऋतावन्तो मदयातां न वयं वदामहा इति
तस्मात् प्रवरे प्रव्रियमाणे वाचयेद् देवाः पितर इति तिस्रः
य एति संयजति स भवति यश् च न ब्रूते यश् च न ब्रूत इति ब्राह्मणम् ॥ २१ ॥

1.5.22

सावित्रं ह स्मैतं पूर्वे पुरस्तात् पशुम् आलभन्त इत्य् एतर्हि प्राजापत्यम्
यो ह्य् एव सविता स प्रजापतिर् इति वदन्तस्
तस्माद् उ समुप्याग्नींस् तेन यजेरन्
ते समानधिष्ण्या एव स्युर् ओखासंभरणीयायाः
उखासंभरणीयायां विन्युपयाग्नींस् तया यजेरन्
ते नानाधिष्ण्या एव स्युर् आ दीक्षणीयायाः
दीक्षणीयायां संन्युप्याग्नींस् तया यजेरन्
ते समानधिष्ण्या एव स्युर् ओदवसानीयायाः
उदवसानीयायां विन्युप्याग्नींस् तया यजेरन्
ते नानाधिष्ण्या एव स्युः
अथ यदि यजमानस्योपतपेत् पार्श्वतो ऽग्नीन् आधाय तावद् आसीत यावद् अगदः स्यात्
यदि प्रेयात् स्वैर् एव तम् अग्निभिर् दहेत्
अशवाग्निभिर् इतरे यजमाना आसत इति वदन्तस्
तस्य तद् एव ब्राह्मणं यद् अदः पुरःसवने
पितृमेध आशिषो व्याख्याताः ॥ २२ ॥

1.5.23

सायंप्रातर्होमौ स्थालीपाको नवश् च यः । बलिश् च पितृयज्ञश् चाष्टका सप्तमः पशुः ॥ इत्य् एते पाकयज्ञाः
अग्न्याधेयम् अग्निहोत्रं पौर्णमास्यमावास्ये । नवेष्टिश् चातुर्मास्यानि पशुबन्धो ऽत्र सप्तमः ॥ इत्य् एते हविर्यज्ञाः
अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडशिमांस् ततः । वाजपेयो ऽतिरात्रश् चाप्तोर्यामात्र सप्तमः ॥ इत्य् एते सुत्याः
के स्विद् देवा प्रवोवाजाः के स्विद् देवा अभिद्यवः । के स्विद् देवा हविष्मन्तः किं स्विज् जिगाति सुम्नयुः ॥
ऋतव एव प्रवोवाजा मासा देवा अभिद्यवः । अर्धमासा हविष्मन्तस् तज् जिगाति सुन्मयुः ॥
कति स्विद् रात्रयः कत्य् अहानि कति स्तोत्राणि कति शस्त्राण्य् अस्य । कति स्वित् सवनाः संवत्सरस्य स्तोत्रियाः पदाक्षराणि कत्य् अस्य ॥
[द्वाव् अतिरात्रौ षट् शतम् अग्निष्टोमा द्वे विंशतिशते उक्थ्यानां । द्वादश षोडशिनः षष्टिः षडहा वैषुवतं च [३१.१५] ॥
अहान्यस्य विंशतिशतानि त्रीण्य् अहश् चैकं तावद् अस्य । संवत्सरस्य सवनाः सहस्रम् असीति त्रीणि च संस्तुतस्य ॥
षट्षष्टिश् च द्वे च शते भवत स्तुतशस्त्राणाम् अयुतं चैकम् अस्य । स्तोत्रियाश् च नवतिसहस्रा द्वे नियुते नवतिश् चाति षट् च ॥
अष्टौ शतान्य् अयुतानि त्रिंशच् चतुर्नवतिश् च पदान्य् अस्य । संवत्सरस्य कविभिर् मितस्यैतावती मध्यमा देवमात्रा ॥
अयुतम् एकं प्रयुतानि त्रिंशद् द्वे नियुते तथा ह्य् अनुसृष्टाः । अष्टौ शतानि नव चाक्षराण्य् एतावान् आत्मा परमः प्रजापतेः ॥
आद्यं वषट्कारः प्रदानान्तम् एतम् अग्निष्टोमे पर्वशः साधु कॢप्तम् । सौभेषजं छन्द ईप्सन् यद् अग्नौ चतुःशतं बहुधा हूयते यत् ॥
प्रातःसवन स्तुत एकविंशो गायत्रस्तोममित एक एव । माध्यंदिनः सप्तदशेन कॢप्तस् त्रयस्त्रिंशेन सवनं तृतीयम् ॥ २३ ॥

1.5.24

श्रद्धायां रेतस् तपसा तपस्वी वैश्वानरः सिषिचे ऽपत्यम् ईप्सन् । ततो जज्ञे लोकजित् सोमजम्भा ऋषेर् ऋषिर् अङ्गिराः संनभूव ॥
ऋषेर् यज्ञस्य चतुर्विधस्य श्रद्धां यः श्रेयसीं लोकम् अमुं जिगाय । यस्मै वेदाः प्रसृताः सोमबिन्दु युक्ता वहन्ति सुकृताम् उ लोकम् ॥
ऋचो ऽस्य भागांश् चतुरो वहन्त्य् उक्थशस्त्रैः प्रमुदो मोदमानाः । ग्रहैर् हविर्भिश् च कृताकृतश् च यजूंषि भागांश् चतुरो वहन्ति ॥
औदुम्बर्यां सामघोषेण तावत् सविष्टुतिभिश् च स्तोमैः छन्दसा । सामानि भागांश् चतुरो वहन्ति गीत्या स्तोमेन सह प्रस्तावेन च ॥
प्रायश्चित्तैर् भेषजैः संस्तुवन्तो ऽथर्वाणो ऽङ्गिरसश् च शान्ताः । ब्रह्मा ब्रह्मत्वेन प्रमुदो मोदमाना असंसृष्टान् भागांश् चतुरो वहन्ति ॥
यो ब्रह्मवित् सो ऽभिकरो ऽस्तु वः शिवो धिया धीरो रक्षतु धर्मम् एतम् । मा वः प्रमत्ताम् अमृताच् च यज्ञात् कर्माच् च येनान् अङ्गिरसो ऽपियासीत् ॥
मायुं दशं मारुशस्ताः प्रमेष्टा मा मे भूर् युक्ता विदहाथ लोकान् । दिव्यं भयं रक्षत धर्मम् उद्यतं यज्ञं कालाश स्तुतिगोपनायनम् ॥
होता च मैत्रावरुणश् च पादम् अच्छावाकः सह ग्रावस्तुतैकम् । ऋग्भि स्तुवन्तो ऽहरहः पृथिव्या अग्निं पादं ब्रह्मणा धारयन्ति ॥
अध्वर्युः प्रतिप्रस्थाता नेष्टोन्नेता निहितं पादम् एकम् । सम् अन्तरिक्षं यजुषा स्तुवन्तो वायुं पादं ब्रह्मणा धारयन्ति ॥
साम्नोद्गाता छादयन्न् अप्रमत्त औदुम्बर्यां स्तोभदेयः सगद्गदः । विद्वान् प्रस्तोता विदहाथ सुष्टुतिं सुब्रह्मण्यः प्रतिहर्ताथ यज्ञे ॥
साम्ना दिव्य् एकं निहितं स्तुवन्तः सूर्यं पादं ब्रह्मणा धारयन्ति । ब्रह्मा हैकं ब्राह्मणाच्छंसिनः सह पोताग्नीध्रो निहितं पादम् एकम् ॥
अथर्वभिर् अङ्गिरोभिश् च गुप्तो ऽप्सु चन्द्रं पादं ब्रह्मणा धारयन्ति । षोडशिकं होत्रका अभिष्टुवन्ति वेदेषु युक्ताः प्रपृथक् चतुर्धा ॥
मनीषिणो दीक्षिताः श्रद्दधाना होतारो गुप्ता अभिवहन्ति यज्ञम् । दक्षिणतो ब्रह्मणस्यों जनद् इत्य् एतां व्याहृतिं जपन् ॥
सप्तदशं सदस्यं तं कीर्तयन्ति पुरा विदुः । अष्टादशी दीक्षिता दीक्षितानां यज्ञे पत्नी श्रद्दधानेह युक्ता ॥
एकोनविंशः शमिता बभूव विंशो यज्ञे गृहपतिर् एव सुन्वन् । एकविंशतिर् एवैषां संस्थायाम् अङ्गिरो वह ॥
वेदैर् अभिष्टुतो लोको नानावेशापराजितः । ॥ २४ ॥

1.5.25

सप्त सुत्याः सप्त च पाकयज्ञाः हविर्यज्ञाः सप्त तथैकविंशतिः । सर्वे ते यज्ञा अङ्गिरसो ऽपियन्ति नूतना यान् ऋषयो सृजन्ति ये च सृष्टाः पुराणैः ॥
एतेषु वेदेष्व् अपि चैकम् एवापव्रजम् ऋत्विजां संभरन्ति । कृट्स्तृपात् सचते ताम् अशस्तिं विष्कन्धम् एनं विसृतं प्रजासु ॥
निवर्तन्ते दक्षिणा नीयमानाः सुते सोमे वितते यज्ञतन्त्रे । मोघाशिषो यन्त्य् अनिवर्तमाना अनिष्टयज्ञा न तरन्ति लोकान् ॥
द्वादशवर्षं ब्रह्मचर्यं पृथग् वेदेषु तत् स्मृतम् । एवं व्यवस्थिता वेदाः सर्व एव स्वकर्मसु ॥
सन्ति चैषां समानाः मन्त्राः कल्पाश् च ब्राह्मणानि च । व्यवस्थानं तु तत् सर्वं पृथग्वेदेषु तत् स्मृतम् ॥

ऋग्वेदस्य पृथिवी स्थानम् अन्तरिक्षस्थानो ऽध्वरः । द्यौ स्थानं सामवेदस्यापो भृग्वङ्गिरसां स्मृतम् ॥
अग्निर् देवत ऋग्वेदस्य यजुर्वेदो वायुदेवतः । आदित्यः सामवेदस्य चन्द्रमा वैद्युतश् च भृग्वङ्गिरसाम् ॥
त्रिवृत्स्तोम ऋग्वेदस्य यजूंषि पञ्चदशेन सह जज्ञिरे । सप्तदशेन सामवेद एकविंशो ब्रह्मसंमितः ॥
वाग् अध्यात्मम् ऋग्वेदस्य यजुषां प्राण उच्यते । चक्षुषी सामवेदस्य मनो भृग्वङ्गिरसां स्मृतम् ॥

ऋग्भिः सह गायत्रं जागतम् आहुर् यजूंषि त्रैष्टुभेन सह जज्ञिरे । उष्णिक्ककुभ्यां भृग्वङ्गिरसो जगत्या सामानि कवयो वदन्ति ॥

ऋग्भिः पृथिवीं यजुषान्तरिक्षं साम्ना दिवं लोकजित् सोमजम्भाः । अथर्वभिर् अङ्गिरोभिश् च गुप्तो यज्ञश् चतुष्पाद् दिवम् उद्वहेत ॥

ऋग्भिः सुशस्तो यजुषा परिष्कृतः सविष्टुतः सामजित् सोमजम्भाः । अथर्वभिर् अङ्गिरोभिश् च गुप्तो यज्ञश् चतुष्पाद् दिवम् आरुरोह ॥

ऋचो विद्वान् पृथिवीं वेद संप्रति यजूंषि विद्वान् बृहद् अन्तरिक्षम् । दिवं वेद सामगो यो विपश्चित् सर्वान् लोकान् यद् भृग्वङ्गिरोवित् ॥

यांश् च ग्रामे यांश् चारण्ये जपन्ति मन्त्रान् नार्थान् बहुधा जनासः । सर्वे ते यज्ञा अङ्गिरसो ऽपियन्ति नूतना सा हि गतिर् ब्रह्मणो यावरार्ध्या ॥

त्रिविष्टपं त्रिदिवं नाकम् उत्तमं तम् एतया त्रय्या विद्ययैति । अत उत्तरे ब्रह्मलोका महान्तो ऽथर्वणाम् अङ्गिरसां च सा गतिः ॥ अथर्वणाम् अङ्गिरसां च सा गतिर् इति ब्राह्मणम् ॥ २५ ॥

अथर्ववेदे गोपथब्राह्मणपूर्वभागे पञ्चमः प्रपाठकः ॥

इति पूर्वब्राह्मणं समाप्तम्

Categories: Sanskrit

Tagged as: ,