Sanskrit Documents

प्रत्यक्ष प्रमाणम्-वेदान्तपरिभाषा

प्रत्यक्षप्रमाणम्

यदविद्याविलासेन भूतभौतिकसृष्टयः ।
तं नौमि परमात्मानं सच्चिदानन्दविग्रहम् ॥१॥

यदन्तेवासिपञ्चास्यैर्निरस्ता भेदिवारणाः ।
तं प्रणौमि नृसिंहाख्यं यतीन्द्रं परमं गुरुम् ॥२॥
श्रीमद्वेङ्कटनाथाख्यान् वेलाङ्गुडिनिवासिनः ।
जगद्गुरूनहं वन्दे सर्वतन्त्रप्रवर्तकान् ॥३॥
येन चिन्तामणौ टीका दशटीकाविभञ्जिनी ।
तर्कचूडामणिर्नाम कृता विद्वन्मनोरमा ॥४॥
तेन बोधाय मन्दानां वेदान्तार्थावलम्बिनी ।
धर्मराजाध्वरीन्द्रेण परिभाषा वितन्यते ॥५॥

इह खलु धर्मार्थकाममोक्षाख्येषु चतुर्विधपुरुषार्थेषु मोक्ष एव परमपुरुषार्थः ।

” न स पुनरावर्तते” (शरभोपनिषत्) इत्यादिश्रुत्या तस्यैव नित्यत्वावगमात् । इतरेषां त्रयाणां प्रत्यक्षेण, ” तद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते”(छा.उ. ८.१.६) इत्यादिश्रुत्या च अनित्यत्वावगमाच्च । स च ब्रह्मज्ञानादिति, ब्रह्म, तज्ज्ञानं, तत्प्रमाणञ्च सप्रपञ्चं निरूप्यते ।

तत्र प्रमाकरणं प्रमाणम् ।

तत्र स्मृतिव्यावृत्तं प्रमात्वमनधिगताबाधितार्थविषयकज्ञानत्वम् । स्मृतिसाधारणन्तु अबाधितार्थविषयकज्ञानत्वम् । नीरूपस्यापि कालस्येन्द्रियवेद्यत्वाभ्युपगमेन, धारावाहिकबुद्धेरपि पूर्वपूर्वज्ञानाविषयतत्तत्क्षणविशेषविषयकत्वेन न तत्राव्याप्तिः । किञ्च सिद्धान्ते धारावाहिकबुद्धिस्थले न ज्ञानभेदः । किन्तु यावद्घटस्फुरणं तावद्घटाकारान्तःकरणवृत्तिरेकैव, न तु नाना । वृत्तेः स्वविरोधिवृत्युत्पत्तिपर्यन्तं स्थायित्वाभ्युपगमात् । तथा च तत्प्रतिफलितचैतन्यरूपं घटादिज्ञानमपि तत्र तावत्कालीनमेकमेव इति नाव्याप्तिशङ्कापि ।

ननु सिद्धान्ते घटादेर्मिथ्यात्वेन बाधितत्वात् कथं तज्ज्ञानं प्रमाणम् ? उच्यते । ब्रह्मसाक्षात्कारानन्तरं हि घटादीनां बाधः, “यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत्”(बृ.उ. २ । ४ । १४) इति श्रुतेः । न तु संसारदशायां बाधः, ” यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति”(बृ.उ. २.४.१४) इति श्रुतेः । तथा च अबाधितपदेन संसारदशायामबाधितत्वं विवक्षितम् । इति न घटादिप्रमायमव्याप्तिः । तदुक्तम् – ” देहात्मप्रत्ययो यद्वत् प्रमाणत्वेन कल्पितः । लौकिकं तद्वदेवेदं प्रमाणन्त्वाऽऽत्मनिश्चयात् ॥” इति । ‘आ आत्मनिश्चयात्’- ब्रह्मसाक्षात्कारपर्यन्तमित्यर्थः । ‘लौकिकम्’ इति घटादिज्ञानमित्यर्थः । तानि च प्रमाणानि षट् प्रत्यक्षानुमानोपमानागमार्थापत्त्यनुपलब्धिभेदात् ।

तत्र प्रत्यक्षप्रमायाः करणं प्रत्यक्षप्रमाणम् ।

प्रत्यक्षप्रमा चात्र चैतन्यमेव, ” यत् साक्षादपरोक्षाद् ब्रह्म”(बृ.उ. ३.४.१) इति श्रुतेः । अपरोक्षादित्यस्य अपरोक्षमित्यर्थः ।

ननु चैतन्यमनादि । तत्कथं चक्षुरादेस्तत्करणत्वेन प्रमाणत्वमिति । उच्यते । चैतन्यस्यानादित्वेऽपि तदभिव्यञ्जकान्तःकरणवृत्तिरिन्द्रियसन्निकर्षादिना जायते इति वृत्तिविशिष्टं चैतन्यमादिमदित्युच्यते । ज्ञानावच्छेदकत्वाच्च वृत्तौ ज्ञानत्वोपचारः । तदुक्तं विवरणे ” अन्तःकरणवृत्तौ ज्ञानत्वोपचारात्” ।
ननु निरवयवस्यान्तःकरणस्य परिणामात्मिका वृत्तिः कथम्? इत्थम् । न तावदन्तःकरणं निरवयवम् । सादिद्रव्यत्वेन सावयवत्वात् । सादित्वञ्च ” तन्मनोऽसृजत” इत्यादिश्रुतेः । वृत्तिरूपज्ञानस्य मनोधर्मत्वे च ” कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत् सर्वं मन एव”(बृ.उ. १.५.३) इति श्रुतिर्मानम् , धीशब्देन वृत्तिरूपज्ञानाभिधानात् । अत एव कामादेरपि मनोधर्मत्वम् ॥

ननु कामादेरन्तःकरणधर्मत्वे “अहमिच्छामि, अहं जानामि, अहं बिभेमि” इत्याद्यनुभव आत्मधर्मत्वमवगाहमानः कथमुपपद्यते ? उच्यते । अयःपिण्डस्य दग्धृत्वाभावेऽपि दग्धृत्वाश्रयवह्नितादात्म्याध्यासाद् यथा “अयो दहति” इति व्यवहारः, तथा सुखाद्याकारपरिणाम्यन्तःकरणैक्याध्यासात् “अहं सुखी, अहं दुःखी” इत्यादिव्यवहारः । ननु अन्तःकरणस्येन्द्रियतयाऽतीन्द्रियत्वात् कथं प्रत्यक्षविषयतेति । उच्यते । न तावदन्तःकरणमिन्द्रियमित्यत्र मानमस्ति । ” मनःषष्ठानीन्द्रियाणि”(भ.गी. १५.७) इति भगवद्गीतावचनं प्रमाणमिति चेत् न । अनिन्द्रियेणापि मनसा षट्त्वसंख्यापूरणाविरोधात् । नहीन्द्रियगतसंख्यापूरणमिन्द्रियेणैवेति नियमः । ” यजमानपञ्चमा इडां भक्षयन्ति” इत्यत्र ऋत्विग्गतपञ्चत्वसंख्याया अनृत्विजाऽपि यजमानेन, ” वेदानध्यापयामास महाभारतपञ्चमान्” इत्यादौ च वेदगतपञ्चत्वसंख्याया अवेदेनापि भारतेन पूरणदर्शनात् , “इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः”(क.उ. १.३.१०) इत्यादिश्रुत्या मनसोऽनिन्द्रियत्वावगमाच्च ।
न चैवं मनसोऽनिन्द्रियत्वे सुखादिप्रत्यक्षस्य साक्षात्त्वं न स्यात् , इन्द्रियाजन्यत्वादिति वाच्यम् । न हीन्द्रियजन्यत्वेन ज्ञानस्य साक्षात्त्वम् अनुमित्यादेरपि मनोजन्यतया साक्षात्त्वापत्तेः ईश्वरज्ञानस्यानिन्द्रियजन्यस्य साक्षात्त्वानापत्तेश्च ।

सिद्धान्ते प्रत्यक्षत्वप्रयोजकं किमिति चेत् , किं ज्ञानगतस्य प्रत्यक्षत्वस्य प्रयोजकं पृच्छसि ? किंवा विषयगतस्य ? आद्ये प्रमाणचैतन्यस्य विषयावच्छिन्नचैतन्याभेद इति ब्रूमः । तथाहि त्रिविधं चैतन्यम् – विषयचैतन्यं, प्रमाणचैतन्यं, प्रमातृचैतन्यं चेति । तत्र घटाद्यवच्छिन्नं चैतन्यं विषयचैतन्यम् , अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यं प्रमाणचैतन्यम् , अन्तःकरणावच्छिन्नं चैतन्यं प्रमातृचैतन्यम् ।

तत्र यथा तडागोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान् प्रविश्य तद्वदेव चतुष्कोणाद्याकारं भवति, तथा तैजसमन्तःकरणमपि चक्षुरादिद्वारा निर्गत्य घटादिविषयदेशं गत्वा घटादिविषयाकारेण परिणमते । स एव परिणामो वृत्तिरित्युच्यते । अनुमित्यादिस्थले तु अन्तःकरणस्य न वह्न्यादिदेशगमनम् , वह्न्यादेश्चक्षुराद्यसन्निकर्षात् । तथा च “अयं घटः” इत्यादिप्रत्यक्षस्थले घटादेस्तदाकारवृत्तेश्च बहिरेकत्र देशे समवधानात् तदुभयावच्छिन्नं चैतन्यमेकमेव, विभाजकयोरप्यन्तःकरणवृत्तिघटादिविषययोः एकदेशस्थत्वेन भेदाजनकत्वात् ।

अत एव मठान्तर्वर्तिघटावच्छिन्नाकाशो न मठावच्छिन्नाकाशाद्भिद्यते । तथा च “अयं घटः” इति घटप्रत्यक्षस्थले घटाकारवृत्तेर्घटसंयोगितया घटावच्छिन्नचैतन्यस्य तद्वृत्त्यवच्छिन्नचैतन्यस्य चाभिन्नतया तत्र घटज्ञानस्य घटांंशे प्रत्यक्षत्वम् । सुखाद्यवच्छिन्नचैतन्यस्य तद्वृत्त्यवच्छिन्नचैतन्यस्य च नियमेनैकदेशस्थितोपाधिद्वयावच्छिन्नत्वात् नियमेन “अहं सुखी” इत्यादिज्ञानस्य प्रत्यक्षत्वम् ।
नन्वेवं स्ववृत्तिसुखादिस्मरणस्यापि सुखाद्यंशे प्रत्यक्षत्वापत्तिरिति चेत् न । तत्र स्मर्यमाणसुखस्यातीतत्वेन स्मृतिरूपान्तःकरणवृत्तेर्वर्तमानत्वेन तत्रोपाध्योर्भिन्नकालीनतया तत्तदवच्छिन्नचैतन्ययोर्भेदात् । उपाध्योरेकदेशस्थत्वे सति एककालीनत्वस्यैवोपधेयाभेदप्रयोजकत्वात् । यदि चैकदेशस्थत्वमात्रमुपधेयाभेदप्रयोजकम् , तदा “अहं पूर्वं सुखी” इत्यादिस्मृतावतिव्याप्तिवारणाय वर्तमानत्वं विषयविशेषणं देयम् ।

नन्वेवमपि स्वकीयधर्माधर्मौ वर्तमानौ यदा शब्दादिना ज्ञायेते तदा तादृशशाब्दज्ञानादावतिव्याप्तिः, तत्र धर्माद्यवच्छिन्नतद्वृत्त्यवच्छिन्नचैतन्ययोरेकत्वादिति चेत् न । योग्यत्वस्यापि विषयविशेषणत्वात् । अन्तःकरणधर्मत्वाविशेषेऽपि किञ्चिद्योग्यं किञ्चिदयोग्यमित्यत्र फलबलकल्प्यः स्वभाव एव शरणम् । अन्यथा न्यायमतेऽप्यात्मधर्मत्वाविशेषात् सुखादिवत् धर्मादेरपि प्रत्यक्षत्वापत्तिर्दुर्वारा ।
न चैवमपि सुखस्य वर्तमानतादशायां “त्वं सुखी” इत्यादिवाक्यजन्यज्ञानस्य प्रत्यक्षता स्यादिति वाच्यम् इष्टत्वात् । “दशमस्त्वमसि” इत्यादौ सन्निकृष्टविषये शब्दादप्यपरोक्षज्ञानाभ्युपगमात् । अत एव “पर्वतो वह्निमान्” इत्यादिज्ञानमपि वह्न्यंशे परोक्षम् , पर्वतांशेऽपरोक्षम् , पर्वताद्यवच्छिन्नचैतन्यस्य बहिर्निःसृतान्तःकरणवृत्त्यवच्छिन्नचैतन्याभेदात् । वह्न्यंशे तु अन्तःकरणवृत्तिनिर्गमनाभावेन वह्न्यवच्छिन्नचैतन्यस्य प्रमाणचैतन्यस्य च परस्परं भेदात् । तथा चानुभवः “पर्वतं पश्यामि, वह्निमनुमिनोमि” इति । न्यायमते तु “पर्वतमनुमिनोमि” इत्यनुव्यवसायापत्तिः ।
असन्निकृष्टपक्षकानुमितौ तु सर्वांशेऽपि ज्ञानं परोक्षम् । “सुरभि चन्दनम्” इत्यादिज्ञानमपि चन्दनखण्डांशेऽपरोक्षम् सौरभांशे च परोक्षम् सौरभस्य चक्षुरिन्द्रियायोग्यतया योग्यत्वघटितस्य निरुक्तलक्षणस्याभावात् ।

न चैवमेकत्र ज्ञाने परोक्षत्वापरोक्षत्वयोरभ्युपगमे तयोर्जातित्वं न स्यादिति वाच्यम् , इष्टत्वात् । जातित्वोपाधित्वपरिभाषायाः सकलप्रमाणागोचरतयाऽप्रामाणिकत्वात् । “घटोऽयम्” इत्यादिप्रत्यक्षं हि घटत्वादिसद्भावे मानम् , न तु तस्य जातित्वेऽपि । जातित्वरूपसाध्याप्रसिद्धौ तत्साधकानुमानस्याप्यनवकाशात् । समवायासिद्ध्या ब्रह्मभिन्ननिखिलप्रपञ्चस्यानित्यतया च नित्यत्वसमवेतत्वघटितजातित्वस्य घटत्वादावसिद्धेश्च । एवमेवोपाधित्वं निरसनीयम् । “पर्वतो वह्निमान्” इत्यादौ च पर्वतांशे वह्न्यंशे चान्तःकरणवृत्तिभेदाङ्गीकारेण तत्तद्वृत्त्यवच्छेदकभेदेन परोक्षत्वापरोक्षत्वयोरेकत्र चैतन्ये वृत्तौ न कश्चित् विरोधः । तथा च ” तत्तदिन्द्रिययोग्यवर्तमानविषयावच्छिन्नचैतन्याभिन्नत्वं तत्तदाकारवृत्त्यवच्छिन्नज्ञानस्य तत्तदंशे प्रत्यक्षत्वम्” ।

घटादेर्विषयस्य प्रत्यक्षत्वन्तु प्रमात्रभिन्नत्वम् । ननु कथं घटादेरन्तःकरणावच्छिन्नचैतन्याभेदः “अहमिदं पश्यामि” इति भेदानुभवविरोधादिति चेत् उच्यते । प्रमात्रभेदो नाम न तावदैक्यम् किन्तु प्रमातृसत्तातिरिक्तसत्ताकत्वाभावः । तथा च घटादेः स्वावच्छिन्नचैतन्येऽध्यस्ततया विषयचैतन्यसत्तैव घटादिसत्ता, अधिष्ठानसत्तातिरिक्ताया आरोपितसत्ताया अनङ्गीकारात् । विषयचैतन्यं च पूर्वोक्तप्रकारेण प्रमातृचैतन्यमेवेति प्रमातृचैतन्यस्यैव घटाद्यधिष्ठानतया प्रमातृसत्तैव घटादिसत्ता नान्येति सिद्धं घटादेरपरोक्षत्वम् । अनुमित्यादिस्थले त्वन्तःकरणस्य वह्न्यादिदेशनिर्गमनाभावेन वह्न्यवच्छिन्नचैतन्यस्य प्रमातृचैतन्यानात्मकतया वह्न्यादिसत्ता प्रमातृसत्तातो भिन्ना इति नातिव्याप्तिः ।
नन्वेवमपि धर्माधर्मादिगोचरानुमित्यादिस्थले धर्माधर्मयोः प्रत्यक्षत्वापत्तिः । धर्माद्यवच्छिन्नचैतन्यस्य प्रमातृचैतन्याभिन्नतया, धर्मादिसत्तायाः प्रमातृसत्तानतिरेकादिति चेत् न, योग्यत्वस्यापि विषयविशेषणत्वात् ।

नन्वेवमपि “रूपी घटः” इति प्रत्यक्षस्थले घटगतपरिमाणादेः प्रत्यक्षत्वापत्तिः, रूपावच्छिन्नचैतन्यस्य परिमाणाद्यवच्छिन्नचैतन्यस्य चैकतया, रूपावच्छिन्नचैतन्यस्य प्रमातृचैतन्याभेदे परिमाणाद्यवच्छिन्नचैतन्यस्यापि प्रमात्रभिन्नतया परिमाणादिसत्तायाः प्रमातृसत्तातिरिक्त्तत्वाभावात् इति चेत् न । तत्तदाकारवृत्त्युपहितत्वस्यापि प्रमातृविशेषणत्वात् । रूपाकारवृत्तिदशायां परिमाणाद्याकारवृत्त्यभावेन अतिव्याप्त्यभावात् ।
नन्वेवं वृत्तावव्याप्तिः । अनवस्थाभिया वृत्तिगोचरवृत्त्यनङ्गीकारेण, तत्र स्वाकारवृत्त्युपहितत्वघटितोक्तलक्षणाभावात् इति चेत् न । अनवस्थाभिया वृत्तेर्वृत्त्यन्तराविषयत्वेऽपि स्वविषयत्वाभ्युपगमेन स्वविषयवृत्त्युपहितप्रमातृचैतन्याभिन्नसत्ताकत्वस्य तत्रापि भावात् ।
एवाञ्चान्तःकरणतद्धर्मादीनां केवलसाक्षिविषयत्वेऽपि तत्तदाकारवृत्त्यभ्युपगमेन उक्तलक्षणस्य तत्रापि सत्त्वान्नाव्याप्तिः । न चान्तःकरणतद्धर्मादीनां वृत्तिविषयत्वाभ्युपगमे केवलसाक्षिवेद्यत्वाभ्युपगमविरोध इति वाच्यम् । न हि वृत्तिं विना साक्षिविषयत्वं केवलसाक्षिवेद्यत्वम् , किन्त्विन्द्रियानुमानादिप्रमाणव्यापारमन्तरेण साक्षिविषयत्वम् ।

अत एवाहङ्कारटीकायामाचार्यैरहमाकारान्तःकरणवृत्तिरङ्गीकृता । अत एव च प्रातिभासिकरजतस्थले रजताकाराविद्यावृत्तिः साम्प्रदायिकैरङ्गीकृता । तथा चान्तःकरणतद्धर्मादिषु केवलसाक्षिवेद्येषु वृत्त्युपहितत्वघटितलक्षणस्य सत्त्वान्नाव्याप्तिः । तदयं निर्गलितार्थः ” स्वाकारवृत्त्युपहितप्रमातृचैतन्यसत्तातिरिक्तसत्ताकत्वशून्यत्वे सति योग्यत्वं विषयस्य प्रत्यक्षत्वम् ।” तत्र संयोगसंयुक्ततादात्म्यादीनां सन्निकार्षाणां चैतन्याभिव्यञ्जकवृत्तिजनने विनियोगः ।
सा च वृत्तिश्चतुर्विधा संशयो, निश्चयो, गर्वः, स्मरणमिति । एवंविधवृत्तिभेदेन एकमप्यन्तःकरणं मन इति, बुद्धिरिति, अहङ्कार इति, चित्तमिति चाख्यायते । तदुक्तम् – ” मनोबुद्धिरहङ्कारश्चित्तं करणमान्तरम् । संशयो निश्चयो गर्वः स्मरणं विषया इमे ॥”

तच्च प्रत्यक्षं द्विविधम् सविकल्पकनिर्विकल्पकभेदात् । तत्र सविकल्पकं वैशिष्ट्यावगाहि ज्ञानम् । यथा “घटमहं जानामि” इत्यादिज्ञानम् । निर्विकल्पकन्तु संसर्गानवगाहि ज्ञानम् । यथा “सोऽयं देवदत्तः”, ” तत्त्वमसि” इत्यादिवाक्यजन्यं ज्ञानम् ।

ननु शाब्दमिदं ज्ञानम् न प्रत्यक्षम् इन्द्रियाजन्यत्वात् इति चेत् न । नहि इन्द्रियजन्यत्वं प्रत्यक्षत्वे तन्त्रम् , दूषितत्वात् । किन्तु योग्यवर्तमानविषयकत्वे सति प्रमाणचैतन्यस्य विषयचैतन्याभिन्नत्वमित्युक्तम् । तथाच “सोऽयं देवदत्तः” इति वाक्यजन्यज्ञानस्य सन्निकृष्टविषयतया बहिर्निःसृतान्तःकरणवृत्त्यभ्युपगमेन देवदत्तावच्छिन्नचैतन्यस्य वृत्त्यवच्छिन्नचैतन्याभिन्नतया “सोऽयं देवदत्तः” इति वाक्यजन्यज्ञानस्य प्रत्यक्षत्वम् । एवं ” तत्त्वमसि” इत्यादिवाक्यजन्यज्ञानस्यापि । तत्र प्रमातुरेव विषयतया तदुभयाभेदस्य सत्त्वात् ।

ननु वाक्यजन्यज्ञानस्य पदार्थसंसर्गावगाहितया कथं निर्विकल्पकत्वम् ? उच्यते । वाक्यजन्यज्ञानविषयत्वे हि न पदार्थसंसर्गत्वं तन्त्रम् , अनभिमतसंसर्गस्यापि वाक्यजन्यज्ञानविषयत्वापत्तेः । किन्तु तात्पर्यविषयत्वम् । प्रकृते च ” सदेव सोम्येदमग्र आसीत्”(छा.उ. ६.२.१) इत्युपक्रम्य “तत् सत्यम् , स आत्मा, तत्त्वमसि श्वेतकेतो”(छा.उ. ६.१४.३) इत्युपसंहारेण विशुद्धे ब्रह्मणि वेदान्तानां तात्पर्यमवसितम् इति कथं तात्पर्याविषयं संसर्गमवबोधयेत् ? इदमेव ” तत्त्वमसि”(छा.उ. ६.८.७) इत्यादिवाक्यानामखण्डार्थत्वं यत् संसर्गानवगाहियथार्थज्ञानजनकत्वमिति । तदुक्तम्- ” संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम् । उक्ताखण्डार्थता यद्वा तत्प्रातिपदिकार्थता ॥” प्रातिपदिकार्थमात्रपरत्वं वाऽखण्डार्थत्वम् इति चतुर्थपादार्थः ।
तच्च प्रत्यक्षं पुनर्द्विविधम् , जीवसाक्षि ईश्वरसाक्षि चेति । तत्र जीवो नाम अन्तःकरणावच्छिन्नं चैतन्यम् तत्साक्षी तु अन्तःकरणोपहितं चैतन्यम् । अन्तःकरणस्य विशेषणत्वोपाधित्वाभ्यामनयोर्भेदः । विशेषणञ्च कार्यान्वयि वर्तमानं व्यावर्तकम् । उपाधिश्च कार्यानन्वयी व्यावर्तको वर्तमानश्च । “रूपविशिष्टो घटोऽनित्यः” इत्यत्र रूपं विशेषणम् , “कर्णशष्कुल्यवच्छिन्नं नभः श्रोत्रम्” इत्यत्र कर्णशष्कुल्युपाधिः । अयमेवोपाधिर्नैयायिकैः परिचायक इत्युच्यते । प्रकृते चान्तःकरणस्य जडतया विषयभासकत्वायोगेन विषयभासकचैतन्योपाधित्वम् । अयञ्च जीवसाक्षी प्रत्यात्मं नाना एकत्वे चैत्रावगते मैत्रस्याप्यनुसन्धानप्रसङ्गः ।

ईश्वरसाक्षी तु मायोपहितं चैतन्यम् । तच्चैकम् तदुपाधिभूतमायाया एकत्वात् । ” इन्द्रो मायाभिः पुरुरूप ईयते”(बृ.उ. २.५.१९) इत्यादिश्रुतौ मायाभिरिति बहुवचनस्य मायागतशक्तिविशेषाभिप्रायतया, मायागतसत्त्वरजस्तमोरूपगुणाभिप्रायतया वोपपत्तिः । “मायान्तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । (श्वे.उ. ४.१०.) तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते । योगी मायाममेयाय तस्मै विद्यात्मने नमः ॥ अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥”(श्वे.उ. ४.५.) इत्यादि श्रुतिस्मृतिषु एकवचनेन लाघवानुगृहीतेन मायाया एकत्वं निश्चीयते । ततश्च तदुपहितं चैतन्यम् ईश्वरसाक्षी । तच्चानादि, तदुपाधेर्मायाया अनादित्वात् । मायावच्छिन्नं चैतन्यं च परमेश्वरः । मायाया विशेषणत्वे ईश्वरत्वम् , उपाधित्वे साक्षित्वं इतीश्वरत्वसाक्षित्वयोर्भेदः, न तु धर्मिणोरीश्वरतत्साक्षिणोः । स च परमेश्वर एकोऽपि स्वोपाधिभूतमायानिष्ठसत्त्वरजस्तमोगुणभेदेन ब्रह्मविष्णुमहेश्वरादिशब्दवाच्यतां भजते ।

ननु ईश्वरसाक्षिणोऽनादित्वे ” तदैक्षत, बहुस्यां प्रजायेय”(छा.उ. ६.२.३) इत्यादौ सृष्टिपूर्वसमये परमेश्वरस्यागन्तुकमीक्षणमुच्यमानं कथमुपपद्यते ? उच्यते । यथा विषयेन्द्रियसन्निकर्षादिकारणवशेन जीवोपाध्यन्तःकरणस्य वृत्तिभेदा जायन्ते, तथा सृज्यमानप्राणिकर्मवशेन परमेश्वरोपाधिभूतमायाया वृत्तिविशेषाः “इदमिदानीं स्रष्टव्यम्”, “इदमिदानीं पालयितव्यम्” , “इदमिदानीं संहर्तव्यम्” इत्याद्याकारा जायन्ते । तासां च वृत्तीनां सादित्वात्तत्प्रतिबिम्बितचैतन्यमपि सादीत्युच्यते । एवं साक्षिद्वैविध्येन प्रत्यक्षज्ञानद्वैविध्यम् ।

प्रत्यक्षत्वं च ज्ञेयगतं, ज्ञप्तिगतं च निरूपितम् । तत्र ज्ञप्तिगतप्रत्यक्षत्वस्य सामान्यलक्षणं चित्त्वमेव । “पर्वतो वह्निमान्” इत्यादावपि वह्न्याद्याकारवृत्त्युपहितचैतन्यस्य स्वात्मांशे स्वप्रकाशतया प्रत्यक्षत्वात् । तत्तद्विषयांशे प्रत्यक्षत्वन्तु पूर्वोक्तमेव । तस्य च भ्रान्तिरूपप्रत्यक्षे नातिव्याप्तिः, भ्रमप्रमासाधारणप्रत्यक्षत्वसामान्यनिर्वचनेन तस्यापि लक्ष्यत्वात् । यदा तु प्रत्यक्षप्रमाया एव लक्षणं वक्तव्यं तदा पूर्वोक्तलक्षणेऽबाधितत्वं विषयविशेषणं देयम् । शुक्तिरूप्यादिभ्रमस्य संसारकालीनबाधविषयप्रातिभासिकरजतादिविषयकत्वेनोक्तलक्षणाभावात् नातिव्याप्तिः ।
ननु विसंवादिप्रवृत्त्या भ्रान्तिज्ञानसिद्धावपि तस्य प्रातिभासिकतत्कालोत्पन्नरजतादिविषयकत्वे न प्रमाणम् , देशान्तरीयरजतस्य क्लृप्तस्यैव तद्विषयत्वसम्भवादिति चेन्न । तस्यासन्निकृष्टतया प्रत्यक्षविषयत्वायोगात् । न च ज्ञानं तत्र प्रत्यासत्तिः, ज्ञानस्य प्रत्यासत्तित्वे, तत एव वह्न्यादेः प्रत्यक्षत्वापत्तौ अनुमानाद्युच्छेदापत्तेः ।

ननु रजतोत्पादकानां रजतावयवादीनामभावे शुक्तौ कथं तवापि रजतमुत्पद्यते इति चेत् उच्यते । न हि लोकसिद्धसामग्री प्रातिभासिकरजतोत्पादिका किन्तु विलक्षणैव । तथा हि- काचादिदोषदूषितलोचनस्य पुरोवर्तिद्रव्यसंयोगादिदमाकारा, चाकचिक्याकारा च काचिदन्तःकरणवृत्तिरुदेति । तस्यां च वृत्तौ इदमवच्छिन्नचैतन्यं प्रतिबिम्बते । तत्र पूर्वोक्तरीत्या वृत्तेर्निर्गमनेन इदमवच्छिन्नचैतन्यं, वृत्त्यवच्छिन्नचैतन्यं, प्रमातृचैतन्यं चाभिन्नं भवति । ततश्च प्रमातृचैतन्याभिन्नविषयचैतन्यनिष्ठा शुक्तित्वप्रकारिकाऽविद्या, चाकचिक्यादिसादृश्यसन्दर्शनसमुद्बोधितरजतसंस्कारसध्रीचीना, काचादिदोषसमवहिता रजतरूपार्थाकारेण रजतज्ञानाभासाकारेण च परिणमते ।
परिणामो नाम उपादानसमसत्ताककार्यापत्तिः । विवर्तो नाम उपादानविषमसत्ताककार्यापत्तिः । प्रातिभासिकरजतञ्चाविद्यापेक्षया परिणाम इति चैतन्यापेक्षया विवर्त इति चोच्यते । अविद्यापरिणामरूपञ्च तद्रजतमविद्याधिष्ठाने इदमवच्छिन्नचैतन्ये वर्तते । अस्मन्मते सर्वस्यापि कार्यस्य स्वोपादानाविद्याधिष्ठानाश्रितत्वनियमात् ।

ननु चैतन्यनिष्ठरजतस्य कथमिदं रजतमितिपुरोवर्तिना तादात्म्यम् । उच्यते यथा न्यायमते आत्मनिष्ठस्य सुखादेः शरीरनिष्ठत्वेनोपलम्भः, शरीरस्य सुखाद्यधिकरणतावच्छेदकत्वात् , तथा चैतन्यमात्रस्य रजतं प्रत्यनधिष्ठानतया इदमवच्छिन्नचैतन्यस्य तदधिष्ठानत्वेन इदमोऽवच्छेदकतया रजतस्य पुरोवर्तिसंसर्गप्रत्यय उपपद्यते । तस्य च विषयचैतन्यस्य तदन्तःकरणोपहितचैतन्याभिन्नतया विषयचैतन्येऽध्यस्तमपि रजतं साक्षिण्यध्यस्तं केवलसाक्षिवेद्यं सुखादिवदनन्यवेद्यमिति चोच्यते । ननु साक्षिण्यध्यस्तत्वे “अहं रजतम्” इति “तद्वान्” इति वा प्रत्ययः स्यात् , “अहं सुखी” इतिवत् इति चेत् उच्यते । न हि सुखादीनामन्तःकरणावच्छिन्नचैतन्यनिष्ठाविद्याकार्यत्वप्रयुक्तम् “अहं सुखी” इति ज्ञानम् , सुखादीनां घटादिवच्छुद्धचैतन्य एवाध्यासात् । किन्तु यस्य यदाकारानुभवाहितसंस्कारसहकृताविद्याकार्यत्वं तस्य तदाकारानुभवविषयत्वम् इत्येवानुगतं नियामकम् । तथा च इदमाकारानुभवाहितसंस्कारसहिताविद्याकार्यत्वाद् घटादेरिदमाकारानुभवविषयत्वम् ,

अहमाकारानुभवाहितसंस्कारसहकृताविद्याकार्यत्वादन्तःकरणादेरहमाकारानुभवविषयत्वम् , शरीरेन्द्रियादेरुभयविधानुभवसंस्कारसहिताविद्याकार्यत्वादुभयविधानुभवविषयत्वम् । तथा चोभयविधानुभवः इदं शरीरम् , अहं मनुष्यः, अहं ब्राह्मणः, इदं चक्षुः, अहं काणः, इदं श्रोत्रम्, अहं बधिर, इति । प्रकृते प्रातिभासिकरजतस्य प्रमातृचैतन्याभिन्नेदमवच्छिन्नचैतन्यनिष्ठाविद्याकार्यत्वेऽपि इदं रजतमिति सत्यस्थलीयेदमाकारानुभवाहितसंस्कारजन्यत्वादिदमाकारानुभवविषयता न तु “अहं रजतम्” इत्यहमाकारानुभवविषयता इत्यनुसन्धेयम् ।

नन्वेवमपि मिथ्यारजतस्य साक्षात् साक्षिसम्बन्धितया भानसम्भवे रजतगोचरज्ञानाभासरूपाया अविद्यावृत्तेरभ्युपगमः किमर्थमिति चेत् उच्यते । स्वगोचरवृत्त्युपहितप्रमातृचैतन्यभिन्नसत्ताकत्वाभावस्य विषयापरोक्षत्वरूपतया रजतस्यापरोक्षत्वसिद्धये तदभ्युपगमात् । नन्विदंवृत्ते रजताकारवृत्तेश्च प्रत्येकमेकैकविषयत्वे गुरुमतवद्विशिष्टज्ञानानभ्युपगमे कुतो भ्रमज्ञानसिद्धिरिति चेत् न । वृत्तिद्वयप्रतिबिम्बितचैतन्यस्यैकस्य सत्यमिथ्यावस्तुतादात्म्यावगाहित्वेन भ्रमत्वस्वीकारात् । अत एव साक्षिज्ञानस्य सत्यासत्यविषयतया प्रामाण्यानियमादप्रामाण्योक्तिः साम्प्रदायिकानाम् ।
ननु सिद्धान्ते देशान्तरीयरजतमप्यविद्याकार्यमध्यस्तञ्चेति कथं शुक्तिरूप्यस्य ततो वैलक्षण्यम् इति चेत् न । त्वन्मते सत्यत्वाविशेषेऽपि केषाञ्चित् क्षणिकत्वं केषाञ्चित् स्थायित्वम् इत्यत्र यदेव नियामकं तदेव स्वभावविशेषादिकं ममापि । यद्वा घटाद्यध्यासे अविद्यैव दोषत्वेन हेतुः । शुक्तिरूप्याद्यध्यासे तु काचादयोऽपि दोषाः । तथा चागन्तुकदोषजन्यत्वं प्रातिभासिकत्वे प्रयोजकम् । अत एव स्वप्नोपलब्धरथादीनामागन्तुकनिद्रादोषजन्यत्वात् प्रातिभासिकत्वम् ।

ननु स्वप्नस्थले पूर्वानुभूतरथादेः स्मरणमात्रेणैव व्यवहारोपपत्तौ न रथादिसृष्टिकल्पनम् , गौरवात् इति चेत् न । रथादेः स्मृतिमात्राभ्युपगमे “रथं पश्यामि”, “स्वप्ने रथमद्राक्षम्” इत्याद्यनुभवविरोधापत्तेः । ” अथ रथान् रथयोगान् पथः सृजते”(बृ.उ. ४.३.१०) इति रथादिसृष्टिप्रतिपादकश्रुतिविरोधापत्तेश्च । तस्मात् शुक्तिरूप्यवत् स्वप्नोपलब्धरथादयोऽपि प्रातिभासिका यावत्प्रतिभासमवतिष्ठन्ते ।

ननु स्वप्ने रथाद्यधिष्ठानतयोपलभ्यमानदेशविशेषस्यापि तदाऽसन्निकृष्टतया अनिर्वचनीयप्रातिभासिकदेशोऽभ्युपगन्यव्यः । तथा च रथाद्यध्यासः कुत्र इति चेत् न । चैतन्यस्य स्वयंप्रकाशस्य रथाद्यधिष्ठानत्वात् । प्रतीयमानं रथाद्यस्तीत्येव प्रतीयते इति सद्रूपेण प्रकाशमानं चैतन्यमेवाधिष्ठानम् । देशविशेषोऽपि चिदध्यस्तः प्रातिभासिकः, रथादाविन्द्रियग्राह्यत्वमपि प्रातिभासिकम् , तदा सर्वेन्द्रियाणामुपरमात् । “अहं रथः” इत्यादिप्रतीत्यापादनन्तु पूर्ववन्निरसनीयम् । स्वप्नरथादयः साक्षान्मायापरिणामा इति केचित् । अन्तःकरणद्वारा तत्परिणामा इत्यन्ये ।

ननु रथादेः शुद्धचैतन्याध्यस्तत्वे इदानीं तत्साक्षात्काराभावेन जागरणेऽपि स्वप्नोपलब्धरथादयोऽनुवर्तेरन् । उच्यते । कार्यविनाशो हि द्विविधः । कश्चिदुपादानेन सह, कश्चित्तु विद्यमान एवोपादाने । आद्यो बाधः, द्वितीयस्तु निवृत्तिः । आद्यस्य कारणमधिष्ठानतत्त्वसाक्षात्कारः । तेन विनोपादानभूताया अविद्याया अनिवृत्तेः । द्वितीयस्य कारणं विरोधिवृत्त्युत्पत्तिर्दोषनिवृत्तिर्वा । तदिह ब्रह्मसाक्षात्काराभावात् स्वप्नप्रपञ्चो मा बाधिष्ट, मुसलप्रहारेण घटादेरिव विरोधिप्रत्ययान्तरोदयेन स्वजनकीभूतनिद्रादिदोषनाशेन वा रथादिनिवृत्तौ को विरोधः ?

एवं च शुक्तिरूप्यस्य शुक्त्यवच्छिन्नचैतन्यनिष्ठतूलाविद्याकार्यत्वपक्षे शुक्तिरितिज्ञानेन तदज्ञानेन सह रजतस्य बाधः । मूलाविद्याकार्यत्वपक्षे तु मूलाविद्याया ब्रह्मसाक्षात्कारमात्रनिवर्त्यतया शुक्तितत्त्वज्ञानेनानिवर्त्यतया तत्र शुक्तिज्ञानान्निवृत्तिमात्रम् मुसलप्रहारेण घटस्येव ।
ननु शुक्तौ रजतस्य प्रतिभाससमये सत्ताभ्युपगमे “नेदं रजतम्” इति त्रैकालिकनिषेधज्ञानं न स्यात् । किन्तु “इदानीमिदं न रजतम्” इति स्यात् , “इदानीं घटः श्यामो न” इतिवत् इति चेत् न । नहि तत्र रजतत्वावच्छिन्नप्रतियोगिताकाभावो निषेधधीविषयः । किन्तु लौकिकपारमार्थिकत्वावच्छिन्नप्रातिभासिकरजतप्रतियोगिताकः व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावाभ्युपगमात् ।
ननु प्रातिभासिके रजते पारमार्थिकत्वमवगतं न वा ।

अनवगमे प्रतियोगितावच्छेदकावच्छिन्नरजतसत्त्वज्ञानाभावादभावप्रत्यक्षानुपपत्तिः । अवगमेऽपरोक्षावभासस्य तत्कालीनविषयसत्तानियतत्वाद् रजते पारमार्थिकत्वमप्यनिर्वचनीयं रजतवदेवोत्पन्नमिति तदवच्छिन्नरजतसत्त्वे तदवच्छिन्नाभावस्तत्र कथं वर्तत इति चेत् न । पारमार्थिकत्वस्याधिष्ठाननिष्ठस्य रजते प्रतिभाससम्भवेन रजतनिष्ठपारमार्थिकत्वोत्पत्त्यनभ्युपगमात् । यत्रारोप्यमसन्निकृष्टं तत्रैव प्रातिभासिकवस्तूत्पत्तेरङ्गीकारात् । अत एव इन्द्रियसन्निकृष्टतया जपाकुसुमगतलौहित्यस्य स्फटिके भानसम्भवात् न स्फटिकेऽनिर्वचनीयलौहित्योत्पत्तिः । नन्वेवं यत्र जपाकुसुमं द्रव्यान्तरव्यवधानादसन्निकृष्टं तत्र लौहित्यप्रतीत्या प्रातिभासिकं लौहित्यं स्वीक्रियतामिति चेत् न, इष्टत्वात् । एवं प्रत्यक्षभ्रमान्तरेष्वपि प्रत्यक्षसामान्यलक्षणानुगमो यथार्थप्रत्यक्षलक्षणासद्भावश्च दर्शनीयः ।
उक्तं प्रत्यक्षं प्रकारान्तरेण द्विविधम् इन्द्रियजन्यं तदजन्यं चेति । तत्रेन्द्रियाजन्यं सुखादिप्रत्यक्षम् , मनस इन्द्रियत्वनिराकरणात् । इन्द्रियाणि पञ्च घ्राणरसनचक्षुःश्रोत्रत्वगात्मकानि । सर्वाणि चेन्द्रियाणि स्वस्वविषयसंयुक्तान्येव प्रत्यक्षज्ञानं जनयन्ति । तत्र घ्राणरसनत्वगिन्द्रियाणि स्वस्थानस्थितान्येव गन्धरसस्पर्शोपलम्भान् जनयन्ति । चक्षुःश्रोत्रे तु स्वत एव विषयदेशं गत्वा स्वस्वविषयं गृह्णीतः, श्रोत्रस्यापि चक्षुरादिवत् परिच्छिन्नतया भेर्यादिदेशगमनसम्भवात् । अत एवानुभवो “भेरीशब्दो मया श्रुतः” इति । वीचितरङ्गादिन्यायेन कर्णशष्कुलीप्रदेशेऽनन्तशब्दोत्पत्तिकल्पनायां गौरवम् । “भेरीशब्दो मया श्रुतः” इति प्रत्यक्षस्य भ्रमत्वकल्पनायां गौरवं च स्यात् । तदेवं व्याख्यातं प्रत्यक्षम् ।

इति वेदान्तपरिभषायां प्रत्यक्षपरिच्छेदः ।

Categories: Sanskrit Documents

Tagged as: ,