7.001.01 अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् ।
7.001.01 दूरेदृशं गृहपतिमथर्युम् ॥
7.001.02 तमग्निमस्ते वसवो न्यृण्वन्सुप्रतिचक्षमवसे कुतश्चित् ।
7.001.02 दक्षाय्यो यो दम आस नित्यः ॥
7.001.03 प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ ।
7.001.03 त्वां शश्वन्त उप यन्ति वाजाः ॥
7.001.04 प्र ते अग्नयोऽग्निभ्यो वरं निः सुवीरासः शोशुचन्त द्युमन्तः ।
7.001.04 यत्रा नरः समासते सुजाताः ॥
7.001.05 दा नो अग्ने धिया रयिं सुवीरं स्वपत्यं सहस्य प्रशस्तम् ।
7.001.05 न यं यावा तरति यातुमावान् ॥
7.001.06 उप यमेति युवतिः सुदक्षं दोषा वस्तोर्हविष्मती घृताची ।
7.001.06 उप स्वैनमरमतिर्वसूयुः ॥
7.001.07 विश्वा अग्नेऽप दहारातीर्येभिस्तपोभिरदहो जरूथम् ।
7.001.07 प्र निस्वरं चातयस्वामीवाम् ॥
7.001.08 आ यस्ते अग्न इधते अनीकं वसिष्ठ शुक्र दीदिवः पावक ।
7.001.08 उतो न एभि स्तवथैरिह स्याः ॥
7.001.09 वि ये ते अग्ने भेजिरे अनीकं मर्ता नरः पित्र्यासः पुरुत्रा ।
7.001.09 उतो न एभिः सुमना इह स्याः ॥
7.001.10 इमे नरो वृत्रहत्येषु शूरा विश्वा अदेवीरभि सन्तु मायाः ।
7.001.10 ये मे धियं पनयन्त प्रशस्ताम् ॥
7.001.11 मा शूने अग्ने नि षदाम नृणां माशेषसोऽवीरता परि त्वा ।
7.001.11 प्रजावतीषु दुर्यासु दुर्य ॥
7.001.12 यमश्वी नित्यमुपयाति यज्ञं प्रजावन्तं स्वपत्यं क्षयं नः ।
7.001.12 स्वजन्मना शेषसा वावृधानम् ॥
7.001.13 पाहि नो अग्ने रक्षसो अजुष्टात्पाहि धूर्तेरररुषो अघायोः ।
7.001.13 त्वा युजा पृतनायूंरभि ष्याम् ॥
7.001.14 सेदग्निरग्नींरत्यस्त्वन्यान्यत्र वाजी तनयो वीळुपाणिः ।
7.001.14 सहस्रपाथा अक्षरा समेति ॥
7.001.15 सेदग्निर्यो वनुष्यतो निपाति समेद्धारमंहस उरुष्यात् ।
7.001.15 सुजातासः परि चरन्ति वीराः ॥
7.001.16 अयं सो अग्निराहुतः पुरुत्रा यमीशानः समिदिन्धे हविष्मान् ।
7.001.16 परि यमेत्यध्वरेषु होता ॥
7.001.17 त्वे अग्न आहवनानि भूरीशानास आ जुहुयाम नित्या ।
7.001.17 उभा कृण्वन्तो वहतू मियेधे ॥
7.001.18 इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमच्छ ।
7.001.18 प्रति न ईं सुरभीणि व्यन्तु ॥
7.001.19 मा नो अग्नेऽवीरते परा दा दुर्वाससेऽमतये मा नो अस्यै ।
7.001.19 मा नः क्षुधे मा रक्षस ऋतावो मा नो दमे मा वन आ जुहूर्थाः ॥
7.001.20 नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः ।
7.001.20 रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नः ॥
7.001.21 त्वमग्ने सुहवो रण्वसंदृक्सुदीती सूनो सहसो दिदीहि ।
7.001.21 मा त्वे सचा तनये नित्य आ धङ्मा वीरो अस्मन्नर्यो वि दासीत् ॥
7.001.22 मा नो अग्ने दुर्भृतये सचैषु देवेद्धेष्वग्निषु प्र वोचः ।
7.001.22 मा ते अस्मान्दुर्मतयो भृमाच्चिद्देवस्य सूनो सहसो नशन्त ॥
7.001.23 स मर्तो अग्ने स्वनीक रेवानमर्त्ये य आजुहोति हव्यम् ।
7.001.23 स देवता वसुवनिं दधाति यं सूरिरर्थी पृच्छमान एति ॥
7.001.24 महो नो अग्ने सुवितस्य विद्वान्रयिं सूरिभ्य आ वहा बृहन्तम् ।
7.001.24 येन वयं सहसावन्मदेमाविक्षितास आयुषा सुवीराः ॥
7.001.25 नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः ।
7.001.25 रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नः ॥
7.002.01 जुषस्व नः समिधमग्ने अद्य शोचा बृहद्यजतं धूममृण्वन् ।
7.002.01 उप स्पृश दिव्यं सानु स्तूपैः सं रश्मिभिस्ततनः सूर्यस्य ॥
7.002.02 नराशंसस्य महिमानमेषामुप स्तोषाम यजतस्य यज्ञैः ।
7.002.02 ये सुक्रतवः शुचयो धियन्धाः स्वदन्ति देवा उभयानि हव्या ॥
7.002.03 ईळेन्यं वो असुरं सुदक्षमन्तर्दूतं रोदसी सत्यवाचम् ।
7.002.03 मनुष्वदग्निं मनुना समिद्धं समध्वराय सदमिन्महेम ॥
7.002.04 सपर्यवो भरमाणा अभिज्ञु प्र वृञ्जते नमसा बर्हिरग्नौ ।
7.002.04 आजुह्वाना घृतपृष्ठं पृषद्वदध्वर्यवो हविषा मर्जयध्वम् ॥
7.002.05 स्वाध्यो वि दुरो देवयन्तोऽशिश्रयू रथयुर्देवताता ।
7.002.05 पूर्वी शिशुं न मातरा रिहाणे समग्रुवो न समनेष्वञ्जन् ॥
7.002.06 उत योषणे दिव्ये मही न उषासानक्ता सुदुघेव धेनुः ।
7.002.06 बर्हिषदा पुरुहूते मघोनी आ यज्ञिये सुविताय श्रयेताम् ॥
7.002.07 विप्रा यज्ञेषु मानुषेषु कारू मन्ये वां जातवेदसा यजध्यै ।
7.002.07 ऊर्ध्वं नो अध्वरं कृतं हवेषु ता देवेषु वनथो वार्याणि ॥
7.002.08 आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः ।
7.002.08 सरस्वती सारस्वतेभिरर्वाक्तिस्रो देवीर्बर्हिरेदं सदन्तु ॥
7.002.09 तन्नस्तुरीपमध पोषयित्नु देव त्वष्टर्वि रराणः स्यस्व ।
7.002.09 यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥
7.002.10 वनस्पतेऽव सृजोप देवानग्निर्हविः शमिता सूदयाति ।
7.002.10 सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥
7.002.11 आ याह्यग्ने समिधानो अर्वाङिन्द्रेण देवैः सरथं तुरेभिः ।
7.002.11 बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् ॥
7.003.01 अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम् ।
7.003.01 यो मर्त्येषु निध्रुविरृतावा तपुर्मूर्धा घृतान्नः पावकः ॥
7.003.02 प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात् ।
7.003.02 आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति ॥
7.003.03 उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्यजरा इधानाः ।
7.003.03 अच्छा द्यामरुषो धूम एति सं दूतो अग्न ईयसे हि देवान् ॥
7.003.04 वि यस्य ते पृथिव्यां पाजो अश्रेत्तृषु यदन्ना समवृक्त जम्भैः ।
7.003.04 सेनेव सृष्टा प्रसितिष्ट एति यवं न दस्म जुह्वा विवेक्षि ॥
7.003.05 तमिद्दोषा तमुषसि यविष्ठमग्निमत्यं न मर्जयन्त नरः ।
7.003.05 निशिशाना अतिथिमस्य योनौ दीदाय शोचिराहुतस्य वृष्णः ॥
7.003.06 सुसंदृक्ते स्वनीक प्रतीकं वि यद्रुक्मो न रोचस उपाके ।
7.003.06 दिवो न ते तन्यतुरेति शुष्मश्चित्रो न सूरः प्रति चक्षि भानुम् ॥
7.003.07 यथा वः स्वाहाग्नये दाशेम परीळाभिर्घृतवद्भिश्च हव्यैः ।
7.003.07 तेभिर्नो अग्ने अमितैर्महोभिः शतं पूर्भिरायसीभिर्नि पाहि ॥
7.003.08 या वा ते सन्ति दाशुषे अधृष्टा गिरो वा याभिर्नृवतीरुरुष्याः ।
7.003.08 ताभिर्नः सूनो सहसो नि पाहि स्मत्सूरीञ्जरितॄञ्जातवेदः ॥
7.003.09 निर्यत्पूतेव स्वधितिः शुचिर्गात्स्वया कृपा तन्वा रोचमानः ।
7.003.09 आ यो मात्रोरुशेन्यो जनिष्ट देवयज्याय सुक्रतुः पावकः ॥
7.003.10 एता नो अग्ने सौभगा दिदीह्यपि क्रतुं सुचेतसं वतेम ।
7.003.10 विश्वा स्तोतृभ्यो गृणते च सन्तु यूयं पात स्वस्तिभिः सदा नः ॥
7.004.01 प्र वः शुक्राय भानवे भरध्वं हव्यं मतिं चाग्नये सुपूतम् ।
7.004.01 यो दैव्यानि मानुषा जनूंष्यन्तर्विश्वानि विद्मना जिगाति ॥
7.004.02 स गृत्सो अग्निस्तरुणश्चिदस्तु यतो यविष्ठो अजनिष्ट मातुः ।
7.004.02 सं यो वना युवते शुचिदन्भूरि चिदन्ना समिदत्ति सद्यः ॥
7.004.03 अस्य देवस्य संसद्यनीके यं मर्तासः श्येतं जगृभ्रे ।
7.004.03 नि यो गृभं पौरुषेयीमुवोच दुरोकमग्निरायवे शुशोच ॥
7.004.04 अयं कविरकविषु प्रचेता मर्तेष्वग्निरमृतो नि धायि ।
7.004.04 स मा नो अत्र जुहुरः सहस्वः सदा त्वे सुमनसः स्याम ॥
7.004.05 आ यो योनिं देवकृतं ससाद क्रत्वा ह्यग्निरमृतां अतारीत् ।
7.004.05 तमोषधीश्च वनिनश्च गर्भं भूमिश्च विश्वधायसं बिभर्ति ॥
7.004.06 ईशे ह्यग्निरमृतस्य भूरेरीशे रायः सुवीर्यस्य दातोः ।
7.004.06 मा त्वा वयं सहसावन्नवीरा माप्सवः परि षदाम मादुवः ॥
7.004.07 परिषद्यं ह्यरणस्य रेक्णो नित्यस्य रायः पतयः स्याम ।
7.004.07 न शेषो अग्ने अन्यजातमस्त्यचेतानस्य मा पथो वि दुक्षः ॥
7.004.08 नहि ग्रभायारणः सुशेवोऽन्योदर्यो मनसा मन्तवा उ ।
7.004.08 अधा चिदोकः पुनरित्स एत्या नो वाज्यभीषाळ् एतु नव्यः ॥
7.004.09 त्वमग्ने वनुष्यतो नि पाहि त्वमु नः सहसावन्नवद्यात् ।
7.004.09 सं त्वा ध्वस्मन्वदभ्येतु पाथः सं रयि स्पृहयाय्यः सहस्री ॥
7.004.10 एता नो अग्ने सौभगा दिदीह्यपि क्रतुं सुचेतसं वतेम ।
7.004.10 विश्वा स्तोतृभ्यो गृणते च सन्तु यूयं पात स्वस्तिभिः सदा नः ॥
7.005.01 प्राग्नये तवसे भरध्वं गिरं दिवो अरतये पृथिव्याः ।
7.005.01 यो विश्वेषाममृतानामुपस्थे वैश्वानरो वावृधे जागृवद्भिः ॥
7.005.02 पृष्टो दिवि धाय्यग्निः पृथिव्यां नेता सिन्धूनां वृषभ स्तियानाम् ।
7.005.02 स मानुषीरभि विशो वि भाति वैश्वानरो वावृधानो वरेण ॥
7.005.03 त्वद्भिया विश आयन्नसिक्नीरसमना जहतीर्भोजनानि ।
7.005.03 वैश्वानर पूरवे शोशुचानः पुरो यदग्ने दरयन्नदीदेः ॥
7.005.04 तव त्रिधातु पृथिवी उत द्यौर्वैश्वानर व्रतमग्ने सचन्त ।
7.005.04 त्वं भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः ॥
7.005.05 त्वामग्ने हरितो वावशाना गिरः सचन्ते धुनयो घृताचीः ।
7.005.05 पतिं कृष्टीनां रथ्यं रयीणां वैश्वानरमुषसां केतुमह्नाम् ॥
7.005.06 त्वे असुर्यं वसवो न्यृण्वन्क्रतुं हि ते मित्रमहो जुषन्त ।
7.005.06 त्वं दस्यूंरोकसो अग्न आज उरु ज्योतिर्जनयन्नार्याय ॥
7.005.07 स जायमानः परमे व्योमन्वायुर्न पाथः परि पासि सद्यः ।
7.005.07 त्वं भुवना जनयन्नभि क्रन्नपत्याय जातवेदो दशस्यन् ॥
7.005.08 तामग्ने अस्मे इषमेरयस्व वैश्वानर द्युमतीं जातवेदः ।
7.005.08 यया राधः पिन्वसि विश्ववार पृथु श्रवो दाशुषे मर्त्याय ॥
7.005.09 तं नो अग्ने मघवद्भ्यः पुरुक्षुं रयिं नि वाजं श्रुत्यं युवस्व ।
7.005.09 वैश्वानर महि नः शर्म यच्छ रुद्रेभिरग्ने वसुभिः सजोषाः ॥
7.006.01 प्र सम्राजो असुरस्य प्रशस्तिं पुंसः कृष्टीनामनुमाद्यस्य ।
7.006.01 इन्द्रस्येव प्र तवसस्कृतानि वन्दे दारुं वन्दमानो विवक्मि ॥
7.006.02 कविं केतुं धासिं भानुमद्रेर्हिन्वन्ति शं राज्यं रोदस्योः ।
7.006.02 पुरन्दरस्य गीर्भिरा विवासेऽग्नेर्व्रतानि पूर्व्या महानि ॥
7.006.03 न्यक्रतून्ग्रथिनो मृध्रवाचः पणींरश्रद्धां अवृधां अयज्ञान् ।
7.006.03 प्रप्र तान्दस्यूंरग्निर्विवाय पूर्वश्चकारापरां अयज्यून् ॥
7.006.04 यो अपाचीने तमसि मदन्तीः प्राचीश्चकार नृतमः शचीभिः ।
7.006.04 तमीशानं वस्वो अग्निं गृणीषेऽनानतं दमयन्तं पृतन्यून् ॥
7.006.05 यो देह्यो अनमयद्वधस्नैर्यो अर्यपत्नीरुषसश्चकार ।
7.006.05 स निरुध्या नहुषो यह्वो अग्निर्विशश्चक्रे बलिहृतः सहोभिः ॥
7.006.06 यस्य शर्मन्नुप विश्वे जनास एवैस्तस्थुः सुमतिं भिक्षमाणाः ।
7.006.06 वैश्वानरो वरमा रोदस्योराग्निः ससाद पित्रोरुपस्थम् ॥
7.006.07 आ देवो ददे बुध्न्या वसूनि वैश्वानर उदिता सूर्यस्य ।
7.006.07 आ समुद्रादवरादा परस्मादाग्निर्ददे दिव आ पृथिव्याः ॥
7.007.01 प्र वो देवं चित्सहसानमग्निमश्वं न वाजिनं हिषे नमोभिः ।
7.007.01 भवा नो दूतो अध्वरस्य विद्वान्त्मना देवेषु विविदे मितद्रुः ॥
7.007.02 आ याह्यग्ने पथ्या अनु स्वा मन्द्रो देवानां सख्यं जुषाणः ।
7.007.02 आ सानु शुष्मैर्नदयन्पृथिव्या जम्भेभिर्विश्वमुशधग्वनानि ॥
7.007.03 प्राचीनो यज्ञः सुधितं हि बर्हिः प्रीणीते अग्निरीळितो न होता ।
7.007.03 आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः ॥
7.007.04 सद्यो अध्वरे रथिरं जनन्त मानुषासो विचेतसो य एषाम् ।
7.007.04 विशामधायि विश्पतिर्दुरोणेऽग्निर्मन्द्रो मधुवचा ऋतावा ॥
7.007.05 असादि वृतो वह्निराजगन्वानग्निर्ब्रह्मा नृषदने विधर्ता ।
7.007.05 द्यौश्च यं पृथिवी वावृधाते आ यं होता यजति विश्ववारम् ॥
7.007.06 एते द्युम्नेभिर्विश्वमातिरन्त मन्त्रं ये वारं नर्या अतक्षन् ।
7.007.06 प्र ये विशस्तिरन्त श्रोषमाणा आ ये मे अस्य दीधयन्नृतस्य ॥
7.007.07 नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् ।
7.007.07 इषं स्तोतृभ्यो मघवद्भ्य आनड्यूयं पात स्वस्तिभिः सदा नः ॥
7.008.01 इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन ।
7.008.01 नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि ॥
7.008.02 अयमु ष्य सुमहां अवेदि होता मन्द्रो मनुषो यह्वो अग्निः ।
7.008.02 वि भा अकः ससृजानः पृथिव्यां कृष्णपविरोषधीभिर्ववक्षे ॥
7.008.03 कया नो अग्ने वि वसः सुवृक्तिं कामु स्वधामृणवः शस्यमानः ।
7.008.03 कदा भवेम पतयः सुदत्र रायो वन्तारो दुष्टरस्य साधोः ॥
7.008.04 प्रप्रायमग्निर्भरतस्य शृण्वे वि यत्सूर्यो न रोचते बृहद्भाः ।
7.008.04 अभि यः पूरुं पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच ॥
7.008.05 असन्नित्त्वे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः ।
7.008.05 स्तुतश्चिदग्ने शृण्विषे गृणानः स्वयं वर्धस्व तन्वं सुजात ॥
7.008.06 इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट द्विबर्हाः ।
7.008.06 शं यत्स्तोतृभ्य आपये भवाति द्युमदमीवचातनं रक्षोहा ॥
7.008.07 नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् ।
7.008.07 इषं स्तोतृभ्यो मघवद्भ्य आनड्यूयं पात स्वस्तिभिः सदा नः ॥
7.009.01 अबोधि जार उषसामुपस्थाद्धोता मन्द्रः कवितमः पावकः ।
7.009.01 दधाति केतुमुभयस्य जन्तोर्हव्या देवेषु द्रविणं सुकृत्सु ॥
7.009.02 स सुक्रतुर्यो वि दुरः पणीनां पुनानो अर्कं पुरुभोजसं नः ।
7.009.02 होता मन्द्रो विशां दमूनास्तिरस्तमो ददृशे राम्याणाम् ॥
7.009.03 अमूरः कविरदितिर्विवस्वान्सुसंसन्मित्रो अतिथिः शिवो नः ।
7.009.03 चित्रभानुरुषसां भात्यग्रेऽपां गर्भः प्रस्व आ विवेश ॥
7.009.04 ईळेन्यो वो मनुषो युगेषु समनगा अशुचज्जातवेदाः ।
7.009.04 सुसंदृशा भानुना यो विभाति प्रति गावः समिधानं बुधन्त ॥
7.009.05 अग्ने याहि दूत्यं मा रिषण्यो देवां अच्छा ब्रह्मकृता गणेन ।
7.009.05 सरस्वतीं मरुतो अश्विनापो यक्षि देवान्रत्नधेयाय विश्वान् ॥
7.009.06 त्वामग्ने समिधानो वसिष्ठो जरूथं हन्यक्षि राये पुरन्धिम् ।
7.009.06 पुरुणीथा जातवेदो जरस्व यूयं पात स्वस्तिभिः सदा नः ॥
7.010.01 उषो न जारः पृथु पाजो अश्रेद्दविद्युतद्दीद्यच्छोशुचानः ।
7.010.01 वृषा हरिः शुचिरा भाति भासा धियो हिन्वान उशतीरजीगः ॥
7.010.02 स्वर्ण वस्तोरुषसामरोचि यज्ञं तन्वाना उशिजो न मन्म ।
7.010.02 अग्निर्जन्मानि देव आ वि विद्वान्द्रवद्दूतो देवयावा वनिष्ठः ॥
7.010.03 अच्छा गिरो मतयो देवयन्तीरग्निं यन्ति द्रविणं भिक्षमाणाः ।
7.010.03 सुसंदृशं सुप्रतीकं स्वञ्चं हव्यवाहमरतिं मानुषाणाम् ॥
7.010.04 इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिरा वहा बृहन्तम् ।
7.010.04 आदित्येभिरदितिं विश्वजन्यां बृहस्पतिमृक्वभिर्विश्ववारम् ॥
7.010.05 मन्द्रं होतारमुशिजो यविष्ठमग्निं विश ईळते अध्वरेषु ।
7.010.05 स हि क्षपावां अभवद्रयीणामतन्द्रो दूतो यजथाय देवान् ॥
7.011.01 महां अस्यध्वरस्य प्रकेतो न ऋते त्वदमृता मादयन्ते ।
7.011.01 आ विश्वेभिः सरथं याहि देवैर्न्यग्ने होता प्रथमः सदेह ॥
7.011.02 त्वामीळते अजिरं दूत्याय हविष्मन्तः सदमिन्मानुषासः ।
7.011.02 यस्य देवैरासदो बर्हिरग्नेऽहान्यस्मै सुदिना भवन्ति ॥
7.011.03 त्रिश्चिदक्तोः प्र चिकितुर्वसूनि त्वे अन्तर्दाशुषे मर्त्याय ।
7.011.03 मनुष्वदग्न इह यक्षि देवान्भवा नो दूतो अभिशस्तिपावा ॥
7.011.04 अग्निरीशे बृहतो अध्वरस्याग्निर्विश्वस्य हविषः कृतस्य ।
7.011.04 क्रतुं ह्यस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम् ॥
7.011.05 आग्ने वह हविरद्याय देवानिन्द्रज्येष्ठास इह मादयन्ताम् ।
7.011.05 इमं यज्ञं दिवि देवेषु धेहि यूयं पात स्वस्तिभिः सदा नः ॥
7.012.01 अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे ।
7.012.01 चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥
7.012.02 स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः ।
7.012.02 स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः ॥
7.012.03 त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः ।
7.012.03 त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥
7.013.01 प्राग्नये विश्वशुचे धियन्धेऽसुरघ्ने मन्म धीतिं भरध्वम् ।
7.013.01 भरे हविर्न बर्हिषि प्रीणानो वैश्वानराय यतये मतीनाम् ॥
7.013.02 त्वमग्ने शोचिषा शोशुचान आ रोदसी अपृणा जायमानः ।
7.013.02 त्वं देवां अभिशस्तेरमुञ्चो वैश्वानर जातवेदो महित्वा ॥
7.013.03 जातो यदग्ने भुवना व्यख्यः पशून्न गोपा इर्यः परिज्मा ।
7.013.03 वैश्वानर ब्रह्मणे विन्द गातुं यूयं पात स्वस्तिभिः सदा नः ॥
7.014.01 समिधा जातवेदसे देवाय देवहूतिभिः ।
7.014.01 हविर्भिः शुक्रशोचिषे नमस्विनो वयं दाशेमाग्नये ॥
7.014.02 वयं ते अग्ने समिधा विधेम वयं दाशेम सुष्टुती यजत्र ।
7.014.02 वयं घृतेनाध्वरस्य होतर्वयं देव हविषा भद्रशोचे ॥
7.014.03 आ नो देवेभिरुप देवहूतिमग्ने याहि वषट्कृतिं जुषाणः ।
7.014.03 तुभ्यं देवाय दाशतः स्याम यूयं पात स्वस्तिभिः सदा नः ॥
7.015.01 उपसद्याय मीळ्हुष आस्ये जुहुता हविः ।
7.015.01 यो नो नेदिष्ठमाप्यम् ॥
7.015.02 यः पञ्च चर्षणीरभि निषसाद दमेदमे ।
7.015.02 कविर्गृहपतिर्युवा ॥
7.015.03 स नो वेदो अमात्यमग्नी रक्षतु विश्वतः ।
7.015.03 उतास्मान्पात्वंहसः ॥
7.015.04 नवं नु स्तोममग्नये दिवः श्येनाय जीजनम् ।
7.015.04 वस्वः कुविद्वनाति नः ॥
7.015.05 स्पार्हा यस्य श्रियो दृशे रयिर्वीरवतो यथा ।
7.015.05 अग्रे यज्ञस्य शोचतः ॥
7.015.06 सेमां वेतु वषट्कृतिमग्निर्जुषत नो गिरः ।
7.015.06 यजिष्ठो हव्यवाहनः ॥
7.015.07 नि त्वा नक्ष्य विश्पते द्युमन्तं देव धीमहि ।
7.015.07 सुवीरमग्न आहुत ॥
7.015.08 क्षप उस्रश्च दीदिहि स्वग्नयस्त्वया वयम् ।
7.015.08 सुवीरस्त्वमस्मयुः ॥
7.015.09 उप त्वा सातये नरो विप्रासो यन्ति धीतिभिः ।
7.015.09 उपाक्षरा सहस्रिणी ॥
7.015.10 अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः ।
7.015.10 शुचिः पावक ईड्यः ॥
7.015.11 स नो राधांस्या भरेशानः सहसो यहो ।
7.015.11 भगश्च दातु वार्यम् ॥
7.015.12 त्वमग्ने वीरवद्यशो देवश्च सविता भगः ।
7.015.12 दितिश्च दाति वार्यम् ॥
7.015.13 अग्ने रक्षा णो अंहसः प्रति ष्म देव रीषतः ।
7.015.13 तपिष्ठैरजरो दह ॥
7.015.14 अधा मही न आयस्यनाधृष्टो नृपीतये ।
7.015.14 पूर्भवा शतभुजिः ॥
7.015.15 त्वं नः पाह्यंहसो दोषावस्तरघायतः ।
7.015.15 दिवा नक्तमदाभ्य ॥
7.016.01 एना वो अग्निं नमसोर्जो नपातमा हुवे ।
7.016.01 प्रियं चेतिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतम् ॥
7.016.02 स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः ।
7.016.02 सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम् ॥
7.016.03 उदस्य शोचिरस्थादाजुह्वानस्य मीळ्हुषः ।
7.016.03 उद्धूमासो अरुषासो दिविस्पृशः समग्निमिन्धते नरः ॥
7.016.04 तं त्वा दूतं कृण्महे यशस्तमं देवां आ वीतये वह ।
7.016.04 विश्वा सूनो सहसो मर्तभोजना रास्व तद्यत्त्वेमहे ॥
7.016.05 त्वमग्ने गृहपतिस्त्वं होता नो अध्वरे ।
7.016.05 त्वं पोता विश्ववार प्रचेता यक्षि वेषि च वार्यम् ॥
7.016.06 कृधि रत्नं यजमानाय सुक्रतो त्वं हि रत्नधा असि ।
7.016.06 आ न ऋते शिशीहि विश्वमृत्विजं सुशंसो यश्च दक्षते ॥
7.016.07 त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः ।
7.016.07 यन्तारो ये मघवानो जनानामूर्वान्दयन्त गोनाम् ॥
7.016.08 येषामिळा घृतहस्ता दुरोण आं अपि प्राता निषीदति ।
7.016.08 तांस्त्रायस्व सहस्य द्रुहो निदो यच्छा नः शर्म दीर्घश्रुत् ॥
7.016.09 स मन्द्रया च जिह्वया वह्निरासा विदुष्टरः ।
7.016.09 अग्ने रयिं मघवद्भ्यो न आ वह हव्यदातिं च सूदय ॥
7.016.10 ये राधांसि ददत्यश्व्या मघा कामेन श्रवसो महः ।
7.016.10 तां अंहसः पिपृहि पर्तृभिष्ट्वं शतं पूर्भिर्यविष्ठ्य ॥
7.016.11 देवो वो द्रविणोदाः पूर्णां विवष्ट्यासिचम् ।
7.016.11 उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥
7.016.12 तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत ।
7.016.12 दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥
7.017.01 अग्ने भव सुषमिधा समिद्ध उत बर्हिरुर्विया वि स्तृणीताम् ॥
7.017.02 उत द्वार उशतीर्वि श्रयन्तामुत देवां उशत आ वहेह ॥
7.017.03 अग्ने वीहि हविषा यक्षि देवान्स्वध्वरा कृणुहि जातवेदः ॥
7.017.04 स्वध्वरा करति जातवेदा यक्षद्देवां अमृतान्पिप्रयच्च ॥
7.017.05 वंस्व विश्वा वार्याणि प्रचेतः सत्या भवन्त्वाशिषो नो अद्य ॥
7.017.06 त्वामु ते दधिरे हव्यवाहं देवासो अग्न ऊर्ज आ नपातम् ॥
7.017.07 ते ते देवाय दाशतः स्याम महो नो रत्ना वि दध इयानः ॥
7.018.01 त्वे ह यत्पितरश्चिन्न इन्द्र विश्वा वामा जरितारो असन्वन् ।
7.018.01 त्वे गावः सुदुघास्त्वे ह्यश्वास्त्वं वसु देवयते वनिष्ठः ॥
7.018.02 राजेव हि जनिभिः क्षेष्येवाव द्युभिरभि विदुष्कविः सन् ।
7.018.02 पिशा गिरो मघवन्गोभिरश्वैस्त्वायतः शिशीहि राये अस्मान् ॥
7.018.03 इमा उ त्वा पस्पृधानासो अत्र मन्द्रा गिरो देवयन्तीरुप स्थुः ।
7.018.03 अर्वाची ते पथ्या राय एतु स्याम ते सुमताविन्द्र शर्मन् ॥
7.018.04 धेनुं न त्वा सूयवसे दुदुक्षन्नुप ब्रह्माणि ससृजे वसिष्ठः ।
7.018.04 त्वामिन्मे गोपतिं विश्व आहा न इन्द्रः सुमतिं गन्त्वच्छ ॥
7.018.05 अर्णांसि चित्पप्रथाना सुदास इन्द्रो गाधान्यकृणोत्सुपारा ।
7.018.05 शर्धन्तं शिम्युमुचथस्य नव्यः शापं सिन्धूनामकृणोदशस्तीः ॥
7.018.06 पुरोळा इत्तुर्वशो यक्षुरासीद्राये मत्स्यासो निशिता अपीव ।
7.018.06 श्रुष्टिं चक्रुर्भृगवो द्रुह्यवश्च सखा सखायमतरद्विषूचोः ॥
7.018.07 आ पक्थासो भलानसो भनन्तालिनासो विषाणिनः शिवासः ।
7.018.07 आ योऽनयत्सधमा आर्यस्य गव्या तृत्सुभ्यो अजगन्युधा नॄन् ॥
7.018.08 दुराध्यो अदितिं स्रेवयन्तोऽचेतसो वि जगृभ्रे परुष्णीम् ।
7.018.08 मह्नाविव्यक्पृथिवीं पत्यमानः पशुष्कविरशयच्चायमानः ॥
7.018.09 ईयुरर्थं न न्यर्थं परुष्णीमाशुश्चनेदभिपित्वं जगाम ।
7.018.09 सुदास इन्द्रः सुतुकां अमित्रानरन्धयन्मानुषे वध्रिवाचः ॥
7.018.10 ईयुर्गावो न यवसादगोपा यथाकृतमभि मित्रं चितासः ।
7.018.10 पृश्निगावः पृश्निनिप्रेषितासः श्रुष्टिं चक्रुर्नियुतो रन्तयश्च ॥
7.018.11 एकं च यो विंशतिं च श्रवस्या वैकर्णयोर्जनान्राजा न्यस्तः ।
7.018.11 दस्मो न सद्मन्नि शिशाति बर्हिः शूरः सर्गमकृणोदिन्द्र एषाम् ॥
7.018.12 अध श्रुतं कवषं वृद्धमप्स्वनु द्रुह्युं नि वृणग्वज्रबाहुः ।
7.018.12 वृणाना अत्र सख्याय सख्यं त्वायन्तो ये अमदन्ननु त्वा ॥
7.018.13 वि सद्यो विश्वा दृंहितान्येषामिन्द्रः पुरः सहसा सप्त दर्दः ।
7.018.13 व्यानवस्य तृत्सवे गयं भाग्जेष्म पूरुं विदथे मृध्रवाचम् ॥
7.018.14 नि गव्यवोऽनवो द्रुह्यवश्च षष्टिः शता सुषुपुः षट्सहस्रा ।
7.018.14 षष्टिर्वीरासो अधि षड्दुवोयु विश्वेदिन्द्रस्य वीर्या कृतानि ॥
7.018.15 इन्द्रेणैते तृत्सवो वेविषाणा आपो न सृष्टा अधवन्त नीचीः ।
7.018.15 दुर्मित्रासः प्रकलविन्मिमाना जहुर्विश्वानि भोजना सुदासे ॥
7.018.16 अर्धं वीरस्य शृतपामनिन्द्रं परा शर्धन्तं नुनुदे अभि क्षाम् ।
7.018.16 इन्द्रो मन्युं मन्युम्यो मिमाय भेजे पथो वर्तनिं पत्यमानः ॥
7.018.17 आध्रेण चित्तद्वेकं चकार सिंह्यं चित्पेत्वेना जघान ।
7.018.17 अव स्रक्तीर्वेश्यावृश्चदिन्द्रः प्रायच्छद्विश्वा भोजना सुदासे ॥
7.018.18 शश्वन्तो हि शत्रवो रारधुष्टे भेदस्य चिच्छर्धतो विन्द रन्धिम् ।
7.018.18 मर्तां एन स्तुवतो यः कृणोति तिग्मं तस्मिन्नि जहि वज्रमिन्द्र ॥
7.018.19 आवदिन्द्रं यमुना तृत्सवश्च प्रात्र भेदं सर्वताता मुषायत् ।
7.018.19 अजासश्च शिग्रवो यक्षवश्च बलिं शीर्षाणि जभ्रुरश्व्यानि ॥
7.018.20 न त इन्द्र सुमतयो न रायः संचक्षे पूर्वा उषसो न नूत्नाः ।
7.018.20 देवकं चिन्मान्यमानं जघन्थाव त्मना बृहतः शम्बरं भेत् ॥
7.018.21 प्र ये गृहादममदुस्त्वाया पराशरः शतयातुर्वसिष्ठः ।
7.018.21 न ते भोजस्य सख्यं मृषन्ताधा सूरिभ्यः सुदिना व्युच्छान् ॥
7.018.22 द्वे नप्तुर्देववतः शते गोर्द्वा रथा वधूमन्ता सुदासः ।
7.018.22 अर्हन्नग्ने पैजवनस्य दानं होतेव सद्म पर्येमि रेभन् ॥
7.018.23 चत्वारो मा पैजवनस्य दानाः स्मद्दिष्टयः कृशनिनो निरेके ।
7.018.23 ऋज्रासो मा पृथिविष्ठाः सुदासस्तोकं तोकाय श्रवसे वहन्ति ॥
7.018.24 यस्य श्रवो रोदसी अन्तरुर्वी शीर्ष्णेशीर्ष्णे विबभाजा विभक्ता ।
7.018.24 सप्तेदिन्द्रं न स्रवतो गृणन्ति नि युध्यामधिमशिशादभीके ॥
7.018.25 इमं नरो मरुतः सश्चतानु दिवोदासं न पितरं सुदासः ।
7.018.25 अविष्टना पैजवनस्य केतं दूणाशं क्षत्रमजरं दुवोयु ॥
7.019.01 यस्तिग्मशृङ्गो वृषभो न भीम एकः कृष्टीश्च्यावयति प्र विश्वाः ।
7.019.01 यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः ॥
7.019.02 त्वं ह त्यदिन्द्र कुत्समावः शुश्रूषमाणस्तन्वा समर्ये ।
7.019.02 दासं यच्छुष्णं कुयवं न्यस्मा अरन्धय आर्जुनेयाय शिक्षन् ॥
7.019.03 त्वं धृष्णो धृषता वीतहव्यं प्रावो विश्वाभिरूतिभिः सुदासम् ।
7.019.03 प्र पौरुकुत्सिं त्रसदस्युमावः क्षेत्रसाता वृत्रहत्येषु पूरुम् ॥
7.019.04 त्वं नृभिर्नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि ।
7.019.04 त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु ॥
7.019.05 तव च्यौत्नानि वज्रहस्त तानि नव यत्पुरो नवतिं च सद्यः ।
7.019.05 निवेशने शततमाविवेषीरहञ्च वृत्रं नमुचिमुताहन् ॥
7.019.06 सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे ।
7.019.06 वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् ॥
7.019.07 मा ते अस्यां सहसावन्परिष्टावघाय भूम हरिवः परादै ।
7.019.07 त्रायस्व नोऽवृकेभिर्वरूथैस्तव प्रियासः सूरिषु स्याम ॥
7.019.08 प्रियास इत्ते मघवन्नभिष्टौ नरो मदेम शरणे सखायः ।
7.019.08 नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन् ॥
7.019.09 सद्यश्चिन्नु ते मघवन्नभिष्टौ नरः शंसन्त्युक्थशास उक्था ।
7.019.09 ये ते हवेभिर्वि पणींरदाशन्नस्मान्वृणीष्व युज्याय तस्मै ॥
7.019.10 एते स्तोमा नरां नृतम तुभ्यमस्मद्र्यञ्चो ददतो मघानि ।
7.019.10 तेषामिन्द्र वृत्रहत्ये शिवो भूः सखा च शूरोऽविता च नृणाम् ॥
7.019.11 नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस्तन्वा वावृधस्व ।
7.019.11 उप नो वाजान्मिमीह्युप स्तीन्यूयं पात स्वस्तिभिः सदा नः ॥
7.020.01 उग्रो जज्ञे वीर्याय स्वधावाञ्चक्रिरपो नर्यो यत्करिष्यन् ।
7.020.01 जग्मिर्युवा नृषदनमवोभिस्त्राता न इन्द्र एनसो महश्चित् ॥
7.020.02 हन्ता वृत्रमिन्द्रः शूशुवानः प्रावीन्नु वीरो जरितारमूती ।
7.020.02 कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुरा दाशुषे भूत् ॥
7.020.03 युध्मो अनर्वा खजकृत्समद्वा शूरः सत्राषाड्जनुषेमषाळ्हः ।
7.020.03 व्यास इन्द्रः पृतनाः स्वोजा अधा विश्वं शत्रूयन्तं जघान ॥
7.020.04 उभे चिदिन्द्र रोदसी महित्वा पप्राथ तविषीभिस्तुविष्मः ।
7.020.04 नि वज्रमिन्द्रो हरिवान्मिमिक्षन्समन्धसा मदेषु वा उवोच ॥
7.020.05 वृषा जजान वृषणं रणाय तमु चिन्नारी नर्यं ससूव ।
7.020.05 प्र यः सेनानीरध नृभ्यो अस्तीनः सत्वा गवेषणः स धृष्णुः ॥
7.020.06 नू चित्स भ्रेषते जनो न रेषन्मनो यो अस्य घोरमाविवासात् ।
7.020.06 यज्ञैर्य इन्द्रे दधते दुवांसि क्षयत्स राय ऋतपा ऋतेजाः ॥
7.020.07 यदिन्द्र पूर्वो अपराय शिक्षन्नयज्ज्यायान्कनीयसो देष्णम् ।
7.020.07 अमृत इत्पर्यासीत दूरमा चित्र चित्र्यं भरा रयिं नः ॥
7.020.08 यस्त इन्द्र प्रियो जनो ददाशदसन्निरेके अद्रिवः सखा ते ।
7.020.08 वयं ते अस्यां सुमतौ चनिष्ठाः स्याम वरूथे अघ्नतो नृपीतौ ॥
7.020.09 एष स्तोमो अचिक्रदद्वृषा त उत स्तामुर्मघवन्नक्रपिष्ट ।
7.020.09 रायस्कामो जरितारं त आगन्त्वमङ्ग शक्र वस्व आ शको नः ॥
7.020.10 स न इन्द्र त्वयताया इषे धास्त्मना च ये मघवानो जुनन्ति ।
7.020.10 वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात स्वस्तिभिः सदा नः ॥
7.021.01 असावि देवं गोऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच ।
7.021.01 बोधामसि त्वा हर्यश्व यज्ञैर्बोधा न स्तोममन्धसो मदेषु ॥
7.021.02 प्र यन्ति यज्ञं विपयन्ति बर्हिः सोममादो विदथे दुध्रवाचः ।
7.021.02 न्यु भ्रियन्ते यशसो गृभादा दूरौपब्दो वृषणो नृषाचः ॥
7.021.03 त्वमिन्द्र स्रवितवा अपस्कः परिष्ठिता अहिना शूर पूर्वीः ।
7.021.03 त्वद्वावक्रे रथ्यो न धेना रेजन्ते विश्वा कृत्रिमाणि भीषा ॥
7.021.04 भीमो विवेषायुधेभिरेषामपांसि विश्वा नर्याणि विद्वान् ।
7.021.04 इन्द्रः पुरो जर्हृषाणो वि दूधोद्वि वज्रहस्तो महिना जघान ॥
7.021.05 न यातव इन्द्र जूजुवुर्नो न वन्दना शविष्ठ वेद्याभिः ।
7.021.05 स शर्धदर्यो विषुणस्य जन्तोर्मा शिश्नदेवा अपि गुरृतं नः ॥
7.021.06 अभि क्रत्वेन्द्र भूरध ज्मन्न ते विव्यङ्महिमानं रजांसि ।
7.021.06 स्वेना हि वृत्रं शवसा जघन्थ न शत्रुरन्तं विविदद्युधा ते ॥
7.021.07 देवाश्चित्ते असुर्याय पूर्वेऽनु क्षत्राय ममिरे सहांसि ।
7.021.07 इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहुवन्त सातौ ॥
7.021.08 कीरिश्चिद्धि त्वामवसे जुहावेशानमिन्द्र सौभगस्य भूरेः ।
7.021.08 अवो बभूथ शतमूते अस्मे अभिक्षत्तुस्त्वावतो वरूता ॥
7.021.09 सखायस्त इन्द्र विश्वह स्याम नमोवृधासो महिना तरुत्र ।
7.021.09 वन्वन्तु स्मा तेऽवसा समीकेऽभीतिमर्यो वनुषां शवांसि ॥
7.021.10 स न इन्द्र त्वयताया इषे धास्त्मना च ये मघवानो जुनन्ति ।
7.021.10 वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात स्वस्तिभिः सदा नः ॥
7.022.01 पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः ।
7.022.01 सोतुर्बाहुभ्यां सुयतो नार्वा ॥
7.022.02 यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि ।
7.022.02 स त्वामिन्द्र प्रभूवसो ममत्तु ॥
7.022.03 बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् ।
7.022.03 इमा ब्रह्म सधमादे जुषस्व ॥
7.022.04 श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम् ।
7.022.04 कृष्वा दुवांस्यन्तमा सचेमा ॥
7.022.05 न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान् ।
7.022.05 सदा ते नाम स्वयशो विवक्मि ॥
7.022.06 भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् ।
7.022.06 मारे अस्मन्मघवञ्ज्योक्कः ॥
7.022.07 तुभ्येदिमा सवना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि ।
7.022.07 त्वं नृभिर्हव्यो विश्वधासि ॥
7.022.08 नू चिन्नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र ।
7.022.08 न वीर्यमिन्द्र ते न राधः ॥
7.022.09 ये च पूर्व ऋषयो ये च नूत्ना इन्द्र ब्रह्माणि जनयन्त विप्राः ।
7.022.09 अस्मे ते सन्तु सख्या शिवानि यूयं पात स्वस्तिभिः सदा नः ॥
7.023.01 उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ ।
7.023.01 आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि ॥
7.023.02 अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि ।
7.023.02 नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान् ॥
7.023.03 युजे रथं गवेषणं हरिभ्यामुप ब्रह्माणि जुजुषाणमस्थुः ।
7.023.03 वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्यप्रती जघन्वान् ॥
7.023.04 आपश्चित्पिप्यु स्तर्यो न गावो नक्षन्नृतं जरितारस्त इन्द्र ।
7.023.04 याहि वायुर्न नियुतो नो अच्छा त्वं हि धीभिर्दयसे वि वाजान् ॥
7.023.05 ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे ।
7.023.05 एको देवत्रा दयसे हि मर्तानस्मिञ्छूर सवने मादयस्व ॥
7.023.06 एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः ।
7.023.06 स न स्तुतो वीरवद्धातु गोमद्यूयं पात स्वस्तिभिः सदा नः ॥
7.024.01 योनिष्ट इन्द्र सदने अकारि तमा नृभिः पुरुहूत प्र याहि ।
7.024.01 असो यथा नोऽविता वृधे च ददो वसूनि ममदश्च सोमैः ॥
7.024.02 गृभीतं ते मन इन्द्र द्विबर्हाः सुतः सोमः परिषिक्ता मधूनि ।
7.024.02 विसृष्टधेना भरते सुवृक्तिरियमिन्द्रं जोहुवती मनीषा ॥
7.024.03 आ नो दिव आ पृथिव्या ऋजीषिन्निदं बर्हिः सोमपेयाय याहि ।
7.024.03 वहन्तु त्वा हरयो मद्र्यञ्चमाङ्गूषमच्छा तवसं मदाय ॥
7.024.04 आ नो विश्वाभिरूतिभिः सजोषा ब्रह्म जुषाणो हर्यश्व याहि ।
7.024.04 वरीवृजत्स्थविरेभिः सुशिप्रास्मे दधद्वृषणं शुष्ममिन्द्र ॥
7.024.05 एष स्तोमो मह उग्राय वाहे धुरीवात्यो न वाजयन्नधायि ।
7.024.05 इन्द्र त्वायमर्क ईट्टे वसूनां दिवीव द्यामधि नः श्रोमतं धाः ॥
7.024.06 एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम ।
7.024.06 इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात स्वस्तिभिः सदा नः ॥
7.025.01 आ ते मह इन्द्रोत्युग्र समन्यवो यत्समरन्त सेनाः ।
7.025.01 पताति दिद्युन्नर्यस्य बाह्वोर्मा ते मनो विष्वद्र्यग्वि चारीत् ॥
7.025.02 नि दुर्ग इन्द्र श्नथिह्यमित्रां अभि ये नो मर्तासो अमन्ति ।
7.025.02 आरे तं शंसं कृणुहि निनित्सोरा नो भर सम्भरणं वसूनाम् ॥
7.025.03 शतं ते शिप्रिन्नूतयः सुदासे सहस्रं शंसा उत रातिरस्तु ।
7.025.03 जहि वधर्वनुषो मर्त्यस्यास्मे द्युम्नमधि रत्नं च धेहि ॥
7.025.04 त्वावतो हीन्द्र क्रत्वे अस्मि त्वावतोऽवितुः शूर रातौ ।
7.025.04 विश्वेदहानि तविषीव उग्रं ओकः कृणुष्व हरिवो न मर्धीः ॥
7.025.05 कुत्सा एते हर्यश्वाय शूषमिन्द्रे सहो देवजूतमियानाः ।
7.025.05 सत्रा कृधि सुहना शूर वृत्रा वयं तरुत्राः सनुयाम वाजम् ॥
7.025.06 एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम ।
7.025.06 इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात स्वस्तिभिः सदा नः ॥
7.026.01 न सोम इन्द्रमसुतो ममाद नाब्रह्माणो मघवानं सुतासः ।
7.026.01 तस्मा उक्थं जनये यज्जुजोषन्नृवन्नवीयः शृणवद्यथा नः ॥
7.026.02 उक्थौक्थे सोम इन्द्रं ममाद नीथेनीथे मघवानं सुतासः ।
7.026.02 यदीं सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते ॥
7.026.03 चकार ता कृणवन्नूनमन्या यानि ब्रुवन्ति वेधसः सुतेषु ।
7.026.03 जनीरिव पतिरेकः समानो नि मामृजे पुर इन्द्रः सु सर्वाः ॥
7.026.04 एवा तमाहुरुत शृण्व इन्द्र एको विभक्ता तरणिर्मघानाम् ।
7.026.04 मिथस्तुर ऊतयो यस्य पूर्वीरस्मे भद्राणि सश्चत प्रियाणि ॥
7.026.05 एवा वसिष्ठ इन्द्रमूतये नॄन्कृष्टीनां वृषभं सुते गृणाति ।
7.026.05 सहस्रिण उप नो माहि वाजान्यूयं पात स्वस्तिभिः सदा नः ॥
7.027.01 इन्द्रं नरो नेमधिता हवन्ते यत्पार्या युनजते धियस्ताः ।
7.027.01 शूरो नृषाता शवसश्चकान आ गोमति व्रजे भजा त्वं नः ॥
7.027.02 य इन्द्र शुष्मो मघवन्ते अस्ति शिक्षा सखिभ्यः पुरुहूत नृभ्यः ।
7.027.02 त्वं हि दृळ्हा मघवन्विचेता अपा वृधि परिवृतं न राधः ॥
7.027.03 इन्द्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति ।
7.027.03 ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतश्चिदर्वाक् ॥
7.027.04 नू चिन्न इन्द्रो मघवा सहूती दानो वाजं नि यमते न ऊती ।
7.027.04 अनूना यस्य दक्षिणा पीपाय वामं नृभ्यो अभिवीता सखिभ्यः ॥
7.027.05 नू इन्द्र राये वरिवस्कृधी न आ ते मनो ववृत्याम मघाय ।
7.027.05 गोमदश्वावद्रथवद्व्यन्तो यूयं पात स्वस्तिभिः सदा नः ॥
7.028.01 ब्रह्मा ण इन्द्रोप याहि विद्वानर्वाञ्चस्ते हरयः सन्तु युक्ताः ।
7.028.01 विश्वे चिद्धि त्वा विहवन्त मर्ता अस्माकमिच्छृणुहि विश्वमिन्व ॥
7.028.02 हवं त इन्द्र महिमा व्यानड्ब्रह्म यत्पासि शवसिन्नृषीणाम् ।
7.028.02 आ यद्वज्रं दधिषे हस्त उग्र घोरः सन्क्रत्वा जनिष्ठा अषाळ्हः ॥
7.028.03 तव प्रणीतीन्द्र जोहुवानान्सं यन्नॄन्न रोदसी निनेथ ।
7.028.03 महे क्षत्राय शवसे हि जज्ञेऽतूतुजिं चित्तूतुजिरशिश्नत् ॥
7.028.04 एभिर्न इन्द्राहभिर्दशस्य दुर्मित्रासो हि क्षितयः पवन्ते ।
7.028.04 प्रति यच्चष्टे अनृतमनेना अव द्विता वरुणो मायी नः सात् ॥
7.028.05 वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः ।
7.028.05 यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः ॥
7.029.01 अयं सोम इन्द्र तुभ्यं सुन्व आ तु प्र याहि हरिवस्तदोकाः ।
7.029.01 पिबा त्वस्य सुषुतस्य चारोर्ददो मघानि मघवन्नियानः ॥
7.029.02 ब्रह्मन्वीर ब्रह्मकृतिं जुषाणोऽर्वाचीनो हरिभिर्याहि तूयम् ।
7.029.02 अस्मिन्नू षु सवने मादयस्वोप ब्रह्माणि शृणव इमा नः ॥
7.029.03 का ते अस्त्यरङ्कृतिः सूक्तैः कदा नूनं ते मघवन्दाशेम ।
7.029.03 विश्वा मतीरा ततने त्वायाधा म इन्द्र शृणवो हवेमा ॥
7.029.04 उतो घा ते पुरुष्या इदासन्येषां पूर्वेषामशृणोरृषीणाम् ।
7.029.04 अधाहं त्वा मघवञ्जोहवीमि त्वं न इन्द्रासि प्रमतिः पितेव ॥
7.029.05 वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः ।
7.029.05 यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः ॥
7.030.01 आ नो देव शवसा याहि शुष्मिन्भवा वृध इन्द्र रायो अस्य ।
7.030.01 महे नृम्णाय नृपते सुवज्र महि क्षत्राय पौंस्याय शूर ॥
7.030.02 हवन्त उ त्वा हव्यं विवाचि तनूषु शूराः सूर्यस्य सातौ ।
7.030.02 त्वं विश्वेषु सेन्यो जनेषु त्वं वृत्राणि रन्धया सुहन्तु ॥
7.030.03 अहा यदिन्द्र सुदिना व्युच्छान्दधो यत्केतुमुपमं समत्सु ।
7.030.03 न्यग्निः सीददसुरो न होता हुवानो अत्र सुभगाय देवान् ॥
7.030.04 वयं ते त इन्द्र ये च देव स्तवन्त शूर ददतो मघानि ।
7.030.04 यच्छा सूरिभ्य उपमं वरूथं स्वाभुवो जरणामश्नवन्त ॥
7.030.05 वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः ।
7.030.05 यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः ॥
7.031.01 प्र व इन्द्राय मादनं हर्यश्वाय गायत ।
7.031.01 सखायः सोमपाव्ने ॥
7.031.02 शंसेदुक्थं सुदानव उत द्युक्षं यथा नरः ।
7.031.02 चकृमा सत्यराधसे ॥
7.031.03 त्वं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो ।
7.031.03 त्वं हिरण्ययुर्वसो ॥
7.031.04 वयमिन्द्र त्वायवोऽभि प्र णोनुमो वृषन् ।
7.031.04 विद्धी त्वस्य नो वसो ॥
7.031.05 मा नो निदे च वक्तवेऽर्यो रन्धीरराव्णे ।
7.031.05 त्वे अपि क्रतुर्मम ॥
7.031.06 त्वं वर्मासि सप्रथः पुरोयोधश्च वृत्रहन् ।
7.031.06 त्वया प्रति ब्रुवे युजा ॥
7.031.07 महां उतासि यस्य तेऽनु स्वधावरी सहः ।
7.031.07 मम्नाते इन्द्र रोदसी ॥
7.031.08 तं त्वा मरुत्वती परि भुवद्वाणी सयावरी ।
7.031.08 नक्षमाणा सह द्युभिः ॥
7.031.09 ऊर्ध्वासस्त्वान्विन्दवो भुवन्दस्ममुप द्यवि ।
7.031.09 सं ते नमन्त कृष्टयः ॥
7.031.10 प्र वो महे महिवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् ।
7.031.10 विशः पूर्वीः प्र चरा चर्षणिप्राः ॥
7.031.11 उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः ।
7.031.11 तस्य व्रतानि न मिनन्ति धीराः ॥
7.031.12 इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै ।
7.031.12 हर्यश्वाय बर्हया समापीन् ॥
7.032.01 मो षु त्वा वाघतश्चनारे अस्मन्नि रीरमन् ।
7.032.01 आरात्ताच्चित्सधमादं न आ गहीह वा सन्नुप श्रुधि ॥
7.032.02 इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते ।
7.032.02 इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः ॥
7.032.03 रायस्कामो वज्रहस्तं सुदक्षिणं पुत्रो न पितरं हुवे ॥
7.032.04 इम इन्द्राय सुन्विरे सोमासो दध्याशिरः ।
7.032.04 तां आ मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ ॥
7.032.05 श्रवच्छ्रुत्कर्ण ईयते वसूनां नू चिन्नो मर्धिषद्गिरः ।
7.032.05 सद्यश्चिद्यः सहस्राणि शता ददन्नकिर्दित्सन्तमा मिनत् ॥
7.032.06 स वीरो अप्रतिष्कुत इन्द्रेण शूशुवे नृभिः ।
7.032.06 यस्ते गभीरा सवनानि वृत्रहन्सुनोत्या च धावति ॥
7.032.07 भवा वरूथं मघवन्मघोनां यत्समजासि शर्धतः ।
7.032.07 वि त्वाहतस्य वेदनं भजेमह्या दूणाशो भरा गयम् ॥
7.032.08 सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे ।
7.032.08 पचता पक्तीरवसे कृणुध्वमित्पृणन्नित्पृणते मयः ॥
7.032.09 मा स्रेधत सोमिनो दक्षता महे कृणुध्वं राय आतुजे ।
7.032.09 तरणिरिज्जयति क्षेति पुष्यति न देवासः कवत्नवे ॥
7.032.10 नकिः सुदासो रथं पर्यास न रीरमत् ।
7.032.10 इन्द्रो यस्याविता यस्य मरुतो गमत्स गोमति व्रजे ॥
7.032.11 गमद्वाजं वाजयन्निन्द्र मर्त्यो यस्य त्वमविता भुवः ।
7.032.11 अस्माकं बोध्यविता रथानामस्माकं शूर नृणाम् ॥
7.032.12 उदिन्न्वस्य रिच्यतेऽंशो धनं न जिग्युषः ।
7.032.12 य इन्द्रो हरिवान्न दभन्ति तं रिपो दक्षं दधाति सोमिनि ॥
7.032.13 मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा ।
7.032.13 पूर्वीश्चन प्रसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवत् ॥
7.032.14 कस्तमिन्द्र त्वावसुमा मर्त्यो दधर्षति ।
7.032.14 श्रद्धा इत्ते मघवन्पार्ये दिवि वाजी वाजं सिषासति ॥
7.032.15 मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु ।
7.032.15 तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता ॥
7.032.16 तवेदिन्द्रावमं वसु त्वं पुष्यसि मध्यमम् ।
7.032.16 सत्रा विश्वस्य परमस्य राजसि नकिष्ट्वा गोषु वृण्वते ॥
7.032.17 त्वं विश्वस्य धनदा असि श्रुतो य ईं भवन्त्याजयः ।
7.032.17 तवायं विश्वः पुरुहूत पार्थिवोऽवस्युर्नाम भिक्षते ॥
7.032.18 यदिन्द्र यावतस्त्वमेतावदहमीशीय ।
7.032.18 स्तोतारमिद्दिधिषेय रदावसो न पापत्वाय रासीय ॥
7.032.19 शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे ।
7.032.19 नहि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता चन ॥
7.032.20 तरणिरित्सिषासति वाजं पुरन्ध्या युजा ।
7.032.20 आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्र्वम् ॥
7.032.21 न दुष्टुती मर्त्यो विन्दते वसु न स्रेधन्तं रयिर्नशत् ।
7.032.21 सुशक्तिरिन्मघवन्तुभ्यं मावते देष्णं यत्पार्ये दिवि ॥
7.032.22 अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः ।
7.032.22 ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥
7.032.23 न त्वावां अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।
7.032.23 अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥
7.032.24 अभी षतस्तदा भरेन्द्र ज्यायः कनीयसः ।
7.032.24 पुरूवसुर्हि मघवन्सनादसि भरेभरे च हव्यः ॥
7.032.25 परा णुदस्व मघवन्नमित्रान्सुवेदा नो वसू कृधि ।
7.032.25 अस्माकं बोध्यविता महाधने भवा वृधः सखीनाम् ॥
7.032.26 इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।
7.032.26 शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥
7.032.27 मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः ।
7.032.27 त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥
7.033.01 श्वित्यञ्चो मा दक्षिणतस्कपर्दा धियञ्जिन्वासो अभि हि प्रमन्दुः ।
7.033.01 उत्तिष्ठन्वोचे परि बर्हिषो नॄन्न मे दूरादवितवे वसिष्ठाः ॥
7.033.02 दूरादिन्द्रमनयन्ना सुतेन तिरो वैशन्तमति पान्तमुग्रम् ।
7.033.02 पाशद्युम्नस्य वायतस्य सोमात्सुतादिन्द्रोऽवृणीता वसिष्ठान् ॥
7.033.03 एवेन्नु कं सिन्धुमेभिस्ततारेवेन्नु कं भेदमेभिर्जघान ।
7.033.03 एवेन्नु कं दाशराज्ञे सुदासं प्रावदिन्द्रो ब्रह्मणा वो वसिष्ठाः ॥
7.033.04 जुष्टी नरो ब्रह्मणा वः पितॄणामक्षमव्ययं न किला रिषाथ ।
7.033.04 यच्छक्वरीषु बृहता रवेणेन्द्रे शुष्ममदधाता वसिष्ठाः ॥
7.033.05 उद्द्यामिवेत्तृष्णजो नाथितासोऽदीधयुर्दाशराज्ञे वृतासः ।
7.033.05 वसिष्ठस्य स्तुवत इन्द्रो अश्रोदुरुं तृत्सुभ्यो अकृणोदु लोकम् ॥
7.033.06 दण्डा इवेद्गोअजनास आसन्परिच्छिन्ना भरता अर्भकासः ।
7.033.06 अभवच्च पुरएता वसिष्ठ आदित्तृत्सूनां विशो अप्रथन्त ॥
7.033.07 त्रयः कृण्वन्ति भुवनेषु रेतस्तिस्रः प्रजा आर्या ज्योतिरग्राः ।
7.033.07 त्रयो घर्मास उषसं सचन्ते सर्वां इत्तां अनु विदुर्वसिष्ठाः ॥
7.033.08 सूर्यस्येव वक्षथो ज्योतिरेषां समुद्रस्येव महिमा गभीरः ।
7.033.08 वातस्येव प्रजवो नान्येन स्तोमो वसिष्ठा अन्वेतवे वः ॥
7.033.09 त इन्निण्यं हृदयस्य प्रकेतैः सहस्रवल्शमभि सं चरन्ति ।
7.033.09 यमेन ततं परिधिं वयन्तोऽप्सरस उप सेदुर्वसिष्ठाः ॥
7.033.10 विद्युतो ज्योतिः परि संजिहानं मित्रावरुणा यदपश्यतां त्वा ।
7.033.10 तत्ते जन्मोतैकं वसिष्ठागस्त्यो यत्त्वा विश आजभार ॥
7.033.11 उतासि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन्मनसोऽधि जातः ।
7.033.11 द्रप्सं स्कन्नं ब्रह्मणा दैव्येन विश्वे देवाः पुष्करे त्वाददन्त ॥
7.033.12 स प्रकेत उभयस्य प्रविद्वान्सहस्रदान उत वा सदानः ।
7.033.12 यमेन ततं परिधिं वयिष्यन्नप्सरसः परि जज्ञे वसिष्ठः ॥
7.033.13 सत्रे ह जाताविषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम् ।
7.033.13 ततो ह मान उदियाय मध्यात्ततो जातमृषिमाहुर्वसिष्ठम् ॥
7.033.14 उक्थभृतं सामभृतं बिभर्ति ग्रावाणं बिभ्रत्प्र वदात्यग्रे ।
7.033.14 उपैनमाध्वं सुमनस्यमाना आ वो गच्छाति प्रतृदो वसिष्ठः ॥
7.034.01 प्र शुक्रैतु देवी मनीषा अस्मत्सुतष्टो रथो न वाजी ॥
7.034.02 विदुः पृथिव्या दिवो जनित्रं शृण्वन्त्यापो अध क्षरन्तीः ॥
7.034.03 आपश्चिदस्मै पिन्वन्त पृथ्वीर्वृत्रेषु शूरा मंसन्त उग्राः ॥
7.034.04 आ धूर्ष्वस्मै दधाताश्वानिन्द्रो न वज्री हिरण्यबाहुः ॥
7.034.05 अभि प्र स्थाताहेव यज्ञं यातेव पत्मन्त्मना हिनोत ॥
7.034.06 त्मना समत्सु हिनोत यज्ञं दधात केतुं जनाय वीरम् ॥
7.034.07 उदस्य शुष्माद्भानुर्नार्त बिभर्ति भारं पृथिवी न भूम ॥
7.034.08 ह्वयामि देवां अयातुरग्ने साधन्नृतेन धियं दधामि ॥
7.034.09 अभि वो देवीं धियं दधिध्वं प्र वो देवत्रा वाचं कृणुध्वम् ॥
7.034.10 आ चष्ट आसां पाथो नदीनां वरुण उग्रः सहस्रचक्षाः ॥
7.034.11 राजा राष्ट्रानां पेशो नदीनामनुत्तमस्मै क्षत्रं विश्वायु ॥
7.034.12 अविष्टो अस्मान्विश्वासु विक्ष्वद्युं कृणोत शंसं निनित्सोः ॥
7.034.13 व्येतु दिद्युद्द्विषामशेवा युयोत विष्वग्रपस्तनूनाम् ॥
7.034.14 अवीन्नो अग्निर्हव्यान्नमोभिः प्रेष्ठो अस्मा अधायि स्तोमः ॥
7.034.15 सजूर्देवेभिरपां नपातं सखायं कृध्वं शिवो नो अस्तु ॥
7.034.16 अब्जामुक्थैरहिं गृणीषे बुध्ने नदीनां रजस्सु षीदन् ॥
7.034.17 मा नोऽहिर्बुध्न्यो रिषे धान्मा यज्ञो अस्य स्रिधदृतायोः ॥
7.034.18 उत न एषु नृषु श्रवो धुः प्र राये यन्तु शर्धन्तो अर्यः ॥
7.034.19 तपन्ति शत्रुं स्वर्ण भूमा महासेनासो अमेभिरेषाम् ॥
7.034.20 आ यन्नः पत्नीर्गमन्त्यच्छा त्वष्टा सुपाणिर्दधातु वीरान् ॥
7.034.21 प्रति न स्तोमं त्वष्टा जुषेत स्यादस्मे अरमतिर्वसूयुः ॥
7.034.22 ता नो रासन्रातिषाचो वसून्या रोदसी वरुणानी शृणोतु ।
7.034.22 वरूत्रीभिः सुशरणो नो अस्तु त्वष्टा सुदत्रो वि दधातु रायः ॥
7.034.23 तन्नो रायः पर्वतास्तन्न आपस्तद्रातिषाच ओषधीरुत द्यौः ।
7.034.23 वनस्पतिभिः पृथिवी सजोषा उभे रोदसी परि पासतो नः ॥
7.034.24 अनु तदुर्वी रोदसी जिहातामनु द्युक्षो वरुण इन्द्रसखा ।
7.034.24 अनु विश्वे मरुतो ये सहासो रायः स्याम धरुणं धियध्यै ॥
7.034.25 तन्न इन्द्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषन्त ।
7.034.25 शर्मन्स्याम मरुतामुपस्थे यूयं पात स्वस्तिभिः सदा नः ॥
7.035.01 शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या ।
7.035.01 शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥
7.035.02 शं नो भगः शमु नः शंसो अस्तु शं नः पुरन्धिः शमु सन्तु रायः ।
7.035.02 शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥
7.035.03 शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः ।
7.035.03 शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥
7.035.04 शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम् ।
7.035.04 शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥
7.035.05 शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु ।
7.035.05 शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः ॥
7.035.06 शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः ।
7.035.06 शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु ॥
7.035.07 शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु यज्ञाः ।
7.035.07 शं नः स्वरूणां मितयो भवन्तु शं नः प्रस्वः शं वस्तु वेदिः ॥
7.035.08 शं नः सूर्य उरुचक्षा उदेतु शं नश्चतस्रः प्रदिशो भवन्तु ।
7.035.08 शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः ॥
7.035.09 शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः ।
7.035.09 शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शं वस्तु वायुः ॥
7.035.10 शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः ।
7.035.10 शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शम्भुः ॥
7.035.11 शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु ।
7.035.11 शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥
7.035.12 शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः ।
7.035.12 शं न ऋभवः सुकृतः सुहस्ताः शं नो भवन्तु पितरो हवेषु ॥
7.035.13 शं नो अज एकपाद्देवो अस्तु शं नोऽहिर्बुध्न्यः शं समुद्रः ।
7.035.13 शं नो अपां नपात्पेरुरस्तु शं नः पृश्निर्भवतु देवगोपा ॥
7.035.14 आदित्या रुद्रा वसवो जुषन्तेदं ब्रह्म क्रियमाणं नवीयः ।
7.035.14 शृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥
7.035.15 ये देवानां यज्ञिया यज्ञियानां मनोर्यजत्रा अमृता ऋतज्ञाः ।
7.035.15 ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥
7.036.01 प्र ब्रह्मैतु सदनादृतस्य वि रश्मिभिः ससृजे सूर्यो गाः ।
7.036.01 वि सानुना पृथिवी सस्र उर्वी पृथु प्रतीकमध्येधे अग्निः ॥
7.036.02 इमां वां मित्रावरुणा सुवृक्तिमिषं न कृण्वे असुरा नवीयः ।
7.036.02 इनो वामन्यः पदवीरदब्धो जनं च मित्रो यतति ब्रुवाणः ॥
7.036.03 आ वातस्य ध्रजतो रन्त इत्या अपीपयन्त धेनवो न सूदाः ।
7.036.03 महो दिवः सदने जायमानोऽचिक्रदद्वृषभः सस्मिन्नूधन् ॥
7.036.04 गिरा य एता युनजद्धरी त इन्द्र प्रिया सुरथा शूर धायू ।
7.036.04 प्र यो मन्युं रिरिक्षतो मिनात्या सुक्रतुमर्यमणं ववृत्याम् ॥
7.036.05 यजन्ते अस्य सख्यं वयश्च नमस्विनः स्व ऋतस्य धामन् ।
7.036.05 वि पृक्षो बाबधे नृभि स्तवान इदं नमो रुद्राय प्रेष्ठम् ॥
7.036.06 आ यत्साकं यशसो वावशानाः सरस्वती सप्तथी सिन्धुमाता ।
7.036.06 याः सुष्वयन्त सुदुघाः सुधारा अभि स्वेन पयसा पीप्यानाः ॥
7.036.07 उत त्ये नो मरुतो मन्दसाना धियं तोकं च वाजिनोऽवन्तु ।
7.036.07 मा नः परि ख्यदक्षरा चरन्त्यवीवृधन्युज्यं ते रयिं नः ॥
7.036.08 प्र वो महीमरमतिं कृणुध्वं प्र पूषणं विदथ्यं न वीरम् ।
7.036.08 भगं धियोऽवितारं नो अस्याः सातौ वाजं रातिषाचं पुरन्धिम् ॥
7.036.09 अच्छायं वो मरुतः श्लोक एत्वच्छा विष्णुं निषिक्तपामवोभिः ।
7.036.09 उत प्रजायै गृणते वयो धुर्यूयं पात स्वस्तिभिः सदा नः ॥
7.037.01 आ वो वाहिष्ठो वहतु स्तवध्यै रथो वाजा ऋभुक्षणो अमृक्तः ।
7.037.01 अभि त्रिपृष्ठैः सवनेषु सोमैर्मदे सुशिप्रा महभिः पृणध्वम् ॥
7.037.02 यूयं ह रत्नं मघवत्सु धत्थ स्वर्दृश ऋभुक्षणो अमृक्तम् ।
7.037.02 सं यज्ञेषु स्वधावन्तः पिबध्वं वि नो राधांसि मतिभिर्दयध्वम् ॥
7.037.03 उवोचिथ हि मघवन्देष्णं महो अर्भस्य वसुनो विभागे ।
7.037.03 उभा ते पूर्णा वसुना गभस्ती न सूनृता नि यमते वसव्या ॥
7.037.04 त्वमिन्द्र स्वयशा ऋभुक्षा वाजो न साधुरस्तमेष्यृक्वा ।
7.037.04 वयं नु ते दाश्वांसः स्याम ब्रह्म कृण्वन्तो हरिवो वसिष्ठाः ॥
7.037.05 सनितासि प्रवतो दाशुषे चिद्याभिर्विवेषो हर्यश्व धीभिः ।
7.037.05 ववन्मा नु ते युज्याभिरूती कदा न इन्द्र राय आ दशस्येः ॥
7.037.06 वासयसीव वेधसस्त्वं नः कदा न इन्द्र वचसो बुबोधः ।
7.037.06 अस्तं तात्या धिया रयिं सुवीरं पृक्षो नो अर्वा न्युहीत वाजी ॥
7.037.07 अभि यं देवी निरृतिश्चिदीशे नक्षन्त इन्द्रं शरदः सुपृक्षः ।
7.037.07 उप त्रिबन्धुर्जरदष्टिमेत्यस्ववेशं यं कृणवन्त मर्ताः ॥
7.037.08 आ नो राधांसि सवित स्तवध्या आ रायो यन्तु पर्वतस्य रातौ ।
7.037.08 सदा नो दिव्यः पायुः सिषक्तु यूयं पात स्वस्तिभिः सदा नः ॥
7.038.01 उदु ष्य देवः सविता ययाम हिरण्ययीममतिं यामशिश्रेत् ।
7.038.01 नूनं भगो हव्यो मानुषेभिर्वि यो रत्ना पुरूवसुर्दधाति ॥
7.038.02 उदु तिष्ठ सवितः श्रुध्यस्य हिरण्यपाणे प्रभृतावृतस्य ।
7.038.02 व्युर्वीं पृथ्वीममतिं सृजान आ नृभ्यो मर्तभोजनं सुवानः ॥
7.038.03 अपि ष्टुतः सविता देवो अस्तु यमा चिद्विश्वे वसवो गृणन्ति ।
7.038.03 स न स्तोमान्नमस्यश्चनो धाद्विश्वेभिः पातु पायुभिर्नि सूरीन् ॥
7.038.04 अभि यं देव्यदितिर्गृणाति सवं देवस्य सवितुर्जुषाणा ।
7.038.04 अभि सम्राजो वरुणो गृणन्त्यभि मित्रासो अर्यमा सजोषाः ॥
7.038.05 अभि ये मिथो वनुषः सपन्ते रातिं दिवो रातिषाचः पृथिव्याः ।
7.038.05 अहिर्बुध्न्य उत नः शृणोतु वरूत्र्येकधेनुभिर्नि पातु ॥
7.038.06 अनु तन्नो जास्पतिर्मंसीष्ट रत्नं देवस्य सवितुरियानः ।
7.038.06 भगमुग्रोऽवसे जोहवीति भगमनुग्रो अध याति रत्नम् ॥
7.038.07 शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः ।
7.038.07 जम्भयन्तोऽहिं वृकं रक्षांसि सनेम्यस्मद्युयवन्नमीवाः ॥
7.038.08 वाजेवाजेऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः ।
7.038.08 अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः ॥
7.039.01 ऊर्ध्वो अग्निः सुमतिं वस्वो अश्रेत्प्रतीची जूर्णिर्देवतातिमेति ।
7.039.01 भेजाते अद्री रथ्येव पन्थामृतं होता न इषितो यजाति ॥
7.039.02 प्र वावृजे सुप्रया बर्हिरेषामा विश्पतीव बीरिट इयाते ।
7.039.02 विशामक्तोरुषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान् ॥
7.039.03 ज्मया अत्र वसवो रन्त देवा उरावन्तरिक्षे मर्जयन्त शुभ्राः ।
7.039.03 अर्वाक्पथ उरुज्रयः कृणुध्वं श्रोता दूतस्य जग्मुषो नो अस्य ॥
7.039.04 ते हि यज्ञेषु यज्ञियास ऊमाः सधस्थं विश्वे अभि सन्ति देवाः ।
7.039.04 तां अध्वर उशतो यक्ष्यग्ने श्रुष्टी भगं नासत्या पुरन्धिम् ॥
7.039.05 आग्ने गिरो दिव आ पृथिव्या मित्रं वह वरुणमिन्द्रमग्निम् ।
7.039.05 आर्यमणमदितिं विष्णुमेषां सरस्वती मरुतो मादयन्ताम् ॥
7.039.06 ररे हव्यं मतिभिर्यज्ञियानां नक्षत्कामं मर्त्यानामसिन्वन् ।
7.039.06 धाता रयिमविदस्यं सदासां सक्षीमहि युज्येभिर्नु देवैः ॥
7.039.07 नू रोदसी अभिष्टुते वसिष्ठैरृतावानो वरुणो मित्रो अग्निः ।
7.039.07 यच्छन्तु चन्द्रा उपमं नो अर्कं यूयं पात स्वस्तिभिः सदा नः ॥
7.040.01 ओ श्रुष्टिर्विदथ्या समेतु प्रति स्तोमं दधीमहि तुराणाम् ।
7.040.01 यदद्य देवः सविता सुवाति स्यामास्य रत्निनो विभागे ॥
7.040.02 मित्रस्तन्नो वरुणो रोदसी च द्युभक्तमिन्द्रो अर्यमा ददातु ।
7.040.02 दिदेष्टु देव्यदिती रेक्णो वायुश्च यन्नियुवैते भगश्च ॥
7.040.03 सेदुग्रो अस्तु मरुतः स शुष्मी यं मर्त्यं पृषदश्वा अवाथ ।
7.040.03 उतेमग्निः सरस्वती जुनन्ति न तस्य रायः पर्येतास्ति ॥
7.040.04 अयं हि नेता वरुण ऋतस्य मित्रो राजानो अर्यमापो धुः ।
7.040.04 सुहवा देव्यदितिरनर्वा ते नो अंहो अति पर्षन्नरिष्टान् ॥
7.040.05 अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।
7.040.05 विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत् ॥
7.040.06 मात्र पूषन्नाघृण इरस्यो वरूत्री यद्रातिषाचश्च रासन् ।
7.040.06 मयोभुवो नो अर्वन्तो नि पान्तु वृष्टिं परिज्मा वातो ददातु ॥
7.040.07 नू रोदसी अभिष्टुते वसिष्ठैरृतावानो वरुणो मित्रो अग्निः ।
7.040.07 यच्छन्तु चन्द्रा उपमं नो अर्कं यूयं पात स्वस्तिभिः सदा नः ॥
7.041.01 प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना ।
7.041.01 प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हुवेम ॥
7.041.02 प्रातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता ।
7.041.02 आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥
7.041.03 भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन्नः ।
7.041.03 भग प्र णो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम ॥
7.041.04 उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् ।
7.041.04 उतोदिता मघवन्सूर्यस्य वयं देवानां सुमतौ स्याम ॥
7.041.05 भग एव भगवां अस्तु देवास्तेन वयं भगवन्तः स्याम ।
7.041.05 तं त्वा भग सर्व इज्जोहवीति स नो भग पुरएता भवेह ॥
7.041.06 समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय ।
7.041.06 अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिन आ वहन्तु ॥
7.041.07 अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः ।
7.041.07 घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥
7.042.01 प्र ब्रह्माणो अङ्गिरसो नक्षन्त प्र क्रन्दनुर्नभन्यस्य वेतु ।
7.042.01 प्र धेनव उदप्रुतो नवन्त युज्यातामद्री अध्वरस्य पेशः ॥
7.042.02 सुगस्ते अग्ने सनवित्तो अध्वा युक्ष्वा सुते हरितो रोहितश्च ।
7.042.02 ये वा सद्मन्नरुषा वीरवाहो हुवे देवानां जनिमानि सत्तः ॥
7.042.03 समु वो यज्ञं महयन्नमोभिः प्र होता मन्द्रो रिरिच उपाके ।
7.042.03 यजस्व सु पुर्वणीक देवाना यज्ञियामरमतिं ववृत्याः ॥
7.042.04 यदा वीरस्य रेवतो दुरोणे स्योनशीरतिथिराचिकेतत् ।
7.042.04 सुप्रीतो अग्निः सुधितो दम आ स विशे दाति वार्यमियत्यै ॥
7.042.05 इमं नो अग्ने अध्वरं जुषस्व मरुत्स्विन्द्रे यशसं कृधी नः ।
7.042.05 आ नक्ता बर्हिः सदतामुषासोशन्ता मित्रावरुणा यजेह ॥
7.042.06 एवाग्निं सहस्यं वसिष्ठो रायस्कामो विश्वप्स्न्यस्य स्तौत् ।
7.042.06 इषं रयिं पप्रथद्वाजमस्मे यूयं पात स्वस्तिभिः सदा नः ॥
7.043.01 प्र वो यज्ञेषु देवयन्तो अर्चन्द्यावा नमोभिः पृथिवी इषध्यै ।
7.043.01 येषां ब्रह्माण्यसमानि विप्रा विष्वग्वियन्ति वनिनो न शाखाः ॥
7.043.02 प्र यज्ञ एतु हेत्वो न सप्तिरुद्यच्छध्वं समनसो घृताचीः ।
7.043.02 स्तृणीत बर्हिरध्वराय साधूर्ध्वा शोचींषि देवयून्यस्थुः ॥
7.043.03 आ पुत्रासो न मातरं विभृत्राः सानौ देवासो बर्हिषः सदन्तु ।
7.043.03 आ विश्वाची विदथ्यामनक्त्वग्ने मा नो देवताता मृधस्कः ॥
7.043.04 ते सीषपन्त जोषमा यजत्रा ऋतस्य धाराः सुदुघा दुहानाः ।
7.043.04 ज्येष्ठं वो अद्य मह आ वसूनामा गन्तन समनसो यति ष्ठ ॥
7.043.05 एवा नो अग्ने विक्ष्वा दशस्य त्वया वयं सहसावन्नास्क्राः ।
7.043.05 राया युजा सधमादो अरिष्टा यूयं पात स्वस्तिभिः सदा नः ॥
7.044.01 दधिक्रां वः प्रथममश्विनोषसमग्निं समिद्धं भगमूतये हुवे ।
7.044.01 इन्द्रं विष्णुं पूषणं ब्रह्मणस्पतिमादित्यान्द्यावापृथिवी अपः स्वः ॥
7.044.02 दधिक्रामु नमसा बोधयन्त उदीराणा यज्ञमुपप्रयन्तः ।
7.044.02 इळां देवीं बर्हिषि सादयन्तोऽश्विना विप्रा सुहवा हुवेम ॥
7.044.03 दधिक्रावाणं बुबुधानो अग्निमुप ब्रुव उषसं सूर्यं गाम् ।
7.044.03 ब्रध्नं मांश्चतोर्वरुणस्य बभ्रुं ते विश्वास्मद्दुरिता यावयन्तु ॥
7.044.04 दधिक्रावा प्रथमो वाज्यर्वाग्रे रथानां भवति प्रजानन् ।
7.044.04 संविदान उषसा सूर्येणादित्येभिर्वसुभिरङ्गिरोभिः ॥
7.044.05 आ नो दधिक्राः पथ्यामनक्त्वृतस्य पन्थामन्वेतवा उ ।
7.044.05 शृणोतु नो दैव्यं शर्धो अग्निः शृण्वन्तु विश्वे महिषा अमूराः ॥
7.045.01 आ देवो यातु सविता सुरत्नोऽन्तरिक्षप्रा वहमानो अश्वैः ।
7.045.01 हस्ते दधानो नर्या पुरूणि निवेशयञ्च प्रसुवञ्च भूम ॥
7.045.02 उदस्य बाहू शिथिरा बृहन्ता हिरण्यया दिवो अन्तां अनष्टाम् ।
7.045.02 नूनं सो अस्य महिमा पनिष्ट सूरश्चिदस्मा अनु दादपस्याम् ॥
7.045.03 स घा नो देवः सविता सहावा साविषद्वसुपतिर्वसूनि ।
7.045.03 विश्रयमाणो अमतिमुरूचीं मर्तभोजनमध रासते नः ॥
7.045.04 इमा गिरः सवितारं सुजिह्वं पूर्णगभस्तिमीळते सुपाणिम् ।
7.045.04 चित्रं वयो बृहदस्मे दधातु यूयं पात स्वस्तिभिः सदा नः ॥
7.046.01 इमा रुद्राय स्थिरधन्वने गिरः क्षिप्रेषवे देवाय स्वधाव्ने ।
7.046.01 अषाळ्हाय सहमानाय वेधसे तिग्मायुधाय भरता शृणोतु नः ॥
7.046.02 स हि क्षयेण क्षम्यस्य जन्मनः साम्राज्येन दिव्यस्य चेतति ।
7.046.02 अवन्नवन्तीरुप नो दुरश्चरानमीवो रुद्र जासु नो भव ॥
7.046.03 या ते दिद्युदवसृष्टा दिवस्परि क्ष्मया चरति परि सा वृणक्तु नः ।
7.046.03 सहस्रं ते स्वपिवात भेषजा मा नस्तोकेषु तनयेषु रीरिषः ॥
7.046.04 मा नो वधी रुद्र मा परा दा मा ते भूम प्रसितौ हीळितस्य ।
7.046.04 आ नो भज बर्हिषि जीवशंसे यूयं पात स्वस्तिभिः सदा नः ॥
7.047.01 आपो यं वः प्रथमं देवयन्त इन्द्रपानमूर्मिमकृण्वतेळः ।
7.047.01 तं वो वयं शुचिमरिप्रमद्य घृतप्रुषं मधुमन्तं वनेम ॥
7.047.02 तमूर्मिमापो मधुमत्तमं वोऽपां नपादवत्वाशुहेमा ।
7.047.02 यस्मिन्निन्द्रो वसुभिर्मादयाते तमश्याम देवयन्तो वो अद्य ॥
7.047.03 शतपवित्राः स्वधया मदन्तीर्देवीर्देवानामपि यन्ति पाथः ।
7.047.03 ता इन्द्रस्य न मिनन्ति व्रतानि सिन्धुभ्यो हव्यं घृतवज्जुहोत ॥
7.047.04 याः सूर्यो रश्मिभिराततान याभ्य इन्द्रो अरदद्गातुमूर्मिम् ।
7.047.04 ते सिन्धवो वरिवो धातना नो यूयं पात स्वस्तिभिः सदा नः ॥
7.048.01 ऋभुक्षणो वाजा मादयध्वमस्मे नरो मघवानः सुतस्य ।
7.048.01 आ वोऽर्वाचः क्रतवो न यातां विभ्वो रथं नर्यं वर्तयन्तु ॥
7.048.02 ऋभुरृभुभिरभि वः स्याम विभ्वो विभुभिः शवसा शवांसि ।
7.048.02 वाजो अस्मां अवतु वाजसाताविन्द्रेण युजा तरुषेम वृत्रम् ॥
7.048.03 ते चिद्धि पूर्वीरभि सन्ति शासा विश्वां अर्य उपरताति वन्वन् ।
7.048.03 इन्द्रो विभ्वां ऋभुक्षा वाजो अर्यः शत्रोर्मिथत्या कृणवन्वि नृम्णम् ॥
7.048.04 नू देवासो वरिवः कर्तना नो भूत नो विश्वेऽवसे सजोषाः ।
7.048.04 समस्मे इषं वसवो ददीरन्यूयं पात स्वस्तिभिः सदा नः ॥
7.049.01 समुद्रज्येष्ठाः सलिलस्य मध्यात्पुनाना यन्त्यनिविशमानाः ।
7.049.01 इन्द्रो या वज्री वृषभो रराद ता आपो देवीरिह मामवन्तु ॥
7.049.02 या आपो दिव्या उत वा स्रवन्ति खनित्रिमा उत वा याः स्वयञ्जाः ।
7.049.02 समुद्रार्था याः शुचयः पावकास्ता आपो देवीरिह मामवन्तु ॥
7.049.03 यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम् ।
7.049.03 मधुश्चुतः शुचयो याः पावकास्ता आपो देवीरिह मामवन्तु ॥
7.049.04 यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति ।
7.049.04 वैश्वानरो यास्वग्निः प्रविष्टस्ता आपो देवीरिह मामवन्तु ॥
7.050.01 आ मां मित्रावरुणेह रक्षतं कुलाययद्विश्वयन्मा न आ गन् ।
7.050.01 अजकावं दुर्दृशीकं तिरो दधे मा मां पद्येन रपसा विदत्त्सरुः ॥
7.050.02 यद्विजामन्परुषि वन्दनं भुवदष्ठीवन्तौ परि कुल्फौ च देहत् ।
7.050.02 अग्निष्टच्छोचन्नप बाधतामितो मा मां पद्येन रपसा विदत्त्सरुः ॥
7.050.03 यच्छल्मलौ भवति यन्नदीषु यदोषधीभ्यः परि जायते विषम् ।
7.050.03 विश्वे देवा निरितस्तत्सुवन्तु मा मां पद्येन रपसा विदत्त्सरुः ॥
7.050.04 याः प्रवतो निवत उद्वत उदन्वतीरनुदकाश्च याः ।
7.050.04 ता अस्मभ्यं पयसा पिन्वमानाः शिवा देवीरशिपदा भवन्तु सर्वा नद्यो अशिमिदा भवन्तु ॥
7.051.01 आदित्यानामवसा नूतनेन सक्षीमहि शर्मणा शन्तमेन ।
7.051.01 अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु श्रोषमाणाः ॥
7.051.02 आदित्यासो अदितिर्मादयन्तां मित्रो अर्यमा वरुणो रजिष्ठाः ।
7.051.02 अस्माकं सन्तु भुवनस्य गोपाः पिबन्तु सोममवसे नो अद्य ॥
7.051.03 आदित्या विश्वे मरुतश्च विश्वे देवाश्च विश्व ऋभवश्च विश्वे ।
7.051.03 इन्द्रो अग्निरश्विना तुष्टुवाना यूयं पात स्वस्तिभिः सदा नः ॥
7.052.01 आदित्यासो अदितयः स्याम पूर्देवत्रा वसवो मर्त्यत्रा ।
7.052.01 सनेम मित्रावरुणा सनन्तो भवेम द्यावापृथिवी भवन्तः ॥
7.052.02 मित्रस्तन्नो वरुणो मामहन्त शर्म तोकाय तनयाय गोपाः ।
7.052.02 मा वो भुजेमान्यजातमेनो मा तत्कर्म वसवो यच्चयध्वे ॥
7.052.03 तुरण्यवोऽङ्गिरसो नक्षन्त रत्नं देवस्य सवितुरियानाः ।
7.052.03 पिता च तन्नो महान्यजत्रो विश्वे देवाः समनसो जुषन्त ॥
7.053.01 प्र द्यावा यज्ञैः पृथिवी नमोभिः सबाध ईळे बृहती यजत्रे ।
7.053.01 ते चिद्धि पूर्वे कवयो गृणन्तः पुरो मही दधिरे देवपुत्रे ॥
7.053.02 प्र पूर्वजे पितरा नव्यसीभिर्गीर्भिः कृणुध्वं सदने ऋतस्य ।
7.053.02 आ नो द्यावापृथिवी दैव्येन जनेन यातं महि वां वरूथम् ॥
7.053.03 उतो हि वां रत्नधेयानि सन्ति पुरूणि द्यावापृथिवी सुदासे ।
7.053.03 अस्मे धत्तं यदसदस्कृधोयु यूयं पात स्वस्तिभिः सदा नः ॥
7.054.01 वास्तोष्पते प्रति जानीह्यस्मान्स्वावेशो अनमीवो भवा नः ।
7.054.01 यत्त्वेमहे प्रति तन्नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे ॥
7.054.02 वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो ।
7.054.02 अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति नो जुषस्व ॥
7.054.03 वास्तोष्पते शग्मया संसदा ते सक्षीमहि रण्वया गातुमत्या ।
7.054.03 पाहि क्षेम उत योगे वरं नो यूयं पात स्वस्तिभिः सदा नः ॥
7.055.01 अमीवहा वास्तोष्पते विश्वा रूपाण्याविशन् ।
7.055.01 सखा सुशेव एधि नः ॥
7.055.02 यदर्जुन सारमेय दतः पिशङ्ग यच्छसे ।
7.055.02 वीव भ्राजन्त ऋष्टय उप स्रक्वेषु बप्सतो नि षु स्वप ॥
7.055.03 स्तेनं राय सारमेय तस्करं वा पुनःसर ।
7.055.03 स्तोतॄनिन्द्रस्य रायसि किमस्मान्दुच्छुनायसे नि षु स्वप ॥
7.055.04 त्वं सूकरस्य दर्दृहि तव दर्दर्तु सूकरः ।
7.055.04 स्तोतॄनिन्द्रस्य रायसि किमस्मान्दुच्छुनायसे नि षु स्वप ॥
7.055.05 सस्तु माता सस्तु पिता सस्तु श्वा सस्तु विश्पतिः ।
7.055.05 ससन्तु सर्वे ज्ञातयः सस्त्वयमभितो जनः ॥
7.055.06 य आस्ते यश्च चरति यश्च पश्यति नो जनः ।
7.055.06 तेषां सं हन्मो अक्षाणि यथेदं हर्म्यं तथा ॥
7.055.07 सहस्रशृङ्गो वृषभो यः समुद्रादुदाचरत् ।
7.055.07 तेना सहस्येना वयं नि जनान्स्वापयामसि ॥
7.055.08 प्रोष्ठेशया वह्येशया नारीर्यास्तल्पशीवरीः ।
7.055.08 स्त्रियो याः पुण्यगन्धास्ताः सर्वाः स्वापयामसि ॥
7.056.01 क ईं व्यक्ता नरः सनीळा रुद्रस्य मर्या अध स्वश्वाः ॥
7.056.02 नकिर्ह्येषां जनूंषि वेद ते अङ्ग विद्रे मिथो जनित्रम् ॥
7.056.03 अभि स्वपूभिर्मिथो वपन्त वातस्वनसः श्येना अस्पृध्रन् ॥
7.056.04 एतानि धीरो निण्या चिकेत पृश्निर्यदूधो मही जभार ॥
7.056.05 सा विट्सुवीरा मरुद्भिरस्तु सनात्सहन्ती पुष्यन्ती नृम्णम् ॥
7.056.06 यामं येष्ठाः शुभा शोभिष्ठाः श्रिया सम्मिश्ला ओजोभिरुग्राः ॥
7.056.07 उग्रं व ओज स्थिरा शवांस्यधा मरुद्भिर्गणस्तुविष्मान् ॥
7.056.08 शुभ्रो वः शुष्मः क्रुध्मी मनांसि धुनिर्मुनिरिव शर्धस्य धृष्णोः ॥
7.056.09 सनेम्यस्मद्युयोत दिद्युं मा वो दुर्मतिरिह प्रणङ्नः ॥
7.056.10 प्रिया वो नाम हुवे तुराणामा यत्तृपन्मरुतो वावशानाः ॥
7.056.11 स्वायुधास इष्मिणः सुनिष्का उत स्वयं तन्वः शुम्भमानाः ॥
7.056.12 शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्यध्वरं शुचिभ्यः ।
7.056.12 ऋतेन सत्यमृतसाप आयञ्छुचिजन्मानः शुचयः पावकाः ॥
7.056.13 अंसेष्वा मरुतः खादयो वो वक्षस्सु रुक्मा उपशिश्रियाणाः ।
7.056.13 वि विद्युतो न वृष्टिभी रुचाना अनु स्वधामायुधैर्यच्छमानाः ॥
7.056.14 प्र बुध्न्या व ईरते महांसि प्र नामानि प्रयज्यवस्तिरध्वम् ।
7.056.14 सहस्रियं दम्यं भागमेतं गृहमेधीयं मरुतो जुषध्वम् ॥
7.056.15 यदि स्तुतस्य मरुतो अधीथेत्था विप्रस्य वाजिनो हवीमन् ।
7.056.15 मक्षू रायः सुवीर्यस्य दात नू चिद्यमन्य आदभदरावा ॥
7.056.16 अत्यासो न ये मरुतः स्वञ्चो यक्षदृशो न शुभयन्त मर्याः ।
7.056.16 ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न प्रक्रीळिनः पयोधाः ॥
7.056.17 दशस्यन्तो नो मरुतो मृळन्तु वरिवस्यन्तो रोदसी सुमेके ।
7.056.17 आरे गोहा नृहा वधो वो अस्तु सुम्नेभिरस्मे वसवो नमध्वम् ॥
7.056.18 आ वो होता जोहवीति सत्तः सत्राचीं रातिं मरुतो गृणानः ।
7.056.18 य ईवतो वृषणो अस्ति गोपाः सो अद्वयावी हवते व उक्थैः ॥
7.056.19 इमे तुरं मरुतो रामयन्तीमे सहः सहस आ नमन्ति ।
7.056.19 इमे शंसं वनुष्यतो नि पान्ति गुरु द्वेषो अररुषे दधन्ति ॥
7.056.20 इमे रध्रं चिन्मरुतो जुनन्ति भृमिं चिद्यथा वसवो जुषन्त ।
7.056.20 अप बाधध्वं वृषणस्तमांसि धत्त विश्वं तनयं तोकमस्मे ॥
7.056.21 मा वो दात्रान्मरुतो निरराम मा पश्चाद्दघ्म रथ्यो विभागे ।
7.056.21 आ न स्पार्हे भजतना वसव्ये यदीं सुजातं वृषणो वो अस्ति ॥
7.056.22 सं यद्धनन्त मन्युभिर्जनासः शूरा यह्वीष्वोषधीषु विक्षु ।
7.056.22 अध स्मा नो मरुतो रुद्रियासस्त्रातारो भूत पृतनास्वर्यः ॥
7.056.23 भूरि चक्र मरुतः पित्र्याण्युक्थानि या वः शस्यन्ते पुरा चित् ।
7.056.23 मरुद्भिरुग्रः पृतनासु साळ्हा मरुद्भिरित्सनिता वाजमर्वा ॥
7.056.24 अस्मे वीरो मरुतः शुष्म्यस्तु जनानां यो असुरो विधर्ता ।
7.056.24 अपो येन सुक्षितये तरेमाध स्वमोको अभि वः स्याम ॥
7.056.25 तन्न इन्द्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषन्त ।
7.056.25 शर्मन्स्याम मरुतामुपस्थे यूयं पात स्वस्तिभिः सदा नः ॥
7.057.01 मध्वो वो नाम मारुतं यजत्राः प्र यज्ञेषु शवसा मदन्ति ।
7.057.01 ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः ॥
7.057.02 निचेतारो हि मरुतो गृणन्तं प्रणेतारो यजमानस्य मन्म ।
7.057.02 अस्माकमद्य विदथेषु बर्हिरा वीतये सदत पिप्रियाणाः ॥
7.057.03 नैतावदन्ये मरुतो यथेमे भ्राजन्ते रुक्मैरायुधैस्तनूभिः ।
7.057.03 आ रोदसी विश्वपिशः पिशानाः समानमञ्ज्यञ्जते शुभे कम् ॥
7.057.04 ऋधक्सा वो मरुतो दिद्युदस्तु यद्व आगः पुरुषता कराम ।
7.057.04 मा वस्तस्यामपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश्चनिष्ठा ॥
7.057.05 कृते चिदत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः ।
7.057.05 प्र णोऽवत सुमतिभिर्यजत्राः प्र वाजेभिस्तिरत पुष्यसे नः ॥
7.057.06 उत स्तुतासो मरुतो व्यन्तु विश्वेभिर्नामभिर्नरो हवींषि ।
7.057.06 ददात नो अमृतस्य प्रजायै जिगृत रायः सूनृता मघानि ॥
7.057.07 आ स्तुतासो मरुतो विश्व ऊती अच्छा सूरीन्सर्वताता जिगात ।
7.057.07 ये नस्त्मना शतिनो वर्धयन्ति यूयं पात स्वस्तिभिः सदा नः ॥
7.058.01 प्र साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस्तुविष्मान् ।
7.058.01 उत क्षोदन्ति रोदसी महित्वा नक्षन्ते नाकं निरृतेरवंशात् ॥
7.058.02 जनूश्चिद्वो मरुतस्त्वेष्येण भीमासस्तुविमन्यवोऽयासः ।
7.058.02 प्र ये महोभिरोजसोत सन्ति विश्वो वो यामन्भयते स्वर्दृक् ॥
7.058.03 बृहद्वयो मघवद्भ्यो दधात जुजोषन्निन्मरुतः सुष्टुतिं नः ।
7.058.03 गतो नाध्वा वि तिराति जन्तुं प्र ण स्पार्हाभिरूतिभिस्तिरेत ॥
7.058.04 युष्मोतो विप्रो मरुतः शतस्वी युष्मोतो अर्वा सहुरिः सहस्री ।
7.058.04 युष्मोतः सम्राळ् उत हन्ति वृत्रं प्र तद्वो अस्तु धूतयो देष्णम् ॥
7.058.05 तां आ रुद्रस्य मीळ्हुषो विवासे कुविन्नंसन्ते मरुतः पुनर्नः ।
7.058.05 यत्सस्वर्ता जिहीळिरे यदाविरव तदेन ईमहे तुराणाम् ॥
7.058.06 प्र सा वाचि सुष्टुतिर्मघोनामिदं सूक्तं मरुतो जुषन्त ।
7.058.06 आराच्चिद्द्वेषो वृषणो युयोत यूयं पात स्वस्तिभिः सदा नः ॥
7.059.01 यं त्रायध्व इदमिदं देवासो यं च नयथ ।
7.059.01 तस्मा अग्ने वरुण मित्रार्यमन्मरुतः शर्म यच्छत ॥
7.059.02 युष्माकं देवा अवसाहनि प्रिय ईजानस्तरति द्विषः ।
7.059.02 प्र स क्षयं तिरते वि महीरिषो यो वो वराय दाशति ॥
7.059.03 नहि वश्चरमं चन वसिष्ठः परिमंसते ।
7.059.03 अस्माकमद्य मरुतः सुते सचा विश्वे पिबत कामिनः ॥
7.059.04 नहि व ऊतिः पृतनासु मर्धति यस्मा अराध्वं नरः ।
7.059.04 अभि व आवर्त्सुमतिर्नवीयसी तूयं यात पिपीषवः ॥
7.059.05 ओ षु घृष्विराधसो यातनान्धांसि पीतये ।
7.059.05 इमा वो हव्या मरुतो ररे हि कं मो ष्वन्यत्र गन्तन ॥
7.059.06 आ च नो बर्हिः सदताविता च न स्पार्हाणि दातवे वसु ।
7.059.06 अस्रेधन्तो मरुतः सोम्ये मधौ स्वाहेह मादयाध्वै ॥
7.059.07 सस्वश्चिद्धि तन्वः शुम्भमाना आ हंसासो नीलपृष्ठा अपप्तन् ।
7.059.07 विश्वं शर्धो अभितो मा नि षेद नरो न रण्वाः सवने मदन्तः ॥
7.059.08 यो नो मरुतो अभि दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति ।
7.059.08 द्रुहः पाशान्प्रति स मुचीष्ट तपिष्ठेन हन्मना हन्तना तम् ॥
7.059.09 सांतपना इदं हविर्मरुतस्तज्जुजुष्टन ।
7.059.09 युष्माकोती रिशादसः ॥
7.059.10 गृहमेधास आ गत मरुतो माप भूतन ।
7.059.10 युष्माकोती सुदानवः ॥
7.059.11 इहेह वः स्वतवसः कवयः सूर्यत्वचः ।
7.059.11 यज्ञं मरुत आ वृणे ॥
7.059.12 त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
7.059.12 उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥
7.060.01 यदद्य सूर्य ब्रवोऽनागा उद्यन्मित्राय वरुणाय सत्यम् ।
7.060.01 वयं देवत्रादिते स्याम तव प्रियासो अर्यमन्गृणन्तः ॥
7.060.02 एष स्य मित्रावरुणा नृचक्षा उभे उदेति सूर्यो अभि ज्मन् ।
7.060.02 विश्वस्य स्थातुर्जगतश्च गोपा ऋजु मर्तेषु वृजिना च पश्यन् ॥
7.060.03 अयुक्त सप्त हरितः सधस्थाद्या ईं वहन्ति सूर्यं घृताचीः ।
7.060.03 धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे ॥
7.060.04 उद्वां पृक्षासो मधुमन्तो अस्थुरा सूर्यो अरुहच्छुक्रमर्णः ।
7.060.04 यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणः सजोषाः ॥
7.060.05 इमे चेतारो अनृतस्य भूरेर्मित्रो अर्यमा वरुणो हि सन्ति ।
7.060.05 इम ऋतस्य वावृधुर्दुरोणे शग्मासः पुत्रा अदितेरदब्धाः ॥
7.060.06 इमे मित्रो वरुणो दूळभासोऽचेतसं चिच्चितयन्ति दक्षैः ।
7.060.06 अपि क्रतुं सुचेतसं वतन्तस्तिरश्चिदंहः सुपथा नयन्ति ॥
7.060.07 इमे दिवो अनिमिषा पृथिव्याश्चिकित्वांसो अचेतसं नयन्ति ।
7.060.07 प्रव्राजे चिन्नद्यो गाधमस्ति पारं नो अस्य विष्पितस्य पर्षन् ॥
7.060.08 यद्गोपावददितिः शर्म भद्रं मित्रो यच्छन्ति वरुणः सुदासे ।
7.060.08 तस्मिन्ना तोकं तनयं दधाना मा कर्म देवहेळनं तुरासः ॥
7.060.09 अव वेदिं होत्राभिर्यजेत रिपः काश्चिद्वरुणध्रुतः सः ।
7.060.09 परि द्वेषोभिरर्यमा वृणक्तूरुं सुदासे वृषणा उ लोकम् ॥
7.060.10 सस्वश्चिद्धि समृतिस्त्वेष्येषामपीच्येन सहसा सहन्ते ।
7.060.10 युष्मद्भिया वृषणो रेजमाना दक्षस्य चिन्महिना मृळता नः ॥
7.060.11 यो ब्रह्मणे सुमतिमायजाते वाजस्य सातौ परमस्य रायः ।
7.060.11 सीक्षन्त मन्युं मघवानो अर्य उरु क्षयाय चक्रिरे सुधातु ॥
7.060.12 इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि ।
7.060.12 विश्वानि दुर्गा पिपृतं तिरो नो यूयं पात स्वस्तिभिः सदा नः ॥
7.061.01 उद्वां चक्षुर्वरुण सुप्रतीकं देवयोरेति सूर्यस्ततन्वान् ।
7.061.01 अभि यो विश्वा भुवनानि चष्टे स मन्युं मर्त्येष्वा चिकेत ॥
7.061.02 प्र वां स मित्रावरुणावृतावा विप्रो मन्मानि दीर्घश्रुदियर्ति ।
7.061.02 यस्य ब्रह्माणि सुक्रतू अवाथ आ यत्क्रत्वा न शरदः पृणैथे ॥
7.061.03 प्रोरोर्मित्रावरुणा पृथिव्याः प्र दिव ऋष्वाद्बृहतः सुदानू ।
7.061.03 स्पशो दधाथे ओषधीषु विक्ष्वृधग्यतो अनिमिषं रक्षमाणा ॥
7.061.04 शंसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे महित्वा ।
7.061.04 अयन्मासा अयज्वनामवीराः प्र यज्ञमन्मा वृजनं तिराते ॥
7.061.05 अमूरा विश्वा वृषणाविमा वां न यासु चित्रं ददृशे न यक्षम् ।
7.061.05 द्रुहः सचन्ते अनृता जनानां न वां निण्यान्यचिते अभूवन् ॥
7.061.06 समु वां यज्ञं महयं नमोभिर्हुवे वां मित्रावरुणा सबाधः ।
7.061.06 प्र वां मन्मान्यृचसे नवानि कृतानि ब्रह्म जुजुषन्निमानि ॥
7.061.07 इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि ।
7.061.07 विश्वानि दुर्गा पिपृतं तिरो नो यूयं पात स्वस्तिभिः सदा नः ॥
7.062.01 उत्सूर्यो बृहदर्चींष्यश्रेत्पुरु विश्वा जनिम मानुषाणाम् ।
7.062.01 समो दिवा ददृशे रोचमानः क्रत्वा कृतः सुकृतः कर्तृभिर्भूत् ॥
7.062.02 स सूर्य प्रति पुरो न उद्गा एभि स्तोमेभिरेतशेभिरेवैः ।
7.062.02 प्र नो मित्राय वरुणाय वोचोऽनागसो अर्यम्णे अग्नये च ॥
7.062.03 वि नः सहस्रं शुरुधो रदन्त्वृतावानो वरुणो मित्रो अग्निः ।
7.062.03 यच्छन्तु चन्द्रा उपमं नो अर्कमा नः कामं पूपुरन्तु स्तवानाः ॥
7.062.04 द्यावाभूमी अदिते त्रासीथां नो ये वां जज्ञुः सुजनिमान ऋष्वे ।
7.062.04 मा हेळे भूम वरुणस्य वायोर्मा मित्रस्य प्रियतमस्य नृणाम् ॥
7.062.05 प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिमुक्षतं घृतेन ।
7.062.05 आ नो जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा ॥
7.062.06 नू मित्रो वरुणो अर्यमा नस्त्मने तोकाय वरिवो दधन्तु ।
7.062.06 सुगा नो विश्वा सुपथानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥
7.063.01 उद्वेति सुभगो विश्वचक्षाः साधारणः सूर्यो मानुषाणाम् ।
7.063.01 चक्षुर्मित्रस्य वरुणस्य देवश्चर्मेव यः समविव्यक्तमांसि ॥
7.063.02 उद्वेति प्रसवीता जनानां महान्केतुरर्णवः सूर्यस्य ।
7.063.02 समानं चक्रं पर्याविवृत्सन्यदेतशो वहति धूर्षु युक्तः ॥
7.063.03 विभ्राजमान उषसामुपस्थाद्रेभैरुदेत्यनुमद्यमानः ।
7.063.03 एष मे देवः सविता चच्छन्द यः समानं न प्रमिनाति धाम ॥
7.063.04 दिवो रुक्म उरुचक्षा उदेति दूरेअर्थस्तरणिर्भ्राजमानः ।
7.063.04 नूनं जनाः सूर्येण प्रसूता अयन्नर्थानि कृणवन्नपांसि ॥
7.063.05 यत्रा चक्रुरमृता गातुमस्मै श्येनो न दीयन्नन्वेति पाथः ।
7.063.05 प्रति वां सूर उदिते विधेम नमोभिर्मित्रावरुणोत हव्यैः ॥
7.063.06 नू मित्रो वरुणो अर्यमा नस्त्मने तोकाय वरिवो दधन्तु ।
7.063.06 सुगा नो विश्वा सुपथानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥
7.064.01 दिवि क्षयन्ता रजसः पृथिव्यां प्र वां घृतस्य निर्णिजो ददीरन् ।
7.064.01 हव्यं नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो जुषन्त ॥
7.064.02 आ राजाना मह ऋतस्य गोपा सिन्धुपती क्षत्रिया यातमर्वाक् ।
7.064.02 इळां नो मित्रावरुणोत वृष्टिमव दिव इन्वतं जीरदानू ॥
7.064.03 मित्रस्तन्नो वरुणो देवो अर्यः प्र साधिष्ठेभिः पथिभिर्नयन्तु ।
7.064.03 ब्रवद्यथा न आदरिः सुदास इषा मदेम सह देवगोपाः ॥
7.064.04 यो वां गर्तं मनसा तक्षदेतमूर्ध्वां धीतिं कृणवद्धारयच्च ।
7.064.04 उक्षेथां मित्रावरुणा घृतेन ता राजाना सुक्षितीस्तर्पयेथाम् ॥
7.064.05 एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवेऽयामि ।
7.064.05 अविष्टं धियो जिगृतं पुरन्धीर्यूयं पात स्वस्तिभिः सदा नः ॥
7.065.01 प्रति वां सूर उदिते सूक्तैर्मित्रं हुवे वरुणं पूतदक्षम् ।
7.065.01 ययोरसुर्यमक्षितं ज्येष्ठं विश्वस्य यामन्नाचिता जिगत्नु ॥
7.065.02 ता हि देवानामसुरा तावर्या ता नः क्षितीः करतमूर्जयन्तीः ।
7.065.02 अश्याम मित्रावरुणा वयं वां द्यावा च यत्र पीपयन्नहा च ॥
7.065.03 ता भूरिपाशावनृतस्य सेतू दुरत्येतू रिपवे मर्त्याय ।
7.065.03 ऋतस्य मित्रावरुणा पथा वामपो न नावा दुरिता तरेम ॥
7.065.04 आ नो मित्रावरुणा हव्यजुष्टिं घृतैर्गव्यूतिमुक्षतमिळाभिः ।
7.065.04 प्रति वामत्र वरमा जनाय पृणीतमुद्नो दिव्यस्य चारोः ॥
7.065.05 एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवेऽयामि ।
7.065.05 अविष्टं धियो जिगृतं पुरन्धीर्यूयं पात स्वस्तिभिः सदा नः ॥
7.066.01 प्र मित्रयोर्वरुणयो स्तोमो न एतु शूष्यः ।
7.066.01 नमस्वान्तुविजातयोः ॥
7.066.02 या धारयन्त देवाः सुदक्षा दक्षपितरा ।
7.066.02 असुर्याय प्रमहसा ॥
7.066.03 ता न स्तिपा तनूपा वरुण जरितॄणाम् ।
7.066.03 मित्र साधयतं धियः ॥
7.066.04 यदद्य सूर उदितेऽनागा मित्रो अर्यमा ।
7.066.04 सुवाति सविता भगः ॥
7.066.05 सुप्रावीरस्तु स क्षयः प्र नु यामन्सुदानवः ।
7.066.05 ये नो अंहोऽतिपिप्रति ॥
7.066.06 उत स्वराजो अदितिरदब्धस्य व्रतस्य ये ।
7.066.06 महो राजान ईशते ॥
7.066.07 प्रति वां सूर उदिते मित्रं गृणीषे वरुणम् ।
7.066.07 अर्यमणं रिशादसम् ॥
7.066.08 राया हिरण्यया मतिरियमवृकाय शवसे ।
7.066.08 इयं विप्रा मेधसातये ॥
7.066.09 ते स्याम देव वरुण ते मित्र सूरिभिः सह ।
7.066.09 इषं स्वश्च धीमहि ॥
7.066.10 बहवः सूरचक्षसोऽग्निजिह्वा ऋतावृधः ।
7.066.10 त्रीणि ये येमुर्विदथानि धीतिभिर्विश्वानि परिभूतिभिः ॥
7.066.11 वि ये दधुः शरदं मासमादहर्यज्ञमक्तुं चादृचम् ।
7.066.11 अनाप्यं वरुणो मित्रो अर्यमा क्षत्रं राजान आशत ॥
7.066.12 तद्वो अद्य मनामहे सूक्तैः सूर उदिते ।
7.066.12 यदोहते वरुणो मित्रो अर्यमा यूयमृतस्य रथ्यः ॥
7.066.13 ऋतावान ऋतजाता ऋतावृधो घोरासो अनृतद्विषः ।
7.066.13 तेषां वः सुम्ने सुच्छर्दिष्टमे नरः स्याम ये च सूरयः ॥
7.066.14 उदु त्यद्दर्शतं वपुर्दिव एति प्रतिह्वरे ।
7.066.14 यदीमाशुर्वहति देव एतशो विश्वस्मै चक्षसे अरम् ॥
7.066.15 शीर्ष्णःशीर्ष्णो जगतस्तस्थुषस्पतिं समया विश्वमा रजः ।
7.066.15 सप्त स्वसारः सुविताय सूर्यं वहन्ति हरितो रथे ॥
7.066.16 तच्चक्षुर्देवहितं शुक्रमुच्चरत् ।
7.066.16 पश्येम शरदः शतं जीवेम शरदः शतम् ॥
7.066.17 काव्येभिरदाभ्या यातं वरुण द्युमत् ।
7.066.17 मित्रश्च सोमपीतये ॥
7.066.18 दिवो धामभिर्वरुण मित्रश्चा यातमद्रुहा ।
7.066.18 पिबतं सोममातुजी ॥
7.066.19 आ यातं मित्रावरुणा जुषाणावाहुतिं नरा ।
7.066.19 पातं सोममृतावृधा ॥
7.067.01 प्रति वां रथं नृपती जरध्यै हविष्मता मनसा यज्ञियेन ।
7.067.01 यो वां दूतो न धिष्ण्यावजीगरच्छा सूनुर्न पितरा विवक्मि ॥
7.067.02 अशोच्यग्निः समिधानो अस्मे उपो अदृश्रन्तमसश्चिदन्ताः ।
7.067.02 अचेति केतुरुषसः पुरस्ताच्छ्रिये दिवो दुहितुर्जायमानः ॥
7.067.03 अभि वां नूनमश्विना सुहोता स्तोमैः सिषक्ति नासत्या विवक्वान् ।
7.067.03 पूर्वीभिर्यातं पथ्याभिरर्वाक्स्वर्विदा वसुमता रथेन ॥
7.067.04 अवोर्वां नूनमश्विना युवाकुर्हुवे यद्वां सुते माध्वी वसूयुः ।
7.067.04 आ वां वहन्तु स्थविरासो अश्वाः पिबाथो अस्मे सुषुता मधूनि ॥
7.067.05 प्राचीमु देवाश्विना धियं मेऽमृध्रां सातये कृतं वसूयुम् ।
7.067.05 विश्वा अविष्टं वाज आ पुरन्धीस्ता नः शक्तं शचीपती शचीभिः ॥
7.067.06 अविष्टं धीष्वश्विना न आसु प्रजावद्रेतो अह्रयं नो अस्तु ।
7.067.06 आ वां तोके तनये तूतुजानाः सुरत्नासो देववीतिं गमेम ॥
7.067.07 एष स्य वां पूर्वगत्वेव सख्ये निधिर्हितो माध्वी रातो अस्मे ।
7.067.07 अहेळता मनसा यातमर्वागश्नन्ता हव्यं मानुषीषु विक्षु ॥
7.067.08 एकस्मिन्योगे भुरणा समाने परि वां सप्त स्रवतो रथो गात् ।
7.067.08 न वायन्ति सुभ्वो देवयुक्ता ये वां धूर्षु तरणयो वहन्ति ॥
7.067.09 असश्चता मघवद्भ्यो हि भूतं ये राया मघदेयं जुनन्ति ।
7.067.09 प्र ये बन्धुं सूनृताभिस्तिरन्ते गव्या पृञ्चन्तो अश्व्या मघानि ॥
7.067.10 नू मे हवमा शृणुतं युवाना यासिष्टं वर्तिरश्विनाविरावत् ।
7.067.10 धत्तं रत्नानि जरतं च सूरीन्यूयं पात स्वस्तिभिः सदा नः ॥
7.068.01 आ शुभ्रा यातमश्विना स्वश्वा गिरो दस्रा जुजुषाणा युवाकोः ।
7.068.01 हव्यानि च प्रतिभृता वीतं नः ॥
7.068.02 प्र वामन्धांसि मद्यान्यस्थुररं गन्तं हविषो वीतये मे ।
7.068.02 तिरो अर्यो हवनानि श्रुतं नः ॥
7.068.03 प्र वां रथो मनोजवा इयर्ति तिरो रजांस्यश्विना शतोतिः ।
7.068.03 अस्मभ्यं सूर्यावसू इयानः ॥
7.068.04 अयं ह यद्वां देवया उ अद्रिरूर्ध्वो विवक्ति सोमसुद्युवभ्याम् ।
7.068.04 आ वल्गू विप्रो ववृतीत हव्यैः ॥
7.068.05 चित्रं ह यद्वां भोजनं न्वस्ति न्यत्रये महिष्वन्तं युयोतम् ।
7.068.05 यो वामोमानं दधते प्रियः सन् ॥
7.068.06 उत त्यद्वां जुरते अश्विना भूच्च्यवानाय प्रतीत्यं हविर्दे ।
7.068.06 अधि यद्वर्प इतऊति धत्थः ॥
7.068.07 उत त्यं भुज्युमश्विना सखायो मध्ये जहुर्दुरेवासः समुद्रे ।
7.068.07 निरीं पर्षदरावा यो युवाकुः ॥
7.068.08 वृकाय चिज्जसमानाय शक्तमुत श्रुतं शयवे हूयमाना ।
7.068.08 यावघ्न्यामपिन्वतमपो न स्तर्यं चिच्छक्त्यश्विना शचीभिः ॥
7.068.09 एष स्य कारुर्जरते सूक्तैरग्रे बुधान उषसां सुमन्मा ।
7.068.09 इषा तं वर्धदघ्न्या पयोभिर्यूयं पात स्वस्तिभिः सदा नः ॥
7.069.01 आ वां रथो रोदसी बद्बधानो हिरण्ययो वृषभिर्यात्वश्वैः ।
7.069.01 घृतवर्तनिः पविभी रुचान इषां वोळ्हा नृपतिर्वाजिनीवान् ॥
7.069.02 स पप्रथानो अभि पञ्च भूमा त्रिवन्धुरो मनसा यातु युक्तः ।
7.069.02 विशो येन गच्छथो देवयन्तीः कुत्रा चिद्याममश्विना दधाना ॥
7.069.03 स्वश्वा यशसा यातमर्वाग्दस्रा निधिं मधुमन्तं पिबाथः ।
7.069.03 वि वां रथो वध्वा यादमानोऽन्तान्दिवो बाधते वर्तनिभ्याम् ॥
7.069.04 युवोः श्रियं परि योषावृणीत सूरो दुहिता परितक्म्यायाम् ।
7.069.04 यद्देवयन्तमवथः शचीभिः परि घ्रंसमोमना वां वयो गात् ॥
7.069.05 यो ह स्य वां रथिरा वस्त उस्रा रथो युजानः परियाति वर्तिः ।
7.069.05 तेन नः शं योरुषसो व्युष्टौ न्यश्विना वहतं यज्ञे अस्मिन् ॥
7.069.06 नरा गौरेव विद्युतं तृषाणास्माकमद्य सवनोप यातम् ।
7.069.06 पुरुत्रा हि वां मतिभिर्हवन्ते मा वामन्ये नि यमन्देवयन्तः ॥
7.069.07 युवं भुज्युमवविद्धं समुद्र उदूहथुरर्णसो अस्रिधानैः ।
7.069.07 पतत्रिभिरश्रमैरव्यथिभिर्दंसनाभिरश्विना पारयन्ता ॥
7.069.08 नू मे हवमा शृणुतं युवाना यासिष्टं वर्तिरश्विनाविरावत् ।
7.069.08 धत्तं रत्नानि जरतं च सूरीन्यूयं पात स्वस्तिभिः सदा नः ॥
7.070.01 आ विश्ववाराश्विना गतं नः प्र तत्स्थानमवाचि वां पृथिव्याम् ।
7.070.01 अश्वो न वाजी शुनपृष्ठो अस्थादा यत्सेदथुर्ध्रुवसे न योनिम् ॥
7.070.02 सिषक्ति सा वां सुमतिश्चनिष्ठातापि घर्मो मनुषो दुरोणे ।
7.070.02 यो वां समुद्रान्सरितः पिपर्त्येतग्वा चिन्न सुयुजा युजानः ॥
7.070.03 यानि स्थानान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु ।
7.070.03 नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषे वहन्ता ॥
7.070.04 चनिष्टं देवा ओषधीष्वप्सु यद्योग्या अश्नवैथे ऋषीणाम् ।
7.070.04 पुरूणि रत्ना दधतौ न्यस्मे अनु पूर्वाणि चख्यथुर्युगानि ॥
7.070.05 शुश्रुवांसा चिदश्विना पुरूण्यभि ब्रह्माणि चक्षाथे ऋषीणाम् ।
7.070.05 प्रति प्र यातं वरमा जनायास्मे वामस्तु सुमतिश्चनिष्ठा ॥
7.070.06 यो वां यज्ञो नासत्या हविष्मान्कृतब्रह्मा समर्यो भवाति ।
7.070.06 उप प्र यातं वरमा वसिष्ठमिमा ब्रह्माण्यृच्यन्ते युवभ्याम् ॥
7.070.07 इयं मनीषा इयमश्विना गीरिमां सुवृक्तिं वृषणा जुषेथाम् ।
7.070.07 इमा ब्रह्माणि युवयून्यग्मन्यूयं पात स्वस्तिभिः सदा नः ॥
7.071.01 अप स्वसुरुषसो नग्जिहीते रिणक्ति कृष्णीररुषाय पन्थाम् ।
7.071.01 अश्वामघा गोमघा वां हुवेम दिवा नक्तं शरुमस्मद्युयोतम् ॥
7.071.02 उपायातं दाशुषे मर्त्याय रथेन वाममश्विना वहन्ता ।
7.071.02 युयुतमस्मदनिराममीवां दिवा नक्तं माध्वी त्रासीथां नः ॥
7.071.03 आ वां रथमवमस्यां व्युष्टौ सुम्नायवो वृषणो वर्तयन्तु ।
7.071.03 स्यूमगभस्तिमृतयुग्भिरश्वैराश्विना वसुमन्तं वहेथाम् ॥
7.071.04 यो वां रथो नृपती अस्ति वोळ्हा त्रिवन्धुरो वसुमां उस्रयामा ।
7.071.04 आ न एना नासत्योप यातमभि यद्वां विश्वप्स्न्यो जिगाति ॥
7.071.05 युवं च्यवानं जरसोऽमुमुक्तं नि पेदव ऊहथुराशुमश्वम् ।
7.071.05 निरंहसस्तमस स्पर्तमत्रिं नि जाहुषं शिथिरे धातमन्तः ॥
7.071.06 इयं मनीषा इयमश्विना गीरिमां सुवृक्तिं वृषणा जुषेथाम् ।
7.071.06 इमा ब्रह्माणि युवयून्यग्मन्यूयं पात स्वस्तिभिः सदा नः ॥
7.072.01 आ गोमता नासत्या रथेनाश्वावता पुरुश्चन्द्रेण यातम् ।
7.072.01 अभि वां विश्वा नियुतः सचन्ते स्पार्हया श्रिया तन्वा शुभाना ॥
7.072.02 आ नो देवेभिरुप यातमर्वाक्सजोषसा नासत्या रथेन ।
7.072.02 युवोर्हि नः सख्या पित्र्याणि समानो बन्धुरुत तस्य वित्तम् ॥
7.072.03 उदु स्तोमासो अश्विनोरबुध्रञ्जामि ब्रह्माण्युषसश्च देवीः ।
7.072.03 आविवासन्रोदसी धिष्ण्येमे अच्छा विप्रो नासत्या विवक्ति ॥
7.072.04 वि चेदुच्छन्त्यश्विना उषासः प्र वां ब्रह्माणि कारवो भरन्ते ।
7.072.04 ऊर्ध्वं भानुं सविता देवो अश्रेद्बृहदग्नयः समिधा जरन्ते ॥
7.072.05 आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् ।
7.072.05 आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा नः ॥
7.073.01 अतारिष्म तमसस्पारमस्य प्रति स्तोमं देवयन्तो दधानाः ।
7.073.01 पुरुदंसा पुरुतमा पुराजामर्त्या हवते अश्विना गीः ॥
7.073.02 न्यु प्रियो मनुषः सादि होता नासत्या यो यजते वन्दते च ।
7.073.02 अश्नीतं मध्वो अश्विना उपाक आ वां वोचे विदथेषु प्रयस्वान् ॥
7.073.03 अहेम यज्ञं पथामुराणा इमां सुवृक्तिं वृषणा जुषेथाम् ।
7.073.03 श्रुष्टीवेव प्रेषितो वामबोधि प्रति स्तोमैर्जरमाणो वसिष्ठः ॥
7.073.04 उप त्या वह्नी गमतो विशं नो रक्षोहणा सम्भृता वीळुपाणी ।
7.073.04 समन्धांस्यग्मत मत्सराणि मा नो मर्धिष्टमा गतं शिवेन ॥
7.073.05 आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् ।
7.073.05 आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा नः ॥
7.074.01 इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना ।
7.074.01 अयं वामह्वेऽवसे शचीवसू विशंविशं हि गच्छथः ॥
7.074.02 युवं चित्रं ददथुर्भोजनं नरा चोदेथां सूनृतावते ।
7.074.02 अर्वाग्रथं समनसा नि यच्छतं पिबतं सोम्यं मधु ॥
7.074.03 आ यातमुप भूषतं मध्वः पिबतमश्विना ।
7.074.03 दुग्धं पयो वृषणा जेन्यावसू मा नो मर्धिष्टमा गतम् ॥
7.074.04 अश्वासो ये वामुप दाशुषो गृहं युवां दीयन्ति बिभ्रतः ।
7.074.04 मक्षूयुभिर्नरा हयेभिरश्विना देवा यातमस्मयू ॥
7.074.05 अधा ह यन्तो अश्विना पृक्षः सचन्त सूरयः ।
7.074.05 ता यंसतो मघवद्भ्यो ध्रुवं यशश्छर्दिरस्मभ्यं नासत्या ॥
7.074.06 प्र ये ययुरवृकासो रथा इव नृपातारो जनानाम् ।
7.074.06 उत स्वेन शवसा शूशुवुर्नर उत क्षियन्ति सुक्षितिम् ॥
7.075.01 व्युषा आवो दिविजा ऋतेनाविष्कृण्वाना महिमानमागात् ।
7.075.01 अप द्रुहस्तम आवरजुष्टमङ्गिरस्तमा पथ्या अजीगः ॥
7.075.02 महे नो अद्य सुविताय बोध्युषो महे सौभगाय प्र यन्धि ।
7.075.02 चित्रं रयिं यशसं धेह्यस्मे देवि मर्तेषु मानुषि श्रवस्युम् ॥
7.075.03 एते त्ये भानवो दर्शतायाश्चित्रा उषसो अमृतास आगुः ।
7.075.03 जनयन्तो दैव्यानि व्रतान्यापृणन्तो अन्तरिक्षा व्यस्थुः ॥
7.075.04 एषा स्या युजाना पराकात्पञ्च क्षितीः परि सद्यो जिगाति ।
7.075.04 अभिपश्यन्ती वयुना जनानां दिवो दुहिता भुवनस्य पत्नी ॥
7.075.05 वाजिनीवती सूर्यस्य योषा चित्रामघा राय ईशे वसूनाम् ।
7.075.05 ऋषिष्टुता जरयन्ती मघोन्युषा उच्छति वह्निभिर्गृणाना ॥
7.075.06 प्रति द्युतानामरुषासो अश्वाश्चित्रा अदृश्रन्नुषसं वहन्तः ।
7.075.06 याति शुभ्रा विश्वपिशा रथेन दधाति रत्नं विधते जनाय ॥
7.075.07 सत्या सत्येभिर्महती महद्भिर्देवी देवेभिर्यजता यजत्रैः ।
7.075.07 रुजद्दृळ्हानि दददुस्रियाणां प्रति गाव उषसं वावशन्त ॥
7.075.08 नू नो गोमद्वीरवद्धेहि रत्नमुषो अश्वावत्पुरुभोजो अस्मे ।
7.075.08 मा नो बर्हिः पुरुषता निदे कर्यूयं पात स्वस्तिभिः सदा नः ॥
7.076.01 उदु ज्योतिरमृतं विश्वजन्यं विश्वानरः सविता देवो अश्रेत् ।
7.076.01 क्रत्वा देवानामजनिष्ट चक्षुराविरकर्भुवनं विश्वमुषाः ॥
7.076.02 प्र मे पन्था देवयाना अदृश्रन्नमर्धन्तो वसुभिरिष्कृतासः ।
7.076.02 अभूदु केतुरुषसः पुरस्तात्प्रतीच्यागादधि हर्म्येभ्यः ॥
7.076.03 तानीदहानि बहुलान्यासन्या प्राचीनमुदिता सूर्यस्य ।
7.076.03 यतः परि जार इवाचरन्त्युषो ददृक्षे न पुनर्यतीव ॥
7.076.04 त इद्देवानां सधमाद आसन्नृतावानः कवयः पूर्व्यासः ।
7.076.04 गूळ्हं ज्योतिः पितरो अन्वविन्दन्सत्यमन्त्रा अजनयन्नुषासम् ॥
7.076.05 समान ऊर्वे अधि संगतासः सं जानते न यतन्ते मिथस्ते ।
7.076.05 ते देवानां न मिनन्ति व्रतान्यमर्धन्तो वसुभिर्यादमानाः ॥
7.076.06 प्रति त्वा स्तोमैरीळते वसिष्ठा उषर्बुधः सुभगे तुष्टुवांसः ।
7.076.06 गवां नेत्री वाजपत्नी न उच्छोषः सुजाते प्रथमा जरस्व ॥
7.076.07 एषा नेत्री राधसः सूनृतानामुषा उच्छन्ती रिभ्यते वसिष्ठैः ।
7.076.07 दीर्घश्रुतं रयिमस्मे दधाना यूयं पात स्वस्तिभिः सदा नः ॥
7.077.01 उपो रुरुचे युवतिर्न योषा विश्वं जीवं प्रसुवन्ती चरायै ।
7.077.01 अभूदग्निः समिधे मानुषाणामकर्ज्योतिर्बाधमाना तमांसि ॥
7.077.02 विश्वं प्रतीची सप्रथा उदस्थाद्रुशद्वासो बिभ्रती शुक्रमश्वैत् ।
7.077.02 हिरण्यवर्णा सुदृशीकसंदृग्गवां माता नेत्र्यह्नामरोचि ॥
7.077.03 देवानां चक्षुः सुभगा वहन्ती श्वेतं नयन्ती सुदृशीकमश्वम् ।
7.077.03 उषा अदर्शि रश्मिभिर्व्यक्ता चित्रामघा विश्वमनु प्रभूता ॥
7.077.04 अन्तिवामा दूरे अमित्रमुच्छोर्वीं गव्यूतिमभयं कृधी नः ।
7.077.04 यावय द्वेष आ भरा वसूनि चोदय राधो गृणते मघोनि ॥
7.077.05 अस्मे श्रेष्ठेभिर्भानुभिर्वि भाह्युषो देवि प्रतिरन्ती न आयुः ।
7.077.05 इषं च नो दधती विश्ववारे गोमदश्वावद्रथवच्च राधः ॥
7.077.06 यां त्वा दिवो दुहितर्वर्धयन्त्युषः सुजाते मतिभिर्वसिष्ठाः ।
7.077.06 सास्मासु धा रयिमृष्वं बृहन्तं यूयं पात स्वस्तिभिः सदा नः ॥
7.078.01 प्रति केतवः प्रथमा अदृश्रन्नूर्ध्वा अस्या अञ्जयो वि श्रयन्ते ।
7.078.01 उषो अर्वाचा बृहता रथेन ज्योतिष्मता वाममस्मभ्यं वक्षि ॥
7.078.02 प्रति षीमग्निर्जरते समिद्धः प्रति विप्रासो मतिभिर्गृणन्तः ।
7.078.02 उषा याति ज्योतिषा बाधमाना विश्वा तमांसि दुरिताप देवी ॥
7.078.03 एता उ त्याः प्रत्यदृश्रन्पुरस्ताज्ज्योतिर्यच्छन्तीरुषसो विभातीः ।
7.078.03 अजीजनन्सूर्यं यज्ञमग्निमपाचीनं तमो अगादजुष्टम् ॥
7.078.04 अचेति दिवो दुहिता मघोनी विश्वे पश्यन्त्युषसं विभातीम् ।
7.078.04 आस्थाद्रथं स्वधया युज्यमानमा यमश्वासः सुयुजो वहन्ति ॥
7.078.05 प्रति त्वाद्य सुमनसो बुधन्तास्माकासो मघवानो वयं च ।
7.078.05 तिल्विलायध्वमुषसो विभातीर्यूयं पात स्वस्तिभिः सदा नः ॥
7.079.01 व्युषा आवः पथ्या जनानां पञ्च क्षितीर्मानुषीर्बोधयन्ती ।
7.079.01 सुसंदृग्भिरुक्षभिर्भानुमश्रेद्वि सूर्यो रोदसी चक्षसावः ॥
7.079.02 व्यञ्जते दिवो अन्तेष्वक्तून्विशो न युक्ता उषसो यतन्ते ।
7.079.02 सं ते गावस्तम आ वर्तयन्ति ज्योतिर्यच्छन्ति सवितेव बाहू ॥
7.079.03 अभूदुषा इन्द्रतमा मघोन्यजीजनत्सुविताय श्रवांसि ।
7.079.03 वि दिवो देवी दुहिता दधात्यङ्गिरस्तमा सुकृते वसूनि ॥
7.079.04 तावदुषो राधो अस्मभ्यं रास्व यावत्स्तोतृभ्यो अरदो गृणाना ।
7.079.04 यां त्वा जज्ञुर्वृषभस्या रवेण वि दृळ्हस्य दुरो अद्रेरौर्णोः ॥
7.079.05 देवंदेवं राधसे चोदयन्त्यस्मद्र्यक्सूनृता ईरयन्ती ।
7.079.05 व्युच्छन्ती नः सनये धियो धा यूयं पात स्वस्तिभिः सदा नः ॥
7.080.01 प्रति स्तोमेभिरुषसं वसिष्ठा गीर्भिर्विप्रासः प्रथमा अबुध्रन् ।
7.080.01 विवर्तयन्तीं रजसी समन्ते आविष्कृण्वतीं भुवनानि विश्वा ॥
7.080.02 एषा स्या नव्यमायुर्दधाना गूढ्वी तमो ज्योतिषोषा अबोधि ।
7.080.02 अग्र एति युवतिरह्रयाणा प्राचिकितत्सूर्यं यज्ञमग्निम् ॥
7.080.03 अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः ।
7.080.03 घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥
7.081.01 प्रत्यु अदर्श्यायत्युच्छन्ती दुहिता दिवः ।
7.081.01 अपो महि व्ययति चक्षसे तमो ज्योतिष्कृणोति सूनरी ॥
7.081.02 उदुस्रियाः सृजते सूर्यः सचां उद्यन्नक्षत्रमर्चिवत् ।
7.081.02 तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहि ॥
7.081.03 प्रति त्वा दुहितर्दिव उषो जीरा अभुत्स्महि ।
7.081.03 या वहसि पुरु स्पार्हं वनन्वति रत्नं न दाशुषे मयः ॥
7.081.04 उच्छन्ती या कृणोषि मंहना महि प्रख्यै देवि स्वर्दृशे ।
7.081.04 तस्यास्ते रत्नभाज ईमहे वयं स्याम मातुर्न सूनवः ॥
7.081.05 तच्चित्रं राध आ भरोषो यद्दीर्घश्रुत्तमम् ।
7.081.05 यत्ते दिवो दुहितर्मर्तभोजनं तद्रास्व भुनजामहै ॥
7.081.06 श्रवः सूरिभ्यो अमृतं वसुत्वनं वाजां अस्मभ्यं गोमतः ।
7.081.06 चोदयित्री मघोनः सूनृतावत्युषा उच्छदप स्रिधः ॥
7.082.01 इन्द्रावरुणा युवमध्वराय नो विशे जनाय महि शर्म यच्छतम् ।
7.082.01 दीर्घप्रयज्युमति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः ॥
7.082.02 सम्राळ् अन्यः स्वराळ् अन्य उच्यते वां महान्ताविन्द्रावरुणा महावसू ।
7.082.02 विश्वे देवासः परमे व्योमनि सं वामोजो वृषणा सं बलं दधुः ॥
7.082.03 अन्वपां खान्यतृन्तमोजसा सूर्यमैरयतं दिवि प्रभुम् ।
7.082.03 इन्द्रावरुणा मदे अस्य मायिनोऽपिन्वतमपितः पिन्वतं धियः ॥
7.082.04 युवामिद्युत्सु पृतनासु वह्नयो युवां क्षेमस्य प्रसवे मितज्ञवः ।
7.082.04 ईशाना वस्व उभयस्य कारव इन्द्रावरुणा सुहवा हवामहे ॥
7.082.05 इन्द्रावरुणा यदिमानि चक्रथुर्विश्वा जातानि भुवनस्य मज्मना ।
7.082.05 क्षेमेण मित्रो वरुणं दुवस्यति मरुद्भिरुग्रः शुभमन्य ईयते ॥
7.082.06 महे शुल्काय वरुणस्य नु त्विष ओजो मिमाते ध्रुवमस्य यत्स्वम् ।
7.082.06 अजामिमन्यः श्नथयन्तमातिरद्दभ्रेभिरन्यः प्र वृणोति भूयसः ॥
7.082.07 न तमंहो न दुरितानि मर्त्यमिन्द्रावरुणा न तपः कुतश्चन ।
7.082.07 यस्य देवा गच्छथो वीथो अध्वरं न तं मर्तस्य नशते परिह्वृतिः ॥
7.082.08 अर्वाङ्नरा दैव्येनावसा गतं शृणुतं हवं यदि मे जुजोषथः ।
7.082.08 युवोर्हि सख्यमुत वा यदाप्यं मार्डीकमिन्द्रावरुणा नि यच्छतम् ॥
7.082.09 अस्माकमिन्द्रावरुणा भरेभरे पुरोयोधा भवतं कृष्ट्योजसा ।
7.082.09 यद्वां हवन्त उभये अध स्पृधि नरस्तोकस्य तनयस्य सातिषु ॥
7.082.10 अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः ।
7.082.10 अवध्रं ज्योतिरदितेरृतावृधो देवस्य श्लोकं सवितुर्मनामहे ॥
7.083.01 युवां नरा पश्यमानास आप्यं प्राचा गव्यन्तः पृथुपर्शवो ययुः ।
7.083.01 दासा च वृत्रा हतमार्याणि च सुदासमिन्द्रावरुणावसावतम् ॥
7.083.02 यत्रा नरः समयन्ते कृतध्वजो यस्मिन्नाजा भवति किं चन प्रियम् ।
7.083.02 यत्रा भयन्ते भुवना स्वर्दृशस्तत्रा न इन्द्रावरुणाधि वोचतम् ॥
7.083.03 सं भूम्या अन्ता ध्वसिरा अदृक्षतेन्द्रावरुणा दिवि घोष आरुहत् ।
7.083.03 अस्थुर्जनानामुप मामरातयोऽर्वागवसा हवनश्रुता गतम् ॥
7.083.04 इन्द्रावरुणा वधनाभिरप्रति भेदं वन्वन्ता प्र सुदासमावतम् ।
7.083.04 ब्रह्माण्येषां शृणुतं हवीमनि सत्या तृत्सूनामभवत्पुरोहितिः ॥
7.083.05 इन्द्रावरुणावभ्या तपन्ति माघान्यर्यो वनुषामरातयः ।
7.083.05 युवं हि वस्व उभयस्य राजथोऽध स्मा नोऽवतं पार्ये दिवि ॥
7.083.06 युवां हवन्त उभयास आजिष्विन्द्रं च वस्वो वरुणं च सातये ।
7.083.06 यत्र राजभिर्दशभिर्निबाधितं प्र सुदासमावतं तृत्सुभिः सह ॥
7.083.07 दश राजानः समिता अयज्यवः सुदासमिन्द्रावरुणा न युयुधुः ।
7.083.07 सत्या नृणामद्मसदामुपस्तुतिर्देवा एषामभवन्देवहूतिषु ॥
7.083.08 दाशराज्ञे परियत्ताय विश्वतः सुदास इन्द्रावरुणावशिक्षतम् ।
7.083.08 श्वित्यञ्चो यत्र नमसा कपर्दिनो धिया धीवन्तो असपन्त तृत्सवः ॥
7.083.09 वृत्राण्यन्यः समिथेषु जिघ्नते व्रतान्यन्यो अभि रक्षते सदा ।
7.083.09 हवामहे वां वृषणा सुवृक्तिभिरस्मे इन्द्रावरुणा शर्म यच्छतम् ॥
7.083.10 अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः ।
7.083.10 अवध्रं ज्योतिरदितेरृतावृधो देवस्य श्लोकं सवितुर्मनामहे ॥
7.084.01 आ वां राजानावध्वरे ववृत्यां हव्येभिरिन्द्रावरुणा नमोभिः ।
7.084.01 प्र वां घृताची बाह्वोर्दधाना परि त्मना विषुरूपा जिगाति ॥
7.084.02 युवो राष्ट्रं बृहदिन्वति द्यौर्यौ सेतृभिररज्जुभिः सिनीथः ।
7.084.02 परि नो हेळो वरुणस्य वृज्या उरुं न इन्द्रः कृणवदु लोकम् ॥
7.084.03 कृतं नो यज्ञं विदथेषु चारुं कृतं ब्रह्माणि सूरिषु प्रशस्ता ।
7.084.03 उपो रयिर्देवजूतो न एतु प्र ण स्पार्हाभिरूतिभिस्तिरेतम् ॥
7.084.04 अस्मे इन्द्रावरुणा विश्ववारं रयिं धत्तं वसुमन्तं पुरुक्षुम् ।
7.084.04 प्र य आदित्यो अनृता मिनात्यमिता शूरो दयते वसूनि ॥
7.084.05 इयमिन्द्रं वरुणमष्ट मे गीः प्रावत्तोके तनये तूतुजाना ।
7.084.05 सुरत्नासो देववीतिं गमेम यूयं पात स्वस्तिभिः सदा नः ॥
7.085.01 पुनीषे वामरक्षसं मनीषां सोममिन्द्राय वरुणाय जुह्वत् ।
7.085.01 घृतप्रतीकामुषसं न देवीं ता नो यामन्नुरुष्यतामभीके ॥
7.085.02 स्पर्धन्ते वा उ देवहूये अत्र येषु ध्वजेषु दिद्यवः पतन्ति ।
7.085.02 युवं तां इन्द्रावरुणावमित्रान्हतं पराचः शर्वा विषूचः ॥
7.085.03 आपश्चिद्धि स्वयशसः सदस्सु देवीरिन्द्रं वरुणं देवता धुः ।
7.085.03 कृष्टीरन्यो धारयति प्रविक्ता वृत्राण्यन्यो अप्रतीनि हन्ति ॥
7.085.04 स सुक्रतुरृतचिदस्तु होता य आदित्य शवसा वां नमस्वान् ।
7.085.04 आववर्तदवसे वां हविष्मानसदित्स सुविताय प्रयस्वान् ॥
7.085.05 इयमिन्द्रं वरुणमष्ट मे गीः प्रावत्तोके तनये तूतुजाना ।
7.085.05 सुरत्नासो देववीतिं गमेम यूयं पात स्वस्तिभिः सदा नः ॥
7.086.01 धीरा त्वस्य महिना जनूंषि वि यस्तस्तम्भ रोदसी चिदुर्वी ।
7.086.01 प्र नाकमृष्वं नुनुदे बृहन्तं द्विता नक्षत्रं पप्रथच्च भूम ॥
7.086.02 उत स्वया तन्वा सं वदे तत्कदा न्वन्तर्वरुणे भुवानि ।
7.086.02 किं मे हव्यमहृणानो जुषेत कदा मृळीकं सुमना अभि ख्यम् ॥
7.086.03 पृच्छे तदेनो वरुण दिदृक्षूपो एमि चिकितुषो विपृच्छम् ।
7.086.03 समानमिन्मे कवयश्चिदाहुरयं ह तुभ्यं वरुणो हृणीते ॥
7.086.04 किमाग आस वरुण ज्येष्ठं यत्स्तोतारं जिघांससि सखायम् ।
7.086.04 प्र तन्मे वोचो दूळभ स्वधावोऽव त्वानेना नमसा तुर इयाम् ॥
7.086.05 अव द्रुग्धानि पित्र्या सृजा नोऽव या वयं चकृमा तनूभिः ।
7.086.05 अव राजन्पशुतृपं न तायुं सृजा वत्सं न दाम्नो वसिष्ठम् ॥
7.086.06 न स स्वो दक्षो वरुण ध्रुतिः सा सुरा मन्युर्विभीदको अचित्तिः ।
7.086.06 अस्ति ज्यायान्कनीयस उपारे स्वप्नश्चनेदनृतस्य प्रयोता ॥
7.086.07 अरं दासो न मीळ्हुषे कराण्यहं देवाय भूर्णयेऽनागाः ।
7.086.07 अचेतयदचितो देवो अर्यो गृत्सं राये कवितरो जुनाति ॥
7.086.08 अयं सु तुभ्यं वरुण स्वधावो हृदि स्तोम उपश्रितश्चिदस्तु ।
7.086.08 शं नः क्षेमे शमु योगे नो अस्तु यूयं पात स्वस्तिभिः सदा नः ॥
7.087.01 रदत्पथो वरुणः सूर्याय प्रार्णांसि समुद्रिया नदीनाम् ।
7.087.01 सर्गो न सृष्टो अर्वतीरृतायञ्चकार महीरवनीरहभ्यः ॥
7.087.02 आत्मा ते वातो रज आ नवीनोत्पशुर्न भूर्णिर्यवसे ससवान् ।
7.087.02 अन्तर्मही बृहती रोदसीमे विश्वा ते धाम वरुण प्रियाणि ॥
7.087.03 परि स्पशो वरुणस्य स्मदिष्टा उभे पश्यन्ति रोदसी सुमेके ।
7.087.03 ऋतावानः कवयो यज्ञधीराः प्रचेतसो य इषयन्त मन्म ॥
7.087.04 उवाच मे वरुणो मेधिराय त्रिः सप्त नामाघ्न्या बिभर्ति ।
7.087.04 विद्वान्पदस्य गुह्या न वोचद्युगाय विप्र उपराय शिक्षन् ॥
7.087.05 तिस्रो द्यावो निहिता अन्तरस्मिन्तिस्रो भूमीरुपराः षड्विधानाः ।
7.087.05 गृत्सो राजा वरुणश्चक्र एतं दिवि प्रेङ्खं हिरण्ययं शुभे कम् ॥
7.087.06 अव सिन्धुं वरुणो द्यौरिव स्थाद्द्रप्सो न श्वेतो मृगस्तुविष्मान् ।
7.087.06 गम्भीरशंसो रजसो विमानः सुपारक्षत्रः सतो अस्य राजा ॥
7.087.07 यो मृळयाति चक्रुषे चिदागो वयं स्याम वरुणे अनागाः ।
7.087.07 अनु व्रतान्यदितेरृधन्तो यूयं पात स्वस्तिभिः सदा नः ॥
7.088.01 प्र शुन्ध्युवं वरुणाय प्रेष्ठां मतिं वसिष्ठ मीळ्हुषे भरस्व ।
7.088.01 य ईमर्वाञ्चं करते यजत्रं सहस्रामघं वृषणं बृहन्तम् ॥
7.088.02 अधा न्वस्य संदृशं जगन्वानग्नेरनीकं वरुणस्य मंसि ।
7.088.02 स्वर्यदश्मन्नधिपा उ अन्धोऽभि मा वपुर्दृशये निनीयात् ॥
7.088.03 आ यद्रुहाव वरुणश्च नावं प्र यत्समुद्रमीरयाव मध्यम् ।
7.088.03 अधि यदपां स्नुभिश्चराव प्र प्रेङ्ख ईङ्खयावहै शुभे कम् ॥
7.088.04 वसिष्ठं ह वरुणो नाव्याधादृषिं चकार स्वपा महोभिः ।
7.088.04 स्तोतारं विप्रः सुदिनत्वे अह्नां यान्नु द्यावस्ततनन्यादुषासः ॥
7.088.05 क्व त्यानि नौ सख्या बभूवुः सचावहे यदवृकं पुरा चित् ।
7.088.05 बृहन्तं मानं वरुण स्वधावः सहस्रद्वारं जगमा गृहं ते ॥
7.088.06 य आपिर्नित्यो वरुण प्रियः सन्त्वामागांसि कृणवत्सखा ते ।
7.088.06 मा त एनस्वन्तो यक्षिन्भुजेम यन्धि ष्मा विप्र स्तुवते वरूथम् ॥
7.088.07 ध्रुवासु त्वासु क्षितिषु क्षियन्तो व्यस्मत्पाशं वरुणो मुमोचत् ।
7.088.07 अवो वन्वाना अदितेरुपस्थाद्यूयं पात स्वस्तिभिः सदा नः ॥
7.089.01 मो षु वरुण मृन्मयं गृहं राजन्नहं गमम् ।
7.089.01 मृळा सुक्षत्र मृळय ॥
7.089.02 यदेमि प्रस्फुरन्निव दृतिर्न ध्मातो अद्रिवः ।
7.089.02 मृळा सुक्षत्र मृळय ॥
7.089.03 क्रत्वः समह दीनता प्रतीपं जगमा शुचे ।
7.089.03 मृळा सुक्षत्र मृळय ॥
7.089.04 अपां मध्ये तस्थिवांसं तृष्णाविदज्जरितारम् ।
7.089.04 मृळा सुक्षत्र मृळय ॥
7.089.05 यत्किं चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि ।
7.089.05 अचित्ती यत्तव धर्मा युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥
7.090.01 प्र वीरया शुचयो दद्रिरे वामध्वर्युभिर्मधुमन्तः सुतासः ।
7.090.01 वह वायो नियुतो याह्यच्छा पिबा सुतस्यान्धसो मदाय ॥
7.090.02 ईशानाय प्रहुतिं यस्त आनट्छुचिं सोमं शुचिपास्तुभ्यं वायो ।
7.090.02 कृणोषि तं मर्त्येषु प्रशस्तं जातोजातो जायते वाज्यस्य ॥
7.090.03 राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् ।
7.090.03 अध वायुं नियुतः सश्चत स्वा उत श्वेतं वसुधितिं निरेके ॥
7.090.04 उच्छन्नुषसः सुदिना अरिप्रा उरु ज्योतिर्विविदुर्दीध्यानाः ।
7.090.04 गव्यं चिदूर्वमुशिजो वि वव्रुस्तेषामनु प्रदिवः सस्रुरापः ॥
7.090.05 ते सत्येन मनसा दीध्यानाः स्वेन युक्तासः क्रतुना वहन्ति ।
7.090.05 इन्द्रवायू वीरवाहं रथं वामीशानयोरभि पृक्षः सचन्ते ॥
7.090.06 ईशानासो ये दधते स्वर्णो गोभिरश्वेभिर्वसुभिर्हिरण्यैः ।
7.090.06 इन्द्रवायू सूरयो विश्वमायुरर्वद्भिर्वीरैः पृतनासु सह्युः ॥
7.090.07 अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः ।
7.090.07 वाजयन्तः स्ववसे हुवेम यूयं पात स्वस्तिभिः सदा नः ॥
7.091.01 कुविदङ्ग नमसा ये वृधासः पुरा देवा अनवद्यास आसन् ।
7.091.01 ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येण ॥
7.091.02 उशन्ता दूता न दभाय गोपा मासश्च पाथः शरदश्च पूर्वीः ।
7.091.02 इन्द्रवायू सुष्टुतिर्वामियाना मार्डीकमीट्टे सुवितं च नव्यम् ॥
7.091.03 पीवोअन्नां रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुतामभिश्रीः ।
7.091.03 ते वायवे समनसो वि तस्थुर्विश्वेन्नरः स्वपत्यानि चक्रुः ॥
7.091.04 यावत्तरस्तन्वो यावदोजो यावन्नरश्चक्षसा दीध्यानाः ।
7.091.04 शुचिं सोमं शुचिपा पातमस्मे इन्द्रवायू सदतं बर्हिरेदम् ॥
7.091.05 नियुवाना नियुत स्पार्हवीरा इन्द्रवायू सरथं यातमर्वाक् ।
7.091.05 इदं हि वां प्रभृतं मध्वो अग्रमध प्रीणाना वि मुमुक्तमस्मे ॥
7.091.06 या वां शतं नियुतो याः सहस्रमिन्द्रवायू विश्ववाराः सचन्ते ।
7.091.06 आभिर्यातं सुविदत्राभिरर्वाक्पातं नरा प्रतिभृतस्य मध्वः ॥
7.091.07 अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः ।
7.091.07 वाजयन्तः स्ववसे हुवेम यूयं पात स्वस्तिभिः सदा नः ॥
7.092.01 आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार ।
7.092.01 उपो ते अन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयम् ॥
7.092.02 प्र सोता जीरो अध्वरेष्वस्थात्सोममिन्द्राय वायवे पिबध्यै ।
7.092.02 प्र यद्वां मध्वो अग्रियं भरन्त्यध्वर्यवो देवयन्तः शचीभिः ॥
7.092.03 प्र याभिर्यासि दाश्वांसमच्छा नियुद्भिर्वायविष्टये दुरोणे ।
7.092.03 नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यमश्व्यं च राधः ॥
7.092.04 ये वायव इन्द्रमादनास आदेवासो नितोशनासो अर्यः ।
7.092.04 घ्नन्तो वृत्राणि सूरिभिः ष्याम सासह्वांसो युधा नृभिरमित्रान् ॥
7.092.05 आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि यज्ञम् ।
7.092.05 वायो अस्मिन्सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः ॥
7.093.01 शुचिं नु स्तोमं नवजातमद्येन्द्राग्नी वृत्रहणा जुषेथाम् ।
7.093.01 उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशते धेष्ठा ॥
7.093.02 ता सानसी शवसाना हि भूतं साकंवृधा शवसा शूशुवांसा ।
7.093.02 क्षयन्तौ रायो यवसस्य भूरेः पृङ्क्तं वाजस्य स्थविरस्य घृष्वेः ॥
7.093.03 उपो ह यद्विदथं वाजिनो गुर्धीभिर्विप्राः प्रमतिमिच्छमानाः ।
7.093.03 अर्वन्तो न काष्ठां नक्षमाणा इन्द्राग्नी जोहुवतो नरस्ते ॥
7.093.04 गीर्भिर्विप्रः प्रमतिमिच्छमान ईट्टे रयिं यशसं पूर्वभाजम् ।
7.093.04 इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस्तिरतं देष्णैः ॥
7.093.05 सं यन्मही मिथती स्पर्धमाने तनूरुचा शूरसाता यतैते ।
7.093.05 अदेवयुं विदथे देवयुभिः सत्रा हतं सोमसुता जनेन ॥
7.093.06 इमामु षु सोमसुतिमुप न एन्द्राग्नी सौमनसाय यातम् ।
7.093.06 नू चिद्धि परिमम्नाथे अस्माना वां शश्वद्भिर्ववृतीय वाजैः ॥
7.093.07 सो अग्न एना नमसा समिद्धोऽच्छा मित्रं वरुणमिन्द्रं वोचेः ।
7.093.07 यत्सीमागश्चकृमा तत्सु मृळ तदर्यमादितिः शिश्रथन्तु ॥
7.093.08 एता अग्न आशुषाणास इष्टीर्युवोः सचाभ्यश्याम वाजान् ।
7.093.08 मेन्द्रो नो विष्णुर्मरुतः परि ख्यन्यूयं पात स्वस्तिभिः सदा नः ॥
7.094.01 इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः ।
7.094.01 अभ्राद्वृष्टिरिवाजनि ॥
7.094.02 शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः ।
7.094.02 ईशाना पिप्यतं धियः ॥
7.094.03 मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये ।
7.094.03 मा नो रीरधतं निदे ॥
7.094.04 इन्द्रे अग्ना नमो बृहत्सुवृक्तिमेरयामहे ।
7.094.04 धिया धेना अवस्यवः ॥
7.094.05 ता हि शश्वन्त ईळत इत्था विप्रास ऊतये ।
7.094.05 सबाधो वाजसातये ॥
7.094.06 ता वां गीर्भिर्विपन्यवः प्रयस्वन्तो हवामहे ।
7.094.06 मेधसाता सनिष्यवः ॥
7.094.07 इन्द्राग्नी अवसा गतमस्मभ्यं चर्षणीसहा ।
7.094.07 मा नो दुःशंस ईशत ॥
7.094.08 मा कस्य नो अररुषो धूर्तिः प्रणङ्मर्त्यस्य ।
7.094.08 इन्द्राग्नी शर्म यच्छतम् ॥
7.094.09 गोमद्धिरण्यवद्वसु यद्वामश्वावदीमहे ।
7.094.09 इन्द्राग्नी तद्वनेमहि ॥
7.094.10 यत्सोम आ सुते नर इन्द्राग्नी अजोहवुः ।
7.094.10 सप्तीवन्ता सपर्यवः ॥
7.094.11 उक्थेभिर्वृत्रहन्तमा या मन्दाना चिदा गिरा ।
7.094.11 आङ्गूषैराविवासतः ॥
7.094.12 ताविद्दुःशंसं मर्त्यं दुर्विद्वांसं रक्षस्विनम् ।
7.094.12 आभोगं हन्मना हतमुदधिं हन्मना हतम् ॥
7.095.01 प्र क्षोदसा धायसा सस्र एषा सरस्वती धरुणमायसी पूः ।
7.095.01 प्रबाबधाना रथ्येव याति विश्वा अपो महिना सिन्धुरन्याः ॥
7.095.02 एकाचेतत्सरस्वती नदीनां शुचिर्यती गिरिभ्य आ समुद्रात् ।
7.095.02 रायश्चेतन्ती भुवनस्य भूरेर्घृतं पयो दुदुहे नाहुषाय ॥
7.095.03 स वावृधे नर्यो योषणासु वृषा शिशुर्वृषभो यज्ञियासु ।
7.095.03 स वाजिनं मघवद्भ्यो दधाति वि सातये तन्वं मामृजीत ॥
7.095.04 उत स्या नः सरस्वती जुषाणोप श्रवत्सुभगा यज्णे अस्मिन् ।
7.095.04 मितज्ञुभिर्नमस्यैरियाना राया युजा चिदुत्तरा सखिभ्यः ॥
7.095.05 इमा जुह्वाना युष्मदा नमोभिः प्रति स्तोमं सरस्वति जुषस्व ।
7.095.05 तव शर्मन्प्रियतमे दधाना उप स्थेयाम शरणं न वृक्षम् ॥
7.095.06 अयमु ते सरस्वति वसिष्ठो द्वारावृतस्य सुभगे व्यावः ।
7.095.06 वर्ध शुभ्रे स्तुवते रासि वाजान्यूयं पात स्वस्तिभिः सदा नः ॥
7.096.01 बृहदु गायिषे वचोऽसुर्या नदीनाम् ।
7.096.01 सरस्वतीमिन्महया सुवृक्तिभि स्तोमैर्वसिष्ठ रोदसी ॥
7.096.02 उभे यत्ते महिना शुभ्रे अन्धसी अधिक्षियन्ति पूरवः ।
7.096.02 सा नो बोध्यवित्री मरुत्सखा चोद राधो मघोनाम् ॥
7.096.03 भद्रमिद्भद्रा कृणवत्सरस्वत्यकवारी चेतति वाजिनीवती ।
7.096.03 गृणाना जमदग्निवत्स्तुवाना च वसिष्ठवत् ॥
7.096.04 जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः ।
7.096.04 सरस्वन्तं हवामहे ॥
7.096.05 ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः ।
7.096.05 तेभिर्नोऽविता भव ॥
7.096.06 पीपिवांसं सरस्वत स्तनं यो विश्वदर्शतः ।
7.096.06 भक्षीमहि प्रजामिषम् ॥
7.097.01 यज्ञे दिवो नृषदने पृथिव्या नरो यत्र देवयवो मदन्ति ।
7.097.01 इन्द्राय यत्र सवनानि सुन्वे गमन्मदाय प्रथमं वयश्च ॥
7.097.02 आ दैव्या वृणीमहेऽवांसि बृहस्पतिर्नो मह आ सखायः ।
7.097.02 यथा भवेम मीळ्हुषे अनागा यो नो दाता परावतः पितेव ॥
7.097.03 तमु ज्येष्ठं नमसा हविर्भिः सुशेवं ब्रह्मणस्पतिं गृणीषे ।
7.097.03 इन्द्रं श्लोको महि दैव्यः सिषक्तु यो ब्रह्मणो देवकृतस्य राजा ॥
7.097.04 स आ नो योनिं सदतु प्रेष्ठो बृहस्पतिर्विश्ववारो यो अस्ति ।
7.097.04 कामो रायः सुवीर्यस्य तं दात्पर्षन्नो अति सश्चतो अरिष्टान् ॥
7.097.05 तमा नो अर्कममृताय जुष्टमिमे धासुरमृतासः पुराजाः ।
7.097.05 शुचिक्रन्दं यजतं पस्त्यानां बृहस्पतिमनर्वाणं हुवेम ॥
7.097.06 तं शग्मासो अरुषासो अश्वा बृहस्पतिं सहवाहो वहन्ति ।
7.097.06 सहश्चिद्यस्य नीलवत्सधस्थं नभो न रूपमरुषं वसानाः ॥
7.097.07 स हि शुचिः शतपत्रः स शुन्ध्युर्हिरण्यवाशीरिषिरः स्वर्षाः ।
7.097.07 बृहस्पतिः स स्वावेश ऋष्वः पुरू सखिभ्य आसुतिं करिष्ठः ॥
7.097.08 देवी देवस्य रोदसी जनित्री बृहस्पतिं वावृधतुर्महित्वा ।
7.097.08 दक्षाय्याय दक्षता सखायः करद्ब्रह्मणे सुतरा सुगाधा ॥
7.097.09 इयं वां ब्रह्मणस्पते सुवृक्तिर्ब्रह्मेन्द्राय वज्रिणे अकारि ।
7.097.09 अविष्टं धियो जिगृतं पुरन्धीर्जजस्तमर्यो वनुषामरातीः ॥
7.097.10 बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।
7.097.10 धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥
7.098.01 अध्वर्यवोऽरुणं दुग्धमंशुं जुहोतन वृषभाय क्षितीनाम् ।
7.098.01 गौराद्वेदीयां अवपानमिन्द्रो विश्वाहेद्याति सुतसोममिच्छन् ॥
7.098.02 यद्दधिषे प्रदिवि चार्वन्नं दिवेदिवे पीतिमिदस्य वक्षि ।
7.098.02 उत हृदोत मनसा जुषाण उशन्निन्द्र प्रस्थितान्पाहि सोमान् ॥
7.098.03 जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानमुवाच ।
7.098.03 एन्द्र पप्राथोर्वन्तरिक्षं युधा देवेभ्यो वरिवश्चकर्थ ॥
7.098.04 यद्योधया महतो मन्यमानान्साक्षाम तान्बाहुभिः शाशदानान् ।
7.098.04 यद्वा नृभिर्वृत इन्द्राभियुध्यास्तं त्वयाजिं सौश्रवसं जयेम ॥
7.098.05 प्रेन्द्रस्य वोचं प्रथमा कृतानि प्र नूतना मघवा या चकार ।
7.098.05 यदेददेवीरसहिष्ट माया अथाभवत्केवलः सोमो अस्य ॥
7.098.06 तवेदं विश्वमभितः पशव्यं यत्पश्यसि चक्षसा सूर्यस्य ।
7.098.06 गवामसि गोपतिरेक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ॥
7.098.07 बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।
7.098.07 धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥
7.099.01 परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति ।
7.099.01 उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वं परमस्य वित्से ॥
7.099.02 न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप ।
7.099.02 उदस्तभ्ना नाकमृष्वं बृहन्तं दाधर्थ प्राचीं ककुभं पृथिव्याः ॥
7.099.03 इरावती धेनुमती हि भूतं सूयवसिनी मनुषे दशस्या ।
7.099.03 व्यस्तभ्ना रोदसी विष्णवेते दाधर्थ पृथिवीमभितो मयूखैः ॥
7.099.04 उरुं यज्ञाय चक्रथुरु लोकं जनयन्ता सूर्यमुषासमग्निम् ।
7.099.04 दासस्य चिद्वृषशिप्रस्य माया जघ्नथुर्नरा पृतनाज्येषु ॥
7.099.05 इन्द्राविष्णू दृंहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् ।
7.099.05 शतं वर्चिनः सहस्रं च साकं हथो अप्रत्यसुरस्य वीरान् ॥
7.099.06 इयं मनीषा बृहती बृहन्तोरुक्रमा तवसा वर्धयन्ती ।
7.099.06 ररे वां स्तोमं विदथेषु विष्णो पिन्वतमिषो वृजनेष्विन्द्र ॥
7.099.07 वषट्ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् ।
7.099.07 वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥
7.100.01 नू मर्तो दयते सनिष्यन्यो विष्णव उरुगायाय दाशत् ।
7.100.01 प्र यः सत्राचा मनसा यजात एतावन्तं नर्यमाविवासात् ॥
7.100.02 त्वं विष्णो सुमतिं विश्वजन्यामप्रयुतामेवयावो मतिं दाः ।
7.100.02 पर्चो यथा नः सुवितस्य भूरेरश्वावतः पुरुश्चन्द्रस्य रायः ॥
7.100.03 त्रिर्देवः पृथिवीमेष एतां वि चक्रमे शतर्चसं महित्वा ।
7.100.03 प्र विष्णुरस्तु तवसस्तवीयान्त्वेषं ह्यस्य स्थविरस्य नाम ॥
7.100.04 वि चक्रमे पृथिवीमेष एतां क्षेत्राय विष्णुर्मनुषे दशस्यन् ।
7.100.04 ध्रुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार ॥
7.100.05 प्र तत्ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् ।
7.100.05 तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके ॥
7.100.06 किमित्ते विष्णो परिचक्ष्यं भूत्प्र यद्ववक्षे शिपिविष्टो अस्मि ।
7.100.06 मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ ॥
7.100.07 वषट्ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् ।
7.100.07 वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥
7.101.01 तिस्रो वाचः प्र वद ज्योतिरग्रा या एतद्दुह्रे मधुदोघमूधः ।
7.101.01 स वत्सं कृण्वन्गर्भमोषधीनां सद्यो जातो वृषभो रोरवीति ॥
7.101.02 यो वर्धन ओषधीनां यो अपां यो विश्वस्य जगतो देव ईशे ।
7.101.02 स त्रिधातु शरणं शर्म यंसत्त्रिवर्तु ज्योतिः स्वभिष्ट्यस्मे ॥
7.101.03 स्तरीरु त्वद्भवति सूत उ त्वद्यथावशं तन्वं चक्र एषः ।
7.101.03 पितुः पयः प्रति गृभ्णाति माता तेन पिता वर्धते तेन पुत्रः ॥
7.101.04 यस्मिन्विश्वानि भुवनानि तस्थुस्तिस्रो द्यावस्त्रेधा सस्रुरापः ।
7.101.04 त्रयः कोशास उपसेचनासो मध्व श्चोतन्त्यभितो विरप्शम् ॥
7.101.05 इदं वचः पर्जन्याय स्वराजे हृदो अस्त्वन्तरं तज्जुजोषत् ।
7.101.05 मयोभुवो वृष्टयः सन्त्वस्मे सुपिप्पला ओषधीर्देवगोपाः ॥
7.101.06 स रेतोधा वृषभः शश्वतीनां तस्मिन्नात्मा जगतस्तस्थुषश्च ।
7.101.06 तन्म ऋतं पातु शतशारदाय यूयं पात स्वस्तिभिः सदा नः ॥
7.102.01 पर्जन्याय प्र गायत दिवस्पुत्राय मीळ्हुषे ।
7.102.01 स नो यवसमिच्छतु ॥
7.102.02 यो गर्भमोषधीनां गवां कृणोत्यर्वताम् ।
7.102.02 पर्जन्यः पुरुषीणाम् ॥
7.102.03 तस्मा इदास्ये हविर्जुहोता मधुमत्तमम् ।
7.102.03 इळां नः संयतं करत् ॥
7.103.01 संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः ।
7.103.01 वाचं पर्जन्यजिन्वितां प्र मण्डूका अवादिषुः ॥
7.103.02 दिव्या आपो अभि यदेनमायन्दृतिं न शुष्कं सरसी शयानम् ।
7.103.02 गवामह न मायुर्वत्सिनीनां मण्डूकानां वग्नुरत्रा समेति ॥
7.103.03 यदीमेनां उशतो अभ्यवर्षीत्तृष्यावतः प्रावृष्यागतायाम् ।
7.103.03 अख्खलीकृत्या पितरं न पुत्रो अन्यो अन्यमुप वदन्तमेति ॥
7.103.04 अन्यो अन्यमनु गृभ्णात्येनोरपां प्रसर्गे यदमन्दिषाताम् ।
7.103.04 मण्डूको यदभिवृष्टः कनिष्कन्पृश्निः सम्पृङ्क्ते हरितेन वाचम् ॥
7.103.05 यदेषामन्यो अन्यस्य वाचं शाक्तस्येव वदति शिक्षमाणः ।
7.103.05 सर्वं तदेषां समृधेव पर्व यत्सुवाचो वदथनाध्यप्सु ॥
7.103.06 गोमायुरेको अजमायुरेकः पृश्निरेको हरित एक एषाम् ।
7.103.06 समानं नाम बिभ्रतो विरूपाः पुरुत्रा वाचं पिपिशुर्वदन्तः ॥
7.103.07 ब्राह्मणासो अतिरात्रे न सोमे सरो न पूर्णमभितो वदन्तः ।
7.103.07 संवत्सरस्य तदहः परि ष्ठ यन्मण्डूकाः प्रावृषीणं बभूव ॥
7.103.08 ब्राह्मणासः सोमिनो वाचमक्रत ब्रह्म कृण्वन्तः परिवत्सरीणम् ।
7.103.08 अध्वर्यवो घर्मिणः सिष्विदाना आविर्भवन्ति गुह्या न के चित् ॥
7.103.09 देवहितिं जुगुपुर्द्वादशस्य ऋतुं नरो न प्र मिनन्त्येते ।
7.103.09 संवत्सरे प्रावृष्यागतायां तप्ता घर्मा अश्नुवते विसर्गम् ॥
7.103.10 गोमायुरदादजमायुरदात्पृश्निरदाद्धरितो नो वसूनि ।
7.103.10 गवां मण्डूका ददतः शतानि सहस्रसावे प्र तिरन्त आयुः ॥
7.104.01 इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृधः ।
7.104.01 परा शृणीतमचितो न्योषतं हतं नुदेथां नि शिशीतमत्रिणः ॥
7.104.02 इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निवां इव ।
7.104.02 ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ॥
7.104.03 इन्द्रासोमा दुष्कृतो वव्रे अन्तरनारम्भणे तमसि प्र विध्यतम् ।
7.104.03 यथा नातः पुनरेकश्चनोदयत्तद्वामस्तु सहसे मन्युमच्छवः ॥
7.104.04 इन्द्रासोमा वर्तयतं दिवो वधं सं पृथिव्या अघशंसाय तर्हणम् ।
7.104.04 उत्तक्षतं स्वर्यं पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ॥
7.104.05 इन्द्रासोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः ।
7.104.05 तपुर्वधेभिरजरेभिरत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ॥
7.104.06 इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेव वाजिना ।
7.104.06 यां वां होत्रां परिहिनोमि मेधयेमा ब्रह्माणि नृपतीव जिन्वतम् ॥
7.104.07 प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः ।
7.104.07 इन्द्रासोमा दुष्कृते मा सुगं भूद्यो नः कदा चिदभिदासति द्रुहा ॥
7.104.08 यो मा पाकेन मनसा चरन्तमभिचष्टे अनृतेभिर्वचोभिः ।
7.104.08 आप इव काशिना संगृभीता असन्नस्त्वासत इन्द्र वक्ता ॥
7.104.09 ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभिः ।
7.104.09 अहये वा तान्प्रददातु सोम आ वा दधातु निरृतेरुपस्थे ॥
7.104.10 यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस्तनूनाम् ।
7.104.10 रिपु स्तेन स्तेयकृद्दभ्रमेतु नि ष हीयतां तन्वा तना च ॥
7.104.11 परः सो अस्तु तन्वा तना च तिस्रः पृथिवीरधो अस्तु विश्वाः ।
7.104.11 प्रति शुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश्च नक्तम् ॥
7.104.12 सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते ।
7.104.12 तयोर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हन्त्यासत् ॥
7.104.13 न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम् ।
7.104.13 हन्ति रक्षो हन्त्यासद्वदन्तमुभाविन्द्रस्य प्रसितौ शयाते ॥
7.104.14 यदि वाहमनृतदेव आस मोघं वा देवां अप्यूहे अग्ने ।
7.104.14 किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निरृथं सचन्ताम् ॥
7.104.15 अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पूरुषस्य ।
7.104.15 अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह ॥
7.104.16 यो मायातुं यातुधानेत्याह यो वा रक्षाः शुचिरस्मीत्याह ।
7.104.16 इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस्पदीष्ट ॥
7.104.17 प्र या जिगाति खर्गलेव नक्तमप द्रुहा तन्वं गूहमाना ।
7.104.17 वव्रां अनन्तां अव सा पदीष्ट ग्रावाणो घ्नन्तु रक्षस उपब्दैः ॥
7.104.18 वि तिष्ठध्वं मरुतो विक्ष्विच्छत गृभायत रक्षसः सं पिनष्टन ।
7.104.18 वयो ये भूत्वी पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे ॥
7.104.19 प्र वर्तय दिवो अश्मानमिन्द्र सोमशितं मघवन्सं शिशाधि ।
7.104.19 प्राक्तादपाक्तादधरादुदक्तादभि जहि रक्षसः पर्वतेन ॥
7.104.20 एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवोऽदाभ्यम् ।
7.104.20 शिशीते शक्रः पिशुनेभ्यो वधं नूनं सृजदशनिं यातुमद्भ्यः ॥
7.104.21 इन्द्रो यातूनामभवत्पराशरो हविर्मथीनामभ्याविवासताम् ।
7.104.21 अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्सत एति रक्षसः ॥
7.104.22 उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम् ।
7.104.22 सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥
7.104.23 मा नो रक्षो अभि नड्यातुमावतामपोच्छतु मिथुना या किमीदिना ।
7.104.23 पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥
7.104.24 इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम् ।
7.104.24 विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्सूर्यमुच्चरन्तम् ॥
7.104.25 प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम् ।
7.104.25 रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः ॥
More Stories
ISKCON North America (Canada & U.S.) Regional Governing Body Rules & Regulations (2022-11-10)
ISKCON Temple President Selection: Local Elections vs. GBC Authority
Vamsha Brahmana (21 generations)