Skip to content

Advocatetanmoy Law Library

Research & Library Database

Yuddha Gita (1st Vol): The First Question of Human Civilization

Search

  • Genesis-1 (Bereshit-1) — Torah Reading: Bereshit Bara Elohim – The Creation of the World
  • An Introduction to the Rashtriya Swayamsevak Sangh
  • Swami Pranabananda and the Making of Shyama Prasad Mukherjee’s Early Political Outlook
  • 18th Lok Sabha Election 2024 in West Bengal: Party Position and Elected Members
  • Sarvarthapedia: The Knowledge Universe of Civilization
  • Dakshineswar Bhabatarini Kali: Three Kali Idols, Rani Rashmoni, and Temple History
  • Political Evolution of Bengal (1300–2000): A 700-Year History of State, Society and Power
  • Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System
  • West Bengal Govt Budget Statement In Bengali (2026-2027) by Swapan Dasgupta
  • Encyclopedia of Physical Measurement (3-Volume)
Primary Menu
  • News
    • Editorial
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • JudgmentSupreme Court
  • Podcast
  • Legal Brief
    • Legal Eagal
  • HLJLaw Digests
    • Supreme Court Case Notes
    • Daily Digest
  • SarvarthapediaKnowledgebase
    • Sarvarthapedia (Twelve Core Areas): Macro Structure
    • Systemic-and-systematic
    • Volume One
    • Volume Two
    • Volume Three
    • Volume Four
    • Volume Five
    • Volume Six
  • Subjects
    • Knowledge Graph
    • Glossary
  • Indian Law
  • EncyclopediaCollection
Home » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » Vedic Sanskrit Culture » Chanakya(Kautilya) Sutra
  • Vedic Sanskrit Culture

Chanakya(Kautilya) Sutra

सुखस्य मूलं धर्मः-अर्थमूलं सर्वकार्यं यदल्पप्रयत्नात् कार्यसिद्धिर्भवति-बालादपि युक्तमर्थ शृणुयात्-धर्मेण धार्यते लोकः-विद्या धनमधनानाम्-अनुपद्रवं देशमावसेत्-तपस्सार इन्द्रियनिग्रहः-धुरमेधसोऽसच्छास्त्रं मोहयति
advtanmoy 10/12/2017 1 minute read

© Advocatetanmoy Law Library

  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on Telegram (Opens in new window) Telegram
Personality

चाणक्यानि अथवा कौटिलीयानि नीतिसूत्राणि 

अथ प्रथमोऽध्यायः ॥

सा श्रीर्वोऽव्यात् ॥ १॥ [That Sree, source of wealth may protect us]

सुखस्य मूलं धर्मः ॥२॥

धर्मस्य मूलमर्थः ॥ ३॥

अर्थस्य मूलं राज्यम् ॥ ४॥

राज्यमूलमिन्द्रियजयः ॥ ५॥

इन्द्रियजयस्य मूलं विनयः ॥ ६॥

विनयस्य मूलं वृद्धोपसेवा ॥ ७॥

वृद्धसेवाया विज्ञानम् ॥ ८॥

विज्ञानेनात्मानं सम्पादयेत् ॥ ९॥

सम्पादितात्मा जितात्मा भवति ॥ १०॥

जितात्मा सर्वार्थैः संयुज्यते ॥ ११॥

स्वामिसम्पत् प्रकृतिसम्पदं करोति ॥ १२॥

प्रकृतिसम्पदा ह्यनायकमपि राज्यं नीयते ॥ १३॥

प्रकृतिकोपः सर्वकोपेभ्यो गरीयान् ॥ १४॥

अविनीतस्वामिभावादस्वामिभावः श्रेयान् ॥ १५॥

सम्पाद्यात्मानमन्विच्छेत् सहायान् ॥ १६॥

नाऽसहास्य मन्त्रनिश्चयः ॥ १८॥

नैकं चक्रं परिभ्रमति ॥ १९॥

सहायः समो दुःखसुखयोः ॥ १७॥

मानी प्रतिमानिनमात्मद्वितीयं मन्त्रिणमुत्पादयेत् ॥ २०॥

अविनीतं स्नेहमात्रेण न मन्त्रे कुर्वीत ॥ २१॥

श्रुतवन्तमुपधाशुद्धं मन्त्रिणं कुर्वीत ॥ २१॥

मन्त्रमूलाः सर्वारम्भाः ॥ २२॥

मन्त्रसंवरणे कार्यसिद्धिर्भवति ॥ २३॥

मन्त्रनिःस्रावः सर्वम् नाशयति ॥ २४॥

प्रमादाद् द्विषतां वशमुपयास्यति ॥ २५॥

सर्वद्वारेभ्यो मन्त्रो रक्षितव्यः ॥ २६॥

मन्त्रसम्पदा हि राज्यं विवर्धते ॥ २७॥

श्रेष्ठतमां मन्त्रगुपितमाहुः ॥ २८॥

कार्याकार्य प्रदीपो मन्त्रः ॥ २९॥

मन्त्रचक्षुषा परच्छिद्राण्यवलोकयन्ति ॥ ३१ ।
मन्त्रकाले न मत्सरः कर्तव्यः ॥ ३१॥

अकामबुद्धयो मन्त्रतत्त्वार्थदर्शिनो मन्त्रिणः ॥ ३४॥

षट्कर्णो मन्त्रश्छिद्यते ॥ ३२॥

त्रयाणामैकवाक्येऽसम्प्रत्ययः ॥ ३३॥

आपत्सु स्नेहयुक्तं मित्रम् ॥ ३५॥

मित्रसंग्रहणे बलं सम्पद्यते ॥ ३६॥

बलवान् अलब्धलाभे प्रयतेत ॥ ३७॥

अलब्धलाभो नालसस्य ॥ ३८॥

अलसेन लब्धमपि रक्षितुं न शक्यते ॥ ३९॥

न चालसस्ययुक्तस्य रक्षितं विवर्धते ॥ ४०॥

न भृत्यान् पोषयति ॥ ४१॥

न तीर्थं प्रतिपादयति ॥ ४२॥

अलब्धलाभादिचतुष्टयं राजतन्त्रम् ॥ ४३॥

तच्च राज्यतन्त्रमायतं नीतिशास्त्रेषु ॥ ४४॥

राज्यतन्त्रेष्वायत्तौ मन्त्रावापौ ॥ ४५॥

मन्त्रं स्वविषये कृत्येष्वायत्तम् ॥ ४६॥

आवापो मण्डले सन्निविष्टः ॥ ४६॥

सन्धिविग्रहयोर्योनिर्मण्डलम् ॥ ४८॥

नीतिशास्त्रानुगो राजा ॥ ४९॥

अनन्तरप्रकृतिः शत्रुः ॥ ५०॥

एकान्तरितं मित्रमिष्यते ॥ ५१॥

हेतुतः शत्रुमित्रे भविष्यतः ॥ ५२॥

हीयमानेन स सन्धिं कुर्वीत ॥ ५३॥

तेजो हि सन्धानहेतुस्तदर्थिनाम् ॥ ५४॥

नातप्तलोहं लोहेन सन्धत्ते ॥ ५५॥

बलवान् हीनेन विगृह्णीयात् ॥ ५६॥

न ज्यायसा समेन वा ॥ ५७॥

हस्तिनः पादयुद्धमिव बलवद्विग्रहः ॥ ५८ ।
आमपात्रमापेन सह विनश्यति ॥ ५९॥

अरिप्रयत्नमभिसमीक्ष्यात्मरक्षया वसेत् ॥ ६०॥

सन्धायैकतो वा यायात् ॥ ५८॥

अमित्रविरोधादात्मरक्षामावसेत् ॥ ५९॥

शक्तिहीनो बलवन्तमाश्रयेत् ॥ ६१॥

दुर्बलाश्रयो दुःखमावहति ॥ ६२॥

अग्निवद् राजानमाश्रयेत् ॥ ६३॥

राज्ञाः प्रतिकूलं नाचरेत् ॥ ६४॥

नोद्धतवेशधरः स्यात् ॥ ६६॥

न देवचरितं चरेत् ॥ ६५॥

द्वयोरपीर्ष्यतोर्द्वैधीभावकुर्वीत ॥ ६७॥

न व्यसनपरस्य कार्यावाप्तिः ॥ ६८॥

इन्द्रियवशवर्तिनो नास्ति कार्यावाप्तिः ॥ ६९॥

नास्ति कार्यं द्युतप्रवृत्तस्य ॥ ७०॥

मृगयापरस्य धर्मार्थौ विनश्यतः ॥ ७१॥

न कामासक्तस्य कार्यानुष्ठानम् ॥ ७३॥

अर्थेषु पानव्यसनी न गण्यते ॥ ७२॥

अर्थदूषकं श्रीः परित्यजति ॥ ७६॥

अग्निदहादपि विशिष्तं वाक्पारुष्यम् ॥ ७४॥

दण्डपारुष्यात् सर्वजनद्वेष्यो भवति ॥ ७५॥

अमित्रो दण्डनीत्यामायत्तः ॥ ७७॥

दण्डनीतिमनुष्ठन् प्रजाः संरक्षति ॥ ७८॥

दण्डः सर्वसम्पदा योजयति ॥ ७९॥

दण्डाभावे त्रिवर्गाभावः ॥ ८०॥

दण्डभयादकार्याणि न कुर्वन्ति ॥ ८१॥

दण्डनीत्यामायत्तमात्मरक्षणम् ॥ ८२॥

आत्मनि रक्षिते सर्वं रक्षितं भवति ॥ ८३॥

आत्मायत्तौ वृद्धिविनाशौ ॥ ८४॥

दण्डनीत्यादि विज्ञाने प्रणीयते ॥ ८५॥

दुर्बलोऽपि राजा नावमन्तव्यः ॥ ८६॥

नास्त्यग्नेर्दौर्बल्यम् ॥ ८७॥

दण्डेन प्रणीयते वृत्तिः ॥ ८८॥

वृत्तिमूलोऽर्थलाभः ॥ ८९॥

अर्थमूलौ धर्मकामौ ॥ ९०॥

अर्थमूलम् कार्यम् ॥ ९१॥

यत्नप्रयत्नात् कार्यसिद्धिर्भवति स उपायः ॥ ९२॥

उपायपूर्वं कार्यं न दुष्करं स्यात् ॥ ९३॥

अनुपायपूर्वं कार्यं कृतमपि विनश्यति ॥ ९४॥

कार्यार्थिनामुपाय एव सहायः ॥ ९५॥

कार्यं पुरुषकारेण लक्ष्यं सम्पद्यते ॥ ९६॥

पुरुषकारमनुवर्तते दैवम् ॥ ९७॥

दैवं विना अतिप्रयत्नं करोति यत्तद् विफलम् ॥ ९८॥

अनीहमानस्य वृत्तिर्न सम्पद्यते ॥ ९९॥

पूर्वं निश्चित्य पश्चात्कार्यमारभेत ॥१००॥

इति चाणक्यसूत्रे प्रथमोऽध्यायः ॥


अथ द्वितीयोऽध्यायः ॥

अर्थमूलं सर्वकार्यं यदल्पप्रयत्नात् कार्यसिद्धिर्भवति ॥ १॥

उपायपूर्वं कार्यं न दुष्करं स्यात् ॥ २॥

अनुपायपूर्वकार्यं कृतमपि विनश्यति ॥ ३॥

कार्यार्थिनामुपाय एव सहायः ॥ ४॥

कार्यं पुरुषकारेण लक्ष्यं सम्पद्यते ॥ ५॥

पुरुषकारमनुवर्तते दैवम् ॥ ६॥

दैवं विनाऽतिप्रयत्नं यत्करोति तद्विफलम् ॥ ७॥

असमाहितस्य कार्यं न विद्यते ॥ ८॥

पूर्वं निश्चित्य पश्चात्कार्यमारभेत ॥ ९॥

कार्यान्तरे दीर्घसूत्रता न कर्तव्या ॥ १०॥

न चलचित्तस्य कार्यावाप्तिः ॥ ११॥

हस्तगतावमाननात् कार्यव्यतिक्रमो भवति ॥ १२॥

दोषवर्जितानि कार्याणि दुर्लभानि ॥ १३॥

दुरनिबन्धं कार्यं न आरभेत ॥ १४॥

कालवित् कार्यं साधयेत् ॥ १५॥

कालातिक्रमात् काल एव फलं पिबति ॥ १६॥

क्षणं प्रति कालविक्षेपं न कुर्यात् सर्वकृतेषु ॥ १७॥

देशकालविभागौ ज्ञात्वा कार्यमारभेत ॥ १८॥

दैवहीनं कार्यं सुसाधमपि दुस्साधं भवति ॥ १९॥

नीतिज्ञो देशकालौ परीक्षेत ॥ २०॥

परीक्ष्यकारिणि श्रीश्चिरं तिष्ठति ॥ २१॥

सर्वाश्च सम्पदः सर्वोपायेन परिगृह्णीयात् ॥ २२॥

भाग्यवन्तमप्यपरीक्ष्यकारिणं श्रीः परित्यजति ॥ २३॥

ज्ञात्वाऽनुमानैश्च परीक्षा कर्तव्या ॥ २४॥

यो यस्मिन्कर्मणि कुशलस्तं तस्मिन्नेव योजयेत् ॥ २५॥

दुस्साधमपि सुसाधं करोत्युपायज्ञः ॥ २६॥

अज्ञानिना कृतमपि न बहुमन्तव्यं यादृच्छिकत्वात् ॥ २७॥

कृमयोऽपो हि कदाचित् रूपान्तराणि कुर्वन्ति ॥ २८॥

सिद्धस्यैव कार्यस्य प्रकाशनं कर्तव्यम् ॥ २९॥

ज्ञानवतामपि दैवमानुषदोषात् कार्याणि दुष्यन्ति ॥ ३०॥

दैवं दोषं शान्तिकर्मणा प्रतिषेधयेत् ॥ ३१॥

मानुषीं कार्यविपत्तिं कौशलेन विनिवारयेत् ॥ ३२॥

कार्यविपत्तौ दोषान् वर्णयन्ति बालिशाः ॥ ३३॥

कार्यार्थिना दाक्षिण्यं न कर्तव्यम् ॥ ३४॥

क्षीरार्थि वत्सो मातुरूधः प्रतिहन्ति ॥ ३५॥

अप्रयत्नात् कार्यविपत्तिर्भवेत् ॥ ३६॥

न दैवमात्रप्रमाणानां कार्यसिद्धिः ॥ ३७॥

कार्यबाह्यो न पोषयत्याश्रितान् ॥ ३८॥

यः कार्यं न पश्यति सोऽन्धः ॥ ३९॥

प्रत्यक्षपरोक्षनुमानैः कार्याणि परीक्षेत ॥ ४०॥

अपरीक्षकारिणं श्रीः परित्यजति ॥ ४१॥

परीक्ष्य तार्या विपत्तिः ॥ ४२॥

स्वशक्तिं ज्ञात्वा कार्यमारभेत ॥ ४३॥

स्वजनं तर्पययित्वा यश्शेषभोजी सोऽमृतभोजी ॥ ४४॥

सम्यगनुष्ठानादायमुखानि वर्धन्ते ॥ ४५॥

नास्ति भीरोः कार्यचिन्ता ॥ ४६॥

स्वामिनः शीलं ज्ञात्वा कार्यार्थी कार्यं साधयेत् ॥ ४७॥

धेनोश्शीलज्ञो हि क्षीरं भुङ्क्ते ॥ ४८॥

क्षुद्रे गुह्यप्रकाशनमात्मवान् न कुर्यात् ॥ ४९॥

आश्रितैरप्यवमन्यते मृदुस्वभावः ॥ ५०॥

तीक्ष्णदण्डः सर्वेषामुद्वेजनीयो भवति ॥ ५१॥

यथार्हदण्डकारी स्यात् ॥ ५२॥

अल्पसारं श्रुतवन्तमपि न बहुमन्यते लोकः ॥ ५३॥

अतिभारः पुरुषमवसादयति ॥ ५४॥

यः संसदि परदोषं शंसति स स्वदोषबहुत्वमेव प्रख्यापयति ॥ ५५॥

आत्मानमेव नाशयत्यनात्मवतां कोपः ॥ ५६॥

नास्त्यप्राप्यं सत्यवताम् ॥ ५७॥

न केवलेन साहसेन कार्यसिद्धिर्भवति ॥ ५८
व्यसनार्तो विस्मरत्यवश्यकर्तव्यान् ॥ ५९॥

नास्त्यनन्तरायः कालविक्षेपे ॥ ६०॥

असंशयविनाशात् संशयविनाशः श्रेया ॥ ६१॥

केवलं धनानि निक्षेप्तुं न स्वार्थं न दानं न धर्मः ॥ ६२॥

नार्या आगतोऽर्थः तद्विपरीतमनर्थभावं भजते ॥ ६३॥

यो धर्मार्थौ न व्यर्थयति स कामः तद्विपरीतोऽनर्थसेवी ॥ ६४॥

ऋजुस्वभावप्रो जनो दुर्लभः ॥ ६५॥

अवमानेनागतमैश्वर्यमवमन्यत एव साधुः ॥ ६६॥

बहूनपि हि गुणानेकदोषो ग्रसति ॥ ६७॥

महात्मना परं साहसं न कर्तव्यम् ॥ ६८॥

कदाचिदपि चारित्रं न लङ्घयेत् ॥ ६९॥

क्षुधाऽऽर्तो न तृणं चरति सिंहः ॥ ७०॥

प्राणादपि प्रत्ययो रक्षितव्यः ॥ ७१॥

पिशुनो नेता पुत्रदारैरपि त्यज्यते ॥ ७२॥

इति द्वितीयोऽध्यायः ॥


अथ तृतीयोऽध्यायः ॥

बालादपि युक्तमर्थ शृणुयात् ॥ १॥

सत्यमप्यश्रद्धेयं न वदेत् ॥ २॥

नाल्पदोषाद्बहुगुणास्त्यज्यन्ते ॥ ३॥

विपश्चित्स्वपि सुलभा दोषाः ॥ ४॥

नास्ति रत्नमखण्डितम् ॥ ५॥

मर्यादातीतं न कदाचिदपि विश्वसेत् ॥ ६॥

अप्रिये कृते प्रियमपि द्वेष्यं भवति ॥ ७॥

नमन्त्यपि हि तुलाकोटिः कृपोदकक्षयं करोति ॥ ८॥

सतां मतं नातिक्रामेत् ॥ ९॥

गुणवदाश्रयान् निर्गुणोऽपि गुणी भवति ॥ १०॥

क्षीराश्रितं जलं क्षीरमिव भवति ॥ ११॥

मृत्पिण्डेऽपि पाटलिपुष्पं स्वगन्धमुत्पादयति ॥ १२॥

रजतं कनकसङ्गात् कनकं भवति ॥ १३॥

उपकर्तर्यपकर्तुमिच्छत्यबुधः ॥ १४॥

न पाप कर्मणामाक्रोशभयम् ॥ १५॥

उत्साहवतां शत्रवोऽपि वशीभवन्ति ॥ १६॥

विक्रमधना हि राजानः ॥ १७॥

नास्त्यालस्यैहिकमामुष्मिकं वा ॥ १८॥

निरुत्साहाद्दैवं पतति ॥ १९॥

मत्स्यार्थीव जालमुपयुज्यार्थं गृह्णीयात् ॥ २०॥

अविश्वस्तेषु विश्वसो न कर्तव्यः ॥ २१॥

विषं विषमेव सार्वकालम् ॥ २२॥

अर्थसमादाने वैरिणां सङ्ग एव न कर्तव्यः ॥ २३॥

अर्थसिद्धौ वैरिणं न विश्वसेत् ॥ २४॥

अर्थाधीन एव नियतसम्बन्धः ॥ २५॥

शत्रोरपि सुतः सखा रक्षितव्यः ॥ २६॥

यावच्छत्रोश्च्छिद्रं पश्यति तावद्धस्तेन वा स्कन्धेन वा संवाह्यः छिद्रे तु प्रहरेत् ॥ २७॥

आत्मछिद्रं न प्रकाशयेत् ॥ २८॥

छिद्रप्रहारिणः शत्रवोऽपि ॥ २९॥

हस्तगतमपि शत्रुं न विश्वसेत्। ३०॥

स्वजनस्य दुर्वृतं निवारयेत् ॥ ३१॥

स्वजनावमानोऽपि मनस्विनां दुःखमावहति ॥ ३२॥

एकाङ्गदोषः पुरुषमवसादयति ॥ ३३॥

शत्रुं जयति सुवृत्तता ॥ ३४॥

निकृतिप्रिया नीचाः ॥ ३५॥

नीचस्य मतिर्न दातव्या ॥ ३६॥

नीचेषु विश्वासो न कर्तव्यः ॥ ३७॥

सुपूजितोऽपि दुर्जनः पीडयत्येव ॥ ३८॥

चन्दनदीनपि दावोऽग्निर्दहत्येव ॥ ३९॥

कदाऽपि कमपि पुरुषं नावमन्येत ॥ ४०॥

क्षन्तव्यमिति पुरुषं न बाधेत ॥ ४१॥

भर्त्राऽधिकं रहस्युक्तं वक्तुमच्छिन्त्यबुधः ॥ ४२॥

अनुराग्स्तु फलेन (हितेन) सूच्यते ॥ ४३॥

आज्ञाफलमैश्वर्यम् ॥ ४४॥

दातव्यमपि बालिशः परिक्लेशेन दास्यति ॥ ४५॥

महदैश्वर्यं प्राप्यापि अधृतिमान् विनश्यति ॥ ४६॥

नास्त्यधृतेरैहिकमामुष्मिकं वा ॥ ४७॥

न दुर्जनैः सह संसर्गः कर्तव्यः ॥ ४८॥

शौण्डहस्तगतं पयोऽप्यवमन्यते जनः ॥ ४९॥

कार्यसङ्कटेष्वर्थव्यवसायिनी बुद्धिः ॥ ५०॥

मितभोजनं स्वास्थ्यम् ॥ ५१॥

पथ्यमप्यपथ्याजीर्णे नाश्नीयात् ॥ ५२॥

जीर्णभोजिनं व्याधिर्नोपसर्पति ॥ ५३॥

जीर्णशरीरे वर्धमानं व्याधिं नोपेक्षेत ॥ ५४॥

अजीर्णे भोजनं दुःखम् ॥ ५५॥

शत्रोरपि विशिष्यते व्याधिः ॥ ५६॥

दानं निधानमनुगामि ॥ ५७॥

पटुतरेऽपि तृष्णापरे सुलभमतिसन्धानम् ॥ ५८॥

तृष्णया मतिश्छाद्यते ॥ ५९॥

कार्यबहुत्वे बहुफलमायतिकं कुर्यात् ॥ ६०॥

स्वयमेवावस्कन्नं कार्यं निरीक्षेत ॥ ६१॥

मूर्खेषु साहसं नियतम् ॥ ६२॥

मूर्खेषु विवादो न कर्तव्यः ॥ ६३॥

मूर्खेषु मूर्खवदेव कथयेत् ॥ ६४॥

आयसैरायसं छेद्यम् ॥ ६५॥

नास्त्यधीमतस्सखा ॥ ६६॥

इति तृतीयोऽध्यायः ॥


अथ चतुर्थोऽध्यायः ॥

धर्मेण धार्यते लोकः ॥ १॥

प्रेतमपि धर्माधर्मावनुगच्छतः ॥ २॥

दया धर्मस्य जन्मभूमिः ॥ ३॥

धर्ममूले सत्यदाने ॥ ४॥

धर्मेण जयति लोकान् ॥ ५॥

मृत्यरपि धर्मिष्ठं रक्षति ॥ ६॥

धर्माद्विपरीतं पापं यत्र यत्र प्रसज्यते
तत्र तत्र धर्मावमतिरेव महती प्रसज्यते ॥ ७॥

उपस्थितविनाशानां प्रकृतिः आकारेण कार्येण च लक्ष्यते ॥ ८॥

आत्मविनाशं सूचयत्यधर्मबुद्धिः ॥ ९॥

पिशुनवादिनो रहस्यं कुतः ॥ १०॥

पररहस्यं नैव श्रोतव्यम् ॥ ११॥

वल्लभस्य स्वार्थपरत्वमधर्मयुक्तम् ॥ १२॥

स्वजनेष्वप्यतिक्रमो न कर्तव्यः ॥ १३॥

मताऽपि दुष्टा त्याज्या ॥ १४॥

स्वहस्तोऽपि विषदिग्धश्छेद्यः ॥ १५॥

परोऽपि च हितो बन्धुः ॥ १६॥

कक्षादप्यौषधं गृह्यते ॥ १७॥

नास्ति चोरेषु विश्वासः ॥ १८॥

अप्रतीकारेष्वनादरो न कर्तव्यः ॥ १९॥

व्यसनं मनागपि बाधते ॥ २०॥

अमरवदर्थजातमार्जयेत् ॥ २१॥

अर्थवान् सर्वलोकस्य बहुमतः ॥ २२॥

महेन्द्रमप्यर्थहीनं न बहुमन्यते लोकः ॥ २३॥

दारिद्र्यं खलु पुरुषस्य सजीवितं मरणम् ॥ २४॥

विरूपोऽप्यर्थवान् सुरूपः ॥ २५॥

अदातारमप्यर्थवन्तमर्थिनो न त्यजन्ति ॥ २६॥

अकुलीनोऽपि धनवान् कुलीनाद्विशिष्टः ॥ २७॥

नास्त्यवमानभयमनार्यस्य ॥ २८॥

नोद्योगवतां वृत्तिभयम् ॥ २९॥

न जितेन्द्रियाणां विषयभयम् ॥ ३०॥

न कृतार्थानां मरणभयम् ॥ ३१॥

कस्यचिदर्थं स्वमिव मन्यते साधुः ॥ ३२॥

परविभवेष्वादरो न कर्तव्यः ॥ ३३॥

परविभवेष्वादरोऽपि नाशमूलम् ॥ ३४॥

पलालमपि परद्रव्यं न हर्तव्यम् ॥ ३५॥

परद्रव्यापहरणमात्मद्रव्यनाशहेतुः ॥ ३६॥

न चौर्यात् परं मृत्युपाशः ॥ ३७॥

यवागूरपि प्राणधारणं करोति काले ॥ ३८॥

न मृतस्यौषधं प्रयोजनम् ॥ ३९॥

समकाले प्रभुत्वस्यप्रयोजनं भवति ॥ ४०॥

नीचस्य विद्याः पापकर्मण्येव तं योजयन्ति ॥ ४१॥

पयःपानमपि विषवर्धनं भुजङ्गस्य न त्वमृतं स्यात् ॥ ४२॥

न धान्यसमो ह्यर्थः ॥ ४३॥

न क्षुधासमः शत्रुः ॥ ४४॥

अकृतेर्नियता क्षुत् ॥ ४५॥

नास्त्यभक्षं क्षुधितस्य ॥ ४६॥

इन्द्रियाणि प्रतिपदं नरान जरावशान् कुर्वन्ति ॥ ४७॥

सानुक्रोशं भर्तारमाजीवेत् ॥ ४८॥

लुब्धसेवी पावकेच्छया खद्योतं धमति ॥ ४९॥

विशेषज्ञं स्वामिनमाश्रयेत् ॥ ५०॥

पुरुषस्य मैथुनं जरा ॥ ५१॥

स्त्रीणाममैथुनं जरा ॥ ५२॥

न नीचोत्तमयोत्वैवाहः ॥ ५३॥

अगमयागमनादायुर्यशः पुण्यानि क्षीयन्ते ॥ ५४॥

नास्त्यहङ्कारसमः शत्रुः ॥ ५५॥

संसदि शत्रु न परिक्रोशेत ॥ ५६॥

शत्रुव्यसनं श्रवणसुखम् ॥ ५७॥

अधनस्य बुद्धिर्न विद्यते ॥ ५८॥

हितमप्यधनस्य वाक्यं न गृह्यते ॥ ५९॥

अधनः स्वभार्ययाऽप्यवमन्यते ॥ ६०॥

पुष्पहीनं सहकारमपि नोपासते भ्रमराः ॥ ६१॥

इति चतुर्थोऽध्यायः ॥


अथ पञ्चमोऽध्यायः ॥

विद्या धनमधनानाम् ॥ १॥

विद्या चोरैरपि न ग्राह्या ॥ २॥

विद्या सुलभा ख्यातिः ॥ ३॥

यशः शरीरं न विनश्यति ॥ ४॥

यः पराथमन्यमुपसर्पति स सत्पुरुषः ॥ ५॥

इन्द्रियाणां प्रशमं शास्त्रम् ॥ ६॥

अकार्यप्रवृत्तेः शास्त्राङ्कुशं निवारयति ॥ ७॥

नीचस्य विद्या नोपेतव्या ॥ ८॥

म्लेच्छभाषणं न शिक्षेत ॥ ९॥

म्लेच्छानामपि सुवृत्तं ग्राह्यम् ॥ १०॥

गुणे न मत्सरः कर्तव्यः ॥ ११॥

शत्रोरपि सुगुणो ग्राह्यः ॥ १२॥

विषादप्यमृतं ग्राह्यम् ॥ १३॥

अवस्थया पुरुषः संमान्यते ॥ १४॥

स्थान एव नराः पूज्यन्ते ॥ १५॥

आर्यवृतमनुतिष्ठेत् ॥ १६॥

कदापि मर्यादां नातिक्रामेत् ॥ १७॥

नास्त्यर्घः ओउरुषरत्नस्य ॥ १८॥

न स्त्रीरत्नसमं रत्नम् ॥ १९॥

सुदुर्लभं हि रत्नम् ॥ २०॥

अयशो भयं भयेषु ॥ २१॥

नास्त्यलसस्य शास्त्राधिगमः ॥ २२॥

न स्त्रैणस्य स्वर्गाप्तिर्धर्मकृत्यं च ॥ २३॥

स्त्रियोऽपि स्त्रैणमवमन्यन्ते ॥ २४॥

न पुष्पार्थी सिञ्चति शुष्कतरुम् ॥ २५॥

अद्रव्यप्रयत्नो वालिकाक्वाथनादनन्यः ॥ २६॥

न महाजनहासः कर्तव्यः ॥ २७॥

कार्यसम्पदं निमित्तानि सूचयन्ति ॥ २८॥

नक्षत्रादपि निमित्तानि विशेषयन्ति ॥ २९॥

न त्वरितस्य नक्षत्रपरीक्षा ॥ ३०॥

परिचये दोषा न छद्यन्ते ॥ ३१ ।
स्वयमशुद्धः परानाशङ्कते ॥ ३२॥

स्वभावो दुरतिक्रमः ॥ ३३॥

अपराधानुरूपो दण्डः ॥ ३४॥

प्रश्नानुरूपं प्रतिवचनम् ॥ ३५॥

विभवानुरूपमाभरणम् ॥ ३६॥

कुलानुरूपं वृतम् ॥ ३७॥

कार्यानुरूपः प्रयत्नः ॥ ३८॥

पात्रानुरूपं दानम् ॥ ३९॥

वयोऽनुरूपओ वेषः ॥ ४०॥

स्वाम्यनुकूलो भृत्यः ॥ ४१॥

भतृवशवर्तिनी भार्या ॥ ४२॥

गुरुवशानुवर्ती शिष्यः ॥ ४३॥

पितृवशानुवर्ती पुत्रः ॥ ४४॥

अत्युपचारः शङ्कितव्यः ॥ ४५॥

स्वामिनि कुपिते स्वामिनमेवानुवर्तेत ॥ ४६॥

मातृताडितो वत्सो मातरमेवानुरोदिति ॥ ४७॥

स्नेहवतः स्वल्पो हि रोषः ॥ ४८॥

बालिशः आत्मछिद्रं न पश्यति अपि तु परच्छिद्रमेव पश्यति ॥ ४९॥

सदोपचारः कितवः ॥ ५०॥

काम्यैर्विशेषैरूपचारमुपचारः ॥ ५१॥

चिरपरिचितानामत्युपचारः शङ्कितव्यः ॥ ५२॥

श्वसहस्रादेकाकिनी गौः श्रेयसी ॥ ५३॥

श्वो मयूरादद्य कपोतो वरः ॥ ५४॥

अतिसङ्गो दोषमुत्पादयति ॥ ५५॥

सर्वं जयत्यक्रोधः ॥ ५६॥

यद्यपकारिणी कोपः कर्तव्यः तर्हि स्वकोपे एवकोपः कर्तव्यः ॥ ५७॥

मतिमत्सु मूर्खमित्रगुरुवल्लभेषु विवादो न कर्तव्यः ॥ ५८॥

नास्त्यपिशाचमैश्वर्यम् ॥ ५९॥

नास्ति धनवतां सुकर्मसु श्रमः ॥ ६०॥

नास्ति गतिश्रमो यानवताम् ॥ ६१॥

अलोहमयं निगडं कलत्रम् ॥ ६२॥

यो यस्मिन् कर्मणि कुशलः स तस्मिन् योक्तव्यः ॥ ६३॥

दुष्कलत्रं मनस्विनां शरीरकर्शनम् ॥ ६४॥

अप्रमत्तो दारान् निरीक्षेत ॥ ६५॥

स्त्रीषु किंचिदपि न विश्वसेत् ॥ ६६॥

न समाधिः स्त्रीषु लोकज्ञता च ॥ ६७॥

गुरूणां माता गरीयसी ॥ ६८॥

सर्वावस्थासु माता भर्तव्या ॥ ६९॥

वैरूप्यमलङ्कारेणाअच्छाद्यते ॥ ७०॥

स्त्रीणां भूषणं लज्जा ॥ ७१॥

विप्राणां भूषणं वेदः ॥ ७२॥

सर्वेषां भूषणं धर्मः ॥ ७३॥

भूषणानां भूषणं सविनय विद्या ॥ ७४॥

इति पञ्चमोऽध्यायः ॥


अथ षष्ठोऽध्यायः ॥

अनुपद्रवं देशमावसेत् ॥ १॥

साधुजनबहुलो देशः आश्रयणीयः ॥ २॥

राज्ञो भेतव्यं सार्वकालम् ॥ ३॥

न राज्ञः परं दैवतम् ॥ ४॥

सुदूरमपि दहति राजवह्निः ॥ ५॥

रिक्तहस्तो न हाजानमभिगच्छेत् गुरुं दैवे च ॥ ६॥

कुटिम्बिनो भेतव्यम् ॥ ७॥

गन्तव्यं च सदा राजकुलम् ॥ ८॥

राजपुरुषैः सम्बन्धं कुर्यात् ॥ ९॥

हाजदाशी न सेवितव्या ॥ १०॥

न चक्षुषाऽपि राजानं निरीक्षेत ॥ ११॥

पुत्रे गुणवति कुटुम्बिनः स्वर्गः ॥ १२॥

पुत्रा विद्यानां पारं गमचितव्याः ॥ १३॥

जनपदार्थं ग्रामं त्यजेत् ॥ १४॥

ग्रामार्थं कुटुम्बस्त्यजते ॥ १५॥

अतिलाभः पुत्रलाभः ॥ १६॥

दुर्गतेरयः पितरौ रक्षति स पुत्रः ॥ १७॥

यः कुलं प्रख्यापयति स पुत्रः ॥ १८॥

नानपत्यस्य स्वर्गः ॥ १९॥

या प्रसूते सा भार्या ॥ २०॥

तीर्थसमवाये पुत्रवतीमनुगच्छेत् ॥ २१॥

न तीर्थाभिगमनाद्ब्रह्मचर्यं नश्यति ॥ २२॥

न परक्षेत्रे बीजं विनिक्षिपेत् ॥ २३॥

पुत्रार्था हि स्त्रियः ॥ २४॥

स्वदासीपरिग्रहो हि स्वस्यैव दासभावापादनम् ॥ २५॥

उपस्थितविनाशः पथ्यवाक्यं न शृणोति ॥ २६॥

नास्ति देहिनां सुखदुःखाभावः ॥ २७॥

मातरमिव वत्साः सुखदुःखानि कर्तारमेवानुगच्छन्ति ॥ २८॥

तिलमात्रमप्युपकारं शैलमात्रं मन्यते साधुः ॥ २९॥

उपकारोऽनार्थष्वकर्तव्यः ॥ ३०॥

प्रत्युपकारभयादनार्यः शत्रुर्भवति ॥ ३१॥

स्वल्पोपकारकृतेऽपि प्रत्युपकारं कर्तुमार्यो जागर्ति ॥ ३२॥

न कदाऽपि देवता मन्तव्या ॥ ३३॥

न चक्षुषः समं ज्योतिरस्ति ॥ ३४॥

चक्षुर्हि शरीरिणां नेता ॥ ३५॥

अपचक्षुषः किं शरीरेण ॥ ३६॥

नाप्सु मूत्रं कुर्यात् ॥ ३७॥

न नग्नो जलं प्रविशेत् ॥ ३८॥

यथा शरीरं तथा ज्ञानम् ॥ ३९॥

यथा बुद्धिस्तथा विभवः ॥ ४०॥

अग्वावक्निं न निङिपेत् ॥ ४१॥

तपस्विनः पूजनीयाः ॥ ४२॥

परदारान् न गच्छेत् ॥ ४३॥

अन्नदानं भ्रूणहत्यामपि मार्ष्टि ॥ ४४॥

न वेदबाह्यो धर्मः ॥ ४५॥

कथंचिदपि धर्मं निषेवेत ॥ ४६॥

स्वर्गं नयति सूनृतम् ॥ ४७॥

नास्ति सत्यात् परं तपः ॥ ४८॥

सत्यं स्वर्गस्य साधनम् ॥ ४९॥

सत्येन धार्यते लोकः ॥ ५०॥

सत्याद्देवो वर्षति ॥ ५१॥

नानृतात् पातकं परम् ॥ ५२॥

न मीमांस्या गुरवः ॥ ५३॥

खलत्वं नोपेयात् ॥ ५४॥

नास्ति खलस्य मित्रम् ॥ ५५॥

लोकयात्रा दरिद्रं बाधते ॥ ५६॥

अतिशूरो दानशूरः ॥ ५७॥

गुरुदेवब्राह्मणेषु भक्तिर्भूषणम् ॥ ५८॥

सर्वस्य भूषणं विनयः ॥ ५९॥

अकुलीनोऽपि विनीतः कुलीनात्विशिष्टः ॥ ६०॥

आचारादायुर्वर्धते कीर्तिः श्रेयश्च ॥ ६१॥

प्रियमप्यहितं न वक्तव्यम् ॥ ६२॥

बहुजनविरुद्धमेकं नानुवर्तेत ॥ ६३॥

न कृतार्थस्य नीचेषु सम्बन्धः ॥ ६४॥

ऋणशत्रुव्याधयो निःशेषाः कर्तव्याः ॥ ६५॥

भूत्यनुवर्तनं पुरुषस्य रसायनम् ॥ ६६॥

नार्थिष्ववज्ञा नरकान्निवर्तनम् ॥ ६७॥

दुष्करं कर्म कारयित्वा कर्तारमवमन्यते नीचः ॥ ६८॥

नाकृतज्ञस्य नरकान्निवर्तनम् ॥ ६९॥

जिह्वायत्तौ वृद्धिवनाशौ ॥ ७०॥

विषयामृतयोराकरी जिह्वा ॥ ७१॥

प्रियवादिनो न शत्रुः ॥ ७२॥

स्तुता अपि देवतास्तुष्यन्ति ॥ ७३॥

अनन्तमपि दुर्वचनं चिरं तिष्ठति ॥ ७४॥

राजद्विष्टं न वक्तव्यम् ॥ ७५॥

श्रुतिसुखात् कोकिलानापादपि तुष्यन्ति जनाः ॥ ७६॥

स्वधर्महेतुः सत्पुरुषः ॥ ७७॥

नास्त्यर्थिनो गौरवम् ॥ ७८॥

स्त्रीणां भूषणं सौभाग्यम् ॥ ७९॥

शत्रोरपि न पातनीय वृत्तिः ॥ ८०॥

अप्रयत्नोदकं क्षेत्रम् ॥ ८१॥

एरण्डमवलम्ब्य कुञ्जरं न कोपयेत् ॥ ८२॥

अतिप्रवृद्धापि शाल्मली वारणस्तम्भो न भवति ॥ ८३॥

अतिदीर्घोऽपि कर्णिकारो न मुसली भवति ॥ ८४॥

अतिदीप्तोऽपि खद्योतो न पावकः ॥ ८५॥

न प्रवृद्धत्वं गुणहेतुः ॥ ८६॥

सुजीर्णोऽपि पुचुमल्दो न शङ्कुलायते ॥ ८७॥

यथा बीजं तथा निष्पत्तिः ॥ ८८॥

यथा श्रुतं तथा बुद्धिः ॥ ८९॥

यथा कुलं तथाऽऽचारम् ॥ ९०॥

संस्कृतः पिचुमन्दो न सहकारो भवति ॥ ९१॥

न चागतं सुखं त्यजेत् ॥ ९२॥

स्वयमेव दुःखमधिगच्छति ॥ ९३॥

रात्रिचारणं न कुर्यात् ॥ ९४॥

न चार्धरात्रं स्वपेत् ॥ ९५॥

तद्विद्विद्भिः परीक्षेत ॥ ९६॥

परगृहमकारणतो न प्रविशेत् ॥ ९७॥

ज्ञात्वाऽपि दोषमेव करोति लोकः ॥ ९८॥

शास्त्रप्रधाना लोकवृत्तिः ॥ ९९॥

शास्त्राभावे शिष्टाचारमनुगच्छेत् ॥ १००॥

नाचरिताच्छस्त्रं गरीयः ॥ १०१॥

दूरस्थमपि चाचक्षुः पश्यति राजा ॥ १०२॥

गतानुगतिको लोकः ॥ १०३॥

यमनुजीवेत् तं नापवदेत् ॥ १०४॥

इति षष्ठोऽध्यायः ॥


अथ सप्तमोऽध्यायः ॥

तपस्सार इन्द्रियनिग्रहः ॥ १॥

दुर्लभः स्त्रीबन्धनान्मोक्षः ॥ २॥

स्त्रीनाम सर्वाशुभानां क्षेत्रम् ॥ ३॥

न च स्त्रीणां पुरुषपरीक्षा ॥ ४॥

स्त्रीणां मनः क्षणिकम् ॥ ५॥

अशुभद्वेषिणः स्त्रीषु न प्रसक्ता भवेयुः ॥ ६॥

यज्ञफलज्ञास्त्रिवेदविदः ॥ ७॥

स्वर्गस्थानं न शाश्वतं अपि तु यानत्पुण्यफलम् ॥ ८॥

न च स्वर्गपतनात् परं दुःखम् ॥ ९॥

देही देहं त्यक्त्वा ऐन्द्रपदं न वाञ्छति ॥१०॥

दुःखानामौषधं निर्वाणम् ॥ ११॥

अनार्यसम्बन्धाद्वरमार्यशत्रुता ॥ १२॥

निहन्ति दुर्वचनं कुलम् ॥ १३॥

न पुत्रसंस्पर्शात् परं सुखम् ॥ १४॥

विवादे धर्ममनुस्मरेत् ॥ १५॥

निशान्ते कार्यं चिन्तयेत् ॥ १६॥

प्रदोषे न संयोगः कर्तव्यः ॥ १७॥

उपस्थितविनाशः दुर्नयं शुभं मन्यते ॥ १८॥

क्षीरार्थिनः किं करिण्या ॥ १९॥

न दानसमं वश्यम् ॥ २०॥

परायत्तेषूत्कण्ठां न कुर्यात् ॥ २१॥

अत्समृद्धिरसद्भरेव भुज्यते ॥ २२॥

निम्बफलं काकैर्हि भुज्यते ॥ २३॥

नाम्भोधिस्तृष्णामपोहति ॥ २४॥

वालिका अपि स्वगुणमाश्रयन्ते ॥ २५॥

सन्तोऽसत्सु न रमन्ते ॥ २६॥

हंसः प्रतवने न रमते ॥ २७॥

अर्थार्थं प्रवर्तते लोकः ॥ २८॥

आशया बध्यते लोकः ॥ २९॥

न च आशापरैः श्री सह तिष्ठति ॥ ३०॥

आशापरे न धैर्यम् ॥ ३१॥

दैन्यान्मरणमुत्तमम् ॥ ३२॥

आशालज्जां व्यपोहति ॥ ३३॥

न मात्रा सह वाशः कर्तव्यः ॥ ३४॥

आत्मा न स्तोतव्यः ॥ ३५॥

न दिवा स्वप्नं कुर्यात् ॥ ३६॥

न चासन्नपि पश्यत्यैश्वर्यान्धः नापि श्रुणोतीष्टं वाक्यम् ॥ ३७॥

स्त्रीणां न भरितुः परं दैवतम् तदनुवर्तनं तासामुभयसौख्यम् ॥ ३८॥

अतिथिअभ्यागतं च पूजयेद्यथाविधि ॥ ३९॥

नास्ति हव्यस्य व्याघातः ॥ ४०॥

शत्रुर्मित्रवत् प्रतिभाति ॥ ४१॥

मृगतृष्णा जलवद्भाति हि ॥ ४२॥

इति सप्तमोऽध्यायः ॥


अथाष्टमोऽध्यायः ॥

धुरमेधसोऽसच्छास्त्रं मोहयति ॥ १॥

सत्सङ्गः स्वर्गवासः ॥ २॥

आर्याः स्वमिव परं मन्वते ॥ ३॥

रूपानुवर्ती गुणः ॥ ४॥

यत्र सुखेन वर्तते तदेव स्थानम् ॥ ५॥

विश्वासघातिनो न निष्कृतिः ॥ ६॥

दैवायत्तं न शोचेत् ॥ ७॥

आश्रितदुःखमात्मन इव मन्यते साधुः ॥ ८॥

हृद्गतमाच्छाद्यान्यद्वदत्यनार्यः ॥ ९॥

बुद्धिहीनः पिशाचतुल्यः ॥ १०॥

असहायः पथि न गच्छेत् ॥ ११॥

पुत्रो न स्तोतव्यः ॥ १२॥

स्वामी स्तोतव्योऽनुजीविभिः ॥ १३॥

धर्मकृत्यानि सर्वाणि स्वामिन इत्येव घोषयेत् ॥ १४॥

राजाज्ञां नातिलङ्घयेत् ॥ १५॥

यथाऽऽज्ञप्तं तथा कुर्यात् ॥ १६॥

नास्ति बुद्धिमतां शत्रुः ॥ १७॥

आत्मछिद्रं न प्रकाशयेत् ॥ १८॥

क्षमावानेव सर्वं साधयति ॥ १९॥

आपदर्थं धनं रक्षेत् ॥ २०॥

साहसवतां प्रायं कर्तव्यम् ॥ २१॥

श्वः कार्यमद्य कुर्वीत ॥ २२॥

आपराह्णिकं पूर्वाह्ण एव कर्तव्यम् ॥ २३॥

व्यवहारानुलोमो धर्मः ॥ २४॥

सर्वज्ञता लोकज्ञता ॥ २५॥

शास्त्रज्ञोऽप्यलोकज्ञो मूर्खतुल्यः ॥ २६॥

शात्रप्रयोजनं तत्त्वदर्शनम् ॥ २७॥

तत्त्वज्ञानं कार्यमेव प्रकाशयति ॥ २८॥

व्यवहारे पक्षपातो न कर्तव्यः ॥ २९॥

धर्मादपि व्यवहारो गरीयान् ॥ ३०॥

आत्मा हि व्यवहारस्य साक्षी ॥ ३१॥

सर्वसाक्षी ह्यात्मा ॥ ३२॥

न स्यात् कूटसाक्षी ॥ ३३॥

कूटसाक्षिणो नरके पतन्ति ॥ ३४॥

प्रच्छन्नपापानां साक्षिणो महाभूतानि ॥ ३५॥

आत्मनः पापमात्मैव प्रकाशयति ॥ ३६॥

व्यवहारोऽन्तर्गतमाकारः सूचयति ॥ ३७॥

आकारसंवरणं देवानामप्यशक्यम् ॥ ३८॥

चोरराजपुरुषेभ्यो वित्तं रक्षेत् ॥ ३९॥

दुर्दर्शना हि राजानः प्रजा रक्षन्ति ॥ ४०॥

सुदर्शना राजानः प्रजा रक्षन्ति ॥ ४१॥

न्याययुक्तं राजानं मातरं मन्यन्ते प्रजाः ॥ ४२॥

तादृशः स राजा इह सुखं ततः स्वर्गण् चाप्नोति ॥ ४३॥

अहिंसालक्षणो धर्मः ॥ ४४॥

स्वशरीरमपि परशरीरं मन्यते साधुः ॥ ४५॥

मांसभक्षणमप्युक्तं सर्वेषाम् ॥ ४६॥

न संसारभयं ज्ञानवताम् ॥ ४७॥

विज्ञानदीपेन संसारभयं निवर्तयति ॥ ४८॥

सर्वमवित्यं भवति ॥ ४९॥

कृमिशन्कृन्मूत्रभाचनं शरीरं पुण्यतयपापजन्महेतुः ॥ ५०॥

जन्ममरणादिषु तु दुःखमेव ॥ ५१॥

तपसा स्वर्गमाप्नोति ॥ ५२॥

क्षमायुक्तस्य तपो विवर्धते ॥ ५३॥

तस्मात् सर्वेषां सर्वकार्यसिद्धिर्भवति ॥ ५४॥

इत्यष्टमोऽध्यायः ॥

इति कौटिलीयानि नीतिसूत्राणि सम्पूर्णम् ॥


 

Tags: Chanakya Hindu Religion Kautilya Sanskrit Devanagari Sanskrit Hindu Text

Post navigation

Previous: Yoga Sutram (योगसूत्राणि) of Unknown-Patanjali: Samadhi Vs Bodhi
Next: Committee of Management Vs. Director of Higher Education & Ors.[SC 2017 December]

Related Stories

Manu Smriti , Manu Samhita, Manusmriti
  • Vedic Sanskrit Culture

Manusmriti Chapter 1 Verses 1–30: Creation, Cosmology and Consciousness

advtanmoy 26/08/2026
Acharya Narad
  • Vedic Sanskrit Culture

Naradaparivrajaka Upanishad: Ancient Text of Vedic Sannyasa (नारदपरिव्राजकोपनिषद्: 1200 BCE)

advtanmoy 15/02/2026
The Story of Varanasi (1993–2000): A Saga of the Celebration of Life
  • Vedic Sanskrit Culture

The Story of Varanasi (1993–2000): A Saga of the Celebration of Life

advtanmoy 22/01/2026
Encyclopedia of Rashtriya Swayamsevak Sangh

Encyclopedia of Rashtriya Swayamsevak Sangh (13-Volume): History, Ideology and Organisation

The Encyclopedia of Chaitanya Mahaprabhu

Encyclopedia of Sree Krishna Chaitanya Bharati (12-Volume): The Golden Gouranga of Bengal

Encyclopedia of Macroscopic Human Social System Analysis

Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System

Encyclopedia of European Invasions in India

Encyclopedia of European Invasions in India (11-Volume): Colonialism, Resistance, and Restoration

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Deep Grammar of Civilization (13-Volume): What Are the Irreducible Components of Civilization?

Encyclopedia of Begging

Encyclopedia of Begging (6-Volume): A Global History of Asking, Giving, and Resource Acquisition

Encyclopedia of the Communist Party of China

Encyclopedia of the Communist Party of China (31-Volume): Making of Modern Chinese Civilization

Indo-Pakistan war 1971

Encyclopedia of the Indo–Pakistan War of 1971 (5-Volume): The Creation of Bangladesh

Sarvarthapedia

Encyclopedia of India’s Internal and External Intelligence System: Special Emphasis on the (R&AW)

The Encyclopedia of Political History of Bangladesh

Encyclopedia of Political History of Bangladesh (18-Volume): Identity, Liberation, And Democracy

Encyclopedia of Ecumenical Movements

Encyclopedia of Ecumenical Movements (21-Volume): History, Theology, Institutions and Dialogues

Encyclopedia of Dalit Christians and Their Theology

Encyclopedia of Dalit Christians and Their Theology (5-Volume): Crisis of Caste Culture within Christians in India

Encyclopedia of Indian Military Civilization

Encyclopedia of Indian Military Civilization (55-Volume): War Strategy and Armed Institutions From Antiquity to 2026

Sarvarthapedia

Ontology (25-Volume): Encyclopedia of All Known Conceptions of Reality and Existence

Synthesis-of-Greco-Roman-Ideologies-Shaping-Christianity and Historical Critiques of Christianity and Christian Theology

Encyclopedia of Historical Critiques of Christianity and Christian Theology: A (50-Volume) Research and Documentation

Sarvarthapedia Astronautical Engineering Knowledge Universe (SAEKU): A 250-Volume Master Reference for Space Science and Engineering

Astronautical Engineering Knowledge Universe: A 250-Volume Reference for Space Science and Engineering

Encyclopedia of Indian Economy

Encyclopedia of Indian Economy (56-Volume): A Civilisational Perspective

Encyclopedia of Constitution and Constitutional Law of the United Kingdom

Encyclopedia of Constitution and Constitutional Law of the United Kingdom (10-Volume): History and Development

Encyclopedia of Astrology

Encyclopedia of Astrology (15-Volume): The Human Quest to Predict the Future

Civilizational Encyclopedia of American Governance

Civilizational Encyclopedia of American Governance (100-Volume): Governing the American Government

Human rights conditions in the United States

Human Rights and United States (15-Volume): Violations, Resistance, and Global Impact

Civilizational History of North America

Civilizational History of North America (315-Volume): The Turtle Island and the American Imperium

Sarvarthapedia

Sarvarthapedia of Human Technological Civilization (12-Volume)

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Ultimate-Order Concepts (17-Volume): Fundamental Reason for Existence of Intelligence System

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Meta-Civilizational Architecture: How Complex Systems Survive

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Global Encyclopedia (180-Volume) of Intelligence, Espionage, and Counterintelligence

British Parliament

Encyclopedia of the British Parliamentary System: A 100-Volume Statement on British Politics

Encyclopedia of Global Capital Markets (100 Volumes): A Comprehensive Reference to Banking, Securities, Finance, and Investment Systems

The Global Capital Markets Encyclopedia (100-Volume): Reference on Finance, Banking, and Investment Systems

The Atlas of Self-Sabotage: A 12-Volume Encyclopedia of How Lives Quietly Go Wrong

The Atlas of Self-Sabotage: A 12-Volume Encyclopedia of How Lives Quietly Go Wrong

Encyclopedia of History of Ancient and Modern India

Encyclopedia of Ancient and Modern India: A 120-Volume Civilizational Knowledge System

Contemporary World History

Encyclopedia of Contemporary World History (2001–Present): A 100-Volume Statement on World System

Non-Proliferation of Nuclear Weapons: 12-Volume Reference and Research Architecture

Non-Proliferation of Nuclear Weapons: 12-Volume Reference and Research Architecture

Encyclopedia of American Law

Encyclopedia of American Law: 180‑Volume Statement on American Law

Roman empire and Law

Roman Empire Political History (15-Volume): Rise and Destruction (300 BCE – 1453 CE)

India

Encyclopedia of Contemporary Indian Politics: 111-Volume Statement on Indian Politics (1857–2026)

Encyclopedia of Psychology

Encyclopedia of Psychology (12-Volume): Of Mind, Behavior, and Society

Encyclopedia History of Pakistan (12-Volume): From Hindustan to an Islamic Republic

Encyclopedia History of Pakistan (12-Volume): From Hindustan to an Islamic Republic

Africa and African Union

Encyclopedia of African Studies (10-Volume): History, Culture, and Development

African Studies

African Studies, Synopsis (10-Volume) and How to Study Africa

Encyclopedia of Disease and Disease Detection

Encyclopedia of Disease and Disease Detection (12-Volume): Foundations, Technologies, and Clinical Applications

Sarvarthapedia

Encyclopedia of Religion, Faith, and Beliefs (12-Volume): History, Theology, Politics, and Conflict with Science 

Cyber Security

Cybersecurity Encyclopedia (Volume-8): From ENIAC to Modern Cyber Warfare and Data Protection Laws

Sanatan Dharma

Sarvarthapedia of Hindu Scriptures and Interpretation (10-Volume): From the Vedic Period up to 2026

Sarvarthapedia

Encyclopedia of Strategic Geography (13-Volume): Spatial Logic of Civilization 

Encyclopedia of Medical Science and Research

Encyclopedia of Medical Science and Research (7-Volume): Early Civilizations to Modern Healthcare Systems

Computer Science

Computer Science Encyclopedia (13-Volume): From Its Theoretical Origins Up To 2026

Sarvarthapedia

Anthropology (12-Volume): The Study of Humankind – From Origins to 2026

Sanatan Dharma

Encyclopedia of Sanatan Dharma: Society, Politics, Militia, Rituals, and Philosophy of Vedic Civilization

Encyclopedia of Panini Ashtadhyayi

Encyclopedia of Panini’s Ashtadhyayi: Reading of Panini Grammar (Sutra Path – सूत्र पाठः)

Encyclopedia of Indian Law

Indian Law Encyclopedia: 101-Volume Statement on Indian Law

  • Anosh Ekka v. CBI (2026 INSC 357): SC Grants Bail to Former Jharkhand Minister in CBI DA Case
  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Ram v. Sukhram: Tribal women’s right in ancestral property [2025] 8 SCR 272
  • Indian Constitution
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders

Genesis-1 (Bereshit-1) — Torah Reading: Bereshit Bara Elohim – The Creation of the World

An Introduction to the Rashtriya Swayamsevak Sangh

Swami Pranabananda and the Making of Shyama Prasad Mukherjee’s Early Political Outlook

18th Lok Sabha Election 2024 in West Bengal: Party Position and Elected Members

Sarvarthapedia: The Knowledge Universe of Civilization

Dakshineswar Bhabatarini Kali: Three Kali Idols, Rani Rashmoni, and Temple History

Sarvarthapedia

  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subjects
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia Meta-Concept
  • Contact Us
  • Privacy Policy
  • FAQs
  • NEET
  • Library Updates
2026 All rights reserved © Advocatetanmoy Law Library by advocatetanmoy.