CIVIL

अनुमान प्रमाणम्-वेदान्तपरिभाषा

अनुमानप्रमाणम्

अथानुमानं निरूप्यते ।

अनुमितिकरणमनुमानम् ।

अनुमितिश्च व्याप्तिज्ञानत्वेन व्याप्तिज्ञानजन्या । व्याप्तिज्ञानानुव्यवसायादेस्तत्त्वेन तज्जन्यत्वाभावान्नानुमितित्वम् ।

अनुमितिकरणं च व्याप्तिज्ञानम् । तत्संस्कारोऽवान्तरव्यापारः । न तु तृतीयलिङ्गपरामर्शोऽनुमितौ करणम् , तस्यानुमितिहेतुत्वासिद्ध्या तत्करणत्वस्य दूरनिरस्तत्वात् । न च संस्कारजन्यत्वेनानुमितेः स्मृतित्वापत्तिः । स्मृतिप्रागभावजन्यत्वस्य संस्कारमात्रजन्यत्वस्य वा स्मृतित्वप्रयोजकतया संस्कारध्वंससाधारणसंस्कारजन्यत्वस्य तदप्रयोजकत्वात् ।

न च यत्र व्याप्तिस्मरणादनुमितिस्तत्र कथं संस्कारो हेतुरिति वाच्यम् । व्याप्तिस्मृतिस्थलेऽपि तत्संस्कारस्यैवानुमितिहेतुत्वात् । नहि स्मृतेः संस्कारनाशकत्वनियमः स्मृतिधारादर्शनात् । न चानुद्बुद्धसंस्कारादप्यनुमित्यापत्तिः, तदुद्बोधस्यापि सहकारित्वात् । एवं च “अयं धूमवान्” इति पक्षधर्मताज्ञानेन “धूमो वह्निव्याप्यः” इत्यनुभवाहितसंस्कारोद्बोधे च सति “वह्निमान्” इत्यनुमितिर्भवति । न तु मध्ये व्याप्तिस्मरणं, तज्जन्यं “वह्निव्याप्यधूमवानयम्” इत्यादिविशिष्टज्ञानं वा हेतुत्वेन कल्पनीयम् गौरवान्मानाभावाच्च । तच्च व्याप्तिज्ञानं वह्निविषयकज्ञानांश एव करणम् , न तु पर्वतविषयकज्ञानांश इति “पर्वतो वह्निमान्” इति ज्ञानस्य वह्न्यंश एव अनुमितित्वम् न पर्वतांशे, तदंशे प्रत्यक्षत्वस्योपपादितत्वात् ।
व्याप्तिश्चाशेषसाधनाश्रयाश्रितसाध्यसामानाधिकरण्यरूपा । सा च व्यभिचारादर्शने सति सहचारदर्शनेन गृह्यते ।

तच्च सहचारदर्शनं भूयोदर्शनं सकृद्दर्शनं वेति विशेषो नादरणीयः, सहचारदर्शनस्यैव प्रयोजकत्वात् ।
तच्चानुमानमन्वयिरूपमेकमेव । न तु केवलान्वयि, सर्वस्यापि धर्मस्यास्मन्मते ब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वेन अत्यन्ताभावाप्रतियोगिसाध्यकत्वरूपकेवलान्वयित्वस्यासिद्धेः । नाप्यनुमानस्य व्यतिरेकिरूपत्वम् साध्याभावे साधनाभावनिरूपितव्याप्तिज्ञानस्य साधनेन साध्यानुमितावनुपयोगात् । कथं तर्हि धूमादावन्वयव्याप्तिमविदुषोऽपि व्यतिरेकव्याप्तिज्ञानादनुमितिः । अर्थापत्तिप्रमाणादिति वक्ष्यामः । अत एवानुमानस्य नान्वयव्यतिरेकिरूपत्वम् , व्यतिरेकव्याप्तिज्ञानस्य अनुमित्यहेतुत्वात् ।

तच्चानुमानं स्वार्थपरार्थभेदेन द्विविधम् । तत्र स्वार्थन्तूक्तमेव । परार्थन्तु न्यायसाध्यम् । न्यायो नामावयवसमुदायः । अवयवाश्च त्रय एव प्रतिज्ञाहेतूदाहरणरूपाः उदाहरणोपनयनिगमनरूपा वा । न तु पञ्च अवयवत्रयेणैव व्याप्तिपक्षधर्मतयोरुपदर्शनसम्भवेनाधिकावयवद्वयस्य व्यर्थत्वात् ।

एवमनुमाने निरूपिते तस्माद् ब्रह्मभिन्ननिखिलप्रपञ्चस्य मिथ्यात्वसिद्धिः । तथाहि – ब्रह्मभिन्नं सर्वं मिथ्या, ब्रह्मभिन्नत्वात् , यदेवं तदेवम् , यथा शुक्तिरूप्यम् । न च दृष्टान्तासिद्धिः तस्य साधितत्वात् । न चाप्रयोजकत्वम् शुक्तिरूप्यरज्जुसर्पादीनां मिथ्यात्वे ब्रह्मभिन्नत्वस्यैव लाघवेन प्रयोजकत्वात् । मिथ्यात्वं च स्वाश्रयत्वेनाभिमतयावन्निष्ठात्यन्ताभावप्रतियोगित्वम् । ‘अभिमत’पदं वस्तुतः स्वाश्रयाप्रसिद्ध्याऽसम्भववारणाय, ‘यावत्’-पदमर्थान्तरवारणाय । तदुक्तम्- ” सर्वेषामपि भावानां स्वाश्रयत्वेन सम्मते । प्रतियोगित्वमत्यन्ताभावं प्रति मृषात्मता ॥” इति ।

यद्वा अयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी पटत्वात् , पटान्तरवत् इत्याद्यनुमानं मिथ्यात्वे प्रमाणम् । तदुक्तम्- ” अंशिनः स्वांशगात्यन्ताभावस्य प्रतियोगिनः । अंशित्वादितरांशीव दिगेषैव गुणादिषु ॥” इति ।
न च घटादेर्मिथ्यात्वे “सन् घटः” इति प्रत्यक्षेण बाधः, अधिष्ठानब्रह्मसत्तायास्तत्र विषयतया, घटादेः सत्यत्वासिद्धेः ।

न च नीरूपस्य ब्रह्मणः कथं चाक्षुषादिज्ञानविषयतेति वाच्यम् , नीरूपस्यापि रूपादेः प्रत्यक्षविषयत्वात् । न च नीरूपस्य द्रव्यस्य चक्षुराद्ययोग्यत्वमिति नियमः मन्मते ब्रह्मणो द्रव्यत्वासिद्धेः । गुणाश्रयत्वं समवायिकारणत्वं वा द्रव्यत्वम् इति तेऽभिमतम् । न हि निर्गुणस्य ब्रह्मणो गुणाश्रयता नापि समवायिकारणता, समवायासिद्धेः । अस्तु वा द्रव्यत्वं ब्रह्मणः, तथापि नीरूपस्य कालस्येव चाक्षुषादिज्ञानविषयत्वे न विरोधः ।
यद्वा त्रिविधं सत्त्वम् पारमार्थिकं व्यावहारिकं प्रातिभासिकं चेति । पारमार्थिकं सत्त्वं ब्रह्मणः, व्यावहारिकं सत्त्वमाकाशादेः, प्रातिभासिकं सत्त्वं शुक्तिरजतादेः । तथा च “घटः सन्” इति प्रत्यक्षस्य व्यावहारिकसत्त्वविषयत्वेन प्रामाण्यम् । अस्मिन् पक्षे घटादेर्ब्रह्मणि निषेधो न स्वरूपेण, किन्तु पारमार्थिकत्वेनैवेति न विरोधः । अस्मिन् पक्षे च मिथ्यात्वलक्षणे पारमार्थिकत्वावच्छिन्नप्रतियोगिताकत्वमत्यन्ताभावविशेषणं द्रष्टव्यम् । तस्मादुपपन्नं मिथ्यात्वानुमानमिति ।
इति वेदान्तपरिभाषायामनुमानपरिच्छेदः ।

Categories: CIVIL