ADVOCATETANMOY LAW LIBRARY

Research & Library Database

Home » Sanskrit Documents » Sarva medha Prakarana in Sukla Yayur Veda सर्वमेध सम्बद्धा मन्त्राः

Sarva medha Prakarana in Sukla Yayur Veda सर्वमेध सम्बद्धा मन्त्राः

The man without bondage
Sarva medha Prakarana in Sukla Yayur Veda is that very portion where Brahma and Maya has been explained, Some time it is called Yama Suktam or loosely it is Life Force.

यम सूक्तम् – YamaTime χρόνος. Judicial: Where any expression of it occurs in any Rules, or any judgment, order or direction, and whenever the doing or not doing of anything at a certain time of the day or night or during a certain part of the day or night has an effect in law, that time is, unless it is otherwise specifically stated, held to be standard time as used in a particular country or state. (In Physics, time and Space never exist actually-“quantum entanglement”) यमः , पुं, (यमयति नियमयति जीवानां फलाफलमिति । यम् + अच् । विश्वे च कलयत्येव यः सर्व्वायुश्च सन्ततम् । अतीव दुर्निवार्य्यञ्च तं कालं प्रणमाम्यहम् ॥यमैश्च नियमैश्चैव यः करोत्यात्मसंयमम् । स चादृष्ट्वा तु मां याति परं ब्रह्म सनातनम् ॥ Suktam

तद् एवाग्निस् तद् आदित्यस् तद् वायुस् तद् उ चन्द्रमाः ।
तद् एव शुक्रं तद् ब्रह्म ता ऽ आपः स प्रजापतिः ॥32.1

सर्वे निमेषा जज्ञिरे विद्युतः पुरुषाद् अधि ।
नैनमूर्ध्वं न तिर्यञ्चं न मध्ये परि जग्रभत् ॥32.2

न तस्य प्रतिमा ऽ अस्ति यस्य नाम महद् यशः ।
हिरण्यगर्भ ऽ इत्य् एषः ।
मा मा हिम्सीद् इत्य् एषा ।
यस्मान् न जात ऽ इत्य् एष ॥32.3

एषो ह देवः प्रदिशो ऽनु सर्वाः पूर्वो ह जातः स ऽ उ गर्भै ऽ अन्तः ।
स ऽ एव जातः स जनिष्यमाणः प्रत्यङ् जनास् तिष्ठति सर्वतोमुखः ॥32.4

यस्माज् जातं न पुरा किं चनैव य आबभूव भुवनानि विश्वा ।
प्रजापतिः प्रजया सम्रराणस् त्रीणि ज्योतीम्षि सचते स षोडशी ॥32.5

येन द्यौर् उग्रा पृथिवी च दृढा येन स्व स्तभितं येन नाकः ।
यो ऽ अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥32.6

यं क्रन्दसी ऽ अवसा तस्तभाने ऽ अभ्यैक्षेतां मनसा रेजमाने ।
यत्राधि सूर ऽ उदितो विभाति कस्मै देवाय हविषा विधेम
आपो ह यद् बृहतीः ।
यश् चिद् आपः ॥32.7

वेनस् तत् पश्यन् निहितं गुहा सद् यत्र विश्वं भवत्य् एकनीडम् ।
तस्मिन्न् इदम् सं च वि चैति सर्वम्स ऽ ओतः प्रोतश् च विभूः प्रजासु ॥32.8

प्र तद् वोचेद् अमृतं नु विद्वान् गन्धर्वो धाम विभृतं गुहा सत् ।
त्रीणि पदानि निहिता गुहास्य यस् तानि वेद स पितुः पितासत् ॥32.9

स नो बन्धुर् जनिता स विधाता धामानि वेद भुवनानि विश्वा ।
यत्र देवा ऽ अमृतम् आनशानास् तृतीये धामन्न् अध्य् ऐरयन्त ॥32.10

परीत्य भूतानि परीत्य लोकान् परीत्य सर्वाः प्रदिशो दिशश् च ।
उपस्थाय प्रथमजाम् ऋतस्यात्मनात्मानम् अभि सं विवेश ॥32.11

परि द्यावापृथिवी सद्य ऽ इत्वा परि लोकान् परि दिशः परि स्वः ।
ऋतस्य तन्तुं विततं विचृत्य तद् अपश्यत् तद् अभवत् तद् आसीत् ॥32.12

सदसस् पतिम् अद्भुतं प्रियम् इन्द्रस्य काम्यम् ।
सनिं मेधाम् अयासिषम्म् स्वाहा ॥32.13

यां मेधां देवगणाः पितरश् चोपासते ।
तया माम् अद्य मेधयाग्ने मेधाविनं कुरु स्वाहा ॥32.14

मेधां मे वरुणो ददातु मेधाम् अग्निः प्रजापतिः ।
मेधाम् इन्द्रस् च वायुश् च मेधां धाता ददातु मे स्वाहा ॥32.15

इदं मे ब्रह्म च क्षत्रं चोभे श्रियम् अश्नुताम् ।
मयि देवा दधतु श्रियम् उत्तमां तस्यै ते स्वाहा ॥32.16


Sukla Yayur Veda Samhita [शुक्‍लयजुर्वेदः]

अध्याय 32

क: +अ+ स्मै =कस्मै

Top-10