Skip to content

ADVOCATETANMOY LAW LIBRARY

Research & Library Database

Primary Menu
  • News
  • Opinion
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • Judgment
  • Book
  • Legal Brief
    • Legal Eagal
  • LearnToday
  • HLJ
    • Supreme Court Case Notes
    • Daily Digest
  • Sarvarthapedia
    • Sarvarthapedia (Core Areas)
    • Systemic-and-systematic
    • Volume One
05/04/2026
  • Sanskrit Documents

अथर्व प्रातिशाख्यम्-Atharva Pratisakhyam-By पैप्पलाद

अथातो न्यायाध्ययनस्य पार्षदं वर्तयिष्यामः १ पदानां संहितां विद्यात् २ पदविधिरिति ३ द्विरुदात्तं बृहस्पत्यादीनाम् ४ प्रत्यञ्चां द्वे उपोत्तमे ५ अवर्णमध्य आकार एकादेशे विशेषः ६ अवर्णान्ताञ्च ७ इकारादौ च ८ एकारादौ च ९ कृदन्ते द्व्युपसर्गे १० गतिपूर्वो यदा धातुः ११ उपसर्गपूर्वमाख्यातम् १२ वचने वचने पूर्वम् १३ एकेन द्वे १४ द्विनतिकानि वा १५ परकारणानि १६ परयोगीनि १७ अर्थपादादिषूदात्तमाख्यातमामन्त्रितं पदम् १८ व्याघ्रादीन्यनुदात्तानि पादादीनामपोदितम् १९ वाक्यविपर्यये पदलोपेषु पादादिवत्स्वरः २० चयोगादनिघातः २१ वायोगादनिघातः २२ आमन्त्रितादाद्युदात्तात् २३ लुप्तकरणान्यकरणानि वा २४ अन्ययोगादनिघातः २५ नहीत्यनेन युक्तानि २६ यदित्येनेन समस्तेन २७ वचनात्परेण च सर्वत्र युक्तं वापवादो वा लुप्तं वा तत्पदं येन योगः २८
advtanmoy 08/11/2021 1 minute read

© Advocatetanmoy Law Library

  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on Telegram (Opens in new window) Telegram
Tree

Home » Law Library Updates » Law Library » Sanskrit Documents » अथर्व प्रातिशाख्यम्-Atharva Pratisakhyam-By पैप्पलाद

Vedic Grammar of Atharva Veda-2000BCE

आथर्व संहिता लक्षण ग्रन्थ [The Book of Atharva Samhita Stylistic]

Vedanga Atharva Pratisakhyam [मूलसूत्रम्]

प्रथमः प्रपाठकः

प्रथमः पादः

अथातो न्यायाध्ययनस्य पार्षदं वर्तयिष्यामः-१ [Now I am going to comment on the logic of Atharva Samhita with its components]

Read Next

  • Prabodh Chandrodaya Natakam by Krishna Mishra (950 CE)
  •  Pūrvatra asiddham (Patanjali Mahābhāṣya) Aṣṭādhyāyī-8.2.1
  • Yajnavalkya Shiksha (याज्ञवल्क्य शिक्षा)

पदानां संहितां विद्यात् २

पदविधिरिति ३

द्विरुदात्तं बृहस्पत्यादीनाम् ४

प्रत्यञ्चां द्वे उपोत्तमे ५

Read Next

  • Prabodh Chandrodaya Natakam by Krishna Mishra (950 CE)
  •  Pūrvatra asiddham (Patanjali Mahābhāṣya) Aṣṭādhyāyī-8.2.1
  • Yajnavalkya Shiksha (याज्ञवल्क्य शिक्षा)

अवर्णमध्य आकार एकादेशे विशेषः ६

अवर्णान्ताञ्च ७

इकारादौ च ८

Read Next

  • Prabodh Chandrodaya Natakam by Krishna Mishra (950 CE)
  •  Pūrvatra asiddham (Patanjali Mahābhāṣya) Aṣṭādhyāyī-8.2.1
  • Yajnavalkya Shiksha (याज्ञवल्क्य शिक्षा)

एकारादौ च ९

कृदन्ते द्व्युपसर्गे १०

गतिपूर्वो यदा धातुः ११

उपसर्गपूर्वमाख्यातम् १२

वचने वचने पूर्वम् १३

एकेन द्वे १४

द्विनतिकानि वा १५

परकारणानि १६

परयोगीनि १७

अर्थपादादिषूदात्तमाख्यातमामन्त्रितं पदम् १८

व्याघ्रादीन्यनुदात्तानि पादादीनामपोदितम् १९

वाक्यविपर्यये पदलोपेषु पादादिवत्स्वरः २०

चयोगादनिघातः २१

वायोगादनिघातः २२

आमन्त्रितादाद्युदात्तात् २३

लुप्तकरणान्यकरणानि वा २४

अन्ययोगादनिघातः २५

नहीत्यनेन युक्तानि २६

यदित्येनेन समस्तेन २७

वचनात्परेण च सर्वत्र युक्तं वापवादो वा लुप्तं वा तत्पदं येन योगः २८

इति प्रथमः पादः

द्वितीयः पादः

द्विषो बहुवचनम् २९ आमन्त्रितं दैवं दैवीरिति सर्वत्र ३० अर्धस्यासमविभागे ३१ नपुंसकम् तस्येदमिति वा जातिरन्तोदात्तम् ३२ द्वितीयोदात्तानि ३३ अकारात्पतिषेधात्परमुदात्तमजरादीनामिति ३४ अकारान्तो ब्रह्मा ब्रह्मण इत्यस्मिन्नर्थे ३५ नपुंसकमाद्युदात्तं ब्रह्म ३६ अन्तोदात्तानि ३७ काव्येति संज्ञायामग्रन्थे ३८ दक्षिणा तद्धितान्तम् ३९ आशामाशिषि ४० अर्वाचीनमिति प्रत्ययान्तरं वा ४१ महो देवस्य महतो देवस्येति ४२ तवर्णलोपोऽन्तोदात्तत्वं च ४३

इति द्वितीयः पादः

तृतीयः पादः

पूर्वपदप्रकृतिस्वरस्तस्यापवादः ४४ अनुदात्तानि ४५ आख्यातानि नाम सदृशानि ४६ कमिति निपातः ४७ यथेति निपातः ४८ आख्यातान्युप सर्यासदृशानि ४९ आमन्त्रितानि स्वरविशिष्टानि ५० पादादीनामपवादः ५१ आदिस्वरितानि ५२ एकाक्षराणि स्वरितानि ५३ अनुदात्तानि स्वरि- तानि ५४ द्वियकाराण्युत्तमे ५५ सर्वलिङ्गवचनेष्वसमासे तन्वोपस्पृशतेति ५६ चत्वारि क्षैप्रश्च पञ्चपद्यामन्तोदात्तादीनि यादुकारस्य सर्वत्र ५७

इति तृतीयः पादः

आथर्वणे प्रातिशाख्यमूलसूत्रे प्रथमः प्रपाठकः समाप्तः


द्वितीयः प्रपाठकः

प्रथमः पादः

कन्यला १ एकारो विभक्त्यादेशश्छन्दसि २ सचतिरन्यत्र ३ आकमिति मकारलोपः ४ शकल्येष्यादिषु पररूपम् ५ ईकारोकारौ च सप्तम्यर्थे ६ पूर्वमित्यस्मिन्नर्थे सयकारम् ७ यकारलोपः ?पत्ययान्तरं वा ८ अपवादो वा ९ वृषभ इति देवताख्यानम् १० अस्तेः प्रैषण्या मध्यमस्यैकवचनम् ११ इत्येतेरिहीत्यन्यत्र १२ परस्तात् पुरस्तादन्यानि १३ ऐकारान्तान्या काराबाधे १४ यान्याकारोपधानि मकारान्तानि तानि स्त्रियैकवचनानि ह्रस्वोपधानि पुंवचनानि १५

इति प्रथमः पादः

द्वितीयः पादः

ऊष्मान्तानि स्वरान्ताबाधानि १६ लोपसंदेहे १७ तृतीयासंदेहे सान्ताञ्च १८ आकारान्ताञ्च प्रत्ययलोपिनः १९ आख्यातं गकारान्तादेव २० – १ भूतेऽद्यतन्या मध्यमस्यैकवचनम् २० – २ एना अनुदात्तम् २१ ऊत्का न्तानि सकारे परतः संयोगादौ च २२ शकारादौ च २३ विश्वा विसर्ज नीयान्ताः २४ स्वरान्तान्यूष्ट्यान्ताबाधानि २५ एना अन्तोदात्तम् २६ स्वरान्तानि सकारे परतः संयोगादौ च २७ गोपा मे स्तमभूतं गोपा इति द्विवचने २८ एकवचनद्विवचनबहुवचनान्यूष्मान्तानि २९ प्रपाकृपादेवगोपे त्यतोऽन्यानि पा इत्यूष्मान्तानि ३० भूरिधाराशतधारामधुधारा इत्येकवच नानि ३१ स्त्रीबहुवचनान्यूष्मान्तानि ३२ स्तनयन्नेति वृष्ट्या पर्जन्यस्य वृष्ट्याभीपतो वृष्ट्या इति तृतीयान्तानि ३३ ग्राह्यामित्रान्याह्या गृहा ग्राह्येनं विध्यामीति ३४ एना पृथिव्या पृथिव्योरसा सं त्वादधामि पृथिवीं पृथिव्या दिवा पृथिव्या इति ३५ ता वो नामानि सिन्धवस्त्वं ता विश्वा यस्ता विजानादा घा ता गछान्त्सर्वा ता यम आर्पिता इति नपुंसकबहु वचनानि ३६ इति द्वितीयः पादः

तृतीयः पादः

प्रो दीर्घः ३७ भूतेऽङ्गख्यादितः ३८ छन्दसि ३९ अदन्तस्य ४० एष स व्यञ्जने ४१ एकादेशे तु ४२ आकारात् ४३ कृदन्ते अन्यवर्णान्ताच्च ४४ एना एहा आदयः प्रकृत्या ४५ ते प्रगृह्यमध्ये भूतादिभ्यः पतिरुत्तरपदमाद्युदात्तम् ४६ द्वियकाराणि ४७ द्विजकारे ४८ द्विलकारम् ४९ द्विपकाराणि ५० द्वितकाराणि ५१ द्विनकाराणि ५२ एकारान्तानि ५३ नानापदानि ५४ अभ्यासस्य ५५ अकारान्तानि प्रैषण्या मध्यमस्यैक वचनानि ५६ नैगमी तकाराबाधे ५७ स्वरितान्तान्युदात्तसंहितान्युदात्तेनै कादेशे ५८ प्रतिषेधे उदात्तोऽस्मदादेशे ५९ ङकारावग्रहाणि ६० नकारावग्रहे प्रकृतिभावश्च ६१ मकारावग्रहाणि ६२ सु इत्येतेनोपसर्गेण ६३ स्वशब्देन ६४ इति तृतीयः पादः

चतुर्थः पादः

ददातेः ६५ इति सार्वधातुके ६६ रयिं दा इति भूते ६७ समानाधिकरणे समानार्थे पदव्यवायेऽप्यस्मै शतादीनि चान्तोदात्तानि ६८ लुप्तशेषेणाव ग्रहः प्रकृत्यादेशश्च ६९ दन्तपादहृदयोदकनासिकासहसमानरात्रिजायादारु मासः पुंसि शेकृच्छ्रमावद्गम्भीरमिति ७० नलोपे च पादस्य ७१ दीर्घायु त्वायादिषु च ७२ पातयतेर्दीर्घोषधस्य ७३ पादयतिरन्यत्र ७४ पद्यति- रन्यत्र ७५ सयकाराणि ७६ तमित्यस्मिन्नर्थे ७७ अञ्चत्यन्तं प्रथमान्त- मुत्तमे परतो द्विधा । उत्तमा उत्तमेष्विति ७८ तकारान्ते ७९ नकारान्तानि मकाराबाधे ८० मकारान्तानि ८१ नकारान्तानि ८२

इति चतुर्थः पादः आथर्वणे प्रातिशाख्यमूलसूत्रे द्वितीयः पपाठकः समाप्तः


तृतीयः प्रपाठकः

प्रथमः पादः

रेफप्रकृतिघोषवत्स्वरेषु १ अव्ययानि च २ आमन्त्रित ओकार इतावनार्षे प्रकृत्या ३ अपिपूर्वो दधातिः ४ आधेडितसमासस्य ५ अनाम्रेडितान्याम्रेडि तसदृशानि ६ षत्वणत्वोपाचारदीर्घत्वसमापत्तेः ७ कृणोत्विति ८ मतौ ह्रस्वः ९ संहितायां विसर्जनीयस्य १० उत्तममुदात्तम् ११ उत्तरपदे ह्रस्वः १२ आद्यक्षर वृद्धिः १३ यकारादौ बहुलं दीर्घः १४ गविष्टौ गवेषण इति न लोपो वकारस्य १५ शपथेय्यं सहशेय्यायेत्येकारात्परो यकारः १६ पूर्वपरौ ह्रस्वौ १७ अकारेकारावागमौ पूर्वस्य १८ विधेमेत्यन्यत्र १९ अकारान्तान्विति २० एकारान्ताच्च २१ ओकारान्ताञ्च २२ इति प्रथमः पादः

द्वितीयः पादः

उत्पूर्वो हृषिः २३ एकवचनान्यन्यत्र २४ तकारान्तानि २५ ङ्यन्ताद्वा सुर्न लुप्यते कृदन्ताद्वा २६ एकारादीन्येतेर्ह्यस्तन्याम् २७ आख्यातेन विग्रह उपसर्गेण च २८ अव्ययेन च २९ यथाशास्त्रं कामः संयोगे ३० रेफमध्ये तकारः ३१ रेफमध्ये सकारः ३२ ख्यातौ ख्ययौ शुश्रुषीति बाधौ शुचेः ३३ यकारान्तः संयोगः ३४ हकारान्तः संयोगः ३५ तमौ ३६ ममौ ३७ कनौ ३८ पनौ ३९ ककारादिः संयोग ४० रेफादिः संयोग ४१ कृत्तीर्दूर्शानी तीकारः ४२ यो अश्व्येनेति यकारः ४३ विकारेऽवयवे वा ४४ हरण्यैरिति ण्यौ ४५ ताम्रधूम्रा इति मरौ ४६ नद्यो वेशन्त्या इवेत्ययकारम् ४७ त्वष्ट्रेव रूपमिति तृतीयान्तम् ४८ अपरुध्म इति धमौ ४९ कल्मलिः कुञ्जलमिति लमौ ५० सत्ते द्वितकारम् ५१ आर्द्रहस्ता समङ्त इति रेफ ङकारादिः संयोगः ५२ तिर्यमिति तिरौ ५३ ऋभ्वाणं मातरिभ्वरीति भवौ ५४ अन्तवञ्चा समन्ते प्र यद्धन्दिष्ठो जिह्वां नि तृन्धीति नकारादिः ५५

इति द्वितीयः पाद

तृतीयः पादः

नकारस्य विसर्जनीयः ५६ नकारस्य रेफः ५७ ह्रस्वोपधस्य तवर्गे प्रकृत्या ५८ दीर्घोपधः सप्तधातु विसर्जनीयस्य ५९ यथापरु समासे सकारः कपयोः ६० पञ्चम्याः परौ ६१ विसर्जनीयस्य सकारः ६२ षत्वस्यापवादः ६३ अनुपसर्गत्षकारः ६४ पूर्वपदात् ६५ उपसर्गस्योत्तरपदे दीर्घः ६६ अनिङ्ग्येषूत्तरपदे दीर्घ इङ्ग्येषु च ६७ अभ्यासस्य दीर्घः छन्दसि ६८ अश्वादीनां मतौ ६९ सर्वलिङ्गवचनेषु च ७० प्रथमस्य ७१ द्वितीयस्य ७२ सात्रासाहादीनामुत्तरपदाद्यस्य ७३ नामेत्यस्य ह्रस्वान्तम समासे ७४ निपाताव्ययानामुत्तरपदाद्यस्य ७५ इति तृतीयः पादः

चतुर्थः पादः

अञ्चतौ लुप्तप्रत्यये नेङ्ग्यते ७६ देवताद्वन्द्वे दीर्घाद्भिर्भ्यांभ्यःस्सु ७७ समस्तमेकाक्षरं वृद्ध्या ७८ एकाक्षरमवर्णान्तम् ७९ स्वरलिङ्गस्वरविभक्तिवचनविशेषेषु ८० वर्णलिङ्गस्वरविभक्तिवाक्यव्य- त्ययश्छन्दसि ८१ वर्णलोपागमह्रस्वदीर्घप्लुतात्मनेभाषापरस्मैभाषा अपिय न्त्यपियन्ति ८२ इति चतुर्थः पादः

इति तृतीयः प्रपाठकः समाप्तः

आथर्वणेपैप्पलाद सहितालक्षणग्रन्थे प्रातिशाख्यमूलसूत्रं समाप्तम्


More Sanskrit Grammar

Patanjali Mahabhasya: Bengali Commentary by Tanmoy Bhattacharyya
Books

Patanjali Mahabhasya: Bengali Commentary by Tanmoy Bhattacharyya

Learn Vedic Sanskrit Today (10th Feb 2026)
Law Library

Learn Vedic Sanskrit Today (10th Feb 2026)

Yajnavalkya Shiksha (याज्ञवल्क्य शिक्षा)
Sanskrit Documents

Yajnavalkya Shiksha (याज्ञवल्क्य शिक्षा)

Dhatu Karika by Sree Kantha (धातुकारिका)
Vedic Dictionary

Dhatu Karika by Sree Kantha (धातुकारिका)

Pingala Chhanda Sutram (300 BCE) पिङ्गलछन्दःसूत्रम्
Vedic Sanskrit Culture

Pingala Chhanda Sutram (300 BCE) पिङ्गलछन्दःसूत्रम्

Vagvyavaharadarsah (वाग्व्यवहारादर्शः) of Charudev Shastri: A Mirror to Sanskrit Usage
Vedic Sanskrit Culture

Vagvyavaharadarsah (वाग्व्यवहारादर्शः) of Charudev Shastri: A Mirror to Sanskrit Usage

Names of the early Sanskrit dictionarians

Names of the early Sanskrit dictionarians

Sanskrit Documents

क्रियानिघण्टु – वीरपाण्ड्यभूपाल Kriya Nighantu

Sanskrit Documents

पाणिनीय लिङ्गानुशासन वृत्तिः- Linganushasana Vritti

Sanskrit Documents

श्रीमत्ताताचार्यकृत समासशिखामणिः- Samasa Sikhamani

Law

List of Sanskrit Upasarga

माहेश्वरसूत्राणि-Maheswara sutra
Vedic Sanskrit Culture

माहेश्वरसूत्राणि-Maheswara sutra

कच्‍चायन धातु मञ्‍जूसा-Kachchayana Dhatu Manjusa
Pali Text

कच्‍चायन धातु मञ्‍जूसा-Kachchayana Dhatu Manjusa

लघुसिद्धान्तकौमुदी- Laghu Siddhanta Koumudi of Barad Raja
Vedic Sanskrit Culture

लघुसिद्धान्तकौमुदी- Laghu Siddhanta Koumudi of Barad Raja

Sanskrit Vyakarana Collection
Vedic Sanskrit Culture

Sanskrit Vyakarana Collection


Tags: 2000CE Sanskrit grammar Vedanga

Post navigation

Previous: History of Sanskrit Literature by Arthur Anthony Macdonell-1900
Next: कनकधारास्तोत्रम् – Kanak Dhara Stotram – Sankaracharya (508 BCE)
Communism
Sarvarthapedia

Manifesto of the Communist Party 1848: History, Context, and Core Concepts

Arrest
Sarvarthapedia

Latin Maxims in Criminal Law: Meaning, Usage, and Courtroom Application

Biblical Basis for Slavery: Old and New Testament Laws, Narratives, and Interpretations

Rule of Law vs Rule by Law and Rule for Law: History, Meaning, and Global Evolution

IPS Cadre Strength 2025: State-wise Authorised Strength

Uric Acid: From 18th Century Discovery to Modern Medical Science

Christian Approaches to Interfaith Dialogue: Orthodox, Catholic, Protestant, and Pentecostal Views

Origin of Central Banking in India: From Hastings to RBI and the History of Preparatory Years (1773–1934)

Howrah District Environment Plan: Waste Management, Water Quality & Wetland Conservation

Bharatiya Nyaya Sanhita 2023: Sections (1-358), Punishments, and Legal Framework

Bengali Food Culture: History, Traditions, and Class Influences

West Bengal Court-Fees Act, 1970: Fees, Schedules, and Procedures

WB Land Reforms Tribunal Act 1997: History, Features, Provisions, Structure, Powers and Functions

Civil Procedure Law of the Democratic People’s Republic of Korea (1976)

  • Sarvarthapedia

  • Delhi Law Digest

  • Howrah Law Journal

  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Ram v. Sukhram: Tribal women’s right in ancestral property [2025] 8 SCR 272
  • Naresh vs Aarti: Cheque Bouncing Complaint Filed by POA (02/01/2025)
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders
Biblical Basis for Slavery

Biblical Basis for Slavery: Old and New Testament Laws, Narratives, and Interpretations

Sarvarthapedia, Law and Legal Materials

Rule of Law vs Rule by Law and Rule for Law: History, Meaning, and Global Evolution

Indian Government

IPS Cadre Strength 2025: State-wise Authorised Strength

Sarvarthapedia

Uric Acid: From 18th Century Discovery to Modern Medical Science

2026 © Advocatetanmoy Law Library

  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subject Guide
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia (Articles)
  • Contact Us
  • Privacy Policy
  • FAQs
  • Library Updates