ADVOCATETANMOY LAW LIBRARY

Research & Library Database

Home » The method of reciting the Vedas (वेदपारायणविधिः)

The method of reciting the Vedas (वेदपारायणविधिः)

वेदपारायणविधिः

The humanHuman Ο άνθρωπος (Humanum> Homo sapiens) मानव:. We have failed to consider the minimum need to be a 'human'. For Christians, human beings are sinful creatures, who need some saviour. For Evolution biology a man is still evolving, for what, we don´t know. For Buddhist Nagarjuna, the realisation of having a human body is a mere mental illusion. We are not ready to accept that a human is a computer made of meat. For a slave master, a human person is another animal, his sons and daughters are his personal property.             brain has a remarkable capacity to store a lifetime of information through visual or auditory routes. It excels and exceeds any artificial memoryMemory It is the process of storing and then remembering this information. Forgetting may be a sign of a more serious problem, such as: Alzheimer's disease, Other types of dementia, Stroke, Depression, Head injuries, Blood clots or tumors in the brain, Kidney, liver, or thyroid problems, Reactions to certain medicines, system in mixing and integrating multiple pieces of information encoded. In this study, a group of verbal memory experts was evaluated by multiple structural brain analysis methods to record the changes in the brain structure. The participants were professional HinduHindu הִנְדּוּאָה (hinĕḋẇʼáh), ινδουϊσμός: Hend  (Hendu). The establishment of a satellite state of the Ghaznavid Empire (capital: Lahore) in the Punjab (first half of the 11th century) was known as Hindustan—a geographical name given by the Persians, who came to visit Bharatvarsha (​हिन्दुस्तान). Asadi’s Garsasp-nama, expeditions to Hend and Sarandib (Sri Lanka) have been featured. Sanatan Dharma is the actual Dharmic tradition of the Hindus. People who live in Hindusthan are Hindu (The word is an original word), whether they follow Islam, Christianity, Buddhism, Mahavira, or Nanaka. In this way, Tribals are also Hindu. Indian sword (šamšir-e hendi in zaḵm-e hendi). Anbar-e hendi (India perfumes) by Farroki. Ebn Battuta (Toḥfat al-noẓẓār fi ḡarāʾeb al-amṣārwa ʿajāʾeb al-asfār: ca. 1330) first mentioned 'Hindu Kush.' pandits (priests/scholars) trained in reciting the VedasVedas Samhita: Rigveda, Samveda, Yayurveda (Shukla and Krishna), Atharvaveda. Commentary: Rig, Atharva, Shukla Yajurveda, Krishna Yajurveda. Total Manta: 20,380 and other forms of Hindu scriptures. These professional Vedicnon-vedic Non-Vedic literature and ideas are corrupt and nonsustainable for human lives and prosperity. Vedic values ruled the Bharatvarsha directly up to 2000 BCE, then it degraded due to some unknown reason. Then, less meritorious people started to rule Bharat with the spreading of ignorance and Avidya. priests are experts in memorization and recitation of oral texts with precise diction. The Vedas are a collection of hymns. It is estimated that there are more than 20,000 mantras and shlokas in the four Vedas. The analysis included the measurement of the grey and white matterMatter Normal matter is made of molecules, which are themselves made of atoms. Inside the atoms, electrons are spinning around the nucleus. The nucleus is made of protons and neutrons. Inside the protons and neutrons, exist indivisible quarks, like the electrons. All matter around us is made of elementary particles. ( building blocks of matter > quarks and leptons). All stable matter in the universe is made from particles that belong to the first-generation. Fundamental forces result from the exchange of force-carrier particles, which belong to a broader group called “bosons”. The strong force is carried by the “gluon”, electromagnetic force is carried by the “photon.” density, gyrification, and cortical thickness in a group of Vedic pandits and compared these measures with a matched control group. The results revealed an increased grey matter (GM) and white matter (WM) in the midbrain, pons, thalamus, parahippocampus, and orbitofrontal regions in pandits. The whole-brain correlation analysis using the length of post-training teaching duration showed significant correlation with the left angular gyrus. We also found increased gyrification in the insula, supplementary motor area, medial frontal areas, and increased cortical thickness (CT) in the right temporal pole and caudate regions of the brain. These findings, collectively, provide unique information regarding the association between crucial memory regions in the brain and long-term practice of oral recitation of scriptures from memory with the proper diction that also involved controlled breathingWind Ανεμος . वायुः पुं > Similar श्वसनः  स्पर्शनः  मातरिश्वा  सदागतिः  पृषदश्वः  गन्धवहः  गन्धवाहः  अनिलः आशुगः  समीरः मारुतः  मरुत् जगत्प्राणः समीरणः  नभस्वान्  वातः  पवनः  पवमानः प्रभञ्जनः अजगत्प्राणः  खश्वासः वाहः धूलिध्वजः फणिप्रियः वातिः नभःप्राणः भोगिकान्तः  स्वकम्पनः अक्षतिः कम्पलक्ष्मा  शसीनिः  आवकः  हरिः  वासः  सुखाशः  मृगवाहनः  सारः  चञ्चलः  विहगः  प्रकम्पनः  नभःस्वरः निश्वासकः  स्तनूनः  पृषतांपतिः । Vedic Deity. Solar wind is a stream of charged particles, consists mostly of electrons and protons with energies (1 keV). Pranayama= controlling breathe.. [Extensive long-term verbal memory training is associated with brain plasticity – Uttam Kumar, corresponding author Anshita Singh, and Prakash Paddakanya – 2021 May 6]

वेदपारायणविधिः

श्रीवेदपुरुषाय नमः ॥ स्थण्डिलं कल्पयित्वाग्निमुपसमाधाय संपरिस्तीर्याज्येनैताभ्यो देवताभ्यो जुहोति अग्नये सोमायेन्द्राय विश्वेभ्योदेवेभ्यः ऋषिभ्य ऋग्भ्यो यजुर्भ्यः सामभ्यः श्रद्धायै प्रज्ञायै मेधायै धारणायै श्रियै ह्रियै सावित्र्यै सवित्रे प्रजापतये काण्डऋषये सोमाय काण्डऋषये अग्नये काण्डऋषये विश्वेभ्योदेवेभ्यः काण्डऋषिभ्यः संहिताभ्यो देवताभ्य उपनिषद्भ्यो याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यो वारुणीभ्यो देवताभ्य उपनिषद्भ्यो हव्यवाहाय विश्वेभ्य ऋग्गणेभ्योऽनुमत्यै स्विष्टकृते च पृथक्स्वाहाकारेण हुत्वा व्याहृतिभिश्च पुनः परिषिञ्चति । समाप्ते चैता यजुषा तर्पयति । एवमृग्वेदस्य काण्डर्ष्यादिवर्ज्यमास्विष्टकृतस्तेषां स्थाने शतर्चिभ्यो माध्यमेभ्यो गृत्समदाय विश्वामित्राय वामदेवायाऽत्रये भरद्वाजाय जामदग्न्याय गौतमाय वसिष्ठाय प्रगाथेभ्यः पावमानीभ्यो देवताभ्यः क्षुद्रसूक्तेभ्यो महासूक्तेभ्यो महानाम्नीभ्य इति । ततो वेदादिमारभ्य संततमधीयीतेत्याह भगवान्बौधायनः ।

इति वेदपारायणोपक्रमविधिः ॥

अथ वेदपारायणे कलशप्रतिष्ठापनादिप्रकारः ॥

तीर्थे देवालये गेहे प्रशस्ते सुपरिष्कृते । कलशं सुदृढं तत्र सुनिर्णिक्तं विभूषितम् । पुष्पपल्लवमालाभिश्चन्दनैः कुङ्कुमादिभिः । मृत्तिकाभिश्च संमिश्रवेदिमध्ये न्यसेत्ततः । पञ्चाशद्भिः, कुशैः कार्यों ब्रह्मा पश्चान्मुखस्थितः । स्नापितः स्थापितः कुम्भे चतुर्बाहुश्चतुर्मुखः । वत्सजान्वाकृतिं दण्डमुत्तराग्रैः कुशैः कृतम् । ब्रह्मोपधाने दत्त्वा तं ततः स्वस्त्ययनं पठेत् । प्रतिष्ठां कारयेत्पश्चात्पूजाद्रव्यमथोच्यते । यज्ञोपवीतनैवेद्यवस्त्रचन्दकुङ्कुमैः । स्रग्धूपदीपताम्बूलैरक्षतैश्च पितामहम् । ब्रह्मजज्ञानमिति वा गायत्र्या वा प्रपूजयेत् । उपध्यायश्च संपूज्यो यथापाठं पठेत्ततः ।

इति वेदपारायणे कलशप्रतिष्ठापनादिप्रकारः ॥

अनश्नत्पारायणविधिः।

श्रीः॥ अथातोऽनश्नत्पारायणविधिं व्याख्यास्याम आसमाप्तेर्नाश्नीयात् यथाशक्ति वापः पयः फलान्योदनं वा हविष्यमल्पं भुक्त्वा तदा शेषमधीयीत । ग्रामात्प्राचीमुदीचीं वा दिशमुपगम्याग्निमुपसमाधाय परिस्तीर्येध्मं प्रदायाज्येनैताभ्यो देवताभ्यो जुहोति अग्नये सोमायेन्द्राय प्रजापतये बृहस्पतये विश्वेभ्यो देवेभ्यो ब्रह्मणे ऋषिभ्य ऋग्भ्यो यजुर्भ्यः श्रद्धायै मेधायै प्रज्ञायै धारणायै सदसस्पतये अनुमतये श्रियै ह्रियै सावित्र्यै सवित्रे प्रजापतये काण्डऋषये सोमाय काण्डऋषये विश्वेभ्योदेवेभ्यः काण्डऋषिभ्यः संहिताभ्यो देवताभ्य उपनिषद्भ्यो याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यो वारुणीभ्यो देवताभ्य उपनिषद्भ्यो हव्यवाहाय विश्वेभ्य ऋग्गणेभ्य अनुमत्यै स्विष्टकृते च पृथक् स्वाहाकारेण हुत्वा व्याहृतिभिश्च पुनः परिषिञ्चति । समाप्ते चैता यजुषा तर्पयति । एवमृग्वेदिनां काण्डर्ष्यादिवर्जमास्विष्टकृतस्तेषां स्थाने शतर्चिभ्यो माध्यमेभ्यो गृत्समदाय विश्वामित्राय वामदेवायात्रये भरद्वाजाय जामदग्न्याय गौतमाय वसिष्ठाय प्रगाथेभ्यः पावमानिभ्यः क्षुद्रसूक्तेभ्यो महानाम्नीभ्य इति । ततो वेदादिमारभ्य संततमधीयीत नास्यान्तरानध्यायो नास्यान्तरा जननमरणे अशुची नान्तरा व्याहरेन्नान्तरा विरमेद्यावन्तमधीयीत । यद्यन्तरा विरमेत्त्रीन्प्राणायामानायम्य प्रणवं वा प्रणिधाय यावत्कालमधीयीत ।

ततः सर्वं निशो निशान्तरं संग्रामारण्यसलिलं प्रलोप्य परिदध्यात् । आदावन्ते च ब्राह्मणभोजनं दक्षिणादानं च दद्यात् । परातेन विधिना वेदमधीयीत स ततः पूतो वेदो भवति मनःशुद्धश्च भवति द्वाभ्यां पारायणाभ्यां ऋग्भिश्च भोजन इहाधीते अनृतेभ्यः प्रमुच्यते त्रिभिर्बहुभ्यः पातकोपपातकेभ्यः शूद्रायां रेतःसिक्त्वा गङ्गासु निमज्जंश्च भवति । चतुर्थ्यः शूद्रान्नभोजनात्तत्सेवनात्तत्स्त्रीसेवनाच पञ्चभिरयाज्ययाजनात्पूतो भवति । अग्राह्यग्रहणाद्ग्राह्याग्रहणादभ्यासोपासनाच्च षड्भिर्ब्राह्मणस्य लोहितकरणात्स्त्रीलोहितकरणात्पशुहननात्सुवर्णस्तेयात्पतिसंप्रयोगाच्च सप्तभिः प्राजापत्यानां हीनाचरणात् । यज्ञोपवेधनाच्च अष्टभिश्चान्द्रायणस्यान्तरानाचरणाद्गुरुतल्पगमनाद्रजस्वलागमनाच्च नवभिः सुरापानाच्च दशभिरश्रोत्रिययाजनात् असोमपानात् अन्यायतश्च एकादशभिर्ब्राह्मणहननाद्गर्भहननाद्द्वादशभिः पूर्वजन्मेहजन्मकृतैः सर्वैः पापैः प्रमुच्यते स्वर्गलोकं गच्छति पितॄन्स्वर्गलोकं गमयति अग्निष्टोमादीन्क्रतून्यजति तैः क्रतुभिरिष्टं भवति । वेदाध्यायी सदैव स्याद्यथा हि सत्यवाक्शुचिः।

यं यं कामयते कामं तं तं वेदेन साधयेत् । असाध्यं नास्ति यत्किंचिद्ब्रह्मणो हि फलं महत् ब्रह्मणो हि फलं महदिति । समाप्तौ यजुषा तर्पयतीति । वेदपारायणे समाप्ते एता देवताः पूर्वोक्ता अग्निसोमाद्यायजुषा तर्पयति यजुर्वेदपारायणे तस्य वेदस्य प्राधान्यमुच्यते । अथवा भूरादिव्याहृतिचतुष्टयात्मकं यजुःशब्देन गृह्यते तेनैतदुक्तं भवति । भूर्देवांस्तर्पयामीत्यनेन प्रकारेण तर्पयित्वा अग्निसोमादींस्तर्पयेदिति ।

नास्यान्तरा जननमरणे अशुची इति । नाशुचिहेतुभूते इत्यर्थः । नान्तरा व्याहरेदिति। उपक्रान्तवेदपारायणमध्ये न व्याहरेन्नाध्यापयेत् तथा लौकिकवचनमपि न ब्रूयात् । विहितं नित्यनैमित्तिकं कर्मानुपयुक्त्वा वक्तिं न कुर्यादित्यर्थः । निशोनिशान्तरं संग्रामारण्यसलिलं लोप्य परिदध्यादिति लोप्य छित्त्वा परिहार्य वर्जयित्वेत्यर्थ इति यावत् । परिध्यात् समापयेत्। निशान्तरं निशीथः संध्या वा । सलिलं वृष्टिरुदकसमीपभूमिका वा । निशादिकालान्देशांश्च वर्जयित्वा समापयेदित्यर्थः । सततः पूतो वेदो भवतीति । वेदो भवति वेदात्मको भवति उत्कृष्टज्ञानवान्भवेदित्यर्थः । द्वाभ्यां पारायणाभ्यां ऋग्भिश्चेति । ऋग्भिः पावमानीभिः पारायणद्वयं पावमान्यश्च मिलित्वोक्तफलाय कल्प्येते इत्यर्थः । एवमुत्तरत्र पारायणत्रयं गङ्गास्नानं च मिलित्वा साधनम् । निमज्जंश्च भवति पूतो भवतीत्यर्थः । प्राजापत्यानाचरणं प्रक्रान्तप्राजापत्यानामननुष्ठानं एवं चान्द्रायणस्थानाचरणं । यज्ञोपवेधनं यज्ञविनाशः।

इत्यनश्नत्पारायणविधिः ॥


Top-10