CIVIL

अनुपलब्धि प्रमाणम्-वेदान्तपरिभाषा

अनुपलब्धिप्रमाणम्

इदानीं षष्ठं प्रमाणं निरूप्यते ।

ज्ञानकरणाजन्य-अभावानुभव-असाधारणकारणम् अनुपलब्धिरूपं प्रमाणम् ।

अनुमानादिजन्य-अतीन्द्रियाभावानुभवहेतौ अनुमानादावतिव्याप्तिवारणाय अजन्यान्तं पदम् । अदृष्टादौ साधारणकारणेऽतिव्याप्तिवारणायासाधारणेति । अभावस्मृत्यसाधारणहेतुसंस्कारेऽतिव्याप्तिवारणायानुभवेति विशेषणम् । न चातीन्द्रियाभावानुमितिस्थलेऽप्यनुपलब्ध्यैवाभावो गृह्यताम् , विशेषाभावादिति वाच्यम् । धर्माधर्माद्यनुपलब्धिसत्त्वेऽपि तदभावानिश्चयेन योग्यानुपलब्धेरेवाभावग्राहकत्वात् ।

ननु केयं योग्यानुपलब्धिः ? किं योग्यस्य प्रतियोगिनोऽनुपलब्धिः ? उत योग्येऽधिकरणे प्रतियोगिनोऽनुपलब्धिः ? नाद्यः, स्तम्भे पिशाचादिभेदस्याप्रत्यक्षत्वापत्तेः । नान्त्यः, आत्मनि धर्माद्यभावस्यापि प्रत्यक्षत्वापत्तेरिति चेत् न । “योग्या चासावनुपलब्धिश्चेति” कर्मधारयाश्रयणात् । अनुपलब्धेर्योग्यता च तर्कितप्रतियोगिसत्त्वप्रसञ्जितप्रतियोगिकत्वम् । यस्याभावो गृह्यते, तस्य यः प्रतियोगी, तस्य सत्त्वेन – अधिकरणे तर्कितेन, प्रसञ्जनयोग्यम् – अापादनयोग्यं प्रतियोग्युपलब्धिस्वरूपं यस्य अनुपलम्भस्य तत्त्वं – तदनुपलब्धेर्योग्यत्वमित्यर्थः । तथाहि – स्फीतालोकवति भूतले यदि घटः स्यात् , तदा घटोपलम्भः स्यादित्यापादनसम्भवात् , तादृशभूतले घटाभावोऽनुपलब्धिगम्यः । अन्धकारे तु तादृशापादनासम्भवान्नानुपलब्धिगम्यता । अत एव स्तम्भे तादात्म्येन पिशाचसत्त्वे स्तम्भवत् प्रत्यक्षत्वापत्त्या तदभावोऽनुपलब्धिगम्यः । आत्मनि धर्मादिसत्त्वेऽप्यस्यातीन्द्रियतया निरुक्तोपलम्भापादनासम्भवात् न धर्माद्यभावस्यानुपलब्धिगम्यत्वम् ।

ननूक्तरीत्याऽधिकरणेन्द्रियसन्निकर्षस्थले अभावस्यानुपलब्धिगम्यत्वं त्वदनुमतम् । तत्र क्लृप्तेन्द्रियमेवाभावाकारवृत्तावपि करणम् , इन्द्रियान्वयव्यतिरेकानुविधानादिति चेत् न । तत्प्रतियोग्यनुपलब्धेरप्यभावग्रहे हेतुत्वेन क्लृप्तत्वेन करणत्वमात्रस्य कल्पनात् । इन्द्रियस्य चाभावेन समं सन्निकर्षाभावेनाभावग्रहाहेतुत्वात् इन्द्रियान्वयव्यतिरेकयोः अधिकरणज्ञानाद्युपक्षीणत्वेन अन्यथासिद्धेः ।
ननु “भूतले घटो न” इत्याद्यभावानुभवस्थले भूतलांशे प्रत्यक्षत्वमुभयसिद्धमिति तत्र वृत्तिनिर्गमनस्यावश्यकत्वेन भूतलावच्छिन्नचैतन्यवत् तन्निष्ठघटाभावावच्छिन्नचैतन्यस्यापि प्रमात्रभिन्नतया घटाभावस्य प्रत्यक्षतैव सिद्धान्तेऽपि इति चेत् , सत्यम् । अभावप्रतीतेः प्रत्यक्षत्वेऽपि तत्कारणस्यानुपलब्धेर्मानान्तरत्वात् । न हि फलीभूतज्ञानस्य प्रत्यक्षत्वे तत्करणस्य प्रत्यक्षप्रमाणतानियतत्वमस्ति । ” दशमस्त्वमसि” इत्यादिवाक्यजन्यज्ञानस्य प्रत्यक्षत्वेऽपि तत्करणस्य वाक्यस्य प्रत्यक्षप्रमाणभिन्नप्रमाणत्वाभ्युपगमात् ।

फलवैजात्यं विना कथं प्रमाणभेद इति चेत् न । वृत्तिवैजात्यमात्रेण प्रमाणवैजात्योपपत्तेः । तथा च घटाद्यभावाकारवृत्तिर्नेन्द्रियजन्या, इन्द्रियस्य विषयेणासन्निकर्षात् , किन्तु घटाद्यनुपलब्धिरूपमानान्तरजन्येति भवत्यनुपलब्धेर्मानान्तरत्वम् ।
ननु अनुपलब्धिरूपमानान्तरपक्षेऽभावप्रतीतेः प्रत्यक्षत्वे घटवति घटाभावभ्रमस्यापि प्रत्यक्षत्वापत्तौ तत्राप्यनिर्वचनीयघटाभावोऽभ्युपगम्येत । न चेष्टापत्तिः, तस्य मायोपादानकत्वेऽभावत्वानुपपत्तेः । मायोपादानकत्वाभावे मायायाः सफलकार्योपादानत्वानुपपत्तिरिति चेत् न । घटवति घटाभावभ्रमो न तत्कालोत्पन्नघटाभावविषयकः, किन्तु भूतलरूपादौ विद्यमानो लौकिको घटाभावो भूतले आरोप्यते इत्यन्यथाख्यातिरेव, आरोप्यसन्निकर्षस्थले सर्वत्रान्यथाख्यातेरेव व्यवस्थापनात् ।

अस्तु वा प्रतियोगिमति तदभावभ्रमस्थले तदभावस्यानिर्वचनीयत्वम् , तथापि तदुपादानं मायैव । न ह्युपादानोपादेययोरत्यन्तसाजात्यम् , तन्तुपटयोरपि तन्तुत्वपटत्वादिना वैजात्यात् । यत्किञ्चित्साजात्यस्य मायाया अनिर्वचनीयघटाभावस्य च मिथ्यात्वधर्मस्य विद्यमानत्वात् । अन्यथा व्यावहारिकं घटाभावं प्रति कथं मायोपादानमिति कुतो नाशङ्केथाः । न च विजातीययोरप्युपादानोपादेयभावे ब्रह्मैव जगदुपादानं स्यादिति वाच्यम् प्रपञ्चविभ्रमाधिष्ठानत्वरूपस्य तस्येष्टत्वात् परिणामित्वरूपस्योपादानत्वस्य निरवयवे ब्रह्मण्यनुपपत्तेः । तथा च प्रपञ्चस्य परिणाम्युपादानं माया, न ब्रह्म इति सिद्धान्त इत्यलमतिप्रसङ्गेन ।
स चाभावश्चतुर्विधः प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्याभावश्चेति । तत्र मृत्पिण्डादौ कारणे कार्यस्य घटादेरुत्पत्तेः पूर्वं योऽभावः स प्रागभावः । स च भविष्यतीति प्रतीतिविषयः । तत्रैव घटस्य मुद्गरपातानन्तरं योऽभावः स प्रध्वंसाभावः । ध्वंसस्यापि स्वाधिकरणकपालनाशे नाश एव । न च घटोन्मज्जनापत्तिः, घटध्वंसध्वंसस्यापि घटप्रतियोगिकध्वंसत्वात् । अन्यथा प्रागभावध्वंसात्मकघटस्य विनाशे प्रागभावोन्मज्जनापत्तिः । न चैवमपि यत्र ध्वंसाधिकरणं नित्यं तत्र कथं ध्वंसनाश इति वाच्यम् । तादृशमधिकरणं यदि चैतन्यव्यतिरिक्तं तदा तस्य नित्यत्वमसिद्धम् , ब्रह्मव्यतिरिक्तस्य सर्वस्य ब्रह्मज्ञाननिवर्त्यताया वक्ष्यमाणत्वात् ।

यदि च ध्वंसाधिकरणं चैतन्यं, तदाऽसिद्धिः आरोपितप्रतियोगिकध्वंसस्याधिष्ठाने प्रतीयमानस्याधिष्ठानमात्रत्वात् । तदुक्तम् ” अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः” इति । एवं शुक्तिरूप्यविनाशोऽपीदमवच्छिन्नचैतन्यमेव ।
यत्राधिकरणे यस्य कालत्रयेऽप्यभावः सोऽत्यन्ताभावः । यथा वायौ रूपात्यन्ताभावः । सोऽपि वियदादिवत् ध्वंसप्रतियोग्येव । ‘इदमिदं न’ इति प्रतीतिविषयोऽन्योन्याभावः । अयमेव विभागो, भेदः, पृथक्त्वं चेति व्यवह्रियते, भेदातिरिक्तपृथक्त्वादौ प्रमाणाभावात् । अयं चान्योन्याभावोऽधिकरणस्य सादित्वे सादिः, यथा घटे पटभेदः । अधिकरणस्यानादित्वेऽनादिरेव, यथा जीवे ब्रह्मभेदः, ब्रह्मणि वा जीवभेदः । द्विविधोऽपि भेदो ध्वंसप्रतियोग्येव अविद्यानिवृत्तौ तत्परतन्त्राणां निवृत्त्यवश्यम्भावात् ।

पुनरपि भेदो द्विविधः सोपाधिको निरुपाधिकश्चेति । तत्रोपाधिसत्ताव्याप्यसत्ताकत्वं सोपाधिकत्वम् । तच्छून्यत्वं निरुपाधिकत्वम् । तत्राद्यो यथा एकस्यैवाकाशस्य घटाद्युपाधिभेदेन भेदः । यथा वा एकस्य सूर्यस्य जलभाजनभेदेन भेदः । तथा च ब्रह्मणोऽन्तःकरणभेदाद्भेदः । निरुपाधिकभेदो यथा घटे पटभेदः । न च ब्रह्मण्यपि प्रपञ्चभेदाभ्युपगमेऽद्वैतविरोधः, तात्त्विकभेदानभ्युपगमेन वियदादिवदद्वैताव्याघातकत्वात् । प्रपञ्चस्याद्वैते ब्रह्मणि कल्पितत्वाङ्गीकारात् । तदुक्तं सुरेश्वराचार्यैः- ” अक्षमा भवतः केयं साधकत्वप्रकल्पने । किं न पश्यसि संसारं तत्रैवाज्ञानकल्पितम् ॥” इति । अत एव विवरणेऽविद्यानुमाने प्रागभावव्यतिरिक्तत्वविशेषणम् , तत्त्वप्रदीपिकायामविद्यालक्षणे भावत्वविशेषणं च सङ्गच्छते । एवं चतुर्विधानामभावानां योग्यानुपलब्ध्या प्रतीतिः । तत्रानुपलब्धिर्मानान्तरम् ।

एवमुक्तानां प्रमाणानां प्रामाण्यं स्वत एवोत्पद्यते ज्ञायते च । तथा हि स्मृत्यनुभवसाधारणं संवादिप्रवृत्त्यनुकूलं तद्वति तत्प्रकारकज्ञानत्वं प्रामाण्यम् । तच्च ज्ञानसामान्यसामग्रीप्रयोज्यं, न त्वधिकं गुणमपेक्षते प्रमामात्रेऽनुगतगुणाभावात् । नापि प्रत्यक्षप्रमायां भूयोऽवयवेन्द्रियसन्निकर्षः, रूपादिप्रत्यक्षे आत्मप्रत्यक्षे च तदभावात् । सत्यपि तस्मिन् “पीतः शङ्खः” इति प्रत्यक्षस्य भ्रमत्वाच्च । अत एव न सल्लिङ्गपरामर्शादिकमप्यनुमित्यादिप्रमायां गुणः, असल्लिङ्गपरामर्शादिस्थलेऽपि विषयाबाधेनानुमित्यादेः प्रमात्वात् । न चैवमप्रमापि प्रमा स्यात् , ज्ञानसामान्यसामग्र्या अविशेषादिति वाच्यम् । दोषाभावस्यापि हेतुत्वाङ्गीकारात् । न चैवं परतस्त्वम् , आगन्तुकभावकारणापेक्षायामेव परतस्त्वात् ।

ज्ञायते च प्रामाण्यं स्वतः । स्वतो ग्राह्यत्वं च दोषाभावे सति यावत्स्वाश्रयग्राहकसामग्रीग्राह्यत्वम् । स्वाश्रयो वृत्तिज्ञानम् , तद्ग्राहकं साक्षिज्ञानम् । तेनापि वृत्तिज्ञाने गृह्यमाणे तद्गतं प्रामाण्यमपि गृह्यते । न चैवं प्रामाण्यसंशयानुपपत्तिः तत्र संशयानुरोधेन दोषस्यापि सत्त्वेन दोषाभावघटितस्वाश्रयग्राहकाभावेन तत्र प्रामाण्यस्यैवाग्रहात् । यद्वा, यावत्स्वाश्रयग्राहकग्राह्यत्वयोग्यत्वं स्वतस्त्वम् । संशयस्थले प्रामाण्यस्योक्तयोग्यतासत्त्वेऽपि दोषवशेनाग्रहात् न संशयानुपपत्तिः । अप्रामाण्यन्तु न ज्ञानसामान्यसामग्रीप्रयोज्यम् प्रमायामप्यप्रामाण्यापत्तेः, किन्तु दोषप्रयोज्यम् । नाप्यप्रामाण्यं यावत्स्वाश्रयग्राहकग्राह्यम् , अप्रामाण्यघटकतदभाववत्त्वादेर्वृत्तिज्ञानानुपनीतत्वेन साक्षिणा ग्रहीतुमशक्यत्वात् । किन्तु विसंवादिप्रवृत्त्यादिलिङ्गकानुमित्यादिविषय इति परत एवाप्रामाण्यमुत्पद्यते ज्ञायते च ।

इति वेदान्तपरिभाषायामनुपलब्धिपरिच्छेदः ।

Categories: CIVIL

Tagged as: