अध्यात्मरामायण-Adhyatma ramayana
- बालकाण्डम्
- अयोध्याकाण्डम्
- अरण्यकाण्डम्
- किष्किन्धाकाण्डम्
- सुन्दरकाण्डम्
- युद्धकाण्डम्
- उत्तरकाण्डम्
NOTE: Somebody wrote this fake Ramayana in Tantrik text pattern, where Sankara is the speaker and his consort Parvati is the listener explaining some mystery. There are several fake biographies are available in Sanskrit on Lord Rama, they may be valuable for knowing anything but not Lord Rama as Valmiki Ramayana. The intention of the writer is to write an Adi Kavya like Valmiki and compacted with heavy philosophical discourses.
The Adhyatma ramayana opens with राम हृदयम् and the unknown writer says that his/her ramayana is supported by Puranas रामायणं सर्वपुराणसंमतं etc
बाल काण्डम्
प्रथमः सर्गः
राम हृदयम्
यः पृथिवीभरवारणाय दिविजैः संप्रार्थितश्चिन्मयः
संजातः पृथिवीतले रविकुले मायामनुष्योऽव्ययः .
निश्चक्रं हतराक्षसः पुनरगाद् ब्रह्मत्वमाद्यं स्थिरां
कीर्तिं पापहरां विधाय जगतां तं जानकीशं भजे -1
विश्वोद्भवस्थितिलयादिषु हेतुमेकं
मायाश्रियं विगतमायमचिन्त्यमूर्तिम् .
आनन्दसान्द्रममलं निजबोधरूपं
सितापतिं विदिततत्त्वमहं नमामि -2
पठन्ति ये नित्यमनन्यचेतसः शृण्वन्ति चाध्यात्मिकसंज्ञितं शुभम् .
रामायणं सर्वपुराणसंमतं निर्धूतपापा हरिमेव यान्ति ते-3
अध्यात्मरामायणमेव नित्यं
पठेद्यदीच्छेद्भवबन्धमुक्तिम् .
गवां सहस्रायुतकोटिदानात्
फलं लभेद्यः शृणुयात्स नित्यम् -4
पुरारिगिरिसंभूता श्रीरामार्णवसङ्गता .
अध्यात्मरामगङ्गेयं पुनाति भुवनत्रयम् -5
कैलासाग्रे कदाचिद्रविशतविमले मन्दिरे रत्नपीठे
संविष्टं ध्याननिष्ठं त्रिनयनमभयं सेवितं सिद्धसंघैः .
देवी वामाङ्कसंस्था गिरिवरतनया पार्वती भक्तिनम्रा
प्राहेदं देवमीशं सकलमलहरं वाक्यमानन्दकन्दरम् -6
And the अध्यात्मरामायण ends in the following way
ततः प्रभाते रघुवंशनाथो विशालवक्षाः सितकञ्जनेत्रः ।
पुरोधसं प्राह वसिष्ठमार्यं यान्त्वग्निहोत्राणि पुरो गुरो मे । ३७॥
ततो वसिष्ठोऽपि चकार सर्वं प्रास्थानिकं कर्म महद्विधानात् ।
क्षौमाम्बरो दर्भपवित्रपाणिः महाप्रयाणाय गृहीतबुद्धिः ॥ ३८॥
निष्क्रम्य रामो नगरात्सिताभ्राच्छशीव यातः शशिकोटिकान्तिः ।
रामस्य सव्ये सितपद्महस्ता पद्मा गता पद्मविशालनेत्रा ॥ ३९॥
पार्श्वेऽथ दक्षेऽरुणकञ्जहस्ता श्यामा ययौ भूरपि दीप्यमाना ।
शास्त्राणि शस्त्राणि धनुश्च बाणा जग्मुः पुरस्ताद्धृतविग्रहास्ते ॥ ४०॥
वेदाश्च सर्वे धृतविग्रहाश्च ययुश्च सर्वे मुनयश्च दिव्याः ।
माता श्रुतीनां प्रणवेन साध्वी ययौ हरिं व्याहृतिभिः समेता ॥ ४१॥
गच्छन्तमेवानुगता जनास्ते सपुत्रदाराः सह बन्धुवर्गैः ।
अनावृतद्वारमिवापवर्गं रामं व्रजन्तं ययुराप्तकामाः ।
सान्तःपुरः सानुचरः सभार्यः शत्रुघ्नयुक्तो भरतोऽनुयातः ॥ ४२॥
गच्छन्तमालोक्य रमासमेतं श्रीराघवं पौरजनाः समस्ताः ।
सबालवृद्धाश्च ययुर्द्विजाग्र्याः सामात्यवर्गाश्च समन्त्रिणो ययुः ॥ ४३॥
सर्वे गताः क्षत्रमुखाः प्रहृष्टा वैश्याश्च शूद्राश्च तथा परे च ।
सुग्रीवमुख्या हरिपुङ्गवाश्च स्नाता विशुद्धाः शुभशब्दयुक्ताः ॥ ४४॥
न कश्चिदासीद्भवदुःखयुक्तो दीनोऽथवा बाह्यसुखेषु सक्तः ।
आनन्दरूपानुगता विरक्ता ययुश्च रामं पशुभृत्यवर्गैः ॥ ४५॥
भूतान्यदृश्यानि च यानि तत्र ये प्राणिनः स्थावरजङ्गमाश्च ।
साक्षात्परात्मानमनन्तशक्तिं जग्मुर्विमुक्ताः परमेकमीशम् ॥ ४६॥
नासीदयोध्यानगरे तु जन्तुः कश्चित्तदा राममना न यातः ।
शून्यं बभूवाखिलमेव तत्र पुरं गते राजनि रामचन्द्रे ॥ ४७॥
ततोऽतिदूरं नगरात्स गत्वा दृष्ट्वा नदीं तां हरिनेत्रजाताम् ।
ननन्द रामः स्मृतपावनोऽतो ददर्श चाशेषमिदं हृदिस्थम् ॥ ४८॥
अथागतस्तत्र पितामहो महान् देवाश्च सर्वे ऋषयश्च सिद्धाः ।
विमानकोटीभिरपारपारं समावृतं खं सुरसेविताभिः ॥ ४९॥
रविप्रकाशाभिरभिस्फुरत्स्वं ज्योतिर्मयं तत्र नभो बभूव ।
स्वयम्प्रकाशैर्महतां महद्भिः समावृतं पुण्यकृतां वरिष्ठैः ॥ ५०॥
ववुश्च वाताश्च सुगन्धवन्तो ववर्ष वृष्टिः कुसुमावलीनाम् ।
उपस्थिते देवमृदङ्गनादे गायत्सु विद्याधरकिन्नरेषु ॥ ५१॥
रामस्तु पद्भ्यां सरयूजलं सकृत् स्पृष्ट्वा परिक्रामदनन्तशक्तिः ।
ब्रह्मा तदा प्राह कृताञ्जलिस्तं रामं परात्मन् परमेश्वरस्त्वम् ॥ ५२॥
विष्णुः सदानन्दमयोऽसि पूर्णो जानासि तत्त्वं निजमैशमेकम् ।
तथापि दासस्य ममाखिलेश कृतं वचो भक्तपरोऽसि विद्वन् ॥ ५३॥
त्वं भ्रातृभिर्वैष्णवमेवमाद्यं प्रविश्य देहं परिपाहि देवान् ।
यद्वा परो वा यदि रोचते तं प्रविश्य देहं परिपाहि नस्त्वम् ॥ ५४॥
त्वमेव देवाधिपतिश्च विष्णुः जानन्ति न त्वां पुरुषा विना माम् ।
सहस्रकृत्वस्तु नमो नमस्ते प्रसीद देवेश पुनर्नमस्ते ॥ ५५॥
पितामहप्रार्थनया स रामः पश्यत्सु देवेषु महाप्रकाशः ।
मुष्णंश्च चक्षूंषि दिवौकसां तदा बभूव चक्रादियुतश्चतुर्भुजः ॥ ५६॥
शेषो बभूवेश्वरतल्पभूतः सौमित्रिरत्यद्भुतभोगधारी ।
बभूवतुश्चक्रदरौ च दिव्यौ कैकेयिसूनुर्लवणान्तकश्च ॥ ५७॥
सीता च लक्ष्मीरभवत्पुरेव रामो हि विष्णुः पुरुषः पुराणः ।
सहानुजः पूर्वशरीरकेण बभूव तेजोमयदिव्यमूर्तिः ॥ ५८॥
विष्णुं समासाद्य सुरेन्द्रमुख्या देवाश्च सिद्धा मुनयश्च दक्षाः ।
पितामहाद्याः परितः परेशं स्तवैर्गृणन्तः परिपूजयन्तः ॥ ५९॥
आनन्दसम्प्लावितपूर्णचित्ता बभूविरे प्राप्तमनोरथास्ते ।
तदाह विष्णुर्द्रुहिणं महात्मा एते हि भक्ता मयि चानुरक्ताः ॥ ६०॥
यान्तं दिवं मामनुयान्ति सर्वे तिर्यक्षरीरा अपि पुण्ययुक्ताः ।
वैकुण्ठसाम्यं परमं प्रयान्तु समाविशस्वाशु ममाज्ञया त्वम् ॥ ६१॥
श्रुत्वा हरेर्वाक्यमथाब्रवीत्कः सान्तानिकान् यान्तु विचित्रभोगान् ।
लोकान्मदीयोपरि दीप्यमानान् त्वद्भावयुक्ताः कृतपुण्यपुञ्जाः ॥ ६२॥
ये चापि ते राम पवित्रनाम गृणन्ति मर्त्या लयकाल एव ।
अज्ञानतो वापि भजन्तु लोकान् तानेव योगैरपि चाधिगम्यान् ॥ ६३॥
ततोऽतिहृष्टा हरिराक्षसाद्याः स्पृष्ट्वा जलं त्यक्तकलेवरास्ते ।
प्रपेदिरे प्राक्तनमेव रूपं यदंशजा ऋक्षहरीश्वरास्ते ॥ ६४॥
प्रभाकरं प्राप हरिप्रवीरः सुग्रीव आदित्यजवीर्यवत्त्वात् ।
ततो विमग्नाः सरयूजलेषु नराः परित्यज्य मनुष्यदेहम् ॥ ६५॥
आरुह्य दिव्याभरणा विमानं प्रापुश्च ते सान्तनिकाख्यलोकान् ।
तिर्यक्प्रजाता अपि रामदृष्टा जलं प्रविष्टा दिवमेव याताः ॥ ६६॥
दिदृक्षवो जानपदाश्च लोका रामं समालोक्य विमुक्तसङ्गाः ।
स्मृत्वा हरिं लोकगुरुं परेशं स्पृष्ट्वा जलं स्वर्गमवापुरञ्जः ॥ ६७॥
एतावदेवोत्तरमाह शम्भुः श्रीरामचन्द्रस्य कथावशेषम् ।
यः पादमप्यत्र पठेत्स पापाद्- विमुच्यते जन्मसहस्रजातात् ॥ ६८॥
दिने दिने पापचयं प्रकुर्वन् पठेन्नरः श्लोकमपीह भक्त्या ।
विमुक्तसर्वाघचयः प्रयाति रामस्य सालोक्यमनन्यलभ्यम् ॥ ६९॥
आख्यानमेतद्रघुनायकस्य कृतं पुरा राघवचोदितेन ।
महेश्वरेणाप्तभविष्यदर्थं श्रुत्वा तु रामः परितोषमेति ॥ ७०॥
रामायणं काव्यमनन्तपुण्यं श्रीशङ्करेणाभिहितं भवान्यै ।
भक्त्या पठेद्यः शृणुयात् स पापैः विमुच्यते जन्मशतोद्भवैश्च ॥ ७१॥
अध्यात्मरामं पठतश्च नित्यं श्रोतुश्च भक्त्या लिखितुश्च रामः ।
अतिप्रसन्नश्च सदा समीपे सीतासमेतः श्रियमातनोति ॥ ७२॥
रामायणं जनमनोहरमादिकाव्यं ब्रह्मादिभिः सुरवरैरपि संस्तुतं च ।
श्रद्धान्वितः पठति यः शृणुयात्तु नित्यं विष्णोः प्रयाति सदनं स विशुद्धदेहः ॥ ७३॥
इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे नवमः सर्गः ॥ ९॥