CIVIL

अर्थापत्ति प्रमाणम्-वेदान्तपरिभाषा

अर्थापत्तिप्रमाणम्

इदानीमर्थापत्तिर्निरूप्यते ।

तत्रोपपाद्यज्ञानेनोपपादककल्पनमर्थापत्तिः ।

तत्रोपपाद्यज्ञानं करणम् , उपपादकज्ञानं फलम् । येन विना यदनुपपन्नं तत् तत्रोपपाद्यम् । यस्याभावे यस्यानुपपत्तिः तत् तत्रोपपादकम् । यथा रात्रिभोजनेन विना दिवाऽभुञ्जानस्य पीनत्वमनुपपन्नम् इति तादृशं पीनत्वमुपपाद्यम् । यथा वा रात्रिभोजनस्याभावे तादृशपीनत्वस्यानुपपत्तिः इति रात्रिभोजनमुपपादकम् ।
रात्रिभोजनकल्पनारूपायां प्रमितौ “अर्थस्य आपत्तिः – कल्पना” इति षष्ठीसमासेन अर्थापत्तिशब्दो वर्तते । कल्पनाकरणे पीनत्वादिज्ञाने तु “अर्थस्य आपत्तिः – कल्पना यस्मात्” इति बहुव्रीहिसमासेन वर्तते, इति फलकरणयोरुभयोस्तत्पदप्रयोगः ।


सा चार्थापत्तिर्द्विविधा, दृष्टार्थापत्तिः श्रुतार्थापत्तिश्चेति ।

तत्र दृष्टार्थापत्तिर्यथा “इदं रजतम्” इति पुरोवर्तिनि प्रतिपन्नस्य रजतस्य “नेदं रजतम्” इति तत्रैव निषिध्यमानत्वं सत्यत्वेऽनुपपन्नम् इति रजतस्य सद्भिन्नत्वं सत्यत्वात्यन्ताभाववत्त्वं वा मिथ्यात्वं कल्पयति । श्रुतार्थापत्तिर्यथा यत्र श्रूयमाणवाक्यस्य स्वार्थानुपपत्तिमुखेन अर्थान्तरकल्पनम् । यथा ” तरति शोकमात्मवित्”(छा.उ. ७.१.३) इत्यत्र श्रुतस्य शोकशब्दवाच्यबन्धजातस्य ज्ञाननिवर्त्यत्वस्यान्यथानुपपत्या बन्धस्य मिथ्यात्वं कल्प्यते । यथा वा “जीवी देवदत्तो गृहे न” इति वाक्यश्रवणानन्तरं जीविनो गृहासत्त्वं बहिःसत्त्वं कल्पयति ।

श्रुतार्थापत्तिश्च द्विविधा, अभिधानानुपपत्तिः अभिहितानुपपत्तिश्च ।

तत्र, यत्र वाक्यैकदेशश्रवणेऽन्वयाभिधानानुपपत्त्या अन्वयाभिधानोपयोगि पदान्तरं कल्प्यते तत्राभिधानानुपपत्तिः । यथा ‘द्वारम्’ इत्यत्र ‘पिधेहि’ इति पदाध्याहारः यथा वा ” विश्वजिता यजेत” इत्यत्र स्वर्गकामपदाध्याहारः । ननु ‘द्वारम्’ इत्यादावन्वयाभिधानात्पूर्वम् इदमन्वयाभिधानं पिधानोपस्थापकपदं विनाऽनुपपन्नमिति कथं ज्ञानमिति चेत् न । अभिधानपदेन करणव्युत्पत्या तात्पर्यस्य विवक्षितत्वात् । तथा च द्वारकर्मकपिधानक्रियासंसर्गपरत्वं पिधानोपस्थापकपदं विनाऽनुपपन्नमिति ज्ञानं तत्रापि सम्भाव्यते ।
अभिहितानुपपत्तिस्तु यत्र वाक्यावगतोऽर्थोऽनुपपन्नत्वेन ज्ञातः सन्नर्थान्तरं कल्पयति तत्र द्रष्टव्या । तथा ” स्वर्गकामो ज्योतिष्टोमेन यजेत” इत्यत्र स्वर्गसाधनत्वस्य क्षणिकयागगततयाऽवगतस्यानुपपत्त्या मध्यवर्त्यपूर्वं कल्प्यते । न चेयमर्थापत्तिरनुमानेऽन्तर्भवितुमर्हति अन्वयव्याप्त्यज्ञानेनान्वयिन्यनन्तर्भावात् । व्यतिरेकिणश्चानुमानत्वं प्रागेव निरस्तम् । अत एवार्थापत्तिस्थले ‘अनुमिनोमि’ इति नानुव्यवसायः । किन्तु “अनेन इदं कल्पयामि” इति ।

ननु अर्थापत्तिस्थले “इदमनेन विनाऽनुपपन्नमिति ज्ञानं करणम्” इत्युक्तम् । तत्र किमिदं “तेन विनाऽनुपपन्नत्वम्”? तदभावव्यपकाभावप्रतियोगित्वमिति ब्रूमः । एवमर्थापत्तेर्मानान्तरत्वसिद्धौ व्यतिरेकि नानुमानान्तरम् , “पृथिवीतरेभ्यो भिद्यते” इत्यादौ गन्धवत्त्वमितरभेदं विनाऽनुपपन्नमित्यादिज्ञानस्य करणत्वात् । अत एवानुव्यवसायः “पृथिव्यामितरभेदं कल्पयामि” इति ।
इति वेदान्तपरिभाषायामर्थापत्तिपरिच्छेदः ।

Categories: CIVIL

Tagged as: