Hindu scriptures

कुब्जिक मत तन्त्र

Kubjik Mata Tantra

कुब्जिकमततन्त्र

संवर्तामण्डलान्ते क्रमपदनिहितानन्दशक्तिः सुभीमा संसृज्याद्यं चतुष्कं अकुलकुलगतं पञ्चकं चान्यषट्कं ।
चत्वारः पञ्चकोऽन्यः पुनरपि चतुरस्तत्त्वतो मण्डलेदं संसृष्टं येन तस्मै नमत गुरुवरं भैरवं श्रीकुजेशं । । १.१ । ।

श्रीमद्धिमवतः पृष्ठे त्रिकूटशिखरान्तगं ।
सन्तानपुरमध्यगं अनेकाकाररूपिणं । । १.२ । ।

त्र्यस्रं वै त्रिप्रकारं तु त्रिशक्तित्रिगुणोज्ज्वलं ।
चन्द्रसूर्यकृतालोकं वह्निदेदीप्यवर्चसं । । १.३ । ।

त्रिसन्ध्यावेष्टितं दिव्यं प्राकारत्रिपथान्वितं ।
द्वारपालत्रयोपेतं त्रिकपाटार्गलान्वितं । । १.४ । ।

अनेकरत्नसन्दीप्तं उद्यानवनमण्डितं ।
वसन्तगुणसम्पन्नं सततानन्दपूरितं । । १.५ । ।

सन्तानभुवनं दिव्यं दिव्यादिव्यैर्निषेवितं ।
तत्र तं भुवनेशानं व्यक्ताव्यक्तं सनातनं । । १.६ । ।

कार्यकारणभावेन किञ्चित्कालं अपेक्षया ।
तिष्ठते भैरवीशानो मौनं आदाय निश्चलं । । १.७ । ।

तत्र देवगणाः सर्वे सकिन्नरमहोरगाः ।
कुर्वन्ति कलकलारावं समागत्य समीपतः । । १.८ । ।

श्रुत्वा कलकलारावं को भवान्किं इहागतः ।
हिमवान्तु प्रसन्नात्मा गच्छामोऽन्वेषणं प्रति । । १.९ । ।

यावत्स पश्यते तत्स्थं शिवज्ञानावलोकनाथ् ।
तावत्पश्यति श्रीनाथं आगतं तु ममाश्रमे । । १.१० । ।

गतस्तूर्णं प्रयत्नेन यत्रास्ते भगवान्प्रभुः ।
सकुटुम्बः स्तुतिं दिव्यां हिमवान्वाक्यं अब्रवीथ् । । १.११ । ।

अद्य मे सफलं जन्म अद्य मे सफलं तपः ।
अद्य मे सफलं स्थानं जीवितं सफलं मम । । १.१२ । ।

अद्य धन्यः कृतार्थोऽहं अद्य मे सफला गतिः ।
अद्य मे सफलं सर्वं त्रैलोक्यं सचराचरं । । १.१३ । ।

यन्नाथ भवदङ्घ्रिभ्यां अङ्कितं मस्तकं मम ।
तेन विख्यातकीर्तिस्तु भविष्यामि जगत्त्रये । । १.१४ । ।

त्वत्प्रसादेन देवेश सर्वज्ञत्वं लभाम्यहं ।
किं अनेन न पर्याप्तं यदायात-म्-इह प्रभुः । । १.१५ । ।

किं कुर्मः का गतिर्मह्यं आदेशो दीयतां प्रभो ।
हिमवन्तविलापोऽयं श्रुत्वैवं सकुटुम्बिनः । । १.१६ । ।

उवाच भगवान्नाथः प्रहस्येमां गिरं शुभां ।
हिमवन्त गिरे साधु तुष्टोऽहं तव क्लिन्नया । । १.१७ । ।

प्रार्थयस्व वरं किञ्चिद्दास्यामो मनसेप्सितं ।
हिमवन्त महाप्राज्ञ तुष्टोऽहं परमार्थतः । । १.१८ । ।

हिमवानुवाच

किं कृतं मे महेशान स्वकीयदयया प्रभो ।
रुचितं कुरु देवेश हिमवानब्रवीदिदं । । १.१९ । ।

पर्वतोल्लपितं श्रुत्वा उवाचेदं सुरेश्वरः ।
प्रसन्नगिरया दिव्यं वरं दातुं समुद्यतः । । १.२० । ।

प्रथमं तावत्तुभ्यं हि पञ्च श्लोकान्पठेत्तु यः ।
सन्निधानः प्रयत्नेन भविष्यामो ह्यवश्यतः । । १.२१ । ।

द्वितीयं सन्निधानोऽहं भविष्यामि तवाध्वरे ।
तृतीयं सर्वशैलानां राजत्वं चक्रधारिणः । । १.२२ । ।

चतुर्थं मम तुल्यत्वं पञ्चमं मोक्षदं नृणां ।
एवं पञ्च वरास्तुभ्यं हिमवन्त पुनर्वद । । १.२३ । ।

हिमवानुवाच

किं अन्येन महादेव आत्मतुल्यस्त्वया किल ।
कृतोऽहं तत्किं अन्येन किं तु देवाभयं दद । । १.२४ । ।

एवं ब्रूथ पुनः किञ्चिद्यत्ते मनसि रोचते ।
तदर्पयाम्यहं सर्वं पूर्वं एवोदितं मया । । १.२५ । ।

हिमवानुवाच

आश्रमे सति सर्वत्र प्रातिचारं विना न हि ।
तत्र डिक्करिका मह्यं करिष्यत्युपलेपनं । । १.२६ । ।

सा च धर्मप्रवृत्ता च येन तत्क्रियतां प्रभो ।
इष्टा सा मम देवेश कालिका च कुमारिका । । १.२७ । ।

एवं बभूव तस्माद्वै तत्रस्था गुणशालिनी ।
प्रसादयति देवेशं विनयाद्यैरनेकधा । । १.२८ । ।

विनयेनोपसङ्गम्य स्तुतिस्तोत्रैरनेकधा ।
कालेन बहुना कालीं उवाचेदं कुलेश्वरः । । १.२९ । ।

तुष्टोऽहं कालिके तुभ्यं ब्रूहि किञ्चिन्मनेप्सितं ।
यत्त्वया धारितं चित्ते तत्प्रार्थय ह्यशङ्किता । । १.३० । ।
लब्ध्आ प्रणयसद्भावं त्यक्तलज्जा मनोत्सुका ।
वदते नाथ नाथस्त्वं भवास्माकं सुरार्चितः । । १.३१ । ।

एवं श्रुत्वा महेशानो वाक्यं आनन्दसम्भवं ।
ततः सम्पादितं शीघ्रं आज्ञानन्दगुणोज्ज्वलं । । १.३२ । ।

आज्ञासनसमारूढं प्रेरितानन्तशम्भुना ।
दर्शितं निखिलं सर्वं पूर्वसन्तानगोचरं । । १.३३ । ।

ततः प्रबुद्धभावात्मा वदत्येवं कुलेश्वरी ।
दर्शितं निखिलं मह्यं किं आश्चर्यं कुजेश्वर । । १.३४ । ।

विदितं नाथ मे सर्वं क्रियाकारणगोचरं ।
यस्मात्सम्पद्यते ह्येवं तदाचक्ष्व कुजेश्वर । । १.३५ । ।

आज्ञातो गुणं ऐश्वर्यं सञ्जातं परमेश्वर ।
अस्य तन्त्रार्थसद्भावं ब्रूहि मे परमार्थतः । । १.३६ । ।

दृष्टं समस्तपर्यन्तं भवदाज्ञाषडध्वरं ।
ब्रूहि निर्देशतः सर्वं यदि तुष्टः कुजेश्वर । । १.३७ । ।

आज्ञातो गुणसद्भावं ब्रूहि देव गुणोदयं ।
यथा द्रक्ष्यापितं सर्वं आज्ञाद्वारेण मेऽखिलं । । १.३८ । ।

पूर्ववृत्तान्तसद्भावं पूर्वपाठश्रुतं च यथ् ।
पूर्वकल्पार्थनिर्देशं आज्ञातो ज्ञापितं त्वया । । १.३९ । ।

पूर्वसन्दर्शितं देव आज्ञागुणमहोदयं ।
तद्भ्रंशाद्भ्रंशं उत्पन्नं अतोऽर्थं कथय स्फुटं । । १.४० । ।

कल्पे कल्पे त्वया देव संहितार्थं अनेकधा ।
मन्त्रतन्त्रक्रियायोगाः कथिता नावधारिताः । । १.४१ । ।

इदानीं संस्फुटं सर्वं आज्ञागुणमहोदयं ।
यस्मात्सञ्जायते सर्वं तत्प्रभावं वद प्रभो । । १.४२ । ।

आनन्दश्चावलिश्चैव प्रभुर्योगी तथैव च ।
अतीतश्चैव पादश्च षट्प्रकाराः कथं स्थिताः । । १.४३ । ।

श्रीभैरव उवाच

साधु साधु महाभागे महानन्दविधायिनि ।
पृच्छितं यत्त्वया वाक्यं अत्यद्भुतं अनामयं । । १.४४ । ।

गोपितं सर्वरुद्राणां वीराणां भैरवेषु च ।
सिद्धक्रमं निराचारं तथापि कथयामि ते । । १.४५ । ।

सिद्धमार्गक्रमायातं सिद्धपङ्क्तिव्यवस्थितं ।
गोपितं सर्वमार्गेषु तवाद्य प्रकटीकृतं । । १.४६ । ।

पूर्वसञ्चोदितो देवि त्वयाहं त्वं मया पुनः ।
अत्र कल्पे मया तुभ्यं त्वं पुनर्मम दास्यसि । । १.४७ । ।

आराधयन्तं देवेशं न जानाति तपोत्कटा ।
ततः स्तवेन दिव्येन देवेनानन्दभृद्गिरा ।
दिव्यस्तोत्रं समारब्धं अशेषार्थप्रबोधकं । । १.७० । ।

एवं सम्यग्विधानेन रुद्रशक्तिः स्वयम्भुना ।
निर्मिता स्वाङ्गजैर्वर्णैर्नादिफान्तस्वरूपिणी । । १.७१ । ।

सर्वाक्षरमयी देवी सर्वलक्षणलक्षिता ।
उत्पन्ना सुमहातेजा भैरवाभिमुखे स्थिता । । १.७२ । ।

वदते मालिनी कस्त्वं देवोऽहं किं उपागतः ।
मां त्वं कथं न जानासि देवि त्वं केन निर्मिता । । १.७३ । ।

सृष्टिक्रीडावतारार्थे मया उत्पादिता प्रिये ।
त्वं एवोत्पादितः केन ब्रूहि वाक्यं तु भैरव । । १.७४ । ।

वर्णराशिरहं भद्रे स्वयम्भूर्जगतः पतिः ।
ममाङ्गसम्भवैर्बीजैस्त्वं एवोत्पादिता मया । । १.७५ । ।

वीरावलीति तेन त्वं रुद्रशक्तिः प्रशस्यसे ।
वदते मालिनी क्रुद्धा त्वत्स्वकीयैः शरीरजैः । । १.७६ । ।

वर्णैरुत्पादिताहं ते गृह्ण वर्णान्स्वकानिह ।
प्रसार्य वर्णमालां तु तत्त्वाकारं स्वरूपिणं । । १.७७ । ।

पूर्वबीजतनुर्भूत्वा प्रसुप्तामृतकुण्डली ।
कुतः सर्वे गता वर्णा भ्रान्तचित्तः सुरेश्वरः । । १.७८ । ।

परं विस्मयं आपन्नः क्षणं एकं वितर्कितः ।
लोलीभूतास्तु ते सर्वे जीवतत्त्वे लयं गताः । । १.७९ । ।

अहो देव्याः प्रभावस्तु इति चिन्ता जगत्पतेः ।
स्तुनोति विविधैः स्तोत्रैर्देवो भुवनमालिनीं । । १.८० । ।

कावर्णा कामरूपे पुरेव पुरिगता जालपीठे जिका या षड्भिन्ना मध्यपीठे त्रिपथपदगता त्वं च शृङ्गातकारा ।
सिद्धैर्या वेष्टिताङ्गी परिवृतचतुरैः षष्टिभिर्योगिवृन्दैर्युक्ता हृत्पङ्कजेन डरलकसहजा पातु मां रुद्रशक्तिः । । १.८१ । ।

इति कुलालिकाम्नाये श्रीकुब्जिकामते चन्द्रद्वीपावतारो नाम प्रथमः पटलः


श्रीभैरव उवाच

जय त्वं मालिनी देवी निर्मले मलनाशिनी ।
ज्ञानशक्तिः प्रभुर्देवी बुद्धिस्त्वं तेजवर्धनी । । २.१ । ।

जननी सर्वभूतानां संसारेऽस्मिन्व्यवस्थिता ।
माता वीरावली देवी कारुण्यं कुरु वत्सले । । २.२ । ।

ढण्डक

(१) जयति परमतत्त्वनिर्वाणसम्भूतितेजोमयी निःसृता व्यक्तरूपा
(२) परा ज्ञानशक्तिस्त्वं इच्छा क्रिया ऋज्विरेखा पुनः सुप्तनागेन्द्रवत्
(३) कुण्डलाकाररूपा प्रभुर्नादशक्तिस्तु सङ्गीयसे भासुरा
(४) ज्योतिरूपा सुरूपा शिवा ज्येष्ठनामा च वामा च रौद्री मनाख्याम्बिका
(५) बिन्दुरूपावधूतार्धचन्द्राकृतिस्त्वं त्रिकोणा अ-उ-म-कार इ-कार
(६) ए-कारसंयोजितैकत्वं आपद्यसे तत्त्वरूपा भगाकारवत्स्थायिनी
(७) आदितत्त्वोद्भवा योनिरूपा च श्रीकण्ठसम्बोधनी रुद्रमाता
(८) तथानन्तशक्तिः सुसूक्ष्मा त्रिमूर्त्यामरीशार्घिनी भारभूतिस्
(९) तिथीशात्मिका स्थाणुभूता हराख्या च झण्टीशभौक्तीश-
(१०) सद्यात्मिकानुग्रहेशार्चिता क्रूरसङ्गे महासेनसम्भोगिनी
(११) षोडशान्तामृता बिन्दुसन्दोहनिष्यन्ददेहप्लुताशेषसम्यक्परानन्द-
(१२) निर्वाणसौख्यप्रदे भैरवी भैरवोद्यानक्रीडानुषक्ते
(१३) परा मालिनी रुद्रमालार्चिते रुद्रशक्तिः खगी सिद्धयोगेश्वरी
(१४) सिद्धमाता विभुः शब्दराशीति योन्यार्णवी वाग्विशुद्धासि वागेश्वरी
(१५) मातृकासिद्धं इच्छा क्रिया मङ्गला सिद्धलक्ष्मी विभूतिः सुभूतिर्
(१६) गतिः शाश्वता ख्याति नारायणी रक्तचण्डा करालेक्षणा भीमरूपा
(१७) महोच्छुष्मयागप्रिया त्वं जयन्त्याजिता रुद्रसम्मोहनी
(१८) त्वं नवात्मानदेवस्य चोत्सङ्गयानाश्रिता
(१९) मन्त्रमार्गानुगैर्मन्त्रिभिर्वीरपानानुरक्तैः सुभक्तैश्च
(२०) सम्पूज्यसे देवि पञ्चामृतैर्दिव्यपानोत्सवैरेकजन्मद्विजन्म-
(२१) त्रिजन्मचतुःपञ्चषट्सप्तजन्मोद्भवैस्तैश्च नारैः
(२२) शुभैः फल्गुषैस्तर्प्यसे मद्यमांसप्रिये
(२३) मन्त्रविद्याव्रतोद्भाषिभिर्मुण्डकङ्कालकापालिभिर्
(२४) दिव्यचर्यानुरूढैर्नमस्कार ओंकारस्वाहास्वधाकारवौषड्वषट्-
(२५) कारफट्कारहूंकारजातीभिरेतैश्च मन्त्राक्षरोच्चारिभिर्
(२६) वामहस्तस्थितैश्चाक्षसूत्रावलीजापिभिः साधकैः पुत्रकैर्
(२७) मातृभिर्मण्डले दीक्षितैर्योगिभिर्योगिनीवृन्दमेलापकै
(२८) रुद्रक्रीडालसैः पूज्यसे योगिनां योगसिद्धिप्रदे देवि त्वं
(२९) पद्मपत्त्रोपमैर्लोचनैः स्नेहपूर्णैस्तु यं पश्यसे
(३०) तस्य दिव्यान्तरीक्षस्थिता सप्तपातालसत्खेचरी सिद्धिरव्याहता
(३१) वर्तते. भक्तितो यः पठेद्दण्डकं एककालं द्विकालं त्रिकालं
(३२) शुचिः संस्मरेद्यः सदा मानवः सोऽपि शस्त्राग्निचौरार्णवे
(३३) पर्वताग्रेऽपि संरक्षसे देवि पुत्रानुरागान्महालक्ष्मि ये
(३४) हेमचौरान्यदारानुषक्ताश्च ब्रह्मघ्नगोघ्ना महादोषदुष्टा
(३५) विमुञ्चन्ति संस्मृत्य देवि त्वदीयं मुखं पूर्णचन्द्रानुकारं
(३६) स्फुरद्दि व्यमाणिक्यसत्कुण्डलोद्घृष्टगण्डस्थलं
(३७) येऽपि बद्धा दृढैर्बन्धनैर्नागपाशैर्भुजाबद्ध-
(३८) पादार्गलैस्तेऽपि त्वन्नामसङ्कीर्तनाद्देवि मुञ्चन्ति
(३९) घोरैर्महाव्याधिभिः संस्मृत्य पादारविन्दद्वयं ते
(४०) महाकालि कालाग्नितेजःप्रभे स्कन्दगोविन्दब्रह्मेन्द्रचन्द्रार्क-
(४१) पुष्पायुधैर्मौलिमालालिसत्पद्मकिञ्जल्कसत्पिञ्जरैः सेव्यसे
(४२) सर्ववीराम्बिके भैरवी भैरवस्ते शरण्यागतोऽहं
(४३) क्षमस्वापराधं क्षमस्वापराधं शिवे
एवं स्तुता महादेवी भैरवेण महात्मना ।
ततो लिङ्गं विनिर्भिद्य निर्गता परमेश्वरी । । २.३ । ।

नीलाञ्जनसमप्रख्या कुब्जरूपा वृकोदरा ।
ईषत्करालवदना बर्बरोर्ध्वशिरोरुहा । । २.४ । ।

सुरूपा च विरूपा च अनेकाकाररूपिणी ।
वामप्रसारितकरा वामदेवी-म्-उवाच ह । । २.५ । ।

आज्ञानन्दसमाविष्टा स्तुत्यानन्दाकुलीकृता ।
न वेद्मि कोऽत्र मां स्तौति काहं कस्य वरप्रदा । । २.६ । ।

उवाचैवं महासत्त्वा दृष्टिपातो मदीयकः ।
आशीविषेव दुष्प्रेक्ष्यः स कथं धारितस्त्वया । । २.७ । ।

प्रार्थयस्व तदा किञ्चिद्यत्ते मनसि रोचते । । २.८ । ।

श्रीभैरव उवाच

प्रसादाय महादेवि ददाज्ञानुग्रहं मम ।
तपसा तव चोग्रेण मम हानिः कुजाम्बिके । । २.९ । ।

सञ्जाता तेन मे देवि पूर्वं उक्तं इदं मया ।
एवं श्रुत्वा महादेवी सलज्जा गद्गदेक्षना । । २.१० । ।

किं ते सिद्धं महादेव येन लज्जापिता वयं । । २.११ । ।

श्रीभैरव उवाच

पूर्वं उक्तं मया तुभ्यं आज्ञासमयगोचरे ।
मत्तुल्यानुगृहीत्वा तु पश्चाद्भव गणाम्बिका । । २.१२ । ।

कस्येदं सिद्धसन्तानं पारम्पर्यक्रमागतं ।
मत्सकाशात्पुनस्तुभ्यं त्वत्सकाशात्पुनर्मम । । २.१३ । ।

एवं तद्भैरवं वाक्यं श्रुत्वा देवी पराङ्मुखी ।
सञ्जाता कुब्जिकारूपा लज्जातो रभसोदिता । । २.१४ । ।
किं तु लज्जायसे देवि पूर्वं आज्ञा मया तव ।
इदानीं दद मे शीघ्रं मा शङ्का मा विलम्बय । । २.१५ । ।

श्रीकुब्जिका उवाच

अप्रबुद्धप्रमत्तेन यदा तद्रभसोदितं ।
तत्किं निग्रहबुद्ध्या वा युक्तं त्वेदं कुजेश्वर । । २.१६ । ।

श्रीभैरव उवाच

सर्वानुग्रहके देवि किं न बुध्यसि चात्मनि ।
न मया रहितं किञ्चिन्न त्वया रहितं क्वचिथ् । । २.१७ । ।

अन्योन्यगुणयोगेन कार्यकारणयोगतः ।
त्वं गुरुर्मम देवेशि अहं ते न विचारणाथ् । । २.१८ । ।

रुद्रभैरववीराणां एषा चाज्ञा न कस्यचिथ् ।
यदि शिष्यं न मन्येथ मित्रत्वेन तदा दद । । २.१९ । ।

एवं ब्रूते तदा देव्या सर्वं एतद्भविष्यति ।
पश्चिमेदं कृतं देव पूर्वभागविवर्जितं । । २.२० । ।

चन्द्रद्वीपं मनोरम्यं देव त्यक्तुं न मे मनः ।
पश्चिमं सर्वमार्गाणां त्वं तावदनुशीलय । । २.२१ । ।

पश्चिमाम्नायमार्गोऽयं सिद्धानां अखिलं दद ।
गच्छाम्यहं पुनस्तत्र भारते कुलपर्वतं । । २.२२ । ।

अनादियुगपर्यन्तं कीर्तयामास तद्विदां ।
श्रीपर्वतं कुमाराख्यं छायाछत्रविभूषितं । । २.२३ । ।

एवं उक्त्वा गता तूर्णं श्रीमत्क्ॐआरपर्वतं ।
तत्र छायात्मिका देवी अव्यक्ता व्यक्तरूपिणी । । २.२४ । ।

क्षपित्वा कालपर्यायं यावदालोकयेद्दिशां ।
उत्तरां तावत्तत्सर्वं लिङ्गपूर्णं महावनं । । २.२५ । ।
अशीतियोजनायामं समन्तात्परिमण्डलं ।
चतुर्द्वारसमोपेतं तीर्थकोटिभिरावृतं । । २.२६ । ।

अनेकसिद्धसंछन्नं मनोरम्यं अनोपमं ।
तमोगुणगणाकीर्णं अनेकाश्चर्यसंकुलं । । २.२७ । ।

देव्यादृष्टिनिपातेन अकस्माच्छ्रीरुपस्थिता ।
तेन श्रीशैलं उद्दिष्टं देव्यानामप्रतिष्ठितं । । २.२८ । ।

अङ्गुष्ठेन कृता रेखा स्वस्थानस्य च तस्य वै ।
तत्र जाता नदी दिव्या सासीमा उभयोरपि । । २.२९ । ।

तच्छायां निश्चलां कृत्वा आज्ञां दत्त्वा तु शाम्भवीं ।
अत्र यो विशते कश्चित्स मे तुल्यो भविष्यति । । २.३० । ।

हर्ता कर्ता स्वतन्त्रोऽसौ भ्रष्टज्ञानप्रकाशकः ।
आज्ञातो गुणं ऐश्वर्यं त्रैलोक्ये सचराचरे । । २.३१ । ।

एवं आक्षेपयित्वा तु गता त्रिकूटपर्वतं ।
तत्र कालं क्षपित्वा तु किष्किन्धाख्यं अनुग्रहेथ् । । २.३२ । ।

तस्य चाज्ञाविभूतिं तु दत्त्वानुगृह्य राक्षसान् ।
येन तिष्ठाम्यहं तीरे समुद्रस्य त्वशङ्किता । । २.३३ । ।

तत्र कन्याकुमारी त्वं गत्वा कालस्य पर्ययं ।
समुद्रं अनुगृहीत्वा दरदण्डीं गता पुनः । । २.३४ । ।

तत्र छायाधरी देवी अव्यक्तगुणचेतसा ।
लोकानुग्रहहेत्वर्थं तत्राज्ञां मोचयेत्पुनः । । २.३५ । ।

पूर्वस्थाने तु या वाचा सा त्वत्रैव भविष्यति ।
एवं उक्त्वा गता दूरं पश्चिमं हिमगह्वरं । । २.३६ । ।

यत्र ओलम्बिका नाम तिष्ठते वनपल्लिका ।
रक्ताम्बरधरा रक्ता रक्तस्था रतिलालसा । । २.३७ । ।

तत्रस्था गह्वरान्तस्था गुहागहनवासिनी ।
यावत्सन्तिष्ठते कालं तावद्योगिमयं खिलं । । २.३८ । ।
तैस्तु सन्तोषिता देवी नयोपायैरनेकधा ।
ततः प्रसन्नगम्भीरा उवाचेदं कुजेश्वरी । । २.३९ । ।

अनेकोपायरचना विवेकगुणशालिनी ।
ओड्डिता येन अङ्घ्रिभ्यां तेनेदं ओड्डियानकं । । २.४० । ।

भविष्यति पुरावस्थं अष्टकोटिगुणाश्रयं ।
आगत्य खेचरीचक्रात्त्वमोघाज्ञाप्रसादतः । । २.४१ । ।

अष्टौ ते मानसाः पुत्रा भविष्यन्ति च षड्गुणाः ।
शाकिन्यष्टकमाता त्वं अष्टसिंहासनाधिपाः । । २.४२ । ।

रुद्राणी रुद्रशाकी च गोमुखी सुमुखी तथा ।
वानरी केकरी चैव कालरात्री च भट्टिका । । २.४३ । ।

वामनो हर्षणश्चैव सिंहवक्त्रो महाबलः ।
महाकालैकवीरश्च भैरवश्च प्रचण्डकः । । २.४४ । ।

चतुर्भुजो गणाध्यक्षो गजवक्त्रो महोत्कटः ।
ऐरावतो विनायक्षः षडेते प्रातिचारकाः । । २.४५ । ।

पुत्रीपुत्राष्टकोपेता निवृत्तिस्था नियामिका ।
अनेकसृष्टिकर्ता च सुसम्पूर्णगुणोज्ज्वलः । । २.४६ । ।

कृते चोड्डमहेशानो मित्रानन्दः पतिस्तव ।
अष्टौ पुत्राः करिष्यन्ति अधिकारं पश्चिमान्वये । । २.४७ । ।

अधिकारं करिष्यन्ति षट्कुलाधिपतीश्वराः ।
युगे युगे भविष्यन्ति पृथक्संज्ञाक्रमोदयाः । । २.४८ । ।

एवं ते सूचितं सर्वं क्रमौघः कुलपद्धतिः ।
भविष्यद्रक्तचामुण्डे गमिष्यामो यथेप्सितं । । २.४९ । ।

एवं दत्त्वा वरं तेभ्यः करालं च समागता ।
महाज्वालालिसन्दीप्तं दीप्ततेजानलप्रभं । । २.५० । ।

महाज्वालावलीटोपं देव्यास्तेजो महाद्भुतं ।
धृतं येन प्रतापोऽस्यास्तेन तज्जालसंज्ञकं । । २.५१ । ।
किञ्चित्कालस्य पर्याये प्रबुद्धकिरणोज्ज्वला ।
विचित्ररचनानेकं पश्यत्यग्रेन्द्रजालवथ् । । २.५२ । ।

कस्यैषा रचना दिव्या पूर्वं आसीदिहाध्वरे ।
मत्तेजसः प्रतापेन भ्रष्टा त्वं न पलायिता । । २.५३ । ।

करालवदने तुभ्यं मायाजालप्रसारिके ।
जालन्धराधिपत्यत्वं भविष्यत्यचिरेण तु । । २.५४ । ।

आगत्य खेचरीचक्राच्छ्रीसिद्धकौण्डलीश्वरः ।
अशेषार्थविदो नाथः स ते नाथो भविष्यति । । २.५५ । ।

भविष्यन्ति करालिन्यो दशैव दुहिता तव ।
भविष्यन्त्युत्तरानन्दा दशैते गुणवत्तराः । । २.५६ । ।

प्रातिचारास्तु षड्भद्रे भविष्यन्त्यनुगोचरे ।
आज्ञानन्दसमेकत्वं करालीदुहिताजनं । । २.५७ । ।

माला शिवा तथा दुर्गा पावनी हर्षणी तथा ।
जया तु सुप्रभा चैव प्रभा चण्डा च रुग्मिनी । । २.५८ । ।

शकुनिः सुमतिर्नन्दो गोपालश्च पितामहः ।
पल्लवो मेघनिर्घोषः शिखिवक्त्रो महाध्वजः । । २.५९ । ।

कालकूटो दशैवैते पुत्राः सिंहासनाधिपाः ।
भविष्यन्ति भवे तुभ्यं मेघवर्णादितो गणाः । । २.६० । ।

बृहत्कुक्षैकदंष्ट्रश्च गणेशो विघ्नराट्प्रभुः ।
महानन्दः षडेवैते भविष्यन्ति गणेश्वराः । । २.६१ । ।

उत्तरानन्दं ईशानाः करिष्यन्ति युगे युगे ।
ज्ञानभ्रंशावसाने तु संज्ञाभेदान्पुनः पुनः । । २.६२ । ।

कराली तव सन्ताने भविष्यन्ति ममाज्ञया ।
एवं उक्त्वा महेशानी गता सह्यं महावनं । । २.६३ । ।

सम्पूर्णमण्डलार्चीभिः पूरयन्ती जगत्त्रयं ।
निःशेषं निखिलं विश्वं लोकालोकान्तसंस्थितं । । २.६४ । ।
यावत्सन्तिष्ठते तत्स्था नयोपादैरनेकधा ।
तावच्चण्डाक्षी बलवत्परिचर्यां अनेकधा । । २.६५ । ।

कुर्वन्ती विविधोपायैः सौकर्यरचनान्बहून् ।
तेजोभाभिः प्रदीप्यन्ते चण्डाक्षीगुणपूरिताः । । २.६६ । ।

यस्मिन्नद्रौ स्थिता देवी देदीप्यार्चिर्घनोज्ज्वला ।
तत्प्रदेशं स्थिरं जातं अन्यद्दग्धं चराचरं । । २.६७ । ।

आपूरितं इदं सर्वं अनेकरचनादिभिः ।
पश्यते पर्वतं माता कालान्ते मुदितेक्षणा । । २.६८ । ।

तावच्चण्डाक्षिणीत्यग्रे पश्यत्यमिततेजसा ।
विश्वामृतैः पूरयन्ती दिव्यौघगुणलालसा । । २.६९ । ।

उवाचेदं महादेवी साधु पूर्णमनोरथे ।
येनेदं पूरितं स्थानं तेन त्वं पूर्णरूपिणी । । २.७० । ।

भविष्यत्याधिपत्यत्वं पर्वतोऽयं तवोद्भवः ।
विषुवेन तु योगेन येनेदं संस्कृतं त्वया । । २.७१ । ।

तेन पीठेश्वरी त्वं वै भविष्यसि युगे युगे ।
तेजस्कन्धासनं तुभ्यं द्वापरान्ताधिकारिणी । । २.७२ । ।

भविष्यति भवेऽवश्यं चक्रानन्दः पतिस्तव ।
सम्पूर्णमण्डलाकारो ग्रन्थाधारः कुलेश्वरः । । २.७३ । ।

द्वादशैव भवे तुभ्यं भविष्यन्ति कुमारिकाः ।
ताभ्यस्त्वेकैककोटिश्च आधिपत्याधिकारिकाः । । २.७४ । ।

भविष्यन्ति तथा पुत्राः प्रातिचारास्तदर्धतः ।
आगन्तुं खेचरीचक्रात्प्रेरितास्तु ममाज्ञया । । २.७५ । ।

येन ते नामतो ब्रूमि यथा तेऽहं प्रसादिता ।
हंसावली सुतारा च हर्षा वाणी सुलोचना । । २.७६ । ।

महानन्दा सुनन्दा च कोटराक्षी वृकानना ।
यशोवती विशालाक्षी सुन्दरी द्वादशी तथा । । २.७७ । ।
सिंहासनाधिपत्ये ताः पूर्णाद्रौ कुलकन्यकाः ।
वलिर्नन्दो दशग्रीवो हयग्रीवो हयस्तथा । । २.७८ । ।

सुग्रीवो गोपतिर्भीष्मः शिखण्डी खण्डलस्तथा ।
शक्रश्चण्डाधिपः सिद्धाः सर्वानुग्रहकारकाः । । २.७९ । ।

हंसभेदादिमार्गस्य भविष्यन्ति प्रकाशकाः ।
आमोदश्च प्रमोदश्च सुमुखो दुर्मुखस्तथा । । २.८० । ।

अविघ्नो विघ्नकर्ता च तव मार्गेषु रक्षकाः ।
एतत्सर्वं यथान्यायं चण्डाक्षी पुरतस्तव । । २.८१ । ।

भविष्यति ममाज्ञातो गच्छामः कामिकं यथा ।
एवं उक्त्वा गता शीघ्रं यत्रोच्छुष्मा नदी शुभा । । २.८२ । ।

महोच्छुष्मवनान्तस्था दिव्यादिव्यौघवाहिनी ।
महोच्छुष्मह्रदं यत्र यत्र नीलो महाह्रदः । । २.८३ । ।

तत्र सा रं अते देवी दिव्याज्ञागुणशालिनी ।
उभयोस्तटयोस्तस्था रमित्वा कालपर्ययं । । २.८४ । ।

यावत्पश्यति विश्वाङ्गी तत्त्वाङ्गी तावत्पश्यति ।
कामभोगकृताटोपां वसन्ततिलकोज्ज्वलां । । २.८५ । ।

द्रवयन्तीं द्रवन्तीं तां इच्छया भुवनत्रयं ।
तां दृष्ट्वा प्रहसिता माता का त्वं कस्मादिहागता । । २.८६ । ।

तां दृष्ट्वा मोहिता माता जानन्त्यपि न जानती ।
विश्रम्य च मुहूर्तैकं यावदालोकयेत्पुनः । । २.८७ । ।

तावोच्छुष्म इहायाता ममाग्रे शोकवाहिनी ।
साधु कामिनि सर्वत्र यत्त्वया दर्शितं मम । । २.८८ । ।

कामानन्दफलावाप्तिस्तेन कामेश्वरी भव ।
कारुण्यात्कामरूपं तु ममाग्रे विविधं कृतं । । २.८९ । ।

तेनेदं कामरूपं तु महत्पीठं तवाध्वरं ।
भविष्यति कलौ प्राप्ते चन्द्रानन्दः पतिस्तव । । २.९० । ।
वायुस्कन्धोपविष्टोऽसौ आत्मभेदप्रकाशकः ।
अशेषार्थविदो नाथः सर्वज्ञः परमेश्वरः । । २.९१ । ।

कामिके कामुकस्तुभ्यं कामदेवो भविष्यति ।
भविष्यन्ति महानन्दास्त्रयोदश गुणान्विताः । । २.९२ । ।

योगिन्यो योगसम्पन्नास्तव डिक्करिकाः शुभाः ।
पुत्रास्त्रयोदशा ह्येवं सप्तैते प्रातिचारकाः । । २.९३ । ।

भविष्यन्ति जगद्दीपा जगदानन्दकारकाः ।
प्रभा प्रसूतिः शान्ताभा भानुवत्या च श्रीबला । । २.९४ । ।

हारी च हारिणी चैव शालिनी कन्दुकी तथा ।
मुक्तावली तथा चान्या गौतमी कौशिकी तथा । । २.९५ । ।

शाकोदरी च विख्याता राज्ञाः सिंहासनाधिपाः ।
भानुरनन्तहेतुश्च सुराजः सुन्दरस्तथा । । २.९६ । ।

महावक्त्रार्जुनो भीमो द्रोणको भस्मकोऽन्तकः ।
केतुध्वजो विशालाक्षः कल्याणश्चतुराननः । । २.९७ । ।

एषोऽवतारो विविधः कलौ प्राप्ते भविष्यति ।
लम्पटो घण्टकर्णश्च स्थूलदन्तो गजाननः । । २.९८ । ।

बृहत्कुक्षिः सुरानन्दः सप्तमस्तु बलोत्कटः ।
सप्तैते विषमाः क्रुद्धाः सर्वसन्तानपालकाः । । २.९९ । ।

पीठोपपीठसन्दोहे क्षेत्रे क्षेत्रे महाबलाः ।
सर्वसाधारणा ह्येते भविष्यन्ति कलौ युगे । । २.१०० । ।

अन्यत्कामाम्बिके किञ्चिद्भणिष्यामः करिष्यथ ।
सर्वसाधारणं तच्च चतुर्णां तु विजानथ । । २.१०१ । ।

भविष्यति कलाचक्रं मच्छरीरसमुद्भवं ।
परापरविभागज्ञं मातङ्गकुलसम्भवं । । २.१०२ । ।

नीलस्योत्तरभागे तु महोच्छुष्मवनान्तगं ।
परापरं तु तेनेदं पञ्चमं पीठनायकं । । २.१०३ । ।
मातङ्गिनीकुलान्तस्थं आद्यं चैवाथ पञ्चमं ।
तेन जातं जगत्सर्वं तत्सञ्जातं कुलाकुलं । । २.१०४ । ।

मच्छरीराङ्गसम्भूतं भविष्यन्ति तवाध्वरे ।
कार्यदृष्टौ प्रशस्तं तु अप्रशस्तं इतरे जने । । २.१०५ । ।

मध्यदेशस्थितं तच्च मत्समीपे व्यवस्थितं ।
सिद्धपालकसंयुक्तं भविष्यत्यवतारकं । । २.१०६ । ।

निराचारं जगत्सर्वं निराचारविवर्जितं ।
निराचारेण योगेन करिष्यन्ति निराकुलं । । २.१०७ । ।

हारिका हारि गान्धारी वीरा चैव नखी तथा ।
ज्वालिनी सुमुखी चैव पिङ्गली च सुकेशिनी । । २.१०८ । ।

श्रीफलः कष्मलश्चण्डश्चण्डालश्चेटकस्तथा ।
मातङ्गो बाहुको वीरो अव्यक्तो नवमः स्मृतः । । २.१०९ । ।

हेरम्बो धूलिसंज्ञस्तु पिशाचः कुब्जवामनः ।
परापरं तु तत्पीठं कामपीठोर्ध्वमध्यगं । । २.११० । ।

त्रिश्रोत्रं पूरितं यस्मात्त्रिश्रोत्रा त्वं तथा भव ।
नदीरूपासि माङ्गल्ये भव त्वं कामरूपिणी । । २.१११ । ।

मातङ्गानां कुलोत्पन्ने यस्त्वां नित्याभिवादयेथ् ।
तेषु क्षेमकरी नित्यं न मन्यन्ते क्षयङ्करी । । २.११२ । ।

त्वां मुक्त्वा योऽन्यवर्णस्तु योऽत्र पीठे भविष्यति ।
तस्यापदकरी नित्यं भविष्यसि कुलाम्बिके । । २.११३ । ।

एवं तिष्ठ ममानन्दे जगानन्दकरी चिरं ।
भविष्यति पुरावस्थं अमोघाज्ञाप्रसादतः । । २.११४ । ।

एवं उक्त्वा गता शीघ्रं देवीकोटं कृतक्षणाथ् ।
आलोकनेन महता अट्टहासोऽट्टहासतः । । २.११५ । ।

कोलागिर्यां तथोज्जेनी प्रयागवरणादिकं ।
विरजेकाम्रकाद्यं च अन्यच्चान्यं चराचरं । । २.११६ । ।
यत्र यत्र गता देवी यत्र यत्रावलोकयेथ् ।
तत्र सन्दोहतीर्थं च उपक्षेत्राण्यनेकधा । । २.११७ । ।

कृतं तु भारते वर्षे आत्मकीर्तिकुमारिका ।
तेन क्ॐआरिकाखण्डं सञ्जातं पुण्यपावनं । । २.११८ । ।

पूर्वसन्तानदेवेन यदुक्तं भारतं व्रज ।
तदावसाने कुब्जेशि उभाभ्यां मेलकं त्विह । । २.११९ । ।

तत्कृतं सकलं देव्या आज्ञानन्दावबोधकं ।
आगता तु पुनस्तत्र पूर्वरूपानुयायिनी । । २.१२० । ।

देवोऽपि पूर्वसन्ताने शिष्यः सुरवरार्चिते ।
श्रीमदोड्रमहेशानं कृत्वा चाज्ञां पुनर्ददेथ् । । २.१२१ । ।

व्रज त्वं भारते वर्षे इतः प्रभृत्यनुग्रहः ।
उड्डपीठे पुनः स्थातुं कुरु सृष्टिं अनेकधा । । २.१२२ । ।

एवं उक्त्वा पुनस्तत्र त्रिकूटशिखरान्तगः ।
अदृष्टविग्रहेशानश्चान्तर्धानं अभूत्क्षणाथ् । । २.१२३ । ।

इति कुलालिकाम्नाये श्रीकुब्जिकामते आज्ञापर्यायक्ॐआर्याधिकारो नाम द्वितीयः पटलः


श्रीकुब्जिका उवाच

त्वया सार्धं महादेव विवाहो जायते यथा ।
किं निमित्तं च कस्यार्थे तन्मे निगद भैरव । । ३.१ । ।

श्रीभैरव उवाच

त्वं एव देवि सा भद्रे गतासि पितृमन्दिरं ।
क्रौञ्चस्य च वधार्थाय देवैस्त्वाराधिता वयं । । ३.२ । ।

स च क्रौञ्चो यथोत्पन्नस्तत्सर्वं कथयामि ते ।
स्थानात्स्थानं क्रमन्त्याशु प्रस्वेदः पतितः क्वचिथ् । । ३.३ । ।

तत्रासौ दानवो जातः क्रौञ्चाख्यो बलदर्पितः ।
तेन देवगणाः सर्वे सप्तलोकान्तसंस्थिताः । । ३.४ । ।

उपद्रुतास्तु बलिना गता ब्रह्मपुरं तु ते ।
ब्रह्मापि तैः समं देवि विष्णोः पार्श्वं उपागताः । । ३.५ । ।

विष्णुना सह आलोच्य किं कुर्वाम उपद्रुताः ।
क्रौञ्चासुरेण बलिना तस्योपायं वद प्रभो । । ३.६ । ।

स्फोटनार्थं गरुत्मीश तेनाहं इदं आगतः ।
हरिणापि पुनश्चोक्तं वधितुं तस्य न क्षमः । । ३.७ । ।

देवदेवीसुतं मुक्त्वा कस्मात्सोऽपि तदुद्भवः ।
तत एवं समालोच्य क्व स्थानस्थः कुजेश्वरः । । ३.८ । ।

देवीदेहोज्झितो देव उवाचेदं पितामहः ।
प्रहस्य पालको ह्येवं उवाचेदं पितामहः । । ३.९ । ।

इदानीं किं असौ दक्षो निर्वपेदुत्थितोऽनलः ।
तस्य कोपानलाद्दग्धः कार्योत्पन्ने कुतस्तु सः । । ३.१० । ।

महादर्पवशाद्भ्रष्टा नष्टा यूयं दिवौकसः ।
एवोपलम्भिताः सर्वे हरिणा ब्रह्मणोदिताः । । ३.११ । ।

ऊचुस्त्वेवं पुनः पश्चादुपायः कोऽस्ति साम्प्रतं ।
हिमवद्गिरेर्दुहिता तिष्ठत्येका सुभाविता । । ३.१२ । ।

जगन्नाथाङ्घ्रिनिरता जगन्नाथो हि तत्र च ।
एवं उक्त्वा वसन्तस्य कामस्य गुणशालिनः । । ३.१३ । ।

देवैः प्रचोदितौ तौ द्वौ देवदेव्योर्मनोहरौ ।
एवं तै रचितं सर्वं पुष्पपल्लवकादिभिः । । ३.१४ । ।

कोकिलारावझङ्कारं षट्पदोन्मत्तसङ्कुलं ।
वसन्तं उदितं दृष्ट्वा प्रसन्नगिरया किल । । ३.१५ । ।

उवाचेदं तदा काले कामो विध्यति भैरवं । । ३.१६ । ।

मदालसानन्दभृतेक्षणेक्षितः प्रपश्यतां एव कुमारिकोरुं ।
धृत्वा करोत्कण्ठितया च कण्ठे आलिङ्गयन्त्या च दिशं विलोक्य । । ३.१७ । ।

लज्जायमानेन सकोपनेन त्रैलोक्यसंहारमहानलेन ।
सन्दीपितोऽसौ पतितः क्षणेन कामो हतः कामनिरीक्षणेन । । ३.१८ । ।

कामानन्दे दग्धे प्रीतिरती रोदनात्मिके दुःसहं ।*
दृष्ट्वा ते रुदमाने नानङ्गः पतिर्भवति मा रुदथः । । ३.१९ । ।*

निग्रहीत्वा तु तं कामं त्रिनेत्ररूपधारिणा ।
निग्रहानुग्रहश्चैव भैरवेच्छा प्रवर्तते । । ३.२० । ।

एतदन्तरं आसाद्य ब्रह्मविष्णुपुरःसराः ।
सर्वे देवगणाः प्राप्ता ऋषिसिद्धाः सगुह्यकाः । । ३.२१ । ।

स्तुतिस्तोत्ररवैर्दिव्यैस्तोषयित्वा कुजेश्वरं ।
उवाचेदं हरिर्ब्रह्मा देव चोत्कण्ठिता वयं । । ३.२२ । ।

भवत्पादविनिर्मुक्ता देवदेवा ह्युपद्रुताः ।
प्रचण्डबलिनाक्रान्ताः क्रौञ्चेन परमेश्वर । । ३.२३ । ।

प्रसीद दयया नाथ ब्रुवामस्त्वभयं दद ।
देवीं उद्वाह्यतां नाथ क्लेशायासप्रपीडितां । । ३.२४ । ।

श्रीभैरव उवाच

कुत्र तिष्ठति कस्यैषा का माता कः पितामहः ।
को मे ददाति को याच्यः किं कुर्वामः कुलोज्झिताः । । ३.२५ । ।

उक्तं तु ब्रह्मणा ह्येवं याच्योऽहं याचका वयं ।
यज्ञयाजी हिमन्ताख्यो अध्वर्युः परमेश्वरः । । ३.२६ । ।

एवं उक्त्वा तु वृद्धेन वसिष्ठप्रमुखानृषीन् ।
प्रेषिता वद शीघ्रेदं सम्प्रदानक्रियां कुरु । । ३.२७ । ।

तैर्गतै रुचितं सर्वं आदेशं शिरसा धृतं ।
बहुवित्तप्रभारेण विवाहानन्दकृद्ध्यभूथ् । । ३.२८ । ।

सर्वमङ्गलमाङ्गल्यं आनन्दानन्दपूरितं ।
तदा प्रभृति सर्वेदं अभूत्पूर्णमनोरथं । । ३.२९ । ।

भैरवे मथनासक्ते जगद्योनिः सदोदिता ।
त्रैलोक्यसृष्टिहेत्वर्थं मन्थानस्थो भवेत्तद । । ३.३० । ।

क्रीडाविनोदैरतिलालसस्थं कुलामृतानन्दविधौ प्रवृत्तं ।
कुलेश्वरं कुब्जिभृतानुरागं सम्पृच्छतेदं प्रणता कुजेशी । । ३.३१ । ।

प्रणयेन तु योगेन द्राविताङ्गं त्वया मम ।
कुब्जेनैव तु रूपेण पीडितातीव भैरव । । ३.३२ । ।

श्रीभैरव उवाच

विनोदकुशले देवि अनेकार्थविधायिनी ।
तोषितोऽद्य त्वया नाथे पृच्छ पृच्छ सुदुर्लभं । । ३.३३ । ।

श्रीकुब्जिका उवाच

पूर्वकाले त्वया मह्यं प्रसादो यः कृतः प्रभो ।
कुब्जत्वं शब्दरूपेण पूर्वं व्याहरितं यतः । । ३.३४ । ।

तेन कार्येण देवेश कालस्थानं न मे प्रभो ।
पृच्छामि प्रणयाविष्टा अज्ञानगुणशालिनी । । ३.३५ । ।

कथं मे कुब्जिका नाम किं खञ्जी पूर्व सूचिता ।
एतदाचक्ष्व यत्नेन सर्वोपायसमन्वितं । । ३.३६ । ।

परमार्थं यदा देव तदा स्यात्सिद्धिसाधनं ।
अथ चेत्तन्मृषा वाक्यं तत्किं नाम प्रतिष्ठितं । । ३.३७ । ।

कथयस्व प्रसादेन समाचारो गुरुः कथं ।
साधनं सर्ववस्तूनां येनैकेन प्रपद्यते । । ३.३८ । ।
मन्त्रतन्त्रेण योगेन आज्ञातः सम्प्रवर्तते ।
तत्सर्वं हेलया नाथ एकोच्चाराद्वद प्रभो । । ३.३९ । ।

श्रीभैरव उवाच

क्रीडानन्दस्वरूपेण पृष्टोऽहं क्लिन्नचेतसे ।
तेन ते क्लेदनामार्गं कथयामि सुरार्चिते । । ३.४० । ।

नित्यानन्दप्रकर्तारं कल्याणार्थप्रबोधकं ।
गुरुं अन्वेषयेद्यत्नात्सुभगं प्रियदर्शनं । । ३.४१ । ।

शुभजातिसुवृत्तिस्थं शुभदेशसमुद्भवं ।
ज्ञानविज्ञानसम्पन्नं समस्तार्थविशारदं । । ३.४२ । ।

कालज्ञं निपुणं दक्षं सामर्थज्ञं अकुत्सितं ।
सर्वावयवसम्पन्नं व्यङ्गदोषविवर्जितं । । ३.४३ । ।

वेधघट्टनिरोधज्ञं लोकमार्गविशारदं ।
क्रियाकाण्डरतं शान्तं सुभक्तं गुरुवत्सलं । । ३.४४ । ।

सुसन्तुष्टं अलोभिष्ठं तपस्विजनवत्सलं ।
प्रतिपन्नजनानन्दं शौर्यवन्तं दृढव्रतं । । ३.४५ । ।

विद्यां अभयदातारं लौल्यचापल्यवर्जितं ।
आचारपालकं धीरं समयेषु कृतास्पदं । । ३.४६ । ।

आगतं न त्यजेद्वस्तुं यो गत्वा न परिग्रहेथ् ।
स गुरुर्न मनुष्यानां देवानां अपि दुर्लभः । । ३.४७ । ।

शक्तिहीनं गुरुं प्राप्य शिष्ये मुक्तिः कुतः प्रिये ।
मूलच्छिन्ने यथा वृक्षे कुतः पुष्पफलादिकं । । ३.४८ । ।

एवंविधं गुरुं प्राप्य को न मुच्येत बन्धनाथ् ।
तं दृष्ट्वा सर्वभावेन शिष्यश्चाराधयेद्गुरुं । । ३.४९ । ।

आत्मना च धनेनैव दासत्वेन भजेत्तु तं ।
तावदाराधयेद्देवि प्रसन्नो यावत्स गुरुः । । ३.५० । ।
प्रसन्नो ददते दीक्षां यया पाशक्षयो भवेथ् ।
प्रबोधो भवते तस्य गृह्णाति यदि तत्क्रमाथ् । । ३.५१ । ।

अक्रमाद्ददते यस्तु अक्रमाद्गृह्णते तु यः ।
द्वावेतौ निश्चितौ बद्धौ पाशैः कुलसमुद्भवैः । । ३.५२ । ।

यावदष्टौ तथा पञ्च त्रीण्यब्दानि सुभावितः ।
तावन्न कारयेद्दीक्षां निषिद्धस्तु कुलान्वये । । ३.५३ । ।

अथ चेद्गुरुसामर्थ्याद्ददते दयया शिशोः ।
तथापि तेन कर्तव्यं दासत्वं तु गुरोः कुले । । ३.५४ । ।

आक्रुष्टः शतधा वापि ताडितस्तु सहस्रधा ।
एवं कृते न यस्यास्ति विरागस्तस्य योग्यता । । ३.५५ । ।

गुरुणा रोषितो वाथ यो दद्यादुत्तरं क्वचिथ् ।
स तु नश्यति दुष्टात्मा अजीर्णे भोजनं यथा । । ३.५६ । ।

गुरोः कोपं न कर्तव्यं वाङ्मनःकायकर्मभिः ।
तस्य कोपाद्दहिष्यन्ति प्राप्तज्ञानं मरीचयः । । ३.५७ । ।

मर्त्यलोकं समासाद्य किञ्चिज्ज्ञा गुरवो यदि ।
तदा ज्ञानस्य का रक्षा ज्ञानचौरं हरन्ति ताः । । ३.५८ । ।

क्षमाशीलं गुरुं मत्वा यदि शिष्योऽपमानयेथ् ।
प्राप्तं मे ज्ञानसद्भावं गच्छामः कथनं विना । । ३.५९ । ।

तस्य रोधादिका देव्यो मूकत्वं जनयन्ति वै ।
न रोहति यथा बीजं दग्धं तद्वदिदं प्रिये । । ३.६० । ।

आज्ञायोगं क्रियामन्त्रं मुषित्वा यः पलायते ।
न च तेन समं याति तत्रैवायाति निश्चितं । । ३.६१ । ।

स कथं तिष्ठते मूढो भुक्तोद्गीर्णे वपुर्यथा ।
नाबुभुक्षा बुभुक्षा वा घृणी क्षीणतनुर्भवेथ् । । ३.६२ । ।

शुभं वा अशुभं वाथ कुर्वाणं न हसेद्गुरुं ।
हसनाद्ध्वंसं आयाति हसिते हिंसितो हि सः । । ३.६३ । ।
सामान्यप्रतिपत्त्या वा न वदेद्गुरुणा सह ।
मुखे हस्तं प्रदत्त्वा तु ददादेशं इति ब्रुवन् । । ३.६४ । ।

अङ्गरक्षा न कर्तव्या न शाठ्यं गुरुणा सह ।
उक्तानुक्तेषु कार्येषु उपेक्षां नैव कारयेथ् । । ३.६५ । ।

शठस्तु दुष्टभावश्च मृषावाद्यप्रवादकः ।
अन्तरङ्गी न सद्भावी स नष्टः कञ्जिनी यथा । । ३.६६ । ।

द्विधाभावाभिपन्नस्य भिन्नभाव इतस्ततः ।
य एवं वर्तते मूढः स नष्टः कञ्जिकं यथा । । ३.६७ । ।

आज्ञास्फुरन्तं आनन्दं गुरुं त्यक्त्वान्यं आश्रयेथ् ।
सन्निरुद्धस्तु सर्वत्र राज्यभ्रष्टो यथा नृपः । । ३.६८ । ।

शरीरं द्रव्यविज्ञानं वस्त्रवाहनभूषणं ।
गुर्वर्थं धारयेद्यस्तु स वै संस्कारं अर्हति । । ३.६९ । ।

गुरुर्मान्यो गुरुः पूज्यश्चाराध्यो गुरवः सदा ।
गुरौ सन्तोषिते सर्वं तोषितं सचराचरं । । ३.७० । ।

गुरोः समो नैव हि मर्त्यलोके तथा विशेषेण तु चान्तरिक्षे ।
यस्तारयेद्दुःखमहार्णवौघात्किं तस्य कर्तुं स करोति शिष्यः । । ३.७१ । ।

न माता न पिता चैव न भ्राता नैव बान्धवाः ।
उपकारं हि कुर्वन्ति कुरुते यादृशं गुरुः । । ३.७२ । ।

एवं मत्वा वरारोहे दुःखे दुःखी सुखे सुखी ।
गुरोर्वैरोधिकं स्थानं प्रमादादपि न व्रजेथ् । । ३.७३ । ।

उपविष्टस्य पार्श्वे तु कर्तव्यं मार्जनादिकं ।
भिक्षापात्रं निवेद्येत पुष्पधाटीं वहेत्सदा । । ३.७४ । ।

अन्तरङ्गं न कर्तव्यं वाङ्मनःकायकर्मणा ।
यत्किञ्चिद्गुरवे कार्यं तत्कर्तव्यं अशङ्कितैः । । ३.७५ । ।

य एवं वर्तते शिष्यः सुखदुःखसमाश्रयी ।
तस्य सिद्धिर्न दूरस्था मोक्षः स्वाधीनतां गतः । । ३.७६ । ।
गुरुणापादितं सर्वं उपदेशं प्रपूजयेथ् ।
तस्मादेवं विदित्वा तु गुरुर्देवो न चान्यथा । । ३.७७ । ।

त्रिष्कालं प्रणिपातेन ध्यानयोगेन तं यजेथ् ।
अदृष्टविग्रहेशानं उपलभ्येत नान्यथा । । ३.७८ । ।

मन्त्रध्यानतपोपायैश्चर्यायोगैरनेकधा ।
न पश्यन्ति परं शम्भुं यावन्नोपासयेद्गुरुं । । ३.७९ । ।

ध्यायन्तोऽपि सदा भक्त्या मद्रूपं गुरुणोदितं ।
तथापि न भवेत्सौख्यं शाम्भवं परमार्थतः । । ३.८० । ।

यावन्मूर्ध्नोपरि पादा आज्ञायुक्तः सुभावितः ।
तावन्न जायते शीघ्रं अदृष्टगुणलक्षणं । । ३.८१ । ।

गुरुरूपविधौ यदि निश्चलता तदुपासति मूर्ध्नि धृताङ्घ्रियुगं ।
अचिरेण भवत्युपलद्भिगुणा अणिमादिगुणाष्टकशम्भुपदं । । ३.८२ । ।

आज्ञाहीने परोक्षत्वं त्रयाणां दर्शितं मया ।
रुद्रभैरववीराणां कथनाद्योगः प्रवर्तते । । ३.८३ । ।

सिद्धे सिद्धं विनिर्दिष्टं प्रत्यक्षगुणलक्षणं ।
आज्ञातः सम्प्रवर्तेत सा चाज्ञा गुरवो विदुः । । ३.८४ । ।

शास्त्रे शास्त्रे स्मृतं ज्ञानं मयानेकविधानतः ।
प्रत्यक्षमन्त्रनिहिता सिद्धाज्ञा सिद्धगोचरे । । ३.८५ । ।

तेनेदं सिद्धसन्तानं गुरुदेवोपलक्षितं ।
यस्य चाज्ञानिपातेन सम्बोधः शाम्भवो भवेथ् । । ३.८६ । ।

प्रत्यक्षं गुरवं त्यक्त्वा ज्ञानरूपं कुलेश्वरं ।
कथं आराधनान्यत्र कुरुते मोहितात्मनः । । ३.८७ । ।

निर्वाणाग्नौ ज्वलद्दीप्ते योऽन्यत्राग्नौ व्रजेत्कुधीः ।
देवागारं गुरुं त्यक्त्वा व्रजत्यधोभवं तु सः । । ३.८८ । ।

पूर्वकर्मविशुद्धस्य शक्तिपातः सुनिर्मलः ।
तीव्रशक्तिनिपातोऽस्य शीघ्रं एव प्रपद्यते । । ३.८९ । ।
मलकायप्रपूर्णस्य मन्दं मन्दं प्रवर्तते ।
अभाग्यस्यापि षण्मासात्तीव्रत्वं सम्प्रपद्यते । । ३.९० । ।

यावन्न सर्वभावेन मर्त्यलोकं उपागतं ।
गुरुमूर्तिधरं शम्भुं तावत्पातो न शाम्भवः । । ३.९१ । ।

मद्वीर्यः पारदो यद्वत्पतितः स्फुटितः कणैः ।
तद्वच्च देशिकेन्द्राणां रूपेण प्रभ्रमाम्यहं । । ३.९२ । ।

मम वीर्यप्रसूतास्ते आचार्याः सूतकेव हि ।
विन्धन्ति संस्कृताः सन्तो भक्त्योषधिसुजारणाथ् । । ३.९३ । ।

अहं एकः कुलालो वै खेचरादौ गुणोज्ज्वलः ।
सृजामि निखिलं सर्वं गुरुत्वे संव्यवस्थितः । । ३.९४ । ।

सादाख्यः खेचराणां च पिङ्गोऽहं पवनोद्भवः ।
तेजसेऽनन्तरूपोऽहंऽनुग्रहीशो जलोद्भवः । । ३.९५ । ।

श्रीकण्ठोऽहं निवृत्[त्]यन्ते कुलीशोऽहं क्षितीतले ।
ऽनुघ्रहाम्यखिलं सर्वं एकोऽप्यनेकधा स्थितः । । ३.९६ । ।

येन येन हि भावेन पृच्छितोऽहं यथा यथा ।
तथा तथा मया सर्वं गुरुत्वे सम्प्रदर्शितं । । ३.९७ । ।

अत्रैव सिद्धसन्ताने प्रत्यक्षोऽहं व्यवस्थितः ।
गुरुमूर्तौ स्थितो नित्यं यस्याज्ञा सम्प्रवर्तते । । ३.९८ । ।

सुवर्णस्य यथाकाराः संज्ञाभेदैरनेकधा ।
कटकङ्कणकेयूरैः कण्ठीमुद्राङ्गुलीयकैः । । ३.९९ । ।

तथा ते गुरवो ज्ञेया ममाज्ञाङ्गसमुद्भवाः ।
रसवद्वेधका ज्ञेया स्तोकं स्तोकं बहुं बहुं । । ३.१०० । ।

पलकोटिपलानां च गुञ्जादेवं न संशयः ।
एवं विभूतिराख्याता युगरूपानुसारिणी । । ३.१०१ । ।

पलेन विहितो वेधः किं गुञ्जातो न विध्यति ।
संस्कारे सति सर्वत्र बहुस्तोकं न चिन्तयेथ् । । ३.१०२ । ।
परापरविभागेन कालभाववशेन च ।
बहुस्तोकं न मन्तव्यं प्रत्ययश्चात्र कारणं । । ३.१०३ । ।

रसविद्धं यथा ताम्रं न भूयस्ताम्रतां व्रजेथ् ।
आज्ञाविद्धस्तथाप्येवं न संसारं अनुक्रमेथ् । । ३.१०४ । ।

सा चाज्ञा विद्यते यस्य मम तुल्यः कुजाम्बिके ।
पलमात्ररसो भव्यं गुञ्जामात्ररसेन किं । । ३.१०५ । ।

पलमात्ररसो ह्यहं गुञ्जामात्रस्ततोद्भवः ।
एवं मत्वा गुरूणां च न विकल्पो विभूतये । । ३.१०६ । ।

आज्ञातो भुक्ति मुक्तिश्च सर्वं साधयते क्षणाथ् ।
वाञ्छितं लभते सर्वं यदि भक्तिः सुनिश्चला । । ३.१०७ । ।

आज्ञा तु द्विविधा प्रोक्ता साधकानुग्रहात्मिका ।
समर्थाचारयुक्तस्य ततस्तां तु प्रमोचयेथ् । । ३.१०८ । ।

प्राथमिकस्य या आज्ञा; सा विशुद्धिप्रबोधिका ।
अधिकारनिमित्तार्थं पुनश्चाज्ञां ददेद्गुरुः । । ३.१०९ । ।

आज्ञामात्रेण सन्तुष्टो अन्यस्याज्ञां ददाति च ।
नेहत्रे तु सुखं तस्य परत्रे बाध्यते तु सः । । ३.११० । ।

वाचासिद्धिः पुरक्षोभं यावज्ज्ञातं न योगिनः ।
तावन्न कारयेद्दीक्षां इत्याज्ञा पारमेश्वरी । । ३.१११ । ।

ज्ञात्वाम्नायं वरारोहे दिव्यादिव्यैर्निषेवितं ।
चतुष्कं पञ्चकं षट्कं चतुष्कं पञ्चकं चतुः । । ३.११२ । ।

श्लोकद्वादशकं चान्यत्पञ्चरत्नं सतद्ग्रहं ।
षोढान्यासक्रमं ज्ञात्वा एतत्सर्वं विधानतः । । ३.११३ । ।

स योग्यः क्रमिको शिष्यो अन्यथा नामधारकः ।
ततः प्रभृति सिद्धोऽसौ पूज्यः पूजापकः स्मृतः । । ३.११४ । ।

एतद्गुणविशिष्टोऽयं शिष्यः सर्वार्थदायकः ।
महदन्यायसम्प्राप्तो गुरुस्तं न तिरस्करेथ् । । ३.११५ । ।
एवं गुरुत्वं आप्नोति सिद्धाम्नाये कुजेश्वरि ।
अन्यथा जीविकार्थं तु आत्मानं च विडम्बितः । । ३.११६ । ।

आज्ञाया गुणं ऐश्वर्यं यस्य जातं यशस्विनि ।
तस्मात्सम्पद्यते सर्वं यदि दत्ता प्रसादतः । । ३.११७ । ।

क्रमेण विहिता चाज्ञा आज्ञामोघक्रमं विदुः ।
ते ज्येष्ठाः क्रमसन्ताने यद्येषांऽनुक्रमो न हि । । ३.११८ । ।

किं तु मण्डलयोग्यास्ते न भवन्ति कुलेश्वराः ।
चन्दनाक्षतदीपानां नार्हत्वं च भजन्ति ते । । ३.११९ । ।

अधिकाराज्ञा प्रथमा प्रसादाज्ञा द्वितीयका ।
सा यदि क्रमशः प्राप्ता सक्रमानुक्रमेण तु । । ३.१२० । ।

तत्र कालं समारभ्य गुरुत्वं भजते तु सः ।
स यत्र तिष्ठते देशे तत्र येऽन्ये तु कन्यसाः । । ३.१२१ । ।

भ्रातॄणां भ्रातृपुत्राश्च तत्पुत्राश्च गुरुर्यथा ।
पूजयन्त्यविकल्पेन सिद्धिमार्गे विधिर्ह्ययं । । ३.१२२ । ।

आराध्यस्तिष्ठते यत्र तत्र किञ्चिन्न कारयेथ् ।
मन्त्रतन्त्रक्रियायोगं अधिकारं प्रभुत्वता । । ३.१२३ । ।

पञ्चयोजनमात्रेण गत्वा कर्म समारभेथ् ।
तत्पुरे दासवत्तिष्ठेदाज्ञाश्रवणतत्परः । । ३.१२४ । ।

स्वपुरस्थं प्रयत्नेन यदाराध्यं न पश्यति ।
भुञ्जते मोहितात्मानः किल्बिषं भुञ्जते तु सः । । ३.१२५ । ।

प्रायश्चित्तं चरेद्देवि कुब्जिकायायुतद्वयं ।
अथ चेद्दर्पमूढस्तु ज्ञात्वा भुञ्जत्यशङ्कितः । । ३.१२६ । ।

लक्षं जप्त्वा भवेच्छुद्धि[र्] गुरुपूजा त्वनन्तरं ।
समपादेन चारुह्य गुरोरग्रे अजानतः । । ३.१२७ । ।

कुब्जिकायुतं एकं तु शुध्यते गुरुपूजया ।
गुरोरास्थानसंस्थाने चारुह्य पादुकैः सह । । ३.१२८ । ।
गुरुदृष्टिगते पादे जपते तस्य पूर्ववथ् ।
ज्येष्ठो भ्राता गुरोर्माता गुरोः स्थानार्चकास्तु ये । । ३.१२९ । ।

त्रीण्येतास्तत्समा ज्ञेया द्रष्टव्या गुरुवद्यथा ।
अपमान्य यदा ह्येतानात्मसम्भावितः कुधीः । । ३.१३० । ।

प्रायश्चित्ती सलक्षेण शुध्यते गुरुपूजया ।
उपमर्द्य गुरोः स्थानं पापात्मा यत्र तिष्ठति । । ३.१३१ । ।

तस्य दर्शनसम्भाषात्पातकिनो भवन्ति ते ।
यदा साधुः प्रसन्नात्मा तदा लक्षत्रयेण वै । । ३.१३२ । ।

मण्डलानां सहस्रेण गुरुपूजा त्वनन्तरं ।
पादुकोपानहौ छत्त्रं शय्यापट्टोऽथ भाजनं । । ३.१३३ । ।

पादेन संस्पृशेद्यस्तु शिरे धृत्वाष्टकं जपेथ् । । ३.१३३* । ।

इति कुलालिकाम्नाये श्रीकुब्जिकामते मन्थानभेदप्रचाररतिसङ्गमो नाम तृतीयः पटलः


श्रीकुब्जिका उवाच

तृप्ताहं देवदेवेश बीजमन्त्रैरनेकधा ।
चक्रैश्च विविधाकारैः सद्यःप्रत्ययकारकैः । । ४.१ । ।

अद्यापि संशयो नाथ मन्त्राणां निर्णयं प्रति ।
पूर्वं च कथिता मन्त्राः सप्तकोटिरसङ्ख्यया । । ४.२ । ।

साधनानि पुनस्तेषां सद्यःप्रत्ययकारकाः ।
क्लिष्यन्ति मनुजात्यन्तं जपहोमपरायणाः । । ४.३ । ।

व्रतैश्च विविधाकारैः कष्टैश्चान्द्रायणादिभिः ।
किमर्थं ते न सिध्यन्ति जप्त्वा कोटिशतैरपि । । ४.४ । ।

त्वं च देवो विभुः कर्ता त्वयोक्तं सत्यं उच्यते ।
अविचारेण तद्ग्राह्यं मिथ्या किं देव भाषितं । । ४.५ । ।

ध्वंसिताश्च त्वया लोका मायारूपेण भैरव । । ४.६ । ।

श्रीभैरव उवाच

साधु साधु महाप्राज्ञे वस्तुचोद्यविकल्पिनि ।
ये मया कथिता मन्त्राः पूर्वं ये कामसिद्धिदाः । । ४.७ । ।

ते गोपिता मया देवि वर्णरूपाः प्रकाशिताः ।
तेन ते न प्रसिध्यन्ति जप्त्वा कोटिशतैरपि । । ४.८ । ।

ओंकारेण तु ते गुप्ता नमस्कारेण भामिनि ।
तेन गुप्तेन गुप्तास्ते शेषा वर्णास्तु केवलाः । । ४.९ । ।

एकाक्षरा द्व्यक्षराश्च चतुःपञ्चनवाक्षराः ।
कूटमन्त्राश्च ये केचित्पिण्डमन्त्रास्तथैव च । । ४.१० । ।

एकाशीतिपदाश्चान्ये सहस्रान्ताः शतार्धिकाः ।
सर्वे ते निष्फलाः प्रोक्ताः किं तु जीवविवर्जिताः । । ४.११ । ।

लोके प्रसिद्धं एवं हि जीवहीना मृताः किल ।
मृतस्य चोपचारेण किं तेषां जीवितं भवेथ् । । ४.१२ । ।

एवं मन्त्रा वरारोहे अक्षरार्थे व्यवस्थिताः ।
व्रतचर्यैर्न सिध्यन्ति सत्यं एतदुदाहृतं । । ४.१३ । ।

सिध्यन्ते जीवयुक्तास्तु किं अत्र प्रविचार्यते ।
अन्योन्यवलिताश्चैव भेदिता द्वादशस्वरैः । । ४.१४ । ।

रञ्जिताः शक्तिबीजेन सिध्यन्ते वरवर्णिनि ।
उक्ताः कामप्रदाः सर्वे सर्वे चामोघशक्तयः । । ४.१५ । ।

शिववक्त्रोद्भवाः सर्वे मननत्राणधर्मिणः ।
त्राणं तु रक्षणं प्रोक्तं तच्च वर्णविवर्जितं । । ४.१६ । ।

शुद्धस्फटिकसˆकाशं चारोच्चारविवर्जितं ।
ज्वलन्तं स्वेन तेजेन हृत्पद्मे संव्यवस्थितं । । ४.१७ । ।

भावयेच्छून्यं आत्मानं एकीभूतं तया सह ।
सुषुम्णाचारयोगेन उद्यन्तं रविबिम्बवथ् । । ४.१८ । ।

ओ-जा-पू-का-क्रमान्भित्त्वा विद्याकुब्जपदे स्थितं ।
तावत्कम्पत्यसौ योगी स्तोभं आयाति तत्क्षणाथ् । । ४.१९ । ।

मुद्रा मन्त्रं तथा भाषा सर्वं जानाति तत्त्वतः ।
कुब्जीशानपदं प्राप्तं सुप्तावस्था प्रजायते । । ४.२० । ।

ईषन्मात्रं विजानाति सुप्तावस्थाव्यवस्थितः ।
ब्रह्मरन्ध्रगता चाज्ञा काष्ठवत्तिष्ठते तदा । । ४.२१ । ।

यवमात्रप्रमाणं तु त्रिकोणाकृतिं उत्तमं ।
वडवामणीन्द्रियं यद्वन्मीलनोन्मीलनानि च । । ४.२२ । ।

तत्र मध्ये गतं चेतः काष्ठावस्था तु जायते ।
भेरीमृदङ्गशब्दाद्यैर्गीतवाद्यैरनेकधा । । ४.२३ । ।

न शृणोति न पश्येत न चान्यं मन्यते प्रभुं ।
खड्गचक्रादिभिः शस्त्रैश्छिद्यमानो न विन्दति । । ४.२४ । ।

ईषन्मात्रं विजानाति शक्त्यावस्था वरानने ।
शक्त्यन्तं तु यदा प्राप्तस्तदा चोत्पतते क्षणाथ् । । ४.२५ । ।

एवं क्रमेण देवेशि शक्त्युच्चारं समभ्यसेथ् ।
सतताभ्यासयोगेन वागीशत्वं प्रजायते । । ४.२६ । ।

मासं एकं यदाभ्यस्तं काव्यकर्ता न संशयः ।
द्विभिर्मासैर्वपुष्मन्तः क्षुत्तृष्णाद्यैर्न बाध्यते । । ४.२७ । ।

विचरेदखिलान्लोकान्यावदाभूतसम्प्लवं ।
अक्षरार्थेन ये मन्त्रास्तेषां एव विधिः स्फुटं । । ४.२८ । ।

श्रीकुब्जिका उवाच

अक्षरार्थोपदेशश्च सम्प्रदायश्च कौलिकः ।
यथा विज्ञायते देव प्रसादं कुरु भैरव । । ४.२९ । ।

श्रीभैरव उवाच

शृणु देवि प्रवक्ष्यामि मन्त्राणां निर्णयं स्फुटं ।
प्रस्तारादि-र्-अनेकैश्च ये मन्त्राश्चोदिताः प्रिये । । ४.३० । ।

अक्षरार्थेन ते ज्ञेयाः खण्डमन्त्राः शिवोदिताः ।
रञ्जकेन समायुक्ता उपदेशः सुरार्चिते । । ४.३१ । ।

सम्प्रदायो भवेद्देवि सोऽपि षट्सु प्रभेदतः ।
पल्लवो योगरोधश्च सम्पुटो ग्रथनस्तथा । । ४.३२ । ।

विदर्भश्च षडेते हि सम्प्रदायाः प्रकीर्तिताः ।
मालिनी शब्दराशिश्च कौलिको विधिरुत्तमः । । ४.३३ । ।

सा तु ज्ञेया वरारोहे भेदाः पञ्चाश सुव्रते ।
कुलं तु षड्विधं ज्ञेयं तस्य वक्ष्यामि लक्षणं । । ४.३४ । ।

परं बीजं तथा मूलं आगमो विधिरेव च ।
वर्णराशिसमायुक्तः षड्विधस्तु कुलक्रमः । । ४.३५ । ।

सकलो निष्कलश्चैव तथा सकलनिष्कलः ।
सूक्ष्मो भिन्नकलश्चैव कलातीतो वरानने । । ४.३६ । ।

षट्प्रकारो भवेन्मन्त्रो ज्ञातव्यः सिद्धिं इच्छता ।
शुद्धद्वन्द्वजसट्कीर्ण उपदेशस्त्रिभेदतः । । ४.३७ । ।

श्रीकुब्जिका उवाच

सूचिता मन्त्रमार्गे तु ये मन्त्रा लक्षणान्विताः ।
ते ज्ञेयास्त्वत्प्रसादेन ध्यानधारणयोगतः । । ४.३८ । ।

कुलमार्गगता देव यथा भवति तत्कथं ।
कथं तु पल्लवो योग आदि षट्सु प्रकारतः । । ४.३९ । ।
कौलिकं षड्विधं किं तु मन्त्राणां षड्विधा गतिः ।
त्रिविधश्चोपदेशश्च एतदिच्छामि वेदितुं । । ४.४० । ।

श्रीभैरव उवाच

पल्लवो आदिदेशे तु योगो मध्ये विजानतः ।
रोधस्तु आदिमध्यान्ते सम्पुटश्चादि-र्-अन्तगः । । ४.४१ । ।

ग्रथनं चान्तरे ज्ञेयं अक्षराक्षरयोगतः ।
विदर्भो मन्त्र-म्-आदौ तु मन्त्रान्ते वीरनायिके । । ४.४२ । ।

मालाग्रथनं एतद्धि ज्ञातव्यं मन्त्रवादिना ।
पल्लवो मन्त्रबोधे तु योगो ज्ञेयस्तु सर्वदा । । ४.४३ । ।

अमलीकरणे चैव सन्धानस्य विधौ प्रिये ।
योगस्तु कथितो ह्येवं रोधश्चैवानुकथ्यते । । ४.४४ । ।

तीव्रमन्त्रपदस्तम्भे वाक्स्तम्भे सैन्यस्तम्भने ।
हस्त्यादिशकटयन्त्रे नावान्ते च प्रकीर्तितः । । ४.४५ । ।

तेषु रोधः प्रशस्येत पशूनां उत्क्रमेषु च ।
सम्पुटो मन्त्ररक्षासु वश्यार्थे चैव योजयेथ् । । ४.४६ । ।

अमृतीकरणे चैव विषे स्थावरजङ्गमे ।
शान्तिकादिषु कार्येषु सम्पुटस्तु प्रशयते । । ४.४७ । ।

ग्रथनं रूपकार्येषु आकृष्ट्यादिषु कर्मसु ।
सन्धाने तु वरारोहे ग्रथनं समुदाहृतं । । ४.४८ । ।

विदर्भः सर्वकार्येषु उक्तानुक्तेषु वस्तुषु ।
कर्तव्यं सततं देवि यदि सिद्धिं समीहते । । ४.४९ । ।

एतद्देवि समाख्यातं सम्प्रदायविधिः शुभः ।
न मया कस्यचित्ख्यातं सत्यं सत्यं गणाम्बिके । । ४.५० । ।

साम्प्रतं कुलमार्गस्तु यथा भवति तच्छृणु ।
परं बिन्दुः समाख्यातो हृत्पद्मे सुरनायिके । । ४.५१ । ।
ग्रहणं तस्य चोपायस्तं ज्ञेयं कौलिकं परं ।
बीजं कुण्डलिनी शक्तिर्या करोति गमागमं । । ४.५२ । ।

तस्यान्तं तु ततो ज्ञात्वा बीजं कौलिकं उत्तमं ।
मूलं शक्तिः स्मृता कुब्जी जगतः कारणात्मिका । । ४.५३ । ।

तस्या जातं अशेषं तु आब्रह्मभुवनान्तिकं ।
सृजते येन सुश्रोणि कार्यकारणयोगतः । । ४.५४ । ।

ज्ञेया धर्मिणि धर्मित्वं यथोष्मा कृष्णवर्त्मनः ।
एतत्कौलिकं आख्यातं मूलसंज्ञा वरानने । । ४.५५ । ।

आगमस्तत्र सूत्रार्थो विधिस्तत्रैव चोदिता ।
वर्णराशिक्रमो ज्ञेयो नादिफान्तस्वरूपतः । । ४.५६ । ।

आदिक्षान्तश्च देवेशि शब्दराशिक्रमो विदुः ।
एतत्कौलिकं आख्यतं षट्प्रकारं वरानने । । ४.५७ । ।

सकलादिक्रमेणैव वक्ष्यमानं निबोधत ।
ब्रह्मस्थः सकलो मन्त्र अष्टत्रिंशत्कलैर्युतः । । ४.५८ । ।

पूर्यष्टकसमोपेत उद्भवस्थो विजानतः ।
कण्ठस्थो निष्कलो देवि कलाकालविवर्जितः । । ४.५९ । ।

रुद्रस्थानगतो भद्रे मन्त्रो भावैर्द्विभिर्युतः ।
स्थूलजालकलैर्युक्तो बिन्द्वादीनां च सम्भवैः । । ४.६० । ।

सूक्ष्माधारस्थितो ह्येकः स्पर्शाख्यो मन्त्रवेदकः ।
सकलो निष्कलश्चासौ मन्त्रो ज्ञेयस्तु सुव्रते । । ४.६१ । ।

विलीनो बिन्दुदेवे तु योन्याकारस्वरूपतः ।
शब्दस्पर्शविनिर्मुक्तो मन्त्रो ज्ञेयस्तु निष्कलः । । ४.६२ । ।

सूक्ष्मात्सूक्ष्मतरो देवि स च सूक्ष्मो निगद्यते ।
कालरूपः स्मृतो बिन्दुस्तं भित्त्वा व्रजते यदि । । ४.६३ । ।

ऊर्ध्वपदे प्रवृत्तस्य सुषुम्णाधारगोचरः ।
प्रलीनः शब्ददेवे तु चिच्छक्तिप्रतिबोधितः । । ४.६४ । ।
भिन्नकलः स्मृतो ह्येवं लयातीतस्तु मोक्षदः ।
पञ्चावस्था समाख्याता मन्त्राणां अमितौजसां । । ४.६५ । ।

यावदेवं न विन्देत तावत्सिद्धिः कुतो भवेथ् ।
हृत्कण्ठतालुजिह्वौष्ठौ दन्तनासोद्भवाक्षराः । । ४.६६ । ।

क्षणप्रध्वंसिनो देवि यथोत्पत्तिस्तथा क्षयः । ।
कृतका ह्यचेतना शून्या अनित्या जल्पकारकाः । । ४.६७ । ।

पञ्चावस्थाप्रभिन्नस्तु तदा मन्त्र-ं इहोच्यते ।
एवं मन्त्रगतिं ज्ञात्वा सिध्यन्ते लीलया नराः । । ४.६८ । ।

उद्भवे शुद्धं इत्युक्तो विश्लेषे द्वन्द्वजः स्मृतः ।
सङ्कीर्णे लयसंस्था हि उपदेशस्त्रिधा स्मृतः । । ४.६९ । ।

स्पर्शनं चावलोकं च सम्भाषं चात्मदर्शनं ।
स्वयमावेशनं चैव सङ्क्रान्तिः पञ्चलक्षणा । । ४.७० । ।

स्पर्शनं हृदिसंस्थं तु आलोकं कण्ठदेशतः ।
तालुस्थाने तु सम्भाषं दर्शनं बिन्दुमध्यतः । । ४.७१ । ।

स्वयमावेशनं देवि कुब्जिरन्ध्रे न संशयः ।
स्पर्शने कम्पनं ज्ञेयं आलोके धुननं भवेथ् । । ४.७२ । ।

सम्भाषे तु भवेत्स्तोभः शास्त्रार्थं चैव मन्यते ।
दर्शनेन गुणावाप्तिरणिमादिगुणाष्टकं । । ४.७३ । ।

स्वयमाविशने देवि उत्पतेन्नात्र संशयः ।
एवं मन्त्रगतिं ज्ञात्वा सिध्यते नात्र संशयः । । ४.७४ । ।

अतः परं प्रवक्ष्यामि मन्त्रोद्धारं वरानने । ।
सुगुप्ते भूसमे शुद्धे गोमयेनोपलेपिते । । ४.७५ । ।

पुष्पप्रकरगन्धाढ्ये गह्वरं तु समालिखेथ् ।
सप्तत्रयोदशैर्भागैः षड्लोप्याः षट्क्रमेण तु । । ४.७६ । ।

यथा चैवैकपार्श्वे तु द्वितीयं एवं एव हि ।
एकं त्रीणि तथा पञ्च सप्त नव तथैव च । । ४.७७ । ।
एकादश तथाप्येवं त्रयोदशावसानतः ।
पञ्चाशदूनं एकेन कर्तव्यं हि यथाविधि । । ४.७८ । ।

कामरूपादकारादौ लिखेदेवं क्रमेण तु ।
स्वराः स्पर्शा यथावृत्त्या यावन्मध्यं उपागताः । । ४.७९ । ।

ओड्डियानगतं देवि हंसाख्यं तु महात्मनं ।
क-षाख्यं मन्त्रराजानं संयोगेन तु जायते । । ४.८० । ।

एवं न्यासे कृते देवि उद्धरेन्मालिनीं शुभां ।
नादिफान्तक्रमेणैव यथा भवति तच्छृणु । । ४.८१ । ।

प-ध-मध्ये शिखा ज्ञेया अधःशिरव्यवस्थिता ।
ए-पूर्वाक्षरचतुष्कं शिरोमाला निगद्यते । । ४.८२ । ।

ऐ-श-मध्ये शिरो देव्याः कारयेच्छुभलक्षणं ।
तृतीयं नयनं देव्या ङ-छ-मध्यगतं पुनः । । ४.८३ । ।

न-द-मध्यगतं ज्ञेयं द्विधाभूतं वरानने ।
नयनौ च स्मृतौ देव्याः क्रमाद्दक्षिणवामगौ । । ४.८४ । ।

ट-पूर्वे नासिका ज्ञेया संसृष्टा चैव मध्यगा ।
ढ-त-मध्यगतं गृह्य द्विरभ्यासपदेरितं । । ४.८५ । ।

ठ-ड-पूर्वौ युतौऽधस्ताद्भूषणौ कर्णयोः स्मृतौ ।
वामदक्षिणमार्गेण कर्णभूषस्थिताविह । । ४.८६ । ।

स-च-मध्यगतं वक्त्रं देव्याया वीरनायिके ।
विसर्गान्त-ख-मध्यस्थं क-ग-मध्यगतं पुनः । । ४.८७ । ।

ख-पश्चिमं समुद्दिष्टं पश्चिमोत्तरं एव च ।
घ-च-मध्यगतं चैव उद्धरेदक्षरं शुभं । । ४.८८ । ।

एते पञ्च स्मृता वर्णा देव्या दशनकल्पना ।
ञ-पूर्वे रसना देव्या झ-ऊर्ध्वेन सरस्वती । । ४.८९ । ।

स-त-मध्यस्थितः कण्ठः म-छ-मध्यगतोद्धरेथ् ।
र-म-मध्यगतं तद्वदक्षरौ तु शुभात्मकौ । । ४.९० । ।
शिखरौ तौ स्मृतौ भद्रे वामदक्षिणगौ शुभौ ।
ऊ-ढ-मध्यगतं गृह्य ड-ण-मध्ये द्वितीयकं । । ४.९१ । ।

वामदक्षिणगौ द्वौ तु बाहू देव्याः सुरार्चिते ।
ट-ड-मध्यगतं चैव द्विधाभूतं तु कारयेथ् । । ४.९२ । ।

करतलौ स्मृतौ देव्याः सव्यासव्यौ विजानतः ।
ज-म-पूर्वौ तु अङ्गुल्यौ वामदक्षिणगौ शुभौ । । ४.९३ । ।

अं-क-मध्ये करपृष्ठे द्विधाभूतं प्रकल्पयेथ् ।
ञ-ठ-मध्यगतं गृह्य वामहस्ते प्रदापयेथ् । । ४.९४ । ।

ऊर्ध्ववक्त्रकपालं तु अमृताख्येन पूरितं ।
दक्षिणे तु करे ज्ञेयं य-ढ-मध्ये तु दण्डकं । । ४.९५ । ।

शूलस्य कथितं भद्रे उद्धारेण समुद्धृतं ।
अ-छ-मध्यगतं शूलं उत्तानं ऊर्ध्ववक्त्रगं । । ४.९६ । ।

ज्ञातव्यं तु विपश्चिद्भिर्यथालक्षणलक्षितं ।
घ-न-मध्ये तु हृदयं देव्यायाः सर्वकामदं । । ४.९७ । ।

म-ष-मध्यगतं गृह्य आत्मबीजं शिवात्मकं ।
विसर्गसहितं भद्रे उद्धृतं मन्त्रं उत्तमं । । ४.९८ । ।

य-स-मध्यगतं प्राणं देव्याया वीरनायिके ।
ज-च-मध्यगतं गृह्य र-व-सन्धिगतं तथा । । ४.९९ । ।

वामदक्षिणगौ द्वौ तु अक्षरौ तौ स्तनात्मकौ ।
झ-पूर्वे तु पयो ज्ञेयं अमृतं च उदाहृतं । । ४.१०० । ।

न-स-मध्यगतं गृह्य उदरं उद्धृतंऽनघे ।
क-षाख्यं तत्त्वराजानं नाभिं देव्याः प्रकल्पयेथ् । । ४.१०१ । ।

भ-ञ-मध्यगतं देवि नितम्बं सकलात्मकं ।
व-ष-मध्यगतं गुह्यं औ-पश्चिमसमन्वितं । । ४.१०२ । ।

ऊर्वाकारं भवेद्बीजं ण-थ-मध्यगतंऽनघे ।
ण-त-दक्षिणगौ बीजौ जानुनी द्वे प्रकल्पयेथ् । । ४.१०३ । ।
सव्यासव्यगतौ ज्ञेयौ क्रमेणैव शुभेक्षणे ।
थ-द-दक्षिणगौ द्वौ तु जङ्घौ द्वे वामदक्षिणौ । । ४.१०४ । ।

थ-द-मध्यगतं देवि प-ब-मध्यं तथैव च ।
द्वौ बीजौ चोद्धृतौ भद्रे पादौ ज्ञेयौ विपश्चिता । । ४.१०५ । ।

वामदक्षिणगौ प्रोक्तौ लक्षणेन समन्वितौ ।
एवं सम्यग्विधानेन उद्धृता मालिनी प्रिये । । ४.१०६ । ।

सप्त कोट्यस्तु विद्यानां मन्त्राणां अमितौजसां ।
एषा ह्येका परा योनिर्मालिनी सर्वकामदा । । ४.१०७ । ।

मालयित्वा स्थिता येन तेनैषा मालिनी स्मृता ।
ये भूता ये भविष्यन्ति अप्रमेया वरानने । । ४.१०८ । ।

रुद्राणां योगिनीनां च सा मातैव निगद्यते ।
अवर्णा वर्णसंयोगा ज्ञातव्या तु शुभेक्षणे । । ४.१०९ । ।

सर्वरुद्रात्मका मन्त्रा रुद्राः शक्त्यात्मकाः प्रिये ।
शक्तिस्तु मातृका ज्ञेया सा ज्ञेया तु शिवात्मिका । । ४.११० । ।

एवं मन्त्रप्रमाणं तु कथितं तव शोभने ।
एतदाद्यं समाख्यातं गोपनीयं प्रयत्नतः । । ४.१११ । ।

एकवीरविधानं तु प्रागुक्तं अन्य आगमे । । ४.१११* । ।

इति कुलालिकाम्नाये श्रीकुब्जिकामते मन्त्रनिर्णयगह्वरमालिन्युद्धारो नाम चतुर्थः पटलः


श्रीभैरव उवाच

उमामाहेश्वरं चक्रं कथयामि सुनिश्चितं ।
पदं च पदभेदं च यो जानाति स सिध्यति । । ५.१ । ।

ऐं नमो भगवते रुद्राय पदं चैव दशाक्षरं ।
नमश्चामुण्डे द्वितीयं स्यात्पञ्चाक्षरं उदाहृतं । । ५.२ । ।
नमश्चाकाशमातॄणां पदं अन्यत्तृतीयकं ।
अष्टाक्षरं समाख्यातं लक्षणेन विलक्षितं । । ५.३ । ।

सर्वकामार्थसाधकीनां पदं चैव चतुर्थकं ।
नवाक्षरं इदं देवि पदं यत्समुदाहृतं । । ५.४ । ।

अजरामरीणां पदं चात्र कथितं पञ्चगुणावहं ।*
अक्षराणां समासेन रससङ्ख्या उदाहृता । । ५.५ । ।*

सर्वत्राप्रतिहतगतीनां पदं षष्ठं वरानने ।*
दशाक्षरं समाख्यातं कथितं वीरनायिके । । ५.६ । ।*

स्वरूपपररूपपरिवर्तनीनां पदं सप्तमकं भवेथ् ।*
अक्षराणां समासेन दशत्रितयं उत्तमं । । ५.७ । ।*

सर्वसत्त्व वशीकरणोच्छादनोन्मूलनसमस्तकर्मप्रवृत्तीनां पदं चाष्टमकं भवेथ् ।
अक्षराणां समासेन विंशच्चत्वारिसङ्ख्यया । । ५.८ । ।

सर्वमातृगुह्यहृदयपरमसिद्धं पदं तु नवमं भवेथ् ।*
अक्षराणां समासेन शक्रसङ्ख्या वरानने । । ५.९ । ।*

परकर्म तथा देवि छेदनकरं प्रकीर्तितं ।
सिद्धिकरं च एवात्र पदं चैव द्विपञ्चकं । । ५.१० । ।

अक्षराणां तथा सङ्ख्या एकत्र समुदाहृता ।
द्विसप्तपरिमाणेन स्फुटं एतत्कुलेश्वरि । । ५.११ । ।

शृणु चान्यं वरारोहे मातॄणां वचनं शुभं ।
अक्षराणां प्रमाणेन द्विचतुष्कं वरानने । । ५.१२ । ।

एकादशमं एतद्धि पदं सर्वगुणावहं ।
तद्यथेति समारभ्य द्वितीयं शोभनं प्रिये । । ५.१३ । ।

ब्रह्माणीति पदं पूर्वं माहेश्वरी द्वितीयकं ।
क्ॐआरीति तृतीयं स्याद्वैष्णव्या तु चतुर्थकं । । ५.१४ । ।

वाराह्या पञ्चमं ज्ञेयं ऐन्द्री षष्ठमकं भवेथ् ।
ऐशानी सप्तमं प्रोक्तं आग्नेयी चाष्टमं प्रिये । । ५.१५ । ।
एवमाद्याः स्थिता देव्यः कथितास्तव शोभने ।
अघोरे अमोघे वरदे विच्चे वै वचनं शुभं । । ५.१६ । ।

सर्वासां चैव मातॄणां स्वाहाप्रणवसंयुतं ।
ऐं चामुण्डे पदं पूर्वं ऊर्ध्वकेशि द्वितीयकं । । ५.१७ । ।

ज्वलितशिखे तृतीयं तु विद्युज्जिह्वे चतुर्थकं ।
तारकाक्षि तथा देवि पञ्चमं परिकीर्तितं । । ५.१८ । ।

पिङ्गलभ्रुवे नामेन षष्ठमं तु सुलोचने ।
विकृतदंष्ट्रे पदं ह्येतत्सप्तमं परिकीर्तितं । । ५.१९ । ।

क्रुद्धे ति च तथा चान्यं अष्टमं शुभलक्षणं ।*
मांसशोणितसुरासवप्रिये नवमं दशमं तु हसद्वयं । । ५.२० । ।*

नृत्यद्वयं तथा चोक्तं दश-म्-एकं तु सुव्रते ।
विजृम्भ च तथा युग्मं दशद्वे च प्रकाशितं । । ५.२१ । ।

मायात्रैलोक्यरूपेति दशत्रितयं उत्तमं ।
सहस्रपरिवर्तनीनां द्विसप्तमं परमेश्वरि । । ५.२२ । ।

नुदयुग्मं त्रिपञ्चैव कूटयुग्मं द्विरष्टकं ।
चिरियुग्मं तथा भद्रे दशसप्त च एकतः । । ५.२३ । ।

हिरिद्वितयं एकत्र दश-अष्ट शुभेक्षणे ।
भिरि चैव द्विरभ्यासाद्विंश-म्-एकोनसङ्ख्यया । । ५.२४ । ।

त्रासनिद्वितयं चैव पदं विंशमकं भवेथ् ।
भ्रामणियुग्मं एतद्धि विंश-म्-एकं तु उत्तमं । । ५.२५ । ।

विद्रावणि द्विरभ्यासाद्विंशद्वयं तथानघे ।
क्षोभणीति द्विरभ्यासाद्विंशत्रिकं उदाहृतं । । ५.२६ । ।

मारणिद्वितयं चैव विंशचत्वारिसङ्ख्यया ।
सञ्जीवनिपदे द्वे तु पञ्चविंशपदं प्रिये । । ५.२७ । ।

हेरियुग्मं स्मृतं भद्रे षड्विंशकं अनुत्तमं ।
गेरियुग्मं तथा प्रोक्तं सप्तविंशतिमं पदं । । ५.२८ । ।
घुरि चैव द्विरभ्यासादष्टाविंश वरानने ।
घुरिलेति तथाप्येवं ऊनत्रिंशं उदाहृतं । । ५.२९ । ।

नमो मातृगणायेति त्रिंशकं कथितं स्फुटं ।
नमो नमः ऐं विच्चे स्वाहा त्रिंशं एकोत्तरं पदं । । ५.३० । ।

समस्तपदसंयोगात्परिमाणं शतार्धकं ।
वर्णानां च शते द्वे तु द्वानवत्या वरानने । । ५.३१ । ।

अधिकं कथितं भद्रे मातॄणां नामवर्जितं ।
पदभेदस्तु विद्याया ज्ञातव्यः साधकेन तु । । ५.३२ । ।

प्रयत्नेन वरारोहे तन्त्राम्नायप्रपालकः ।
सकृदुच्चारिता विद्या समयज्ञो भवत्यसौ । । ५.३३ । ।

पञ्चप्रणव-म्-उद्धारं यथा त्वं गह्वरे शृणु ।
ए-ओ-मध्ये समुद्धृत्य बिन्दुनाद-म्-अलङ्कृतं । । ५.३४ । ।

भगाख्यं प्रथमं बीजं उद्धृतं परमाक्षरं ।
व-ष-मध्यगतं गृह्य ण-ट-मध्यासने स्थितं । । ५.३५ । ।

इ-उ-मध्येन सम्भिन्नं अः-औ-मध्य-म्-अलङ्कृतं ।
द्वितीयं कथितं देवि तृतीयं व-म-मध्यगं । । ५.३६ । ।

ठ-ल-मध्यासनासीनं चतुर्थस्वरभेदितं ।
बिन्दुना मस्तकाक्रान्तं न-च-मध्ये चतुर्थकं । । ५.३७ । ।

ई-त-मध्ये समारुद्धं ऐ-पूर्वेण विभेदितं ।
बिन्दुनादसमाक्रान्तं चतुर्थं प्रणवं भवेथ् । । ५.३८ । ।

पञ्चमं य-स-मध्यस्थं ब-ह-मध्यासने स्थितं ।
अं-पूर्वेण समायुक्तं औ-पश्चिमविभूटितं । । ५.३९ । ।

अर्धचन्द्रान्वितं कृत्वा बिन्दुनादयुतं कुरु ।
पञ्चप्रणव-म्-उद्धारं रहस्यं कथितं तव । । ५.४० । ।

मन्त्राणां दीपकं देवि यथाकर्मणि योजयेथ् ।
विद्यायास्तु प्रसङ्गेन पञ्चप्रणवं उद्धृतं । । ५.४१ । ।
साम्प्रतं शृणु कल्याणि विद्यामाहात्म्यं उत्तमं ।
सेवनाज्जपहोमाद्वा ध्यानाच्च क्रमशो भवेथ् । । ५.४२ । ।

षण्मासाच्चोत्पतेद्देवि सत्यं एतदुदाहृतं ।
कृत्वा साम्राटजान्दोषानुच्चारात्कल्मषापहं । । ५.४३ । ।

देवद्रोहे गुरुद्रोहे कोटित्रिंशैः स शुध्यति ।
छेदने पुष्पपत्त्राणां आवर्ताच्छुध्यते तु सः । । ५.४४ । ।

सन्ध्यालोपे कृते देवि त्रिरावर्तेण शुध्यति ।
आह्निकच्छेदसञ्जाते शतं एकं उदीरयेथ् । । ५.४५ । ।

लङ्घने समयानां च अभक्ष्यस्य तु भक्षणे ।
अवाच्यवाचिते देवि सहस्राच्छुद्धिरिष्यते । । ५.४६ । ।

काकोलूककपोतानां पक्षिणां घातने कृते ।
सहस्रैर्द्विभिः शुध्येत सत्यं सत्यं न संशयः । । ५.४७ । ।

छागमेष तथान्यानि मृगजम्बूक ऋक्षयोः ।
शुद्धिस्त्रिसहस्राद्देवि यथा भैरव-म्-अब्रवीथ् । । ५.४८ । ।

सर्पमार्जारहन्तारो दुन्दुभोमत्स्यघातकः ।
चतुर्भिश्च सहस्रैर्हि शीघ्रं शुद्धिं अवाप्नुयाथ् । । ५.४९ । ।

श्वसूकरनकुलादि मूषकश्चाथ वापि वा ।
पञ्चभिः शुद्धिरिष्येत सहस्रैस्तु कुलान्वये । । ५.५० । ।

गवां हत्वा प्रशुध्येत दशलक्षैस्तु सङ्ख्यया ।
ब्राह्मणस्तु यदा देवि प्रमादाद्घातितो बुधैः । । ५.५१ । ।

लक्षैर्विंशति शुध्येत नक्ताशी तु जितेन्द्रियः ।
बौद्धारहन्तहन्ता च द्विजाद्द्विगुण शुध्यति । । ५.५२ । ।

लाकुला मौषलाश्चैव ये चान्ये लातपाणयः ।
हत्वा शुद्धिं अवाप्नोति कोटित्रयजपेन तु । । ५.५३ । ।

गुरुं हत्वा पञ्च कोट्यः शुध्यते तु प्रमादतः ।
स्त्रियो घाती दुराचारो दश कोट्यो जपेत्प्रिये । । ५.५४ । ।
नक्ताशी शुद्धिं आप्नोति क्षेत्रपीठान्भ्रमेद्यदि ।
अन्येषां वर्णजातीनां अधमोत्तममध्यमाः । । ५.५५ । ।

लक्षैस्तु भवते शुद्धिर्द्वित्रिचत्वारिसङ्ख्यया ।
एकादेकोन कर्तव्यं वर्णाणां च क्रमेण तु । । ५.५६ । ।

निन्दते योगिनीं यस्तु शिवभक्तांश्च निन्दति ।
शास्त्राणि दूषयेद्यस्तु स्त्रियं आकोटयेति च । । ५.५७ । ।

क्रोषन्ति कन्यका देवि सहस्राच्छुद्धिरिष्यते ।
वामदक्षिणसिद्धान्ते शिवव्रतधरो हतः । । ५.५८ । ।

कोटिचतुर्भिर्देवेशि शुध्यते जपतत्परः ।
यः पुनस्तत्त्ववेत्ता च षोढान्यासविशारदः । । ५.५९ । ।

स्मरणाच्छुद्धिरिष्येत तथ्यं भैरव-म्-अब्रवीथ् ।
क्रोधेन तु यदा देवि उच्चैःशब्दप्रलापितं । । ५.६० । ।

त्रिवारावर्तयेद्विद्यां शान्तिं आशु प्रयच्छति ।
कृते कर्मणि बालानां लूताचिपिटगण्डयोः । । ५.६१ । ।

ज्वरग्रहविषादिभ्यः ओषधाख्यापनाय च ।
पञ्चावर्ताद्विशुध्येत अन्वयी यस्तु शासने । । ५.६२ । ।

यः पुनः क्रमवेत्ता च शुद्धाशुद्धैर्न बाध्यते ।
देशिकं पुत्रकं वापि साधकं समयज्ञकं । । ५.६३ । ।

प्रमादान्निन्दते यस्तु दशावर्ताद्विशुध्यति ।
अलिं जुगुप्सयेद्यस्तु फल्गुषं वा यदि प्रिये । । ५.६४ । ।

एकोच्चारेण शुध्येत अन्नं वा यज्जुगुप्सते ।
कन्दुकं मल्लकोषाढ्या छिप्पकं चर्मकारकं । । ५.६५ । ।

ध्वजं सूनाकरं वापि मत्स्यघातं तु लुब्धकं ।
कोङ्कणं चीनबाह्लीकं वङ्गालं कामरूपकं । । ५.६६ । ।

मागधं सैन्धवं वापि गुज्जरं लाटसंज्ञकं ।
अन्येऽपि देशमध्यस्था वनवासान्त्यजातयः । । ५.६७ । ।
वेश्यादिक्रमशः सर्वे निन्दनाच्छुद्धिरिष्यते ।
त्रिरावर्तेण देवेशि अकामात्कामतोऽपि वा । । ५.६८ । ।

कामतो द्विगुणं देवि कर्तव्यं सिद्धिं इच्छता ।
त्रिखण्डा यादृशं प्रोक्तं प्रायश्चित्तं कुलान्वये । । ५.६९ । ।

द्वात्रिंशाक्षरया तद्वत्कर्तव्यं तत्त्ववेदिभिः ।
एते निरोधरूपास्तु साधकानां प्रकाशिताः । । ५.७० । ।

तदर्थे कथिता विद्या येन सिध्यन्ति साधकाः ।
श्रेयार्थिनां मयाख्याता मद्भक्ताः कृतनिश्चयाः । । ५.७१ । ।

अन्येषां न कदाचित्स्याल्लौल्यार्थे ये स्थितानघे ।
इयं विद्या समाख्याता उपयोगाद्वरानने । । ५.७२ । ।

साम्प्रतं पदभेदस्तु यथा योज्यस्तु भैरवि ।
तथा ते कथयिष्यामि तच्छृणुष्व समासतः । । ५.७३ । ।

या विद्या कथिता पूर्वं नादिफान्तक्रमेण तु ।
तच्छरीरगता वर्णाः पञ्चप्रणवभेदिताह् । । ५.७४ । ।

पञ्चयोन्याः स्वरूपेण वर्णं एकैकसङ्ख्यया ।
भैरवः शब्दराशिस्तु आदिक्षान्तक्रमेण तु । । ५.७५ । ।

ते वर्णाः पञ्चप्रणवैः सम्पुटे[च्] च पृथक्पृथक् ।
आदिक्षान्तक्रमेणैव नियोजनं उदाहृतं । । ५.७६ । ।

द्वाभ्यां तु ग्रथनं कार्यं समस्तस्यापि शोभने ।
सप्त वर्णान्ददेच्चादौ मध्ये विद्यापदं ददेथ् । । ५.७७ । ।

पुनः सप्त पदस्यान्ते तस्यान्ते तु पदं पुनः ।
पुनः सप्तकं उच्चार्य पदं च तदनन्तरं । । ५.७८ । ।

अनेन क्रमयोगेन निर्वाहेन तु योजयेथ् ।
क्षान्तं वै याव देवेशि तावदेव नियोजयेथ् । । ५.७९ । ।

पदसङ्ख्या समस्तस्य निर्वाहोभयदीपिते ।
मालिनी द्वादशैर्भेदैः शब्दराशिस्तु षोडशैः । । ५.८० । ।
अनेन क्रमशः सर्वे वर्णाश्चैव पृथक्पृथक् ।
चलचक्रविभागेन पदविद्यां यदा यजेथ् । । ५.८१ । ।

तदा क्षोभं करोत्याशु दिव्यादिव्येतरं प्रिये ।
योनयः पञ्चधा यास्तु सर्वाः क्लिद्यन्ति नान्यथा । । ५.८२ । ।

द्रावणं क्षोभणं मोहं जृम्भणं शोषणं तथा ।
सर्वान्तान्कुरुते देवि यदा शक्तिसमो भवेथ् । । ५.८३ । ।

प्रसुप्तभुजगाकारा द्वादशान्ते वरानने ।
नाभिष्ठा तु तथाप्येवं द्रष्टव्या परमेश्वरि । । ५.८४ । ।

दृश्यते देहमध्ये तु व्योमान्ते च परापरा ।
तस्याग्रे तु ततो मन्त्रं हुताशकणिकाकृतिं । । ५.८५ । ।

उच्चारेत ततो मन्त्रं शब्दरूपं हृदि प्रिये ।
शब्दान्ते शक्तिरुच्चार्या ईषन्मन्दगमारुता । । ५.८६ । ।

पद्मसूत्रनिभाकारा उच्चार्या सानुनासिका ।
उच्चारान्तावसाने तु ज्ञातव्यालातचक्रवथ् । । ५.८७ । ।

तत्र मध्यगतं देवि चैतन्यं मन्त्रसंयुतं ।
प्रस्फुरत्किरणानेकैः कोटिशो दिक्ष्ववस्थितैः । । ५.८८ । ।

तस्याप्यन्ते ततो देवि शक्तिराद्या मनोन्मनी ।
अतीता तु यदा सा वै तदा बिन्द्वी उदाहृता । । ५.८९ । ।

बिन्द्वन्ते व्यापको देवो मायातीतो निरामयः ।
स शिवो भावनातीतो निर्गुणो गुणसम्भवः । । ५.९० । ।

अधिकारी सर्वकारी च शक्त्यातीतो महाप्रभुः ।
अनेन क्रमयोगेन क्रमः कार्यः सुनिश्चितैः । । ५.९१ । ।

आत्मा मनश्च मन्त्रश्च शिवः शक्तिस्तथैव च ।
एकीभावगतो देवि ज्ञातव्यः सिद्धिं ईहकैः । । ५.९२ । ।

तस्मात्प्राणसमं जाप्यं मन्त्रान्ते नादगोचरे ।
नादस्यान्ते ततो ज्ञात्वा एतत्स्मरणं उच्यते । । ५.९३ । ।
स्मरणं शक्तिरुद्दिष्टा या करोति गमागमं ।
तस्यान्ते तु परा सूक्ष्मा सा कला अमृतात्मिका । । ५.९४ । ।

लयातीता अरूपा तु स्वयंवेद्याविचारतः ।
न तस्य लक्षणं देवि न लक्षो नैव योजना । । ५.९५ । ।

न क्षयो नैव वृद्धिश्च शुक्लकृष्णौ न चैव हि ।
न रात्रिर्न दिनं चैव न सन्ध्या अयनं तथा । । ५.९६ । ।

विषुवं नैव देवेशि सङ्क्रान्तिर्नैव विद्यते ।
सर्वावस्थगतिं ज्ञात्वा विज्ञानं उपजायते । । ५.९७ । ।

एतत्कौलिकं आख्यातं उमामाहेश्वरं प्रिये ।
उत्पतेत न सन्देहो लक्षजापाच्चलस्य तु । । ५.९८ । ।

चला शक्तिः समाख्याता लक्षणेन उदाहृता ।
अवर्णा वर्णसंयोगा मालिनी सा उदाहृता । । ५.९९ । ।

पदभेदगता ह्येका असङ्ख्याता वरानने ।
एवं तद्ग्रह-म्-आख्यातः सद्यःप्रत्ययकारकः । । ५.१०० । ।

न कस्यचिन्मयाख्यातं उमामाहेश्वरं प्रिये ।
सततं जपते यस्तु योगिनीवल्लभो भवेथ् । । ५.१०१ । ।

षण्मासाच्छुध्यते देवि ब्रह्मघ्नोऽपि न संशयः ।
पश्यते विरजां शान्तां ज्योतिरूपां महाद्युतिं । । ५.१०२ । ।

जपस्य लक्षणं देवि इदानीं शृणु साम्प्रतं ।
एकोच्चारशतान्ते तु परावस्था तु गीयते । । ५.१०३ । ।

शतभेदः समाख्यातस्तद्गुणो दश एव तु ।
सहस्रभेदं इत्युक्तं लक्षः शतगुणः स्मृतः । । ५.१०४ । ।

कोटिभेदः शतानां तु लक्षाणां वरवर्णिनि ।
एतज्जपविधानं तु कथितं तव शोभने । । ५.१०५ । ।

मुक्तकः शतभेदेन युक्तं शतगुणं शतं ।
चलचक्रविभागेन लक्षभेदं उदाहृतं । । ५.१०६ । ।
चलचक्रं यदा देवि कोटिभेदो वरानने ।
बाह्यतः कथितो भद्रे अध्यात्मिकं अतः शृणु । । ५.१०७ । ।

उद्भवे शतभेदस्तु सहस्रो विश्लेषके विदुः ।
लये तु लक्षभेदो वै लयातीते तु कोटयः । । ५.१०८ । ।

वामा ज्येष्ठा तथा रौद्री बिन्द्वी च समुदाहृता ।
इच्छा ज्ञानी क्रिया शान्ता क्रमेणैव सुरार्चिते । । ५.१०९ । ।

आत्मचारगतिं ज्ञात्वा जपः कार्यः सदा बुधैः ।
अनेनैवाक्षसूत्रेण लक्षलक्षणलक्षिते । । ५.११० । ।

कर्तव्यो हि जपो नित्यं सर्वशास्त्रविशारदैः ।
भुवनाख्ये वरारोहे शक्त्याख्ये तु तथैव हि । । ५.१११ । ।

चारोच्चारविभागेन जपः श्रेष्ठ उदाहृतः ।
माला पञ्चाशिका प्रोक्ता सूत्रं शक्तिः शिवात्मिका । । ५.११२ । ।

ग्रथनं कुण्डली शक्तिर्लयान्ते मेरुसंस्थितं ।
एतद्गुप्ततरं कार्यं अक्षसूत्रं शिवात्मकं । । ५.११३ । ।

प्रकटं नैव कर्तव्यं न मेरुं लङ्घयेत्क्वचिथ् ।*
शङ्खस्फटिकरुद्राक्षपुत्रञ्जीवकरिष्टकाः । । ५.११४ । ।*

एवमाद्याः स्मृता ये तु मणिमाला वरानने ।
न तत्र विद्यते देवो न मन्त्रो नैव चेतना । । ५.११५ । ।

यत्र यत्र स्थिता माला न दोषो विद्यते प्रिये ।
मन्त्रन्यासे कृते देवि किल गोप्यं तु कारयेथ् । । ५.११६ । ।

शरीरं कुत्र गोप्यं तु कारयीत वरानने ।
मन्त्रन्यासे कृते ह्यात्मा सकलीकृतविग्रहः । । ५.११७ । ।

यथा गोप्यं न युञ्जेत तद्वच्चैवाक्षमालिका ।
अक्षं चेन्द्रियं इत्युक्तं सूत्रं कुण्डलिनी स्मृता । । ५.११८ । ।

लक्षं तु सा परा सूक्ष्मा कला ह्यमृतवाहिनी ।
संयोगकारिणी व्योम्नि तेन सूत्रेति कीर्तिता । । ५.११९ । ।
सङ्ख्याग्रहणकार्येषु सा चोक्ता अक्षमालिका ।
शङ्खाद्यास्तु वरारोहे जपकर्मणि शस्यते । । ५.१२० । ।

शङ्खजं तु श्रियाकामः स्फाटिकं मुक्तिहेतवे ।
पद्माक्षा पद्मजा प्रोक्ता श्रियापुष्टिकरा प्रिये । । ५.१२१ । ।

रुद्राक्षैः सिद्धिं आप्नोति यच्चान्यं खेचरीपदं ।
जीवका सर्वदा ज्ञेया गोपुच्छाग्रथितानघे । । ५.१२२ । ।

विद्रुमा वश्यकार्येषु मौक्तिका सर्वकामदा ।
अन्यानि तु स्मृता ये वै रत्नजा परमेश्वरि । । ५.१२३ । ।

सर्वदा ते समुद्दिष्टा नात्र कार्यविचारणाथ् ।
रिष्टकाक्षास्थिजा माला अभिचारे प्रशस्यते । । ५.१२४ । ।

नागवङ्गस्तथा लोहा मिश्राश्चान्येऽपि ये स्मृताः ।
मारणे तां प्रशस्येत स्तम्भने मोहने तथा । । ५.१२५ । ।

कम्पने ध्वंसने देवि कर्तव्या चाभिचारके ।
एवं अन्येऽपि ये प्रोक्तास्तेषां श्रेष्ठा तु शङ्खजा । । ५.१२६ । ।

प्रशस्ता सर्वकार्येषु जपकर्मणि शस्यते ।
शङ्खावर्ता तु या नाडी शिखान्ते तु व्यवस्थिता । । ५.१२७ । ।

तेन शङ्खमयं प्रोक्तं अक्षसूत्रं सुराधिपे ।
स्फुटते मस्तके या सा द्विधा चैव विसर्पिणी । । ५.१२८ । ।

स्फाटिकं तेन चोद्दिष्टं गुरुवक्त्रे प्रतिष्ठितं ।
रौद्रीभाव[ः] स्मृतो रुद्रस्ताल्वग्रे च व्यवस्थितः । । ५.१२९ । ।

शब्दस्पर्शरसो रूपं गन्धतन्मात्रसंयुतं ।
विकारित्वे प्रवर्तेत निरोधाल्लक्षं एव च । । ५.१३० । ।

तेन रुद्राक्षमालाया जपः श्रेष्ठ उदाहृतः ।
पुत्रवदुदरे कृत्वा प्रसुप्तामृतकुण्डली । । ५.१३१ । ।

तया नीयत्यसौ जीव अधश्चोर्ध्वेन भाविनि ।
पुत्रञ्जीवकसंज्ञा तु तेनैषा समुदाहृता । । ५.१३२ । ।
अरिष्टानि अनेकानि सुखदुःखात्मिकानि तु ।
भुञ्जते सततं देवि अर्जितं यत्पुरा धनं । । ५.१३३ । ।

अरिष्टाख्या स्मृता माला अप्रमेया भवान्तरे ।
हृत्पद्मे संस्थिता नित्यं अक्षराणां प्रबोधिका । । ५.१३४ । ।

पद्माक्षमाला सा प्रोक्ता शास्त्रे शास्त्रे वरानने ।
एवमाद्याः स्मृता ये तु पर्याया अक्षमालया । । ५.१३५ । ।

ते सर्वे आत्मनश्चैव कथिताश्च कुलेश्वरि ।
अक्षसूत्रविधिः ख्यातः सम्यक्कौलिकवेदिनां । । ५.१३६ । ।

साम्प्रतं न्यासं आख्यामि शृणु तत्त्वेन शोभने ।
स्वाभाविकं चलं दीप्तं स्थिरं द्रवनभोयुतं । । ५.१३७ । ।

न्यासमात्रं समाख्यातं षोढाद्वादशभेदतः ।
षोढा शक्तिः समाख्याता परा चैवाक्षरा शुभा । । ५.१३८ । ।

कुण्डली नाभिदेशस्था परा सा व्योमरूपिणी ।
एका एव परा सूक्ष्मा अक्षया तेजरूपिणी । । ५.१३९ । ।

ज्ञातव्या सा परा देवी षड्वर्णरहिता कला ।
ब्रह्मस्थानगता सूक्ष्मा स्वाभाविकं उदाहृता । । ५.१४० । ।

विष्णुस्थाने चला प्रोक्ता दीप्ता रुद्रपदे स्मृता ।
ईश्वरे स्थिरसंज्ञा तु सदाख्ये द्रवसम्भवा । । ५.१४१ । ।

शक्तिस्था व्योमरूपा तु ज्ञातव्या तत्त्ववेदिभिः ।
अणिमादिगुणाधारा षड्गुणा गुणबोधनी । । ५.१४२ । ।

व्यापिनी व्योमरूपा च अनन्तानाथनाश्रिता ।
संयोक्त्री च वियोक्त्री च सद्भावगुणसंस्थिता । । ५.१४३ । ।

एका एव परा शक्तिः संस्थिता कृत्यभेदतः ।
कृत्यभेदेन भेदोऽस्या न भेदः परमार्थतः । । ५.१४४ । ।

एवं न्यासे कृते देवि अन्तरङ्गे प्रवर्तते ।
बहिरङ्गे वर्णरूपा च एका चैव अनेकधा । । ५.१४५ । ।
षोढाद्वादशभेदेन न्यासः प्रोक्तो गमागमे । । ५.१४६ । ।

इति कुलालिकाम्नाये श्रीकुब्जिकामते बृहत्समयोद्धारः शब्दराशिमालिनीतद्ग्रहव्याप्तिनिर्णयो नाम पञ्चमः पटलः


श्रीकुब्जिका उवाच

जपस्य लक्षणं देव पूर्वं हि कथितं त्वया ।
एकोच्चारशतं ज्ञेयं सहस्रं लक्षं एव च । । ६.१ । ।

कोटयस्तु तथा शम्भो पृथग्लक्षणलक्षिताः ।
न मे ज्ञातं प्रमाणं तु जपस्य सुरनायक । । ६.२ । ।

तदहं श्रोतुं इच्छामि मन्दबुद्ध्याल्पचेतसा । । ६.३ । ।

श्रीभैरव उवाच

या सा कुण्डलिनी शक्तिस्चिद्रूपा च परा कला ।
आद्या शक्तिर्महेशस्य अणुमात्रा हृदि स्थिता । । ६.४ । ।

सा अणु[ः ] कथिता तन्त्रे द्वे अणू त्रुटिं आश्रिता ।
त्रुटिभूता तु सा देवी जप्तव्या तु परापरा । । ६.५ । ।

वर्णहीना परा प्रोक्ता अपरा वर्णरूपिणी ।
एवं ज्ञात्वा वरारोहे जपः कार्यः सदा बुधैः । । ६.६ । ।

त्रुटिरूपा तु सा देवी तदाधारे व्यवस्थिता ।
कलते प्राणगा नित्यं दशस्थाने ह्यनुक्रमाथ् । । ६.७ । ।

ब्रह्मा विष्णुस्तथा रुद्र ईश्वरोऽथ सदाशिवः ।
कुण्डली व्यापिनी चैव प्रशान्ता विषुवत्तथा । । ६.८ । ।

शक्तिस्थानं तु देवेशि एते स्थाना दश स्मृताः ।
येषां सञ्चरते देवः शिवः परमकारणः । । ६.९ । ।

ऊर्ध्वे वा यदि वा तिर्यक्स्वस्थाने वा सुरेश्वरि ।
प्रस्फुरेत कलैर्युक्ता दशभिस्तु महाबलैः । । ६.१० । ।

दशधा कलनं तेन कथितं तव शोभने ।
प्रयत्नेन कृतोच्चारं यावच्छक्तिर्लयं गता । । ६.११ । ।

तावद्देवि शतं प्रोक्तं वर्णोच्चारे न संशयः ।
स्वाभाविकं अनुच्चार्य सूक्ष्माधारो जगत्पतिः । । ६.१२ । ।

शतधा कलनं तस्य त्रुटिरूपस्य योगिनः ।
सहस्रं तु समुद्दिष्टं दशधा परमेश्वरि । । ६.१३ । ।

उभयस्य परित्यागाद्कलाधारः सदाशिवः१ ।
दृक्क्रियाज्ञाननिर्मुक्तः कलते च सहस्रधा । । ६.१४ । ।

लक्षभेदः समुद्दिष्ट इति शास्त्रे न संशयः ।
जपो ह्येवं समुद्दिष्टो योगिनां तत्त्ववेदिनां । । ६.१५ । ।

लक्षातीतो मनातीतो निर्मुक्तस्तत्त्वबन्धनैः ।
उन्मनत्वे सदा लीनो अणुरूपो नकिञ्चनः । । ६.१६ । ।

सत्तामात्रस्थितो देही गुणानां प्रतिबोधकः ।
विषयभावनिर्मुक्तः कलते लक्षधा प्रिये । । ६.१७ । ।

कोटिस्तु भवते ह्येवं ज्ञातव्यं मन्त्रवादिभिः ।
सोच्चारोपांशुभूतस्तु मानसो मनवर्जितः । । ६.१८ । ।

जपः पूर्वं समाख्यातः शास्त्रे शास्त्रे सुरार्चिते ।
सशब्दोच्चारयोगेन शुद्ध्यर्थे कथितं स्फुटं । । ६.१९ । ।

सिद्ध्यर्थेऽपांशुरुद्दिष्टः स्वप्रवृत्तो हृदि स्थितः ।
मानसो योगहेत्वर्थे उभयत्र विवर्जितः । । ६.२० । ।

मनातीतो भवेद्देवि मोक्षदस्तु न संशयः ।
एवं देवि समाख्यातो जपः प्राणसमस्तव । । ६.२१ । ।

जपः प्राणसमः कार्यो दृष्टादृष्टफलार्थिनां ।
अवर्णा वर्णसंयोगा मया ते समुदाहृता । । ६.२२ । ।
निरालम्बे महाशून्ये यत्तेजं उपजायते ।
तद्गर्भे अभ्यसेन्नित्यं भाग्यहीनोऽपि सिध्यति । । ६.२३ । ।

योगमूली विशुद्धी च सार्णवे सा च एकता ।
एकत्र संस्थितानन्दं कुलरत्नं त्रिधा प्रिये । । ६.२४ । ।

श्रीकुब्जिका उवाच
मुद्रा तु सूचिता नाथ न मे ज्ञाता महाप्रभो ।
तन्ममाचक्ष्व देवेशि येन भ्रान्तिर्विनश्यति । । ६.२५ । ।

श्रीभैरव उवाच

पातालोर्ध्वगतं यच्च शृङ्गाटपुरमध्यगं ।
गोलाकारं ततो देवि रन्ध्रस्योर्ध्वगतं प्रिये । । ६.२६ । ।

चक्रद्वयं इदं प्रोक्तं प्राधान्येन व्यवस्थितं ।
वेधघट्टनिरोधं च उच्चाराकृष्टिकारकं । । ६.२७ । ।

स्तोभस्तम्भनं आवेशो गमं चैवात्र सुव्रते ।
एतद्विरहितो मन्त्री हास्यतां याति निश्चितं । । ६.२८ । ।

अनेन ज्ञातमात्रेण प्रत्ययान्कुरुते बहून् ।
वृत्तिराजा वरारोहे निवेश्य चक्रमध्यतः । । ६.२९ । ।

वृत्तिहीनस्ततस्तत्र काव्यकर्ता न संशयः ।
चक्रमध्ये च सञ्चिन्त्य सुशुक्लां च परापरां । । ६.३० । ।

पुस्तकव्यग्रहस्तां च ज्ञानमुद्राधरां तथा ।
स्फाटिकेनाक्षसूत्रेण सर्वाभरणभूषितां । । ६.३१ । ।

स्रग्दामलम्बितगलां प्रभामण्डलमण्डितां ।
द्विबाहु-र्-एकवदनां चन्द्रकोटिसमप्रभां । । ६.३२ । ।

उद्गिरन्ती[ ं ] महौघेन शास्त्रकोटीरनेकशः ।
एवं ध्यानसमाविष्टः साक्षाद्वागीश्वरो भवेथ् । । ६.३३ । ।

संस्कृतं प्राकृतं चैव वेदसिद्धान्तगह्वरं ।
ग्रन्थतश्चार्थतश्चैव उद्गिरेन्नात्र संशयः । । ६.३४ । ।
पीठमध्यगताभ्यासात्पीठद्वारेऽथवा प्रिये ।
सम्प्रदायं इदं कौलं शाक्तं शक्तिपदानुगं । । ६.३५ । ।

मात्रायोगेन देवेशि मुद्राबन्धं तु कारयेथ् ।
सा मात्रा गीयते चात्र उच्चारवशवर्तिनी । । ६.३६ । ।

उच्चरं सहजं देवि देहमध्ये व्यवस्थितं ।
शतसङ्ख्याप्रमाणेन यावदुच्चरते परां । । ६.३७ । ।

तावदाविष्टदेहस्तु शास्त्रार्थं वदते सुधीः ।
नित्यारूपेण सैवात्र ध्यायेद्रक्तसमप्रभां । । ६.३८ । ।

लाक्षालक्तकसङ्काशां चतुर्वक्त्रां चतुर्भुजां ।
मूर्तित्रयसमोपेतां त्रिभिर्भेदैर्व्यवस्थितां । । ६.३९ । ।

त्रिस्थां त्रिमार्गगां देवीं त्रिनाडीसमतां गतां ।
नित्यक्लिन्नां च देवेशि तथा चैव मदद्रवां । । ६.४० । ।

देव्यारूपधरां सर्वां एकवक्त्रां द्विबाहुकां ।
पाशाङ्कुशधरां सर्वां मदविभ्रान्तलोचनां । । ६.४१ । ।

यौवनस्थां मदोन्मत्तां मदिरानन्दनन्दितां ।
स्मरेद्देव्याः स्वरूपं तु तत्प्रयोगव्यवस्थया । । ६.४२ । ।

तडित्सहस्रबन्धूक- दाडिमीकुसुमद्युतिं ।
पञ्चशृङ्गाटकाधारां सा परा पररूपिणी । । ६.४३ । ।

महायोगविलासा तु शिवाद्यवनिगोचरं ।
व्यापयित्वा स्थिता देवी रविनक्षत्रमण्डलं । । ६.४४ । ।

शृङ्गाटकं चोर्ध्वमुखं तिर्यग्रेखाग्रमूलगं ।
शिखोर्ध्वकुण्डलाकारं कामशक्ति-र्-अधिस्थितं । । ६.४५ । ।

पञ्चशृङ्गाटकासीनं स्थितं तत्र वरानने ।
देव्यारूपधरं चक्रं ध्यायेदेवं न संशयः । । ६.४६ । ।

एष बन्धस्तु मुद्रायाः कथितस्ते कुलेश्वरि ।
त्रितत्त्वेन तु मन्त्रेण वक्ष्यमानेन कारयेथ् । । ६.४७ । ।
द्रावणं क्षोभणं चैव आकर्षवशं एव च ।
पूजाविधानं देवेशि देव्याया वीरवन्दिते । । ६.४८ । ।

श्रीकुब्जिका उवाच

त्रिशिखा पद्ममुद्रा च योनिमुद्रा विशेषतः ।
तासां लक्षणं आख्याहि यथावत्स्फुटतो वद । । ६.४९ । ।

श्रीभैरव उवाच

मुद्राणां लक्षणं देवि कथयामि समासतः ।
हस्ताभ्यां कारयेदादौ सम्पुटं चोर्ध्वदिङ्मुखं । । ६.५० । ।

अङ्गुल्या ग्रथयेत्सर्वाः संश्लिष्टं उभयेष्वपि ।
तर्जन्यानामिकौ कुञ्च्य संश्लिष्टौ मध्यसंस्थितौ । । ६.५१ । ।

ताभ्यां मूले मुखं कार्यं तर्जन्याया वरानने ।
संश्लिष्टौ सम्मुखौ द्वौ तु मध्यमौ ऊर्ध्वदिङ्मुखौ । । ६.५२ । ।

संयोगेन वरारोहे अङ्गुष्ठौ च कनिष्ठकौ ।
तादृशीव हि कर्तव्या त्रिशिखा तु विधीयते । । ६.५३ । ।

कराभ्यां सम्पुटं कार्यं मणिबन्धौ तु संहतौ ।
अग्राङ्गुल्या प्रसार्येत अङ्गुष्ठौ मध्यसंस्थितौ । । ६.५४ । ।

पद्ममुद्रा समाख्याता योनिमुद्रां अतः शृणु ।
हस्ताभ्यां सम्पुटं कार्यं कनिष्ठा मध्य योजयेथ् । । ६.५५ । ।

पुटाकारौ करौ कृत्वा अङ्गुष्ठौ मध्यसंस्थितौ ।
निःसृता वामहस्तस्य अङ्गुल्या तु कनीयसी । । ६.५६ । ।

योनिमुद्रा स्मृता भद्रे सर्वेषां क्षोभकारिका ।
एता मुद्राः समाख्याता ध्यानपूजाविसर्जने । । ६.५७ । ।

साम्प्रतं खेचरीणां तु यथा मुद्रा खगाधिपे ।
कथयामि समासेन त्वत्प्रीत्या खगगामिनी । । ६.५८ । ।
अनामा कर्णिके योज्या षोडशारं तु पीडयेथ् ।
पीडनादृजुतां याति खगमार्गे तु भाविनि । । ६.५९ । ।

फादिनान्तगते लक्षे खगतिश्च न संशयः ।
षट्पत्त्रं मूर्ध्नितः कृत्वा तर्जन्याग्रे तु योजयेथ् । । ६.६० । ।

शून्ये शून्यमनो भूत्वा सम्पीड्येत परस्परं ।
षट्पत्त्रं तु विकाश्येत उदानप्रेरितेन तु । । ६.६१ । ।

भावयेन्नादिफान्तं तु खगतीति न संशयः ।
द्वादशारोर्ध्वनालेन लम्बिकान्ते निवेशयेथ् । । ६.६२ । ।

भेदनं कुञ्चितेनैव चार्गलं कूर्मसंयुतं ।
भावयेन्नादिफान्तं तु खगतिं वीरवन्दिते । । ६.६३ । ।

पद्ममुद्रा त्रिधा प्रोक्ता योनिमुद्रां अतः शृणु ।
योनिं योनौ समाक्रम्य मुद्गरेण तु भेदनं । । ६.६४ । ।

विसर्गद्वयसंयोगात्खगगामी भवेद्ध्रुवं ।
अमृताख्या परा योनिर्भावयेन्मस्तकोपरि । । ६.६५ । ।

आक्रम्य गन्धमार्गं तु योजना नादिफान्तगा ।
खगतिर्भवते-द्-एवं योनिमार्गे विचक्षणः । । ६.६६ । ।

उच्चार्य वामशक्तिं तु सन्धयेद्ग्रन्थिमध्यतः ।
विक्षेपं ऊर्ध्वतः कृत्वा परे योनौ तु भावना । । ६.६७ । ।

अनेन खगगामित्वं भवते तु न संशयः ।
योनिमुद्रा समाख्याता त्रिभेदा परिकीर्तिता । । ६.६८ । ।

त्रिशिखालक्षणं देवि कथ्यमानं निबोधत ।
कराभ्यां चैव तर्जन्यां पीडयेत्तत्प्रयत्नतः । । ६.६९ । ।

ब्रह्मनाड्या द्विरभ्यासादासनं मन्दरस्य तु ।
त्रिशिखा नाम मुद्रेयं अर्पणं खगमार्गयोः । । ६.७० । ।

गोलकं शून्यमार्गस्थं पथत्रयगतं प्रिये ।
क्षेपणं बिन्दुकोट्यूर्ध्वं अवनीं क्रम्य पादयोः । । ६.७१ । ।
गुह्ये निवेश्य मन्त्रज्ञस्त्रिशिखं खेचरं प्रिये ।
अनेन खगगामीऽसौ भवते साधकोत्तमः । । ६.७२ । ।

करणं चोर्ध्वमूलं स्याद्बन्धयेत्खगमण्डलं ।
आक्रम्य पञ्चमं तत्र कराभ्यां चैव शूलिनि । । ६.७३ । ।

जानुकौ कुर्परे योज्य विक्षेपो गुह्यमध्यतः ।
वेधनं ब्रह्मरन्ध्रस्य कथितं तु तपोधने । । ६.७४ । ।

खगमार्गगतिस्त्वेवं भवते तु सुलोचने ।
एषा मुद्रा समाख्याता नवभेदैर्व्यवस्थिता । । ६.७५ । ।

मुद्रा शक्तिरिति ख्याता मुद्रितं द्रावयिष्यति ।
तेन मुद्रा समाख्याता कथिता परमेश्वरि । । ६.७६ । ।

मुद्रितं गोपितं प्रोक्तं चिच्छक्त्या या परापरा ।
न ज्ञायते वरारोहे सा तु मुद्रा उदाहृता । । ६.७७ । ।

अज्ञानमलरूपेण यावद्बद्धः स पुद्गलः ।
न जानाति परात्मानं तावन्माया प्रवर्तते । । ६.७८ । ।

भिन्ने तमसि चैकत्वं यदा पश्यति मानवः ।
तदा सा तु परा प्रोक्ता बन्धमोक्षकरी प्रिये । । ६.७९ । ।

एका सा परमा शक्तिः संस्थिता तु शिवेच्छया ।
मोचयन्ति ग्रहादिभ्यः पाशौघान्द्रावयन्ति च । । ६.८० । ।

मोचनाद्द्रावणाद्यस्मान्मुद्राख्याः शक्तयः स्मृताः ।
खगतिर्ह्यूर्ध्वभावेन खगमार्गेण नित्यशः । । ६.८१ । ।

चरते सर्वजन्तूनां खेचरी तेन सा स्मृता ।
परत्व्ऽ एका तु सा ज्ञेया पुनश्चैव त्रिधा स्मृता । । ६.८२ । ।

इच्छा ज्ञानी क्रिया सा तु वर्णरूपं उपागता ।
पञ्चाशभेदभिन्ना सा एका एव-म्-उदाहृता । । ६.८३ । ।

अङ्गावयवसम्पूर्णा मालयित्वा जगत्स्थिता ।
नादिफान्तस्वरूपेण तेन सा मालिनी स्मृता । । ६.८४ । ।
सप्त कोट्यस्तु मन्त्राणां अप्रमेयास्तु याः स्मृताः ।
स्वतन्त्रस्थास्तु ताः सर्वा मुद्रिताः परमेश्वरि । । ६.८५ । ।

तेन मुद्रा समाख्याता सद्यःप्रत्ययकारिका ।
अवयवे मातृरूपा तु स्वैः स्वैरंशैर्व्यवस्थिता । । ६.८६ । ।

ब्रह्मांशा चैव रुद्रांशा क्ॐआर्यांशा वरानने ।
वैष्णव्या चैव याम्यांशा ऐन्द्र्यांशा च तथानघे । । ६.८७ । ।

योगेश्वर्या च योगांशा योगयोगीशनायिका ।
एते ह्यंशाः स्मृताः सप्त पुनः सप्तसु सप्तसु । । ६.८८ । ।

ब्रह्माण्याः सप्त-म्-उद्दिष्टाः सप्त माहेश्वरी पुनः ।
क्ॐआर्याः सप्त-म्-उद्दिष्टा वैष्णव्याः सप्त एव च । । ६.८९ । ।

वाराही सप्त-म्-उद्दिष्टा ऐन्द्राण्याः सप्त एव तु ।
चामुण्डा सप्त-म्-उद्दिष्टा एवं वै सप्त सप्तसु । । ६.९० । ।

पञ्चाशैकोन वै देव्या भुवनावलिसंस्थिता[ः] ।
अत्र भेदैरनेकैश्च संस्थिता भुवनावलिः । । ६.९१ । ।

तस्य देहगता रोमा[ः] कोट्यस्त्रीणि प्रकीर्तिताः ।
लक्षाणि चैव पञ्चाशद्रोमाणां तु तदुद्भवा । । ६.९२ । ।

एकैकरोमकूपेषु योगिन्यः कोटिसंस्थिताः ।
त्रिकोटिकोटिकोटीनां कोटयस्तु अनेकधा । । ६.९३ । ।

यथा चाम्बरपर्यन्ता पृथिव्यादिषु सम्भवाः ।
अणवस्त्वप्रमाणास्तु तत्त्वे तत्त्वे त्वनेकधा । । ६.९४ । ।

सूक्ष्मरूपास्तथा रुद्रा एषां सङ्ख्या न विद्यते ।
व्यापितं तु समस्तं हि रुद्रैः सूक्ष्मतरैः प्रिये । । ६.९५ । ।

एवं मुद्रा समाख्याता व्यापयित्वाप्रमेयतः ।
एका एव परा मुद्रा यस्येदं तिष्ठते जगथ् । । ६.९६ । ।

यं यं स्पृशति सा ह्यङ्गं सा सा मुद्रा विधीयते ।
नृत्यं वल्गं तथा हास्यं रोदनं स्फोटं एव च । । ६.९७ । ।
यद्विकारं प्रकुर्वन्ति तत्सर्वं मुद्रसंज्ञकं ।
अङ्गुल्या अङ्गना प्रोक्ता अङ्गे चरति नित्यशः । । ६.९८ । ।

अङ्गुल्या तेन चोद्दिष्टा मुद्राबन्धे वरानने ।
कं शरीरं इति ख्यातं न्यस्ता तस्मिन्प्रवर्तते । । ६.९९ । ।

हेलागमनमार्गेण तेन नामा कनीयसी ।
अनामा नामरहिता कोटिभेदैर्व्यवस्थिता । । ६.१०० । ।

नामं न शक्यते वक्तुं अनामा तेन गीयते ।
मध्ये प्रवर्तते नित्यं आश्रया पुद्गलस्य तु । । ६.१०१ । ।

तत्राधाराद्व्रजेदूर्ध्वं पुनरागमनं प्रिये ।
मध्यमा नाम तेनात्र कथिता मन्त्रवादिनां । । ६.१०२ । ।

तर्जनं कुरुते नित्यं संयोजनवियोजनं ।
तर्जयन्ती महामोहं पाशजालं अनन्तकं । । ६.१०३ । ।

तर्जनी तेन सा प्रोक्ता मुद्रा सर्वेषु चोत्तमा ।
अङ्गुष्ठश्चौघभूता तु प्रवाहे सततं प्रिये । । ६.१०४ । ।

उच्चारेण प्रवर्तेत अङ्गुष्ठस्तेन स स्मृतः ।
अह-म्-ऊर्ध्वगतिः प्रोक्तः स्तौ ति रात्री निगद्यते । । ६.१०५ । ।

हस्तौ तेन समाख्यातौ वामदक्षिण उच्यते ।
वामे सृष्टिरिति प्रोक्ता संहारं दक्षिणे विदुः । । ६.१०६ । ।

सव्यासव्यगतौ तेन कथितौ वीरनायिके ।
वामाव्याप्तं जगत्कृत्स्नं संहारान्तं तदा प्रिये । । ६.१०७ । ।

संयोगेन वरारोहे आत्मा कुण्डलिनी स्मृता ।
इयं सा परमा योनिर्योनीनां उत्तमा प्रिये । । ६.१०८ । ।

यो जानाति वरारोहे शक्तिराद्या मनोन्मनी ।
तेन ज्ञातं जगत्सर्वं वर्णावर्णविवर्जितं । । ६.१०९ । ।

सा मुद्रा तु समाख्याता विश्वव्याप्तिकरी परा ।
द्वौ बिन्दू चूलिके द्वे तु विसर्गशक्तिसम्पुटं । । ६.११० । ।
तदूर्ध्वं इह नादान्तं विभ्वी शून्यं उदाहृतं ।
जन्मस्थानात्समुद्यन्ती यावत्तद्भवमण्डलं । । ६.१११ । ।

सृष्टिसंहारयोगेन मेढ्रम्-आधारमध्यगं ।
एवं मुद्रा समाख्याता वाङ्मनःकायकर्मभिः । । ६.११२ । ।

किं अन्यत्पृच्छसे देवि तत्सर्वं कथयाम्यहं । । ६.११३ । ।

इति कुलालिकाम्नाये श्रीकुब्जिकामते जपमुद्रानिर्णयो नाम षष्ठः पटलः


श्रीकुब्जिका उवाच

या सा देवी (देव Eद्.) परा योनिः समया कुब्जिनी परा ।
तां आचक्ष्व प्रयत्नेन संस्फुटं व्याप्तिलक्षणं । । ७.१ । ।

श्रीभैरव उवाच

शृणु देवि यथातथ्यं देव्या माहात्म्यं उत्तमं ।
कार्ये वाथ अकार्ये वा उक्तानुक्तेषु वस्तुषु । । ७.२ । ।

कुब्जीशानीं जपेद्यस्तु तस्य पापं न विद्यते ।
यः पुनः शुद्धभावात्मा समयाख्यां महेश्वरीं । । ७.३ । ।

जपेत्तस्य प तद्वस्तु यन्न सिध्यति भूतले ।
एतत्परमसमयं देवीतन्त्रे प्रकीर्तितं । । ७.४ । ।

न देयं यस्य कस्यापि यस्मात्सर्वं प्रपद्यते ।
तन्त्रे तन्त्रे तु समया कथितानेकधा मया । । ७.५ । ।

अन्यकल्पोपचारेषु निरुद्धा तत्र शासने ।
एषा सा समया देवि अत्र सर्वं प्रतिष्ठितं । । ७.६ । ।
चतुष्पीठेषु समयास्तेऽत्र सर्वे विनिर्गताः ।
एषा राजेश्वरी देवी समयाचारनिर्गता । । ७.७ । ।

निराचारेण योगेन सिध्यते ह्यविचारतः ।
पञ्चव्याप्तं अतः सर्वं सर्वव्याप्त्यन्तसंस्थितं । । ७.८ । ।

अस्योच्चारणमात्रेण तन्नास्ति यन्न साधयेथ् ।
कम्पते भुवनं सर्वं त्रैलोक्यं सुरडामरं । । ७.९ । ।

समयाख्यं जपन्तस्य क्षुभ्यते सचराचरं ।
वामदक्षिणतन्त्रेषु सामान्या समया परा । । ७.१० । ।

तस्या देव्याः प्रभावोऽयं या पञ्चाशपदात्मिका ।
सिद्धमार्गेऽन्यथा देवि द्वात्रिंशगुणलक्षिता । । ७.११ । ।

कुब्जिका नाम विख्याता समयस्था कुलेश्वरी ।
यत्र विश्वेश्वरं सर्वं समयाद्यं विनिर्गतं । । ७.१२ । ।

मन्त्रमुद्रागणो ह्यत्र विद्यामण्डलकादिकं ।
यस्याः कमलिनी देवी हृदिस्था सम्प्रवर्तते । । ७.१३ । ।

यया सृष्टं इदं सर्वं आब्रह्मस्तम्भगोचरं ।
कुलदीपा शिरस्थास्याः षड्विधाध्वप्रबोधिका । । ७.१४ । ।

बर्बराख्या शिखा ह्यस्यास्त्रितत्त्वोर्ध्वव्यवस्थिता ।
मुद्राधारगता देवी बहुरूपात्र निर्गता । । ७.१५ । ।

छादयन्ती समस्तां तु शब्दराशिं तु मालिनी ।
कवचं यस्या महादेव्या मन्त्रमायात्मकं महथ् । । ७.१६ । ।

किण्किणिं तं प्रचण्डोग्रं तेजोदेदीप्यवर्चसं ।
ज्ञेयं वृद्धोपमं नेत्रं तत्त्वार्थगुणसङ्कुलं । । ७.१७ । ।

संवर्तादिशिवान्तस्थं षडस्रं पिङ्गलोचनं ।
तदस्त्रं कोङ्कणेशान्या येन व्याप्तं षडध्वरं । । ७.१८ । ।

श्रीकुब्जिका उवाच
कथं तु कुब्जिका नाथ वद मन्त्रपदान्वितं ।
सर्वज्ञा सर्वदा देवी लक्षणेन समन्विता । । ७.१९ । ।

उवाच भैरवो ह्येवं कुब्जिकां शृणु कुब्जिके ।
किं तु त्वया न वक्तव्या यावन्नादेशितः शिशुः । । ७.२० । ।

च्चेवीति पदं प्रथमं णिकि णिकि द्वितीयकं ।
छीं छां पदं तृतीयं तु खिमुराघो-अ चतुर्थकं । । ७.२१ । ।

मे न ण ञ ङ पञ्चमं ह्र्ॐ ह्रीं ह्रां षष्ठमं पदं ।*
यैकाब्जिकुश्री सप्तमं तिवगभ मोन अष्टमं । । ७.२२ । ।*

विलोमेन पदान्यष्टौ द्वात्रिंशाक्षरमालिका ।
पञ्चप्रणव-म्-आद्यन्ता वियुक्ता लक्षणाधिका । । ७.२३ । ।

आदिकूटावसाने तु चत्वारिंशद्धि मालिनी ।
विलोमेनोद्धरेद्देवी[ं] गुरुवक्त्रोपदेशतः । । ७.२४ । ।

रेफसहं इदं कूटं विद्यासप्तमकं पदं ।
श्रीलोपे सन्नियोक्तव्यं जीवितं कुब्जिके मम । । ७.२५ । ।

स्वमनीषिकातोऽन्यथा स विद्विष्टो मरीचिभिः ।
यस्माद्भाण्डारं इत्येवं सर्वस्वं योगिनीकुले । । ७.२६ । ।

अथ चेत्सर्वपीठेषु मातेयं समयात्मिका ।
अस्याः स्मरणमात्रेण विह्वलं तु जगत्त्रयं । । ७.२७ । ।

भवते नात्र सन्देह इति माता सुरक्षिता ।
हृदयाद्यस्त्रपर्यन्तं एकोच्चारेण सुव्रते । । ७.२८ । ।

सिद्धमार्गं यथा ब्रूमि विलोमेन विलोमतः । । ७.२९ । ।

यस्त्रा-अ यैव्वाणाङ्कको च्चेवि णिकि णिकि ।
ययात्रत्रने यैकारिन्ताहम छीं छां ।
यचावक यैपारूहुब खिमुराघो-अ मे न ण ञ ङ ।
यैखाशि खेशिरर्बब ह्र्ॐ ह्रीं ह्रां ।
सेरशि यैपादीलकु यैकाब्जिकुश्री ।
ययादहृ यैलामत्कहृ तिवगभ मोन । । ७.३० । ।
पञ्चदशाक्षरं हृदयं शिरश्चैव त्रयोदश ।
एकादशाक्षरा शिखा विंशदेकोन कवचं । । ७.३१ । ।

नेत्रं त्रयोदशैः प्रोक्तं अस्त्रं चैव चतुर्दशं ।
पञ्चप्रणव-म्-आद्यन्ता यथा विद्या तथा कुरु । । ७.३२ । ।

एतत्कौलिकभाषायां कथितं तु सप्रत्ययं ।
संस्फुटं गुरुवक्त्रस्थं विलोमस्थं न सिध्यति । । ७.३३ । ।

कौलिकेदं समाख्यातं सिद्धमार्गसुदुर्लभं ।
च्चेवि ति प्रथमं पदं णिकि णिकि द्वितीयकं । । ७.३४ । ।

छीं छां चैव तृतीयं स्यात्ह्र्ॐ ह्रीं ह्रां र्ध्वेखोशित्रि चतुर्थकं ।
ह्रें मे न ण ञ ङ पञ्चमं खिमुराघो-अश्री षष्ठं । । ७.३५ । ।

यैकाब्जिकु मोन ह्रीं सप्तमं ।
रफसह एअं कूटं ऐं विलोमेन चाष्टमं । । ७.३६ । ।

द्वात्रिंशदक्षरा देवी नियुक्ता गुणशालिनी ।
आदिकूटक्रमेणैव विलोमेनोद्धृता इयं । । ७.३७ । ।

गुरुवक्त्रोपदेशेन संस्फुटं कथितं तव । । ७.३८ । ।

स्त्रम्-अ व्वाणाङ्कको च्चेवि ।
त्रंने निजितेश्ववि णिकि णिकि चंवक केघ्विल छीं छां ।
यैखाशि केरिन्ताहम ह्र्ॐ ह्रीं ह्रां मे न ण ञ ङ ।
सेरशि रर्बब खिमुराघो-अश्री ।
यंदहृ यैकाब्जिकुलमक मोन ह्रीं ह्स्फ्रें ऐं । । ७.३९ । ।

सर्वसाधारणं कौलं ब्रूमि अन्योपदेशतः ।
पञ्चमं तु पदादिस्थं हृदयं च दशाक्षरं । । ७.४० । ।

शिरं अष्टाक्षरं विद्धि द्वादशार्धं शिखा स्मृता ।
द्विसप्तकं च कवचं नेत्रं सप्ताक्षरं शुभं । । ७.४१ । ।

अस्त्रं नवाक्षरं प्रोक्तं जातयश्च पृथक्पृथक् ।
कवचान्तं चतुर्वक्त्रं पञ्चमं तु तदग्रतः । । ७.४२ । ।
परिपाटिस्तु वक्त्राणां ऊर्ध्ववक्त्रादितः क्रमाथ् ।
एषा सा समया देवी कुलमार्गे व्यवस्थिता । । ७.४३ । ।

सकलस्था तु साचारा अशेषार्थविशोधिका ।
कौलभाषोदिता या तु सा तु सिद्धा कुलान्वये । । ७.४४ । ।

अशेषार्थप्रदातारा अनेकार्थप्रबोधिका ।
यान्त्यनेन तु देहेन खेचरत्वं तदाश्रिताः । । ७.४५ । ।

अक्षराक्षरसन्तानं योजयेल्लक्षसङ्ख्यया ।
कुब्जीशगुणतुल्योऽसौ हर्ता कर्ता स्वयं प्रभुः । । ७.४६ । ।

खेचरीणां पदं सो हि पश्यते ह्यविचारतः ।
निराचारेण योगेन चिन्तयन्तः कुलेश्वरीं । । ७.४७ । ।

अथ सामान्यरूपेण तदा भूचरतां व्रजेथ् ।
कुपितः पातयेच्छैलान्शोषयेज्जलधीश्वरान् । । ७.४८ । ।

स्फोटयेच्छैलवृक्षांश्च तद्ध्यानगुणं आश्रितः ।
भूचरीणां पतित्वं च क्षुद्रकर्मोपजीविनां । । ७.४९ । ।

कुरुते विविधाश्चर्यं पूज्यते स शिवो यथा ।
यत्र तिष्ठत्यसौ देशे तत्र विघ्नं पलायते । । ७.५० । ।

कुब्जिकायाश्च या दूती कालिका नाम विश्रुता ।
कालिकाख्ये महातन्त्रे स्वतन्त्रा सा उदःर्ता । । ७.५१ । ।

शृणुष्वेकमना भद्रे ज्ञानविज्ञानदायिनी ।
सर्वसिद्धिकरी देवी सर्वकार्यप्रसाधनी । । ७.५२ । ।

व्याघ्रसिंहगजव्याल- भूतवेतालशत्रवः ।
स्मरणान्नाशं आयान्ति विघ्नसङ्घानि यानि च । । ७.५३ । ।

प्रश्नकाले परीक्षेत कुमार्यावेशपूर्विका ।
शुभाशुभं वदत्याशु यद्भूतं यद्भविष्यति । । ७.५४ । ।

अस्योद्धारं प्रवक्ष्यामि यथावदनुपूर्वशः ।
अः-ख-मध्यगतं गृह्य झ-पूर्वेण समन्वितं । । ७.५५ । ।
प्रथमं उद्धृतं बीजं द्वितीयं ण-ह-सन्धिगं ।
भेदितं तु ञ-पूर्वेण एतद्वर्णद्वयं पुनः । । ७.५६ । ।

आ-स-रन्ध्रगतं गृह्य य-स-मध्यगतं पुनः ।
द्वितीयेन तु सम्भिन्नं षष्ठं वै बीजं उत्तमं । । ७.५७ । ।

प्रथमं सप्तमं ज्ञेयं द्वितीयस्य द्वितीयकं ।
अष्टमं उद्धृतं बीजं नवमं भ-ञ-मध्यगं । । ७.५८ । ।

ञ-उत्तरसमायुक्तं शून्यमस्तकभूषितं ।
म-ष-मध्यगतं गृह्य दशमं केवलं प्रिये । । ७.५९ । ।

ष-व-मध्यगतोद्धृत्य औ-पूर्वेण तु भेदितं ।
एकादशाक्षरं प्रोक्तं ऐ-ठ-मध्यगतं ददेथ् । । ७.६० । ।

ञ-पूर्वेण तु सम्भिन्नं दशद्वितयं उत्तमं ।
ए-व-रन्ध्रगतं गृह्य केवलं त्रिदशं पुनः । । ७.६१ । ।

ज-स-मध्यगतं गृह्य ऐ-औ-मध्येन आहतं ।
चतुर्दशोद्धृतं बीजं अ-छ-सन्धिगतं पुनः । । ७.६२ । ।

केवलं कथितं बीजं दशपञ्चाक्षरं प्रिये ।
प-ध-मध्यगतं गृह्य ञ-पूर्वेण तु भेदितं । । ७.६३ । ।

षोडशं उद्धृतं बीजं स-य-मध्यगतं ददेथ् ।
ल-ठ-मध्यासनासीनं झ-पूर्वेण तु भेदितं । । ७.६४ । ।

नादबिन्दुकलाक्रान्तं दशसप्तकं उद्धृतं ।
व-म-मध्यगतोद्धृत्य ट-ण-मध्यासने स्थितं । । ७.६५ । ।

ट-पूर्वेण तु सम्भिन्नं शून्ययुक्तं दशाष्टमं ।
वह्नियुक्तं महाप्राणं अं-पूर्वेण तु भेदितं । । ७.६६ । ।

चतुर्दशस्वराक्रान्तं बिन्दुनादसशक्तिगं ।
विंशमं न्यूनं एकेन उद्धृतं बीजं उत्तमं । । ७.६७ । ।

य-ढ-मध्यगतं गृह्य केवलं विंशमं भवेथ् ।
ख-पूर्ववर्णं उद्धृत्य थ-पूर्वासनसंस्थितं । । ७.६८ । ।
विंशं एकाधिकं भद्रे अः-ख-मध्यगतं पुनः ।
ॠ-पूर्वासनं आरूढं द्वाविंशतिं उदाहृतं । । ७.६९ । ।

द-च-रन्ध्रगतोद्धृत्य त-पूर्वासनसंस्थितं ।
विंशत्रितयं आख्यातं य-ज-मध्यगतं पुनः । । ७.७० । ।

पञ्चमस्वरसंयुक्तं चतुर्विंशतिमं पुनः ।
ग-पूर्वं तु समुद्धृत्य चतुर्थस्वरसंयुतं । । ७.७१ । ।

पञ्चविंश समाख्यातं ओ-ष-मध्यगतं पुनः ।
ऐ-पूर्वेण तु सम्भिन्नं षड्विंशकं उदाहृतं । । ७.७२ । ।

स-त-मध्यगतं चान्यं ट-परेण समाहतं ।
सप्ताविंशतिमं भद्रे आ-स-मध्यगतं पुनः । । ७.७३ । ।

झ-पूर्वेण समायुक्तं अष्टाविंश तु पार्वति ।
पुनरेवं ददेद्देवि त्रिंशत्यूनं सबिन्दुकं । । ७.७४ । ।

घ-न-मध्यगतं गृह्य केवलं त्रिंशमं भवेथ् ।
ध-ह-रन्ध्रगतं देवि वाय्वासनसमन्वितं । । ७.७५ । ।

त्रिंशं एकाधिकं प्रोक्तं क-ष-मध्यगतं पुनः ।
थ-ण-मध्यासनारूढं पञ्चमस्वरयोजितं । । ७.७६ । ।

द्वात्रिंशमं समाख्यातं केवलं व-ष-मध्यगं ।
त्रयस्त्रिंश समुद्दिष्टं ण-थ-मध्यगतं पुनः । । ७.७७ । ।

वह्निना दीपितं कृत्वा त्रिंशमं चतुराधिकं ।
स-त-रन्ध्रगतं बीजं केवलं सृष्टिसंयुतं । । ७.७८ । ।

पञ्चत्रिंश स्मृता वर्णाः पञ्चप्रणवसम्पुटाः ।
योजितव्या महाविद्या कालिका सिद्धिकाङ्क्षिणा । । ७.७९ । ।

अदृशीकरणे ह्येषा सर्वसम्पददायिनी ।
न देया दुष्टबुद्धीनां देवीदूत्या महाबला । । ७.८० । ।

दूती तु कथिता ह्येवं मुद्राबन्धं अतः शृणु ।
पद्मासनस्थितो योगी समकाय ऋजुःशिरः । । ७.८१ । ।
रेच्य वायुं स्वकाद्देहात्पुनराकृष्य धारयेथ् ।
हृदये यः स्थितो ग्रन्थिस्तस्य नाभौ क्षिपेन्मनः । । ७.८२ । ।

मन्त्रं चैव तथात्मानं एकीकृत्य त्रयं बुधः ।
दण्डाकारं नयेत्ऽतावद्यावद्ब्रह्मबिलान्तगं । । ७.८३ । ।

तत्स्थानात्प्रेरयेत्तूर्णं महायानेन सुन्दरि ।
कराभ्यां चैव तर्जन्यां पीडयेत पुनः पुनः । । ७.८४ । ।

ललनाघण्टिके योज्य पञ्चमं स्थानं आक्रमेथ् ।
आक्रमेद्गुह्यचक्रं तु करणं चोर्ध्वमूलकं । । ७.८५ । ।

लग्ने ग्रन्थित्रयं देवि खगतिर्नात्र संशयः ।
अङ्गषट्कं शृणुष्वेदं कुब्जिकायाः कुलेश्वरि । । ७.८६ । ।

हृदयेन तु देव्यायाः क्षोभयेच्चासुरीगणं ।
नवलक्षकृते जाप्ये राजिकालवणे हुते । । ७.८७ । ।

राजराजेश्वराणां तु मर्त्यलोकेऽथवा पतिः ।
सामान्यजपहोमेन सद्यःसम्पददायिनः । । ७.८८ । ।

स्त्रीजनं क्षोभयेत्सर्वं बालवृद्धयुवान्पशून् ।
शिरो [ऽ]धिष्ठितयोगेन भूतवेतालराक्षसान् । । ७.८९ । ।

यक्षिणीयक्षकन्याश्च पिशाचीनां च साधनं ।
कुरुते विविधाश्चर्यं फलपुष्पादिकर्षणं । । ७.९० । ।

यक्षिण्याकर्षणं देवि मृतकोत्थापनादिकं ।
साकिनीकुलसामान्यः पाशच्छेदं पशुग्रहं । । ७.९१ । ।

कुरुते विविधाश्चर्यं शिरःसिद्धो ह्यनेकधा ।
असिद्धस्य तु कर्माणि कर्मयोगाद्वदाम्यहं । । ७.९२ । ।

अशक्तह्साधने वीरस्तस्येदं द्वेषणं प्रति ।
शिरोरुहसमुत्पन्ना चण्डाली जुष्टपूर्विका । । ७.९३ । ।

रक्षणार्थं तु सा दूती शासने सम्प्रतिष्ठिता ।
पठनादेव संसिद्धा जपहोमविवर्जिता । । ७.९४ । ।
शिरसो वशगा दूती तदाज्ञा निग्रहात्मिका । । ७.९५ । ।

ओं हास्वा ट्फ २ हूं २ सग्र २ यरमा कंमु-अ २ चप २ मध २ हद २ नह णिरिधाङ्गट्वाखलपाक णिक्षभसमांरधिरु लीण्डाचाष्टजु तिवगभ मोन ओं । । ७.९६ । ।

विलोमेन कृताभ्यासं उद्धरेदुपदेशतः ।
सम्पूज्य योगिनीषट्कं रामणीशिरसान्वितं । । ७.९७ । ।

दाघं उत्पादयेत्प्रथमं लेख्य मात्रा न संशयः ।
षडस्रपुरमध्यस्थं रकारं तु अधोर्ध्वतः । । ७.९८ । ।

रकारं तु तदेवं स्याद्बहिष्कोणे पृथक्पृथक् ।
षट्प्रकारं प्रदातव्यं ज्वालासञ्छन्नलाञ्छितं । । ७.९९ । ।

कोपकाले समुत्पन्ने चितिवस्त्रे नृचर्मजे ।
लिखितव्यं सक्रुद्धेन विषोन्मत्तरसेन च । । ७.१०० । ।

श्मशानाङ्गारसंयुक्तं साध्यनामं तु मध्यतः ।
लिखित्वा तापयेत्पश्चाज्ज्वरो भवति दारुणः । । ७.१०१ । ।

ज्वरं उत्पादयित्वा तु सदन्तं आनयेच्छिरः ।
पूर्वद्रव्यैर्लिखित्वा तु नाम तस्य गले क्षिपेथ् । । ७.१०२ । ।

विपरीतमुखं कृत्वा ऊर्ध्वग्रीवं यथा भवेथ् ।
तथा संस्थापयेद्भूमौ कपालं मन्त्रवित्सुधीः । । ७.१०३ । ।

श्मशाने वा नदीतीरे कृत्वा वेदीं तदूर्ध्वतः ।
पश्चाद्धोमं प्रकुर्वीत उग्रद्रव्यैः समाहितः । । ७.१०४ । ।

विषेण गन्धकेनैव कुनट्या तालकेन च ।
राजिकालवणेनैव निम्बपत्त्रैस्त्रिसप्तकं । । ७.१०५ । ।

प्रथमेऽहनि छागान्त्रं रक्ताक्तं होमयेद्बुधः ।
पश्चाद्ध्यानं प्रकुर्वीत कृष्णवर्णं सुदारुणं । । ७.१०६ । ।

ज्वलन्तं पादसन्धीनि मस्तकान्तं विचिन्तयेथ् ।
रकारं तु ललाटस्थं जपेन्मन्त्रं पुनः पुनः । । ७.१०७ । ।

होममण्डलकं यच्च चतुरस्रं वज्रलाञ्छितं ।
एवं वै भवते कालो यदि साक्षात्सचीपतिः । । ७.१०८ । ।

एवं निग्रहं आख्यातं शिरोदेव्याः समुद्भवं ।
चण्डालीति प्रयोगोऽयं गोपितव्यं प्रयत्नतः । । ७.१०९ । ।

शासनस्य च यो द्वेष्टा यो द्वेष्टा गुरवोपरि ।
तेष्वमोघिनी चाण्डाली योजयेत्परमार्थतः । । ७.११० । ।

लक्षम्-एके कृते जाप्ये वाचामात्रेण मारयेथ् ।
अतोऽर्थं गोपयेद्देवि सिद्धाज्ञामोघचण्डिका । । ७.१११ । ।

शिरोदूती परा ह्येषा क्षुद्रकर्मस्वनेकधा ।
सर्वं स्वच्छन्ददेवेशी करिष्यति शिखो[ज्]ज्वला । । ७.११२ । ।

इति कुलालिकाम्नाये श्रीकुब्जिकामते मन्त्रोद्धारे षडङ्गविद्याधिकारो नाम सप्तमः पटलः


श्रीकुब्जिका उवाच

श्रुतं देव मयाख्यातं अशेषार्थसुविस्तरं ।
कथं देव्याः शिखासंस्था स्वच्छन्दः कतिरूपधृक् । । ८.१ । ।

प्रयोगविपुलं देव सर्वोपायविवर्जितं ।
अधुनाश्रोतुं इच्छामि सारात्सारतरं विभो । । ८.२ । ।

आप्यायनं शरीरस्य आकाशादिप्रसाधनं ।
अर्चनं चैव सङ्क्षेपाद्ग्रहमर्दकरं यथा । । ८.३ । ।

रिपुमर्दकरं चैव बिलयन्त्रप्रसाधनं ।
ज्वरदुष्टविषादीनां सर्वदुःखविमर्दनं । । ८.४ । ।

यथा स्मरणमात्रेण व्याधितो मुच्यते क्षणाथ् ।
धर्मकामार्थसंसिद्धं अर्थमोक्षप्रसाधनं । । ८.५ । ।

वशीकरणकर्माणि आकर्षणविधिक्रिया ।
दिव्यादिव्येषु कार्येषु नागकार्येषु भैरव । । ८.६ । ।

शरीरस्थं यथा ब्रूहि नाडिस्थं मुद्रया सह ।
सङ्क्षेपार्चनकर्म च संसिद्धं भोगसाधनं । । ८.७ । ।

व्रतयागविहीनं च वित्तोपायविवर्जितं ।
स्मरणात्केवलो मन्त्रः सुखं उत्पादयेद्यथा । । ८.८ । ।

श्रीभैरव उवाच

साधु कुब्जिनि भद्रे त्वं कथयतः शृणुष्व मे ।
शिखा गुणकला यस्य स्वच्छन्दस्यामितद्युतेः । । ८.९ । ।

कुब्जिकायाः शिखा रौद्रा रौद्रसिद्धिप्रदायिका ।
सारात्सारतरं देवि सत्यं सत्यं न चान्यथा । । ८.१० । ।

अघोरान्न परो मन्त्रः कस्माच्चूलीगतस्तु सः ।
शमनं सर्वदुःखानां व्याधीनां च निकृन्तनं । । ८.११ । ।

सर्वानुग्रहकं देवि भुक्तिमुक्तिप्रदायकं ।
कालनिर्णाशनं देवि जरासिंहं उदाहृतं । । ८.१२ । ।

दारिद्रशमनं चेदं अचिरेण गणाम्बिके ।
आशाः संशोधयित्वा तु देव्या न्यासं हि पूर्ववथ् । । ८.१३ । ।

हृदयादिप्रभेदेन अस्त्रान्तं यावदावधिं ।
स्वस्थानन्यासविन्यासं पूर्ववच्च यथास्थितं । । ८.१४ । ।

शिखास्वच्छन्ददेवेशं मन्त्रेदं पारमेश्वरं ।
षडङ्गयजनाद्वाथ निराचारेण सिध्यति । । ८.१५ । ।

ततो मुद्रां परां बद्ध्वा चिन्तयेद्योनिमध्यगां ।
महामुद्रेति विख्याता नाख्याता कस्यचिन्मया । । ८.१६ । ।

ध्यात्वा प्रेतं पुरा देवि सर्वकारणकारणं ।
महायोगी महासिद्धः सर्वलोकधरः प्रभुः । । ८.१७ । ।

सर्वज्ञगुणसंयुक्तं पद्मं तस्योपरि स्थितं ।
कर्णिकोपरि दीप्यन्तं प्रज्वलन्तं महौजसं । । ८.१८ । ।

अनन्तं तद्विजानीयात्तस्योर्ध्वे तच्छिखाशिवं ।
अष्टपत्त्रासनासीनं द्वात्रिंशार्चिभिरावृतं । । ८.१९ । ।

नानालङ्कारसम्पन्नं नानावर्णं विचिन्तयेथ् ।
दशबाहुं महाघोरं चतुर्वक्त्रं सुलालसं । । ८.२० । ।

सर्ववर्णधरं देवं अथ श्यामं विन्चिन्तयेथ् ।
कपालं चैव खट्वाङ्गं अन्यत्परशुशूलधृक् । । ८.२१ । ।

डमरुं चाक्षमालां च फलं हस्ते निवेशयेथ् ।
गजचर्मधरौ चोभौ हस्तौ तु परिकीर्तितौ । । ८.२२ । ।

गर्जन्तं भीषणं नादं सर्वकारणकारणं ।
भक्षन्तं चिन्तयेद्व्याधिं विश्वेश्वरकुजेश्वरं । । ८.२३ । ।

खाद्यमानां रटन्तीं तां ताड्यमानां विभेदितां ।
भेदयन्तीं त्रिशूलेन छेदयन्तीं महासिना । । ८.२४ । ।

क्रुद्धभावाद्धुनन्तीं तां पूर्वव्याधिं विचिन्तयेथ् ।
तस्योपरि तं ऐकारं ईशतत्त्वावधिस्थितं । । ८.२५ । ।

शिखास्वच्छन्ददेवेशं तत्स्थाप्योपरि पूजयेथ् ।
स्वकीयाङ्गसमुद्भूतं एकवीराङ्गपञ्चकं । । ८.२६ । ।

आग्नेय्यां हृदयं न्यस्य शिरस्त्वीशानगोचरे ।
शिखां शिखात्मकां रक्षे तनुत्राणं तु वायवे । । ८.२७ । ।

अस्त्रं दिशासु विन्यस्य भूयो मध्ये प्रपूजयेथ् ।
जुष्टचण्डेश्वरं क्षेत्रे पूजादौ विघ्नराट्कुले । । ८.२८ । ।

चलादीनां अधिष्ठानं जानीयाद्गुरुपङ्क्तिवथ् ।
धूपचन्दननैवेद्यं त्रयाणां प्रथमं ददेथ् । । ८.२९ । ।

सिद्धिसाधनयुक्तस्य मार्गोऽयं ह्यविचारकः ।
निराचारपदस्थानां क्षेत्रचण्डीशविघ्नराठ् । । ८.३० । ।
बलिपूजासु नैवेद्यं त्रयाणां प्रथमं ददेथ् ।
पश्चात्क्रमस्य कुब्जीशे अतः शाठ्यं न कारयेथ् । । ८.३१ । ।

पारम्पर्यक्रमं पूज्य पश्चान्मण्डलकोपरि ।
शिखास्वच्छन्ददेवेशं यामलं तु चतुष्कलं । । ८.३२ । ।

हृत्तनुत्राणपर्यन्तं यजेद्देवं चतुष्कलं ।
योगमार्गावलम्बानां श्रीसिद्धाख्यं चतुष्कलं । । ८.३३ । ।

पूज्य स्वच्छन्ददेवेशं क्रमाग्रे मण्डलोपरि ।
ततो जपेच्छिखानाथं अघोरं परमेश्वरं । । ८.३४ । ।

प्रणवाद्यं नमस्कारं असिद्धानां नियुञ्जयेथ् ।
सिद्धार्थयोगयुक्तानां ऐंपादाद्यन्तयोजितं । । ८.३५ । ।

ततोऽ ग्निपूजनं कृत्वा यथा पूजा तथाहुतिं ।
सहस्रं वा शतं वाथ पञ्चाशत्पञ्चविंश वा । । ८.३६ । ।

तिलैर्होमं प्रकुर्वीत दधिमध्वाज्यसंयुतैः ।
घृतसक्त्वा च मधुना सर्वदुःखप्रमर्दकं । । ८.३७ । ।

व्याधिनिर्णाशनं कुब्जि शेषहोमं तु भूतिदं ।
सहस्रेण महाभूतिः शतेन व्याधिनाशनं । । ८.३८ । ।

शतं अष्टशतं कुब्जि देवतुल्यो भविष्यति ।
सर्वदुःखविनिर्मुक्तं जपपूजासमन्वितं । । ८.३९ । ।

शततोऽ ष्टसहस्रेण त्रिष्कालेन तु सुन्दरि ।
षण्मासाज्जायते सिद्धिः साक्षात्पश्यति भैरवीं । । ८.४० । ।

यथेष्टं जायते सिद्धिर्नास्त्यत्र-म्-अनृतं वचः ।
सहस्रेण ज्वरं याति छागस्य पिशितैर्हुतैः । । ८.४१ । ।

त्रिष्कालं मासं एकं तु सहस्रं हुनते तु सः ।
सिध्यते मांसहोमेन क्षौद्राज्यदधिसंयुतं । । ८.४२ । ।

यवक्षीरान्नहोमेन शालितण्डुलसाधितं ।
प्रीयते तु शिखादेवः स्वच्छन्दो घोररूपधृक् । । ८.४३ । ।
दधिहोमात्परा पुष्टिः क्षीरहोमेन शान्तिकं ।
षण्मासात्तु घृतं हुत्वा सर्वव्याधिविनाशनं । । ८.४४ । ।

राजयक्ट्मं तिलैर्होमादायुवृद्धिर्यवैर्हुतैः ।
कुष्ठस्यैव सदा होमात्त्रियुक्तैस्तण्डुलैः प्रिये । । ८.४५ । ।

समसक्तुघृतेनाशु नाशयेत भगन्दरं ।
तिलैर्होमं प्रकुर्वीत दधिमध्वाज्यसंयुतं । । ८.४६ । ।

व्याधिनिर्णाशनं कुब्जि शेषहोमस्तु भूतिदः ।
घृतकेवलहोमेन सर्वव्याधिनिकृन्तनं । । ८.४७ । ।

प्रयोगं सम्प्रवक्ष्यामि यदुक्तं ते पुरा मया ।
धर्मकामार्थमोक्षाणां चतुर्वर्गफलोदयं । । ८.४८ । ।

तव कुब्जि प्रवक्ष्यामि शृणुष्वेकमनाधुना ।
सर्वव्याधिहरं ध्यानं परं पुष्टिविवर्धनं । । ८.४९ । ।

आशां संशोधयेत्पूर्वं न्यासं कृत्वा तु पूर्वकं ।
पूर्वं न्यस्य च मन्त्रेशं नाडीवर्णैस्तथाक्षरैः । । ८.५० । ।

अधःस्रोतं तु वामेन दक्षिणोर्ध्वगतं प्रिये ।
न्यासं कृत्वा शरीरे तु मन्त्रराजं अनुस्मरेथ् । । ८.५१ । ।

पञ्चप्रणव-म्-आद्येन अघोरेण सुराधिपे ।
अध्युष्टमात्रादुत्तीर्णं ज्ञात्वा मन्त्रं अनुस्मरेथ् । । ८.५२ । ।

अकुलादित्रिमध्यस्थं कुला[च्] चादेस्त्रिमध्यगं ।
मध्यमादित्रिमध्यस्थं पिण्डादेस्तु त्रिमध्यगं । । ८.५३ । ।

त्रयार्धमात्रसंयुक्तं प्रणवेदं शिखाशिवं ।
त्रिनाडीपिण्डसम्भूतं मुद्रया चोर्ध्वदीपितं । । ८.५४ । ।

त्रिपक्षक्षयकर्तारं त्रिधाबद्धं त्रिशूलिनं ।
त्रिमूर्तिगुणसम्भूतं तेनासौ त्रिदशेश्वरः । । ८.५५ । ।

त्रिमार्गविहितं शान्तं त्रिपथान्तसमुद्भवं ।
त्रिपथेन विना भद्रे भ्राजते योनिमण्डलं । । ८.५६ । ।
योनिं विना न निष्पत्तिर्दिव्यादिव्येषु वस्तुषु ।
उत्तमोत्तममध्यस्था कन्यसान्तव्यवस्थिता । । ८.५७ । ।

बिन्दु शक्तिस्तथा नादं मात्रात्रयं उदाहृतं ।
त्रयाणां अपि संयोगान्निष्पद्येत भगालयं । । ८.५८ । ।

परार्धमात्रसम्भिन्नं प्रणवोऽयं कुलागमे ।
अ-उ-म-कारसंयुक्तं प्रणवेदं क्रियात्मकं । । ८.५९ । ।

सादाख्येश्वररुद्राणां ब्रह्मविष्णु-र्-अनुक्रमाथ् ।
एते ते प्रणवाः पञ्च क्रियाकारणगोचरे । । ८.६० । ।

प्रणवादिसमुद्भूताः पञ्चैते गुणवत्तराः ।
पञ्चप्रणव-म्-आद्यन्तं ततोर्ध्वे तु शिखाशिवं । । ८.६१ । ।

एवं तु प्रणवं दिव्यं सुगोप्यं प्रकटीकृतं ।
अत्र देवि स्फुटं तुभ्यं भ्रान्तं चात्र जगत्त्रयं । । ८.६२ । ।

ज्ञात्वेवं संस्मरेद्यस्तु सन्निधानोऽस्ति तस्य वै ।
सुदुर्लभः प्रयोगोऽयं गुरुवक्त्रात्तु लभ्यते । । ८.६३ । ।

यत्रोत्पन्नं ततो याति लयं कृत्वा सुराधिपे ।
उत्पत्तिप्रलयं ज्ञात्वा ततो मन्त्रं अनुस्मरेथ् । । ८.६४ । ।

यत्किञ्चित्कुरुते कार्यं साधकः साधनात्मकः ।
उच्चरेत्तु लयान्तस्थं तर्जन्याग्रे व्यवस्थितं । । ८.६५ । ।

नाडीसूत्रेण विन्यस्तं बहिरन्ते च मातरः ।
या नाडी सा भवेद्वर्णस्तया नाड्या तु वेष्टयेथ् । । ८.६६ । ।

यदि चन्द्रं वहेच्चक्रं सूर्यं वा चक्रं उत्तमं ।
तस्य मध्ये स्वयं स्थित्वा विश्वोऽहं इति चिन्तयेथ् । । ८.६७ । ।

अहं ब्रह्मा तथा विष्णुरहं देवो महेश्वरः ।
भैरवोऽहं इति देवि चिन्तयित्वा तु साधकः । । ८.६८ । ।

हृन्मध्ये चिन्तयेच्चक्रं नाडीवर्णैस्तथाक्षरैः ।
आद्यक्षरं जपेन्मन्त्रं पुनराद्यं नियोजयेथ् । । ८.६९ । ।
एवं संस्मृत्य विधिवत्सर्वकर्माणि साधयेथ् ।
अर्चनं हवनं ध्यानं जपं एकान्तरूपिणं । । ८.७० । ।

कर्म कृत्वा कुजेशानि कुजेशाय निवेदयेथ् ।
ततो ध्यानं प्रकुर्वीत विशुद्धेनान्तरात्मना । । ८.७१ । ।

स एव मन्त्रं उच्चार्य आद्यादौ यावदन्तिमं ।
नादेन तु गतिं कुर्यात्स्वच्छन्दगतिभावितः । । ८.७२ । ।

ब्रह्मं भित्त्वा ततो विष्णुं रुद्रं ईश्वरं एव च ।
सेतुमध्येन गमनं कुञ्चिकोद्घाटयेद्बिलं । । ८.७३ । ।

उद्घाट्य परमं स्थानं अघोरं यत्र संस्थितं ।
अष्टाकपाल घोरीशं त्र्यक्षरं समनुस्मरेथ् । । ८.७४ । ।

सर्वमन्त्रेषु हृदयं यत्कुब्जीशशिखात्मकं ।
मनसा स्मृतमात्रेण खेचरत्वं प्रजायते । । ८.७५ । ।

सर्वविघ्नोपशमनं मन्त्रं त्र्यक्षरं उत्तमं ।
शेषषट्कं तु यद्देवि तदङ्गान्यस्य कल्पयेथ् । । ८.७६ । ।

जप्तव्यं तु शिखासूत्रं सकृत्सिद्धिः प्रजायते ।
आकाशादिप्रसिद्ध्यर्थं सिद्धिरन्यासु का कथा । । ८.७७ । ।

मन्त्रसन्नद्धदेहस्तु सर्वावस्थोऽपि साधकः ।
तिष्ठन्जाग्रन्स्वपन्गच्छन्भुञ्जानो मैथुने रतः । । ८.७८ । ।

चर्याधारी निराचारो मन्त्रसंस्मरणाच्छुचिः ।
सामान्यस्मरणादेव व्याधिभिर्नाभिभूयते । । ८.७९ । ।

प्रज्वलन्दृश्यते भूतैर्यस्येदं तु शरीरगं ।
अतः किं बहुनोक्तेन सिंहस्यैव यथा मृगाः । । ८.८० । ।

गन्धेन प्रलयं यान्ति सत्यं सत्यं महातपे ।
जपेन साधयेत्सर्वं व्रतस्थो यस्तु साधकः । । ८.८१ । ।

पूर्वं एव जपेल्लक्षं सिध्यते घोरमूर्धजं ।
अविदित्वा विधानेन किञ्चित्कार्यं न साधयेथ् । । ८.८२ । ।
यः कुर्याद्विधिहीनं तु स विघ्नैश्चाभिभूयते ।
तस्मात्पदार्थनवकं ज्ञातव्यं तु कुजेश्वरि । । ८.८३ । ।

क्षेत्रस्थानानि सुश्रोणि ज्ञातव्यानि सुनिश्चितैः ।
क्षेत्रं व्रतानि मन्त्राश्च अक्षसूत्रं जपं तथा । । ८.८४ । ।

ध्यानं पूजा तथा द्रव्यं वर्णं मुखसमन्वितं ।
मुखहीना न सिध्यन्ति अग्निहोत्रविवर्जिताः । । ८.८५ । ।

मुखं आहवनीयं स्यात्तस्मिन्मन्त्राः सदा स्थिताः ।
अघोरं कालं इत्युक्तं अघोरं विष्णुरुच्यते । । ८.८६ । ।

अघोरस्त्वं महेशानि अघोरश्चाहं एव च ।
बहुरूपधरो ह्यग्निः प्रचण्डः काल-म्-अन्तगः । । ८.८७ । ।

स शिवः परमो ब्रह्मा निर्वाणः स सदाशिवः ।
ईश्वरः स परो नित्यं अस्मात्परतरो न हि । । ८.८८ । ।

अनेन स्मृतमात्रेण सर्वदुःखैः प्रमुच्यते ।
दारिद्रसिंहोऽघोरीशो व्याधिसिंहः कुलेश्वरि । । ८.८९ । ।

प्रचण्डदुष्टसिंहश्च महापातकनाशनः ।
सर्वतीर्थाभिषेकश्च सप्तजप्तेन जायते । । ८.९० । ।

शतजप्तेन देवेन सर्वयज्ञफलं लभेथ् ।
दीक्षानिर्वाणकारी स्यात्त्रिसप्तपरिवर्तनाथ् । । ८.९१ । ।

दशावर्तेन दुरितं ब्रह्महत्यां व्यपोहति ।
दशावर्ताद्गुरोपेक्षी स्मरणादेव मुच्यते । । ८.९२ । ।

विधिहीने तथा पाने पञ्चभिश्चोपपातकी ।
शतेन चैव त्रिष्काल्यं वर्षात्सिद्धिर्यथेप्सिता । । ८.९३ । ।

बलवतां रिपूणां तु व्यस्तं आवर्तयेत्प्रभुः ।
दक्षिणास्यो महादेवि सहस्रेण निपातयेथ् । । ८.९४ । ।

सङ्ग्रामकाले स्मर्तव्यं असिपत्त्रगतं हृदि ।
वेष्टन्तं मातृभिः सैन्यं भक्ष भक्षेति भाषयेथ् । । ८.९५ । ।
हतदर्पाः प्रजायन्ते न पुनः संहरन्ति च ।
दुःस्वप्ने द्विगुणं जाप्यं व्रणे चैव चतुर्गुणं । । ८.९६ । ।

लूता दशगुणं चैव विषे वै विंशतिस्तथा ।
दिने दिने शतं जप्त्वा विभूतिर्वर्धतेऽ चिराथ् । । ८.९७ । ।

प्राङ्मुखो यस्य नाम्ना तु साध्यारूढो हृदि स्थितः ।
वशीभवति राजानं शतजाप्येन धीमता । । ८.९८ । ।

सप्ताहात्स बलोपेतो वशीभवति नान्यथा ।
दिने दिने सहस्रेण नास्ति तद्यन्न साधयेथ् । । ८.९९ । ।

आदित्याभिमुखो भूत्वा सहस्रं परिवर्तयेथ् ।
यत्किञ्चिद्विहितं चित्ते सप्ताहात्साधयिष्यति । । ८.१०० । ।

न्यस्तं सर्वाङ्गिकं मन्त्रं भैरवाकारसंस्थितं ।
स तु भोजनकाले तु पात्रे सञ्चिन्त्य साधकः । । ८.१०१ । ।

सम्पूर्णशशिनं ध्यायेद्भुञ्जानोऽमृतं अश्नुते ।
सम्पूर्णचन्द्रमध्यस्थं अधोर्ध्वसम्पुटीकृतं । । ८.१०२ । ।

पर्यटेत्साधको नित्यं सर्वश्रेयं अवाप्नुयाथ् ।
यदिच्छेत्साधकः सिद्धिं हृदि कृत्वा कुजेश्वरं । । ८.१०३ । ।

चन्द्रमण्डलमध्यस्थं स्वच्छन्दगतिभावितं ।
तत्प्रविष्टं विचिन्तेत अन्त्यादन्तं परापरं । । ८.१०४ । ।

परस्परं तु सञ्चिन्त्य यावद्ब्रह्मबिलं गतः । । ८.१०५ । ।

इति कुलालिकाम्नाये श्रीकुब्जिकामते स्वच्छन्दशिखाधिकारो नामाष्टमः पटलः


श्रीभैरव उवाच

भेदयित्वा परं तत्त्वं हकारं नाम नामतः ।
सोऽष्टाकपालो विज्ञेयस्तस्याकाशं तु तच्छिरः । । ९.१ । ।

अघोरं इति विख्यातं द्वात्रिंशाक्षरभूषितं ।
तस्मात्सञ्जायते सृष्टिः सा तु सृष्टिर्हृदि स्थिता । । ९.२ । ।

द्वात्रिंश मातरस्तास्तु चक्रारूढा विचिन्तयेथ् ।
चण्डा घण्टा महानासा सुमुखी दुर्मुखी बला । । ९.३ । ।

रेवती प्रथमा घोरा स्ॐया भीमा महाबला ।
जया च विजया चैव अजिता चापराजिता । । ९.४ । ।

महोत्कटा विरूपाक्षी शुष्का चाकाशमातरा ।
सेहारी जातहारी च दंष्ट्राली शुष्करेवती । । ९.५ । ।

पिपीलिका पुष्पहारी अशनी सस्यहारिका ।
भद्रकाली सुभद्रा च भद्रभीमा सुभद्रिका । । ९.६ । ।

मनसा पूजयेत्तस्था भक्ष्यभोज्यादिभिः क्रमाथ् ।
पुष्पैर्नानाविधैर्देवि नानालङ्कारकादिभिः । । ९.७ । ।

स्रवन्तं चिन्तयेत्तस्थं अमृतं सर्वतोमुखं ।
तेनाप्यायितदेहस्तु तत्क्षणाद्विरजो भवेथ् । । ९.८ । ।

यागं तु मानसं कृत्वा कस्य सिद्धिर्न जायते ।
सम्पूर्णमण्डलं ध्यात्वा अघोरं नाम नामतः । । ९.९ । ।

सोऽष्टाकपालः प्रवरस्तत्त्वव्यापी निरक्षरः ।
स एव चन्द्ररूपी स्यात्कर्णिकायां विचिन्तयेथ् । । ९.१० । ।

तत्त्वं तत्र महानादं हकारं नाम नामतः ।
षट्पदार्थयुतो देवि नवकेन प्रसिध्यति । । ९.११ । ।

स एव लीयते विष्णोर्विष्णु रुद्रसमाश्रितः ।
स एव कालो विज्ञेयः सर्वभक्षो हुताशनः । । ९.१२ । ।

स एव लीयते माया सा च विष्णुः प्रकीर्तिता ।
सा शक्तिर्निर्मला कुब्जि कालो वै येन भक्षितः । । ९.१३ । ।

स विष्णुः शिवतां याति सेतुं भित्त्वा कुलेश्वरि ।
स च तुर्यपदं प्राप्य उन्मनत्वं हि तत्पदं । । ९.१४ । ।

आश्रयं देवदेवस्य अघोरस्य महातपे ।
निर्वाणं तु परं विन्द्यात्स कुब्जीशः प्रकीर्तितः । । ९.१५ । ।

स ध्रुवो वासुदेवश्च अजातः परिकीर्तितः ।
तत्र शक्तिं सदा कुर्यात्तत्रासक्तः सदा भवेथ् । । ९.१६ । ।

न पापैर्लिप्यते देवि महापापैः सुदारुणैः ।
न कालस्य वशं गच्छेन्न जरा न च दुःखितः । । ९.१७ । ।

सर्वतीर्थफलं चैव सर्वयज्ञेषु दीक्षितः ।
हृन्नादं मनसोत्थाप्य व्रजेन्निर्वाणजं पदं । । ९.१८ । ।

चेतसा त्वमृतं गृह्य आगच्छेद्घण्टिकाश्रयं ।
तदुत्थं भारतीमूले कृत्वासौऽमृतं अश्नुते । । ९.१९ । ।

आपूर्य वदनं तेन स्वच्छन्देन कुजेश्वरि ।
अनन्गधेनवीं दुग्ध्[ व्]आ तत्त्वं व्याप्येश्वरेण तु । । ९.२० । ।

अघोरं पञ्चमध्ये तु आत्मतत्त्वं विचिन्तयेथ् ।
योऽग्निर्ज्वलति चापेन एकस्तिष्ठति पञ्चधा । । ९.२१ । ।

त्रैलोक्यं व्यापितं तेन यजन्ते ब्रह्मवादिनः ।
तस्यैव यः शिखां वेत्ति आहिताग्निः स उच्यते । । ९.२२ । ।

सोऽ ग्निर्देवमुखं विन्द्यादघोरः सर्वतोमुखः ।
मुखेषु च मुखं देवि त्रैलोक्येऽपि प्रगीयते । । ९.२३ । ।

विना तेन वरारोहे न होमो न च भोजनं ।
शुचिरग्निर्भवेद्देवो बहुरूपः कुजेश्वरि । । ९.२४ । ।

तदन्तं तु जपं कुर्यात्कृत्वा हृत्स्थं तु केशवं ।
अधस्तात्सेतुमार्गस्य तिष्ठते तु कुजेश्वरः । । ९.२५ । ।

स चासनं परं तस्य सेव्यते किं न मन्त्रराठ् ।
विद्याराजेति विख्यातो मन्त्रराजेति कथ्यते । । ९.२६ । ।
मुद्राराजेति महतां मण्डलाधिपतिः स्मृतः ।
ब्रह्मविष्ण्वीश्वराद्येषु पतिर्देवि प्रचक्ष्यते । । ९.२७ । ।

नानेन सदृशो देवि मन्त्रकोटिशतैरपि ।
हृदयं सर्वमन्त्राणां परमं परिकीर्तितं । । ९.२८ । ।

अनेन हीना देवेशि महानपि न सिध्यति ।
ग्रहयन्त्रेषु सर्वेषु व्याधितेषु कुलेश्वरि । । ९.२९ । ।

रिपुनाशे च बलवान्दारिद्रभयनाशनं ।
तस्मादाराध्य यत्नेन दुःखसिंहः प्रकीर्तितः । । ९.३० । ।

नानेन सदृशः कश्चिन्नान्योऽस्ति सचराचरे ।
देवासुरमनुष्यानां तत्त्वरूपो महेश्वरि । । ९.३१ । ।

मूर्ध्नः पादतलं यावत्तत्त्वं चरति देहिनां ।
निष्कलात्सकलं याति सकलान्निष्कलं पदं । । ९.३२ । ।

एकेनांशेन वीराणां सर्वेषां किं अपि स्तुतं ।
स भैरवः शिवो भाति सर्वज्ञः सर्वजन्तुषु । । ९.३३ । ।

यावत्तिष्ठत्यसौ गात्रे तावज्जीवन्ति जन्तवः ।
विना तेन वरारोहे नास्ति नास्तीति कथ्यते । । ९.३४ । ।

तस्य देवाधिदेवस्य सर्वव्यापिमयस्य च ।
सर्वदेवमयो देवि कथं भक्त्या न सिध्यति । । ९.३५ । ।

येन विज्ञानमात्रेण स्मृतेनैव तु सुन्दरि ।
अक्षयान्लभते लोकान्मुक्तिस्थानं गमिष्यति । । ९.३६ । ।

सर्वलक्षणहीनोऽपि स्मरणात्कल्मषापहः ।
अहो मन्त्रस्य माहात्म्यं जप्यमानस्य नित्यशः । । ९.३७ । ।

विनापि लययोगेन योगिनीसमतां व्रजेथ् ।
साधकाय प्रयच्छन्ति त्रैलोक्यज्ञानं उत्तमं । । ९.३८ । ।

आकाशादि प्रयच्छन्ति दिव्यदृष्टिश्रुतागमं ।
सर्वभूता वशं यान्ति ग्रहाश्चैव विशेषतः । । ९.३९ । ।
विषं च निर्विषं कुर्याद्दर्शनादेव सर्वतः ।
न तस्य तिष्ठते गात्रे विषं स्थावरजङ्गमं । । ९.४० । ।

कीटलूतास्तु भूताश्च अपमृत्युर्न तिष्ठति ।
गरजं योगजं दोषं प्रलयं यान्ति दूरतः । । ९.४१ । ।

चूर्णलेपाञ्जनादीनि कुहकानि तु यानि वै ।
ये करिष्यन्ति रिपवः स्त्रियो वा पुरुषस्य वा । । ९.४२ । ।

तत्क्षणात्प्रलयं यान्ति तेषां प्रत्यङ्गिरा भवेथ् ।
स्मरणाद्देवदेवस्य इन्द्रं याति नरोत्तमः । । ९.४३ । ।

ज्वलन्तो दृश्यते भूतैर्हृच्चक्रे विधिसंस्थितः ।
दुष्टाश्च प्रलयं यान्ति सिंहस्यैव यथा मृगाः । । ९.४४ । ।

एको दोषो हि मन्त्रस्य जप्यमानस्य जायते ।
जरा मृत्युश्च दारिद्र्यं व्याधयो विविधाः प्रिये । । ९.४५ । ।

स्मरणात्प्रलयं यान्ति तुहिनं तु रवेरिव ।
जप्यते येषु राष्ट्रेषु देशे वा सुरसुन्दरि । । ९.४६ । ।

न रुजा जायते तत्र स्वामी तत्र विवर्धते ।
एकेनापि सुपुत्रेण घोरदेवाङ्गपूजनाथ् । । ९.४७ । ।

घोरीशं तु यदा ज्ञातं स कुलं तारयिष्यति ।
पशवश्च न नश्यन्ति सदा वर्धति गोकुलं । । ९.४८ । ।

वन्ध्या न जायते नारी न म्रियन्ते च बालकाः ।
ज्वररोगादिभिस्तस्य कुटुम्बं नैव पीड्यते । । ९.४९ । ।

सर्वलोकस्य सम्पूज्यो जायते राजवल्लभः ।
धारणीयं सदा गात्रे यथावत्प्रवदाम्यहं । । ९.५० । ।

पुष्पेण गुडिकां कृत्वा मन्त्रं भूर्जे समालिखेथ् ।
कुङ्कुमेन लिखेद्देवि रोचनायाथवा पुनः । । ९.५१ । ।

अकारचतुरो मध्ये आत्मनाम समालिखेथ् ।
मन्त्रेण छादितं नाम अङ्कुसेन तु रक्षितं । । ९.५२ । ।
माययाच्छादयित्वा तु शिवं मूर्ध्नि गतं लिखेथ् ।
याष्टं षष्ठसमायुक्तं बिन्दुनादाङ्कितं प्रिये । । ९.५३ । ।

तच्छिवं तु वरारोहे चतुराश्रमपूजितं ।
सर्वं क्षस्थं परं मन्त्रं सर्वरक्षाकरं परं । । ९.५४ । ।

नाम्ना तु गुडिका ह्येषा सर्वरोगविमर्दनी ।
सान्ता पूर्वं तु कर्तव्या ततः क्षस्थां तु कारयेथ् । । ९.५५ । ।

क्षकारं कालं आरूढं ओकारोपरिदीपितं ।
षष्ठस्वरयुतं देवि अमरत्वं प्रयच्छति । । ९.५६ । ।

यस्तु धारयते दिव्यां गुडिकां शिवपूजितां ।
तस्य वक्ष्यामि सुश्रोणि गुणान्नानाविधान्शृणु । । ९.५७ । ।

सर्वतीर्थेषु यः स्नातः सर्वयज्ञेषु दीक्षितः ।
न भयं विद्यते तस्य धरणदजरामरः । । ९.५८ । ।

सर्वव्रतानि चीर्णानि सर्वतीर्थनमस्कृतः ।
अवनिं विचरेत्सर्वां भैरवस्तु यथा हि सः । । ९.५९ । ।

सर्वे ते दर्शनात्तस्य साधकस्य महात्मनः ।
दुष्टाश्च प्रलयं यान्ति व्याधयो विद्रवन्ति च । । ९.६० । ।

अब्रह्मचारी चारी स्यादस्नातः स्नानं आप्नुयाथ् ।
न भयं विद्यते तस्य सङ्ग्रामे च सदा जयः । । ९.६१ । ।

अभक्ष्यभक्षणं कृत्वा अगम्यागमनं तथा ।
नासौ लिप्यति पापेन पङ्कस्थं कमलं यथा । । ९.६२ । ।

गुडिका तु सदा सिद्धा महाभैरवधारिता ।
योगेश्वरादिमुनिभिः सर्वदेवैर्नमस्कृता । । ९.६३ । ।

बहुनापि किं उक्तेन सत्यं सत्यं यशस्विनि ।
ज्वलन्तो दृश्यते भूतैर्यथा रुद्रो मखान्तकृथ् । । ९.६४ । ।

सुप्तो भुक्तः प्रबुद्धश्च अथ मैथुनं आगते ।
महाहवे महादेवि दुष्टसिंहगजेषु च । । ९.६५ । ।
विद्युद्वज्राशनिश्चैव उत्पातेष्वशनीषु च ।
शत्रुनाशे च गोनाशे विषशङ्कागतं च यथ् । । ९.६६ । ।

आर्णवेषु च सर्वेषु धारणान्न भयं भवेथ् ।
शाकिन्यो वशगास्तस्य दुष्टवेतालराक्षसाह् । । ९.६७ । ।

शुचिर्वाप्यशुचिर्वापि विद्रवन्ति दिशो दश ।
गुडिकैषा समाख्याता त्रिलोहपरिवेष्टिता । । ९.६८ । ।

धारणीया प्रयत्नेन शिवलोकं अवाप्नुयाथ् ।
सर्वावस्थगतो वापि मुक्तिं याति सुराधिपे । । ९.६९ । ।

मत्समो धारणाद्देवि सत्यं सत्यं यशस्विनि ।
मयापि धारिता ह्येषा ब्रह्मणापि ततः पुनः । । ९.७० । ।

विष्णुना देवराजेन युद्धे दैत्यास्तु निर्जिताः ।
अग्निवायुकुबेरेण यमेन वरुणेन च । । ९.७१ । ।

मातृभिर्गुह्यकैश्चैव गरुडेन च धीमता ।
दधीचिना च शुक्रेण दुर्वासेनापि धीमता । । ९.७२ । ।

ऋषिभिश्च तथा सर्वैर्देवदैत्यैः कुजेश्वरि ।
ततस्त्वन्यैश्च राजानैर्बलिभिर्नहुषादिभिः । । ९.७३ । ।

युद्धे जयार्थिभिर्देवि उग्रव्याधिजयार्थिभिः ।
प्रजावश्यार्थिभिश्चैव गुडिका कण्ठधारिता । । ९.७४ । ।

नानया सदृशी विद्या गुडिका भुवि विद्यते ।
पिण्डं तु प्रथमं मन्त्र्यं अघोरेण सुसंस्कृतं । । ९.७५ । ।

भुञ्जीयाच्चैव निःशङ्कं ततस्तस्यामृतायते ।
दिशोऽभिमन्त्र्य गच्छेत वामं चाग्रपदं न्यसेथ् । । ९.७६ । ।

उभयोश्चन्द्रमध्ये तु पर्यटेत सदा स्थितः ।
भुञ्जाने शयने चैव चन्द्रमध्ये सदा स्थितः । । ९.७७ । ।

चन्द्रारूढेन सततं स्थातव्यं वरवर्णिनि ।
नाघोरसदृशो मन्त्रो मन्त्रा यस्माद्विनिर्गताः । । ९.७८ । ।
गुरुवक्त्रात्तु विज्ञेयो मध्ये ओंकारमध्यगं ।
स एव नादसंलीनो यावद्ब्रह्मबिलं गतः । । ९.७९ । ।

धारणाद्धारितं कृत्वा त्रिभिः प्राणैरलङ्कृतं ।
स्वच्छन्दसहितं देवं वर्णान्तपरिवेष्टितं । । ९.८० । ।

मुखेऽनङ्गां ततो दुग्ध्वा धेनवीं चाम्बरां प्रिये ।
ग्राह्यग्राहविमर्दश्च त्रिशूलं वडवामुखं । । ९.८१ । ।

कुञ्चिका घण्टिका चैव राजदन्तामृतागमं ।
आयुषो ज्ञानं उत्क्रान्तिरघोरस्य वशे स्थितः । । ९.८२ । ।

नाघोरसदृशो मन्त्रो मन्त्रकोटिशतैरपि ।
सत्यं सत्यं पुनः सत्यं भूयः सत्यं पुनः पुनः । । ९.८३ । ।

सर्वज्ञं परमं मन्त्रं मुक्तिदं व्याधिनाशनं ।
जरामृत्युहरं देवि विद्याराजेति कीर्तितं । । ९.८४ । ।

विषुवं च सदा तत्र यत्र सर्वं प्रतिष्ठितं ।
उत्पत्तिस्थितिकर्तारं यत्र सर्वे लयं गताः । । ९.८५ । ।

किं न सेव्यति देवेशि बहुरूपं कुजेश्वरि ।
देवाधिदेवं परमं यत्तत्कारणं अव्ययं । । ९.८६ । ।

तत्त्वव्यापीति परमं व्योमव्यापीति कथ्यते ।
ब्रह्मविष्णुसुरादीनां उत्पत्तिप्रलयान्तिकं । । ९.८७ । ।

अघोरं घोररूपेति अघोरीश इति स्मृतः । । ९.८८ । ।

इति कुलालिकाम्नाये श्रीकुब्जिकामते शिखाकल्पैकदेशो नाम नवमः पटलः


श्रीभैरव उवाच

कवचस्य तु माहात्म्यं शृणु देवि वदाम्यहं ।
येन संरक्षयेत्सर्वं क्रुद्धः शत्रून्निपातयेथ् । । १०.१ । ।

आगतं रक्षयेत्कालं क्रुद्धः कालं विनाशयेथ् ।
कालवत्कुलसिद्धोऽसौ तनुत्राणावलम्बकः । । १०.२ । ।

शाकिनीभूतवेतालान्नाशयेत्साधयेति च ।
मायारूपधरो मन्त्री माहेन्द्रगुणशालिनः । । १०.३ । ।

कुरुते विविधाश्चर्यं पिच्छकभ्रामणेन वै ।
कवचं तु समाख्यातं असिद्धभेदकृद्भवेथ् । । १०.४ । ।

अस्य दूतीं प्रवक्ष्यामि सद्यःसिद्धां कुलोद्भवां ।
यस्या लेखनमात्रेण प्रस्रावोऽङ्घ्रितलं भवेथ् । । १०.५ । ।

आख्खिल्ल भेट्टा दुर्वस आख्खिल्ले उसि आन्निदि ।
आट्टि वसं विह पूर्वस अट्टि मसि आलित्तो उ । । १०.६ । ।

एवं पारम्परेणैव कौलभाषा समुद्धृता ।
गुरुवक्त्राद्विलोमेन तर्जन्यग्रेषु सिद्धिदा । । १०.७ । ।

कवचं तु समाख्यातं शृणु नेत्रं यथास्थितं ।
नेत्रसिद्धो महायोगी लोकालोकं चराचरं । । १०.८ । ।

पश्यते निखिलं सर्वं शिवाद्यवनिगोचरं ।
क्रुद्धः संशोषयेत्सर्वं सागरांश्च नदानदीन् । । १०.९ । ।

आप्यायति तदावस्थं पञ्चव्याप्त्यन्तगोचरं ।
निराचारपदस्थोऽसौ तत्त्वस्थो जपते यदि । । १०.१० । ।

अस्य दूती परा देव्या परदृष्टिसमुद्भवा ।
सद्यःसिद्धा महादेवि सद्यःप्रत्ययकारिका । । १०.११ । ।

हास्वा यैरीश्वण्डेमुचा क्तेरहाम क्तेर क्तेर ओं । । १०.१२ । ।

गुरुवक्त्रोपदेशेन पारम्पर्यक्रमेण वै ।
तिथिसङ्ख्याकलैर्युक्ता कुलभाषासुरक्षिता । । १०.१३ । ।

अस्योपचारः कर्तव्यः क्ॐआर्यौ द्वे समाहरेथ् ।
गन्धधूपपयःपानं शुचौ स्थाने नयेत्तु ते । । १०.१४ । ।

शुक्लवस्त्रधरां तां वै देवीं धायेद्यथा तु तां ।
भावनान्तानुसारेण मर्दयेद्दारिकाननां । । १०.१५ । ।

शिखिनोच्छिष्टयोगेन शरीरं तस्य लाञ्छितं ।
स्वस्तिकेन तु कुम्भोर्ध्वं सितवस्त्रावगुण्ठितं । । १०.१६ । ।

कुर्यात्स्नानं तु तैलाक्ता भुञ्जानस्तिलपिष्टकं ।
तृप्ताः सन्तः प्रपश्यन्ति दारिकाननमध्यतः । । १०.१७ । ।

यत्किञ्चिद्वाङ्मयं लोके चिन्तयित्वा तु साधकः ।
भूतभव्यार्थनिर्देशं तत्पस्यति तदोदरे । । १०.१८ । ।

एषा नेत्रगता दूती सद्यःसिद्धिफलप्रदा ।
कालवेलाविनिर्मुक्ता साधिता सति सर्वदा । । १०.१९ । ।

अस्त्रं प्रचण्डदण्डोग्रं साधितं विधिना यदि ।
हृदादौ क्रमशो वृद्ध्या सङ्क्रुद्धः संहरेत्खिलं । । १०.२० । ।

अशुद्धं शोधयेत्सर्वं सकृदुच्चारणात्तु तं ।
तन्न वस्त्वन्तरं किञ्चिद्यदनेन न सिध्यति । । १०.२१ । ।

अस्य दूती महामाया श्रीमद्गुह्येश्वरी परा ।
गुह्यकालीति नामेन सर्वायुधविमर्दनी । । १०.२२ । ।

रक्षणी कालपाशानां शत्रूणां तु निकृन्तनी ।
छेदनी परमन्त्राणां यन्त्रमन्त्रापवादिनां । । १०.२३ । ।

यस्येषा तिष्ठते कण्ठे महाकृत्या सुदारुणा ।
तस्य यः कुरुते किञ्चित्तस्यैव तु पुनर्भवेथ् । । १०.२४ । ।

अशुभे वा शुभे वाथ कर्मवृत्तौ नियोजयेथ् ।
साधकेन्द्रस्य यः कश्चित्तस्य प्रत्यङ्गिरा भवेथ् । । १०.२५ । ।

महाभये समुत्पन्ने सितगन्धाम्बरान्वितः ।
चिन्तयन्तो निशाभागे शत्रोर्युद्धं परस्परं । । १०.२६ । ।

एवं अन्यानि कर्माणि साधयेत्परमेश्वरी ।
देव्याः शस्त्रस्य धारेण अमोघोत्कटवर्चसा । । १०.२७ । ।

श्रूयतां कुल-म्-ईशानि कालस्य कालरूपिणी ।
अमोघा शक्ति विख्याता संवर्ताङ्गसमुद्भवा । । १०.२८ । ।

हास्वा यैकाब्जिकुह्यगु ट्फ हूं ह्रें हूं ह्रीं ह्रें लिराकष्ट्रादं नह नह र्वान्स तान्तिष्यरिक तंपिराका तंकृ नये कंदिगायोप्रर्णचून्त्रतन्त्रमन्त्रयवान्द्रपर्वोस मम ट्फ हूं केब्जिकुह्यगु ओं । । १०.२९ । ।

स्वाहा ओं वै परित्यज्य सिद्धवर्णास्त्रिषष्टि च ।
खादकास्त्रेति विख्याता सर्वार्थगुणरूपधृक् । । १०.३० । ।

अस्य नाम्ना पृथक्तन्त्रं स्वतन्त्रं सिद्धसागरं ।
गुह्यकालीति नामेन सपादलक्षपूर्वकं । । १०.३१ । ।

व्यावर्णितं तु तत्रस्थं अत्र किञ्चिदुदाहृतं ।
कुब्जिकास्त्रस्य माहात्म्यं कुलालीतन्त्रनिर्गतं । । १०.३२ । ।

पारम्पर्यक्रमायातं उपदेशसमन्वितं ।
विलोमविहितं सर्वं खादकास्त्रेऽप्ययं विधिः । । १०.३३ । ।

खादकास्त्रस्य लक्षेण निराचारेण योजयेथ् ।
मांसाहारस्वरूपस्य परिवर्तं करोति च । । १०.३४ । ।

तत्क्षणाद्विष्णुपङ्केन लेपनात्सिंहरूपधृक् ।
जायते नारसिंहत्वं यद्धृतं विष्णुना पुरा । । १०.३५ । ।

विष्णुनापि पुरा चीर्णं व्रतं ह्यस्याः सुभीषणं ।
तेन तं नारसिंहत्वं तस्य सिद्धं सुदारुणं । । १०.३६ । ।

नायातं मर्त्यलोकेदं क्वचित्सिद्धं क्रमे स्थितं ।
माहात्म्यं गोपितं ह्यस्याः सिद्धैर्भृगुपुरःसरैः । । १०.३७ । ।

अस्त्रस्य दूतिका ह्येषा कुब्जिकाम्नायनिर्गता ।
सिद्धविद्यामहौघैषा आशुसिद्धा सुगोपिता । । १०.३८ । ।

कुलेश्वर्याङ्गसम्भूता सुव्रता या गुणोज्ज्वला ।
गोपिता अन्यतन्त्रेषु प्रत्यक्षा कुब्जिकामते । । १०.३९ । ।

एतद्देव्याङ्गषट्कं तु नानानन्दप्रदायकं ।
देव्या हृदयमाहात्म्यं नित्यातन्त्रं अशेषकं । । १०.४० । ।

नित्यानन्दकरी दूती देव्या हृदि समुद्भवा ।
तेन नित्या समाख्याता स्वाधिष्ठानं समाश्रिता । । १०.४१ । ।

सिद्धातन्त्रं शिरोद्भूतं तत्र देव्या महाबला ।
सिद्धयोगेश्वरी नाम रौद्रशक्तिर्महोज्ज्वला । । १०.४२ । ।

अनाहतेन संयुक्ता रौद्रदेव्या महाबला ।
सिद्धयोगेश्वरीतन्त्रे अस्याः कीर्तिरनेकधा । । १०.४३ । ।

देव्याः शिखिशिखोद्भूता स्वच्छन्दानेकभेदतः ।
मणिभेदान्तरालेन स्वच्छन्दाद्यं विनिर्मितं । । १०.४४ । ।

स्वतन्त्रा सहजा शान्ता स्वच्छन्दगतिगामिनी ।
मणिभेदं पूरयन्ती स्वच्छन्दार्थप्रबोधिका । । १०.४५ । ।

स्वच्छन्देन स्वरूपेण शिखासूत्रं प्रवर्तते ।
स्वच्छन्दाघोररूपस्य तस्येदं तन्त्रं उत्तमं । । १०.४६ । ।

तनुत्राणसमुद्भूतं तन्त्रं सम्मोहनादिकं ।
विशुद्धिभावनासीनं दूत्यनेकसुसङ्कुलं । । १०.४७ । ।

अनेकाश्चर्यकर्तारं सम्मोहध्वंसकारकं ।
सम्मोहनं तु तेनेदं माहात्म्यं तत्र तस्य वै । । १०.४८ । ।

देव्या नेत्रसमुद्भूतं ज्योतिःशास्त्रं स्वरोदयं ।
आज्ञाधारगतं ह्येतत्सामर्थ्यानेकसङ्कुलं । । १०.४९ । ।

कैवल्याद्यं च यत्किञ्चित्तन्नेत्राङ्गसमुद्भवं ।
अस्याङ्गस्य तु माहात्म्यं ज्योतिषेश्वरसागरे । । १०.५० । ।

परमास्त्रस्य मध्ये तु खादकास्त्रं महाबलं ।
तस्य व्यावर्णितं पूर्वं तन्त्रं स्वाभावलक्षणं । । १०.५१ । ।

अभिषेकं प्रवक्ष्यामि सर्वपापप्रणाशनं ।
परमास्त्रप्रयोगेन सर्वं तत्र न संशयः । । १०.५२ । ।
शूलदण्डं समुद्धृत्य नाभिस्थं वर्णं उद्धरेथ् ।
शूलदण्डासनस्थं तु कर्णभूषणवामकं । । १०.५३ । ।

वामजङ्घासमायुक्तं नितम्बालङ्कृतं प्रिये ।
एतद्देव्यास्त्रपरमं नापुण्यो लभते स्फुटं । । १०.५४ । ।

क्रमपूजाविधानेन यथाविभवविस्तरं ।
दीपमालाभिरुद्द्योतं कृत्वा धूपाधिवासितं । । १०.५५ । ।

शङ्खं वा कलशं वापि अभिमन्त्र्य स्वविद्यया ।
उत्तमाधममध्यस्य कर्मसेवानुसारतः । । १०.५६ । ।

तया विद्याभिषेकं तु न्यस्तव्या कलशे तु सा ।
शिष्यहस्ते तु तं दत्त्वा इदं कूटं तु योजयेथ् । । १०.५७ । ।

यावत्क्षुभ्यत्यसौ हस्तः स्वयं एव चलत्यसौ ।
धारणादिव संयातं यदा पतति मस्तके । । १०.५८ । ।

तदा तु जायतेऽसौ वै साध्यलक्षणसाधकः ।
दग्धपापः प्रजायेत नात्र कार्यविचारणाथ् । । १०.५९ । ।

नाशिष्याय प्रदातव्यं न धूर्ताय न निन्दके ।
भक्ताय श्रद्दधानाय गुरुभक्ताय सुन्दरि । । १०.६० । ।

तस्य देयं इदं देवि अभिषेकं वरानने ।
तदा तु साधयेत्कर्म यदुक्तं कर्मसन्ततौ । । १०.६१ । ।

३ ट्फ ३ हूं २ यतघावि २ यतघा २ मव २ हक २ टचप्र २ टच परूनुत रतरघो २ रस्फुप्र ह्र्ॐ ह्रीं ह्रां । । १०.६२ । ।

लक्षं वै पूर्वसेवायां सिध्यते नात्र संशयः ।
षडङ्गं षट्प्रकारं च षड्योगिन्यः षडध्वरं । । १०.६३ । ।

षट्प्रकाराणि षट्सिद्धा ज्ञात्वैतान्भिन्नदृष्टिना ।
स जानाति वरारोहे समस्ताम्नायपद्धतिं । । १०.६४ । ।

अन्यथा न भवेत्सिद्धिः किञ्चिज्ज्ञः पश्चिमान्वये ।
श्रुत्वा सविस्मयं वाक्यं आनन्दप्रणयान्वितं । । १०.६५ । ।

उवाचेदं पुनः कुब्जी षडध्वं वद मे प्रभो । । १०.६६ । ।

श्रीभैरव उवाच

युक्तं उक्तं च देवेशि श्रूयतां परमार्थतः ।
सङ्क्षेपात्कथयिष्यामि शेषान्यत्पुरतः पुनः । । १०.६७ । ।

भूतं भावं तथा शाक्तं मान्त्रं रौद्रं च शाम्भवं ।
आज्ञातः सम्प्रवर्तेत षडध्वेदं कुलान्वये । । १०.६८ । ।

भूतं भुवनावरणं पदं भावं प्रयुज्यते ।
शाक्तं वर्णाः समाख्याता मान्त्रं द्वादश कीर्तिताः । । १०.६९ । ।

रौद्रं कलाध्वरं प्रोक्तं शाम्भवं तत्त्वलक्षणं ।
आज्ञानलवती दीक्षा मन्त्राणां साधने हिता । । १०.७० । ।

सा चाज्ञा पूर्विका सिद्धा अन्यथा तिलघातकी ।
सा च तत्त्ववतां चैव तत्त्वं वै शाम्भवं पदं । । १०.७१ । ।

तत्पदं विद्यते यस्य सामर्थज्ञः स सर्वशः ।
ज्ञानमार्गप्रसिद्ध्यर्थं दीक्षा वेधवती शुभा । । १०.७२ । ।

योग्यतातः प्रदातव्या सुभक्तस्य कुलाध्वरे ।
सर्वासां एव दीक्षानां चोत्तमा परिकीर्तिता । । १०.७३ । ।

तेन वेधो न कर्तव्यो न ज्ञातं याव निश्चयं ।
शाम्भवाज्ञाभिमानेन लोभमोहः प्रकीर्तितः । । १०.७४ । ।

सामर्थ्योऽन्यो न मे तुल्यो य एवं मन्यते कुधीः ।
आज्ञातः सम्प्रवर्तेत किं तु भूतवती भवेथ् । । १०.७५ । ।

अथ चेत्परिपक्वस्य षड्विधो ह्यल्पस्वल्पवथ् ।
पृथिव्यादीनि भूतानि चाविशन्ति च यस्य वै । । १०.७६ । ।

भूतावेशं तु तद्विद्धि भावावेशं अतः शृणु ।
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च भावजं । । १०.७७ । ।

श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं शक्तिमनो विदुः ।
वाचा पाणिस्तथा पादं पायूपस्थं तु मान्त्रजं । । १०.७८ । ।

मनो बुद्धिस्तथा गर्वः प्रकृतौ गुण रौद्रजं ।
पुरुषादिनिवृत्[त्]यन्तं उन्मनत्वं परान्तिकं । । १०.७९ । ।

एतत्ते शाम्भवं ज्ञानं भुवनाद्यं महाह्रदं । । १०.८० । ।

श्रीकुब्जिका उवाच

भूतादिशाम्भवान्तस्य भेदोपायं पृथक्पृथक् ।
कथितं तु यथा नाथ तथा तत्प्रत्ययं वद । । १०.८१ । ।

श्रीभैरव उवाच

साधु देवि महाप्राज्ञे कथयामि सप्रत्ययं ।
अन्यथा तत्कथं तस्य भ्रान्तिज्ञानं विनश्यति । । १०.८२ । ।

कम्पते भ्रमते रोदेच्चोत्पतेन्निपतेद्वदेथ् ।
अनिबद्धरवोन्मादी ससंज्ञो भूतवद्यथा । । १०.८३ । ।

भूतावेशस्य चिह्नेदं भावावेशं अतः शृणु ।
यानि चिह्नानि जायन्ते भावविद्धस्य भाविनि । । १०.८४ । ।

घूर्मणं स्वेदरोमाञ्च अश्रुपाताङ्गमोटनं ।
आराध्य स्मरणादेवं सम्पद्यन्ते स्वभावधृक् । । १०.८५ । ।

भ्रमते चक्रवत्पातः काष्ठवत्क्षुभितेक्षणः ।
पश्यते विभ्रमापन्नः शक्तिवेधोपलक्षयेथ् । । १०.८६ । ।

कम्पते भ्रमते चैव जल्पते वदतेऽखिलं ।
मन्त्रावेशस्य चिह्नेदं कथितं तव शोभने । । १०.८७ । ।

रौद्रं चैवं अतो ब्रूमि पञ्चावस्था[ स्] तु रौद्रजाः ।
अनाधीतानि शास्त्राणि ग्रन्थतश्चार्थतः सुधीः । । १०.८८ । ।

अतीतानागतं सर्वं वर्तमानस्य यत्फलं ।
रौद्रशक्तिसमावेशात्सर्वं एव प्रपद्यते । । १०.८९ । ।

यस्येदं वर्तते चिह्नं रौद्रावेशं तदुच्यते ।
शाम्भवेन तु वेधेन सर्वाण्येतानि सुव्रते । । १०.९० । ।

शुद्धशाम्भववेधस्य साम्प्रतं निर्णयं शृणु ।
येन विद्धस्य लोकेऽस्मिन्सर्वज्ञत्वं प्रपद्यते । । १०.९१ । ।

पूर्वोक्तेन तु कालेन शोधितस्तु यदा शिशुः ।
तदा सम्पद्यते तस्य शाम्भवं गुणदायकं । । १०.९२ । ।

कुब्जीशो यं यदायातः पुंसो जन्मन्यपश्चिमे ।
तदा सम्पद्यते तस्य शाम्भवं कुब्जिके तनौ । । १०.९३ । ।

बह्वर्थकालेऽपि विशोधितात्मा आत्मैव सौ पश्यति सर्वभूतान् ।
न मे समानो भुवनान्तराले विशुद्धभावो भवते ह्यकाले । । १०.९४ । ।

एकैकं भुवनं पश्येत्पुंसादौ चोन्मनावधिं ।
विशुद्धतनुजो ह्येवं देहेनानेन चोत्पतेथ् । । १०.९५ । ।

न कम्पधुनने तस्य ईशद्घूर्मिः प्रवर्तते ।
विषोन्मूर्छागतस्त्वेवं तिष्ठते भूतकुम्भवथ् । । १०.९६ । ।

पश्यते चाग्रतः सर्वं तत्त्वव्रातं सदोदितं ।
तत्क्षणाद्विषयान्मुच्येज्जीर्णकञ्चुर्यथोरगः । । १०.९७ । ।

सदानन्दमदोन्मत्तः सर्वज्ञगुणभूषितः ।
शाम्भवेन तु विद्धस्य चिह्नेदं सम्प्रवर्तते । । १०.९८ । ।

भूतभावनशक्तीनां मन्त्रावेश[ ं ] सरौद्रजं ।
क्रमेण शाम्भवस्तेषां विशुद्धत्वं यथा यथा । । १०.९९ । ।

झलझलेति यद्वेधं सम्पूर्णघटवद्यथा ।
भूतान्तशक्तिमन्त्रादौ तथेदं सम्प्रचक्ष्यते । । १०.१०० । ।

गुरुभक्तिविहीनानां वञ्चकानां यशस्विनि ।
पूर्वं शाम्भवविद्धस्य भूताद्यं सम्प्रवर्तते । । १०.१०१ । ।

श्रीकुब्जिका उवाच

वेधदीक्षापरं नास्ति कथं सा प्रत्ययात्मिका ।
प्रत्यये सति सञ्जाते कथं तन्मोक्षलक्षणं । । १०.१०२ । ।

श्रीभैरव उवाच

प्रत्यये सति मोक्षोऽ स्ति पिण्डपातेन सर्वथा ।
विषयेषु न मुच्येत सिद्धभावं न गच्छति । । १०.१०३ । ।

शाम्भवेन तु वेधेन तत्क्षणाद्विषयोज्झितः ।
विषयोज्झित-आत्मा वै देहेनानेन चोत्पतेथ् । । १०.१०४ । ।

येन वेधेन विद्धस्य सुखास्वादो न विद्यते ।
स कथं स्वार्थनिर्मुक्तो विषयेषु विरज्यते । । १०.१०५ । ।

शाम्भवे न हि सम्प्राप्ते दर्पेणाकुलितेक्षणः ।
नायकैः सोऽभिभूयेत न सिध्यत्यधिकारकृथ् । । १०.१०६ । ।

आज्ञानन्दे समुत्पन्ने न गन्तव्यं गुरोः कुलाथ् ।
कस्मात्सामर्थ्यहेत्वर्थं यावन्नोत्पादयेद्गुणान् । । १०.१०७ । ।

दिवा प्रेषणतन्निष्ठो रात्रौ ज्ञानपरिग्रहः ।
एवं सम्पादयेत्सर्वं सामर्थ्यं तु गुरोः कुले । । १०.१०८ । ।

अप्रेषिते न गन्तव्यं न कुर्याच्चोल्बणादिकं ।
ये न कोपवशादाज्ञां दास्यन्ति गमनं प्रति । । १०.१०९ । ।

शाम्भवाज्ञासमुत्पन्ने य एवं कुरुते कुधीः ।
तस्य पीठाधिपाः पालाश्चाभिभूयन्त्यनेकधा । । १०.११० । ।

अनुष्ठानतपोपायैर्यदानन्दभृतस्तनुः ।
तदाधिकारः कर्तव्यो यस्याज्ञा तस्य तत्पदे । । १०.१११ । ।

अनुज्ञातोऽभिषिक्तस्य नाममालां प्रकाशयेथ् ।
नवपञ्चविधं द्रव्यं पूजार्थे सम्प्रदर्शितं । । १०.११२ । ।
शुभेऽहनि मुहूर्ते च चतुर्दश्याष्टमीषु च ।
दर्पणोदरभूभागे वस्त्रे वाथ सुशोभने । । १०.११३ । ।

ततोपरि यजेत्सिद्धान्सर्वज्ञगुणशालिनान् ।
चतुर्विंश षोडशैवं अष्टौ चैव त्रिपङ्क्तिषु । । १०.११४ । ।

द्वौ सिद्धौ मध्यदेशे तु कुङ्कुमेन तु चाक्षतैः ।
त्रिहस्तं मण्डलं कुर्यादूर्ध्वादौ पूर्वपश्चिमं । । १०.११५ । ।

शृङ्गातकाकृति ह्येवं तत्र पूजां समारभेथ् ।
पूजयित्वा विधानेन द्रव्यैः पञ्चनवादिभिः । । १०.११६ । ।

पृथग्दीपैः पूजयित्वा फल्गुषालिसुगन्धिभिः ।
सुप्रणीतं सुभक्तं च आज्ञागुणविधायिनं । । १०.११७ । ।

ततः प्रवेशयेच्छिष्यं पुष्पं मोचापयेदिति ।
यस्मिन्मार्गे पतेत्पुष्पं तन्नाम तस्य दापयेथ् । । १०.११८ । ।

प्रकटं शिव विज्ञेयं गुप्तं आनन्द-म्-उच्यते ।
अकारादिक्षकारान्तं पञ्चाशगुणलक्षितं । । १०.११९ । ।

अक्षरे अक्षरे सिद्धं पुष्पपाताद्विलक्षयेथ् ।
श्रीकण्ठानन्तसूक्ष्मेशं त्रिमूर्तिरमरोऽर्घिनः । । १०.१२० । ।

तिथीशो भारभूतिश्च स्थाणुनामो हरस्तथा ।
झण्टीशो भौक्तिकश्चैव सद्योजातस्त्वनुग्रही । । १०.१२१ । ।

क्रूरसेनस्तथान्यो वै महासेनस्ततः परः ।
प्रथमादौ स्थिता ह्येते उपरिष्टाद्विलक्षयेथ् । । १०.१२२ । ।

क्रोधश्चण्डः प्रचण्डश्च शिवैकरुद्र एव च ।
कूर्मश्चैवैकनेत्रश्च चतुरास्योऽवसानुगः । । १०.१२३ । ।

प्रथमा या स्थिता पङ्क्तिः पीठत्रयविभूषिता ।
अजेशः शर्म सोमश्च लाङ्गुलीशोऽथ दारुकः । । १०.१२४ । ।

अर्धनार्यो ह्युमाकान्तो आषाढी दिण्डिरेव च ।
धात्रीशश्च तथा मीनो मेषो लोहित-म्-एव च । । १०.१२५ । ।
शिखीशश्छगलण्डश्च द्विरण्डो मध्यपङ्क्तिगाः ।
महाकालश्च वालाख्यो भुजङ्गाख्यः पिनाकिनः । । १०.१२६ । ।

खड्गानन्दो बकानन्दः श्वेतानन्दस्तथैव च ।
भृगुश्चैवान्तिमे चक्रे अष्टौ तांश्च प्रपूजयेथ् । । १०.१२७ । ।

लाकुलानन्द मध्यस्थं संवर्तानन्दसंयुतं ।
तयोर्मध्यगतां देवीं कुब्जिकां परमेश्वरीं । । १०.१२८ । ।

पूजयेत्पीठसंयुक्तां पारम्पर्येण संयुतां ।
यथा सिद्धास्तथा देव्याः संहार्यादि प्रपूजयेथ् । । १०.१२९ । ।

वागेश्यन्ताः क्रमेणैव गुरुवक्त्रप्रसादतः ।
षडारे डादिषट्कं तु क्रमेणैव प्रपूजयेथ् । । १०.१३० । ।

कुलाष्टकं ततो बाह्ये अष्टारे पङ्कजे क्रमाथ् ।
पञ्चद्रव्यभृतं पात्रं तदग्रे सन्निवेशयेथ् । । १०.१३१ । ।

क्रमाम्नायं पुनः पात्रे कुर्यात्तेनाभिषेचनं ।
मुखेन वाथ कर्तव्यं यस्योपरि सुभावना । । १०.१३२ । ।

ततश्चादेशयेत्तं तु कुरु कार्यं यदृच्छया ।
अधिकारपदं सर्वं मोक्षितं ते प्रसादतः । । १०.१३३ । ।

ततः प्रभृति देवेशि योग्यो भवति शासने ।
शासनं भूषयेन्नित्यं गुप्ताचारविधौ स्थितः । । १०.१३४ । ।

अव्यक्तेन तु लिङ्गेन व्यक्तलिङ्गेन वा पुनः ।
येन लिङ्गेन यस्येदं तल्लिङ्गं न परित्यजेथ् । । १०.१३५ । ।

आकाशात्पतितं तोयं यथा गच्छति सागरं ।
गर्तानद्योपचारेण तथा सर्वं कुलान्वये । । १०.१३६ । ।

यास्यन्ति लिङ्गिनः सर्वे निश्चयार्थोऽन्यथा न हि ।
कस्मात्प्रत्यक्षरूपेण तत्राज्ञा वर्तते यतः । । १०.१३७ । ।

समुद्रवत्कुलानन्दं यस्मात्तत्सर्वतोमुखं ।
कुलं तदेव विज्ञेयं सर्वानुग्रहकारकं । । १०.१३८ । ।
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं प्राकृतं अन्त्यजं ।
मातङ्गम्लेच्छजात्युत्थं बौद्धसाङ्ख्यदिगम्बरं । । १०.१३९ । ।

त्रिदण्डमुण्डखट्वाङ्ग- मुषलान्यक्रियान्वितं ।
यास्यन्ति परमं शैवं शैवो याति न कुत्रचिथ् । । १०.१४० । ।

तच्च कौलभृतानन्दं नेतरं तु क्रियाकुलं ।
सर्वज्ञमार्गविहितं सर्वाचारप्रपालकं । । १०.१४१ । ।

कौलिकाचारमार्गेण भावाद्वैतेन सर्वथा ।
तत्त्वाद्वैतेन मार्गेण सर्वथा यत्र संस्थितः । । १०.१४२ । ।

पालयेल्लौकिकाचारं अद्वैतं समनुष्ठयेथ् ।
गोपयेद्गुप्तलिङ्गानि तत्प्रविष्टानि सर्वथा । । १०.१४३ । ।

अधमादुत्तमं ज्ञानं यद्यर्थी उत्तमो भवेथ् ।
लिङ्गिनो वा द्विजन्मा वा आज्ञार्थी तु न वञ्चयेथ् । । १०.१४४ । ।

एकान्ते विहितं सर्वं कुर्वीत न जनाकुले ।
अन्यथा स्थितिभङ्गः स्यान्नश्यते शासनं प्रिये । । १०.१४५ । ।

वर्जयेत्कौलिकान्बौद्धान्तथा मीमांसकास्थितान् ।
कस्माद्भ्रष्टक्रिया तेषां न मोक्षो नैव साधनं । । १०.१४६ । ।

जिह्वोपस्थनिमित्तार्थं अद्वैतं तेषु सर्वथा ।
कौलिकाचारनिर्मुक्ताः श्वानवद्विचरन्ति ते । । १०.१४७ । ।

निराचारं प्रकुर्वन्ति निराचारविवर्जिताः ।
विषं भक्षन्ति ते मूढा यथाज्ञामन्त्रवर्जिताः । । १०.१४८ । ।

यद्यपि ते त्रिकालज्ञास्त्रैलोक्याकर्षणक्षमाः ।
तथापि संवृताचाराः पालयन्ति कुलस्थितिं । । १०.१४९ । ।

निराचारेण योगेन पश्यन्ति विषयोज्झिताः ।
विषयस्थोऽपहासित्वं निराचारेण यात्यसौ । । १०.१५० । ।

भ्रष्टनष्टकुलं त्यज्य कुलकौलं समाश्रयेथ् ।
तत्र योगिगुरूणां च पूज्यते चरणाम्बुजं । । १०.१५१ । ।
समयेन विना देवि समर्थो भवते कथं ।
सामर्थ्येन विना चर्या निराचारात्मिका भवेथ् । । १०.१५२ । ।

ज्ञात्वाम्नायपदं सर्वं यथावस्थं कुलेश्वरं ।
षट्प्रकारविधानेन निर्गताचाररूपिणं । । १०.१५३ । ।

सामर्थ्यगुणयुक्तात्मा विषयातीतो जितेन्द्रियः ।
विरजो रञ्जितात्मा वै निराचारो भवेत्तु सः । । १०.१५४ । ।

एतत्ते कथितं देवि सरहस्यं सुगोपितं ।
अन्यद्यत्ते मनस्थं तु तत्पृच्छ वदतो मम । । १०.१५५ । ।

इति कुलालिकाम्नाये श्रीकुब्जिकामते देव्यासमयो नाम मन्त्रोद्धारे दशमः पटलः


श्रीकुब्जिका उवाच

मन्त्रतन्त्रैस्त्वया देव भ्रामिताहं क्रियादिभिः ।
ध्यानधारणयोगैश्च इदानीं कथय स्फुटं । । ११.१ । ।

पूर्वतन्त्रे त्वया देव सूचितं न प्रकाशितं ।
अधुना श्रोतुं इच्छामि षट्पदार्थविनिर्णयं । । ११.२ । ।

श्रीभैरव उवाच

महानन्दकरं वाक्यं महाश्चर्यकरं परं ।
गोपितं सर्वदेवानां तथा ते कथयाम्यहं । । ११.३ । ।

अनादिनिधनेशानाच्छिवात्परमकारणाथ् ।
दिव्याज्ञायाः क्रमो जातः पारम्पर्यौघसन्ततिः । । ११.४ । ।

अकुलं च कुलं चैव कुलाकुलविनिर्णयं ।
अधुना कथयिष्यामि नवधा निर्णयो यथा । । ११.५ । ।

परस्य परमां विद्धि योनिं आद्यां महाम्बिके ।
रूपातीतादियोगेन परेच्छेयं चतुर्विधा । । ११.६ । ।

रूपातीतं तु कामाख्यं रूपं पूर्णगिरिर्महान् ।
पदं जालन्धराख्यं तु पिण्डं ओड्रं प्रकीर्तितं । । ११.७ । ।

अन्तिमामृत सूक्ष्मा च सुसूक्ष्माद्यं चतुष्टयं ।
अकुलेश्वरदेवस्य सम्बन्धः प्रथमः स्मृतः । । ११.८ । ।

रूपातीतात्परो हिन्दुः शक्त्याधिष्ठित भास्वरः ।
ततो नादो निरोधश्च अर्धचन्द्रं अनुक्रमाथ् । । ११.९ । ।

एतत्तत्पञ्चकं प्रोक्तं ज्ञानरत्नमहोदयं ।
सा योनिः परमा ज्ञेया क्रियाध्वानमहोदधिः । । ११.१० । ।

बिन्दुतत्त्वात्परो बिन्दुर्मकारोकार-म्-एव च ।
अकारस्तु समाख्यातः षट्पदार्थविभेदकः । । ११.११ । ।

रूपात्पदं समुत्पन्नं कालरूपं षडाननं ।
षड्विधाध्वानयोगेन सृजते संहरन्ति च । । ११.१२ । ।

आधाराधेययोगेन षट्पदार्थपदेन च ।
कुरुते विविधां सृष्टिं येन तत्कथ्यतेऽ धुना । । ११.१३ । ।

आत्मा धारयते शक्तिं आत्मा हंसोपरिस्थितः ।
हंसः समीरणान्तस्थः स च नाडीपथे स्थितः । । ११.१४ । ।

नाड्यः पिण्डे सकर्माद्यः पशुर्मायामलान्विताः ।
एतत्षट्कं समाख्यातं कुलमार्गप्रबोधकं । । ११.१५ । ।

अत्र जातं जगत्सर्वं क्रियाकारणगोचरं ।
पराच्च शाम्भवं ज्ञानं विज्ञानानेकसङ्कुलं । । ११.१६ । ।

विशुद्धिर्बोधजननी षोडशान्त-म्-अधोर्ध्वतः ।
मणिपूरक शब्दस्थं दशपञ्चावतारकं । । ११.१७ । ।

सा तु माया परा ज्ञेया चतुर्योनिर्महाम्बिके ।
शब्दसूत्रेण येनैताः पञ्चाश मणयो महान् । । ११.१८ । ।
आपूरिताश्च महता तेनेदं मणिपूरकं ।
अस्याधारं तु विज्ञेयं कर्णकुब्जं महापुरं । । ११.१९ । ।

विज्ञानैः पञ्चदशभिः पूरितं भुक्तिमुक्तिदं ।
मणिपूरकमालायां ग्रन्थिर्जाता चतुर्विधा । । ११.२० । ।

मण्डलं मन्त्रविद्याश्च मुद्रा ग्रन्थिश्चतुर्विधा ।
मायायन्त्रोदरे चान्या पुंसां सृष्टिरनाहता । । ११.२१ । ।

नदते दशधा सा तु दिव्यानन्दप्रदायिका ।
चिणीति प्रथमं शब्दं चिञ्चिनी तु द्वितीयकं । । ११.२२ । ।

चीरवाकी तृतीयं तु शङ्खशब्दं चतुर्थकं ।
पञ्चमं तन्त्रिनिर्घोषं षष्ठं वंशरवस्तथा । । ११.२३ । ।

सप्तमं कंसतालं तु मेघशब्दं तु चाष्टमं ।
नवमं दाघनिर्घोषं दशमं दुन्दुभिस्वनः । । ११.२४ । ।

नवशब्दं परित्यज्य दशमं मोक्षदं परं ।
हननेन विना येन व्याहरेद्दशधा रवं । । ११.२५ । ।

तेनैवानाहतं जातं कर्णकुब्जाद्विनिर्गतं ।
दशधा रवते-द्-एवं अष्टपत्त्रोपरिस्थितं । । ११.२६ । ।

दशधा गुणदातारं चिच्चेताहृदयात्मकं ।
प्रमाणपदयोगेन क्षोभयित्वा नवान्बहून् । । ११.२७ । ।

कलाकर्मसमायोगात्स्वाधिष्ठानं विनिर्मितं ।
शतकोटिसुविस्तीर्णं भुवनानेकसङ्कुलं । । ११.२८ । ।

मायाकालकलाकीर्णं आधारं ब्रह्मणस्तु तथ् ।
चतुष्कलसमोपेतं शिवशक्तिसमन्वितं । । ११.२९ । ।

षट्प्रकारं इदं कुब्जि स्वाधिष्ठानं पृथक्पृथक् ।
षट्पदार्थविभागोऽयं दुर्लभः प्रकटीकृतः । । ११.३० । ।

क्रियातत्त्वार्थनिर्देशं कुब्जिकेऽन्यत्र गोपितं ।
कुलाकुलं इदं षट्कं उत्तरं ते प्रकाशितं । । ११.३१ । ।
दक्षिणस्यापि षट्कस्य साम्प्रतं निर्णयं शृणु ।
मणिपूरकदेवस्य तत्तेजो भास्वरस्तु यः । । ११.३२ । ।

तत्र तद्दक्षिणं षट्कं आज्ञापूर्वं कुलोद्भवं ।
सृष्टिमार्गक्रमायातं शिवशक्तेः कुलाकुलं । । ११.३३ । ।

संहारपदषट्कस्य कुलं शक्त्यान्तदक्षिणं ।
गुदं आधारं इत्युक्तं स्वाधिष्ठानं तु लिङ्गजं । । ११.३४ । ।

मणिपूरक नाभिस्थं हृदिस्थं च अनाहतं ।
विशुद्धिः कण्ठदेशे तु आज्ञा नेत्रद्वयान्तरे । । ११.३५ । ।

विशुद्धिः षोडशैर्भेदैर्दशधा तु अनाहतं ।
मणिपूरक विज्ञेयं भेदैर्द्वादशभिः स्थितं । । ११.३६ । ।

अनेकार्थगुणाधारं स्वाधिष्ठानं तु षट्कलं ।
चतुष्कलं तु आधारं आज्ञाभेदद्वयं विदुः । । ११.३७ । ।

श्रीकुब्जिका उवाच

आज्ञाभेदद्वयं नाथ कथं तत्परमेश्वर ।
आचचक्ष्व प्रयत्नेन येन भ्रान्तिर्विनश्यति । । ११.३८ । ।

श्रीभैरव उवाच

लक्षवारसहस्रैस्तु वारं वारं पुनः पुनः ।
एष साङ्केतिको ह्यर्थः कथ्यमानं न बुध्यसि । । ११.३९ । ।

शाम्भवं कथितं ज्ञानं सृष्टिमार्गेण शक्तिगं ।
इच्छाशक्तिसमायुक्तं उत्तरं ते प्रकाशितं । । ११.४० । ।

इच्छाज्ञानं परित्यज्य शम्भुरत्रापि दक्षिणं ।
क्रियाशक्तिरधोभागे संयोगात्प्रत्ययायते । । ११.४१ । ।

ऊर्ध्वशक्तिनिपातेन अधःशक्तिनिकुञ्चनाथ् ।
कुरुते विविधां सृष्टिं अनेकाकाररूपिणीं । । ११.४२ । ।
न शिवेन विना शक्तिर्न शिवः शक्तिवर्जितः ।
क्रियातत्त्वस्य मार्गोऽयं परेच्छाध्वं तु केवलं । । ११.४३ । ।

उत्तरस्य तु मार्गस्य यच्छतुष्कं सुसूक्ष्मगं ।
क्षोभितं तेन चात्मानं पुनः षोडशधा कृतं । । ११.४४ । ।

विशुद्धं परतत्त्वान्तं तेनात्मानं विसर्पितं ।
चतुस्त्रिंशतिभेदेन तस्मान्ऽनेकविधाकृतिः । । ११.४५ । ।

सप्रत्ययगुणाधारं अवस्थागुणदायकं ।
लक्ष्यते येन सुश्रोणि तच्छृणुष्व यथार्थतः । । ११.४६ । ।

मुक्ताफलनिभाकारं क्वचिज्ज्वालाचलाचलं ।
क्वचिन्मर्कटिजालाभं मृगतृष्णेव चापलं । । ११.४७ । ।

रूपातीतं च रूपं च पदपिण्डं चतुर्विधं ।
विशुद्धतनुदेवस्य आद्यभेदं चतुष्टयं । । ११.४८ । ।

सरहस्यं प्रबुद्धानां क्षुब्धानां तु क्रियाध्वरे ।
तस्मात्पीठचतुष्कं तु सञ्जातं तु कुलाकुलं । । ११.४९ । ।

कलाभृत्तनुदेवस्य कैलासोपरिसंस्थितं ।
मध्यदेशे तु रन्ध्रस्थं श्रीमदोड्रकुलेश्वरं । । ११.५० । ।

प्रथमं पीतवर्णं तु सशैलवनकाननं ।
वनोपवनसंयुक्तं हेमप्राकारमण्डितं । । ११.५१ । ।

नदीनदसमाकीर्णं अनेकार्थसमाकुलं ।
सर्वबीजसमाकीर्णं चतुरस्रं समन्ततः । । ११.५२ । ।

वज्रार्गलसमोपेतं वज्रहस्ता तु मालिनी ।
तत्राधिपत्ययोगेन पीठपीठेश्वरीयुतं । । ११.५३ । ।

तस्यैव दक्षिणे कोणे चन्द्राभं चन्द्रवर्चसं ।
अर्धचन्द्र पुराकारं सरि त्सरसमाकुलं । । ११.५४ । ।

जलकल्लोलगम्भीरं षड्रसार्णवसङ्कुलं ।
वीचीतरङ्गकल्लोलैस्तटास्फालनभीषणैः । । ११.५५ । ।
तत्त्वनाथोपरिस्थं तु पुरं तत्पारमेश्वरं ।
हिमचन्द्रशिलाभिश्च समन्तान्निचितं तु तं । । ११.५६ । ।

प्राकारेण विचित्रेण गोपुराट्टालशोभितं ।
अनेकगुणसञ्छन्नं अनेकाश्चर्यसङ्कुलं । । ११.५७ । ।

तत्र तत्त्वेश्वरं देवं देव्याधिष्ठितविग्रहं ।
श्यामवर्णं सुतेजाढ्यं पाशहस्तं सुलोचनं । । ११.५८ । ।

आधारं सर्वसृष्टेस्तु महापीठोपरिस्थितं ।
कैलासदक्षिणे शृङ्गे अनेकगुणसङ्कुलं । । ११.५९ । ।

श्रीमज्जालन्धरं पीठं तत्रस्थं लक्षयेत्प्रिये ।
कैलासस्योत्तरे शृङ्गे अनेकार्चिसमाकुलं । । ११.६० । ।

ग्रसन्तं इव त्रैलोक्यं सूर्यकोटिसमप्रभं ।
पिङ्गलं दहनावस्थं लेलिहानं सुदारुणं । । ११.६१ । ।

ममापि देवि दुष्प्रेक्ष्यं किं पुनस्त्वितरैर्जनैः ।
त्रिकोणपुरमध्यस्थं वज्रप्राकारमण्डितं । । ११.६२ । ।

वज्रस्तम्भमयं दिव्यं पुरं वै पारमेश्वरं ।
कालाग्निगोपुराट्टालं समन्तात्परिवेष्टितं । । ११.६३ । ।

बहुरूपसमाकीर्णं विद्यागुणविभूषितं ।
अनेकाश्चर्यसम्पन्नं जीवभूतं जगत्त्रये । । ११.६४ । ।

आपूरितं इदं येन तेन तत्पूर्णसंज्ञितं ।
सप्तजिह्वासमोपेतं कालरूपं षडाननं । । ११.६५ । ।

पूर्णमाया समायुक्तं साञ्जनं चारुरूपिणं ।
शक्तिहस्तं महावीर्यं सृष्टिसंहारकारकं । । ११.६६ । ।

नपुंसकगुणान्तस्थं व्याप्तिभूतं विनिर्गतं ।
मध्यपीठस्य पूर्वेण चाग्रशृङ्गे व्यवस्थितं । । ११.६७ । ।

पद्मिनीदलसङ्काशं धूम्रवत्ताम्रवर्चसं ।
महाप्रचण्डदण्डौघैः स्फालनोल्लाललालसैः । । ११.६८ । ।
धूयमानं समन्तात्तु शोषयन्तं चराचरं ।
षडस्रमण्डलान्तस्थं सर्वव्यापिकुलेश्वरं । । ११.६९ । ।

न तेन रहितं किञ्चित्सृष्टिसंहारगोचरे ।
इन्द्रनीलनिभैः स्तम्भैः समन्तान्निचितं पुरं । । ११.७० । ।

प्राकारगोपुराट्टालं ध्वजाएकुशधनुर्धरं ।
पञ्चबाणधरं देवं कामदेव्या समन्वितं । । ११.७१ । ।

द्रावयन्तं जगत्सर्वं श्रुतिरूपं तनूज्झितं ।
चतुर्दशविधस्यापि नायको दण्डधारकः । । ११.७२ । ।

तस्येच्छाप्रेरितं सर्वं कामाद्यं सम्प्रवर्तते ।
तेनेदं चाग्रकोटिस्थं मनोन्मन्योर्ध्वसंस्थितं । । ११.७३ । ।

स्त्रीपुंनपुंसके द्वे तु पीठव्याप्तौ परे विदुः ल् ।
कामेन क्षुभितं तत्त्वं स्थाणुसंज्ञा मनोन्मनं । । ११.७४ । ।

मनोन्मनेन समनं द्वावेतौ तु नपुंसकौ ।
पुटरूपौ समाख्यातौ तस्मान्ऽन्यो व्यापिनः परः । । ११.७५ । ।

सा तु माया परा देवी दुर्भेद्या चाक्षयाव्यया ।
व्यापिनी सर्वतत्त्वानां आत्मादौ त्वपरेऽध्वनि । । ११.७६ । ।

मायैव सा षडध्वस्य षट्त्रिंशानां विशेषतः ।
यया विभज्य चात्मानं स्वरूपे चाध्वनिर्मितं । । ११.७७ । ।

अर्धकोट्या अधःस्थाने नादान्तं सन्निवेशितं ।
उन्मनः समनश्चैव व्यापिनो ध्वनिरेव च । । ११.७८ । ।

पीठचतुष्कं एतत्तु स एवान्योन्यतः क्रमाथ् ।
ध्वनेर्नादः समुत्पन्नः स चानेकविधः स्थितः । । ११.७९ । ।

सूक्ष्मश्चैव सुसूक्ष्मश्च व्यक्ताव्यक्तोऽथ कृत्रिमः ।
आत्मनोऽप्यर्धकोट्यन्ते अधःस्थाने निवेशितः । । ११.८० । ।

तस्मात्स कुरुते सृष्टिं अनेकाकाररूपिणीं ।
सूक्ष्मनादो गुहावासी कालाग्नौ तु सुसूक्ष्मगः । । ११.८१ । ।
स्वस्थानस्थस्तु अव्यक्तः पदान्ते व्यक्त-म्-आश्रितः ।
कृत्रिमश्चैव संयोगात्स चाकाशे व्यवस्थितः । । ११.८२ । ।

तस्मादक्षरसन्तानं वाग्विलासं प्रवर्तते ।
तेन सङ्क्षोभ्य चात्मानं अव्यक्ताव्यक्तरूपिणं । । ११.८३ । ।

निरोधितं तु तेनेदं सूक्ष्मभावस्य सम्भवः ।
तेन नैरोधिकं नाम गोलाकारं व्यवस्थितं । । ११.८४ । ।

आत्मलग्नस्वरूपेण प्रतिमूर्ति द्वितीयकं ।
तेन सङ्क्षोभ्य चात्मानं अर्धचन्द्रविनिर्मितं । । ११.८५ । ।

स्रवन्तं अमृतं दिव्यं सर्वस्य जगतः स्थितं ।
तस्य सम्प्लावनात्यर्थं विसर्गाभिरतस्तु यः । । ११.८६ । ।

तत्रादित्यं समुत्पन्नं वर्णानां प्रभुं ईश्वरं ।
बिन्दुरूपं जगन्नाथं क्रियाकालगुणोत्तरं । । ११.८७ । ।

वर्णसृष्टेस्तु कर्तारं देदीप्यन्तं सुवर्चसं ।
उन्मनादिचतुष्कस्य सञ्जातेदं चतुष्कलं । । ११.८८ । ।

क्षुभितं क्रमयोगेन विशुद्धतनु शाम्भवं ।
स्थितं षोडशभेदेन चतुष्केन पृथक्पृथक् । । ११.८९ । ।

कुलातीतशरीरस्य पिण्डं आद्यं चतुष्कलं ।
द्वादशाङ्गं कुलेशस्य मस्तके संव्यवस्थितं । । ११.९० । ।

चतुष्कलं द्वितीयं तु पीठरूपं जगाम्बिके ।
नादान्तोर्ध्वं तु मायाद्यं विज्ञेयं तु पुटत्रयं । । ११.९१ । ।

ललाटोर्ध्वं कुलेशस्य ज्ञातव्यं तु कुलेश्वरि ।
तदधः पञ्चधा नादं कृत्रिमं मुखमण्डले । । ११.९२ । ।

निरोधं तत्समं ज्ञेयं चन्द्रसूर्यं ततोदरे ।
एवं विशुद्धदेवेन षोडशावयवं तनुं । । ११.९३ । ।

अकुलेशकुलेशानं विभज्य च निवेशितं ।
अत्र योगाभिपन्नानां अवस्थां शृणु भाविनि । । ११.९४ । ।
रोमाञ्चश्चाश्रुपातश्च विषुवं चन्द्रदर्शनं ।
पिपीलिकापरः स्पर्शः सूर्यं रात्रौ च पश्यति । । ११.९५ । ।

उत्पतेद्गगनाम्भोभिः शब्दान्मुञ्चति दारुणान् ।
वागीशत्वं प्रपद्येत किं त्वबद्धप्रलापिनः । । ११.९६ । ।

क्षोभः क्षुधाजयो निद्रा उन्मनत्वं क्षनात्क्षनाथ् ।
सुगन्धश्च सुदीप्तश्च वाचासिद्धिः प्रवर्तते । । ११.९७ । ।

षोडशैते महावस्थाः प्रत्यक्षानुभवेद्यदि ।
तदा तेन तु देहेन खेचरीकुलनन्दनः । । ११.९८ । ।

एतत्ते सरहस्यं तु विशुद्धं कथितं मया ।
इदानीं शृणु कल्याणि यथावस्थं अनाहतं । । ११.९९ । ।

कण्ठाधस्तात्कुलेशस्य उदरोर्ध्वं अवस्थितं ।
क्रोधशर्मादिभिः सिद्धैश्चक्रवर्तिदशान्वितः । । ११.१०० । ।

एकरुद्रः सुशर्मा च ग्रन्थौ नाले व्यवस्थितः ।
क्रोधाजेशादयः सिद्धाश्चक्रवर्तिदले स्थिताः । । ११.१०१ । ।

पूर्वेशगोचरान्तास्ते मध्ये देवः सदाशिवः ।
चारोच्चारविचारैश्च एभिः सार्धं रमेत्तु सः । । ११.१०२ । ।

राज्यक्रीडां अथोर्ध्वे च संहारात्मा जगत्त्रयं ।
मांसादपिशुनत्वेन ह्यभिलाषोऽ धुना पुनः । । ११.१०३ । ।

आप्यायितमनो हृष्टस्तुष्टचित्तस्तु वत्सलः ।
पृथ्वीं भ्रमामि निखिलां व्रजामो गिरिगह्वरं । । ११.१०४ । ।

द्रव्यं आवर्जयां आस विलसामो ददाम्यहं ।
परं वैराग्यं आपन्नो मोक्षान्वेषणतत्परः । । ११.१०५ । ।

गुरुं अन्वेषयिष्यामि येन भूयो न सम्भवः ।
सन्धिनालान्तरस्थोऽसौ पातालं अनुकाङ्क्षति । । ११.१०६ । ।

दिव्यसिद्धो भविष्यामः क्रीडामः कामिनीजनैः ।
मध्यदेशान्तरस्थोऽसौ न किञ्चिदपि चिन्तयेथ् । । ११.१०७ । ।
सुखावस्थो जितक्रोधः सत्त्वावस्थो जितेन्द्रियः ।
तिष्ठतेऽनाहतो देवश्चक्रवर्त्यष्टकैर्वृतः । । ११.१०८ । ।

दशधावस्थिते चक्रे भावाभावसमन्वितः ।
गुरुवक्त्रगतो देवश्चक्रवर्तिसमन्वितः । । ११.१०९ । ।

स्वभावगुणसंयुक्तं चिन्तयन्तोपदेशतः ।
अभ्यसन्तस्य देवेशि अवस्थाः सम्भवन्ति हि । । ११.११० । ।

पुंसो भेदेन जायन्ते सात्त्वराजसतामसाः ।
उत्तमो मध्यमश्चेति कन्यसस्तु तृतीयकः । । ११.१११ । ।

कन्यसे तामसावस्था राजसा सात्त्विका पुनः ।
मध्यमे रजसा युक्तं सत्त्वावस्थादितोत्तमः । । ११.११२ । ।

याश्च ताः शृणु कल्याणि येषु योगस्य साधनं ।
तमो मोहो रजः शोकश्चतुष्कं कन्यसादिकं । । ११.११३ । ।

लोलुपा रागवत्या च कामुका चापलायिनी ।
मध्यमादिष्ववस्थैताः कन्यसे तु द्वितीयका । । ११.११४ । ।

प्रभावती सुतारा च बिम्बा बिम्बखगेश्वरी ।
ज्येष्ठादिमध्यमे द्विस्था त्रिस्था कन्यसगोचरे । । ११.११५ । ।

उदयन्ति क्रमा ह्येताः समाधिविषये स्थिताः ।
अन्तिमैका द्विमध्यस्था त्रिधावस्था तु कन्यसे । । ११.११६ । ।

किं तु ज्येष्ठचतुष्कस्य द्वेऽवस्था न भवन्ति हि ।

इति कुलालिकाम्नाये श्रीकुब्जिकामते षट्प्रकारनिर्णयो नाम एकादशमः पटलः


श्रीकुब्जिका उवाच

कुलेशानां अवस्थानां लक्षणं वद भैरव ।
येन वैऽनाहतं देवं जानीमः परमेश्वर । । १२.१ । ।

श्रीभैरव उवाच

कथयामि वरारोहे प्रत्ययं तु सलक्षणं ।
तां अविज्ञाय भ्रष्टत्वं अवश्यं हितकारिणि । । १२.२ । ।

अक्रमाज्ञा भवेद्येषां रभसाज्ञा प्रकाशिता ।
सामर्थ्यतोऽथ दयया उक्तकालादवान्तरे । । १२.३ । ।

तामसास्ते समाख्यातास्तमोऽवस्थान्तरान्विताः ।
समयानि न मन्यन्ते गुर्वाज्ञालोपकारकाः । । १२.४ । ।

कलिद्वन्द्वप्रिया नित्यं छिद्रान्वेषणतत्पराः ।
गुरोपवादनिरता निरपेक्षा मुहुर्मुहुः । । १२.५ । ।

अपवादं रुषित्वा तु गुरोर्यान्ति पराङ्मुखाः ।
येनासौ निधनं याति तत्करोति तमोऽन्वितः । । १२.६ । ।

मोहाविष्टो न जानाति आत्मसम्भावितः कुधीः ।
अहङ्कारतमोलुब्धः पूर्वजातिं अनुस्मरेथ् । । १२.७ । ।

गुरुं विचारयित्वा तु शोकेनान्तरितात्मनः ।
प्रयाति गृहसायोज्यं तमेनाकुलितेक्षणः । । १२.८ । ।

तेनाधमपदं याति जीवन्नेव मृतस्तु सः ।
बुद्धिमन्तो महाप्राज्ञः स्वागमार्थविशारदः । । १२.९ । ।

ततः क्षमापयेन्नाथं तद्विदाम्नायपूजनं ।
त्रिसप्तकं तु मौनेन सर्वोपस्करणैः सह । । १२.१० । ।

अवस्थाश्चोपशाम्यन्ते तमोऽवस्थाचतुष्टयं ।
लोलुपादौ तु चत्वारि क्रमाद्ध्येवं व्यपोहयेथ् । । १२.११ । ।

मायया भृतचित्तस्तु दासत्वेन तु रञ्जयेथ् ।
उक्तकालार्धमानेन रञ्जितोऽनुग्रहेद्गुरुः । । १२.१२ । ।

तीव्रत्वेऽपि हि सञ्जाते मन्दत्वं सम्प्रवर्तते ।
उपदेशोपचारेण अवस्थालक्षणं भवेथ् । । १२.१३ । ।

राजसोऽयं समाख्यातश्चाहङ्कारगुणान्वितः ।
पण्डितोऽहं सुभक्तोऽहं वक्ताहं बोधको ह्यहं । । १२.१४ । ।

ज्ञानिनोऽहं समर्थोऽहं वयं सर्वगुणेश्वराः ।
करोति गुरुणा सार्धं वादं अज्ञानचेतसः । । १२.१५ । ।

इदं तत्त्वं इदं तत्त्वं आगमोक्तं न जानथ ।
एवंऽसौ रजसालिप्तो यद्यात्मानं न संस्मरेथ् । । १२.१६ । ।

तदावस्थाचतुष्केण लोलुपाद्येन गृह्यते ।
परस्त्रियं हसेन्नित्यं धावयित्वा विलग्यते । । १२.१७ । ।

स शृङ्गारी मदस्रावी नित्यं एवं गजो यथा ।
आत्मानं विक्रयित्वा तु मद्यमांसं समाचरेथ् । । १२.१८ । ।

विवेको यदि चित्तस्थस्तदाराध्यं समाश्रयेथ् ।
अथ चेत्पूर्वविहितां क्रमपूजां समाचरेथ् । । १२.१९ । ।

मध्यमस्य ततः पश्चादवस्था शुभदायिका ।
उत्तमं परया भक्त्या आविष्टस्तु सदा गुरोः । । १२.२० । ।

उक्तकालेन चादेशा- नुग्रहः सम्प्रपादितः ।
त्रिशुद्धान्तरभावेन यस्य भावो न चान्यथा । । १२.२१ । ।

तस्य चैवोत्तरे मार्गे दक्षिणाम्नायपूर्वकं ।
विन्दते निखिलं ज्ञानं निरहङ्कारी दृढव्रतः । । १२.२२ । ।

उदयन्ति शुभावस्थाः प्रभावत्यादितः क्रमाथ् ।
षट्कमार्गेति याः प्रोक्ताः शुभास्ताश्चोदयन्ति वै । । १२.२३ । ।

प्रभाभिरञ्जितात्मा वै पश्यते भुवनत्रयं ।
तारकान्तस्थं आत्मानं देदीप्यन्तं सुवर्चसं । । १२.२४ । ।

चन्द्ररूपं यदा पश्येत्तारामण्डलमध्यतः ।
तारावती तु सा प्रोक्ता अवस्था सिद्धिदायिका । । १२.२५ । ।
अभ्यस्यन्तः स्वरूपेण समाधिस्थः प्रपश्यति ।
आत्मबिम्बपुरस्थं तु बिम्बा सावश्यसिद्धिदा । । १२.२६ । ।

समाधिस्थः स्वबिम्बं तु आसनेन समन्वितं ।
उत्पतन्तं यदा पश्येत्तदा सा बिम्बखेचरी । । १२.२७ । ।

दृष्ट्वैतां तु महावस्थां सिद्धे[र्] भ्रान्तिं न कारयेथ् ।
अवश्यं याति खेचक्रे ह्युक्तकालं कुलेश्वरि । । १२.२८ । ।

एषावस्था समासाद्य दशावस्था[स्] त्यजेत्पुनः ।
गुणानुत्पादयित्वा तु अनाहतपदं व्रजेथ् । । १२.२९ । ।

अथान्यत्परमं वक्ष्य़े मणिपूरं यथा स्थितं ।
तथा त्वं शृणु कल्याणि कल्याणानन्दवर्धनं । । १२.३० । ।

स्थितं द्वादशभेदेन सोमेशादौ शिखान्तिकं ।
नाभ्युदरनितम्बोरु- जङ्घाङ्घ्रीं अनुक्रमाथ् । । १२.३१ । ।

कुलनाथमहेशस्य संस्थितो मणिपूरकः ।
तनुचक्रे समावृत्य यथावस्थं तथा शृणु । । १२.३२ । ।

सोमेशोदरसंस्थं तु द्वादशार्चिसमन्वितं ।
द्वीपक्षेत्रसमायुक्तं तदेवान्यान्विलक्षयेथ् । । १२.३३ । ।

लाङ्गली दक्षिणे कुक्षौ वामे दारुकजं विभुं ।
अर्धनारीश्वरं नाभौ स्वचक्रपरिवारितं । । १२.३४ । ।

दक्षिणेन ह्युमाकान्तं नितम्बे वामतोऽषढिं ।
डिण्डित्रियुगलोरुभ्यां जानुभ्यां मीनमेषकौ । । १२.३५ । ।

लोहिताख्यं शिखीनाथं दक्षादौ वामं आश्रितौ ।
पीठनाथं तथा क्षेत्रं द्वीपं द्वीपाधिपैः सह । । १२.३६ । ।

मणिवद्द्योतयन्तं तु पूरयन्तं दिशो दश ।
सूर्यकान्तिमणिप्रख्यं भास्करेव प्रपश्यते । । १२.३७ । ।

कालसङ्ख्याकरं देवं कलैर्द्वादशभिर्युतं ।
पीठनाथं तु द्वीपस्थं मासमासादितः क्रमाथ् । । १२.३८ । ।
पूरयेद्वर्षसन्तानं युगमन्वन्तराणि च ।
कल्पं चेति महाकल्पं मणिद्वादशभिः खिलं । । १२.३९ । ।

यतः पूरयेद्विश्वात्मा तेनेदं मणिपूरकं ।
शक्तिमार्गप्रपन्नानां भुक्तिमुक्तिफलप्रदं । । १२.४० । ।

एकैकं चिन्तयेच्चक्रं नाथाज्ञा ह्युपदेशतः ।
भवन्ति सर्वसिद्धीनि उत्तमाधममध्यमाः । । १२.४१ । ।

मणिपूरक पादस्थं पीठेश्वरसमन्वितं ।
द्वीपद्वीपाधिपैर्युक्तं मासं एकं यदाभ्यसेथ् । । १२.४२ । ।

पादचारि जगत्सर्वं क्षोभयेदविचारतः ।
पूजाध्यानसमाधिस्थः शक्तिमार्गेण योगविथ् । । १२.४३ । ।

षण्मासेन अवश्यं हि वत्सरान्तं न संशयः ।
अन्यच्छीघ्रगतिस्तस्य आत्मनः सम्प्रवर्तते । । १२.४४ । ।

पादुके पादलेपं वा मनोवेगः प्रजायते ।
एवं जानुनि अभ्यासाद्भूतवेतालनयकः । । १२.४५ । ।

कुरुते विविधाश्चर्यं कल्पस्थायी भवेत्तु सः ।
आत्मवन्तो महोत्साह ऊरुभ्यां उरगेश्वरः । । १२.४६ । ।

किं तु तद्द्विगुणेनैव कालेन प्रथमादितः ।
क्रमेण सिध्यते सर्वं आद्यन्तेन विलक्षयेथ् । । १२.४७ । ।

नितम्बाभ्यासयोगेन गुह्यकानां पतिर्भवेथ् ।
यक्षविद्याधराणं च प्रेतपैशाचराक्षसां । । १२.४८ । ।

क्रीडते नायको भूत्वा पूर्वमार्गविधौ स्थितः ।
कुक्षिमार्गगते चक्रे अभ्यसन्तः श्रियं लभेथ् । । १२.४९ । ।

किन्नरेन्द्र सगन्धर्वो लोकालोकेषु पूज्यते ।
वायुवद्भ्रमते सो हि सर्वत्रैवं अशङ्कितः । । १२.५० । ।

मध्यनाभिगते चक्रे मूलमेढ्रे यदाभ्यसेथ् ।
शान्तिपुष्टिवशाकर्षं सर्वज्ञत्वं पृथुश्रियं । । १२.५१ । ।
सकृत्संस्मरणादेवं अभ्यसन्तः खगेश्वरः ।
ब्रह्माण्डान्तरनिःशेषं भ्रमते कामरूपिणः । । १२.५२ । ।

साङ्ख्यज्ञानविदो भूत्वा विचरेत्स्वपुरं पुनह् ।
अथ स्पष्टतरं देवि शक्तित्यागं शृणुष्व मे । । १२.५३ । ।

यदेतत्परमं बीजं हंसाख्यं हृदि संस्थितं ।
विना तेनोपलब्धिं च न जानाति कदाचन । । १२.५४ । ।

तस्य रूपत्रयं भद्रे नादं संयोगं एव च ।
वियोगं चेति सुश्रोणि लक्षणीयं प्रयत्नतः । । १२.५५ । ।

चैतन्यत्रितयं चात्र आत्मशक्तिशिवात्मकं ।
अविनाभावयोगेन चैतन्यत्रितयस्थितं । । १२.५६ । ।

तेनोपचर्यते भद्रे हंसदेवः परापरः ।
सङ्कोचे तु परा शक्तिर्विकासे भैरवः स्मृतः । । १२.५७ । ।

मध्ये आत्मा सदा तिष्ठेत्पूर्यष्टकसमन्वितः ।
विकासश्चोर्ध्वनाडिस्तु सङ्कोचोऽधः प्रकीर्तितः । । १२.५८ । ।

मध्ये नाभिरिति प्रोक्तस्त्रयं एतत्सुदुर्लभं ।
ऊर्ध्वनाडीनिरोधेन अधोनाडीनिकुञ्चनाथ् । । १२.५९ । ।

मध्ये चित्तं समादाय मथनं तत्र कारयेथ् ।
योनिमध्यगतं लिङ्गं योन्योदरपुटीकृतं । । १२.६० । ।

तन्मध्ये चात्मनो रूपं लक्षयेत पुनः पुनः ।
मथनं ह्येतदाख्यातं अज्ञानमलनाशनं । । १२.६१ । ।

मध्यमन्थानयोगेन ज्ञानाग्निर्ज्वलते किल ।
ज्वलिते तु तदा वह्नौ ज्योतिरेवं प्रवर्धते । । १२.६२ । ।

प्रवर्धनान्महाज्योतेरानन्दं उपजायते ।
मथनाद्भगलिङ्गाभ्यां यथानन्दः प्रजायते । । १२.६३ । ।

मथनाच्छिवशक्त्योस्तु तथानन्दः प्रजायते ।
निश्चयत्वं भवेद्देवि शिवशक्त्योरभेदतः । । १२.६४ । ।
मथनं ह्येतदेवोक्तं अमृतोत्पादकं प्रिये ।
तेनामृतेन चात्मानं प्लाव्यमानं विचिन्तयेथ् । । १२.६५ । ।

एषा सा परमा वृत्तिः परतत्त्वं इदं स्मृतं ।
एतत्तत्परमं ब्रह्म परमानन्दलक्षणं । । १२.६६ । ।

तदानन्दपरानन्दं शक्तित्यागं इति स्मृतं ।
एष ते मणिपूरस्तु सरहस्यं प्रकाशितं । । १२.६७ । ।

गोपितं पूर्वतन्त्रेषु कुब्जि तुभ्यं प्रकाशितं ।
द्वीपमार्गविभागेन पीठनाथक्रमेण तु । । १२.६८ । ।

दुर्लभं सिद्धमार्गस्य किं पुनस्त्वितरेषु च ।
उक्तकालेन सिध्यन्ति अवश्यं नानृतं वचः । । १२.६९ । ।

शृणु देवि यथावस्थं स्वाधिष्ठानं वदामि ते ।
कलाकलितदेहस्य यथास्थानं निगद्यते । । १२.७० । ।

पूर्वं एकार्णवे घोरे तमोभूते जगत्त्रये ।
लिङ्गरूपधरश्चाहं परेच्छावशवर्तिनः । । १२.७१ । ।

षण्मुखः कालरूपोऽहं लिङ्गाकारो व्यवस्थितः ।
षट्कलाभिर्वृतो नित्यं विश्वमध्ये रमाम्यहं । । १२.७२ । ।

षट्कौषिकेन युक्तोऽहं पिण्डोऽहंऽनङ्गवर्चसः ।
ततः प्रवर्तिता सृष्टिर्ममेच्छा तु पुनः प्रिये । । १२.७३ । ।

ब्रह्मविष्ण्वादिभिः सिद्धैः पूजिताराधित[ः] स्तुतः ।
ततोऽहं वरं आपन्नस्तेषु भावानुवर्तिनां । । १२.७४ । ।

षडस्रं चतुरस्रं तु आत्मानं च समर्पितं ।
तेन ते कारणत्वेन सृष्टिकृत्कारणेश्वराः । । १२.७५ । ।

हर्ता कर्ता स्वतन्त्रास्ते मद्रूपगुणचेतसः ।
पुनः स्तोत्रं समारब्धं तैस्तु नाथैः पुनर्ह्यहं । । १२.७६ । ।

यावन्ऽनेकविधानेन तावत्तेषां वरप्रदः ।
पुनः सन्तोषितोऽतीव वरं प्रार्थय पुष्कलं । । १२.७७ । ।
तैरुक्तं देवदेवेश लिङ्गेदं सर्वतोमुखं ।
येन पूज्यो भवामीह तद्वरं दद मे प्रभो । । १२.७८ । ।

अस्य लिङ्गस्य माहात्म्यं व्याप्तिभूतं यथास्थितं ।
तथा कुरु महेशान जानीमो निश्चयं यथा । । १२.७९ । ।

ततस्तेषां महादेवि व्याप्तिमार्ग[ः] प्रदर्शितः ।
व्यक्तलिङ्गं कृतं पश्चात्षडध्वगुणगोचरं । । १२.८० । ।

षडध्वरोपदेशेन तनुस्तेषां प्रदर्शिता ।
द्विरण्डेन कृतं देहं शेषा वक्त्राणि चोर्ध्वतः । । १२.८१ । ।

वामादिक्रमयोगेन सञ्जातानि विदुर्बुधाः ।
छगलण्डोत्तरं वक्त्रं महाकालोर्ध्वतः स्थितः । । १२.८२ । ।

वालिवक्त्रं भवेत्पूर्वं पुरुषं जीवरूपिणं ।
भुजङ्गं दक्षिने क्रूरं नागरूपं महद्भुतं । । १२.८३ । ।

पश्चिमं तु पिनाकाख्यं निवृत्तिस्थं नियामकं ।
अविद्याख्यं पुरा प्रोक्तं क्षणध्वंसीविनाशकं । । १२.८४ । ।

अत्र मध्ये त्रयं श्रेष्ठं अविनाशाक्षयाव्ययं ।
माया शम्भुश्च पुरुषं क्षीय़ते न कदाचन । । १२.८५ । ।

पञ्चवक्त्रतनूद्भूतं षट्कौषकुलसम्भवं ।
तेषां प्रदर्शितं रूपं कलाध्वं कुलनायकं । । १२.८६ । ।

साधितोऽहं त्वया विष्णो निश्चलेनान्तरात्मना ।
भावाधिष्ठानयोगेन तेनेदं दर्शितं मया । । १२.८७ । ।

स्वाधिष्ठानं परं योगं प्रविश्य मम सर्वथा ।
लिङ्गं प्रविश्य मेधावी येन पूज्यो भविष्यसि । । १२.८८ । ।

इति कुलालिकाम्नाये श्रीकुब्जिकामते षट्प्रकाराधिकारार्णवो नाम द्वादशमः पटलः


श्रीभैरव उवाच

एवं देवि मयासौ तु पूर्वं चक्रधरः सुधीः ।
लिङ्गे स्वाधिष्ठितो येन स्वाधिष्ठानं तु तेन वै । । १३.१ । ।

मायाशाम्भवसंस्थानं कलाधिष्ठानशासनं ।
पुरुषाणुसमायुक्तं स्वाधिष्ठानं अतोऽर्थतः । । १३.२ । ।

रागेण रञ्जितात्मा वै नियत्या यो नियामितः ।
अविद्याप्रेरितो गच्छेत्स्वर्गं वा स्वभ्रं एव वा । । १३.३ । ।

त्रितयं शुभं उद्दिष्टं अशुभं तु तथा त्रिकं ।
षट्कौषिकं इदं स्थानं व्याप्तिभूतं मया तव । । १३.४ । ।

शक्ते यं तु समाख्यातं शाम्भवं परतोत्तरे ।
कथयिष्यामि सुश्रोणि इदानीं प्रत्ययं शृणु । । १३.५ । ।

साधनं लोकविख्यातं षट्सिद्धाधिष्ठितं तु तथ् ।
स्वाधिष्ठानं तु लिङ्गस्थं यथा स्थानगतं शृणु । । १३.६ । ।

द्विरण्डेन तनुस्तस्य छगलण्डादितः क्रमाथ् ।
यत्र स्थाने स्थिता माया महाकाल मुखाग्रतः । । १३.७ । ।

वालीश्वरं तु रन्ध्रस्थं भुजङ्ग मणिमस्तके ।
पिनाकिनं तु सीमन्यां संस्थितं तु नियामकं । । १३.८ । ।

अत्र योगं प्रवक्ष्यामि योगिनां शुभदायकं ।
येन पश्यन्ति तं लिङ्गं पूर्वोक्तं गुणशालिनं । । १३.९ । ।

द्वीपद्वीपेश्वरं नाथं द्वादशार्चिसमन्वितं ।
मासमासावधीऽकैकं अभ्यसन्तो गुणान्लभेथ् । । १३.१० । ।

युञ्जन्तः श्रियं आप्नोति षड्रसास्वादनं क्रमाथ् ।
कटुतिक्तकषायाम्लं क्षारश्च मधुरावधि । । १३.११ । ।

नाथं द्वीपस्तु द्वीपार्चि द्वीपादिक्रमसंयुतं ।
ध्यानस्थानसमायोगात्तन्नास्ति यन्न साधयेथ् । । १३.१२ । ।

षड्वक्त्रं चिन्त्यं आत्मानं देवीं च गुणलालसां ।
मुखेन मुखं आलग्नं ह्यात्मलिङ्गोपरिस्थितं । । १३.१३ । ।

भावानन्दरसालाढ्यं हेलादोलैर्व्यवस्थितं ।
लिङ्गरन्ध्रं तु रन्ध्रस्थं तेन मार्गेण चाभ्यसेथ् । । १३.१४ । ।

विद्युज्ज्योतिलताकारं वक्त्रमण्डलनिःसृतं ।
तस्य वै ह्यात्मनः पश्चात्नित्यं एव समभ्यसेथ् । । १३.१५ । ।

षण्मासेन वरारोहे स्फोटयेत्पर्वतानपि ।
द्वितीयेऽनङ्गरूपोऽसौ क्षोभयेत वराङ्गनां । । १३.१६ । ।

तत्स्थाने तिर्यगालोकात्किं तु रक्तारुणेन तु ।
मर्त्यजान्खेचरान्यक्षान्रक्षःपैशाचगोचरान् । । १३.१७ । ।

क्षोभयेद्धाटकीशस्य पुरं साधकपुङ्गवः ।
तत्रैव ब्रह्मयोगेन चक्रावर्तेन चक्षुषा । । १३.१८ । ।

कर्षयेन्निखिलान्सर्वान्फलपुष्पादितः क्रमाथ् ।
मर्त्यलोकादितः कृत्वा पातालस्वर्गसंस्थितान् । । १३.१९ । ।

तृतीयेन तु योगेन चतुर्थं स्तम्भने क्षमः ।
किं तु पीतेन तत्त्वाक्षश्चक्षुषा परिपूर्णधीः । । १३.२० । ।

स्तम्भयेद्गगनाम्भोभिर्विमानपवनौ महान् ।
नावागति गजानां च वाजिचौरारिपन्नगान् । । १३.२१ । ।

पञ्चमेन तु योगेन तत्रस्थः कृष्णमण्डले ।
मारयेद्यस्य क्रुद्धोऽसौ यः क्रुद्धो म्रियते तु सः । । १३.२२ । ।

स देवासुरत्रैलोक्यं द्विपदं वा चतुष्पदं ।
चतुर्दशविधस्यापि क्रुद्धः संहरणे क्षमः । । १३.२३ । ।

षष्ठं ऊर्ध्वपरं स्थानं ब्रह्मद्वारेति कीर्तितं ।
अप्रसिद्धेन मार्गेण हेलादोलैकतत्परः । । १३.२४ । ।

विद्युल्लताछटाटोपं वारं वारं मुहुर्मुहुः ।
अभ्यसेद्याव योगेशि तावदानन्दतां व्रजेथ् । । १३.२५ । ।
त्यजेत्स्वाभाविकं सर्वं संसारपथगोचरं ।
निःसंज्ञो मृतवद्योगी काष्ठवदुपलक्ष्यते । । १३.२६ । ।

सात्त्विकं राजसं भावं तामसं तु यदा भवेथ् ।
त्रयावस्थगतो योगी पूर्वलिङ्गसमो भवेथ् । । १३.२७ । ।

पूज्यते स सुरैः सर्वैः खेचरस्थैर्न चापरैः ।
षट्प्रकारं इदं लिङ्गं यो जानाति स तत्त्वविथ् । । १३.२८ । ।

एतत्ते कथितं सर्वं सरहस्यं सुगोपितं ।
न देयं दुष्टबुद्धीनां ज्ञानचौरेषु शासनं । । १३.२९ । ।

यावन्न सर्वभावेन कायक्लेशसहा नराः ।
ततश्चेदं प्रदातव्यं अन्यायान्नरकं व्रजेथ् । । १३.३० । ।

एतत्कुलेश्वरं लिङ्गं प्रलयोत्पत्तिकारकं ।
यो जानाति वरारोहे स सिद्धो ह्यत्र शासने । । १३.३१ । ।

तस्माल्लिङ्गं न निन्देत यावत्तावत्तनौ स्थितं ।
सर्वेषां विद्यते ह्येतत्कल्पना ह्यत्र कारणं । । १३.३२ । ।

द्विपदं मर्त्यजं लिङ्गं रौप्यहेममणिर्मयं ।
मन्त्रमूर्तिकुलेशानं आवाह्याप्यत्र रोपितं । । १३.३३ । ।

स्वाधिष्ठानं तु तत्तस्य पूजनात्तत्पदं लभेथ् ।
प्रथमं न हि सर्वस्य सर्वज्ञत्वं प्रपद्यते । । १३.३४ । ।

तस्मान्न निन्दयेल्लिङ्गं तन्मूर्तिगुणशालिनं ।
सर्वज्ञत्वेऽपि सम्प्राप्ते समयान्सम्प्रपालयेथ् । । १३.३५ । ।

तमोरजःप्रविष्टानां अहङ्कारवशानुगां ।
न तेषां साधनं सिद्धिर्जायते पतनं पुनः । । १३.३६ । ।

श्रीकुलेश्वरदेवस्य लिङ्गाधारं शृणु प्रिये ।
वृत्ताकारं सरन्ध्रं तु चतुरस्रं प्रकीर्तितं । । १३.३७ । ।

त्रिरन्ध्रवलयाकारं शृङ्गाटाकृतिवर्चसं ।
पिण्डिकोपरिलिङ्गस्य जगद्योनिर्महाम्बिके । । १३.३८ । ।
चतुष्कलसमोपेतं चतुष्पीठसमन्वितं ।
चतुःसिद्धसमायुक्तं ज्ञात्वा सिद्धिफलप्रदं । । १३.३९ । ।

खड्गीशः प्रथमे वृत्ते जलपट्टे निवेशितः ।
बकश्चाङ्कुररूपेण रन्ध्रसन्धौ व्यवस्थितः । । १३.४० । ।

श्वेतः प्रणालके द्विस्थः प्रवाहे संव्यवस्थितः ।
भृगुर्मेखलरूपेण समन्तात्परिमण्डलं । । १३.४१ । ।

शृङ्गाटके तु पीठानि खातस्याग्रे विलक्षयेथ् ।
ओ-जा-पू-का-मतत्वं तु मध्यदक्षिणवामतः । । १३.४२ । ।

अग्रदेशे तु कोटिस्थं शृङ्गाटं चतुरस्रकं ।
कृ-त्रे-द्वा-क-क्रमादेवं आधारं चतुरङ्गुलं । । १३.४३ । ।

तत्राभ्यासं प्रकुर्वीत अभिषेकगुणान्वितः ।
आज्ञालब्धपरो भक्तश्चतुर्मासात्फलं लभेथ् । । १३.४४ । ।

जलपट्टगतं देवं आदिपीठसमन्वितं ।
शुक्लवर्णं यदा ध्यायेच्छान्तिपुष्टिपरं व्रजेथ् । । १३.४५ । ।

तं त्यज्य बकनाथाख्यं दक्षपीठगतं यदा ।
तदा पुष्टिश्रियारोग्यं पूर्वाभ्यासफलं लभेथ् । । १३.४६ । ।

श्वेतं प्रणालरन्ध्रस्थं वामपीठगतं यदा ।
अभ्यसेत्क्रमयोगेन वश्याकर्षणमारणं । । १३.४७ । ।

रोगव्याधिजयः पुष्टिः क्रमात्खेचरतां व्रजेथ् ।
भृगु[ं] कामसमायोगादभ्यसन्तो गुणान्लभेथ् । । १३.४८ । ।

शान्तिपुष्टिवशाकर्षं पुरक्षोभं पृथुश्रियं ।
वलीपलितनाशस्तु वागीशत्वं प्रवर्तते । । १३.४९ । ।

सञ्जीवनं मृतानां च द्रुमाकृष्टि जलप्लवं ।
वातमेघनदीनां च स्तम्भकृद्वाचहारिणः । । १३.५० । ।

वाचासिद्धिः प्रभुत्वं च स्तोभकृत्पर्वतादिषु ।
स्तम्भयेत्सर्वसैन्यानि आधारगतचेतसः । । १३.५१ । ।
आधारं क्रमं इत्युक्तं तद्विना साधनं न हि ।
न मोक्षो न च भुक्तिश्च यावाम्नायो न वेदितः । । १३.५२ । ।

एतदाधारं इत्युक्तं आज्ञाभेदं अतः शृणु ।
येन विज्ञातमात्रेण सर्वज्ञत्वं प्रपद्यते । । १३.५३ । ।

क्रमं शाम्भवं इत्याहुर्यस्मात्सम्भवतेऽखिलं ।
वाचासिद्धेस्तु आधारं वाचयाज्ञा प्रवर्तते । । १३.५४ । ।

शाम्भवाभ्यासमात्रं तु यत्क्रमात्सम्प्रवर्तते ।
अथाणुरुद्रशक्तिस्था भावभूतेषु शाम्भवा । । १३.५५ । ।

अधिकारात्मिका ह्येषा विशुद्धिगुणदायिका ।
न मोक्षो विद्यते तेषां प्रसादाज्ञा विवर्जिता । । १३.५६ । ।

प्रसादं क्रमं इत्युक्तं क्रमाज्ज्ञानं तु शाम्भवं ।
शाम्भवेन समस्तार्थान्वेत्ति पश्यति चाग्रतः । । १३.५७ । ।

यदा दृष्टः समस्तार्थो गुरुतः शास्त्रतः स्वतः ।
तदासौ क्रमिकः प्रोक्तः क्रमतुल्योऽथवा हि सः । । १३.५८ । ।

आज्ञाभ्यासे न मुक्तिस्तु यावाम्नयो न वेदितः ।
सबाह्याभ्यन्तरं भद्रे अतोऽर्थं तोषयेद्गुरुं । । १३.५९ । ।

सर्वाङ्गभक्तियुक्तस्तु त्रिशुद्धेनान्तरात्मना ।
भक्त्या चाराधयेन्नाथं तस्य सर्वं प्रपद्यते । । १३.६० । ।

या भक्तिः सा भवेच्छक्तिः शक्त्या सम्भवते क्रमः ।
क्रमात्सम्भवते वाचा वाचयाज्ञा प्रवर्तते । । १३.६१ । ।

यादृशेन तु भावेन गुरुदेवं उपासयेथ् ।
तादृग्भावेन तस्याज्ञा किञ्चिच्चांशेन सङ्क्रमेथ् । । १३.६२ । ।

उपरोधप्रसङ्गेन उक्तकालादवान्तरे ।
किञ्चिच्चाज्ञा भवेत्तस्य भूतोर्मिगुणसङ्कुला । । १३.६३ । ।

परिपक्वफलं यद्वत्सुस्वादगुणसंयुतं ।
तद्वच्छिष्योऽपि कालेन समस्तार्थविदो भवेथ् । । १३.६४ । ।
रसोज्झितं न सुस्वादं यथाम्लफलभक्षणं ।
तथा ह्यपक्वशिष्याणां वृथाज्ञानपरिश्रमः । । १३.६५ । ।

सामर्थ्येनापि दत्ताज्ञा भूतांशेन समाविशेथ् ।
ऊर्मिग्रस्तो ह्यहङ्कारी अहङ्काराद्विनश्यति । । १३.६६ । ।

एकपक्षः समाख्यातः साम्प्रतं वैऽधिकं शृणु ।
स्थूलमार्गेण सूक्ष्मत्वं क्रमादेवं प्रजायते । । १३.६७ । ।

भेदो रन्ध्रं तथा छिद्रं एका संज्ञा यशस्विनि ।
सबीजाश्चेति निर्बीजाः स्थितिभेदो द्विधा स्थितः । । १३.६८ । ।

कूर्मानन्दं च पैनाकं महाकालं तृतीयकं ।
क्रोधीशं अर्घिणा युक्तं विद्या चैव द्वितीयकं । । १३.६९ । ।

झण्टीशेन समायुक्तं कुलवागेश्वरी स्मृता ।
प्रणवं कौलिकं गृह्य लकुलीशादनन्तरं । । १३.७० । ।

श्रीकण्ठं चोष्मणा युक्तं लकुलीशादिमं पुनः ।
उपदेशसमायुक्तं सर्वदं भृगु-र्-आवधिं । । १३.७१ । ।

वज्ररन्ध्रान्तरे योज्य कोदण्डान्तं विचिन्तयेथ् ।
श्लोकद्वादशकोपेतं चक्रद्वादशकान्वितं । । १३.७२ । ।

गुरुवक्त्रसमोपेतं ध्यात्वा वाचां प्रसाधयेथ् ।
स्मरणमात्रयोगेन कालक्षेपो न चात्र वै । । १३.७३ । ।

अथ चेदभ्यसेदेवं वज्रकोदण्डकान्तरं ।
सर्वज्ञत्वं भवेत्तस्य क्रियाख्यं याव सुन्दरि । । १३.७४ । ।

क्रियातोऽ घं प्रवर्तेत वाचाज्ञामोघशालिनी ।
वागीशत्वं पुनः पश्चाद्वागीशः सृजतेऽखिलं । । १३.७५ । ।

ज्वलन्तं स्वेन तेजेन लकुली वाममार्गतः ।
स ज्येष्ठः कुलसन्ताने रौद्रशक्तिभिरावृतः । । १३.७६ । ।

त्रयस्त्रिंशतिमे तत्त्वे ह्यधिकारो लयः परे ।
संवर्तः केवलो नाथः सबीजो बीजवर्जितः । । १३.७७ । ।
अस्य रन्ध्रान्तरस्थानं आज्ञाध्यानं तु शाम्भवं ।
न मन्त्रोच्चारणं ज्ञानं न मुद्रा ध्यान चिन्तनं । । १३.७८ । ।

नायामो न निरोधश्च ग्रन्थिभेदो न धारणा ।
सर्वोपायविहीनोऽसौ किं तु स्थानविकल्पना । । १३.७९ । ।

अधोर्ध्वरोमसंस्थाने तत्र भावं विनिक्षिपेथ् ।
ऊर्ध्वग्रन्थिरधःकन्दो मध्ये किञ्चिन्न विद्यते । । १३.८० । ।

तत्स्थानं शाम्भवं विद्धि शम्भुरन्ध्रोपलक्षितं ।
न किञ्चिच्चिन्तयेत्तत्र ईषदारोपणं चितौ । । १३.८१ । ।

एवं संस्मरणादेव ज्ञानानन्दं प्रवर्तते ।
वाचामात्रेण चान्येषां कुरुते प्रत्ययान्बहून् । । १३.८२ । ।

सकृत्संस्मरणादेवं अभ्यसन्तः श्रियं लभेथ् ।
विज्ञानानि च सर्वाणि षण्मासाभ्यासयोगतः । । १३.८३ । ।

चतुस्त्रिंशपदेशानं विन्दते वत्सराष्टकान् ।
तत्स्थानं सहजं तस्य संयोगं यदि तस्य वै । । १३.८४ । ।

भुजङ्गानुग्रहीशेन मन्त्रयुक्तेन तत्प्रिये ।
उच्चरन्तो हनेत्सृष्टिं लकुलीशान्तकारकः । । १३.८५ । ।

भोगश्चास्य हि नादान्ते लयः स्याद्व्यापिनीपदे ।
आज्ञाभेदद्वयं नाथे ह्येतत्तत्परमार्थतः । । १३.८६ । ।

शक्तिमार्गगतं विद्धि शेषोऽन्यच्चोत्तरे पुनः ।
एतत्षट्कं परं शाक्तं दक्षिणं परिकीर्तितं । । १३.८७ । ।

योगिषट्कसमायुक्तं सद्योमेलकदायकं ।
त्वया मह्यं मया तुभ्यं त्वयाहं त्वं मया पुनः । । १३.८८ । ।

कथितं तव सुश्रोणि त्वत्सङ्गान्येषु मोक्षदं ।
पशु पक्षि तथा वृक्षास्तृणगुल्मसरीसृपं । । १३.८९ । ।

व्याख्यानं यत्र मार्गस्य मु च्यन्ते तान्यवश्यतः ।
येन वर्षसहस्राणि भक्त्या आराधितो ह्यहं । । १३.९० । ।
जन्मन्यपश्चिमे पुंसां जायतेऽदं सुदुर्लभं ।
चेतश्चित्तविहीनानां प्रसङ्गान्मुक्तिदं प्रिये । । १३.९१ । ।

किं पुनश्चित्तयुक्तानां सङ्गादेव न मुक्तिदं ।
अतोऽर्थं सह संयोगं खानपानं सहासनं । । १३.९२ । ।

वस्त्रमाल्योपहाराणि स्वजुष्टान्यं न दापयेथ् ।
असत्सङ्गं न कर्तव्यं सत्सङ्गं न विवर्जयेथ् । । १३.९३ । ।

शुद्धाशयसमाचारं ज्ञानाधारं प्रपूजयेथ् ।
विशुद्धं काञ्चनं यद्वन्नागसङ्गाद्विनश्यति । । १३.९४ । ।

एवं विशुद्धतत्त्वोऽपि असत्सङ्गाद्विनश्यति ।
योगिनीकुलगर्भस्थः कुलवीराङ्गसम्भवः । । १३.९५ । ।

सिद्धोऽसौ सिद्धसन्ताने षट्पादार्थं स विन्दति ।
एतत्ते कथितं सर्वं दक्षिणेदं सलक्षणं । । १३.९६ । ।

योगषट्कं कुलाधारं पृच्छस्वान्यद्यदिच्छसि । । १३.९७ । ।

इति कुलालिकाम्नाये श्रीकुब्जिकामते दक्षिणषट्कपरिज्ञानो नाम त्रयोदशमः पटलः


श्रीकुब्जिका उवाच

दया च परमा मह्यं मण्डलीशकुलाकुलं ।
षट्पदार्थो मया ज्ञातः षड्योगिन्यो वद प्रभो । । १४.१ । ।

श्रीभैरव उवाच

उवाच भगवान्नाथः कुब्जीशानि वदाम्यहं ।
सद्यःप्रत्ययकर्तारं सद्योमेलकदायकं । । १४.२ । ।

कम्-ब-मा-लम्-वि-का देव्यः क्रमात्षट्कं कुलाकुले ।
मोक्षभुक्तिप्रदातारः षडेताः षट्कनायिकाः । । १४.३ । ।

ड-र-ल-क-स-ह-जोत्थाः संस्थिताः कुलगोचरे ।
कुलषट्कनिवासिन्यो निग्रहानुग्रहेऽपि वा । । १४.४ । ।

एकैकानुग्रहन्त्येता निग्रहन्त्यनुलोमकृथ् ।
षट्पत्त्रे पूजिताः सन्त्यः षट्पदार्थफलप्रदाः । । १४.५ । ।

श्रीकुब्जिका उवाच

पुरतः पृच्छयिष्यामि प्रारब्धं कथयस्व मे ।
चतुष्कपञ्चकानां च चतुर्णां च फलोदयं । । १४.६ । ।

श्रीभैरव उवाच

षट्पदार्थोपदेशेन समस्तं कथितं मया ।
तथापि कथयिष्यामि अधिकारो यथा स्थितः । । १४.७ । ।

ओ-जा-पू-कामुको भेदो दृष्ट्वाक्षरविनिश्चितं ।
मुद्राचतुष्टयोपेतं सङ्केतात्कथितं प्रिये । । १४.८ । ।

चतुर्युगं चतुष्पीठं योन्यश्चत्वारि याः प्रिये ।
सबाह्याभ्यन्तरे सर्वं कथयामि यथार्थतः । । १४.९ । ।

नाभ्यधोदरहृत्कण्ठे कृ-त्रे-द्वा-कं अनुक्रमाथ् ।
ओ-जा-पू-कामरूपिण्यश्चत्वार्येवं व्यवस्थिताः । । १४.१० । ।

सबाह्याभ्यन्तरेणैव चतुष्कं परिकीर्तितं ।
गुरूपदेशसंयुक्तं पञ्चकं कथयामि ते । । १४.११ । ।

देव्यो दूत्यस्तथा मात्र्यो योगिन्यः खेचरीगणः ।
पञ्चधा ह्यधिकारोऽयं कुर्वन्त्येताः कुलाकुले । । १४.१२ । ।

देवीचतुष्टयाधारं स्वाधिष्ठानं षडाश्रयं ।
रन्ध्रकामशिखिर्गोलं ध्वजकन्दान्तकावधिं । । १४.१३ । ।

सप्तमं तत्त्वं उद्दिष्टं ब्रह्मणः पदं उत्तमं ।
अत्र सृष्टिः समुत्पन्ना षट्कौषकुलसम्भवा । । १४.१४ । ।

देव्याधिष्ठितं ईसानं स्वाधिष्ठानगुणाश्रयं ।
रन्ध्रद्वादशकोपेतं कामद्वादशकान्वितं । । १४.१५ । ।

वह्नीश्वरे तथाप्येवं द्वादशं ध्वजकन्दयोः ।
पिण्डद्वादशकोपेतं चतुराशीत्यनेकशः । । १४.१६ । ।

शाम्भवाधिष्ठिते योगे स्वाधिष्ठाने निरामये ।
चतुराशीतिगुणानां विज्ञानपदवीं लभेथ् । । १४.१७ । ।

अत्र मध्ये महेशानि सर्वकारणकारणं ।
यथा निष्पद्यते पिण्डं तत्तथा चावधारयेथ् । । १४.१८ । ।

आधारशक्तिं आदौ तु ब्रह्मशक्तिं अतोर्ध्वतः ।
एतद्ब्रह्माण्डं इत्युक्तं सप्तलोकसमन्वितं । । १४.१९ । ।

आधारं चैव भूर्लोकं भुवर्लोकं तु कामगं ।
स्वर्लोकं शिखिं इत्युक्तं महर्लोकं तु गोलकं । । १४.२० । ।

ध्वजस्थं जनं इत्युक्तं तपोलोकं तु कन्दगं ।
सत्यलोकं तु तत्त्वस्थं ब्रह्मग्रन्थ्यावधिस्थितं । । १४.२१ । ।

सत्यलोकादधः सृष्टिः कलाद्या पिण्डसम्भवा ।
आज्ञातः सम्प्रवर्तन्ते त्रयान्तं याव मानसी । । १४.२२ । ।

चतुर्णां तु पुनः सृष्टिरधस्ताद्योनिसम्भवा ।
मध्यमन्थानयोगेन शुभाशुभनिबन्धनं । । १४.२३ । ।

भुवर्लोकादधोलोके विविधा सृष्टिः प्रवर्तते ।
जरायुजा च सा ज्ञेया बहुदुःखसमाकुला । । १४.२४ । ।

कन्दात्सञ्जायते सृष्टिः कन्दं वै सप्तलौकिकं ।
रन्ध्रादौ ग्रन्थिपर्यन्तं विज्ञेयं सप्तधातुकं । । १४.२५ । ।

कन्दात्सञ्जायतेऽङ्कुरः अङ्कुरान्मूलसम्भवः ।
मूलात्पर्णलताशाखा[स्] ततः पुष्पफलादिकं । । १४.२६ । ।
फलं शरीरं इत्युक्तं धातुवृक्षसमुद्भवं ।
पिण्डं कन्दोद्भवं तच्च शुभाशुभजलान्तगं । । १४.२७ । ।

त्वग्रक्तमांस रन्ध्रादौ अशुभं कामवह्निगं ।
शुभं मेदोऽस्थिमज्जान्तं गोलकन्दध्वजान्वितं । । १४.२८ । ।

अशुभं तु रजः साक्षात्त्रिशक्तिगुण मातृजं ।
पैतृकं शुभं उद्दिष्टं रेतो ह्यात्मादि-म्-ईश्वरः । । १४.२९ । ।

पिण्डं सर्वत्र सामान्यं उभयोरपि कुब्जिके ।
सङ्गमे शिवशक्तीनां पिण्डबन्धो भवेत्तदा । । १४.३० । ।

यत्किञ्चिच्चिन्तयेन्माता यत्किञ्चिच्चिन्तयेत्पिता ।
उभौ भावसमायोगात्तद्भावः सहजो भवेथ् । । १४.३१ । ।

विश्वरूपो मणिर्यद्वदुपाधिविषयो यथा ।
तत्कालोपाधिचिन्तायां स रागः सहजो भवेथ् । । १४.३२ । ।

एतदन्तरं आसाद्य पिण्डः कारणरूपधृक् ।
बन्धते पञ्चधात्मानं पञ्चपञ्चादिभिः क्रमाथ् । । १४.३३ । ।

पुरुषं प्रकृतिश्चैव गुणोऽहङ्कार धीर्मनः ।
षण्मुखस्तु परो ह्यात्मा चतुष्कपरिवेष्टितः । । १४.३४ । ।

अधोर्ध्वं नीयते जीवः कोषकीट-म्-इव स्थितः ।
प्रकाशयति चात्मानं बध्नाति च पुनः पुनः । । १४.३५ । ।

नियामिकाचतुष्केण सन्नद्धो भ्रमते ह्यणुः ।
एकैकं तं चतुर्धा तु देवीचक्रं प्रकीर्तितं । । १४.३६ । ।

नियामिका भवेत्पृथ्वी प्रतिष्ठा शब्दपूर्विका ।
श्रोत्रपूर्णा भवेद्विद्या शान्तिर्वागेश्वरी स्मृता । । १४.३७ । ।

क्षोणी तु प्रथमा ज्ञेया शब्ददेवी द्वितीयका ।
तृतीया श्रोत्रिका नाम वाचादेवी चतुर्थिका । । १४.३८ । ।

देवीचतुष्टयं ह्येतदेकैकं तु चतुष्टयं ।
एतच्चतुष्टयं देवि संसारपथवर्त्मनि । । १४.३९ । ।
चतुष्टयं तु भूतानां तन्मात्राणां चतुष्टयं ।
बुद्धीन्द्रियचतुष्कं तु चतुष्कं कर्मयाजिनां । । १४.४० । ।

पञ्चकं तत्तु विज्ञेयं पुंसः षड्गुणसंयुतं ।
एवं निष्पद्यते पिण्डं पञ्चधा पञ्चविंशकं । । १४.४१ । ।

षट्कौशिकं तु मार्गोऽयं आदिदेवीचतुष्टयं ।
कथितं सरहस्यं तु षट्सिद्धपुरनिश्चयं । । १४.४२ । ।

उवाच कुब्जिका नाथं षट्सिद्धपुरनिश्चयं ।
न मे ज्ञातं कुलेशान संस्फुटं कथयस्व मे । । १४.४३ । ।

उवाच भगवान्नाथः कुब्जीशानि मया तव ।
कथिता सप्तधा सृष्टिः सिद्धान्सप्त वदाम्यहं । । १४.४४ । ।

नवतत्त्वेश्वरो नाथो नवचक्रेश्वरेश्वरः ।
ब्रह्माण्डशिवसिद्धोऽ सौ हर्ता कर्तावतारकः । । १४.४५ । ।

स नाथः सर्वसिद्धानां पतित्वे संव्यवस्थितः ।
कन्दभूतोऽङ्कुरोऽसौ वै षट्पुराधिपतिः प्रभुः । । १४.४६ । ।

पुम्पुरं प्रथमं कन्दं प्राकृतं चापरं पुरं ।
गुणानन्दं तु गोलाख्यं गर्वं जालन्धरात्मकं । । १४.४७ । ।

धीपुरं कामरूपाख्यं आधारं तु मनःपुरं ।
पुम्पुरे श्रीमत्खड्गीशः खगीशः प्राकृते पुरे । । १४.४८ । ।

विश्वनाथो गुणानन्दे झण्टीशोऽहम्महापुरे ।
धीपुरेऽनुग्रहीशानो मित्रेशानो मनःपुरे । । १४.४९ । ।

षट्पुराधिपतिर्नाथाः कौलीशाः कुलनायकाः ।
कुलसिद्धाः समाख्याताः षट्क्रमौघप्रकाशकाः । । १४.५० । ।

भविष्यन्ति पुरा कल्पे मर्त्यलोकं उपागताः ।
प्रभुरानन्द योगाख्यं आवली पादं अन्तिमं । । १४.५१ । ।

भविष्यन्त्यपरे कल्पे कुलसिद्धाः कुलोत्थिताः ।
कुलसिद्धाधिपो देव आज्ञामोघकुलेश्वरः । । १४.५२ । ।
षट्कुलानां त्वसौ नाथस्तस्मात्सर्वं कुलान्वयं ।
नवानां चक्रवर्तीनां चक्रवर्तिस्त्वसौ प्रभुः । । १४.५३ । ।

तस्मात्प्रवर्तते सृष्टिर्ब्रह्माद्या कुलसम्भवा ।
षट्पुराणां तं आधारं कर्तारं कुलपद्धतौ । । १४.५४ । ।

शास्तारं ब्रह्मजन्तूनां देवीनां तु चतुष्टयं ।
अपरे ब्रह्मणः सृष्टौ यत्किञ्चिद्वाङ्मयाखिलं । । १४.५५ । ।

तत्सर्वं देविभिर्व्याप्तं त्वयाधारान्तकावधिं ।
चतुर्मुखेश्वरस्यान्ते कन्दः सप्तविधश्च यः । । १४.५६ । ।

तत्र जातं जगत्सर्वं सदेवासुरमानुषं ।
देवीचतुष्टयानां तु मार्गोऽयं कथितोऽखिलं । । १४.५७ । ।

अधुना कथयिष्यामि दूतीनां लक्षणं यथा ।
ब्रह्माधारं इति प्रोक्तं सप्ताधारसमन्वितं । । १४.५८ । ।

प्रथमैषा परा सृष्टिः शाम्भवी या कुलाध्वरे ।
नवतत्त्वेश्वरेशस्य नाभ्यधस्तात्तु मण्डलं । । १४.५९ । ।

शतकोटिसुविस्तीर्णं देवीकुलसमाश्रयं ।
त्रिकोणं चैव षट्कोणं वृक्षवल्लीक्रमस्तथा । । १४.६० । ।

द्विविधाज्ञाधिकारोऽयं निग्रहानुग्रहं प्रति । । १४.६१ । ।

श्रीभैरव उवाच

ब्रह्मणोऽण्डकटाहस्य समन्तात्परिमण्डलं ।
सहस्रकोटिविस्तीर्णं अप्सु विष्णोः पुरं महथ् । । १४.६२ । ।

अर्धेन्दुशिखराकारं पोतनावाकुलं तु तथ् ।
अनेकतत्त्वसङ्कीर्णं नवनालोपशोभितं । । १४.६३ । ।

पद्मपत्त्रं अनौपम्यं षोडशारं सकर्णिकं ।
यत्र दूत्यः स्वभाविन्यः क्रीडन्ते विविधैः सुखैः । । १४.६४ । ।

यत्रासौ रमते नित्यं उत्तमः पुरुषोत्तमः ।
तत्स्थानं परमं प्रोक्तं यत्र दूत्योऽमृतोद्भवाः । । १४.६५ । ।

तास्तु क्षुब्धा यदा कालेऽमृतं मुञ्चन्ति भाविताः ।
तदा चतुर्विधा सृष्टिर्ब्रह्मचक्रे तु नान्यथा । । १४.६६ । ।

षोडशारे महापद्मे दिव्यामृतपरिप्लुते ।
तत्रस्थो दूतिभिः सार्धं पोषयेद्ब्रह्मणः पदं । । १४.६७ । ।

ब्रह्मकन्दान्तबीजानां ऊर्ध्वरन्ध्राङ्कुरत्रयं ।
तत्र ग्रन्थीश्वरोऽनन्तः स्वशक्तिकिरणोज्ज्वलः । । १४.६८ । ।

स्थितो महाम्भसि मध्ये नवदूतीसमन्वितः ।
सृष्टिकृद्भगवानन्तः पदार्थपद-म्-ईश्वरः । । १४.६९ । ।

कपालं चण्डलोकेशं योगेशं तु मनोन्मनं ।
हाटकेश्वर क्रव्यादं मुद्रेशं दिङ्महेश्वरं । । १४.७० । ।

श्री अनन्तीश नाथान्तो नवैते भास्वरेश्वराः ।
विभज्य नवधात्मानं पदसृष्टिं विनिर्मिते । । १४.७१ । ।

एकैका नवधात्मानं पुनश्चैवं सृजन्ति ते ।
नवनव पदानि स्युर्दूतीनां कारणात्मकं । । १४.७२ । ।

पदभुक्तिगतानां तु दूतीनां च पृथक्पृथक् ।
नामानि कीर्तयिष्यामि या यस्याङ्गसमुद्भवाः । । १४.७३ । ।

श्री अनन्ताङ्गसम्भूताः सर्वे यास्तु नवैव हि ।
अधिकारपदं तेषां तत्प्रवक्ष्याम्यशेषतः । । १४.७४ । ।

बिन्दुका बिन्दुगर्भा च नादिनी नादगर्भजा ।
शक्ती च गर्भिणी चान्या परा गर्भार्थचारिणी । । १४.७५ । ।

निराचारपदावस्था मध्यस्थानन्तवर्चसः ।
अधिकारं प्रकुर्वन्ति कुलाकुलसमाश्रिताः । । १४.७६ । ।

चण्डा चण्डमुखी चैव चण्डवेगा मनोजवा ।
चण्डाक्षी चण्डनिर्घोषा भृकुटी चण्डनायिका । । १४.७७ । ।
चण्डीशनायकोपेता ह्यकुलेशपदे स्थिताः ।
तस्मात्पदात्परा सृष्टिर्मनोन्मन्यादिसम्भवा । । १४.७८ । ।

मनोजवा मनोऽध्यक्षा मानसी मननायिका ।
मनोहारी मनोह्लादी मनःप्रीतिर्मनेश्वरी । । १४.७९ । ।

मनोन्मन्या समायुक्ता उन्मनःपदं आश्रिताः ।
नवैव परमा दूत्यो मनश्चोन्मनकारिकाः । । १४.८० । ।

ऐन्द्री हुताशनी याम्या नैरृती वारुणी तथा ।
वायवी चैव कौबेरी ऐशानी कौलिकेश्वरी । । १४.८१ । ।

समनौघपदान्तस्था[ः] पराकाशे व्यवस्थिताः ।
जनयन्त्यपरां सृष्टिं योगाख्या व्यापिनीपदे । । १४.८२ । ।

हिरण्या च सुवर्णा च काञ्चनी हाटका तथा ।
रुक्मिणी च मनस्वी च सुभद्रा जम्बुहाटकी । । १४.८३ । ।

व्यापिनीपदं आपन्ना योगदूत्यो महाबलाः ।
व्याप्यव्यापकभावेन व्यापयन्ति चराचरं । । १४.८४ । ।

वाग्वती वाक्तथा वाणी भीमा चित्ररथा सुधी ।
देवमाता हिरण्या च योगेशी नवमा स्मृता । । १४.८५ । ।

वागेश्वरपदान्तस्था वागीश्वर्यसमन्विताः ।
मन्त्रविद्याङ्गसम्भूताः सर्वार्थप्रतिपादिकाः । । १४.८६ । ।

वज्रिणी शक्ति दण्डी च खड्गिनी पासिनी ध्वजी ।
गदी च शूलिनी पद्मी मुद्रेशपदसम्भवाः । । १४.८७ । ।

पिङ्गदूत्यो महावीर्याः कलाकालविधायिकाः ।
तेजोरूपा महादेव्यो अनन्तगुणसम्भवाः । । १४.८८ । ।

लम्बा लम्बस्तनी सुष्का पूतिवक्त्रा महानना ।
गजवक्त्रा महानासा विद्युत्क्रव्यादनायिका । । १४.८९ । ।

कालानलान्तरे दूत्यः संहारपदसंस्थिताः ।
अनन्तगुणवीर्यास्ताः संहरन्ति चराचरं । । १४.९० । ।
सुप्रबुद्धा प्रबुद्धा च चण्डी मुण्डी कपालिनी ।
मृत्युहन्ता विरूपाक्षी कपर्दी कलनात्मिका । । १४.९१ । ।

नियामिकापदान्तस्थाः शुभाशुभनियामिकाः ।
एकाशीतिविभागेन दूत्यो ह्येवं महाबलाः । । १४.९२ । ।

नवकेश्वरदेवस्य उदरेदं प्रकीर्तितं ।
एकाशीतिपदैर्व्याप्तं अनेकाश्चर्यसङ्कुलं । । १४.९३ । ।

पदरूपसमायुक्तं रूपातीतादिसंयुतं ।
पद्ममार्गविधायिन्यस्त्रितत्त्वपदवीं लभेथ् । । १४.९४ । ।

इति कुलालिकाम्नाये श्रीकुब्जिकामते देवीदूतीनिर्णयो नाम चतुर्दशमः पटलः


श्रीभैरव उवाच

देवीदूतीमतं कुब्जि कथितं तु सुविस्तरं ।
इदानीं मातराणां च शृणु त्वं व्याप्तिलक्षणं । । १५.१ । ।

पदपत्त्रोर्ध्वगं पद्मं तेजोरूपं सुभास्वरं ।
लक्षकोटिसुविस्तीर्णं अम्भोधिपरिमण्डलं । । १५.२ । ।

तत्र मध्ये महेशानं पिङ्गेशं पिङ्गरूपिणं ।
त्रिकोणपुरमध्यस्थं तेजोराशिं अनामयं । । १५.३ । ।

काले ह्यहर्मुखे प्राप्ते क्षोभयित्वा स्वकां तनुं ।
विज्ञानकेवलान्यष्टौ बोधयामास पुद्गलान् । । १५.४ । ।

अष्टौ मुद्रा महामात्र्यो जगद्योनिर्महाम्बिके ।
तासु जातं जगत्सर्वं यत्किञ्चिद्वाङ्मयंऽखिलं । । १५.५ । ।

प्रथमा खेचरीमुद्रा आत्मी नाम द्वितीयका ।
तृतीया शशिनी ज्ञेया वह्निनामा चतुर्थिका । । १५.६ । ।

पञ्चमी चलनी नाम षष्ठी भानुमती स्मृता ।
सप्तमी महिमा नाम अष्टमी सुकृतालया । । १५.७ । ।

एता अष्टौ महामात्र्यः श्रीमन्मित्राङ्गजोद्भवाः ।
कुर्वन्ति विविधां सृष्टिं स्थूलसूक्ष्मपरापरां । । १५.८ । ।

विभाजयन्ति चात्मानं एकैका चाष्टधाष्टधा ।
तेष्वन्याः षोडशाधाराश्चतुःषष्ट्यान्त-म्-अन्तिकाः । । १५.९ । ।

खेचरीतनुसम्भूताश्चाष्टौ मात्र्यो दिशात्मिकाः ।
ऐन्द्रादीशान-म्-अन्तस्थाः सर्वाधाराः परापराः । । १५.१० । ।

रुद्राण्यंशाः समाख्याता देवीकोटान्तसंस्थिताः ।
संवर्तवीरसंयुक्ताः शम्भुकल्पावतारकाः । । १५.११ । ।

आत्ममात्रोद्भवा ह्येवं सकला निष्कलाश्च ये ।
विज्ञानप्रलयान्तान्ये धर्माधर्मे नियोजयेथ् । । १५.१२ । ।

तत्राणवोऽथ मायाया अष्टौ मात्र्योऽणुसम्भवाः ।
प्रयागपुरमध्यस्थाश्चण्डकौलीशसंयुताः । । १५.१३ । ।

ब्राह्मीचक्रं समुद्दिष्टं आदिकल्पस्य मध्यगं ।
आत्ममात्र्यष्टकं प्रोक्तं इन्द्रमात्र्यष्टकं वदेथ् । । १५.१४ । ।

छाया तु शीकरा ज्योत्स्ना ऋतुरत्ना सुशीतला ।
पयोघृतवती चान्या इन्द्रमात्र्योऽष्ट वैष्णवी । । १५.१५ । ।

वाराणसीपुरान्तस्था अमृताधारशीतला ।
आप्यायन्ति जगत्सर्वं पालयन्ति जगाम्बिकाः । । १५.१६ । ।

कल्पावान्तरं आसाद्य क्रोधकौलीशसंयुताः ।
कुर्वन्ति विविधां सृष्टिं आपदां मोचयन्ति ताः । । १५.१७ । ।

तृष्णा रागवती मोहा कामा कोपा तमोत्कटा ।
ईर्षा शोकवतीत्यष्टौ वह्निमात्र्यः प्रकीर्तिताः । । १५.१८ । ।

कौलीशोन्मत्तसंयुक्ताः कोल्लाद्रौ संव्यवस्थिताः ।
महान्तकल्पमध्यस्थाः क्रीडन्त्यमिततेजसा । । १५.१९ । ।
त्वची स्पर्शवती गन्धा प्राणापानी समाननी ।
उदानी व्यानि कृकरा मरुन्मात्र्योऽष्ट कीर्तिताः । । १५.२० । ।

असिताङ्गकुलेशानं अट्टहासपुरान्तगाः ।
दिव्यकल्पे पुरा मात्र्यः क्रीडन्त्यमिततेजसा । । १५.२१ । ।

तमोहन्ता प्रभा मोहा तेजिनी दहनी दिना ।
ज्वलनी शोषणीत्यष्टौ अर्कमात्र्यः प्रकीर्तिताः । । १५.२२ । ।

दिव्यादिव्यपरे कल्पे जयन्तीपुरमध्यगाः ।
रुरुकौलेशसंयुक्तास्तेन सार्धं रमन्ति ताः । । १५.२३ । ।

निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।
शान्तातीता च पृथिवी वज्रिणी कामधेनवी । । १५.२४ । ।

महिमेशानदेवस्य अष्टौ मात्र्यश्चरित्रगाः ।
अदिव्यकल्पमध्यस्था झण्ठकौलेश्वरान्विताः । । १५.२५ । ।

ऐन्द्र्याधिष्ठितचक्रस्थाः क्रीडन्त्यमिततेजसा ।
पूर्यष्टकस्य मध्यस्था वज्रहस्ता महाबलाः । । १५.२६ । ।

पयोष्णी वारुणी शान्ता अमृता व्यापिनी द्रवा ।
प्लवनी जलमाता च पयोमात्र्योऽष्ट विश्रुताः । । १५.२७ । ।

वर्तमानिककल्पे तु एकाम्रकवनान्तगाः ।
कपालीशकुलेशानं चामुण्डाचक्रमध्यगाः । । १५.२८ । ।

श्रीकुलेश्वरदेवस्य हृत्पद्मेऽ ष्टदले स्थिताः ।
ईशानक्रमयोगेन सृष्टिमार्गावलम्बिकाः । । १५.२९ । ।

कर्णिकायां स्थितो देवश्चतुष्कपरिवारितः ।
रक्ताकरालाचण्डाक्षी- महोच्छुष्मासमन्वितः । । १५.३० । ।

महारक्तवनान्तस्थस्तेजोमण्डलमध्यगः ।
नवतत्त्वेश्वरं देवं पूर्यष्टकसमन्वितं लि । । १५.३१ । ।

अन्तर्देहस्थितो यस्मात्पूरयेत्स चराचरं ।
तेन पूर्यष्टकं प्रोक्तं अष्टधा तु प्रपूरकं । । १५.३२ । ।
स शिवः सर्वसत्त्वानां हृदिस्थः परमेश्वरः ।
भ्रामयेत जगत्सर्वं यन्त्रारूढस्तु मायया । । १५.३३ । ।

द्वासप्ततिसहस्राणां उपरिस्थोऽन्तरे स्थितः ।
अक्षारूढोऽक्षगम्योऽयं मनीशानां पिशाचवथ् । । १५.३४ । ।

गुरुवक्त्रं तु तत्प्रोक्तं गुरुवक्त्रात्तु लभ्यते ।
गुरुत्वं यात्यसौ योगी गुरुवक्त्रावलम्बकः । । १५.३५ । ।

तेजस्तत्त्वं तु तं देवि रुद्रशक्तिभिरावृतं ।
अतोर्ध्वं योगिनीनां तु घटस्थानं निगद्यते । । १५.३६ । ।

गुरुवक्त्रे गुरोर्वक्त्रं गुरुवक्त्रे तु संस्थितं ।
गुरुवक्त्रात्तु लभ्येत तस्मात्सन्तोषयेद्गुरुं । । १५.३७ । ।

स्तुतिं कृत्वा उवाचेदं कुब्जिका परमेश्वरं ।
पृच्छामि नाथ यत्नेन घटस्थानं सुविस्तरं । । १५.३८ । ।

उवाच भगवान्देवस्त्वत्पृच्छा रहितंऽनघे ।
निखिलं कथयिष्यामि यथा त्वं कुब्जि चेतसा । । १५.३९ । ।

कोटिकोटिसुविस्तीर्णं घटाधारं ततोर्ध्वतः ।
वज्रपद्माङ्कितं दिव्यं पिङ्गनाथावधिस्थितं । । १५.४० । ।

अनन्तगुणदातारं सर्वार्थप्रतिपादकं ।
तस्मात्सम्पद्यते सर्वं ऐहिं पारत्रिकं च यथ् । । १५.४१ । ।

यत्र भाण्डानि सर्वाणि लभ्यन्ते च सहस्रधा ।
लयं यान्ति पुनस्तत्र घटस्थानं तदुच्यते । । १५.४२ । ।

यस्मात्सर्वं यथा याति यस्माद्यान्ति त्रुटन्ति च ।
यत्र निर्भेद्यतां यान्ति तत्स्थानं घटिकात्मकं । । १५.४३ । ।

भुवनाष्टोत्तरं भाण्डं पदभाण्डं तु तत्र वै ।
वर्णभाण्डं तु तत्रस्थं मन्त्रतत्त्वकलात्मकं । । १५.४४ । ।

भाण्डारिणो अमीषां च निवृत्त्याद्याः प्रकीर्तिताः ।
यस्याधारेण वर्तन्ते भोगान्ते तत्पदं पुनः । । १५.४५ । ।
श्रीकुलेश्वरदेवस्य हृद्योर्ध्वघट-म्-अन्तरे ।
तत्कुलेश्वरदेवस्य दुर्भेद्यं षट्पुरं महथ् । । १५.४६ । ।

विभज्य स्वतनुं देवः षट्पदार्थपदेन च ।
षड्योगिन्यो महातेजाः षट्पुरे सन्निवेशिताः । । १५.४७ । ।

डामरी रामणी चैव लम्बकर्णी च काकिनी ।
साकिनी यक्षिणी चान्या कुसुम्भोदसमुद्भवाः । । १५.४८ । ।

वज्रपद्मासनारूढाः कुसुम्भगुणशालिनी[ः] ।
षट्पुराधिपतीनां च पतित्वे सम्व्यवस्थिताः । । १५.४९ । ।

ओ-जा-पू-कामभेदेन का-पू-जा-ओ-व्यतिक्रमाथ् ।
एतत्क्रमं समाख्यातं सृष्टिसंहारगोचरे । । १५.५० । ।

परापरविभागेन स्थूलसूक्ष्मपरान्तगं ।
यथाधिपति देवत्वं योगिनीनां तथा शृणु । । १५.५१ । ।

दुःशीला डमरी भीमा आधारस्था तु डामरी ।
स्वाधिष्ठानपुरान्तस्था रामणी रमणात्मिका । । १५.५२ । ।

मणिपूरपुरान्तस्था लम्बकर्णी महद्भुता ।
ध्वनिदेवपुरे काकी विशुद्धौ साकिनी स्मृता । । १५.५३ । ।

आज्ञापुरस्य मध्यस्था यक्षिणीति निगद्यते ।
कुब्जिकोदरसम्भूताः षड्योगिन्यः परापराः । । १५.५४ । ।

अत्र जातं जगत्सर्वं रुद्रान्तं ब्रह्मणोऽवधिं ।
संहरन्ति पुनस्तास्तु विलोमेन प्रपूजिताः । । १५.५५ । ।

उपदेशप्रगम्यास्ताः पारम्पर्यक्रमेण वै ।
ज्ञातव्यं षड्विधाध्वानं षट्प्रकारं गुरोर्मुखाथ् । । १५.५६ । ।

श्रवणे चक्षुषी नासा मुखे चैव तथैव हि ।
चिबुके कण्ठदेशे तु गुरुवक्त्रात्तु लभ्यते । । १५.५७ । ।

प्रणयाविष्टचेतस्का उवाचेदं कुजेश्वरी ।
व्याप्तिस्थानं कथं तेषां का कस्य पथयायिनी । । १५.५८ । ।
भक्त्या पृष्टवती मत्वा प्रहस्य परमेश्वरः ।
उवाच कुब्जिके तुभ्यं कथयाम्यनुपूर्वशः । । १५.५९ । ।

घटन्ति सर्ववस्तूनि यस्याङ्गे तु वरानने ।
घटस्थानं तु तेनोक्तं सन्दोहगुणलक्षणं । । १५.६० । ।

रुद्रपञ्चाशकोपेतं शक्तिपञ्चाशकान्वितं ।
चक्रवर्त्यष्टकोपेतं भुवनाष्टोत्तरं शतं । । १५.६१ । ।

मनोजनपदाकीर्णं आधारगृहसङ्कुलं ।
ओंकारदलमध्यस्थं अघोरीहृदयान्वितं । । १५.६२ । ।

तत्र सा डामरी देवी ज्वलत्पिङ्गोग्रलोचना ।
मनोरसाधिपत्यस्था दुःसाध्या भुवनात्मिका । । १५.६३ । ।

पुनर्जपत्त्रमध्यस्था एकाशीतिपदावृता ।
शिरसाधिष्ठिता योगी स्वाधिष्ठानगृहाकुला । । १५.६४ । ।

बुद्धिजनपदाकीर्णा पदाध्वे रामणी रमेथ् ।
दुष्प्रेक्षा दुःसहा भीमा बुद्ध्यासृग्लोलविग्रहा । । १५.६५ । ।

मणिपूरगृहान्तस्था कामपत्त्रान्तरे गता ।
तडित्सहस्रवर्णाभा शिखारूपा महेश्वरी । । १५.६६ । ।

अहङ्कारजनानन्दा प्रालेयावलिसन्निभा ।
वर्णेश्वरी महादेवी क्रियारूपा परापरा । । १५.६७ । ।

तस्याङ्गसम्भवा मन्त्राः सर्वज्ञास्ते प्रकीर्तिताः ।
लम्बिका सा समाख्याता मांसाहारा च लम्पटा । । १५.६८ । ।

पूर्णकदलमध्ये तु नीलाञ्जनसमप्रभा ।
तनुत्राणकृताटोपा मन्त्राध्वा-स्-तु विभूषिता । । १५.६९ । ।

अनाहतकमध्यस्था गुणानेकजनावृता ।
काकी मेदवसालुब्धा गुणान्नाशयते क्षणाथ् । । १५.७० । ।

क्रुद्धा तमोत्कटा नित्यं प्रचण्डोग्रा भयानका ।
मन्त्राध्वानगता योगी लयभोगाधिकारिका । । १५.७१ । ।
पुनः पुंदलमध्यस्था विशुद्धिगृहमध्यगा ।
संवर्तानलसङ्काशा नेत्राधिष्ठितभास्वरा । । १५.७२ । ।

प्राकृतजनसङ्कीर्णा कलाध्वानसमावृता ।
रुद्रशक्तिसमाविष्टा रौद्रभावप्रदायिका । । १५.७३ । ।

अस्थिभङ्गप्रिया नित्यं प्राकृतार्थविनाशनी ।
साकिनीयं महाघोरा स्थूलसूक्ष्मपरान्तगा । । १५.७४ । ।

दक्षे कामेश्वरीपत्त्रे प्रालेयावलिसन्निभा ।
कदाचिन्[ऽ]नेकरूपाभा उपाधिगुणगोचरा । । १५.७५ । ।

तत्त्वाध्वपुरमध्यस्था आज्ञामन्दिरशोभिता ।
पुंजनाकृतसम्पूर्णा महास्त्रौघसमावृता । । १५.७६ । ।

मज्जबीजाशिनी योगी यक्षिणी शक्ति शाम्भवी ।
षड्योगिन्यो घटाधारे षडध्वानविधायिकाः । । १५.७७ । ।

तत्र मध्ये स्थिता कन्या विश्वरूपा परापरा ।
सा पतिः सर्वयोगीनां योगेशी [ऽ]नन्तविग्रहा । । १५.७८ । ।

कम्-ब-मा-लम्-वि-कान्ताभिरावृता मध्यसंस्थिता ।
ऽनुग्रहन्ति पुनस्तास्तु षडध्वानप्रयोगतः । । १५.७९ । ।

भूतं भावं तथा शाक्तं आणवं रौद्र शाम्भवं ।
क्रमादनुग्रहन्त्येतास्तत्त्वादौ भुवनादितः । । १५.८० । ।

दक्षिणाध्वानसंस्थास्ताः कृन्तयन्ति महाम्बिकाः ।
उत्तरस्थाः प्रकुर्वन्ति श्रेयं चामृतसम्भवं । । १५.८१ । ।

वज्रपद्मासनासीना घटाम्बोदधिमध्यगाः ।
अमृतौघतरङ्गौघैः प्लावयन्ति चराचरं । । १५.८२ । ।

अस्या रूपं च माहात्म्यं साधनं सिद्धिलक्षणं ।
पुरतः कथयिष्यामि इदानीं खेचरीं शृणु । । १५.८३ । ।

इति कुलालिकाम्नाये श्रीकुब्जिकामते षट्प्रकारे योगिनीनिर्णयो नाम पञ्चदशमः पटलः


श्रीभैरव उवाच

भुवनाङ्कुरसंयुक्तं पदपत्त्रविभूषितं ।
वर्णकण्टकसङ्कीर्णं मन्त्रच्छिद्रसमन्वितं । । १६.१ । ।

कलासूत्रचितं दिव्यं तत्त्वग्रन्थ्युपरिस्थितं ।
कोटिकोटिशतायामं चतुर्विंशदलायतं । । १६.२ । ।

व्योमोदार्णवमध्यस्थं नीलाञ्जनसमप्रभं ।
सहस्रादित्यसङ्काशं कालाग्निरिव वर्चसं । । १६.३ । ।

तत्रोर्ध्वे मण्डलान्याहुश्चतुर्विंशं अनुक्रमाथ् ।
क्षेत्रोपक्षेत्रसन्दोहान्पूर्वादौ पार्थिवादितः । । १६.४ । ।

क्षेत्रे द्वे चोपक्षेत्रे द्वे सन्दोहे द्वे विजानतः ।
दलोपरि विराजन्ते चतुःषट्कं दिशादितः । । १६.५ । ।

अट्टहासादितः कृत्वा राजगृहं अपश्चिमं ।
पार्थिवादिप्रकृत्यन्तं संयोगान्मण्डलायते । । १६.६ । ।

स्ॐयादिभग्ननासान्ताः सूर्यमण्डलसंस्थिताः ।
पृथग्मण्डलचक्रस्थाः खेचर्यः कुलनायिकाः । । १६.७ । ।

सोममण्डलमध्ये तु द्वात्रिंशान्ये महाबलाः ।
कुब्जिकाङ्गसमुद्भूताः प्रचण्डोग्रा गुणोत्कटाः । । १६.८ । ।

चण्डा घण्टा महानासा सुमुखी दुर्मुखी बला ।
रेवती प्रथमा घोरा स्ॐया भीमा महाबला । । १६.९ । ।

जया च विजया चैव अजिता चापराजिता ।
महोत्कटा विरूपाक्षी शुष्का चाकाशमातरा । । १६.१० । ।

सेहारी जातहारी च दंष्ट्राली शुष्करेवती ।
पिपीलिका पुष्पहारी अशनी सस्यहारिका । । १६.११ । ।
भद्रकाली सुभद्रा च भद्रभीमा सुभद्रिका ।
द्वात्रिंशद्गुणशालिन्यश्चक्रेश्वर्या महाम्बिकाः । । १६.१२ । ।

सोममण्डलमध्यस्था वह्निस्थास्तु ततः शृणु ।
खगेश्वरपतीनां तु पतिमात्र्योऽत्र संस्थिताः । । १६.१३ । ।

असिताङ्गतनूद्भूताः क्रियारूपाः परापराः ।
कुर्वन्ति विविधां सृष्टिं त्वरितं लाघवे स्थिताः । । १६.१४ । ।

श्रीकुब्जिका उवाच

त्वरिताशब्दं कथं देव खञ्जीशब्दं किं उच्यते ।
कुब्जाशब्दं कथं प्रोक्तं कथं तन्मण्डलागणः । । १६.१५ । ।

कथं रूपं महेशान्याः सर्वं एतद्यथाक्रमं ।
आचचक्ष्व प्रयत्नेन येन भ्रान्तिर्विनश्यति । । १६.१६ । ।

श्रीभैरव उवाच

साधु देवि महादुर्गे किं न बुध्यसि पार्वति ।
यदस्मात्त्वं इहायाता तत्किं ते वेदितं न हि । । १६.१७ । ।

वालाग्रशतभागस्य विभिन्नस्य सहस्रधा ।
अस्य कालविभागस्य त्वरात्सञ्चरसे यथा । । १६.१८ । ।

तथा त्वं त्वरिता नाम अशेषार्तिविनाशिनी ।
खञ्जिनी कथिता तुभ्यं वारं वारं पुनः पुनः । । १६.१९ । ।

यस्या मध्यगतं विश्वं विश्वमध्यगता तु या ।
खञ्जिका तेन सा प्रोक्ता सूक्ष्मे वस्तुनि सूक्ष्मगा । । १६.२० । ।

एषा ते खञ्जिका ख्याता कुब्जिनी[ं] शृणु साम्प्रतं ।
अन्वर्थसंज्ञिका नाम एका त्वं तु कुलेश्वरि । । १६.२१ । ।

स्थूलसूक्ष्मे परे तत्त्वे व्यक्ताव्यक्ते निरामये ।
सर्वं व्याप्तं इदं देव्या सा च त्वं किं न बुध्यसि । । १६.२२ । ।
बृहत्कायो यदा कश्चित्स्वल्पे व्याचरते गृहे ।
कुञ्चिताङ्गो विशेद्यस्मात्तद्वदेषा महेश्वरी । । १६.२३ । ।

चतुर्द्वादशधाधारं ग्रन्थौ षोडशकान्वितं ।
वडवाख्यं त्रिशूलोर्ध्वं त्रित्तत्त्वं तु कलान्तगं । । १६.२४ । ।

निदिध्यास्यं श्रुतं देश्यं एतत्कौलेश्वरं तनुं ।
यस्योदरगतं तच्च तस्य किं अपरं परं । । १६.२५ । ।

कूटभूतं तु तन्मध्ये यस्मात्सा कुटिलीतया ।
गतानेककुलोद्भिन्ना इच्छेयं पारमेश्वरी । । १६.२६ । ।

तेन त्वं कुब्जिका प्रोक्ता परा सर्वेषु वस्तुषु ।
तत्रेदं दुर्लभं देवि सुगोप्यं प्रकटीकृतं । । १६.२७ । ।

वेदसिद्धाः पशुस्चोर्ध्वे ऊर्ध्वं वामे पशुत्वता ।
वामं दक्षिणमार्गस्य दक्षिणं कुलशासने । । १६.२८ । ।

तं तु योन्यार्णवे लीनं योनिः स्रीकुब्जिकामते ।
अतोऽर्थं गोपितं तन्त्रं न कस्यचिन्मयोदितं । । १६.२९ । ।

रभसाविष्टभावेन तवाद्य प्रकटीकृतं । । १६.३० । ।

श्रीकुब्जिका उवाच

सूर्यसोमस्थितिः प्रोक्ता वह्निस्थानावधारिता ।
कथं सा कुरुते सृष्टिं कोऽसिताङ्गः कुलेश्वरः । । १६.३१ । ।

श्रीभैरव उवाच

कुब्जेशि श्रूयतां सृष्टिर्यथावस्था प्रपद्यते ।
असिताङ्गो महेशानस्ततोर्ध्वे मण्डलोपरि । । १६.३२ । ।

सोममध्ये रविस्थानं सूर्यमध्ये शिखि[ः] स्थितः ।
तत्र मध्येऽङ्कुरं दिव्यं असिताङ्गसमुद्भवं । । १६.३३ । ।

ततो निष्पद्यते सृष्टिर्विचित्रानेकरूपिणी ।
तत्त्वानि च कला वर्णा मन्त्रविद्या पदः पुरा । । १६.३४ । ।

विसृजन्ति महानन्दं शक्तिभैरवमण्डलं ।
पञ्चविंशतिमध्यादौ षोडशैवाष्ट चान्तिमाः । । १६.३५ । ।

भैरवानन्दशक्तिस्थं असिताङ्गकुलेश्वरं ।
आदिमण्डलमध्यस्थं सिद्धैः षोडशभिर्वृतं । । १६.३६ । ।

आदियोनिपुरस्थं तु मण्डलं खेचरात्मकं ।
अस्य पूजाविधानेन आज्ञायोनिफलं लभेथ् । । १६.३७ । ।

आदिमण्डलकं ह्येतत्प्रवरं ह्युत्तमोत्तमं ।
अत्रोत्पन्नानि सर्वाणि मण्डलानि ह्यनेकधा । । १६.३८ । ।

पञ्चविंशात्मकं मध्ये मण्डलानां तदादिमं ।
चतुःसिद्धान्वितैकैकं विज्ञेयं पञ्चविंशकं । । १६.३९ । ।

वालादौ खड्गपर्यन्तं मण्डले मण्डले तु तं ।
एषान्यत्पञ्चकं देवि कुलविद्या कुलाध्वरे । । १६.४० । ।

भुजङ्गक्रूरसंयुक्ता त्रिमूर्तिगुणधारणा ।
सामान्या सर्वसिद्धानां पञ्चविंशतिमण्डले । । १६.४१ । ।

मण्डलो[ द्]भृतदेहा सा क्रियाकालगुणोत्तरा ।
चतुर्भिः सहिता देवी सृजते वर्णसागरं । । १६.४२ । ।

ककारादौ मपर्यन्तं यकारादौ ह-म्-अन्तिमं ।
अत्र मन्त्राः समुत्पन्ना विद्यामुद्रागणो महान् । । १६.४३ । ।

देवीदेहात्समुत्पन्ना सा देवी मण्डलोद्भवा ।
चतुर्विंशकमध्यस्था षट्चतुष्कविभूषिता । । १६.४४ । ।

वह्निमण्डलमध्यस्था बहुरूपा अरूपिणी ।
बर्बरोरुह पिङ्गाक्षी दन्तुरा बृहदोदरा । । १६.४५ । ।

नीलमेघप्रभा भीमा गम्भीराभरणोज्ज्वला ।
वेदैः कृतशिरोमाला सषडङ्गपदक्रमाथ् । । १६.४६ । ।

ब्रह्मसूत्रं महेशान्याः पुराणोद्बद्धमेखला ।
ज्योतिःशास्त्राञ्जिताक्षी सा ध्वनिकर्णावतंसका । । १६.४७ । ।

कलालम्बितहारौघा विज्ञानकटकोज्ज्वला ।
शब्दपङ्कामृतोद्भिन्ना मण्डितं मुखमण्डलं । । १६.४८ । ।

विचित्रवसनानेका शास्त्रपट्टांशुकोमला ।
आबद्धांशुकपर्यङ्का प्रमेयासनसंस्थिता । । १६.४९ । ।

ईदृग्रूपधरां देवीं पञ्चविंसान्तमध्यगां ।
अपरां सृष्टिकर्तारां परां षड्विंश-म्-आदिमां । । १६.५० । ।

आदिमण्डलमध्यस्थां असितोत्सङ्गगामिनीं ।
द्विभुजाभरणोपेतां एकवक्त्रां त्रिलोचनां । । १६.५१ । ।

चारुबिम्बोष्ठवदनां अनेकगुणशालिनीं ।
अरूपां रूपसम्पन्नां तस्यान्ते रूपसम्भवां । । १६.५२ । ।

इच्छारूपधरां देवीं नवात्मानेन लभ्यते । । १६.५३ । ।

श्रीकुब्जिका उवाच

नवात्मानमयं सर्वं तस्यैतत्परमा परा ।
सा परा लभ्यते येन स नवात्मा वद प्रभो । । १६.५४ । ।

श्रीभैरव उवाच

साधु भैरवि यत्नेन पृच्छितं निर्मलार्थतः ।
न तेन रहितं किञ्चित्सत्येदं परमार्थतः । । १६.५५ । ।

प्रसह्यं पूज्यते यत्र तत्र सिद्धक्रमो न हि ।
यत्र सिद्धक्रमो भद्रे तत्रेदं गोपितं मया । । १६.५६ । ।

आज्ञालब्धरसास्वादास्त्यजन्तीदं सुदुर्लभं ।
विशुद्धमण्डलोर्ध्वेदं मण्डलं न तदोज्झितं । । १६.५७ । ।

पञ्चविंशकभेदस्य पूर्वं विद्या समुद्धृता ।
तस्यैवाद्यं द्विकं त्यज्य शेषान्यत्केवलाक्षराः । । १६.५८ । ।

भृगुलाकुलसंवर्तास्त्रीण्येतानि अनुक्रमाथ् ।
तत्र लाकुलभृग्वेशं भुजङ्गासनसंस्थितं । । १६.५९ । ।

संवर्तकमहाकालं पिनाकीगुणसंयुतं ।
खड्गवालासनासीनं अर्घीशानन्दनोपरि । । १६.६० । ।

ऽनुग्रहानन्दमूर्ध्निस्थं क्रूरानन्दसमन्वितं ।
परानन्दसमायुक्तं कूटेदं मण्डलेश्वरं । । १६.६१ । ।

यस्य गर्भगतं सर्वं वाङ्मयं सचराचरं ।
तस्योपायं इदं देवि उपेयस्य महात्मनः । । १६.६२ । ।

एतत्कौलेश्वरं नाम कूटरूपं कुलेश्वरं ।
नानेन रहिता सिद्धिः साधनं खेचरीपदे । । १६.६३ । ।

मण्डलान्तर्गतं पूज्य मण्डलं कामदं स्मृतं ।
येन पूजितमात्रेण सर्वव्याप्तिपदं लभेथ् । । १६.६४ । ।

महतः कुलवृक्षस्य डालाः स्युः पञ्चविंशति ।
आज्ञापुष्पोपशोभाढ्यं विज्ञानफलमालितं । । १६.६५ । ।

परिपक्वरसानन्दं मोक्षतृप्तिकरं फलं ।
प्राप्यते येन यज्ञेन हेलया मण्डलं तु तं । । १६.६६ । ।

खेचरीचक्रमध्यस्थं त्रितत्त्वगुणशालिनं ।
मण्डलोद्भृतदीप्यन्तं मण्डलं वडवामुखं । । १६.६७ । ।

चतुःशक्तिसमायुक्तं एकैकं पञ्चविंशकं ।
अम्बिका रौद्रिणी ज्येष्ठा वामादौ सृष्टिसागरे । । १६.६८ । ।

एतच्चतुष्टयान्तस्थं नवेशानं कुलेश्वरं ।
वडवानल-म्-आसीनं आज्ञाशूलधरं विभुं । । १६.६९ । ।

श्रीकुब्जिका उवाच

मण्डलानां पृथक्पूजा सिद्ध्यर्थं साधकेश्वर ।
व्याप्तिस्थं तु यथा सर्वं तथा वदत भैरव । । १६.७० । ।

श्रीभैरव उवाच

कथयामि वरारोहे देव्या देहगतं यथा ।
व्याप्तिनामविभेदेन ज्ञास्यन्ते ज्ञानिनो यथा । । १६.७१ । ।

काममण्डलकं स्कन्धे खेचरं तदधःस्थितं ।
गुरुमण्डलकं सन्धौ पाणिमध्ये घनोज्ज्वलं । । १६.७२ । ।

रुद्रमण्डलकं दक्षे पाणौ तत्तु नखाग्रतह् ।
चन्द्रमण्डलकं वामे छायामण्डलकं त्वधः । । १६.७३ । ।

जयन्तमण्डलं सन्धौ झङ्कारं करमध्यतः ।
ज्ञानमण्डलकं वामे अङ्गुल्याग्रे व्यवस्थितं । । १६.७४ । ।

वराङ्गोर्ध्वनितम्बाधो दक्षिणेऽमृतमण्डलं ।
सोममण्डलकोरुभ्यां सन्धौ डामरमण्डलं । । १६.७५ । ।

कन्यामण्डलकं पद्भ्यां उमामण्डलकं नखे ।
तारामण्डलकं वामे कुलदिव्योरुमध्यतः । । १६.७६ । ।

अनन्तमण्डलं सन्धौ पादान्ते मित्रमण्डलं ।
अङ्गुल्याग्रे समाख्यातं मण्डलं मेरुपूर्वकं । । १६.७७ । ।

रक्तमण्डलकं कुक्षौ दक्षिणे वामतः शिखी ।
कुलमण्डलकं पृष्ठौ वज्रसङ्ख्यात मध्यगं । । १६.७८ । ।

मण्डलैश्चैकविंशाभिरावृतः स कुलेश्वरः ।
षष्ठमण्डलकं नाभौ कालमण्डलकं हृदि । । १६.७९ । ।

श्रीमन्नाथादितः कृत्वा त्रयैतानुक्रमेण तु ।
एकैकं चैकविंशानां मण्डलानां पतीश्वराः । । १६.८० । ।

पञ्चविंशकयोगस्य चतुष्कं पतिरूपिणं ।
समुदायपतीनां च पतिरेको विसुद्धिराठ् । । १६.८१ । ।
रन्ध्रमण्डलकं वृत्ते रोमकोट्योर्ध्वसंस्थितं ।
सर्वाङ्गसुन्दरं देव्याः शरीरं मण्डलोद्भवं । । १६.८२ । ।

शाम्भवीयं परा मूर्तिः स्वयंसम्भृतमण्डलं ।
मण्डलोद्भृतदेहा सा सा च मण्डलमध्यगा । । १६.८३ । ।

स्वयङ्कर्ता स्वयंहर्ता मण्डलानां कुलेश्वरी ।
वडवानलरूपेण त्रिशूलासनसंस्थिता । । १६.८४ । ।

कङ्कालेश्वरमूर्ध्निस्था षट्पदार्थोपरिस्थिता ।
चतुर्भुजैकवदना चाक्षसूत्रकराभया । । १६.८५ । ।

सर्वज्ञानावबोधेन पुस्तकान्यवरप्रदा ।
पञ्चमोर्ध्वक्रमो देव्या मण्डलोद्भृतविग्रहा । । १६.८६ । ।

चतुराशीतिप्रमाणेन कोटीनां मूलतोर्ध्वतः ।
शरीरं श्रीकुलेशस्य तस्य कुम्भोऽब्जमण्डले । । १६.८७ । ।

स्थिता सञ्जनते सर्वं तेन कुब्जेश्वरी परा ।
मण्डलोद्भृतदेहा सा मण्डलोपरिसंस्थिता । । १६.८८ । ।

मण्डलान्तर्गता देवी ध्यात्वा मण्डलदायिकां ।
श्रीमहानन्दवृक्षोऽयं डालानेकचितं तु तं । । १६.८९ । ।

शास्त्रपल्लवसंयुक्तं विज्ञानाङ्कुरशोभितं ।
अखण्डज्ञानपुष्पाढ्यं सिद्धोदयफलान्वितं । । १६.९० । ।

पक्वानन्दरसालाढ्यं मोक्षतृप्त्यादिसत्फलं ।
एष मण्डलवृक्षोऽयं यस्मात्सर्वं प्रपद्यते । । १६.९१ । ।

सर्वथा तद्यजेन्नित्यं व्याकुलेन-म्-अनेन किं ।
निराचारेण योगेन साचारेण न तद्यजेथ् । । १६.९२ । ।

व्याप्तिभावं अतो मत्वा भुक्त्वा चाण्डालजां तनुं ।
स पश्यति परं वृक्षं खेचरं मण्डलोद्भवं । । १६.९३ । ।

तद्भावभावनां कृत्वा गुरुं मत्वावधारयेथ् ।
यत्किञ्चित्पुरतस्तस्य तत्सर्वं मण्डलं विदुः । । १६.९४ । ।
यदि स्यान्मण्डलो देहः पूजयेन्मण्डलादिभिः ।
वडवानलयोगेन एकैकं मासकावधिं । । १६.९५ । ।

कुलविद्यासमायुक्तं चतुष्कलसमन्वितं ।
कौलेशानसमायुक्तं स्वस्थानस्थोपदेशगं । । १६.९६ । ।

एवं सञ्चिन्त्य मनसा भक्तियुक्तो जितेन्द्रियः ।
पञ्चविंशतिमासेन प्राकृतान्लभते गुणान् । । १६.९७ । ।

द्विगुणेन तु कालेन पैशाचगुणकृद्भवेथ् ।
त्रिगुणेन तु कालेन दैवत्यं भजते तु सः । । १६.९८ । ।

चतुर्गुणेन कामित्वं सामान्यत्वामरालये ।
पञ्चमावस्थयोगेन सत्यलोकावधिं व्रजेथ् । । १६.९९ । ।

षष्ठमेन तु योगेन विष्णुत्वं जायते ध्रुवं ।
सप्तमेन तु योगेन ब्रह्माण्डान्तं अनुव्रजेथ् । । १६.१०० । ।

अष्टमेन तु पिङ्गोऽसौ नवमान्तेश्वरः प्रभुः ।
मण्डलीशो दशावस्थः खेचरः खेचराधिपः । । १६.१०१ । ।

मण्डलाभ्यासयोगेन निराचारेण योगिनः ।
वडवानलमध्ये तु वडवानलपूरितः । । १६.१०२ । ।

वडवानलरूपेण निराचारव्रतं चरेथ् ।
वडवानलं आरूढो वाडवीयं पदं लभेथ् । । १६.१०३ । ।

यतः सर्वमयं तच्च जगेदं वडवोदरं ।
आज्ञेयं सकला देवी दिव्याज्ञातोऽस्य सम्भवः । । १६.१०४ । ।

षट्पदार्थस्य चान्यस्य प्रधानं वडवानलं ।
महावृक्षवटो यस्य सूक्ष्मबीजवटो यथा । । १६.१०५ । ।

तथा तु हृदयस्यास्य सर्वं एवोदरे जगथ् ।
खेचराधिपतिर्देव्या वटमालावलम्बिनी । । १६.१०६ । ।

आज्ञासूत्रप्रयोक्ता सा चतुराशीतिगुणोज्ज्वला ।
गुरुवक्त्रात्तु लभ्येत मालेयं वडवानली । । १६.१०७ । ।
स्वमनीषिकतोऽन्यथा पश्यन्तोऽपि न पश्यति ।
एतत्ते पञ्चकं प्रोक्तं सर्वव्याप्तिभृतोदरं । । १६.१०८ । ।

खेचरान्तपदं दिव्यं चतुष्कान्यं पुनः शृणु । । १६.१०९ । ।

इति कुलालिकाम्नाये श्रीकुब्जिकामते षट्प्रकारे महानन्दपञ्चके षोडशमः पटलः


श्रीकुब्जिका उवाच

चतुष्कं पञ्चकं नाथ षट्कं तु पञ्चकं तथा ।
ज्ञातं व्याप्तिभृतं सर्वं चतुष्कं कीदृशं पुनः । । १७.१ । ।

पृच्छामि त्वां न शक्नोमि स्वत एव प्रसादतः ।
वद नाथ गुणानन्दं येन जानीमहेऽखिलं । । १७.२ । ।

श्रीभैरव उवाच

कुब्जिकेऽतिमहाप्राज्ञे किं न बुध्यसि मूढधीः ।
यद्येवं लपितं सर्वं कथयाम्यवशेषकं । । १७.३ । ।

स्थितिभोगलयान्तस्थं पूजाव्याप्तिपदं यथा ।
तथा तं निखिलं सर्वं उक्तानुक्तं वदामि ते । । १७.४ । ।

देव्यापीठचतुष्कं तु सिद्धपिण्डचतुष्टयं ।
युगैश्चतुर्भिस्तद्व्याप्तं परापरविभागशः । । १७.५ । ।

अकुलेश्वरदेवस्य यथा तिष्ठति विग्रहे ।
तथा शृणु महेशानि निराचारपदं यथा । । १७.६ । ।

ओ-जा-पू-का-क्रमं मध्याद्वामदक्षाग्रतोर्ध्वतः ।
व्याप्तिभूतं यजेत्सर्वं नाभ्यधः सिद्धपूर्वकं । । १७.७ । ।

ओ-जा-पू-का-क्रमाद्धृत्स्थं दक्षादौ वाम नाभिगं ।
उपदेशेन जानीयाद्गुरुवक्त्रात्तु शाम्भवं । । १७.८ । ।

एवं कर्णमुखे नासा नासोर्ध्वं पूर्ववद्यजेथ् ।
पूर्वोक्तार्चिसमायुक्तं सिद्धवृन्दसपालकैः । । १७.९ । ।

बलक्ॐआरवृद्धस्थं त्रिशुद्धिस्थं त्रितत्त्वगं ।
वडवानलयोगेन गह्वरादुपदेशतः । । १७.१० । ।

कुलाकुले परे स्थाने सर्वज्ञां शाम्भवं क्रमं ।
सर्वव्याप्तिसमोपेतं आज्ञापुष्पैः प्रपूजयेथ् । । १७.११ । ।

रूपातीतादियोगेन मण्डलोद्भृतविग्रहा ।
तत्रस्था परमा देवी मध्यस्था पररूपिणी । । १७.१२ । ।

कालमूर्ध्नि स्थिता शान्ता कलातीता कलाकला ।
कालहन्ता कलातीता कम्बलीयं कुलेश्वरी । । १७.१३ । ।

वडवानलं उत्तीर्णा देदीप्यन्तगुणोज्ज्वला ।
सहस्रादित्यसङ्काशा रूपातीता कुलेश्वरी । । १७.१४ । ।

रूपं पीठक्रमं देव्या नीलमेघाञ्जनप्रभा ।
भुजैर्द्वादशकोपेता षड्वक्त्रा बर्बरालका । । १७.१५ । ।

बृहोदरा च लम्बोष्ठी स्तब्धाक्षी विरलद्विजा ।
बालक्रमस्य मध्यस्था रूपस्था नग्नकुब्जिका । । १७.१६ । ।

वडवानलसन्दीप्ता अतिरौद्रा सुभीषणा ।
गुरूपदेशगम्या सा दिव्याज्ञार्थप्रदायिका । । १७.१७ । ।

क्ॐआरक्रममध्यस्था एकवक्त्रा चतुर्भुजा ।
पुस्तकमण्डलुधरा अक्षसूत्रवरप्रदा । । १७.१८ । ।

वडवानलमध्यस्था स्ॐयरूपा सुलालसा ।
महानन्दमहाविष्टा आवेशन्ती जगत्त्रयं । । १७.१९ । ।

महासंसार-म्-अम्भोधेस्तारयन्ती व्यवस्थिता ।
सा महान्तारिकाप्यत्र क्ॐआरे महतां गता । । १७.२० । ।

पाशौघक्षयकर्ता सा विद्याशास्त्रावलम्बिनी ।
यस्योच्चारात्स्फुटन्त्याशु पर्वतान्वज्रमौसलान् । । १७.२१ । ।

पञ्च पञ्च च विद्यास्त्रं महान्तारी स एव हि ।
अक्षरौघेन सिद्धा सा उच्चारावेशिनी परा । । १७.२२ । ।

अभक्तं वा द्विषन्तं वा वादस्थं वा तथेतरं ।
कुपितः पातयेत्सर्वं यस्यैषा हृदि शालिनी । । १७.२३ । ।

पदस्थेन तु योगेन सिद्धा सा परमेश्वरी ।
पिण्डं आवेशयेच्छीघ्रं पिण्डस्थां शृणु कुब्जिनि । । १७.२४ । ।

वृद्धक्रमस्य मध्यस्थां लघुरूपां सुतेजसां ।
द्विभुजैकवदनां तां पिण्डस्थां पतिरूपिणीं । । १७.२५ । ।

पशुप्राणहरां देवीं पाशजालनिकृन्तनीं ।
दमनीं सर्वपापानां विज्ञानकरणीं परां । । १७.२६ । ।

पूर्वं व्यावर्णितं यच्च रूपान्ते गुणशालिनीं ।
विद्याङ्गाभरणोपेतां पिण्डस्थां तां विजानथ । । १७.२७ । ।

द्वात्रिंशाक्षरसंयुक्तां षडङ्गपरिवेष्टितां ।
यदुक्तं कर्मसन्तानं तदत्र फलदं क्रमाथ् । । १७.२८ । ।

मन्त्रसिद्धिकरी देवी पिण्डसिद्धिकरी परा ।
वडवानलयोगेन सर्वज्ञत्वं लभेत्तु सः । । १७.२९ । ।

वडवानलकुब्जस्था कूजतेऽनन्दरूपधृक् ।
तेन सा कुब्जिका नाम मणिरूपा१पखञ्जिका । । १७.३० । ।

अस्या देव्याः पदं रूपं रूपातीतं प्रवर्तते ।
पिण्डेशिनी परा माता चतुराशीतिगुणोज्ज्वला । । १७.३१ । ।

सम्पूज्य मानसैः पुष्पैरलिफल्ग्वादिभिः क्रमाथ् ।
चतुःसिद्धक्रमाम्नायं स्वामिपादं अनुक्रमाथ् । । १७.३२ । ।

पिण्डयोगस्थितां चाज्ञां संस्मरेन्मध्यतिर्यगां ।
कुब्जिनीकुलं आरूढां अभ्यसन्तः श्रियं लभेथ् । । १७.३३ । ।
शान्तिपुष्टिवशाकृष्टि वाग्विलासं ज्वरापहं ।
मृत्युनाशं पुरक्षोभं सैन्यस्तम्भाम्भशोषणं । । १७.३४ । ।

पशुपाशग्रहस्तोभं दन्तकाष्ठाञ्जलीघटं ।
निर्बीजीकरणाद्यं च वृक्षस्फोटं जलप्लवं । । १७.३५ । ।

मुद्रास्फोटं शिलाच्छेदं वृक्षाणां लभनं महथ् ।
नदीप्रवर्तनस्तम्भो नावादिशकटस्य च । । १७.३६ । ।

अनग्निज्वलनं पातः सैन्यस्तम्भोर्ध्वरोपणं ।
ज्वालास्तम्भं जलस्तम्भं घटसस्त्रगिराचलं । । १७.३७ । ।

स्तम्भयेद्वज्रपातं तु अशन्यौघं निवारयेथ् ।
मारयेट्टालयेच्छैलान्दारयेद्धरणीतलं । । १७.३८ । ।

हस्तवृद्धिर्मनःसिद्धिर्दूराश्रवणदर्शनं ।
वर्तमानं अतीतार्थं भविष्यं च लघुत्वता । । १७.३९ । ।

वाचासिद्धिश्च माहेन्द्रं इन्द्रजालप्रवर्तकं ।
कामरूपान्तरध्यानं ज्ञानं मातृकुलस्य च । । १७.४० । ।

जिह्वाप्रसारणं चान्यं अङ्गैकैकविवर्धनं ।
स्फोटनं शुष्ककाष्ठानां त्रोटनं फलपुष्पयोः । । १७.४१ । ।

मृतकोत्थापनं शीघ्रं दग्धसञ्जीवनं महथ् ।
अकाले वृक्षफलनं पुष्पधान्यावरोहणं । । १७.४२ । ।

परकायप्रवेशं च अन्यजन्मावबोधनं ।
परोक्षमृतकानयनं दृष्टिज्वालाप्रसारणं । । १७.४३ । ।

दन्तवृद्धिकरं ज्ञानं ज्वालाविज्ञानं उत्तमं ।
शरीरे फलपुष्पानि प्रतिमाजल्पकर्षणं । । १७.४४ । ।

जल्पायनं कुमारीणां अन्तर्धानोर्ध्वदर्शनं ।
निरालम्बोर्ध्वरुहणं पररूपापकर्षणं । । १७.४५ । ।

चित्रनृत्यापनं युद्धं शत्रूणां च परस्परं ।
हरणं शब्ददृष्टीनां वर्धतैकैकहेलया । । १७.४६ । ।
परसामर्थ्यहरणं पुंस्त्रियोपकरणं परं ।
अङ्गसङ्कोचनानयनं भूतानां भूतसाधनं । । १७.४७ । ।

पिण्डक्रमस्य पूजायां स्वाधिष्ठानफलं लभेथ् ।
कुब्जानलेन योगेन कुब्जिपिण्डं चतुर्विधं । । १७.४८ । ।

अश्वत्थपत्त्रवत्कुब्जं शुकचञ्चुनिभं परं ।
मणिकुब्जं परं चान्यं रन्ध्रकुब्जं ततोऽपरं । । १७.४९ । ।

एतत्ते संस्फुटं सर्वं कुब्जाम्बीनां चतुष्टयं ।
पिण्डोऽथ पद रूपं च रूपातीतादितः क्रमाथ् । । १७.५० । ।

आद्यं पिण्डस्थिता कुब्जी कुब्जेशीति कुलेश्वरी ।
पदस्था कुब्जिका चान्या महान्तारी महद्भुता । । १७.५१ । ।

रूपस्था कुब्जिनी चान्या बिन्दुस्था बर्बरा परा ।
रूपातीता तु रन्ध्रस्था कुब्जिनी कमलानना । । १७.५२ । ।

विज्ञानानेकविश्लिष्टा एकैका फलदायिनी ।
पिण्डयोगक्रमेणैताः कुब्जिदेहफलप्रदाः । । १७.५३ । ।

मित्रेशानसमायुक्ता कण्ठोष्ठालिङ्गनान्विता ।
गोलान्तपश्चिमान्तस्था शङ्खभेदाद्विनिर्गता । । १७.५४ । ।

विद्युदन्योन्यतारेभ्यो विशत्येका पुनर्द्विधा ।
एवं अभ्यसते यावत्तावत्कामः स्वयं क्षुभेथ् । । १७.५५ । ।

स्वाधिष्ठानगते योगे शाक्ते शक्तिं समभ्यसेथ् ।
अब्दैकेन जगत्सर्वं क्षोभयेत्त्रिदशेश्वरं । । १७.५६ । ।

दुर्भगानां अभाग्यानां अब्दात्सर्वं भविष्यति ।
यः पुनः सर्वथा सिद्धः स सिध्यत्यचिरात्प्रिये । । १७.५७ । ।

सात्त्विकेन तु रूपेण त्यक्तमायासुखोज्झितः ।
पादप्रक्षालनं जुष्टं यो न दद्यात्स सिध्यति । । १७.५८ । ।

एतत्कुलालिकाम्नाये पिण्डकुब्जिचतुष्टयं ।
अविज्ञाय न दातव्यं यावन्नादेशितः शिशुः । । १७.५९ । ।
अनादिविमलमातङ्गी सर्वज्ञा च पुलिन्दिका ।
योगे च शबरी प्रोक्ता सिद्धसंज्ञेति चम्पका । । १७.६० । ।

श्रीभैरव उवाच

अधुना शृणु कुब्जीशे पदग्रन्थिविभञ्जकं ।
क्रमं वक्ष्यामि दिव्यौघं सामर्थ्यादिनिराकुलं । । १७.६१ । ।

आज्ञामोघपदं खञ्जि द्वितीयं कुब्जिनीपदं ।
शक्तिविद्या तृतीयं तु चतुर्थौघपदक्रमं । । १७.६२ । ।

चतुष्पीठविभेदेन पुनः पीठचतुष्पदं ।
षोडशैव पदान्याहुर्ग्रन्थिभूताः पृथक्पृथक् । । १७.६३ । ।

कलन्ति सकलं सर्वं स्थूलसूक्ष्मविभागतः ।
नदन्ति कालरूपस्था[ः] स्थूलसूक्ष्मान्तथान्तिमान् । । १७.६४ । ।

तिथ्याद्यान्तपदं यान्ति वामान्तं दक्षिणं पुनह् ।
चन्द्रसूर्यविभागेन जीवितं मरणं पदं । । १७.६५ । ।

पदैः षोडशभिः सर्वं ग्रन्थिं बद्ध्वाध्वरंऽखिलं ।
कालरूपास्तु ताः कालं हनन्त्युच्चारयोगतः । । १७.६६ । ।

ओ-जा-पू-का-डि-लम्-र्ण-म-आ-ध-गि-रू-ण-र-रि-पू ।
एवं ज्ञाते हनेत्कालं उच्चरन्तोऽनुपूर्वशः । । १७.६७ । ।

अक्षरे अक्षरे ग्रन्थिः पीठं ग्रन्थिचतुष्टयं ।
चतुष्पीठमया योनिश्चतुर्योनिमयंऽखिलं । । १७.६८ । ।

पञ्चमी या परा योनिस्तस्या ग्रन्थिः पदे पदे ।
तया व्याप्तं इदं सर्वं कारणानलमध्यगं । । १७.६९ । ।

तत्पदं परमं प्रोक्तं यत्र सर्वे पदा गताः ।
षोडशाक्षरभेदेन तत्पदं लभते स्फुटं । । १७.७० । ।

प्रथमाधारनन्ताख्या मध्यमाङ्घ्र्याङ्गुलीगता ।
कालग्रन्थिस्तु गुल्फाधो रौद्रीग्रन्थिर्नलान्तरे । । १७.७१ । ।
ज्येष्ठाग्रन्थिर्नितम्बाधो वामे वामाधसंस्थिता ।
कामग्रन्थिर्गुदाधारे पिङ्गग्रन्थिस्ततोर्ध्वतः । । १७.७२ । ।

अधोर्ध्वरोममध्ये तु ब्रह्मग्रन्थिरुदाहृता ।
सोमग्रन्थिस्ततश्चोर्ध्वे सूर्यग्रन्थिस्ततोर्ध्वतः । । १७.७३ । ।

प्राणग्रन्थिः पुनश्चोर्ध्वे जीवग्रन्थिस्ततोर्ध्वतः ।
येन जीवन्ति भूतानि तद्वियोगान्म्रियन्ति च । । १७.७४ । ।

विष्णुग्रन्थिस्तु सा ज्ञेया कण्ठस्था तालुकेऽन्यथा ।
रुद्रग्रन्थिर्महारौद्रा ईशग्रन्थिस्ततोर्ध्वतः । । १७.७५ । ।

सादाख्यस्तु परा ग्रन्थिस्त्रिकोट्योर्ध्वव्यवस्थिता ।
माया शक्तिस्ततश्चोर्ध्वे इच्छानन्दामृताप्लुता । । १७.७६ । ।

षोडशावयवा देवी खेचरी तु खगेश्वरी ।
पद्मस्था पद्ममध्यस्था हंसस्था हंसवाहिनी । । १७.७७ । ।

निष्कला सकला देवी वज्रदेहा मनोन्मनी ।
पदक्रमस्य मध्यस्था पदाङ्गाभरणोज्ज्वला । । १७.७८ । ।

क्रममन्त्रपदालब्धा हेलया चाणिमाष्टकं ।
साधयेन्महता देवी षोडशाक्षरसम्भवा । । १७.७९ । ।

मालिनी सिद्धदेहा सा त्रितत्त्वार्चिघनोज्ज्वला ।
अघोर्याष्टकसंयुक्ता द्वादशाङ्गप्रपूरिता । । १७.८० । ।

षडङ्गावयवोपेता दिव्यदेहा महाबला ।
असिताङ्गतनूद्भूता मन्त्रदेहा महेश्वरी । । १७.८१ । ।

मालिनी शब्दराशिश्च त्रिविद्याघोरिकाष्टकं ।
द्वादशाङ्गषडङ्गं च एतद्देहं कुलात्मकं । । १७.८२ । ।

ललाटकण्ठवक्षस्थं गुह्याङ्घ्रौ रत्नपञ्चकं ।
श्लोकद्वादशभिर्माला पादादौ चूलिकावधिं । । १७.८३ । ।

ब्रह्मसूत्रोज्ज्वला देव्याः स्कन्धोभौ तद्ग्रहान्वितौ ।
पञ्चबीजैर्मुखकोषं पञ्च्ॐकारैः खिलं न्यसेथ् । । १७.८४ । ।

श्रीकुब्जिका उवाच

परमं वद कौलेश पदमन्त्रा यथा स्थिताः ।
यत्र स्थाने नियोक्तव्याः स्फुटैकैकं पृथक्पृथक् । । १७.८५ । ।

श्रीभैरव उवाच

कथयामि वरारोहे पदार्थार्थपदं यथा ।
सिद्धमन्त्रोपदेशोऽयं प्रकटार्थं वदामि ते । । १७.८६ । ।

मूर्ध्नि वक्त्राक्षिणौ कर्णौ नासागण्डौ द्विजौष्ठकौ ।
भारतीशङ्खिनीद्वारे श्रीकण्ठात्सेनकावधिं । । १७.८७ । ।

क्रमेण षोडशैवैतान्दक्षिणादौ पदा न्यसेथ् ।
दन्तौष्ठादिं अधो न्यस्य भारतीशङ्खिकावधिं । । १७.८८ । ।

क्रोधादावेकरुद्रान्तं स्कन्धादौ चाङ्गुलावधिं ।
दक्षिणे वामतोऽप्येवं कूर्मादौ शर्मकावधिं । । १७.८९ । ।

सोमेश्वराद्युमाकान्तं स्फिचादौऽङ्घ्र्यान्त दक्षिणं ।
वामतोऽषाढिमेषान्तं पार्श्वौ लोहिशिखान्वितौ । । १७.९० । ।

छगलण्डं तु वंशस्थं द्विरण्डं नाभिमण्डले ।
हृदये तु महाकालं अष्टकं पुरतोऽन्यथा । । १७.९१ । ।

वालिभौजङ्गपैनाक- खड्गीशबकश्वेतकाः ।
भृगुलाकुलसंवर्ताः कालप्राणसशुक्रगाः । । १७.९२ । ।

मज्जास्थिस्नायुमांसस्था रक्तत्वग्वालिमादितः ।
अनुलोमविलोमेन कालवेलादितः क्रमाथ् । । १७.९३ । ।

नादिनी तु शिखाग्रस्था नकाराक्षरसम्भवा ।
ऋ-ॠ-ळ्-í निवृत्त्याद्या मालिका शिरसि स्थिता । । १७.९४ । ।

थ शिरो ग्रसनी देवी ध नेत्रे प्रियदर्शना ।
ई गुह्यशक्ति नादस्था नासायां नेत्रमध्यतः । । १७.९५ । ।
व्यापयित्वा स्थिता देवी च तृतीयं तु लोचनं ।
चामुण्डा परमेशानी ललाटस्था विराजते । । १७.९६ । ।

बकारं वदनं देव्या वज्रिणी शक्तिरव्यया ।
कवर्गे दशनास्तीक्ष्णाः कङ्कटा कालिका शिवा । । १७.९७ । ।

घोरघोषा मुखीवीरा कवर्गे दसना[ः ] शुभाः ।
मायादेवी इ जिह्वा तु अ वाग्वागेश्वरी मता । । १७.९८ । ।

नारायणी ण कर्णौ तु तयोर्भूषणं ई-परौ ।
मोहनी च तथा प्रज्ञा व कण्ठे शिखिवाहिनी । । १७.९९ । ।

लामा विनायकी देवी डढौ बाहुद्वयं मतं ।
पौर्णिमा हस्तदेशस्था ठकाराख्यं विभोर्मतं । । १७.१०० । ।

झङ्कारी कुर्दनी चैव झञौ चाङ्गुलयः क्रमाथ् ।
कपालिनी वामकरे टकारः परमेश्वरी । । १७.१०१ । ।

दीपनी शूलदण्डं च रेफः सम्यगुदाहृतं ।
जयन्ती ज भवेच्छूलं एवं देवी विराजते । । १७.१०२ । ।

भीषणा वायुवेगा च स्कन्धयोरुभयोरपि ।
पावनी तु प हृल्लग्ना षोदरं लम्बिका स्थिता । । १७.१०३ । ।

संहारिका क्षकारोऽयं नाभिर्देव्या[श्] च भैरवि ।
छगली पूतना चैव स्तनौ छलौ परिस्थितौ । । १७.१०४ । ।

आमोटी तद्गतं क्षीरं आवर्णः परिकीर्तितः ।
परमात्मा सकारोऽयं ह प्राणे शक्तिरम्बिका । । १७.१०५ । ।

इच्छाशक्तिर्विसर्गाख्या व्याप्यभावेन संस्थिता ।
म नितम्बं महाकाली श गुह्यं कुसुमायुधा । । १७.१०६ । ।

शुक्रा देवी त्वनुस्वारं शुक्रं देव्यास्तु भैरवि ।
तारा तकारं ऊरुस्था ए ऐ ज्ञानीक्रियावुभौ । । १७.१०७ । ।

जानुनी संस्थितौ देवि भैरव्याश्च महात्मनः ।
गायत्री चैव सावित्री ओ औ जङ्घौ प्रकीर्तितौ । । १७.१०८ । ।
दहनी दक्षपादस्था वामे फेत्कारिका मता ।
नादिफान्ता वरारोहे देहं शक्तिमयं शुभं । । १७.१०९ । ।

सिद्धपञ्चाशकोपेतं मालिन्यार्धशतान्वितं ।
एवं शतं समाख्यातं योज्यमानं तनौ भृतं । । १७.११० । ।

पदद्वयं समाख्यातं तत्र हंसो व्यवस्थितः ।
यावच्चरति तौ द्वौ तु तावदात्मा समाप्यते । । १७.१११ । ।

पदमानं अशेषं तु अत्र सर्वं समाप्यते ।
आज्ञातो भुञ्जते कालं पदं ज्ञात्वाजरामरं । । १७.११२ । ।

इति कुलालिकाम्नाये श्रीकुब्जिकामते पदद्वयहंसनिर्णयो नाम सप्तदशमः पटलः


श्रीभैरव उवाच

पदग्रन्थिसमालब्धस्तत्त्वग्रन्थिसमाश्रितः ।
कुब्जिग्रन्थिपदान्तस्थो हंसभेदपदं व्रजेथ् । । १८.१ । ।

हंसभेदे परा शक्तिः सहजा शिवतत्त्वगा ।
सा विद्या प्रथमा ज्ञेया द्वितीया तु परापरा । । १८.२ । ।

चत्वारिंशत्पदा ज्ञेया विद्यातत्त्वे निवेशिता ।
हंसग्रन्थिसमारूढां प्रकटार्थं वदामि ते । । १८.३ । ।

सोमेश्वरं समुद्धृत्य पतितं सुरनायिके ।
शिखीशं केवलं पश्चाल्लाकुलं तदनन्तरं । । १८.४ । ।

अर्घीशासनसंस्थं हि बिन्दुना मस्तके हतं ।
लाकुलं पुनरुद्धृत्य भुजङ्गासनसंस्थितं । । १८.५ । ।

त्रिमूर्तिना च चाक्रान्तं शून्यमस्तकभूषितं ।
शिखीशं वह्निसंयुक्तं झण्टीशेन समन्वितं । । १८.६ । ।

क्रूरानन्देन सम्भिन्नं लाकुली तदनन्तरं ।
भुजङ्गेन तु सन्दीप्तं अर्घीशासनसंस्थितं । । १८.७ । ।

तदेवं लाकुलीशं तु भुजङ्गाधारं ईश्वरं ।
त्रिमूर्तिना तु चाक्रान्तं अं क्रूरं शिरसि स्थितं । । १८.८ । ।

भुजङ्गं तु चतुर्धा वै कर्तव्यं तु कुलेश्वरि ।
केवलं द्वितयं देवि अमरीशद्वितयान्वितं । । १८.९ । ।

लाकुलं तु ततो देयं झण्टीशेन तु भेदितं ।
महासेनाहतं देवि लाकुलीशं समुद्धरेथ् । । १८.१० । ।

खड्गीशं केवलं गृह्य लोहितं तदनन्तरं ।
सूक्ष्मानन्देन सम्भिन्नं महाकालं तु केवलं । । १८.११ । ।

खड्गीशं केवलं पश्चादुमाकान्तं ततः पुनः ।
झण्टानन्देन सम्भिन्नं श्वेतानन्दं कुलाधिपे । । १८.१२ । ।

केवलं तु स्मृतं भद्रे द्विरण्डं तदनन्तरं ।
त्रिमूर्तिना तु चाक्रान्तं महाकालं ततः पुनः । । १८.१३ । ।

द्विरण्डं तु पुनर्देवि त्रिमूर्त्यालङ्कृतं कुरु ।
सूक्ष्मानन्देन सम्भिन्नं चण्डानन्दं यशस्विनि । । १८.१४ । ।

महाकालं पुनः पश्चादमरीशासनस्थितं ।
भुजङ्गं केवलं देवि शिवेशं सद्यसंयुतं । । १८.१५ । ।

लाकुली भृगुसंयुक्तं नुग्रहीशान्वितं प्रिये ।
क्रूरदेवं शिरस्थं हि लोहितं झण्टिनाहतं । । १८.१६ । ।

रक्तं चैवार्घिना युक्तं भुजङ्गं केवलं पुनः ।
शिवानन्दं तु देवेशि सद्योजातेन भेदितं । । १८.१७ । ।

लाकुलं अर्घिना युक्तं शून्यमस्तकभूषितं ।
भुजङ्गं झण्टिदेवेन भेदितं कुरु पार्वति । । १८.१८ । ।

शिवोत्तमं ततः पश्चात्सद्योजातेन भूषितं ।
केवलं तु महाकालं भुजङ्गं केवलं पुनः । । १८.१९ । ।
लोहितं तु पुनः पश्चान्महासेनं ततः पुनः ।
आसनस्थं भृगोर्देवि लाकुलीशं समुद्धरेथ् । । १८.२० । ।

लाकुलीशं पुनर्भद्रे भुजङ्गासनसंस्थितं ।
त्रिमूर्तिना तु चाक्रान्तं क्रूरानन्दसमन्वितं । । १८.२१ । ।

झण्टिना भेदितं देवि भुजङ्गं कारयेत्ततः ।
शिवानन्दं ततोद्धृत्य सद्यानन्दान्वितं कुरु । । १८.२२ । ।

श्रीकण्ठं केवलं पश्चाद्भौक्तिकं बिन्दुना युतं ।
एषा परापरा देवी उद्धृता तु विलोमतः । । १८.२३ । ।

चत्वारिंशद्द्वयो वर्णा अर्धवर्णान्विता प्रिये ।
एषा विद्या तथा प्रोक्ता विद्यातत्त्वे निवेशयेथ् । । १८.२४ । ।

देव्या चैवात्मतत्त्वस्था क्रियाशक्त्यापरा पुनः ।
अर्धसप्ताक्षरा देवी विलोमेन ततः शृणु । । १८.२५ । ।

पतितं ईश सोमं हि शिखीशं केवलं ततः ।
लाकुलं अर्घिना युक्तं शिखीशं भुजगान्वितं । । १८.२६ । ।

झण्टीशेन समायुक्तं लाकुलं रक्तसंस्थितं ।
द्विधा भूतं तु कर्तव्यं भेदं चात्र वदामि ते । । १८.२७ । ।

अर्घिना पूर्व सम्भिन्नं अपरं तु त्रिमूर्तिना ।
भौक्तिकं केवलं देवि उद्धृतं परमाक्षरं । । १८.२८ । ।

बिन्दुनादान्विताः पञ्च कर्तव्यास्तु यशस्विनि ।
अपरेयं इमा विद्या सर्वस्वं योगिनीकुले । । १८.२९ । ।

परां देवीं ततो वक्ष्ये शिवतत्त्वानुसारिणीं ।
लाकुलं भृगुसंस्थं हि भुजङ्गेन समन्वितं । । १८.३० । ।

अर्घीशासनं आरूढंऽनुग्रहीशेन भेदितं ।
बिन्दुनादकलाक्रान्तं उद्धृतं परमं प्रिये । । १८.३१ । ।

प्रणवोच्चारसंयुक्ता विद्या तत्त्वत्रयात्मिका ।
शब्दमालिनिमूर्तिस्था विद्यादेहगुणोज्ज्वला । । १८.३२ । ।
पुर्याष्टकं अघोरिस्थं यथावस्थां वदामि ते । । १८.३३ । ।

ह्रीं रु अघोरे ह्रीं श्ॐ अघोर्यायै प्रथमं शिरः । । १८.३४,१ । ।
ह्रीं रु परमघोरे हूं श्ॐ परमघोरायै मुखं । । १८.३४,२ । ।
ह्रीं रु श्ॐ घोररूपे श्ॐ घोररूपायै हृदि । । १८.३४,३ । ।
ह्रीं रु श्ॐ घोरमुखि श्ॐ घोरमुख्यै गुह्ये । । १८.३४,४ । ।
ह्रीं फट्भीमनामे श्ॐ भीमायै दक्षिणभुजे । । १८.३४,५ । ।
ह्रीं हूं भीषणे श्ॐ भीषणायै वामतो भुजे । । १८.३४,६ । ।
श्ॐ ह्रीं हः वम श्ॐ वमन्यै दक्षिणोरु । । १८.३४,७ । ।
ह्रीं हूं फट्पिब हे श्ॐ पिबन्यै वामतोरु । । १८.३४,८ । ।

एतत्पुर्याष्टकं देव्या अघोर्याष्टकसंयुतं ।
न्यसेदष्टविधाङ्गं तु अष्टपत्त्रेषु साधकः । । १८.३५ । ।

अतोर्ध्वं द्वादशाङ्गं तु देहनिष्पत्तिकारणं ।
पादादौ शिरसो यावन्न्यसेदङ्गे यथोदितं । । १८.३६ । ।

सिद्धाईति सहं पद्भ्यां ऋद्धाई जानुनी सहां ।
विद्युतायै सहिं ऊरुभ्यां सहीं लक्ष्मीति गुह्यगा । । १८.३७आ । ।

दीप्ताइका सहुं नाभौ सहूं नालाइका हृदि ।
सहें शिवाइका कण्ठे सहैं वसुमुखी मुखे । । १८.३७B् । ।

सहों नासा वमन्यायै कर्णे नन्दिनिका सह्ॐ ।
हरिकेशा सहं त्र्यक्षी महामुख्यै सहः शिरे । । १८.३७C । ।

अनेन दृढितो ह्यात्मा जीवभूतः स्थिरीकृतः ।
षडङ्गन्यासयोगेन व्यक्तत्वं भजते तु सः । । १८.३८ । ।

शां सर्वज्ञ हृदयाय नमः । । १८.३९,१ । ।
अमृते तेजोमालिनि तृप्ति शिरसे शीं स्वाहा । । १८.३९,२ । ।
वेदवेदिनि हूं फट्शूं अनादिबोधाय शिखायै वौषठ् । । १८.३९,३ । ।
शैं वज्रिणे वज्रधराय स्वतन्त्र कवचाय हूं । । १८.३९,४ । ।
श्ॐ नित्यं अलुप्तशक्ति श्ॐ व्ॐ ध्ॐ सहजे त्रिनेत्ररूपिणे नमस्तुभ्यं अनन्तशक्ति । । १८.३९,५ । ।
शः श्लीं पशु हूं फट्पाशुपतास्त्राय सहस्राक्षाय हूं फठ् । । १८.३९,६ । ।

षडङ्गन्यासयोगेन परादेहं पराध्वरं ।
एवं निष्पन्नदेहस्य स्लोकद्वादशमेखला । । १८.४० । ।
तद्ग्रहेण तु योगेन ब्रह्मसूत्रं विलम्बयेथ् ।
शिरःप्रभृति पादान्तं पञ्चरत्नविभूषितं । । १८.४१ । ।

यत्र यत्पदविन्यासं तत्कुब्जीशे-म्-अतः शृणु । । १८.४२ । ।

ऐं हः अ परमानन्दे हः आ सिद्धिदानन्दने हः इ परापरे ह्रूं फ्रें फट्क्षः ई श्रीकुलाम्बिके । । १८.४३,१ । ।
ऐं हः उ कालरुद्रस्थे हः ऊ ऋद्धिबलान्विते हः ऋ शिरोहारे ह्रूं फ्रें फट्क्षः ॠ श्रीकुलाम्बिके । । १८.४३,२ । ।
ऐं हः ळ् नरकान्तस्थे हः í गुह्यमहाम्बिके हः ए सृष्टिगते ह्रूं फ्रें फट्क्षः ऐ श्रीकुलाम्बिके । । १८.४३,३ । ।
ऐं हः ओ कुण्डलगुह्यान्ते हः औ कुण्डललक्ष्मिके हः अं कुण्डलिनी ह्रूं फ्रें फट्क्षः अः कुलमालिनी । । १८.४३,४ । ।
ऐं हः क कमलदीप्ते हः ख कुण्डलनाभिगे हः ग कालहरे ह्रूं फ्रें फट्क्षः घ स्वतेजशिवे । । १८.४३,५ । ।
ऐं हः ङ कमलमाले हः च क्रमसौहृदि हः छ पापहने ह्रूं फ्रें फट्क्षः ज कामरूपिणी । । १८.४३,६ । ।
ऐं हः झ कण्ठकूपस्थे हः ञ शैवामृतात्मिके हः ट चन्द्रात्मिके ह्रूं फ्रें फट्क्षः ठ सुखदेश्वरी । । १८.४३,७ । ।
ऐं हः ड कुहरान्तस्थे हः ढ स्ॐउख्यतामने हः ण स्वानन्दने ह्रूं फ्रें फट्क्षः त कालनाशनी । । १८.४३,८ । ।
ऐं हः थ कालवमनि हः द चोग्रानुनासिके हः ध करोति सा ह्रूं फ्रें फट्क्षः न कालरोदनी । । १८.४३,९ । ।
ऐं हः प श्रावणान्तस्थे हः फ सिद्धिं आश्रिते हः ब करोति सा ह्रूं फ्रें फट्क्षः भ पारमेश्वरी । । १८.४३,१० । ।
ऐं हः म कालकलातीते हः य श्रीबिन्दुनेत्रगे हः र श्रीहारिके ह्रूं फ्रें फट्क्षः ल सृष्टिबिन्दुगे । । १८.४३,११ । ।
ऐं हः व प्रकटगुप्ते हः श महामुखे परे हः ष स्वाकाशगे ह्रूं फ्रें फट्क्षः स श्रीकुजाम्बिके । । १८.४३,१२ । ।

अजचक्रेश्वरी रेखा द्वितीया कादिभान्तगा ।
मादिसान्ता तृतीया तु त्रिभि रेखैः स्वरेश्वरी । । १८.४४ । ।

अम्बिका शूलदण्डस्था गुह्यशक्त्या विभूषिता ।
बिन्दुनादसमायुक्ता उद्धृतं परमाक्षरं । । १८.४५ । ।

श्रीकण्ठ अम्बिका चैव द्विधारूपा तु कारयेथ् ।
पुनरम्बा च फेत्कारी दीपन्यासनसंस्थिता । । १८.४६ । ।

प्रज्ञाभूषितं एकं हि ज्ञानदेव्या द्वितीयकं ।
बिन्दुनादयुते द्वे तु संहार्या इच्छयान्विता । । १८.४७ । ।

श्रीकण्ठादिभृगोऽन्ता वै संस्थिता कुलपद्धतिः ।
अनेन विधिना देवि भिन्ना तु कुलपद्धतिः । । १८.४८ । ।

परामृतपदं ह्येतत्श्लोकानां दशकं द्विकं ।
एतस्मिन्पठिते देवि क्षुभ्यन्ते मातरः सदा । । १८.४९ । ।

सद्यावेशः प्रजायेत कवित्वं तस्य जायते ।
आज्ञावेधादिका सिद्धिः पठितेऽ स्मिन्प्रजायते । । १८.५० । ।
त्वया न कथ्यं अभक्तेष्वित्याज्ञा पारमेश्वरी ।
श्लोकद्वादशकं ह्येतद्वटमालाविभूषितं । । १८.५१ । ।

वडवानल मन्तव्यं पादादौ मस्तकावधिं ।
मेखलेयं न्यसेद्देवि विलोमेनोपदेशतः । । १८.५२ । ।

उच्चारं तस्य चावेशं स्थाने स्थाने प्रवर्तते ।
गोपनीयं प्रयत्नेन न देयं यस्य कस्यचिथ् । । १८.५३ । ।

जीवस्य रक्षणं ह्येतदन्यथा हानिकृद्भवेथ् ।
तद्ग्रहोऽन्यं न्यसेद्देवि ब्रह्मसूत्रविभूषणं । । १८.५४ । ।
देदीप्यन्तं प्रचण्डोग्रं यथावस्थं तथा शृणु । । १८.५५ । ।

अन ऐं । आ थ ह्रीं । इ ऋ अ । ई ऋ घो । उ ळ् रे । ऊ í ह्रीं ।
ऋ च ह्सः । ऋ ध प । ळ् ण र । í उ म ।
ए ऊ घो । ऐ ई रे । ओ ब हूं । औ क घो । अं ख र । अः ग रू ।
क घ पे । ख ङ ह्स्ॐ । ग इ घो । घ अ र । ङ व मु ।
च भ खि । छ य भी । ज ड म । झ ढ भी । ञ ठ ष ।
ट झ णे । ठ ञ व । ड अः म । ढ ट व । ण र म ।
त ज पि । थ प व । द स पि । ध ह व । न छ ह ।
प ल हे । फ आ रु । ब ष रु । भ क्ष रु । म म रु ।
य श र । र अं र । ल त र । व ए र ।
श ऐ ह्रीं । ष ओ हूं । स औ फ्रें ।
ह द ह्स्ॐ । क्ष फ ऐं । । १८.५५ । ।

रुद्रशक्तित्रयं ह्येतदानन्दपदसंस्थितं ।
अन्योन्यवलयाकारं पञ्चाशत्पदभूषितं । । १८.५७ । ।

वामरौद्रान्तदक्षस्थं दक्षरौद्रान्तवामगं ।
रौद्रारौद्रसमायुक्तं त्रिरौद्रं तद्ग्रहोऽप्ययं । । १८.५८ । ।

वागेश्वरी तथा माया मोहनी च तृतीयका ।
ज्ञानदेवी च गायत्री रत्नाः पञ्च इमे स्मृताः । । १८.५९ । ।

न्यासमात्रेण चावेशं उच्चाराद्भवते स्फुटं ।
पिण्डस्य बन्धनं ह्येतद्दुष्टसिंहविनाशनं । । १८.६० । ।

तद्ग्रहाबद्धमूलं तु पञ्चरत्नोपशोभितं ।
रत्नाङ्गी रत्नदेहा तु रत्नानां निर्णयं शृणु । । १८.६१ । ।

रत्नान्यमृतं इत्युक्तं पञ्चधा त्वमृतं प्रिये ।
पिण्डबन्धं विना तेन जीवितं तु न विद्यते । । १८.६२ । ।

गगनामृतरत्नं तु स्वर्गरत्नामृतं तथा ।
पातालमर्त्यरत्नं च नारकं रत्नपञ्चकं । । १८.६३ । ।

देवीदेहात्समुद्भूतं देवीदेहाद्विनिर्गतं ।
ज्ञानवीर्यः सवीर्यस्तु अज्ञाते वीर्यहानिकृथ् । । १८.६४ । ।

तृतीयं दशनं देव्या आत्महृत्स्थं नितम्बगं ।
शिखान्तसहितं ह्येतत्स्तनवामोपरिस्थितं । । १८.६५ । ।

कर्णभूषणवामस्थं बीजेनाहतमस्तकं ।
पञ्चरत्नादियोगस्य पदोद्धारः प्रकीर्तितः । । १८.६६ । ।

प्राणं वह्निसमारूढं गुह्यशक्त्या विभूषितं ।
बिन्दुमस्तक चाक्रान्तं पञ्चरत्नविभेदकं । । १८.६७ । ।

एकैकं रक्षितं रत्नं योगिनीभिर्यथा यथा ।
तत्तथा शृणु कल्याणि व्याप्तिभेदो यथा स्थितः । । १८.६८ । ।

चतुःषष्टिगणं व्योम्नि द्वात्रिंसत्स्वर्गचारिणः ।
पातालं षोडशैर्व्याप्तं मर्त्यं चैवाष्टकान्वितं । । १८.६९ । ।

निरयस्थास्तु चत्वारि रत्नानां अधिदेवताः ।
तद्दीप्तिभासका ज्ञाता अज्ञाता दीप्तिहारिकाः । । १८.७० । ।

रत्नप्रभावं अतुलं देदीप्यार्चिसमुज्ज्वलं ।
तत्प्रभावाद्वरारोहे योगिन्यो बलवत्तराः । । १८.७१ । ।

अतोऽर्थं गोपयन्त्येतास्तद्वीर्यगुणवत्तराः ।
रक्षन्ति स्वामिनोद्दिष्टा अनादिष्टं हरन्ति ताः । । १८.७२ । ।

अमीषां दर्शनात्स्पर्शात्पदार्थपदयोगतः ।
दिव्यदेहत्वं आप्नोति उच्चारात्क्षोभकृद्भवेथ् । । १८.७३ । ।

षोडशावयवं पिण्डं षोढान्याससुयन्त्रितं ।
श्लोकमालान्वितं दिव्यं तद्ग्रहावलिभूषितं । । १८.७४ । ।

पञ्चरत्नकृताटोपं परास्यं अकुलान्वितं ।
एवं कृत्वा शरीरस्थं न्यासमण्डलभृत्तनुं । । १८.७५ । ।

देव्या देहं परं ह्येतच्छाम्भवं पदपूर्वकं ।
वडवानलयोगस्थं पददेहं पदोद्भवं । । १८.७६ । ।

पददेहोपदेशेन योगीन्यासपरायणः ।
कृत्वा न्यासं अशेषं तु यस्तिष्ठति सुभावितः । । १८.७७ । ।

तस्य दुष्टान्यनेकानि विघ्नानि प्रभवन्ति न ।
शाकिनीभूतवेतालाः पिशाचोरगराक्षसाः । । १८.७८ । ।

सिंहव्याघ्रगजा ऋक्षा दुष्टचित्तान्यनेकधा ।
ये हिंसन्ति यदालब्धं तेषां प्रत्यङ्गिरा भवेथ् । । १८.७९ । ।

आपदो रक्षयेत्सर्वा आत्मनश्च परस्य च ।
प्रचण्डयोगिनीघ्रातो नीतो वा यमशासनं । । १८.८० । ।

न्यस्त्वा षोडशवारेयं सत्येदं न म्रियेत्तु सः ।
सकृन्न्यासे कृते देवि ब्रह्महत्यादिपातकैः । । १८.८१ । ।

सम्पर्केऽपि न लिप्योऽसौ साधयेदितरांस्तु सः ।
सत्यं सत्यं पुनः सत्यं प्रत्यक्षेदं पराध्वरं । । १८.८२ । ।

कृतन्यासः पतेत्पद्भ्यां यस्यासौ म्रियते ध्रुवं ।
गुरोस्तु न पतेत्पादे यावेदं देहसंस्थितं । । १८.८३ । ।

व्याधिदुःखं भवेत्तस्य यद्याक्रोशेन्म्रियेत्तु सः ।
ज्ञाते सति न कर्तव्यं यावद्गुरुकुले वसेथ् । । १८.८४ । ।

गुरुहानिकृते शिष्यो न नन्दत्यवशं प्रिये ।
आज्ञानिष्ठो गुणश्रेष्ठः क्रमज्ञौघविशारदः । । १८.८५ । ।

स्वाधिकारी तु नान्यो वै वाचाज्येष्ठोऽभिवादयेथ् ।
पूर्वसिद्धेषु लिङ्गेषु सुसिद्धप्रतिमासु च । । १८.८६ । ।
कृतन्यासः पतेत्पादौ स्फुटत्याशु न संशयः ।
सदा प्रवर्तते यस्तु न्यासं देहस्य भाविनि । । १८.८७ । ।

अनुष्ठानादृते तस्य ऊर्ध्वेनोत्क्रमणं भवेथ् ।
त्रिकालन्यासयोगेन अर्धरात्रे तथा पुनः । । १८.८८ । ।

अनेन विधिना कालं क्षपयन्ति महाम्बिके ।
अन्यं च परमं देवि ग्रन्थिभेदं सुदुर्लभं । । १८.८९ । ।

हंसभेदप्रयोगेन न्यासं वक्ष्यामि दुर्लभं ।
ओ-जा-पू-काम-मध्यस्थं हृन्नाभौ लिङ्गमध्यगं । । १८.९० । ।

पीठं वा पदसंयुक्तं आद्यग्रन्थिचतुष्टयं ।
ओघानन्दं जयानन्दं पुरानन्दं तृतीयकं । । १८.९१ । ।

कमलानन्दसंयुक्तं आद्यभेदचतुष्टयं ।
डिक्करियाण लम्पार्णं महानन्दपुरं तथा । । १८.९२ । ।

कर्णौ मुखे तु नासाद्यं पीठं वा पदसंयुतं ।
द्वितीयं पदग्रन्थीनां न्यासोऽयं परिकीर्तितः । । १८.९३ । ।

अष्टकोटिसुविस्तीर्णं त्रिकोट्यर्धं अतः शृणु ।
आमर्दकं धरापीठं गिराङ्कं रूपिणीपुरं । । १८.९४ । ।

द्वौ शङ्खावूर्ध्वमायान्तं मध्यकोटिगतं न्यसेथ् ।
पीठं वा पदसंयुक्तं त्रिस्थं ग्रन्थिचतुष्टयं । । १८.९५ । ।

मायानिरोधिमध्यस्थं अन्यग्रन्थिचतुष्टयं ।
ज्ञानशृङ्गं रमाशृङ्गं ऋषिशृङ्गं तृतीयकं । । १८.९६ । ।

पूर्णशृङ्गसमायुक्तं पीठं वा पदसंयुतं ।
सिद्धक्रमसमायुक्तं गुरुपङ्क्तिसमन्वितं । । १८.९७ । ।

ज्ञानदृष्ट्या न्यसेत्तं तु चतुष्केदं कुलाकुलं ।
एतत्कुलाकुलं दिव्यं सर्वसाधारणं परं । । १८.९८ । ।

पदभुक्तिमतानां च पदेदं परिकीर्तितं ।
अन्यत्परतरो देहः कोटिद्वादशं आश्रितः । । १८.९९ । ।
अकुलीनपदाध्वानं निराधारं खगालयं ।
अकुलव्याप्तिरित्येषा क्षेत्रपीठसमाकुला । । १८.१०० । ।

साचारकुलयोगीनां षण्नवत्यापदानुगा ।
चतुराशीतिपदैर्व्याप्तिः सा चान्यत्र प्रकाशिता । । १८.१०१ । ।

येषां ते तु पुनस्तत्र व्यावृतन्ते पुनः पुनः ।
षण्नवतिपदो हंसः स चाम्नायविदां विदुः । । १८.१०२ । ।

सिद्धकौलाभिपन्नानां इतरेषां न दर्शितः ।
तत्र दिव्यक्रमः पूज्यः पदचारेण योगिना । । १८.१०३ । ।

येन गच्छेन्निराचारं तत्पदं परमं शृणु ।
द्वादशाधारमूर्ध्निस्थं चतुष्पीठसमुच्छ्रितं । । १८.१०४ । ।

क्षेत्राष्टकं ततोऽधस्तात्सन्दोहानि ततोऽप्यधः ।
षोडशैव प्रमाणेन चतुर्द्वारं ततस्त्वधः । । १८.१०५ । ।

उपशब्दसमोपेतं उपद्वारविवर्जितं ।
अकुलीनशरीरेदं चतुःषष्टिपदान्वितं । । १८.१०६ । ।

तस्मात्सञ्जायते सर्वं सर्वं तत्रैव लीयते ।
तत्र ध्यानं जपं योगं तत्र पूजाक्रियाध्वरं । । १८.१०७ । ।

अत्र स्थितो न केनापि वस्तुना बाध्यते तु सः ।
परो ह्यात्मा परा विद्या परः शैवः सनातनः । । १८.१०८ । ।

अकुलीनतनुर्बद्धः परतत्त्वत्रयेण तु ।
आत्मतत्त्वगतं पिण्डं सततं योगं अभ्यसेथ् । । १८.१०९ । ।

विद्यातत्त्वगता मन्त्राः पदयोगसमन्विताः ।
शिवतत्त्वगतो योगं रूपाभ्यासं समभ्यसेथ् । । १८.११० । ।

शिवतत्त्वगतो योगं रूपातीतं तु तत्र वै ।
पिण्डं कुण्डलिनी शक्तिः पदं हंसः प्रकीर्तितः । । १८.१११ । ।

रूपं बिन्दुः समाख्यातं रूपातीतं अनामयं ।
कुलदेहं परित्यज्य अकुलीनवपुःस्थितः । । १८.११२ । ।
स च वै सकलः पिण्डः कौलिकानां कुजीमते ।
अपरं पाशवं सर्वं त्रितत्त्वगुणलक्षणं । । १८.११३ । ।

शैवमार्गविहीनानां शैवानां अन्यधर्मिणां ।
प्रसिद्धेन तु मार्गेण प्रसिद्ध्यर्थं भजन्ति ते । । १८.११४ । ।

अप्रसिद्धोज्झिते सिद्धा न पश्यन्त्यकुलां तनुं ।
अकुलेन विना सिद्धिरैहिका पात्रिका न हि । । १८.११५ । ।

प्रसिद्धविहिते मार्गे मोक्षश्चात्र न संशयः ।
अप्रसिद्धगता ऋज्वी षोडशान्तामृताह्रदं । । १८.११६ । ।

आपूर्य पूरयेत्सर्वं जीवान्तं जीवरूपिणी ।
सुप्रसिद्धाक्षभूता तु कालसङ्ख्याकरी तु सा । । १८.११७ । ।

संसारे तु गतिस्तस्या मोक्षमार्गनियामिका ।
विंशत्येकसहस्राणि षट्शतैश्च समन्विता । । १८.११८ । ।

संसारी कुरुते सङ्ख्या ह्यहोरात्रोपदेशतः ।
अपरेण तु मार्गेण संसारपथलक्षणं । । १८.११९ । ।

अहोरात्रेण लक्षैकं कालसङ्ख्यां करोति सः ।
सप्तादशानि लक्षाणि कोटिरेका त्वहमिशि । । १८.१२० । ।

चतुराशीति पदेत्येवं कालः कलति सर्वथा ।
पदमार्गविदानां तु सकलादजरामरः । । १८.१२१ । ।

शिवमार्गविदानां तु सिद्धमार्गेऽन्यथा शृणु ।
कोटिद्वादशकोपेतं कोटिलक्षचतुष्टयं । । १८.१२२ । ।

अहोरात्राक्षसूत्रस्य सङ्ख्येयं ह्यकुले तनौ ।
अकुलेशतनुं यावत्साचारं कुलयोगिनां । । १८.१२३ । ।

तच्छरीरभृतानन्दो निराचारपदं व्रजेथ् ।
कुलाध्वरपदं हृत्स्थं तत्रस्थं परमं क्रमं । । १८.१२४ । ।

पूजयेद्धृत्स्तनौ नाभिं सिद्धाव्वापीठपादुकौ ।
श्रीमद्बर्बरं ओड्डीशं पदस्थौघमहार्णवं । । १८.१२५ । ।
पूजयित्वा स्मरेत्तस्थां अब्देनोक्तफलं लभेथ् ।
द्विभिस्तु अधमा सिद्धिस्त्रिभिर्मध्यमतां व्रजेथ् । । १८.१२६ । ।

षड्भिर्द्वादशकाब्देन खेचर मध्यमोत्तमः ।
अधमं भूचरं कर्म मध्यमं बिलसाधनं । । १८.१२७ । ।

उत्तमोत्तमसिद्धीभिः खेचरः खेचरोर्ध्वगः ।
एवं देवि समस्तेदं पदयोगक्रियाध्वरं । । १८.१२८ । ।

कथितं सरहस्यं तु पदमार्गं सुदुर्लभं ।
पदस्यापि हि रूपोऽस्ति रूपातीतं तु सङ्क्रमः । । १८.१२९ । ।

हंसज्ञानपदं प्रोक्तं रूपस्थं शृणु साम्प्रतं । । १८.१३० । ।

इति कुलालिकाम्नाये श्रीकुब्जिकामते चतुष्कस्य पदभेदं अष्टादशमः पटलः


श्रीभैरव उवाच

रूपं तु द्विविधं प्रोक्तं स्थूलसूक्ष्मं प्रकीर्तितं ।
स्थूलं एकविधं भद्रे सूक्ष्मरूपं अनन्तगं । । १९.१ । ।

कण्ठकूपादितः कृत्वा निरोध्यान्तं अपश्चिमं ।
रूपोपलब्धिसंस्थानं विज्ञानानन्दपूरितं । । १९.२ । ।

प्रमाणं रूपमार्गस्य विंशत्कोट्येकसंस्थितं ।
मायावधिस्तु कूपादौ अत्र विज्ञानसम्भवः । । १९.३ । ।

एतद्रूपपदैर्व्याप्तं रूपचक्रसमन्वितं ।
कोटिशः कोटिशश्चक्रं चक्रे चक्रे चतुष्टयं । । १९.४ । ।

विज्ञानानां वरारोहे प्रभावोऽस्यानुशीलय ।
चतुराशीति-म्-एकत्र क्रमात्स्थूलं पृथक्पृथक् । । १९.५ । ।

कथयामि यथान्यायं चित्रभान्वादितः प्रिये ।
द्वितीयं वारुणं रूपं तृतीयं दण्डपाणिकं । । १९.६ । ।

प्राणरूपं चतुर्थं तु हंसरूपं तु पञ्चमं ।
षष्ठं आत्मवतं रूपं सप्तमं शक्तिपूर्वकं । । १९.७ । ।

अष्टमं ब्रह्मणो रूपं नवमं केशवात्मकं ।
दसमं तु भवेद्रुद्रं चन्द्रं एकादशं विधुः । । १९.८ । ।

द्वादशं भास्करं रूपं ईश्वराख्यं त्रयोदशं ।
कोदण्डद्वयमध्यस्थं देदीप्यन्तं सुवर्चसं । । १९.९ । ।

कोदण्डतिर्यगौ द्वौ तु वामनौ कुब्जिकात्मकौ ।
कोदण्डान्तर्गतौ चान्यौ कर्णकुब्जान्तरे स्थितौ । । १९.१० । ।

शङ्खरूपधरौ द्वौ तु साङ्ख्ययोगस्य दायकौ ।
अष्टादशं अनन्ताख्यं पिङ्गलैकोनविंशमं । । १९.११ । ।

विंशमं सकलीशानं निरोधी चैकविंशमं ।
वडवानलं आसीनं एकैकं चक्ररूपिणं । । १९.१२ । ।

चिन्तयन्तः स्वभावेन अभावपदं आश्रितः ।
अकुलेश्वररूपेण विज्ञानप्रभवो भवेथ् । । १९.१३ । ।

यस्य यद्यादृशं रूपं तद्रूपं धरते तु सः ।
अवान्तरपदस्थस्य पारम्पर्योज्झितस्य च । । १९.१४ । ।

तस्य चाभ्यासयोगेन न सर्वज्ञपदानुगं ।
यस्य यद्यादृशी व्याप्तिस्तत्रस्थस्तत्फलं लभेथ् । । १९.१५ । ।

कारणान्ते महादेवो विभाति किरणोज्ज्वलः ।
सतताभ्यासयोगेन त्रिरब्दात्तत्पदं व्रजेथ् । । १९.१६ । ।

निरोधिनीपदार्थानां महाग्रन्थिपदे स्थिता ।
तारयेद्विदिता सन्ती अविज्ञाता प्रपातयेथ् । । १९.१७ । ।

महामायार्णवं घोरं तारयेद्विदिता सती ।
महान्तारीति सा प्रोक्ता सर्वरूपोपरिस्थिता । । १९.१८ । ।
तस्या रूपं अजानन्तः स्थूलसूक्ष्मसुसूक्ष्मगं ।
न पश्यन्ति गुणं रूपं यावदेषां न सङ्क्रमेथ् । । १९.१९ । ।

पूजिता ध्यायिता माता पूर्वोक्ते क्रममण्डले ।
अष्टकोटिसुविस्तीर्णे त्रिकोट्योर्ध्वगुणोज्ज्वले । । १९.२० । ।

तत्रस्थोच्चारिता ध्याता पूजिता तु फलप्रदा ।
साधयेत्सर्वरूपाणि वटेन्दीकुसुमार्चिता । । १९.२१ । ।

रूपं देव्यास्तु पूर्वोक्तं अशेषगुणशालिनं ।
किं तु नोच्चारितं तस्य स्थूलदेहं यथा स्थितं । । १९.२२ । ।

तस्य चोच्चारणाद्देवि प्रबुद्धकिरणोज्ज्वला ।
यष्टीहता भुजङ्गीव पातयेदवलोकनाथ् । । १९.२३ । ।

तद्वदेषा महावीर्या महान्तारी महाबला ।
विद्यायष्टिहता सन्ती सृष्टिचक्रे ह्यनेकधा । । १९.२४ । ।

षट्प्रकारोपरिस्था सा षड्वक्त्रा बृहदोदरा ।
भुजैर्द्वादशकोपेता कोटराक्षा सुभीषणा । । १९.२५ । ।

वज्रहस्ता तु वज्रस्था षड्योगिकुलमध्यगा ।
षष्टःईशानसमायुक्ता सिद्धपङ्क्तौ निवेशिता । । १९.२६ । ।

विद्यादण्डसमायुक्ता तस्योच्चारं शृणुष्व मे ।
योगिनीनां कुलेशा तु गोपितान्यत्र शासने । । १९.२७ । ।

हा स्वा यै प्रथमं पदं ण्डा क डु कु द्वितीयकं ।
डु कु टी ङ्ग तृतीयं तु पि टी ङ्ग रि चतुर्थकं । । १९.२८ । ।

पञ्च पञ्च तथा पञ्च स्वरूपाक्षरमालिका ।
एषा साङ्केतिका प्रोक्ता संस्फुटा गुरुवानने । । १९.२९ । ।

एषोपायो महान्तार्या दुर्लभः प्रकटीकृतः ।
तस्यैवोच्चारणात्सर्वं कम्पते डामरीगणं । । १९.३० । ।

संहारक्रमषट्कस्य वृद्धाज्ञेयं प्रकीर्तिता ।
आज्ञा क्रमति भक्तानां अभक्तानां न सङ्क्रमेथ् । । १९.३१ । ।
किं तु चाराधिता किञ्चित्पारम्पर्यौघं आगता ।
उच्चरन्तो हनेच्छैलान्क्रुद्धस्यान्येषु का कथा । । १९.३२ । ।

अस्या देव्यार्चने ध्याने जपे हवनतत्परः ।
स्थूलं संसाधयेत्सर्वं महामायान्तकावधिं । । १९.३३ । ।

यत्सञ्चिन्तयते रूपं तत्सर्वं इच्छया भवेथ् ।
महामायाविना योगी मायैव गुणकृद्भवेथ् । । १९.३४ । ।

भूगुणो भूचरे मार्गे जलरूपो जलेश्वरः ।
तेजस्वी तेजसो मार्गे वायोर्वायुभृतेश्वरः । । १९.३५ । ।

व्योम्नि व्योमाधिपो योगी पञ्चान्तगुणयोगतः ।
त्रिपञ्चवर्षादूर्ध्वं च सर्वज्ञो गुण-म्-ईश्वरः । । १९.३६ । ।

वटेन्दीवरमालाभिः पूजयन्तौघसन्ततिं ।
साधयेन्निखिलं रूपं स्थूलसूक्ष्मं अतीन्द्रियं । । १९.३७ । ।

तत्प्रसादेन मायोर्ध्वं भित्त्वा शक्तित्रयं व्रजेथ् ।
तत्रैव सा महामाया सूक्ष्मरूपा सुसूक्ष्मगा । । १९.३८ । ।

खेचरेऽनेकरूपा सा सूक्ष्मसूक्ष्मतरा परा ।
दृश्यते मृगतृष्णेव गुर्वाज्ञातोपदेशतः । । १९.३९ । ।

अकुलेश्वरदेवस्य पदान्तं अनुवर्तिनी ।
विशुद्धमालिनी ह्येषा तदाभ्यासेन सर्वविथ् । । १९.४० । ।

अभ्यासोऽप्यस्य कर्तव्यः पृष्ठे दत्त्वा तु भास्करं ।
प्रासादगृहवृक्षाणां सन्ध्याकालान्तरे स्थितः । । १९.४१ । ।

अथ चेद्वृक्षमूलाधो मध्याह्ने समुपस्थिते ।
पस्यते रूपभृत्सर्वं सूक्ष्मसूक्ष्माणवो ह्रदं । । १९.४२ । ।

रूपं अन्यद्वरारोहे शृणुष्व करणात्मकं ।
येन साधयते रूपं खेचरादिं अनुक्रमाथ् । । १९.४३ । ।

सर्वसाधारणं देवि न भवत्यफलप्रदं ।
यावन्न तत्प्रसादेन गुर्वाज्ञातः प्रवर्तते । । १९.४४ । ।
शुभेऽहनि मुहूर्ते वा शिष्यं एकान्ततो नयेथ् ।
आज्ञां दत्त्वा प्रपूजित्वा कृत्वा मण्डलकादिकं । । १९.४५ । ।

ततोपरि च संस्थाप्य निर्मले गगनान्तरे ।
छायां निरीक्षयित्वा तु कण्ठकूपोपदेशतः । । १९.४६ । ।

ततो निरीक्षयेद्व्योमं साकारं रूपदर्शनं ।
पश्यते भास्करं बिम्बं शिवरूपं सदाशिवं । । १९.४७ । ।

तं दृष्ट्वा पातकानां च अवसानं भविष्यति ।
षण्मासाभ्यासयोगेन भूचरीणां पतिर्भवेथ् । । १९.४८ । ।

त्रिरब्देन तु भूनाथो हर्ता कर्ता स्वयं प्रभुः ।
अवस्थां त्यजते सर्वां पञ्चावस्थापरं व्रजेथ् । । १९.४९ । ।

निराचारेण योगेन तन्नास्ति यन्न साधयेथ् ।
उक्तानुक्तं तु देवेशि सर्वं अस्मात्प्रसाधयेथ् । । १९.५० । ।

सकृदभ्यासयोगेन मासे वा त्वयनेऽपि वा ।
विन्दते ह्यागतं कालं आपदो वात्मनः परे । । १९.५१ । ।

कृष्णवर्णेन देवेन षण्मासान्म्रियते ध्रुवं ।
वक्त्रमूर्ध्नि भयं विन्द्यान्मूर्ध्नि पातान्म्रियेद्ध्रुवं । । १९.५२ । ।

लोहिते ब्रह्महत्या तु पीते व्याधिभयं भवेथ् ।
पादौ यत्र न दृश्येते विदेशगमनं भवेथ् । । १९.५३ । ।

ऊरुमार्गे भवेद्रोगं गुह्ये वै नश्यते प्रिया ।
उदरे अर्थनाशं तु हृदये मृत्युभाग्भवेथ् । । १९.५४ । ।

भुजहीने पतेद्बन्धुर्वामे भार्याभयं भवेथ् ।
षण्मासाल्लक्षयेत्सर्वं आत्मनश्च परस्य वा । । १९.५५ । ।

उपदेशेन देवेशि शेषं च गुरवाननाथ् ।
रूपपूर्णह्रदान्तस्थो रूपस्थो निरपेक्षधीः । । १९.५६ । ।

सूक्ष्मसूक्ष्मान्तरूपेण रूपातीतपदं व्रजेथ् ।
योगसिद्धा महादेवि दृश्यन्ते व्योमगागणाः । । १९.५७ । ।
बिन्दुरूपास्तु ते सर्वे क्वचिद्दृश्यन्ति न क्वचिथ् ।
घटाधारगतं प्राणं कूर्मयन्त्रेण पीडयेथ् । । १९.५८ । ।

नोच्छ्वसेन्मासं एकं तु तथ्यं भैरव-म्-अब्रवीथ् ।
भैरवोवाच कल्याणि कुलरूपं प्रकाशितं । । १९.५९ । ।

अकुलं व्यापकं रूपं सुसूक्ष्मं शृणु साम्प्रतं ।
एकानेकविभागेन संस्थिता व्योममालिनी । । १९.६० । ।

अमृताम्भोधिमध्यस्था चारस्था चारवाहिनी ।
इच्छारूपधरा देवी कुब्जिनीति कुजाम्बिका । । १९.६१ । ।

द्विभुजैकमुखी देवी अथानेकभुजानना ।
चारस्था चारमध्यस्था चारदेहा चलेश्वरी । । १९.६२ । ।

चन्द्रगर्भस्य चर्येयं चारवी चण्डचण्डिका ।
पीठमध्यगता पूज्या चन्द्रगर्भसमन्विता । । १९.६३ । ।

षोडशारकमध्यस्था चतुर्वर्गफलोदया ।
पीठपीठाधिपैर्युक्ता सर्वज्ञा सर्वदायिका । । १९.६४ । ।

आज्ञावबोधजननी दिव्यरूपप्रकाशिनी ।
अस्याः प्रगोपितं रूपं योगिनीभिर्वरानने । । १९.६५ । ।

तेन रूपवतानां तु रूपव्याप्तिर्न सिध्यति ।
देदीप्यन्ती महानन्दा सहस्रादित्यवर्चसा । । १९.६६ । ।

स्फुरन्ती मालिका दिव्या आज्ञातः सम्प्रवर्तते ।
सदोदितं सदानन्दं परानन्दप्रदायकं । । १९.६७ । ।

कलातीतं तु कालान्तं आज्ञारूपोज्ज्वलं परं ।
अनन्तं सकलं ज्ञानं दिव्याज्ञापरमोज्ज्वलं । । १९.६८ । ।

उत्तरस्य च षट्कस्य रूपेदं परसम्भवं ।
दक्षिणस्यापि षट्कस्य शक्तियुक्तस्य वर्णितं । । १९.६९ । ।

स्थूलरूपं वरारोहे सर्वत्रैव प्रकाशितं ।
उत्तरं गोपितं रूपं देवताभिः सुसिद्धिदं । । १९.७० । ।
कस्मात्सिध्यति शीघ्रेदं अन्यत्र क्षपणाकुलं ।
भैरवेण तु रूपेण भैरवत्वं प्रसाधयेथ् । । १९.७१ । ।

विघ्नजालोज्झितं ह्येतत्तेनेदं शीघ्रसिद्धिदं ।
अत्र रूपसमालब्धः पूर्वोक्तं लभते फलं । । १९.७२ । ।

अकुलक्रममार्गेण आज्ञायोगेन सर्वथा ।
अकुलीनक्रमान्तस्थः कुब्जीशपदं आश्रितः । । १९.७३ । ।

प्राप्यते भैरवानन्दं समस्तानन्दपूर्वकं ।
तोषितोऽहं त्वया देवि तेनेदं संस्फुटं मया । । १९.७४ । ।

कीर्तितं तव कल्याणि सुगोप्यं रूपसाधनं ।
सर्वतन्त्रेषु लुप्तेदं ईषद्योगिमते स्फुटं । । १९.७५ । ।

मौक्तिकावलिसादृश्यं सितरक्तं तु पीतगं ।
ग्रीवा कुण्डलिनी तस्य वियोगं तु तदा भवेथ् । । १९.७६ । ।

चञ्चुप्रसारणे वर्षं दुर्भिक्षं चञ्चुसम्पुटे ।
कृष्णवर्णे भवेन्मृत्युः षण्मासात्तु न संशयः । । १९.७७ । ।

सर्वं एव न पश्येत सद्यं एव विनश्यति ।
भ्रूमध्यगतं आत्मानं षडङ्गेन महामते । । १९.७८ । ।

दृश्यते सूर्यवद्बिम्बं प्रत्यक्षं चाग्रतः स्थितं ।
ह्रस्वे नीले भयं विन्द्याद्दीर्घे स्थूले ह्यरोगता । । १९.७९ । ।

धूम्रे उच्चाटनं प्रोक्तं रक्ते रोगं वरानने ।
कृष्णे ब्रह्मविनाशं वा मृत्युरेवाभिजायते । । १९.८० । ।

समले तु तथा हानिर्नीलमाले तथापदः ।
वायव्यां तु यदा धूम्रां मालां पस्यति योगविथ् । । १९.८१ । ।

तदा उच्चाटनं देवि नैरृत्यां दंष्ट्रिणो भयं ।
आग्नेय्यां तु यदा भिन्नां मालां पश्यति योगविथ् । । १९.८२ । ।

देशभ्रंशोऽ ग्निदाहश्च राजा चैव विनश्यति ।
मध्ये तस्य यदा छिद्रं पश्यते योगचिन्तकः । । १९.८३ । ।
मृत्युस्तस्य वरारोहे दिवसैर्दशभिर्भवेथ् ।
ईशाने स्थावरभयं कौबेर्यां अर्थसिद्धिदं । । १९.८४ । ।

ऐन्द्र्यां वै स्थानलाभं च वारुण्यां सुखं एधते ।
याम्यायां म्रियते देवि नात्र कार्यविचारणाथ् । । १९.८५ । ।

सम्पूर्णं सुसमं पीतं स्निग्धं रूक्षत्ववर्जितं ।
सामलं सिद्धिदं प्रोक्तं जीवादित्यं वरानने । । १९.८६ । ।

श्रीमत्कुब्जिमते सर्वं संस्फुटं कथितं तव ।
मालिनी व्योमसंस्था च बिन्दुर्व्योमे तथैव च । । १९.८७ । ।

कुलाख्यं पुरुषं व्योमे रूपातीतं अतः शृणु । । १९.८८ । ।

श्रीभैरव उवाच

ऊचुस्त्वेवं पुनर्भद्रे रूपातीतस्य निर्णयं ।
शृणुष्व सर्वभावेन अवज्ञारहिता सती । । १९.८९ । ।

अमनस्कं मनोऽतीतं भावाभावविवर्जितं ।
लयोच्चारविनिर्मुक्तं हेतुतर्कविवर्जितं । । १९.९० । ।

हेयोपायविनिर्मुक्तं श्रुतिदृष्टान्तवर्जितं ।
नास्तिक्यभावसम्पन्नं शून्यभूतं अनामयं । । १९.९१ । ।

प्रमेयावलियोगस्य अतीतं कारणेश्वरं ।
अतीन्द्रियं अनाभाषं पराकाशं तु तद्विदुः । । १९.९२ । ।

तस्योपायं इदं सर्वं योगमार्गक्रियाध्वरं ।
साध्यते येन मार्गेण रूपातीतं तु तच्छृणु । । १९.९३ । ।

व्योमं कृत्वा समाकाशे स संस्मृत्य विलापयेथ् ।
अस्मिन्तं तु चिदाकाशे बाह्याकाशे स एव हि । । १९.९४ । ।

पराकाशे परे स्थाने यानाकाशं अतोर्ध्वतः ।
रूपातीतं ततश्चोर्ध्वे निःसन्दिग्धं पदं परे । । १९.९५ । ।

बहुनोक्तेन किं देवि पूर्वं व्यावर्णितं मय ।
गुरोरस्य प्रसादेन लभ्यते परमं पदं । । १९.९६ । ।

पूर्वं व्यावर्णितं तुभ्यं अदृष्टगुणलक्षणं ।
एतत्सर्वं समाख्यातं शाम्भवस्य गुणास्पदं । । १९.९७ । ।

निराचारेण मार्गेण शाम्भवं तु समभ्यसेथ् ।
किं अभ्यासः पुनस्तस्य यस्य सर्वं पुरःसरं । । १९.९८ । ।

यस्य सम्भवितं शम्भुं अनन्तगुणदायकं ।
योगात्मा वै स सर्वत्र पूज्यते योगिनीकुले । । १९.९९ । ।

यदि शम्भुविधेर्भक्तः संसारे विरतात्मनः ।
स साधयति सर्वज्ञो देहेनानेन सर्वगः । । १९.१०० । ।

न ध्यानं न जपः पूजा मण्डलादिप्रपूजनं ।
निराचारविधानेन देहेनानेन भैरवि । । १९.१०१ । ।

आत्मानं पूजयेन्नित्यं यथालब्धोपजीवकः ।
अग्निवत्सर्ववर्णेषु स शीघ्रं फलभाग्भवेथ् । । १९.१०२ । ।

प्राकृतां अधमां सिद्धिं मध्यमां चोत्तमां च यां ।
उत्तमोत्तमतां यान्ति षड्भिर्मासैः क्रमात्क्रमाथ् । । १९.१०३ । ।

अधिकारपदस्थेन कर्तव्यं विधिपूर्वकं ।
गुरुमण्डलकाद्यं च पूर्वाम्नायप्रपूजनं । । १९.१०४ । ।

श्रीकुब्जिका उवाच

श्रुतं सर्वं च देवेश पदार्थानां च निर्णयं ।
किं आम्नायं कथं पूजा एतदाचक्ष्व भैरव । । १९.१०५ । ।

देव्युक्तं च वचः श्रुत्वा भैरवो हसिताननः ।
पूजाम्नायं इदं सर्वं कथ्यमानं न बुध्यसि । । १९.१०६ । ।

द्वीपाम्नायस्तु प्रथमो देव्याम्नायो द्वितीयकः ।
पीठाम्नायस्तृतीयस्तु सिद्धाम्नायश्चतुर्थकः । । १९.१०७ । ।
अस्योद्धारणं एकत्र पूजनं तत्प्रकीर्तिर्तं ।
गुप्तदेशे सुगन्धाढ्ये विविक्तोपद्रवोज्झिते । । १९.१०८ । ।

पीठाः पीठाधिपाः सिद्धाः पीठाम्बास्तत्समीपतः ।
पीठमध्यगतां देवीं चतुःसिद्धसमन्वितां । । १९.१०९ । ।

मण्डलोत्तरदिग्भागे गुरुपङ्क्तिं प्रपूजयेथ् ।
एतदाम्नायं आख्यातं किं तु मण्डलकान्वितं । । १९.११० । ।

तलहस्तप्रमाणेन योन्यग्रे मण्डलादिकं ।
पूज्योऽहं मण्डले तत्र नवात्मानपदाक्षरैः । । १९.१११ । ।

आनन्दपदसंयुक्तं शक्तिभैरवपूर्वकं ।
भैरवेति पदं पश्चाद्वीराधिपतयेति च । । १९.११२ । ।

सषोडशपदैर्युक्तः पूजनीयोऽत्र मण्डले ।
आम्नायमण्डलं ह्येतत्समेखलचतुष्कलं । । १९.११३ । ।

सर्वं एतत्क्रमाम्नायं मण्डलोपरि मण्डलं ।
पूजितेन भवत्यासु तत्सर्वं उदितं मया । । १९.११४ । ।

अलिना पूरितं पात्रं समयालब्धोदकं पृथक् ।
कर्मकाले प्रकर्तव्यं पूजान्तेऽर्घनिवेदनं । । १९.११५ । ।

चन्दनैर्धूपनैवेद्यैर्दद्यादाचमनं पृथक् ।
तस्मात्क्रियाकलापेन आराधनविधिं यजेथ् । । १९.११६ । ।

दीपोत्सवं सनैवेद्यं अलिपात्रं सफल्गुषं ।
चक्रपूजाविधिर्ह्येवं कुर्यादाराधने विधौ । । १९.११७ । ।

अथवाम्नायं आधारं दिव्यौघागमपद्धतिं ।
पूजयेत्सर्वभावेन सर्वाम्नायं स गोपयेथ् । । १९.११८ । ।

अथाद्यमण्डलं योनेस्तद्वदस्य दिने दिने ।
कुर्वन्तस्य परा व्याप्तिः क्रमोघं सम्प्रवर्तते । । १९.११९ । ।

ओघाधारं इदं दिव्यं आगमं यः पठेदिदं ।
पादुकौ पूजयित्वा तु चतुर्दश्याष्टमीषु च । । १९.१२० । ।
पुष्पावरणके दिव्ये वस्त्रमाल्योपशोभिते ।
दिव्यगन्धसुगन्धाढ्ये दीपमालोपशोभिते । । १९.१२१ । ।

सौवर्णरजतादीभिस्ताम्रलोहशिलामृदा ।
भक्त्या-देवं स्वशक्त्या च पिष्टदीपान्घृतान्वितान् । । १९.१२२ । ।

नैवेद्यफल्गुषालिभ्यां पुष्पधूपैरनेकधा ।
एवं कृत्वा ततः पश्चाद्व्याख्याने वाचनेऽपि वा । । १९.१२३ । ।

गुरुमण्डलकं कुर्यात्त्रिष्कालं पुस्तकाग्रतः ।
अहं वै गुरवस्तस्य यत्रास्ते चागमः स्वयं । । १९.१२४ । ।

गुरुवच्च प्रमन्तव्यं विद्याबोधपरं गुरुं ।
न विना च गुरोर्विद्या न विद्यारहितो गुरुः । । १९.१२५ । ।

यथा गुरुस्तथा विद्या यथा विद्या तथा गुरुः ।
प्राप्तविद्या गुरोः पार्श्वे विद्याप्राप्ते गुरुत्वता । । १९.१२६ । ।

एवं चाम्नायिको मार्गः सर्वथा ग्रन्थतोऽर्थतः ।
वेत्ति सिद्धः स मे तुल्यः सामान्यस्तत्समो न हि । । १९.१२७ । ।

एष ते कौलिको मार्गः परमार्थोपदेशतः ।
कुलं च कुलविद्यां च कुलमार्गं कुलक्रमं । । १९.१२८ । ।

चतुष्कं यो विजानाति स भवेत्कुलनन्दनः ।
चतुष्टयं समाख्यातं पृच्छ-म्-अन्यं यथारुचि । । १९.१२९ । ।

इति कुलालिकाम्नाये श्रीकुब्जिकामते चतुष्कनिर्णयो नाम एकोनविंशतिमः पटलः


श्रीकुब्जिका उवाच

पुरा मह्यं त्वया देव द्वीपाम्नायः प्रचोदितः ।
परमार्थोपदेशेन यथा त्वेवं वद प्रभो । । २०.१ । ।

श्रीभैरव उवाच

सत्येदं साधु देवेशि यत्त्वया परिपृच्छितं ।
द्वीपाम्नायावतारं तु सुगोप्यं प्रकटामि ते । । २०.२ । ।

आद्यकल्पावतारे तु उद्यानार्णवमध्यतः ।
कृष्णरक्तजनाकीर्णं देदीप्यार्चिसमप्रभं । । २०.३ । ।

ओघसृष्टेस्तु संस्थानं मातङ्गद्वीपं उत्तमं ।
द्वितीयेऽत्र परे कल्पे सिन्दूरारुणसप्रभं । । २०.४ । ।

पीतरक्तजनाकीर्णं ब्रह्मघ्नं द्वीपनायकं ।
तेजःसृष्टेस्तु संस्थानं करालाग्निसमप्रभं । । २०.५ । ।

तृतीये द्वापरे कल्पे कुसुम्भोदकसन्निभं ।
पीतारुणजनाकीर्णं रजसा द्वीपं उज्ज्वलं । । २०.६ । ।

क्रीडासृष्टेस्तु संस्थानं चण्डोग्राक्षिसमप्रभं ।
उद्यानभैरवाम्भोभिः कल्लोलालीसमाकुलं । । २०.७ । ।

महाकल्पे चतुर्थे तु पद्मरागसमप्रभं ।
श्वेतरक्तजनाकीर्णं विशुद्धामोघसम्पदं । । २०.८ । ।

इच्छासृष्टेस्तु संस्थानं अत्रोद्यानं महावनं ।
गन्धमाल्यसुपुष्पाढ्यं महोच्छुष्मोपशोभितं । । २०.९ । ।

पञ्चमे दिव्यकल्पे तु चन्द्रकोटिसमप्रभं ।
चन्द्रकान्तिमयं दिव्यं विशुद्धोदधिमध्यगं । । २०.१० । ।

कामानन्दजनाकीर्णं चतुःसृष्टिप्रवर्तकं ।
अनेकानन्दसम्पन्नं चन्द्रद्वीपगुणावृतं । । २०.११ । ।

चतुर्वर्णगुणानन्दं चतुर्वर्गफलोदयं ।
चतुर्मायाजनातीतं चतुर्थान्तमृतात्मकं । । २०.१२ । ।

ज्ञानक्रियां अधिष्ठानं अव्यक्ताव्यक्तरूपिणं ।
सृष्टिसन्दोहं आनन्दं चन्द्रद्वीपगुणास्पदं । । २०.१३ । ।

पञ्चद्वीपोपचारोऽयं उपद्वीपान्यतः शृणु ।
चत्वार्येव सबीजानि व्यक्तिं यान्ति कुलाध्वरे । । २०.१४ । ।

उपद्वीपारुणं चाद्यं वारुणं तु द्वितीयकं ।
नरसिंहं तृतीयं तु लोकालोकं चतुर्थकं । । २०.१५ । ।

द्वीपोपद्वीपसम्भूतं सर्वं एतच्चराचरं ।
व्यक्ताव्यक्तं तु तं यस्मात्कारणं तं निगद्यते । । २०.१६ । ।

परे चत्वारि द्वीपानि चत्वार्येवं पराणि च ।
चन्द्रद्वीपं परं तेभ्यो मध्यस्थं व्यक्तिकारणं । । २०.१७ । ।

द्वीपसृष्टिपरानन्दं उद्यानार्णवमध्यगं ।
लक्षितव्योपदेशेन शेषान्यद्विस्तृतं पुरा । । २०.१८ । ।

श्रीकुब्जिका उवाच

द्वीपानन्दं कथं देव कथितं तु मया श्रुतं ।
तथापि मे मनोग्लानिः कथयस्व यथा स्फुटं । । २०.१९ । ।

व्याप्यव्यापकभावेन यत्स्थाने संस्थितानि तु ।
यस्मादुत्पत्तिसंस्थानं एतत्सर्वं वद प्रभो । । २०.२० । ।

श्रीभैरव उवाच

साधु साधु महाभागे साधु मालिनि सर्वथा ।
पृच्छितं शृणु कल्याणि निरवद्यं वदामि ते । । २०.२१ । ।

आदौ षोडश पीठानि पीठे द्वीपसमुद्भवः ।
तानि द्वादशधा विद्धि एकैकं च पृथक्पृथक् । । २०.२२ । ।

कुलचक्रसमायुक्तं त्रिःप्रकारं विलक्षयेथ् ।
पीठोपपीठसंयुक्तं क्षेत्रसन्दोहलक्षितं । । २०.२३ । ।

उपक्षेत्रोपसन्दोहे द्वे द्वे पीठसमावृते ।
लक्षितव्यानि यत्नेन उपास्य गुरवं प्रिये । । २०.२४ । ।
चतुस्त्रिंशति द्वीपानि द्वीपस्थं त्रिचतुष्टयं ।
मातराणां वरारोहे एकैकस्मिन्व्यवस्थितं । । २०.२५ । ।

दूरस्थानि पुरस्थानि देहस्थानि विलक्षयेथ् ।
तैर्विना साधनं सिद्धिर्यत्नेनापि न जायते । । २०.२६ । ।

इतरस्य बहिस्थानि क्षेत्रस्थानि तु साधके ।
देहस्थानि तु तस्यैव किं त्वेवं हि स मुक्तिभाक् । । २०.२७ । ।

कुरुते यत्र संस्थानं क्वचित्साधकपुङ्गवः ।
साधनं मन्त्रयोगस्य लिङ्गसंस्थापनेऽपि वा । । २०.२८ । ।

प्रतिमा चाधिकारार्थं ज्ञात्वा स्थानं समाश्रयेथ् ।
अन्यथा नैव भुक्तिस्तु द्वन्द्वद्वेषो रुजान्वितः । । २०.२९ । ।

द्वीपं द्वीपाधिपं देव्या द्वीपनाथसमन्वितं ।
पीठभिन्नक्रमं ज्ञात्वा सिध्यते ह्यविचारतः । । २०.३० । ।

क्षेत्रग्रामपुरस्यैव पीठस्य नगरस्य वा ।
ज्ञात्वा पञ्चसु संस्थानं संस्थानं कारयेत्तदा । । २०.३१ । ।

पञ्च पञ्च तथा पञ्च पञ्चमान्तं कुलान्तिकं ।
चलस्ॐये चतुष्कं तु ईश्वरैकं दिशादितः । । २०.३२ । ।

पीठव्यूहवरं मध्ये द्वीपव्यूहं बहिस्थितं ।
पुरं नाम भवेद्यत्र तां दिशं तु समाश्रयेथ् । । २०.३३ । ।

अस्थिगूथावृतं चापि दोषैर्द्विष्टं यथा भवेथ् ।
तथापि भोगं आप्नोति तत्स्थानन्यासयोगतः । । २०.३४ । ।

नाक्षरेण भवेन्मन्त्रं योगश्चैव गुणान्वितः ।
अक्षरेणापि मन्त्रस्य किं तु तत्स्थानयोगतः । । २०.३५ । ।

मन्त्रस्थापितलिङ्गानि निस्फुराणि यशस्विनि ।
दृश्यन्ते स्थानहीनानि सिद्धैः संस्थापितानि तु । । २०.३६ । ।

स्थानवैकल्यभावेन यस्याश्चर्यं कुलेश्वरि ।
स्वतेजोदीपितं शम्भुं क्वचिद्दृश्यति निस्फुरं । । २०.३७ । ।
सर्वज्ञं सर्वदं मन्त्रं अजस्रं भावपूर्वकं ।
सर्वदं सर्वकालस्थं कालरूपामृतात्मकं । । २०.३८ । ।

गोपितं सर्वतन्त्रेषु द्वीपाम्नायेन गोपितं ।
द्वीपाक्षरं तथा वारं तिथिनक्षत्रसंयुतं । । २०.३९ । ।

साधकाक्षरसंयुक्तं मन्त्रं एतत्सुरार्चितं ।
पीठयुक्तं प्रमेयेन भिद्य पीठेन चेतरं । । २०.४० । ।

दश-म्-एकादशेनैव कूटस्थं वा समेकतः ।
पुरस्याद्यक्षरं वापि स्वस्थाने क्षोभकृद्भवेथ् । । २०.४१ । ।

सर्वस्यापि हि क्षेत्रस्य प्रवेशे जपं आरभेथ् ।
स्वस्थानात्मकमन्त्रेण स्वस्थानेन पुरं विशेथ् । । २०.४२ । ।

दिशां आलोक्य जप्तव्यं सप्तवारावधि प्रिये ।
तावत्क्षुभ्यति तत्क्षेत्रं बालवृद्धयुवानपि । । २०.४३ । ।

स्थितिर्वै यत्र मन्तव्या तत्रैव विधिं आचरेथ् ।
सकृदन्यत्र चोच्चारं जपमानं पुरं विशेथ् । । २०.४४ । ।

तत्रान्नपानशयनं किञ्चिद्दुःखं न जायते ।
यः पुनः सर्वभावेन भक्तियुक्तः समभ्यसेथ् । । २०.४५ । ।

द्वीपस्थानं समास्थाय स्वेष्टमन्त्रस्य साधयेथ् ।
तत्रापि तस्य सिद्धीनि भवन्त्यष्टविधा प्रिये । । २०.४६ । ।

द्वीपाधिपं अजानन्तो वर्षपूर्णशतेन वा ।
तथापि न हि सिध्यन्ति योगाद्ध्यानाच्च मन्त्रिणः । । २०.४७ । ।

पीठाधिपतयः प्रोक्ताः षोडशैव वरानने ।
तैस्तु व्याप्तं इदं सर्वं चतुस्त्रिंशान्तगोचरं । । २०.४८ । ।

द्वीपाधिपतयः प्रोक्ताश्चतुस्त्रिंशति केवलाः ।
पीठाधिपतिभिर्युक्ताः पञ्चाश पतयस्तु ते । । २०.४९ । ।

आद्यन्तसंस्थितं भद्रे मध्ये लिङ्गस्य लक्षयेथ् ।
पीठग्रामपुरस्यापि लक्षयित्वा निराकुलं । । २०.५० । ।
पालकस्याक्षरं यत्र यदिदं न तदादिमं ।
कस्मात्पीठेषु अधिपाः पीठभिन्नं न पूजयेथ् । । २०.५१ । ।

न गुरुं नादिमं चान्तं न मध्यं पीठसंयुतं ।
केवलं यदि लभ्येत तदाद्यं तु सुरार्चिते । । २०.५२ । ।

लिङ्गसंज्ञा तु नामस्य सर्वतो अधिपावृतं ।
तस्मादेकतमं गृह्य लिङ्गमूलं यदक्षरं । । २०.५३ । ।

तं तु गृह्य विकल्पेन मध्यान्तं वर्जयेत्प्रिये ।
एवं ज्ञात्वा ततः सिद्धिर्जायते निर्विकल्पतः । । २०.५४ । ।

अविज्ञाय न पूज्येतां यस्तु कुर्वीत साधनं ।
मम तुल्यास्तु कुर्वन्ति विघ्नं वै पालकाः प्रिये । । २०.५५ । ।

अत्र सारतरं प्रोक्तं निश्चयं अधिपान्प्रति ।
श्रुतं देवि त्वया सर्वं नाम पञ्चाशकेष्वपि । । २०.५६ । ।

अघोर्याडामरे तन्त्रे सूचितोऽप्यस्य निर्णयः ।
संस्फुटं सर्वभावेन निर्णीतं कुब्जिनीमते । । २०.५७ । ।

श्रीकुब्जिका उवाच

कथं देव स्थिता देहे पीठद्वीपाधिपाश्रयं ।
क्व स्थाने संस्थिता देव एतदाचक्ष्व निश्चयं । । २०.५८ । ।

श्रीभैरव उवाच

शृणु देवि यथा देहे पीठैः षोडशभिः शिरः ।
आवृतं वंशगुह्यान्तं द्वीपैः कोदण्डकावधिं । । २०.५९ । ।

ग्रीवाधो वांशमार्गेण कन्दोर्ध्वं याव संस्थितं ।
पञ्च द्वीपानि देवेशि ब्रह्मण्याधिष्ठितानि तु । । २०.६० । ।

पञ्च नाभिगता भद्रे माहेश्यालङ्कृतास्तु ते ।
जठरे पञ्च वैष्णव्या क्ॐआर्येव हृदि स्थिता । । २०.६१ । ।
पञ्चद्वीपान्विता काली कण्ठान्ते संव्यवस्थिता ।
ऐन्द्र्याकाशपदस्था तु चतुष्कपरिवारिता । । २०.६२ । ।

चतुर्द्वीपसमायुक्ता चामुण्डा तु भ्रुवोत्तरे ।
महाकाली तु कोपस्था संहारपथवर्तिणी । । २०.६३ । ।

देव्याधिष्ठानद्वीपेषु यो यत्रान्तव्यवस्थितः ।
दण्डधारी प्रचण्डश्च दंष्ट्राली वज्रतुण्डकः । । २०.६४ । ।

त्रिजटी शङ्खतुण्डश्च कपाली त्रिशिरस्तथा ।
एते वर्गाधिपाः प्रोक्ता अष्टौ वसुमहाबलाः । । २०.६५ । ।

यां दिशं संस्थितास्ते वै तन्मुखस्तु प्रपूजयेथ् ।
सबाह्याभ्यन्तरं मत्वा ततोऽसौ सिद्धिभाजनः । । २०.६६ । ।

एष देवि समासेन द्वीपाम्नायः प्रकाशितः ।
शेषोऽन्यो विस्तरोऽप्यस्य कुलसारे वदाम्यहं । । २०.६७ । ।

विज्ञान ऋद्धिसम्पन्नं ज्ञानमण्डलपूरितं ।
तेनेदं श्रीमतं प्रोक्तं भुक्तिमुक्तिप्रदायकं । । २०.६८ । ।

ज्ञातेन तन्त्रसारेण अनुष्ठानं विना प्रिये ।
भाजनो भुक्तिमुक्तीनां यद्येवं गोपयेत्सुधीः । । २०.६९ । ।

श्रीमतेन विना युक्ताः खण्डज्ञानविमोहिताः ।
हस्त्यन्धवद्विभज्यन्ते दृष्तिहीना यतस्तु ते । । २०.७० । ।

आगतं तु गजं श्रुत्वा अन्धवृन्देन सौ वृतः ।
पुच्छकर्णाङ्घ्रिहस्ताभ्यां Pऋष्ठकुक्षोदरेषु च । । २०.७१ । ।

येन यत्र गजः स्पृष्टस्तद्भावस्तेन मन्त्रितः ।
पुच्छहस्ता वदन्त्येवं गजोऽयं चामराकृतिः । । २०.७२ । ।

कर्णलग्नास्तु सूर्पेव पादलग्नोखलं यथा ।
भित्तिरूपं तु कुक्षिस्था पृष्ठस्था गृहरूपिणः । । २०.७३ । ।

स्तम्भोभौ हस्तलग्नौ तु मुषलौ दन्तिदन्तगौ ।
एवं अन्धगना मूढा अन्योन्यं स्पर्धयन्ति ते । । २०.७४ । ।
अन्यैश्चक्षुर्युतैस्त्वेवं युध्यमानाः परस्परं ।
तान्दृष्ट्वा हास्यं आरब्धं तं श्रुत्वा विस्मितास्तु ते । । २०.७५ । ।

अथ श्रुत्वा महाहास्यं किमर्थं हसिता वयं ।
ऊचुस्त्वेवाक्षियुक्तेन मा युध्यैवं विमोहिताः । । २०.७६ । ।

दृष्टिहीनास्त्वहो तुभ्यं हस्तिरूपोऽन्यथा स्थितः ।
हस्तिनोऽङ्गानि सर्वाणि यानि स्पृष्टानि तत्परैः । । २०.७७ । ।

पटलान्तरिता दृष्टिर्गत्वा वैद्यं उपाश्रयेथ् ।
येन पश्यसि सर्वाङ्गं श्रीकुब्जौघमहागजं । । २०.७८ । ।

गजो यथान्धवृन्दस्य तथा ज्ञानं प्रवर्तते ।
आज्ञाक्रमं विना लोकस्तत्क्रमं कुब्जिनीमते । । २०.७९ । ।

कथितं निरवद्यं ते गजस्यावयवो यथा ।
गजाङ्गन्यायतो यत्र दक्षवामोर्ध्वकौलिके । । २०.८० । ।

सर्वं सम्पादितं तुभ्यं आज्ञानन्दकुलार्णवं ।
इदानीं शृणु कल्याणि कालचक्रं यथास्थितं । । २०.८१ । ।

इति कुलालिकाम्नाये श्रीकुब्जिकामते चन्द्रद्वीपावतारो नाम विंशतिमः पटलः


श्रीभैरव उवाच

लक्षाचारमनोरूपाः शक्तयो वीर्यसंस्थिताः ।
रुद्रशक्तिसमावेशास्ताभिरात्मनिबृंहणं । । २१.१ । ।

शिवचैतन्ययोगेन शक्तिचैतन्यबृंहणं ।
शक्तिचैतन्ययोगेन जीवचैतन्यबृंहणं । । २१.२ । ।

जीवचैतन्ययोगेन मन्त्रचैतन्यबृंहणं ।
मन्त्रचैतन्ययोगेन पिण्डचैतन्यबृंहणं । । २१.३ । ।

पिण्डचैतन्ययोगेन बाह्याचारस्य बृंहणं ।
चैतन्येन विना सर्वं अस्वतन्त्रं शिलादिवथ् । । २१.४ ।

निष्क्रियं चेतनाहीनं मृतदेहोपमं प्रिये ।
अग्निचैतन्ययोगेन जलं अप्यत्र दाहकं । । २१.५ । ।

तस्मात्सर्वप्रयत्नेन विद्यावीर्यचिदात्मकं ।
धरामण्डलगर्भे तु द्वीपदेशान्तरं यजेथ् । । २१.६ । ।

द्वादशैवात्र योगिन्यो द्वादशारे प्रपूजयेथ् ।
कर्णिकायां यजेद्देवं शब्दराशिं सलक्षणं । । २१.७ । ।

कुमारी सिंहलद्वीपं सुवर्णं च तृतीयकं ।
कर्णप्रावरणं चान्यं स्वामुखं देशं उत्तमं । । २१.८ । ।

कुलूतं ओड्डियानं च एभिर्देशैर्यजेत्सुधीः ।
जालन्धरं च विख्यातं एकपादं तथापरं । । २१.९ । ।

पारसौकुलविख्यातं कुशद्वीपं च शाल्मली ।
पर्णद्वीपं कुमाराख्यं यवद्वीपं तथापरं । । २१.१० । ।

देशं तु कामरूपाख्यं पुष्करद्वीपं एव च ।
अपरं कटाहद्वीपं चीनदेशं अतः परं । । २१.११ । ।

चन्द्रद्वीपं जनद्वीपं रत्नद्वीपं सुशोभनं ।
रसद्वीपं च गोमेदं गर्भोदं सूर्यद्वीपकं । । २१.१२ । ।

आसवद्वीपं विख्यातं मरुदेशसमन्वितं ।
वसन्तं महासरद्वीपं अमृतद्वीपं एव च । । २१.१३ । ।

द्वीपं आनन्दगन्धर्वौ अग्निद्वीपं महावनं ।
अङ्गारद्वीपपर्यन्तं नग्नद्वीपावसानगं । । २१.१४ । ।

एषां द्वीपाधिपानां च नामं वक्ष्यामि तच्छृणु ।
क्षेत्रपाला महारौद्रा रक्षां कुर्वन्ति साधके । । २१.१५ । ।

विद्रुमो गस्तिनश्चण्डस्तथा यक्षो गणाधिपः ।
महाभृगुर्जयो नाम महाजिह्वस्तु विक्रमः । । २१.१६ । ।
ध्वाङ्क्षश्च जयभद्रश्च पीठे पीठे समासते ।
महादिव्यो दधीचिश्च कुमारीशस्तथापरः । । २१.१७ । ।

महाधंष्ट्रः करालीशः श्रुतीधरो निगद्यते ।
महाध्वाङ्क्षो महानन्दी सुगन्धी च गोपालकः । । २१.१८ । ।

पुष्पदन्तो धनाढ्यश्च विपुलो नन्दकारकः ।
शुक्रो विडालो द्वावेतौ शुकारुणशुभाननौ । । २१.१९ । ।

रतिप्रियसुरप्रियौ द्वौ चित्राङ्गसुदुर्जयौ ।
रसनो विडालः प्रद्युम्नः क्षेत्रपालाः कुलक्रमे । । २१.२० । ।

मनोहरा रूपिणी देवी चित्रा चित्ररथा तथा ।
चित्राङ्गी चित्ररेखा च विचित्रा चित्रना शुभा । । २१.२१ । ।

चित्राक्षी चित्ररूपा च सुभद्रा कामदा शुभा ।
ककारस्य इमा देव्यः कन्यद्वीपाधिकरिणी[ः] । । २१.२२ । ।

क्षेत्रपालो महाविष्णुश्चक्रहस्तो महाबलः ।
क्रूरा च पिङ्गला चैव खड्गिका लम्पटा सती । । २१.२३ । ।

दंष्ट्राली राक्षसी ध्वाङ्क्षी लोलुपा लोहितामुखी ।
बह्वाशी च विरूपा च लम्पटा आमिषप्रिया । । २१.२४ । ।

खकारस्य इमा देव्यः सिंहलद्वीपं आश्रिताः ।
क्षेत्रपालो महायोगी अगस्तिश्च महा-ऋषिः । । २१.२५ । ।

सुप्रकीर्णा प्रकीर्णा च लम्बा लम्बमुखी तथा ।
लम्बोष्ठी दीर्घदंष्ट्रा च लम्बजा प्राणहामुखी । । २१.२६ । ।

गजकर्णा सुकर्णा च महाकाली सुभीषणा ।
वातवेगा रवा घोरा गकारे देवताः स्थिताः । । २१.२७ । ।

स्वर्णद्वीपाधिकारिण्यश्चण्डनाथो महाबलः ।
घनरवा घोरघोषा महाघोषातिघोषिका । । २१.२८ । ।

घण्टा घण्टेश्वरी घोरा महाघण्टा सुघण्टिका ।
अतिघण्टातिघोरा च कलकलारवेति च । । २१.२९ । ।
घकारे देवता ह्येताः कर्णाप्रावृतमण्डले ।
यक्षराजा महादेवः क्षेत्रपालो महाबलः । । २१.३० । ।

विभूतिर्भोगदा कान्तिः खड्गिनी पद्मिनी तथा ।
गान्धारि योगमाता च सुधारा परमोज्ज्वला । । २१.३१ । ।

सेहारी मांसहारी च प्राणहारी बलापहा ।
ऋच्छिका गृध्रतुण्डी च रेवती रङ्गिसंज्ञिका । । २१.३२ । ।

ङकारे देवता ह्येताः स्वामुखे मण्डले स्थिताः ।
राज्यं पालयते देशे कवर्गे उत्तरापथे । । २१.३३ । ।

क्षेत्रपालो गणपति रक्षां कुर्वन्ति साधके ।
चण्डा चण्डमुखी चण्डा चण्डवेगा महारवा । । २१.३४ । ।

भृकुटी चण्डवीर्या च चण्डभ्रू चण्डनायिका ।
चञ्चला चलवेगा च चलजिह्वा चलेश्वरी । । २१.३५ । ।

चकारे देवता ह्येताः क्षेत्रपालो महाजयः ।
कुलूतदेशवासिन्यो रक्षां कुर्वन्ति साधके । । २१.३६ । ।

कालरात्री च वेताली कङ्काली च करङ्किणी ।
किङ्किणी चण्डघोषा च अट्टहासा महारवा । । २१.३७ । ।

चण्डमातङ्गी चण्डाली सूकरी कुक्कुटी तथा ।
गन्धारी डोम्बी चम्पाक्षी छकारे देवताः स्मृताः । । २१.३८ । ।

नायिका ओड्डियाने तु क्षेत्रपालो महाभृगुः ।
ज्वलिनी ज्वालिनी चैव महाज्वालावती प्रभा । । २१.३९ । ।

तेजा तेजवती वह्निः सुतेजा निर्मलोज्ज्वला ।
ज्वालावती कराली च विस्फुलिङ्गा शिखाशिखी । । २१.४० । ।

जकारे देवता राज्ञः सर्वसत्त्ववशङ्करी[ः] ।
जालन्धरे च देवेशे क्षेत्रपालो महाजिह्वः । । २१.४१ । ।

सुभद्रा भीमभद्रा च भद्रा चैव शुभानना ।
भीमा भीमवती कान्ती कङ्काली च करालिनी । । २१.४२ । ।
भद्रकाली सुकाली च विकटा कङ्कटेति च ।
चार्वाकी लम्पटी चैव झकारे देवताः स्मृताः । । २१.४३ । ।

मण्डले एकपादे तु महामाया बलोत्कटाः ।
चित्रसेनो महावीरः क्षेत्रपालो महाभयः । । २१.४४ । ।

सुभटोद्भटा विकटा कुटिला चैव कङ्कटा ।
वीरमाता सुवीरा च खड्गिनी शूलिनी खरा । । २१.४५ । ।

छुच्छुन्दरी विडाली च ञकारे देवतागणाः ।
पारसे तु महादेव्यो अधिकारं प्रकुर्वते । । २१.४६ । ।

ध्वाङ्क्षो नामेति विख्यातः क्षेत्रपालो भयानकः ।
राजा दक्षिणदेशे तु चवर्गे च क्रमीश्वरी । । २१.४७ । ।

मृगा च शशिरेखा च हरिणी रोहिणी तथा ।
अमृतोद्भवा पर्णजीवी जीवरक्षा सुजीविका । । २१.४८ । ।

हरिणाक्षी सुजीवा च चन्द्रोदयामृतोद्भवा ।
टकारे देवता ह्येताः कुशद्वीपे व्यवस्थिताः । । २१.४९ । ।

क्षेत्रपालो जयभद्रः कुशद्वीपप्रपालकः ।
व्योमनी व्योमरूपा च व्योमव्यापी शुभोदया । । २१.५० । ।

ग्रहचारी सुचारी च विषहारी विषान्तिका ।
जृम्भोद्याना च फेत्कारी देवकी दुर्जया महा । । २१.५१ । ।

ठकारे देवताः पूज्याः शाल्मलीद्वीपं आश्रिताः ।
क्षेत्रपालो महादिव्यः कपालहस्तो महाबलः । । २१.५२ । ।

चञ्चला चपला चण्डा डमरी डामरी शुभा ।
डिण्डिनी मुण्डिनी मुण्डा शाकिनी डाकिनीति च । । २१.५३ । ।

कर्तनी काकिनी देवी हट्टकी डाकिनी महा ।
डकारे देवता ह्येताश्चीनद्वीपे व्यवस्थिताः । । २१.५४ । ।

दधीचिः क्षेत्रपालस्तु तत्र देशे प्रपूजयेथ् ।
यमदंष्ट्रा महादंष्ट्रा अन्त्रमाला करालिका । । २१.५५ । ।
विकराला करालिन्या तालजङ्घा सुजङ्घिका ।
लोहजङ्घातिजङ्घा च महावेगातिवेगगा । । २१.५६ । ।

वज्रशङ्खी नटी चैव बला चैव तथापरा ।
ढकारे देवता नाम कुमारीद्वीपं आश्रिताः । । २१.५७ । ।

क्षेत्रपालः कुमारीशो रक्षपालस्तथैव च ।
बला चातिबला चैव अजिता चापराजिता । । २१.५८ । ।

जया च विजया देवी जृम्भनी स्तम्भनी तथा ।
अन्धनी मोहनी माया निगडा कीलनी तथा । । २१.५९ । ।

यवद्वीपे स्थिता देव्य अधिकारं प्रकुर्वते ।
महादंष्ट्रस्तु विख्यातः क्षेत्रपालो महाबलः । । २१.६० । ।

णकारे देवता ह्येताः कामरूपनिवासिताः ।
दन्तुरा रौद्रभाषा च अभ्रमाल कुलासुभा । । २१.६१ । ।

चलजिह्वाग्रणेत्रा च रुरु[र्] हूंकारिका तथा ।
खादका रूपनाम च संहारी च क्षयान्तिका । । २१.६२ । ।

कण्डनी पेषणी चैव महाग्रासी कृतान्तिका ।
तकारे देवताः ख्याताः पुष्करद्वीपं आश्रिताः । । २१.६३ । ।

नायका देवता नाम क्षेत्रपालः श्रुतीधरः ।
डम्भकी डिम्भिडिम्भा च कैवर्तरजलेहिका । । २१.६४ । ।

द्रवणी द्रावणी क्षोभा प्लवनी प्लावनीति च ।
मदोत्कटा मदक्षोभा मदवाहा महाबला । । २१.६५ । ।

कामसन्दीपनी देवी अतिरूपा मनोहरा ।
थकारे देवता नाम संस्थिता[ः ] परतीरके । । २१.६६ । ।

क्षेत्रपालो महाध्वाङ्क्षः खड्गहस्तो महाबलः ।
अरुणा घोषदेवी च रेवती घोरदायिका । । २१.६७ । ।

स्तम्भनी घोररक्षा च घोररूपा च घोरिणी ।
घोरघोरतराघोरा घोरा विकटनायिका । । २१.६८ । ।
(एम्.; घोरा घोरतराघोराऽतिघोरा विकटनायिका Eद्.)

वानरी क्रोष्टकी चैव सुरासवमधुप्रिया ।
दकारे देवता राजाश्चीनदेशे सुवासिताः । । २१.६९ । ।

क्षेत्रपालो महानन्दी शूलहस्तो महाबलः ।
भीमरावा सुरावा च संस्तारी सवराक्षिका । । २१.७० । ।

स्तम्भनी रोषणी रौद्रा रुद्रवत्या छलापहा ।
महाशक्तिः क्षान्तिशीला वज्रतुण्डी वृकोदरी । । २१.७१ । ।

धकारे देवता ह्येताः पूजनीयाः सदा बुधैः ।
क्षेत्रपालः सुगन्धी च गन्धर्वो वीणहस्तकः । । २१.७२ । ।

चन्द्रद्वीपे सुवासिन्यो आर्तानां आर्तिनाशनी[ः] ।
कलनी कृन्तनी काली कालसंवर्तनी कला । । २१.७३ । ।

अन्तेष्ठी च प्रतिष्ठा च शान्तिपुष्टिकरी तथा ।
जया धृतिकरी स्ॐया कामदा शुभदानना । । २१.७४ । ।

सुतेजा काममतिका नकारे देवताः शुभाः ।
जनद्वीपरता नित्यं साधकानां तु वत्सलाः । । २१.७५ । ।

क्षेत्रपालस्तु गोपालो धर्मज्ञः सत्यवादिनः ।
धर्मा धर्मवती शीला पापहा धर्मवर्धनी । । २१.७६ । ।

धर्मरक्षितवार्ता च धर्माधर्मवतीति च ।
धर्मकर्ता धर्मप्रिया धर्मसन्दीपनीति च । । २१.७७ । ।

पकारे देवता राजा रत्नद्वीपार्णवे स्थिताः ।
क्षेत्रपालो महाकायस्तस्मिन्देशेऽ धिपो महान् । । २१.७८ । ।

सुमतिर्दुर्मतिर्मेधा विमला मनविकाशिनी ।
शुद्धिर्बुद्धिर्मतिः कान्तिर्बलोत्साहनवर्धनी । । २१.७९ । ।

बला चातिबला चैव प्राणवृद्धिकरी परा ।
निर्लेपा निर्घृणा माया सर्वपापक्षयङ्करी । । २१.८० । ।

फकारे देवता राजा सरद्वीपे सुवासिनः ।
पुष्पदन्तस्तु विख्यातः क्षेत्रपालो महाबलः । । २१.८१ । ।

रक्ता चैव विरक्ता च उद्वेगा शोकवर्धनी ।
कामतृष्णा क्षुधा मोहा निद्रालसभया जरा । । २१.८२ । ।

सुकृष्णा रोदनी कुष्मा मलाङ्गी शिशुनाशनी ।
बकारे देवता राजा ह्येता गोमेदमण्डले । । २१.८३ । ।

धनदो नाम विख्यातः क्षेत्रपालो महायशः ।
तृष्णा च कामदा भोगा निर्दुःखा सुखदा तथा । । २१.८४ । ।

आनन्दा च सुनन्दा च महानन्दा शुभङ्करी ।
वीतरागा महोत्साहा जितरागा मनोरमा । । २१.८५ । ।

भकारे देवता ह्येता मध्ये गर्भोदमण्डले ।
विपुलो नाम विख्यातः क्षेत्रपालो महाबलः । । २१.८६ । ।

मनोन्मनी मनःक्षोभा मदोन्मत्ता मदाकुला ।
मदा गजमदा नाम कामानन्दसुविह्वला । । २१.८७ । ।

महावेगा सुवेगा च महावेगा क्षणापहा ।
क्रमणी चैव नामा च क्रामणी च तथापरा । । २१.८८ । ।

सूर्यद्वीपे महायोगी[ः] सर्वाः कनकपिङ्गलाः ।
मकारस्य इमा देव्यो राजा अधिपतिर्महान् । । २१.८९ । ।

आनन्दो नाम विख्यातः क्षेत्रपालः सदा स्थितः ।
हयवेगा सुवेगा च अतिवेगवती महा । । २१.९० । ।

चक्रवेगा विरुद्धा च चलचित्तवती मती ।
रोदनी क्षोदनी बालाऽतिरोषा कलहप्रिया । । २१.९१ । ।

विद्रुता त्रासनी देवी मनोवेगा च चञ्चला ।
यकारे देवता राजा आसवद्वीपसंस्थिताः । । २१.९२ । ।

शुक्रो नामेति विख्यातः क्षेत्रपालो महाबलः ।
विद्युज्जिह्वा महाजिह्वा शृङ्गाटा कुटिला स्फुटा । । २१.९३ । ।
ज्वाला चैव सुज्वाला च महाज्वाला तथैव च ।
ज्वालावती विस्फुलिङ्गा ज्वालाभस्मक्षयान्तका । । २१.९४ । ।

रकारमध्यगा देव्यो मरुदेशाधिपो महान् ।
विडालः क्षेत्रपालश्च महाबलपराक्रमः । । २१.९५ । ।

उल्लेखा च पताका च भोगा भोगवती महा ।
महाभोगातिभोगा च भोगाढ्या भोगपारगा । । २१.९६ । ।

ऋद्धिर्वृद्धिर्धृतिः कान्तिर्लकारे देवताः शुभाः ।
वसन्तद्वीपवासिन्यः क्षेत्रपालश्च कारुणी । । २१.९७ । ।

वरिष्ठा च परा दिव्या अमृता तु फलाशिनी ।
हरिणाक्षी सुवर्णा च कनकरेणुपिञ्जरा । । २१.९८ । ।

रत्ना च रत्नद्वीपा च सुद्वीपा रत्नमालिनी ।
रत्नशोभा महाशोभा रोमशोभा पराद्युतिः । । २१.९९ । ।

वकारे देवता ह्येताः सरद्वीपाधिवासिता[ः] ।
क्षेत्रपालस्तु विख्यातः शुभाननो बलोत्कटः । । २१.१०० । ।

सवरी बर्बरी गृध्री घण्टकर्णा खरानना ।
हयग्रीवा च जङ्घा च सर्वग्रासा कृतान्तका । । २१.१०१ । ।

सर्वाशी च महाभक्षा महादंष्ट्रातिरौरवा ।
शकारे देवता नाम कथिताश्च महायशाः । । २१.१०२ । ।

अमृतासवद्वीपे च क्षेत्रपालो रतिप्रियः ।
रागा रागवती क्रोधा महाभोगा च रौरवा । । २१.१०३ । ।

क्रुद्धनी रोषणी कलहा कलकाली कलान्तिका ।
दुर्भेद्या दुर्भटा चैव दुमिरीक्षा सुभीषणा । । २१.१०४ । ।

यमान्तका कली नाम षकारे देवताः शुभाः ।
आनन्दद्वीपवासिन्यो देव्यो अक्षययौवनाः । । २१.१०५ । ।

देवश्च क्षेत्रपालोऽत्र सुरासववरप्रियः ।
नटी नाटी कुनाटी च वाटकी हाटकी विटी । । २१.१०६ । ।
कङ्कटा विकटा चैव सुभटा च भटोद्भवा ।
सकारे देवता नाम गान्धर्वद्वीपवासिनः । । २१.१०७ । ।

वीणावंशरता देवी नोदं गन्धर्वकिन्नरैः ।
चित्राङ्गः क्षेत्रपालश्च मेरूर्ध्ववलये स्थितः । । २१.१०८ । ।

नादाक्षी नादरूपा च सर्वाकारी गमागमा ।
अन्तचारी सुचारी च ऊर्ध्वनादी सुवाहिनी । । २१.१०९ । ।

संयोगा च वियोगा च हंसाख्या च विसालिनी ।
अङ्गारद्वीपवासिन्यो हकाराक्षरसम्भवाः । । २१.११० । ।

विडालो नाम विख्यातः क्षेत्रपालो महाबलः ।
सर्वग्रासी कृतान्ती च पवनी पावनी तथा । । २१.१११ । ।

भेदनी छेदनी चैव सर्वकारी क्षुधाशनी ।
उच्छुष्मा देवगान्धारी भस्मान्ता वडवानला । । २१.११२ । ।

बह्वाशी अग्निद्वीपा च क्षमा क्षेमकरी परा ।
क्षकारे देवता ह्येता नग्नद्वीपरताः प्रिये । । २१.११३ । ।

प्रद्युम्नः क्षेत्रपालश्च महाबलपराक्रमः । । २१.११४ । ।

इति कुलालिकाम्नाये श्रीकुब्जिकामते द्वीपाम्नायो नाम एकविंशतिमः पटलः

*************************************************************************

श्रीकुब्जिका उवाच

श्रुता देव महाव्याप्तिः समस्तव्यस्तविस्तराथ् ।
इदानीं श्रोतुं इच्छामि त्वत्सकाशान्मनोद्भवां । । २२.१ । ।

अपरां देहजैर्भिन्नां शब्दराशिं सभैरवं । । २२.२ । ।

श्रीभैरव उवाच

साधु भद्रे पुनः साधु महावस्तुप्रबोधके ।
तदहं सम्प्रवक्ष्यामि सिद्धकौलं महातपे । । २२.३ । ।
महाकल्पान्तसंहारे महाप्रलयं अद्भुतं

सूर्यकोटिकराभासं विद्युच्छटलताकुलं ।
कालाग्निशिखराटोपं शूलज्वालोर्मिसङ्कुलं । । २२.४ । ।

विस्फुलिङ्गज्वलन्तौघैर्महाज्वालार्चिवर्तुलं ।
ज्वालामालाकुलोज्ज्वालैः करालैर्भीमभीषणैः । । २२.५ । ।

स्वर्गपातालभूर्लोकैरन्तरीक्षैर्दिशो दश ।
मच्छरीरे समुत्पन्ना महाक्रोधसमुद्भवा । । २२.६ । ।

अकारादिक्षकारान्ता एकैकाक्षरभेदिता ।
भैरवावलिनी देवी विलोमेन समुद्धरेथ् । । २२.७ । ।

तदहं सम्प्रवक्ष्यामि शृणु कुब्जि महाधिपे ।
क्ष ह स आदितः कृत्वा अकारान्तेन सम्पुटं । । २२.८ । ।

क्ष क्रोधावलि अ अनन्त अजर भैरव
ह हंसावलि आ महानन्द आपकुम्भ भैरव
स आनन्दावलि इ प्रचण्ड इडाचार भैरव
ष गर्भावलि ई डामर इन्द्रमूर्ति भैरव
श संहारावलि उ उद्यान उल्कास्य भैरव
व अमृतावलि ऊ वसन्त ऊष्माद भैरव
ल विपुलावलि ऋ ऋपुदर्प ऋपुसूदन भैरव
र कालान्तकावलि ॠ कृतान्त ॠमुक्त भैरव
य प्रचण्डावलि ळ् प्रसन्न ळ्प्तकाय भैरव
म महामोहावलि í महामाया íपाद भैरव
भ भूतभयावलि ए रौद्र एकदंष्ट्र भैरव
ब वडवामुखावलि ऐ महादंष्ट्र ऐरावत भैरव
फ लम्पटावलि ओ कङ्काल ओघाम्बु भैरव
प पवनावलि औ अनङ्ग औषधीघ्न भैरव
न कुसुमावलि अं स्वच्छन्द अंजन भैरव
ध विपुलावलि अः मन्मथ अःह्वकायभैरव
द सुरतावलि क उन्मत्त कम्बल भैरव
थ कूर्मावलि ख मेघनाद खरुषानन भैरव
त त्वरितावलि ग कराल गोमुख भैरव
ण मन्दरावलि घ विकराल घण्टाल भैरव
ढ खट्वाङ्गावलि ङ महाबल ङणनान्तभैरव
ड चन्द्रावलि च असिताङ्ग चण्डधार भैरव
ठ वज्रावलि छ उल्क छटाटोप भैरव
ट मन्थावलि ज एकपाद जटालाक्ष भैरव
ञ कान्तावलि झ कपाल झङ्कीश भैरव
झ अम्बिकावलि ञ व्योम ञभटेश्वर भैरव
ज भेदकावलि ट वेताल टङ्कपाणि भैरव
छ कृतान्तावलि ठ आमर्दक ठानुबन्ध भैरव
च चतुर्भुजावलि ड महासाह डामर भैरव
ङ योगावलि ढ रुरु ढढृकर्ण भैरव
घ भूतावलि ण भुवन णतीकान्त भैरव
ग अभयावलि त विभूति तडिद्भास्वर भैरव
ख चर्चकावलि थ ऊर्ध्वसेफ थविर भैरव
क भस्मान्तकावलि द क्रूर दन्तुर भैरव
अः सृष्टिकावलि ध लोहित धनद भैरव
अं विजयावलि न लम्पट नागकर्ण भैरव
औ ब्रह्मावलि प चर्चक प्रचण्ड भैरव
ओ सद्योजातावलि फ ……. फेत्कार भैरव
ऐ फेत्कारावलि ब अचिन्त्य वीरसिंह भैरव
ए कर्णमोटावलि भ महादेवाङ्ग भृकुटि भैरव
í महामोहावलि म महाकालाग्नि मेघभासुर भैरव
ळ् महामायावलि य मार्तण्ड युगान्त भैरव
ॠ गान्धारावलि र प्राण रौरव भैरव
ऋ पुष्पावलि ल अनन्त लम्बोष्ठ भैरव
ऊ शब्दावलि व उच्छुष्म वसल भैरव
उ महाघोषावलि श महायश शुकतुण्ड भैरव
ई सूक्ष्मावलि ष महोद्यान षटालाक्ष भैरव
विद्यावलि स अमृत सुनास भैरव
आ व्यापकावलि ह शुभङ्कर हूहूक भैरव
अ महामायावलि क्ष प्रलयान्तक क्षयान्त भैरव । । २२.८ । ।

एष क्रोधो महादेवि मम हृदयनिःसृतः ।
पञ्चाशभैरवोपेता मालिन्या सह संयुता । । २२.९ । ।

अनेन न्यासमात्रेण सकलीकृतविग्रहः ।
चिन्तयेद्देहं आत्मानं उक्तलक्षणसंयुतं । । २२.१० । ।

संहरन्तं जगत्सर्वं छिन्दन्तं पाशपञ्जरं ।
निर्दहन्तं जगत्सर्वं भस्मकूटं विचिन्तयेथ् । । २२.११ । ।

अकारादिक्षकारान्तं पशुदेहे विचिन्तयेथ् ।
अधोमुखोर्ध्वपादान्तं संहारानलमध्यगं । । २२.१२ । ।

संवर्तानलदह्यन्तं चतुर्दशवियोजितं ।
तद्बीजं सम्प्रवक्ष्यामि महाक्रोधस्य भैरवि । । २२.१३ । ।

मन्त्रसारं वरारोहे शृणु त्वं भावितात्मना ।

ओं हूं क्षः हूं फत्रीं छ्रीं क्षः श्लीं फ्रें ह्रूं हूं हूं फट् । । २२.१४आ । ।

क्रोधहृदयानुजा देवी महाभैरवं अब्रवीथ् । । २२.१४ । ।

कुजाख्यमन्त्रं उच्चार्य त्रैलोक्यं अपि संहरेथ् ।
कैलासं अपि पातयेद्वाचासिद्धिः प्रवर्तते । । २२.१५ । ।

एकैकाक्षरसम्भिन्नां उद्धरामि परापरां ।
अकारादिक्षकारान्तं नामं वक्ष्यामि पार्वति । । २२.१६ । ।
आ अ अनन्तावलि क्ष गगनवीर
आ प्रलयान्तकावलि ह भुवनवीर
अनन्तशक्त्यावलि स विजयवीर
ई हंसावलि ष अजयवीर
उ मोहावलि श महा-अजयवीर
ऊ क्रियाशक्त्यावलि व अङ्कुरवीर
ऋ बृहोदरावलि ल संहारवीर
ॠ रिपुमर्दकावलि र कुमारवीर
ळ् विद्याशक्त्यावलि य महायशवीर
í इच्छावलि म महासाहसवीर
ए रत्नावलि भ प्रचण्डवीर
ऐ विज्ञानशक्त्यावलि ब महार्णववीर
ओ लोहितावलि फ महामरवीर
औ उल्कावलि प महादम्भकवीर
अं लोलुपावलि न चर्चिकवीर
अः बर्बरावलि ध प्रमथवीर
क पवनावलि द कनकवीर
ख लम्पटावलि थ खरोदकवीर
ग मातावलि त गरुडवीर
घ रौद्रावलि ण मेघनादवीर
ङ सर्वभक्षावलि ढ महागर्जनवीर
च ज्येष्ठावलि ड चर्वकवीर
छ अम्बिकावलि ठ छेदकवीर
ज वेदावलि ट त्रिशिखवीर
झ क्रोधावलि ञ मारीचिवीर
ञ ब्रह्मघोषावलि झ विधानवीर
ट सर्ववीरावलि ज विकटवीर
ठ वज्रकावलि छ वसन्तकवीर
ड कन्यावलि च अभयवीर
ढ प्रसन्नावलि ङ विपक्षवीर
ण महाक्रोधावलि घ महाबलिवीर
त डामरावलि ग कटङ्कटवीर
थ महादंष्ट्रावलि ख डमरुकवीर
द आधारावलि क धर्मवीर
ध आसन्नावलि अः महातिबलवीर
न उज्ज्वलावलि अं सर्ववीर
प सागरावलि औ महाकायवीर
फ त्रिभुवनावलि ओ वरलामुखवीर
ब वलयावलि ऐ भस्मान्तकवीर
भ निद्रावलि ए दुर्जयवीर
म सन्ध्यावलि í महावेतालवीर
य चन्द्रवीणावलि ळ् महारौरववीर
र मन्मथावलि ॠ महादुर्धरवीर
ल व्योमावलि ऋ महाभोगवीर
व ऊष्मावलि ऊ वज्रवीर
श सितावलि उ कालाग्निवीर
ष महामायावलि ई सर्वलोकवीर
स सर्वदेवतावलि इ महानादवीर
ह योगावलि आ परापरवीर
क्ष अनन्ताख्यावलि अ महाक्षयान्तवीर

अथापरा परा ख्याता महामाया परापरा ।
मन्त्रगर्भा महादेवी विश्रुता भुवनत्रये । । २२.१७ । ।

य्र्य्ॐ र्र्य्ॐ ल्र्य्ॐ व्र्य्ॐ श्र्य्ॐ ष्र्य्ॐ स्र्य्ॐ ह्र्य्ॐ क्ष्र्य्ॐ कामाख्यस्य ह्स्र्य्ॐ पूर्णगिरि स्म्र्य्ॐ ओड्डियान क्ष्म्र्य्ॐ जालन्धर ।
श्री हा क डो क श्री कामरिवाडी श्री देववाडी श्रीं ह्रीं अमृतविद्ये पुत्रं देहि आयुं देहि यशं देहि । । २२.१८ । ।

श्रीकुब्जिका उवाच

प्रमादाल्लोपं आयाते सिद्धे समयमण्डले ।
साधकस्य भवेद्ग्लानिः क्लिष्टो विघ्नैः प्रबाध्यते । । २२.१८ । ।

का गतिस्तस्य देवेश कथं शुद्धिं अवाप्नुयाथ् ।
तं आचक्षस्व सर्वज्ञ समयघ्नः शुध्यते यथा । । २२.१९ । ।

श्रीभैरव उवाच

अट्टहासादितः कृत्वा राजगृहं अपश्चिमं ।
आयुधैः सहितां देवीं क्षेत्रपालसमन्वितां । । २२.२० । ।

क्षेत्रोपक्षेत्रसन्दोहैः सेवनान्निर्मलो भवेथ् ।
अथाशक्तः प्रमादी वा पीठसङ्कीर्तनात्प्रिये । । २२.२१ । ।

सम्यक्शुद्धिं अवाप्नोति प्रातरुत्थाय यः पठेथ् ।
तदहं सम्प्रवक्ष्यामि समयानां विशुद्धये । । २२.२२ । ।

अट्टहासे कदम्बस्थां स्ॐयास्यां वज्रधारिणीं ।
महाघण्टसमोपेतां प्रणमामि सिवङ्करीं । । २२.२३ । ।

चरित्रायां करञ्जस्थां कृष्णाख्यां शक्तिधारिणीं ।
महाबलसमोपेतां प्रणमामि सुसिद्धिदां । । २२.२४ । ।

अग्निकेन समोपेतां दण्डहस्तां नगौकसां ।
कोलागिर्ये महालक्ष्मीं न्ॐइ लक्ष्मीविवर्धनीं । । २२.२५ । ।

ज्वालामुखीं श्रीजयन्त्यां निम्बस्थां खड्गधारिणीं ।
महाप्रेतसमोपेतां न्ॐइ सर्वार्थसिद्धिदां । । २२.२६ । ।

अश्वत्थस्थां महामायां उज्जैन्यां पाशधारिणीं ।
महाकालसमोपेतां न्ॐइ सर्वार्थसिद्धिदां । । २२.२७ । ।
उडुम्बरतलावस्थां वायुवेगां ध्वजायुधां ।
प्रयागे पवनोपेतां न्ॐइ शत्रुविनाशनीं । । २२.२८ । ।

वाराणस्यां तु तालस्थां ऊर्ध्वकेशीं गदायुधां ।
प्रणम्य शिरसा देवीं शाङ्करीं शाङ्करान्वितां । । २२.२९ । ।

कर्णमोटीं वटस्थां तु सशूलां हेतुकान्वितां ।
श्रीकोटे श्रीपदां न्ॐइ राज्यसम्पददायिनीं । । २२.३० । ।

विरजायाम्बिकदेवीं मुद्रापट्टिशधारिणीं ।
अनलेन समोपेतां प्रणमामि जयावहां । । २२.३१ । ।

ऐरुड्यां अग्निवक्त्रां तु वज्रशक्तिधरां शुभां ।
घण्टारवसमोपेतां नमामि रिपुनाशनीं । । २२.३२ । ।

मुषलायुधहस्तां तु महाजङ्घसमन्वितां ।
नमामि शत्रुभङ्गार्थे पिङ्गाक्षीं हस्तिनापुरे । । २२.३३ । ।

एलापुरे खरास्यां तु पाशहस्तां महाबलां ।
गजकर्णसमोपेतां न्ॐइ दुष्टप्रमर्दनीं । । २२.३४ । ।

काश्मर्यां चैव गोकर्णां मुद्रालकुटधारिणीं ।
तडिज्जङ्घसमोपेतां नमामि रिपुमर्दनीं । । २२.३५ । ।

करालेन समोपेतां नमाम्यङ्कुशधारिणीं ।
क्रमणीं मरुदेशे तु त्रैलोक्याकृष्टिकारिकां । । २२.३६ । ।

रोमजङ्घसमोपेतां नगरे तु हलायुधां ।
चैत्रकच्छनिवासां तु नमामि धनसिद्धये । । २२.३७ । ।

कुम्भकेन समोपेतां खट्वाङ्गकरभूषितां ।
नमामि पापशुद्ध्यर्थं चामुण्डां पुण्ड्रवर्धने । । २२.३८ । ।

परस्तीरे प्रसन्नास्यां वज्रशृङ्खलधारिणीं ।
नमामि त्रिजटोपेतां भेदस्तम्भनकारिकां । । २२.३९ । ।

पृष्ठापुरे विद्युन्मुखीं दण्डशक्त्यायुधोद्यतां ।
नमामि घनरवोपेतां भेदजृम्भनकारिकां । । २२.४० । ।
उल्कामुखसमोपेतां कुहुद्यां तु महाबलां ।
मुद्रालकुटधारिण्यां न्ॐइ दुष्टाङ्गभञ्जनीं । । २२.४१ । ।

पिशिताशसमोपेतां न्ॐइ कट्टारिकोद्यतां ।
सोपारे अग्निवक्त्रां तु अमित्रपशुदारिणीं । । २२.४२ । ।

क्षीरिके लोकमातां तु खड्गहस्तां नमाम्यहं ।
महामेरुसमोपेतां महतार्तिनिकृन्तनीं । । २२.४३ । ।

वज्रायुधधरां स्ॐयां भीमाननसमन्वितां ।
स्तम्भाकृष्टिकरीं देवीं मायापुर्यां तु कम्पिनीं । । २२.४४ । ।

महाक्रोधसमोपेतां पूतनाम्रातिकेश्वरे ।
गदाहस्तायुधां न्ॐइ ताडनाकृष्टिकारिकां । । २२.४५ । ।

राजगृहे भग्ननासां महाकर्णसमन्वितां ।
वज्रशक्तिधरां न्ॐइ अशेषफलदायिकां । । २२.४६ । ।

क्षेत्रोपक्षेत्रसन्दोहे स्थितभूचक्रमातरां ।
क्षेत्रपालसमोपेतां कीर्तयेद्यः समाहितः । । २२.४७ । ।

प्रातरुत्थाय मन्त्रज्ञः स्वप्नकालेऽथवा सुधीः ।
युक्तोऽपि पातकैर्घोरैर्मातॄणां सम्मतो भवेथ् । । २२.४८ । ।

मातृहा पितृहा चैव ब्रह्मघ्न गोघ्न एव च ।
वीरद्रव्यापहारी च प्रमादात्समयच्युतः । । २२.४९ । ।

मन्त्राचारविलुप्तोऽपि पीठसङ्कीर्तनात्प्रिये ।
पापकञ्चुकं उत्सृज्य नैव पश्यति दुर्गतिं । । २२.५० । ।

यः पुनः शुद्धभावात्मा त्रिष्कालं परिवर्तयेथ् ।
प्राप्नोति चिन्तितान्कामान्स्त्रीणां भवति वल्लभः । । २२.५१ । ।

कुण्डेऽथ मण्डले वाथ प्रतिमायां पटेऽपि वा ।
लिङ्गे दक्षिणमूर्तौ वा जलमध्ये गतोऽपि वा । । २२.५२ । ।

त्रिष्कालं एककालं वा यः पठेद्यस्तु भावितः ।
विषशस्त्रज१आग्निभ्यो व्याधिभूतग्रहैरपि । । २२.५३ । ।
अजितः सुचिरं कालं जायते निरुपद्रवः ।
महाभये समुत्पन्ने कपिलागोमयेन तु । । २२.५४ । ।

चतुर्दिक्षु चतुर्विंश कारयेन्मण्डलानि तु ।
पूर्वं उत्तरतश्चैव वारुण्यां दक्षिणेन तु । । २२.५५ । ।

षट्कं षट्कं तु कर्तव्यं तत्र पूज्य क्रमेण तु ।
श्मशानकल्पवृक्षे तु योगिन्यः क्षेत्रपास्तथा । । २२.५६ । ।

पूर्वे तु श्वेतपुष्पैस्तु दक्षिणे पीतपुष्पकैः ।
पश्चिमे रक्तपुष्पैस्तु उत्तरे कृष्णपुष्पकैः । । २२.५७ । ।

सायुधान्श्वेतपुष्पैस्तु गन्धैर्धूपैर्मनोरमैः ।
मध्ये तु कलशं स्थाप्य दिव्यतोयपरिप्लुतं । । २२.५८ । ।

चतुर्विंशति दीपांश्च स्थाने स्थाने प्रदापयेथ् ।
चतुर्विंशति पीठांश्च क्रमेण परिवर्तयेथ् । । २२.५९ । ।

अहोरात्रोषितो भूत्वा निशां एकां सुयन्त्रितः ।
प्रभाते विमले मन्त्री वीरभोज्यं तु कारयेथ् । । २२.६० । ।

राजगृहे भग्ननासां महाकर्णसमन्वितां ।
वज्रशक्तिधरां न्ॐइ अशेषफलदायिकां । । २२.४६ । ।

क्षेत्रोपक्षेत्रसन्दोहे स्थितभूचक्रमातरां ।
क्षेत्रपालसमोपेतां कीर्तयेद्यः समाहितः । । २२.४७ । ।

प्रातरुत्थाय मन्त्रज्ञः स्वप्नकालेऽथवा सुधीः ।
युक्तोऽपि पातकैर्घोरैर्मातॄणां सम्मतो भवेथ् । । २२.४८ । ।

मातृहा पितृहा चैव ब्रह्मघ्न गोघ्न एव च ।
वीरद्रव्यापहारी च प्रमादात्समयच्युतः । । २२.४९ । ।

मन्त्राचारविलुप्तोऽपि पीठसङ्कीर्तनात्प्रिये ।
पापकञ्चुकं उत्सृज्य नैव पश्यति दुर्गतिं । । २२.५० । ।

यः पुनः शुद्धभावात्मा त्रिष्कालं परिवर्तयेथ् ।
प्राप्नोति चिन्तितान्कामान्स्त्रीणां भवति वल्लभः । । २२.५१ । ।
कुण्डेऽथ मण्डले वाथ प्रतिमायां पटेऽपि वा ।
लिङ्गे दक्षिणमूर्तौ वा जलमध्ये गतोऽपि वा । । २२.५२ । ।

त्रिष्कालं एककालं वा यः पठेद्यस्तु भावितः ।
विषशस्त्रज१आग्निभ्यो व्याधिभूतग्रहैरपि । । २२.५३ । ।

अजितः सुचिरं कालं जायते निरुपद्रवः ।
महाभये समुत्पन्ने कपिलागोमयेन तु । । २२.५४ । ।

चतुर्दिक्षु चतुर्विंश कारयेन्मण्डलानि तु ।
पूर्वं उत्तरतश्चैव वारुण्यां दक्षिणेन तु । । २२.५५ । ।

षट्कं षट्कं तु कर्तव्यं तत्र पूज्य क्रमेण तु ।
श्मशानकल्पवृक्षे तु योगिन्यः क्षेत्रपास्तथा । । २२.५६ । ।

पूर्वे तु श्वेतपुष्पैस्तु दक्षिणे पीतपुष्पकैः ।
पश्चिमे रक्तपुष्पैस्तु उत्तरे कृष्णपुष्पकैः । । २२.५७ । ।

सायुधान्श्वेतपुष्पैस्तु गन्धैर्धूपैर्मनोरमैः ।
मध्ये तु कलशं स्थाप्य दिव्यतोयपरिप्लुतं । । २२.५८ । ।

चतुर्विंशति दीपांश्च स्थाने स्थाने प्रदापयेथ् ।
चतुर्विंशति पीठांश्च क्रमेण परिवर्तयेथ् । । २२.५९ । ।

अहोरात्रोषितो भूत्वा निशां एकां सुयन्त्रितः ।
प्रभाते विमले मन्त्री वीरभोज्यं तु कारयेथ् । । २२.६० । ।

ततः क्षमापयेत्पीठान्प्रणिपत्य पुनः पुनः ।
निर्विघ्नस्तु ततो मन्त्री क्षिप्रं भवति सिद्धिभाक् । । २२.६१ । ।

उपसर्गग्रहादिभ्यः क्षयकुष्ठज्वरादिभिः ।
मुच्यते सर्वरोगैश्च धनवानपि जायते । । २२.६२ । ।

कन्या मनेप्सितान्कामान्लभते चाभिषेकतः ।
पुत्रार्थी लभते पुत्रान्कामुकः सुभगो भवेथ् । । २२.६३ । ।

विद्यार्थी लभते विद्यां वणिग्वै लाभं अश्नुते ।
मन्त्राराधनशीलश्च जायते निरुपद्रवः । । २२.६४ । ।
योगाभ्यासरतो नित्यं प्राप्य सिद्धिं परं ययौ ।
द्वीपाम्नायप्रसङ्गेन सर्वं एतत्प्रकाशितं । । २२.६५ । ।

समस्तव्यस्तव्याप्तिस्तु क्षेत्रोपक्षेत्रसंयुतं ।
यत्त्वया पृच्छितं सर्वं कालज्ञानं कुजेश्वरि । । २२.६६ । ।

तदहं सम्प्रवक्ष्यामि भक्तानां भक्तिवत्सले ।
सर्वं सम्पादितं तुभ्यं आज्ञानन्दक्रमार्णवं । । २२.६७ । ।

इदानीं शृणु कल्याणि कालचक्रं यथा स्थितं । । २२.६८ । ।

इति कुलालिकाम्नाये श्रीकुब्जिकामते समस्तव्यस्तव्याप्तिर्नाम द्वाविंशतिमः पटलः


श्रीभैरव उवाच

कालचक्रं वरारोहे आत्मनश्च परस्य च ।
ज्ञात्वा व्यपोहयेत्कालं उत्क्रान्तिं वा सलक्षणं । । २३.१ । ।

येन जानाति देवेशि साधको निश्चयात्मकः ।
शृणु त्वं परमानन्दं सुगोप्यं प्रकटामि ते । । २३.२ । ।

कालं तु त्रिविधं प्रोक्तं परं चैव परापरं ।
अपरं तु कलाधारं कालस्य वशसंस्थितं । । २३.३ । ।

त्रुटिलवात्परः कालः कालोन्मेषात्परापरः ।
मन्वन्तरादिकाष्ठादौ स कालः कलते तनुं । । २३.४ । ।

कल्पे परापरे काले स्थित्वा कालस्य वञ्चनं ।
परात्परतरे काले स्थितौ कालस्य कालकृथ् । । २३.५ । ।

इति मत्वा परं कालं मानभूतं गुरोर्मुखाथ् ।
ततः कुर्वन्ति सर्वत्र ज्ञानक्रीडां अशङ्कितां । । २३.६ । ।

परं तु षण्णवत्योर्ध्वं षण्णवत्या परापरं ।
चतुराशीतिप्रमाणेन अपरं कलनात्मकं । । २३.७ । ।

पञ्चकेन निबद्धं तु पञ्चत्वं याति शीघ्रतः ।
नन्दाभद्रादियोगेन जयारिक्तादिपौर्णिमा । । २३.८ । ।

पञ्च पञ्च तथा पञ्च मासा-ऋत्वयनावधिं ।
संवत्सरं युगं चेति मन्वन्तरसकल्पकं । । २३.९ । ।

एवं कलन्ति तं कालं पञ्चपञ्चान्तकावधिं ।
कालावधिस्थितान्द्वीपान्द्वीपैः पीठान्विदुर्बुधाः । । २३.१० । ।

पीठान्तस्थानि तत्त्वानि पञ्च भूतानि तेषु वै ।
एकैकं पञ्चकावृत्तं पञ्चविंशान्तकाविधिं । । २३.११ । ।

स्वरपञ्चकयुक्तानि संसरन्ति कलार्णवे ।
पद्मनाडीनिबद्धेताः कालयन्त्रोपरिष्ठिताः । । २३.१२ । ।

जीवतोयं हरत्याशु शोषयन्ति क्षणे क्षणे ।
चन्द्रसूर्यकरैः कृत्वा कृतान्तो वाहने क्षमः । । २३.१३ । ।

जीवार्णवं समस्तेदं आकृष्य च पुनः पुनः ।
सिञ्चयेत्क्षयवृक्षाणि जरामृत्युफलार्थिनः । । २३.१४ । ।

एवं ते त्रिविधः कालः कथितस्तु सुविस्तरः ।
लक्ष्यते यै रुतैः सो हि तन्निबोधयतः शृणु । । २३.१५ । ।

बहिरङ्गान्तरङ्गानि ज्ञात्वा वञ्चयते यथा ।
वञ्चितुं यो न शक्येत स याति गुरुसन्निधौ । । २३.१६ । ।

स्वप्ने वा यदि प्रत्यक्षं समाधिगुणयोगतः ।
विवर्णां पश्यते छायां जीवेद्वर्षत्रयं तु सः । । २३.१७ । ।

उत्तराभिमुखो भूत्वा पश्यते दक्षिणादिशं ।
विवर्णं पूर्वं आख्यातं मासैकं त्रिदिनोज्झितं । । २३.१८ । ।

शुद्धनिर्मलं आदित्यं विरश्मिं यदि पश्यति ।
वर्षद्वयेन मन्तव्यं मृत्युं आत्मनि विन्दति । । २३.१९ । ।

अरुन्धतीं ध्रुवं चैव सोमच्छायां महापथं ।
यो न पश्यति देवेशि न जीवेद्वत्सरात्परं । । २३.२० । ।

मध्ये छिद्रं चन्द्रमसि यस्तु पश्यति भामिनि ।
मृत्युं तस्य विजानीयान्मासे चैकादशे तथा । । २३.२१ । ।

भग्नशाखाद्रुमं पश्येद्गन्धर्वनगरं तथा ।
पश्येत्प्रेतपिशाचांश्च दश मासान्स जीवति । । २३.२२ । ।

यस्य वै स्नातमात्रस्य हृदि पादौ च शुष्यति ।
धूमो वा मस्तके वास्ति अष्टमासान्स जीवति । । २३.२३ । ।

अग्रतः ऋष्ठतो वापि खण्डं यस्य पदं भवेथ् ।
पांसौ वा कर्दमे वापि सप्त मासान्स जीवति । । २३.२४ । ।

रक्तमाल्यानुलेपानि रक्तकृष्णं च वाससं ।
लभते स्वप्नयोगेन षण्मासांस्तु स जीवति । । २३.२५ । ।

आरुह्य मस्तके यस्य कृकलासः स्थिरीभवेथ् ।
धारयेत्त्रीणि रूपाणि पञ्चमासान्स जीवति । । २३.२६ । ।

पुरुषो लोहदण्डेन कृष्णो यस्य परिच्छदः ।
पश्यते स्वप्नयोगेन चतुर्मासान्स जीवति । । २३.२७ । ।

चन्द्रबिम्बप्रतीकाशं उदयन्तं दिवाकरं ।
विरश्मिमण्डलं पश्येत्त्रीणि मासान्स जीवति । । २३.२८ । ।

दीपं आरक्तताम्राभं आकाशे रविमण्डलं ।
मञ्जिष्ठां मेदिनीं पश्येज्जीवेन्मासद्वयं तु सः । । २३.२९ । ।

अप्सु वा यदि वादर्शे यद्यात्मानं न पश्यति ।
विशिरां पश्यते छायां मासं एकं स जीवति । । २३.३० । ।

यदि नेत्रं स्रवेदेकं कण्ठस्थानं विशुष्यति ।
वाचाद्यं कम्पते यस्य स्वाङ्गं वह्निसमप्रभं । । २३.३१ । ।

वेदना भवते तीव्रा अब्दं एकं स जीवति ।
ललाटं चलते यस्य विवर्णं जायते मुखं । । २३.३२ । ।
ध्रुवस्थाने तु प्रस्वेदं जायते यस्य सर्वदा ।
एकादश स मासानि जीवतेत्यविचारतः । । २३.३३ । ।

हृदये यस्य सन्तापं स्वकं कायं न पश्यति ।
वाचा च चलते यस्य दन्ताश्च परिशुष्यति । । २३.३४ । ।

विस्मृतिर्नित्य चित्तस्य दश मासान्स जीवति ।
हृदयं शुष्यते यस्य स्वकं कार्यं न जानति । । २३.३५ । ।

गुह्यं च शुष्यते शीघ्रं नव मासान्स जीवति ।
शुष्यते दक्षिणाङ्गं तु वामाङ्गं चैव शुष्यति । । २३.३६ । ।

घूर्मते महता नित्यं अष्ट मासान्स जीवति ।
अकस्माज्जायते स्थूलः स्थूलोऽपि कृषतां गतः । । २३.३७ । ।

धूसरो धूम्रवर्णश्च सप्त मासान्स जीवति ।
पूर्वे तु उदिते सूर्ये छायां पश्यैव दक्षिणां । । २३.३८ । ।

मुहूर्तं जीवते सो वै सत्येदं कुलनन्दिनि ।
वक्रनासा भवेद्यस्य मासादूर्ध्वं न जीवति । । २३.३९ । ।

छागगन्धं भवेद्गात्रं दन्ताश्चिटिचिटायते ।
छायात्मां विकृतां पश्येत्सप्तरात्रं स जीवति । । २३.४० । ।

यस्य कृष्णा भवेज्जिह्वा पद्मवर्णं मुखं भवेथ् ।
गण्डपृष्ठौ सुरक्ताभौ त्रिरात्रं च स जीवति । । २३.४१ । ।

श्यामदन्तं मुखं चैव प्रकृतिर्यस्य दृश्यते ।
विपरीतेन्द्रियग्रामं अहोरात्रं स जीवति । । २३.४२ । ।

घोषं न शृणुते यस्तु दीपवर्तिं न पश्यति ।
विशिरां पश्यते छायां क्षणं एकं स जीवति । । २३.४३ । ।

अन्यच्च परमोपायं शृणुष्व वरवर्णिनि ।
येन विज्ञातमात्रेण कालं जानाति तत्त्वतः । । २३.४४ । ।

षोडशद्वादशाराभ्यां या गतिस्त्वर्कसोमयोः ।
तस्मिन्निरीक्षयेज्ज्योतिं दीप्यमाने हुताशने । । २३.४५ । ।
षोडशान्तर्गतं यच्च पूर्वोक्तं यच्चतुर्दलं ।
तस्य मध्ये विजानीयात्कालज्ञः काललक्षणं । । २३.४६ । ।

सोमाधस्ताद्दले नष्टे षण्मासान्म्रियते ध्रुवं ।
त्रीणि मासांस्तथा चोर्ध्वे द्वौ मासौ ध्वनिसन्निधौ । । २३.४७ । ।

मासैकं वायुसामीप्ये तच्च पूषोदयं विदुः ।
सोमचक्रं इदं प्रोक्तं सृणु सूर्यं च साम्प्रतं । । २३.४८ । ।

यदा न दृस्यते ज्योतिर्द्वादशारे चतुर्दले ।
पक्षैकं तस्य देवेशि दिनानि दश पञ्चकैः । । २३.४९ । ।

तत्रैव तेन मार्गेण यदा ज्योतिर्न दृश्यते ।
दश पञ्च तथा त्रीणि एकाहं तस्य जीवितं । । २३.५० । ।

अथान्यत्परमं वक्ष्ये निश्चितं काललक्षणं ।
जीवन्ति च तदभ्यासात्तदभावान्म्रियन्ति ते । । २३.५१ । ।

निश्चितं तद्वरारोहे कालयोगः स एव हि ।
विस्मृतिर्जायते यस्य सा वारा मृत्युकाङ्क्षिणी । । २३.५२ । ।

देहमध्यगतं सर्वं म्रियते कालचोदितं ।
परापरेण कालेन भेदयित्वा समभ्यसेथ् । । २३.५३ । ।

वामावर्तादियोगेन दक्षिणान्तं अनुक्रमाथ् ।
शुक्लकृष्णप्रयोगेण कदहान्तं अपश्चिमं । । २३.५४ । ।

पूर्णमावास्यमध्यस्थं कालचक्रं समभ्यसेथ् ।
पञ्च पञ्च तथा पञ्च प्रतिपव्छुक्लं आदितः । । २३.५५ । ।

स्वरवर्णसमायोगं शुक्लादौ कृष्णकावधिं ।
पुद्गलात्मा समाश्रित्य अभ्यसेदं अहरहः । । २३.५६ । ।

जरामृत्युविनाशार्थे शीघ्रेदं पिण्डसाधनं ।
कथयन्ति महाविद्याः कालस्य काललक्षणं । । २३.५७ । ।

कथं अप्येष तन्निष्ठो यदि सिद्धिं न गच्छति ।
आकृष्टो योगिनीचक्रे तदा विस्मृतिकारिका । । २३.५८ । ।
विस्मृतिर्वा तिथिर्याति अभ्यसन्तो मुहुर्मुहुः ।
सा वारा सा तिथिर्देवि निश्चितेदं मयोदितं । । २३.५९ । ।

एतत्ते परमं कालं परमार्थं प्रकीर्तितं ।
सविस्मयकरं देवि अभेद्यं सम्प्रकाशितं । । २३.६० । ।

यदीच्छसि चिरं देवि जीवितं परमार्थतः ।
देहमध्यं परित्यज्य तिष्ठस्वान्यत्र भाविता । । २३.६१ । ।

देहामृतं परं योगं न देयं अपरीक्षिते ।
यावज्ज्ञानविरागाभ्यां पूरितं स्यात्तनुर्न हि । । २३.६२ । ।

परापरस्य कालस्य ज्ञातृत्वं भवते यथा ।
लेखनादिप्रयोगेण विधियोगेन भाविनि । । २३.६३ । ।

मार्गशीर्षस्य मासस्य कृष्णायां पञ्चमी भवेथ् ।
तस्यां सम्भारसम्पन्नो रात्रौ जागरणं यजेथ् । । २३.६४ । ।

आहरेन्निर्व्रणं भूर्जं रोचनासृक्सकुङ्कुमं ।
लिखेत्पूर्वमुखो भूत्वा द्वादशैव स्वरान्शुभान् । । २३.६५ । ।

मात्राबिन्दुसुसम्पन्नान्रक्षयित्वा पुनः पुनः ।
संवरेच्छुक्लसूत्रेण जप्तविद्यः समालभेथ् । । २३.६६ । ।

सितचन्दननैवेद्यैर्जातीपुष्पैर्मनोरमैः ।
पूजयित्वा क्रमाम्नायं दीपमन्त्रसुसंयुतं । । २३.६७ । ।

शरावसम्पुटस्थं तु जातीकुसुममध्यतः ।
स्थापयित्वा जपेन्मन्त्रं यावद्रात्रिक्षयं गतः । । २३.६८ । ।

ततः प्रभातसमये पूजयित्वा पुनः क्रमं ।
कुमार्यो वै प्रतर्पेत विद्या लब्धा तथा शृणु । । २३.६९ । ।

ह्रीं हूं स्व्लें स्वाहापतये रक्ष रक्षामृतोद्भवे ।
स्व्लें हूं ह्रीं च पुनर्जाप्यं सम्पुटीकृत्य मन्त्रयेथ् । । २३.७० । ।

जप्तविद्यास्तु स्तुभ्यन्ते कथयन्ति शुभाशुभं ।
न स्तुभ्यन्ति यदा देव्यो जप्तविद्यास्य सम्पुटं । । २३.७१ । ।
दर्शयन्ति महाहानिं भ्रष्टत्वं योगिनीकुले ।
सामर्थ्यतो न मृत्युः स्याद्भ्रष्टसिद्धिं न यास्यति । । २३.७२ । ।

एवं कृत्वा ततः पश्चाद्भूर्जपत्त्रे स्थिताक्षरान् ।
वाचयन्सन्निरूपेत समं हीनं सुवृद्धिदं । । २३.७३ । ।

अक्षराभ्यधिके यत्र तत्र राज्यं विनिर्दिशेथ् ।
मात्रयाभ्यधिके लाभं समे चारोग्यवत्सलं । । २३.७४ । ।

बिन्दुहीनं यदा पश्येद्हानिं अर्थस्य तत्र वै ।
मात्राहीने भवेद्व्याधिर्मृत्युः स्यादक्षरं विना । । २३.७५ । ।

वामादिक्रमयोगेन लक्षयेदुपदेशतः ।
विद्याकुम्भं सवर्धन्या तत्काले पूजितं तु यथ् । । २३.७६ । ।

ततः पुनः समालब्धं ग्रामस्य च पुरस्य च ।
भ्रामयेत्षोडशवारं दह्यते न तदम्भसा । । २३.७७ । ।

एतत्ते कथितं देवि शुभाशुभविलक्षणं ।
न देयं दुष्टबुद्धीनां आगमं गोपयेत्सदा । । २३.७८ । ।

कालावबोधनं देवि पूषाकालोपलक्षितं ।
समसप्तगते सूर्ये जन्म-ऋक्षे च चन्द्रमाः । । २३.७९ । ।

मकरोदयवेलायां पूषाकालस्तु कुब्जिके ।
अरिष्टदर्शनं नाथे जपहोमोपशाम्यति । । २३.८० । ।

मृत्युञ्जयेन योगेन तच्छृणुष्व परिस्फुटं ।
जुं सः सम्पुटनामाद्यं सः जुं अन्ते नियोजयेथ् । । २३.८१ । ।

चन्द्रोदयामृतान्तस्थं पुद्गलात्मा विचिन्तयेथ् ।
जपेन्मृतुञ्जयं देवि परापरतनौ स्थितः । । २३.८२ । ।

अक्षसूत्रेण दिव्येन नेतरेण प्रशस्यते । । २३.८३ । ।

श्रीकुब्जिकोवाच

सविस्मयकरं वाक्यं अत्यद्भुतं अकारणं ।
अक्षसूत्रं पुरा ज्ञातं दिव्याक्षं वद साम्प्रतं । । २३.८४ । ।

श्रीभैरव उवाच

शृणु देवि प्रवक्ष्यामि दिव्याक्षसूत्रनिर्णयं ।
यन्न कस्यचिदाख्यातं सिद्धिदं परमं पदं । । २३.८५ । ।

यन्न भिद्यति चक्रेण यन्न दह्यति चाग्निना ।
यन्न प्रोतापरे सूत्रे पट्टकार्पासिकेऽपि वा । । २३.८६ । ।

यस्य मध्ये स्थितो मेरुर्ग्रन्थयश्च न तत्र वै ।
पञ्चाशाक्षमया तन्तु[र्] यस्मात्सर्वं चराचरं । । २३.८७ । ।

छिन्नभिन्नेषु मन्त्रेषु लुब्धक्रुद्धेषु सुप्तके ।
जप्तानेन तु सूत्रेण असिद्धं साधयेद्ध्रुवं । । २३.८८ । ।

अक्षसूत्रं इदं सिद्धं सर्वमार्गप्रबोधकं ।
सर्वमार्गेषु गुप्तेदम्ऽनुष्ठेयं परमेश्वरि । । २३.८९ । ।

प्रस्तुतायातमार्गेण वर्णितं सूत्रनिर्णयं । । २३.९० । ।

श्रीकुब्जिका उवाच

डाकिनी राक्षसी लामा काकिनी शाकिनी तथा ।
यक्षिणी भ्रामणी चैव वद मन्त्रं सुराधिप । । २३.९१ । ।

श्रीभैरव उवाच

ऊ-ढ-मध्यगतं गृह्य ण-ट-मध्यगतं तथा ।
व-ख-पूर्वद्वयोद्धृत्य ध-ह-मध्यगतं पुनः । । २३.९२ । ।

य-स-मध्यगतं गृह्य एतत्षट्कं समुद्धृतं ।
ञपश्चिमं समुद्धृत्य दीर्घस्वरयुतं कुरु । । २३.९३ । ।

षट्प्रकारविधानेन षट्कं षट्कं नियोजयेथ् ।
प्रभुर्वै भ्रामणी प्रोक्ता षट्स्वराधिष्ठिता तु सा । । २३.९४ । ।

सर्वकार्ये नियोक्तव्या निग्रहानुग्रहं प्रति ।
अन्यद्वै हृदयं वक्ष्ये शाकिनीनां यशस्विनि । । २३.९५ । ।

ऊ-पश्चिमं समुद्धृत्य ह-पूर्व-म्-आसने स्थितं ।
रेफाक्रान्तं तु कर्तव्यं द-उत्तरयुतं तथा । । २३.९६ । ।

झ-पूर्वेण समायुक्तं कूटं बिन्दुसमन्वितं ।
प्रस्तारायातमार्गेण उद्धृतं षट्कनिर्णयं । । २३.९७ । ।

प्रस्तुतं शृणु कल्याणि उच्यमानं निगद्यते ।
अरिष्टदर्शनाद्येवं अभ्यस्यन्तोऽन्यथा यदि । । २३.९८ । ।

शुष्यते घण्टिकास्थानं तदा ध्यानं परित्यजेथ् ।
जपध्यानार्चनादेव सञ्जातोपशमं न हि । । २३.९९ । ।

तदात्र निश्चितं जातं पञ्चाहान्मृत्युलक्षणं ।
निश्चयेन तदा काले गुरुदेवं समाश्रयेथ् । । २३.१०० । ।

पुत्रदारादिबन्धूनां व्याहरित्वा वदेदिदं ।
पञ्चाहावान्तरे काले कुर्यादुत्क्रान्तिकारणं । । २३.१०१ । ।

अन्यथा कुरुते यस्तु स पापी ह्यात्मभेदकः ।
न दुःखितो न कोपेन कुर्यादुत्क्रान्तिकारणं । । २३.१०२ । ।

कीर्तिहेतोः शरीरस्य यदि शक्तो न रक्षणे ।
गुरुणापि हि दातव्यं ज्ञात्वा शिष्यं सलक्षणं । । २३.१०३ । ।

अन्यथा ददते यस्तु लिङ्गभेदी गुरुस्तु सः ।
पञ्चप्रकारको ह्यात्मा येन ज्ञातः स्वदेहतः । । २३.१०४ । ।

सर्वतीर्थमयः सो हि तीर्थानि कृतकान्यपि ।
सुसिद्धपुम्भिः सर्वैस्तु यत्र बद्धास्पदं क्वचिथ् । । २३.१०५ । ।

तत्प्रभावाद्भवेत्तीर्थं न तीर्थं जलपूरितं ।
ज्ञानावबोधसम्पन्ना ज्ञानसम्पादने क्षमाः । । २३.१०६ । ।
यत्र तिष्ठन्ति ते स्थाने तत्तीर्थं परमार्थतः ।
वाराणसी कुरुक्षेत्रं नैमिषं भैरवं तथा । । २३.१०७ । ।

सन्निधानो गुरुर्यत्र सर्वतीर्थानि तत्र वै ।
तीर्थानि तोयपूर्णानि देवाः पाषाणमृण्मयाः । । २३.१०८ । ।

आत्मविदो न मन्यन्ते तत्तीर्थं इतरे जनाः ।
बलिनोपद्रुते स्थाने गुरोर्मानं उपागते । । २३.१०९ । ।

ज्ञानिनोऽपि न दोषोऽस्ति आत्मनो हनने कृते ।
तीर्थङ्करो गुरुर्यस्मात्तत्कार्योज्झितजीविते । । २३.११० । ।

तिर्यग्योनिं ह्यसौ याति दुःखान्तं फलं अश्नुते ।
अन्यत्काले न कर्तव्यं उत्क्रान्त्युत्क्रमणं प्रिये । । २३.१११ । ।

कीर्तिहेतोः प्रकर्तव्या सा यथा कथ्यतेऽ धुना ।
द्वारेष्वर्गलसंयोगं कुर्याच्चोद्घाटनं क्वचिथ् । । २३.११२ । ।

जीवाधारं छिनेद्ग्रन्थिं एतदुत्क्रान्तिलक्षणं ।
गुदं लिङ्गं तथा नाभिर्मुखं नासा श्रुतीक्षणौ । । २३.११३ । ।

एषु स्थानेऽर्गलं योज्य कुञ्चिकोर्ध्वं नियोजयेथ् ।
अर्गलान्युपदेशेन शृणु त्वं करणं यथा । । २३.११४ । ।

गुदाधारोपरि स्थित्वा कृत्वा वै कुक्कुटासनं ।
समपादोरुजङ्घस्तु कुर्परौ तु तदूर्ध्वगौ । । २३.११५ । ।

भग्नपृष्ठशिरःस्कन्धो ह्युत्तानोर्ध्वमुखः स्थितः ।
मुष्टिभ्यां पीडयेत्स्कन्धौ कण्ठस्थौ चानुनासिकौ । । २३.११६ । ।

उच्चरेत्क्षुरिकामूले ग्रन्थिच्छेदं भवेत्क्षणाथ् ।
घाटयित्वा तु द्वाराणि नित्यं एव समभ्यसेथ् । । २३.११७ । ।

घण्टिकायां तु देवेशि षण्मासावधिपूर्वकं ।
नित्यं एवाभ्यसन्तस्य प्रत्ययानि भवन्ति हि । । २३.११८ । ।

घटाधारगतं प्राणं कूर्मयन्त्रेण पीडयेथ् ।
अभ्यसन्मासं एकं तु सद्यं उत्क्रान्तिलक्षणं । । २३.११८आ । ।
ब्रह्मरन्ध्रं स्फुरन्तीव निर्जीवं कण्ठकावधिं ।
एवं अभ्यासयेन्नित्यं यत्र बन्धतनु[ः] स्थितः । । २३.११९ । ।

गुदाधारे मृदुं दत्त्वा पृष्ठाधारं सुशोभनं ।
जानूरुभ्यां तु पार्श्वे तु कीलकौ द्वौ निधापयेथ् । । २३.१२० । ।

तत्प्रमाणौ समौ भूम्यां यन्त्रयेन्मृदुयन्त्रणाथ् ।
[[इन्चोर्र्ळोच्. शोउल्द्रेअद्भूमौ]]
एवं संशोधयित्वा तु पूर्वसिद्धि[र्] यथा यथा । । २३.१२१ । ।

तदा सङ्कुरुते कीर्तिं इत्याज्ञा पारमेश्वरी ।
सतताभ्यासयोगेन सद्यं उत्क्रमणे क्षमः । । २३.१२२ । ।

क्रुद्धः संहरते क्षिप्रं घटिकाभ्यन्तरेण वै ।
तृण वृक्षलतादीनां षट्पदाकाशगामिनां । । २३.१२३ । ।

फलपुष्पप्रपातेन तदा सिद्धिं विलक्षयेथ् ।
अकालेनापि कालस्तु षड्घटिकाभ्यन्तरेण वै । । २३.१२४ । ।

षण्मासाभ्यासयोगेन आत्मनः कुरुते ध्रुवं ।
एवं ते कथितं सर्वं सरहस्यं महामतं । । २३.१२५ । ।

क्षुरिकाद्यर्गलाभ्यासं कथयाम्युपदेशतः ।
एतद्विज्ञानसारोऽयं विज्ञानानेकसङ्कुलं । । २३.१२६ । ।

अनादेशान्न तद्देयं दत्ते स्याल्लिङ्गभेदकृथ् ।
लुब्धक्रुद्धेषु दुष्टेषु गोपयेदं सुरक्षितं । । २३.१२७ । ।

परं चाज्ञापहारोऽस्ति यस्य हानिर्न विद्यते ।
एवं सुरक्षिता देवि वारितासि पुनः पुनः । । २३.१२८ । ।

अनादिष्टस्य शिष्येदं दास्यसे नरकार्थिनी ।
पञ्चात्मानं यदा ज्ञातं यदा ज्ञातं षडध्वरं । । २३.१२९ । ।

तदा त्वपश्चिमं इदं कथ्यं उत्क्रान्तिकारणं ।
अन्यद्वा पश्चिमं वक्ष्ये दुःखाक्रान्तस्य योगिनः । । २३.१३० । ।

सर्वज्ञविहिते मार्गे न दोषस्तत्प्रसाधने ।
आत्मनश्च परस्यैव क्रुद्धचेतोऽवधारणं । । २३.१३१ । ।

कर्तव्यं भीवने गत्वा रक्तमण्डलकं सुभं ।
मण्डलान्ते तु षट्कोणं तत्र देव्यः सुभीषणाः । । २३.१३२ । ।

पूजयेद्यक्षिणीमूला डामर्यन्तं विदुर्बुधाः ।
कुसुमिन्या सहैकत्वं आत्मानं मध्यतो न्यसेथ् । । २३.१३३ । ।

मांसखण्डैः प्रपूज्येत रक्तेनार्घं प्रदापयेथ् ।
भेदयित्वा तु अष्टाङ्गं विष्ठमूत्रसमेकतः । । २३.१३४ । ।

किञ्चिदलिसमायुक्तं अर्घपात्रं नियोजयेथ् ।
क्ष्मापलेनाथ नारेण कृष्णवस्त्रोद्भवेन च । । २३.१३५ । ।

पूजयेद्वाथ नैवेद्यैर्धातुं दत्त्वा स्वकां स्वकां ।
रक्तपात्रं पृथक्कुर्यान्नैवेद्यानि पृथक्पृथक् । । २३.१३६ । ।

कपालशकलैः सर्वं पात्रादौ धूपकावधिं ।
सान्निध्यकरणार्थं तु धूपान्यं सन्नियोजयेथ् । । २३.१३७ । ।

येनाकृष्टाः प्रयान्त्याशु सन्निधाना भवन्ति हि ।
क्ष्मापलं हि च क्ष्मापित्तं नरास्थि शैलमद्रजं । । २३.१३८ । ।

किञ्चिदलिसमायुक्तं धूपोऽयं परमार्थतः ।
एवोपचारयोगेन धूपयित्वा समुच्चरेथ् । । २३.१३९ । ।

विद्यां स्वधातुसंयुक्तां यस्य तस्य शतं जपेथ् । । २३.१४० । ।

ऐं श्रीं हां हीं हूं कुसुममालिनीये इदं प्रधानधातुं गृह्ण गृह्ण देवदत्तस्य उदरगतं आणिमारि वशङ्करि सर्वशत्रूणां स्वाहा । । २३.१४०आ,१ । ।
ऐं श्रीं यां यीं यूं यक्षिणी जम्भय जम्भय सर्वशत्रूणां देवदत्तानां अस्थि भञ्ज भञ्ज आणिमारि वशीकुरु कुरु स्वाहा । । २३.१४०आ,२ । ।
ऐं श्रीं शां शीं शूं शङ्खिनी शङ्खग्रहेन सर्वशत्रूणां देवदत्तानां आणिमारि वशीकुरु कुरु मज्जं गृह्ण गृह्ण स्वाहा । । २३.१४०आ,३ । ।
ऐं श्रीं कां कीं कूं काकिनी कायं संहारय संहारय मेदं सर्वशत्रूणां देवदत्तानां आणिमारि वशीकुरु कुरु स्वाहा । । २३.१४०आ,४ । ।
ऐं श्रीं लां लीं लूं लाकिनी सर्वशत्रूणां देवदत्तानां आणिमारि वशीकुरु कुरु मांसं भक्षय भक्षय स्तम्भय स्तम्भय स्वाहा । । २३.१४०आ,५ । ।
ऐं श्रीं रां रीं रूं राकिणी आणिमारि वशीकुरु कुरु सर्वशत्रूणां देवदत्तानां रक्तं गृह्ण गृह्ण स्वाहा । । २३.१४०आ,६ । ।
ऐं श्रीं डां डीं डूं डाकिनी सर्वशत्रूणां देवदत्तानां आणिमारि वशीकुरु कुरु त्वचधातुं गृह्ण गृह्ण स्वाहा । । २३.१४०आ,७ । ।

शतं शतं जपित्वा तु एकैकायाः समर्पयेथ् ।
गृह्णन्त्विदं मया दत्तं अत्राज्ञा पारमेश्वरी । । २३.१४१ । ।
दुःखितोऽहं विरक्तोऽहं भ्रष्टोऽहं समयोज्झितः ।
गृह्णन्तु देवताः क्षिप्रं मया दत्तां स्वकां तनुं । । २३.१४२ । ।

आज्ञा यदि प्रमाणोऽस्ति प्रमाणं यदि चान्वयं ।
तेन सत्येन गृह्णन्तु मत्प्रदत्तं मरीचयः । । २३.१४३ । ।

एवं विरक्तदेहस्तु यावत्कुर्याद्दिने दिने ।
तावदायान्ति योगिन्यः सप्तमेऽहनि भासुराः । । २३.१४४ । ।

ज्ञानसिद्धिप्रसिद्धस्य सप्तरात्रान्तकावधिं ।
क्षपयन्त्यन्यथा नैव शीघ्रं संहारयन्ति ताः । । २३.१४५ । ।

अथ चेद्दुष्टकर्माणां निग्रहेदं प्रकारयेथ् ।
तदात्माङ्गसमुद्भूतं किञ्चिद्द्रव्यं न गृह्णयेथ् । । २३.१४६ । ।

ब्रह्मणालेप्य-म्-आत्मानं पश्चाद्ध्यानं नियोजयेथ् ।
परमात्मस्वरूपोऽहं भैरवोऽहं महाप्रभुः । । २३.१४७ । ।

इति मत्वा प्रयुञ्जीत षोढान्यासं स्वके तनौ ।
कृत्वा षोडश वाराणि ततो वज्रतनुर्भवेथ् । । २३.१४८ । ।

अथातः सम्प्रवक्ष्यामि लोहके साधनं यथा ।
अयुतैकेन सिद्धिः स्याल्लिङ्गे वै पश्चिमामुखे । । २३.१४९ । ।

स्वयम्भौ बाणलिङ्गे वा इतरे वापि सुव्रते ।
तत्र स्थित्वा जपेदेवं एकचित्तः समाहितः । । २३.१५० । ।

सदा क्रुद्धेन कर्तव्यं निग्रहं सप्तवासरैः ।
शतं अष्टोत्तरेणैव यावत्तन्निग्रहो भवेथ् । । २३.१५१ । ।

ठ ठ य ला ब हा म मि मि हि हि स ग्र स ग्र । । २३.१५१आ,१ । ।
कं मु अ हूं हूं ल ज्व ल ज्व न श ना र घो । । २३.१५१आ,२ । ।
प रू र घो र घो अ र श्व थे म प्र थ म प्र । । २३.१५१आ,३ । ।
थ म प्र श वि आ श वि आ द भिं द भिं य । । २३.१५१आ,४ । ।
श ध्वं वि य श ध्वं वि थ म थ म स ग्र । । २३.१५१आ,५ । ।
स ग्र कं मु अक ह लो हि ए हि ए य रा श्व मे र । । २३.१५१आ,६ । ।
प य रा प रा प य वा दे य सा हा ट्ट ङ्गा । । २३.१५१आ,७ । ।
लि स्फु वि ये त प धि णा ग हा म य का ह लो । । २३.१५१आ,८ । ।
मो न य रा श्वऽजे स्ते म न ऐं । । २३.१५१आ,९ । ।

अतोर्ध्वे यन्त्रकर्माणि निग्रहानुग्रहं प्रति ।
कृत्वा कुण्डलिकास्तिस्रो अष्टौ द्वादश षोडश । । २३.१५२ । ।

य मध्ये क्षे म मे द अभ्यन्तरचक्रे विदिक्षु
हूंकारेण नाम विदर्भ्य यच्च नि रा [रा] ज स
दो [दो] रु ण यो [यो] नि र [य] इति द्वितीयचक्रे ल्
ओं ह्रीः ष्ट्रीः विकृतानन हूं हूं फट्फट्
अमुकं मारय विद्वेषय उच्चाटय वशीकुरु आकृष्टिं
कुरु शान्तिं कुरु पुष्टिं कुरु स्तोभं कुरु स्तम्भं
कुरु हूं हूं फट्फट्ठ ठ तृतीयचक्रे ।
मारणे हूं विद्वेषे ह्रंः उच्चाटे ह्यः वशे
ह्स्क्लीं आकृष्टौ ह्रीं शान्तिके स्फ्ॐ पौष्टिके
स्फः स्तोभे ह्रूं मोहे ह्ल्ॐ स्तम्भे ह्लूं । । २३.१५२आ । ।

मध्ये यकारलोपस्य लोप्ये निष्कद्वयस्य च ।
कर्मकर्माणुरूपेण शेषा वर्णा यथासुखं । । २३.१५३ । ।

अथातः सम्प्रवक्ष्यामि स्वप्नमानवकाम्बिकां ।
प्राणं वह्निसमारूढं मात्राद्वादशभेदितं । । २३.१५४ । ।

अक्षरान्तरितं कृत्वा सषडङ्गा भवेदुमे ।
ह्रस्वा त्याज्या प्रयत्नेन दीर्घा ग्राह्या सुलोचने । । २३.१५५ । ।

अयुतं पूर्वसेवायां पञ्चप्रणवसम्पुटे ।
रक्ताश्वमारकुसुमैः सिध्यते नात्र संशयः । । २३.१५६ । ।

अष्टोत्तरशतं जप्त्वा शय्यारूढो निशासु च ।
शुभाशुभं वदेद्रात्रौ सिद्धविद्यां तु कौलिकीं । । २३.१५७ । ।

अथान्यं अपि वक्ष्यामि प्रयोगं मृत्युनाशनं ।
सङ्कोच्य मूलचक्रन्तु जन्मस्थं धारयेत्क्षणाथ् । । २३.१५८ । ।

सङ्घट्टे पीडनं कृत्वा लम्बकं तु विदारयेथ् ।
लम्बकामृतसन्तृप्तो जयेन्मृत्युं न संशयः । । २३.१५९ । ।

दाहशोषस्तु सन्तापो वैवर्णं वा महद्भुतं ।
नाशयेत वरारोहे अनेनाभ्यासयोगतः । । २३.१६० । ।

रसनां शून्यमध्यस्थां कृत्वा चैव निराश्रयं ।
न दन्तैर्दशनान्स्पृष्ट्वा ओष्ठौ नैव परस्परं । । २३.१६१ । ।

त्यज्य स्पर्शनं एतेषां जिनेन्मृत्युं न संशयः ।
एष मृत्युञ्जयो योगो न भूतो न भविष्यति । । २३.१६२ । ।

नाभिचक्रादधश्चाग्निर्निवृत्ते तु गमागमे ।
द्वन्द्वातीतं पदं देवि चिन्तातीतं प्रचक्ष्यते । । २३.१६३ । ।

पृष्ठवंश-अधस्तात्तु स्पन्दने विलयं गते ।
कालातीतं परं स्थानं चिन्तातीतं इहोच्यते । । २३.१६४ । ।

गुदगुह्यान्तरे ग्रन्थिः सीवन्या बदिरास्थिवथ् ।
जरातीतं पदं दिव्यं भावातीतं प्रचक्ष्यते । । २३.१६५ । ।

गुदगुह्यान्तरे ग्रन्थिर्गुहाधारे सुखोदये ।
परानन्दपदं दिव्यं चिन्तातीतं तु कथ्यते । । २३.१६६ । ।

राजदन्तद्वयोर्मध्ये अधस्तात्पीडयेद्भृशं ।
ऊर्ध्वदृष्टिं परां कृत्वा एवं एतत्समभ्यसेथ् । । २३.१६७ । ।

अनेन जयते मृत्युं नात्र कार्यविचारणाथ् ।
नादान्ते संस्थितं लक्ष्यं पञ्चतत्त्वस्य मध्यगं । । २३.१६८ । ।

चतुष्कलसमोपेतं तत्र स्थित्वा जपेत्प्रिये ।
जरा मृत्युश्च रोगाश्च ईतयो विविधाश्च ये । । २३.१६९ । ।

नश्यन्ते नात्र सन्देहस्तुहिनं तु रवेर्यथा ।
अधः प्राणं समानीय कुण्डलीपदमध्यगं । । २३.१७० । ।

तत्र रुन्ध्यात्प्रयत्नेन वृत्तिराजविवर्जितं ।
ये प्राणास्ते महाजीवे गतायुर्वीरवन्दिते । । २३.१७१ । ।

तत्रासक्तः सदा देवि मृत्युजिद्भवते क्षणाथ् ।
कथितं सरहस्यं तु सुगोप्यं तु तवानघे । । २३.१७२ । ।

षोढान्यासविधानं तु पूर्वं तु कथितं मया ।
निरोधोत्क्रमणादीनां किं त्वेदं न प्रकाशयेथ् । । २३.१७३ । ।

इति कुलालिकाम्नाये श्रीकुब्जिकामते त्रिष्कालज्ञानं उत्क्रान्तिसम्बन्ध [इति] त्रयोविंशतिमः पटलः


श्रीकुब्जिका उवाच

देवदेव महादेव शशाङ्ककृतशेखर ।
तद्ग्रहाख्ये तु ये रुद्राः सृष्टिन्यासेन मे श्रुताः । । २४.१ । ।

संहारेण सुरेशान कथयस्व प्रसादतः ।
निश्चयार्थं महादेव क्षकाराद्या यथास्फुटं । । २४.२ । ।

श्रीभैरव उवाच

कथयामि न सन्देहः स्फुटार्थं तद्ग्रहात्मकं ।
पञ्चाशद्व्युत्क्रमेणैव शृणुष्व गदतो मम । । २४.३ । ।

क्ष संवर्तः स्थितः क्रोधे ह प्राणे लाकुली स्थितः ।
स भृगुः शुक्रतो नित्यं ष श्वेतो मज्जं आस्थितः । । २४.४ । ।

श बकीशोऽस्थिमध्ये तु व खड्गीशः सिरान्वितः ।
ल पिनाकी स्थितो मांसे र भुजङ्गोऽसृगास्थितः । । २४.५ । ।

य वालीशस्त्वचामध्ये कथितं तव सुव्रते ।
महाकालो मकारस्तु हृदये सर्वजन्तुषु । । २४.६ । ।

द्विरण्डस्तु भ नाभ्यां तु ब वंशे छगलण्डिनः ।
फ शिखी वामपार्श्वे तु कथितं तु वरानने । । २४.७ । ।

पकारो लोहितो रुद्रो दक्षिणे कुक्षिं आश्रितः ।
न मेषो वामपादे तु ध मीनो जङ्घं आश्रितः । । २४.८ । ।

द धातृ जानुमध्ये तु संस्थितो वरवर्णिनि ।
थ दिण्डी ऊरुदेशे तु त आषाढी ततोर्ध्वतः । । २४.९ । ।
लोण उमाकान्त पादे तु दक्षिणे च महाबलः
ढार्धनारी स्थितो देवि जङ्घिकायां वरानने

डकारे दारुको रुद्रो जानुमध्ये प्रकीर्तितः ।
ठ लाङ्गल्यूरुदेशे तु नात्र कार्यविचारणाथ् । । २४.११ । ।

सोमेश्वरस्टकारे तु जङ्घामूले स्थितस्तु सः ।
ञ हस्ते संस्थितः शर्मा झाजेशो वामबाहुगः । । २४.१२ । ।

ज चतुर्मुख मध्ये तु छ एकाक्षस्तु कक्षगः ।
चकारः कूर्म एवात्र शिखरे वामके स्थितः । । २४.१३ । ।

अतोर्ध्वे दक्षिणे हस्ते ङादिकान्तं अतः शृणु ।
ङकार[ः] कर-अग्रे तु एकरुद्रो व्यवस्थितः । । २४.१४ । ।

घ शिवेशः करस्योर्ध्वे ग प्रचण्डश्च कुर्परे ।
ख चण्डो बाहुमध्ये तु क क्रोधः शिखरे स्थितः । । २४.१५ । ।

अः महासेनरुद्रस्तु विसर्गब्रह्मरन्ध्रगः ।
अं क्रूरो मध्यघण्टान्ते औऽनुग्रहीशोर्ध्व-ओष्ठके । । २४.१६ । ।

ओ ओष्ठे सद्यदेवस्तु ऐ भौक्ती द्विज-म्-ऊर्ध्वगः ।
ए झण्टीशोऽ धपङ्क्तिस्तु द्विजभूतो व्यवस्थितः । । २४.१७ । ।

हरो वामगण्डे तु ळ् स्थाणुर्दक्षगण्डगः ।
ॠ तिथीश इडायां तु ऋ भारभूति पिङ्गला । । २४.१८ । ।

ऊ अर्घीशो वामकर्णे उ अमरीशस्तु दक्षिणे ।
ई त्रिमूर्तिर्वामचक्षुषि इ सूक्ष्म दक्षचक्षुगः । । २४.१९ । ।

आ अनन्तो मण्डले वक्त्रे अ श्रीकण्ठो ललाटगः ।
तद्ग्रहे रुद्र-म्-आख्याता मालिन्यां शृणु साम्प्रतं । । २४.२० । ।

वामे फेत्कारिका चैव दहनी दक्षपादगा ।
सावित्री चैव गायत्री औ ओ जङ्घौ प्रकीर्तितौ । । २४.२१ । ।

ए ऐ जानू क्रिया ज्ञानी तारा तकारं ऊरुगा ।
शुक्रदेवीत्यनुस्वारं शुक्रं देव्यास्तु भैरवि । । २४.२२ । ।

श गुह्यं कुसुमाख्या च महाकाली नितम्बगा ।
क्ष संहारी स्थिता नाभौ षोदरं लम्बनोदरा । । २४.२३ । ।

ह प्राणे अम्बिका देवी सकारे च परापरा ।
आमोटी तद्गतं क्षीरं आ वर्णं परिकीर्तितं । । २४.२४ । ।

पूतना छगलण्डा च ल-छौ स्तनौ प्रकीर्तितौ ।
पावनी तु प हृल्लग्ना जयन्त्या शूलजा स्मृता । । २४.२५ । ।

दीपनी शूलदण्डा तु रेफं दक्षकरे स्थितं ।
कपालिनी वामकरे ट वर्णः परिकीर्तितः । । २४.२६ । ।

इच्छाशक्तिर्विसर्गाख्या करपृष्ठावुभावपि ।
कुर्दनी झङ्करी चैव ञ-झावङ्गुलयः क्रमाथ् । । २४.२७ । ।

सम्पूर्णपूर्णिमा चैव ठवर्णस्तलहस्तयोः ।
विनायकी च लामा च ड-ढौ बाहुद्वयं प्रिये । । २४.२८ । ।

वायुवेगा च भीषण्या स्कन्धयोरुभयोरपि ।
व कण्ठे शिखिवाहिन्या अ वाग्वागेश्वरी मता । । २४.२९ । ।

माया देवी इ जिह्वा तु जिह्वा देव्या विराजते ।
खिर्विरा घोरघोषा च शिवा काली च कङ्कटा । । २४.३० । ।

कवर्गे दशनास्तीक्ष्णा एवं देव्या विराजते ।
बकारं वदनं तस्या वज्रिणी शक्तिरव्यया । । २४.३१ । ।

ई गुह्यशक्ति नादस्था नासायां नेत्रमध्यतः ।
प्रज्ञा च मोहनी चैव ऊ उ भूषण-म्-ईक्षगौ । । २४.३२ । ।

नारायणी ण कर्णौ तु वामदक्षिणयोरुभौ ।
प्रियदर्शना ध नेत्रस्था उभौ नेत्रौ विराजते । । २४.३३ । ।

चामुण्डा च ललाटस्था थ वक्त्रं ग्रसनी स्मृता ।
ळ् ऋ ॠ तु शान्त्याद्याः शिरोमाला तु मालिनी । । २४.३४ । ।
नादिनी तु शिखान्तस्था नकाराक्षरसम्भवा ।
मालिन्यास्तद्ग्रहो ह्येष शक्तित्रयं अतः शृणु । । २४.३५ । ।

क्रिया च शुक्रसहिता बिन्दु-अर्धेन्दुसंयुता ।
नादशक्तिशिखाक्रान्ता प्रथमं बीजं उत्तमं । । २४.३६ । ।

अम्बिका शूलदण्डस्था गुह्यशक्त्या त्वलङ्कृता ।
बिन्दुयुक्तं द्वितीयं तु तृतीयं शृणु साम्प्रतं । । २४.३७ । ।

वाक्तत्त्वं केवलं शुद्धं घोरघोषा तथापरा ।
दक्षजङ्घासमायुक्ता दीपनी दक्षजानुगा । । २४.३८ । ।

अम्बिका दीपनीसंस्था गुह्यशक्तीच्छयान्विता ।
अम्बिका च परारूढा इच्छायुक्तं पदं भवेथ् । । २४.३९ । ।

अभिन्ना पावनी तद्वच्छूलदण्डं तथैव च ।
महाकालीस्वरूपेण दशनं तु चतुर्थकं १ । । २४.४० । ।

गायत्र्या भेदितं कार्यं ज्ञानभिन्ना च दीपनी ।
मोहन्या भेदितं प्राणं महाकाल्या समाहितं । । २४.४१ । ।

षडक्षरं द्वितीयं तु पदं देव्याः समुद्धृतं ।
गायत्र्या भेदितं कृत्वा घोरघोषा महाबला । । २४.४२ । ।

दीपनीं केवलां दद्यात्प्रज्ञया शूलदण्डकं ।
ज्ञानभिन्नं तु हृदयं प्राणं जीवसमन्वितं । । २४.४३ । ।

सावित्रीसहितं कार्यं पदं विद्यात्तृतीयकं ।
दक्षजङ्घासमायुक्ता घोरघोषा कुलेश्वरी । । २४.४४ । ।

दीपनी केवला चात्र नितम्बं मोहनान्वितं ।
कालिका जिह्वया युक्ता चतुर्थं चतुरक्षरं । । २४.४५ । ।

भीषणानासमायुक्ता महाकाली तु केवला ।
भीषणा गुह्यशक्तिस्था लम्बिका केवलाप्यतः । । २४.४६ । ।

नारायणी ज्ञानशक्त्या युक्ता स्यात्पञ्चमं पदं ।
वज्रिणी तु महाकाली द्विरभ्यासं तु कारयेथ् । । २४.४७ । ।
पावनी मायया भिन्ना अभिन्ना शिखिवाहिनी ।
द्विरभ्यासं इदं कार्यं प्राणं इच्छासमन्वितं । । २४.४८ । ।

षष्ठमं तु पदं देव्या उद्धृतं तु नवाक्षरं ।
अम्बिका ज्ञानभिन्ना वै दीपन्या च चतुष्टयं । । २४.४९ । ।

भूषितं भूषणेनैव वामकर्णस्य सुव्रते ।
दीपन्या केवला चैव चतुर्धा तु प्रकल्पयेथ् । । २४.५० । ।

नववर्णं इदं देवि सप्तमं पदं उद्धृतं ।
अम्बिका शूलदण्डस्था गुह्यशक्त्या विभूषिता । । २४.५१ । ।

पुनरेव तथाप्येवं शूलदण्डासने स्थिता ।
प्रज्ञायुक्ता तु कर्तव्या वामपादं ततः पुनः । । २४.५२ । ।

शूलदण्डासनासीनं ज्ञानदेव्या ह्यलङ्कृतं ।
प्राणं जीवसमायुक्तं शूलदण्डासने स्थितं । । २४.५३ । ।

सावित्र्या सहितं कार्यं भूषितं भूषणेन तु ।
वामकर्णस्य देवेशि क्रियादेव्या ततः पुनः । । २४.५४ । ।

बिन्दुयुक्तं तु कर्तव्यं पदं देव्यास्तु चाष्टमं ।
कुब्जे ते प्रीतिपूर्वेण कथितं तु विशेषतः । । २४.५५ । ।

फेत्कारादिनियोगेन नादिफान्तं तु मालिनी ।
विद्यात्रयं तथाप्येवं [ऽ]घोर्याष्टकसमन्वितं । । २४.५६ । ।

द्वादशाङ्गं तु सुश्रोणि विद्याङ्गाश्च नवात्मकं ।
नवात्मा-अङ्गसंयुक्तं मालिन्याङ्गसमन्वितं । । २४.५७ । ।

निग्रहस्तु समाख्यातो विलोमेनोपदेशतः ।
अथान्यं सम्प्रवक्ष्यामि अर्चनं विधिपूर्वकं । । २४.५८ । ।

कौलिकेन विधानेन यथाशास्त्रविधानतः ।
सुसमे भूप्रदेशे तु गोमयेनोपलेपिते । । २४.५९ । ।

योगपीठेऽथवा रम्ये गन्धधूपसुवासिते ।
पुष्पप्रकरसङ्कीर्णे सुगुप्ते जनवर्जिते । । २४.६० । ।
तत्रार्चनं समारभ्य एकचित्तो दृढव्रतः ।
शुक्लवस्त्रपरीधानः सुक्लयज्ञोपवीतिनः । । २४.६१ । ।

शुचिर्भूत्वा सुसन्नद्धः षोढान्यासेन कुब्जिके ।
सबाह्याभ्यन्तरे ध्यात्वा एकचित्तो व्यवस्थितः । । २४.६२ । ।

ततः कर्म समारभ्य पूर्वोक्तेन विधानविथ् ।
कुङ्कुमाक्षतसम्मिश्रैस्त्रिरस्रं वर्तयेत्क्रमं । । २४.६३ । ।

रक्तचन्दनचूर्णेन सिन्दूरेण-म्-अथाम्बिके ।
हिङ्गुलेन तथा रक्ते लिख्याक्षरं यथोदितं । । २४.६४ । ।

नादबिन्दुसमायुक्तं षट्प्रकारसमन्वितं ।
सर्वाकारसमोपेतं परमं दिव्यरूपिणं । । २४.६५ । ।

तत्र पूजा प्रकर्तव्या शास्त्रोक्तेन विधानविथ् ।
आदौ पीठानि चत्वारि चत्वारः पीठदेवताः । । २४.६६ । ।

योगिनीपञ्चकं चैव डादियान्ताः क्रमेण तु ।
पुनर्महान्तारिकाः पञ्च ज्ञानं षड्विधं उच्यते । । २४.६७ । ।

स्रष्टारः सिद्धसद्भावाः सिद्धाश्चत्वार्यनुक्रमाथ् ।
ओंकारपीठमध्यस्थं देव्याया सह विन्यसेथ् । । २४.६८ । ।

दक्षिणे चैव जालाख्यं पूर्णपीठं तथोत्तरे ।
कामरूपं ततोऽग्रे तु देव्यासिद्धसमन्वितं । । २४.६९ । ।

षट्प्रकारविधानेन कुलाष्टकं अतः शृणु ।
प्रयागे तु महाक्षेत्रे आ-क्षा-मङ्गलसंयुता । । २४.७० । ।

वैरिञ्ची आदिना पूज्या पूर्वभागे व्यवस्थिता ।
वाराणस्यां महाक्षेत्रे ई-ला-चर्चिकसंयुता । । २४.७१ । ।

माहेशी कादिना पूज्या आग्नेयीं दिशं आश्रिता ।
कोलागिर्ये महाक्षेत्रे ऊ-हा-योगीसमन्विता । । २४.७२ । ।

क्ॐआरी चादिना पूज्या याम्यायां दिशि संस्थिता ।
अट्टहासे महाक्षेत्रे ॠ-सा-सिद्धिहरान्विता । । २४.७३ । ।
टादिना वैष्णवी ह्येवं नैरृत्यकोणं आश्रिता ।
जयन्ती च महाक्षेत्रे í-षा-भट्टसमन्विता । । २४.७४ । ।

वाराही तादिना ह्येवं वारुण्यां दिशि भूषिता ।
चरित्रे च महाक्षेत्रे ऐ-शा-किलकिलान्विता । । २४.७५ । ।

ऐन्द्री पाद्येन सम्पूज्या वायव्यकोणके स्थिता ।
एकाम्रके महाक्षेत्रे कालरात्र्या च औ-व-का । । २४.७६ । ।

चामुण्डा यादिना पूज्या कौबेरीदिशि संस्थिता ।
देविकोट्टे महाक्षेत्रे अः-ह्ला-भीषणसंयुता । । २४.७७ । ।

लक्ष्मी शाद्येन सम्पूज्या ऐशान्यां दिशि भूषिता ।
क्षवर्णे कुब्जिनीशानं मध्यसंस्थं प्रपूजयेथ् । । २४.७८ । ।

डकारे डाकिनी पूज्या रकारे राक्षसी तथा ।
लकारे लाकिनीऽप्येवं ककारे कुसुमालिका । । २४.७९ । ।

शकारे शाकिनी विद्धि यकारे यक्षिणी मता ।
भ्रामणी मध्यतः पूज्या दक्षषट्कं प्रकीर्तितं । । २४.८० । ।

उत्तरं सम्प्रवक्ष्यामि यथावदनुपूर्वशः ।
गुह्याख्या च महाख्या च बलाख्या मणिचन्द्रिका । । २४.८१ । ।

मालिनी विद्यया सार्धं षट्कं उत्तरसंज्ञकं ।
ऊर्ध्वतः सिद्धसन्तानं मित्रादौ गुरवावधिं । । २४.८२ । ।

आधारीशस्तु ओंकारे कुरङ्गीशस्तु जालके ।
चक्रीशः पूर्णगिर्यायां मथनं कामरूपके । । २४.८३ । ।

योगिन्यश्च युगाश्चैव क्रमशः सम्प्रपूजयेथ् ।
चण्डा घण्टा महानासा सुमुखी दुर्मुखी बला । । २४.८४ । ।

रेवती प्रथमा घोरा भ्ॐया भीमा महाबला ।
जया च विजया चैवऽजिता चैवापराजिता । । २४.८५ । ।

महोत्कटा विरूपाक्षी शुष्का चाकाशमातरा ।
सेहारी जातहारी च दंष्ट्राली शुष्करेवती । । २४.८६ । ।
पिपीलिका पुष्पहारी अशनी शस्पहारिका ।
भद्रकाली सुभद्रा च भद्रभीमा सुभद्रिका । । २४.८७ । ।

कादिवर्णैः प्रपूज्यैताः स्वरैः पीठाधिपास्तथा ।
सिद्धक्रमं इदं देवि सिद्धमात्टः प्रपूजयेथ् । । २४.८८ । ।

गोपनीयं प्रयत्नेन यदीच्छेच्छिरजीवितं ।
न देयं दुष्टबुद्धीनां इत्याज्ञा पारमेश्वरी । । २४.८९ । ।

पूजनीयं प्रयत्नेन नित्यं एव न संशयः ।
योगाचारसमो योगी मानसं सम्प्रपूजयेथ् । । २४.९० । ।

त्रिकालं एककालं वा षोढान्यासप्रपूर्वकं ।
षट्प्रकारं इदं देवि त्रिसन्ध्यं सम्प्रपूजयेथ् । । २४.९१ । ।

स्वरैः षोडशभिर्देव्यः सिद्धाश्चैव प्रपूजयेथ् । । २४.९२ । ।

पीठं पीठेश्वरीं ईशं पीठाधिपसपालकं ।
नाथदेव्या समायुक्तं सिद्धदेव्यान्वितं यजेथ् । । २४.९३ । ।

पञ्चमं पीठमध्यस्थं देवीचतुष्टयान्वितं ।
सिद्धैश्चतुर्भिः संयुक्तं पूजयेत्समनुक्रमाथ् । । २४.९४ । ।

षडङ्गभोगसंस्थानं पङ्क्ति रत्नं च पञ्चकं ।
गुह्यषट्कं तथा डादि स्थानषट्कं अतः परं । । २४.९५ । ।

योगिनीषट्कं एतद्धि पञ्चकं च ततः पुनः ।
क्षेत्राष्ट-म्-अष्टकं चैव अष्टकं च चतुष्टयं । । २४.९६ । ।

षट्कं अन्यत्ततो बाह्ये पूजनीयं प्रयत्नतः ।
यो वेत्ति योग्यता तस्य अन्यथा नामधारकः । । २४.९७ । ।

षोढान्यासं ततः पश्चाद्वाचनीयं प्रयत्नतः ।
स्वभ्रा चैव निरभ्रा च भूचरी खेचरी तथा । । २४.९८ । ।

गोचरी गणमुख्या च योगिन्यः षट्कुले स्थिताः ।
सूक्ष्मा चैव सुसूक्ष्मा च अन्तिमामृत-म्-अन्तिमा । । २४.९९ । ।

कामरूपादितः कृत्वा योगिन्यः सिद्धसंयुताः ।
कमला बर्बरा चैव महान्तारी तृतीयका । । २४.१०० । ।

लघ्विनी च चतुर्थी स्याद्बिम्बाख्या वृद्धपञ्चकं ।
रक्ताख्या च करालाख्या चण्डा उच्छुष्मसंज्ञिका । । २४.१०१ । ।

खण्डिका पञ्चमी ज्ञेया पञ्च देव्या उदाहृताः ।
मातङ्गी च पुलिन्दा च शबरी चम्पका तथा । । २४.१०२ । ।

मध्यतः कुब्जनामा तु रत्नभूषणभूषिता ।
विशुद्धानाहतं चैव तथा च मणिपूरकं । । २४.१०३ । ।

स्वाधिष्ठानं तथाधारं पञ्चरत्नं प्रपूजयेथ् ।
षोढान्यासस्य तत्त्वज्ञो अन्यथा च विलोमकृथ् । । २४.१०४ । ।

पूज्यपूजकदिग्भागे क्रमशुद्धिक्रमेण तु ।
स च योग्योऽन्वयी शिष्यो अन्यथा नामधारकः । । २४.१०५ । ।

गन्धैश्च विविधैः पुष्पैर्जवाबन्धूकपाटलैः ।
करवीरकुब्जकुण्डैश्च जातीमल्लिकचम्पकैः । । २४.१०६ । ।

सैवल्योत्पलयूथीभिः सिन्दूरैः किंशुकैस्तथा ।
एभिश्च बहुभिश्चान्यैः सुगन्धैर्धूपगुग्गुलैः । । २४.१०७ । ।

वामामृतादिभिर्द्रव्यैः कुण्डगोलोद्भवैस्तथा ।
पञ्चामृतैस्तथा चान्यैरलिफल्गुसमन्वितैः । । २४.१०८ । ।

महापिशितधूपैस्तु नालाजैर्दीपकैः सह ।
एवं कुर्याद्विधानेन अर्चनं विधिपूर्वकं । । २४.१०९ । ।

महाशङ्खार्घपात्रेण अर्घं दत्त्वा यथाक्रमं ।
तस्यापि पूर्वतो देवि मण्डलानां चतुष्टयं । । २४.११० । ।

पीतपुष्पैः समभ्यर्च्य एकैकस्य क्रमेण तु ।
पुनर्दक्षिणतो देवि चत्वारः कृष्णपुष्पकैः । । २४.१११ । ।

उत्तरे चैव चत्वारि रक्तपुष्पैः प्रपूजयेथ् ।
चत्वारः पश्चिमे देवि श्वेतपुष्पैः प्रपूजयेथ् । । २४.११२ । ।
प्रणामः क्रियते पश्चादष्टाङ्गं मानसेन तु ।
स्तोत्रं पश्चात्प्रकुर्वीत तच्च देवि वदाम्यहं । । २४.११३ । ।

नमोऽस्तु ते महामाये सूक्ष्मदेहे परापरे ।
एकाकिनि विशुद्धात्मे नादाख्ये बिन्दुमालिनि । । २४.११४ । ।

अदेहाच्च समुत्पन्ने अचले विश्वधारिणि ।
महाकुण्डलिनी नित्ये हंसमध्ये व्यवस्थिते । । २४.११५ । ।

सोमसूर्याग्निमध्यस्थे व्योमव्यापी परापरे ।
ओंकारविग्रहावस्थे हकारार्धार्धधारिणि । । २४.११६ । ।

वालाग्रशतधासूक्ष्मे अनन्ते चाक्षयेऽव्यये ।
हकारार्धकलाधारे पद्मकिञ्जल्कं आश्रिते । । २४.११७ । ।

सकलाख्ये महामाये वरदे लोकपूजिते ।
एकैकनाडिमध्यस्थे मर्म-म्-एकैकभेदिनि । । २४.११८ । ।

अष्टत्रिंशत्कला देवि भेदिनि ब्रह्मरन्ध्रगे ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदासिवः । । २४.११९ । ।

एते पञ्च महाप्रेताः पादमूले व्यवस्थिताः ।
त्रैलोक्यजननी देवि नमस्ते शक्तिरूपिणी । । २४.१२० । ।

इडापिङ्गलमध्यस्थे मृणालतन्तुरूपिणि ।
बिन्दुमध्यगते देवि कुटिले चार्धचन्द्रिके । । २४.१२१ । ।

तुषारकणिकाभासे द्वादशान्तावलम्बिनि ।
उमाख्ये हृद्गते गौरि द्वादशादित्यवर्चसे । । २४.१२२ । ।

शून्ये शून्यान्तरावस्थे हंसाख्ये प्राणधारिणि ।
लम्बाख्ये परमे देवि दक्षिणोत्तरगामिनि । । २४.१२३ । ।

नासाग्रे तु समुत्तीर्णे मध्यसूत्रप्रवाहिनि ।
हृल्लेखे परमानन्दे तालुमूर्ध्नि व्यवस्थिते । । २४.१२४ । ।

नादघण्टिकसङ्घृष्टे गुणाष्टकसमन्विते ।
स्थूलसूक्ष्मे तु सङ्क्षुब्धे धर्माधर्मपुटद्वये । । २४.१२५ । ।
कार्यकारणकर्तृत्वे त्रिशून्ये नादविग्रहे ।
परापरपरे शुद्धे चैतन्ये शाश्वते ध्रुवे । । २४.१२६ । ।

सर्ववर्णधरी देवि गुह्यतत्त्वेति विश्रुते ।
अशरीरे महाभागे संसारार्णवतारिणि । । २४.१२७ । ।

जया च विजया चैव जयन्ती चापराजिता- ।
तुम्बुरुबीजमध्यस्थे नमस्ते पापमोचनि । । २४.१२८ । ।

बन्धमोक्षकरी देवि षोडशान्ते व्यवस्थिते ।
भ्रामणी शक्तिशूलेन महाव्यूहसमन्विते । । २४.१२९ । ।

भ्रमणि भ्रामणी गौरि मायायन्त्रप्रवाहिनि ।
स्वच्छन्दभैरवी देवि क्रोध-उन्मत्तभैरवि । । २४.१३० । ।

पञ्चाशद्वर्णरूपस्थे त्वया रुद्राः प्रकीर्तिताः ।
अमृताख्ये रुरुश्चण्डे नमस्ते ज्ञानभैरवि । । २४.१३१ । ।

दंष्ट्रोत्कटे विद्युज्जिह्वे तारकाक्षि भयानके ।
नमामि देवदेवेशि अघोरे घोररूपिणि । । २४.१३२ । ।

ज्वालामुखी वेगवती उमादेवि सरस्वति ।
हंसस्वरोद्वहे देवि गोमुखि शक्तिमालिनि । । २४.१३३ । ।

क्रोष्टुके सुभगे देवि दुर्गे कात्यायनी तथा ।
नित्यक्लिन्नासमाख्याते रक्ते एकाक्षरे परे । । २४.१३४ । ।

ब्राह्मी माहेश्वरी चैव क्ॐआरी वैष्णवी तथा ।
वाराही चैव माहेन्द्री चामुण्डा त्वभयानना । । २४.१३५ । ।

योगेशी त्वं हि देवेशि कुलाष्टकविभूषिते ।
ऐन्द्री चैव तु आग्नेयी याम्या नैरृत्यवारुणी । । २४.१३६ । ।

वायव्या चैव कौबेरी ईशानी समुदाहृता ।
प्रयागा वरुणा कोल्ला अट्टहासा जयन्तिका । । २४.१३७ । ।

चरित्रेकाम्रके चैव देविकोट्टं तु चाष्टधा ।
तथा काली उमा देवी देवदूति नमोऽस्तु ते । । २४.१३८ । ।
भद्रकालि महादेवि चर्ममुण्डे भयावहे ।
महोच्छुष्मे महाशान्ते नमस्ते शक्तिरूपिणि । । २४.१३९ । ।

भूर्भुवः स्वेति स्वाहान्ते दयां नाथे कुरुष्व मे ।
ज्ञानार्थिनो महामाये एतदिच्छामि वेदितुं । । २४.१४० । ।

यस्त्विदं पठते स्तोत्रं त्रिसन्ध्यं चैव मानवः ।
प्राप्नोति चिन्तितान्कामान्स्त्रीणां भवति वल्लभः । । २४.१४१ । ।

इति शिवशक्तिसमरसमहामायास्तवः समाप्तः


श्रीकुब्जिका उवाच

कुलजानां महेशान पवित्रारोहणं कथं ।
कस्मिन्काले कथं कार्यं किमर्थं वद मे प्रभो । । २४.१४२ । ।

श्रीभैरव उवाच

पुरा देवासुरैर्देवि क्षीरोदो मथितो यदा ।
तत्र नेत्रो महाभागे कश्यपस्य सुतो बली । । २४.१४३ । ।

मन्थाने योजितो भद्रे विषनिद्राविमूर्छितः ।
न शक्नोति तलस्यान्ते वर्षासु वसितुं यदा । । २४.१४४ । ।

तेनाहं राधितो देवि पवित्रेण महात्मना ।
दिव्यं वर्षसहस्रं तु वायुभक्षो महाबलः । । २४.१४५ । ।

तुष्टोऽहं तस्य देवेशि किं कर्तव्यं पुरोदितं ।
ततोऽसौ दण्डवद्भूमौ मम पादाग्रतः स्थितः । । २४.१४६ । ।

प्रावृट्काले न शक्नोमि तलान्ते वसितुं हर ।
ततः सोऽपि मया देवि कराभ्यां गृह्य भूतलाथ् । । २४.१४७ । ।

शिरसा धारितो देवि जटाजूटे वरानने ।
ततः सर्वैस्तु देवेशि शिरसा धारितः शुचिः । । २४.१४८ । ।

दशकोटिस्तु पूजानां पवित्रारोहणे समा ।
वृथा दीक्षा वृथा ज्ञानं गुर्वाराधनं एव च । । २४.१४९ । ।

हरते नागराजस्तु विना देवि पवित्रकाथ् ।
वृथा परिश्रमस्तस्य यो न कुर्यात्पवित्रकं । । २४.१५० । ।

तस्मात्सर्वप्रयत्नेन कर्तव्यं कुलजैः प्रिये ।
आषाढे शुक्लपक्षे तु मिथुनस्थे दिवाकरे । । २४.१५१ । ।

तदालाभे प्रकर्तव्यं कर्कटस्थे दिवाकरे ।
अविरोधेन कर्तव्यं यावत्स्यात्तुलपूर्णिमा । । २४.१५२ । ।

सौवर्णं तु कृतं सूत्रं सूक्ष्मं तु त्रिगुणीकृतं ।
तत्र तन्तुशतं प्रोक्तं ग्रन्थिपादं गुरोर्मतं । । २४.१५३ । ।

पूज्यस्य द्व्यधिकं कार्यं प्रतिपूज्ये चतुराधिकं ।
सप्ताधिकं शिवस्योक्तं योगेशीनां षडुत्तरं । । २४.१५४ । ।

विद्यापीठस्य सर्वस्य कुर्यात्तच्च षडुत्तरं ।
पादुकानां प्रकर्तव्यं शतं अष्टाधिकं प्रिये । । २४.१५५ । ।

अष्टत्रिंशच्च ग्रन्थ्यो वै पञ्चाशद्वा विकल्पना ।
अष्टाधिकं गुरोरुक्तं वटुकस्य तथा भवेथ् । । २४.१५६ । ।

अथवा राजतं सूत्रं अभावाद्वस्त्रजं भवेथ् ।
शुक्लसूत्रं समादाय त्रिगुणं त्रिगुणीकृतं । । २४.१५७ । ।

तेन तन्तुशतं कुर्यादष्टाधिकं महातपे ।
श्रीकण्ठादि चतुर्विंशैरजेशाद्यैस्तु षोडश । । २४.१५८ । ।

अष्टाभिश्च महाकालैर्विद्यामाता चतुष्टयं ।
षट्तन्तु डादिषट्कस्य कुलाष्टे चाष्टतन्तुकं । । २४.१५९ । ।

ग्रन्थयश्च यथाशोभा यथाशक्त्या पवित्रकं ।
गोरोचना प्रकर्तव्या अथवा कुङ्कुमेन तु । । २४.१६० । ।
एवं निष्पादयित्वा तु यागं कृत्वा वरानने ।
दातव्यं भक्तियुक्तेन पूजान्ते तु पवित्रकं । । २४.१६१ । ।

गीतं नृत्यं प्रकर्तव्यं स एवात्र वरानने ।
हिन्दोलं वाथ कर्तव्यं मन्दतारयुतेन तु । । २४.१६२ । ।

प्राप्ताः समयिनो ये तु ते पूज्यास्तु प्रयत्नतः ।
तत्सर्वं तु प्रकर्तव्यं चातुर्मास्यं वरानने । । २४.१६३ । ।

सप्तवासरं एवं तु त्रीणि वा एकं एव वा ।
वीरक्रीडाकृते देवि सम्पन्नं भवते प्रिये । । २४.१६४ । ।

तत्पवित्रं वरारोहे कृत्वा चैव क्षमापयेथ् ।
बहुयज्ञफलं देवि बहुतीर्थफलं तथा । । २४.१६५ । ।

दानधर्मस्य देवेशि कलां नार्घन्ति षोडशीं ।
पवित्रं परमं पुण्यं सर्वदोषविवर्जितं । । २४.१६६ । ।

तेन कार्यं इदं देवि कुलजैस्तु वरानने ।
लङ्घनं समयानां तु कर्म विधिविनाकृतं । । २४.१६७ । ।

ते दोषा नाशं आयान्ति पवित्रेण वरानने ।
वर्षे वर्षे प्रकर्तव्यं यथाविभवविस्तराथ् । । २४.१६८ । ।

काशैः कुशैः प्रकर्तव्यं भक्तियुक्तेन भैरवि ।
वित्तशाठ्यं न कर्तव्यं इहैव तु कुलागमे । । २४.१६९ । ।

शाठ्येन यत्कृतं कर्म न तत्सिद्धिपदं भवेथ् ।
एवं ज्ञात्वा वरारोहे वित्तशाठ्यं न कारयेथ् । । २४.१७० । ।

तद्ग्रहश्च तथा पूजा पवित्रारोहणं परं ।
एतत्सर्वं समाख्यातं किं अन्यत्परिपृच्छसि । । २४.१७१ । ।

इति कुलालिकाम्नाये श्रीकुब्जिकामते तद्ग्रहपूजापवित्रारोहणं नम चतुर्विंशतिमः पटलः


श्रीदेव्युवाच

मण्डलानां विधानं तु प्रसादं कुरु भैरव ।
येन जानाम्यहं देव कथयस्व विधानतः । । २५.०*१ । ।

श्रीभैरव उवाच

सारं मण्डलं आख्यातं फलं सारं परापरं ।
लाति यस्माद्यमातीतं मण्डलं तेन कीर्तितं । । २५.०*२ । ।

मकारे मातरः सर्वा डकारे डामरीगणं ।
लकारे लाकिनीवर्गं मण्डलं तेन चोच्यते । । २५.०*३ । ।

मकारे नित्यं आत्मानं डकारे खेचरीगणं ।
लकारे भूचरीवर्गो मण्डलं तेन कीर्तितं । । २५.०*४ । ।

मकारेऽ नाम यो देवो डकारे शक्तिरिष्यते ।
लकारे षड्विधा सृष्टिर्मण्डलं तेन कीर्तितं । । २५.०*५ । ।

मकारं शिवतत्त्वं च विद्यातत्त्वं डकारगं ।
लकारं आत्मतत्त्वं तु कीर्तितं तेन मण्डलं । । २५.०*६ । ।

मकारे तु शिवं विद्याद्डकारे परमेश्वरी ।
लकारे सप्तकोट्यस्तु मन्त्राणां परिकीर्तितं । । २५.०*७ । ।

मकारे कारणाः पञ्च डकारे तु परापरा ।
लकारे अपराः पञ्च तेन मण्डल कीर्तितं । । २५.०*८ । ।

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
उच्यते मण्डलेनैते तेन मण्डलं उच्यते । । २५.०*९ । ।

सर्वे ग्रहाश्च दिक्पाला नागा वै भैरवादयः ।
तिष्ठन्ति मण्डले लीनाः सर्वाधिक्यं अतो पुनः । । २५.०*१० । ।

अनन्ताद्याः शिवान्ताध्वा षड्विधः सम्प्रकीर्तितः ।
आस्ते मण्डलके सो हि मण्डलं व्यापकं ततः । । २५.०*११ । ।

सर्वव्यापितया नान्यो मण्डलाभ्यधिको यतः ।
तेन मण्डलं अभ्यर्च्य[ं] भुक्तिमुक्तिफलार्थिभिः । । २५.०*१२ । ।

इतीष्टं मण्डलाध्यायं निर्दिष्टं कुब्जिकामते ।
कुर्यात्प्रदक्षिणं देवि अपसव्ये विसर्जनं । । २५.०*१३ । ।

श्रीमतस्याग्रतो देवि तदेवं गुरुसन्निधौ ।
सुप्रसिद्धां ततो ज्येष्ठां सुपरीक्ष्य प्रयत्नतः । । २५.०*१४ । ।

सप्ताविंशतिभिर्भेदैः प्रश्नं एतत्क्रमागतं ।
षट्प्रकारत्रयश्चाज्ञा येषां तीव्रावलोकनं । । २५.०*१५ । ।

सुभक्ता वत्सलाः शान्ता दम्भमायाविवर्जिताः ।
तेषां मण्डलकं कुर्यादन्यथा तु विलोमकृथ् । । २५.०*१६ । ।

तस्य पूजाक्रमश्चायं जानुना भूमिसंस्थितः ।
विधाय मार्जनी शुद्धे प्रोक्षिते चैव भूतले । । २५.०*१७ । ।

दक्षहस्ततलं भ्राम्यं मण्डलं वारिनिर्मितं ।
सुपुष्पप्रकरैर्युक्तं विलिप्य चन्दनादिभिः । । २५.०*१८ । ।

त्रिधा तद्यागविधिना दत्त्वार्घं द्रव्यसंयुतं ।
शिष्योऽस्य गन्धधूपाद्यैः पूजां कृत्वा पुरात्मनः । । २५.०*१९ । ।

सद्विधानसमायुक्तं तदभ्यर्च्य समन्ततः ।
गुरुपादाम्भुजौ भक्त्या स्तुत्वा स्तोत्रादिभिः क्रमाथ् । । २५.०*२० । ।

पश्चात्त्रिःशुद्धया भक्त्या प्रणम्य तदनुज्ञया ।
उत्थाय शिरसा धार्यं भुक्तिमुक्तिफलार्थिना । । २५.०*२१ । ।

गुरुपादस्थपुष्पं तु कार्यं शिस्येण सादराथ् ।
नीराजनं सुभक्त्याथ शुभवस्तुनिवेदनं । । २५.०*२२ । ।

दूरात्करोति पर्यायात्पार्श्वस्थो हि च पर्वसु ।
स्वामिनं प्रणमेद्भक्त्या इत्याज्ञा पारमेश्वरी । । २५.०*२३ । ।

पुष्पाघ्राय विसर्ज्येत नीत्वा नासं अपुष्पता ।
विधानं मण्डलस्योक्तं स्वामिपूजाविधिक्रमः । । २५.०*२४ । ।

क्रमं कुर्यादिदं भक्त्या यः शिष्यः कुब्जिकामते ।
स्वामिपादप्रसादेन दिव्याज्ञां लभते पुनः । । २५.०*२५ । ।

एतन्मण्डलं आख्यातं यथार्थं तु मया तव ।
इदानीं ब्रूहि देवेशि किं अन्यं कथयामि ते । । २५.०*२६ । ।

एन्दोफ़् मण्डलविधान इन्सेर्तिओन्


श्रीकुब्जिका उवाच

पञ्चात्मानः कथं देव संस्थितः कतमः शिवः ।
किन्नियोगरता देव किम्प्रमाणं व्यवस्थिताः । । २५.१ । ।

श्रीभैरव उवाच

अत्यन्तनिपुनं देवि पृच्छसे गुणविस्तरं ।
सविस्मयकरं भद्रे कथयाम्यनुपूर्वशः । । २५.२ । ।

परः परापरः सिद्धः प्रसिद्धः पुद्गलात्मकः ।
स्थाननिर्देशतो वक्ष्ये शृणु त्वं वरवर्णिनि । । २५.३ । ।

शतकोटिप्रमाणेन परो ह्यात्मा व्यवस्थितः ।
षण्नवत्येव कोटीनां विज्ञेयस्तु परापरः । । २५.४ । ।

चतुराशीतिप्रमाणेन सिद्धो ह्यात्मा व्यवस्थितः ।
षट्त्रिंशत्कोटिमध्यस्थः प्रसिद्धः कारणेश्वरः । । २५.५ । ।

चत्वारिंशाष्टमानेन संस्थितः पुद्गलात्मकः ।
लडहैव स विज्ञेयः परापरविभागशः । । २५.६ । ।

प्रसिद्धकन्धरारूढः सिद्धसारथिनाहतः ।
स याति नीयते यत्र परापरनिरीक्षणाथ् । । २५.७ । ।

परमाणुसमादिष्टः कर्मवृत्तौ नियामितः ।
वामादिपथमार्गेण प्रकृत्यर्थभरालसः । । २५.८ । ।

प्रकृत्याक्रान्तशकटो भज्यते म्रियते गवि ।
रोदते सारथिस्तत्र पश्यते तु परापरः । । २५.९ । ।

वामादिपथं आरूढो नद्याम्भोधिसरित्सरैः ।
याति मद्ह्येन तेषां वै पस्यते वर्षणादिकं । । २५.१० । ।

यानक्रीडां च पश्येत कफाक्रान्तभरो यदि ।
पुद्गलात्मा व्रजेत्तत्र सिद्धसारथिनेरितः । । २५.११ । ।

पित्तद्रव्यभराक्रान्तो ज्येष्ठापथि नियोजितः ।
ज्वालावलीढमध्ये तु ज्वलन्तैकपुरेऽपि वा । । २५.१२ । ।

क्षुत्पिपासाभिभूतस्तु चौरा गृह्णन्ति तत्पथे ।
कोपसङ्ग्रामसंरम्भं स्त्रियालिङ्गनचुम्बनं । । २५.१३ । ।

राज्योपद्रवं एतद्धि परदारसमाकुलं ।
सारथिस्तु भवेत्तत्र वध्यते मार्यते तु सः । । २५.१४ । ।

परापरो रुदत्याशु परः पश्यति तत्र वै ।
यात्यनेकविधोपायैः ज्येष्ठापथसमाश्रितः । । २५.१५ । ।

कफपित्तभराक्रान्तो वाताक्रान्तो यथा पुनः ।
पथि रौद्रे नियुक्तोऽयं यात्यसौ खेचरामुखः । । २५.१६ । ।

स्वर्गपाताललोकान्तं पिशाचभुवनानि च ।
विद्याधरपुरं पश्येत्पुष्पितं वनकाननं । । २५.१७ । ।

योगिनीचक्रमेलापं नृत्यगीतरवाकुलं ।
राज्याभिषेकं आपन्नं छत्त्रोत्क्षेपितचामरं । । २५.१८ । ।
वातपित्तभराक्रान्तः पुद्गलात्मा पथि स्थितः ।
पश्यते सारथिः सर्वं भुञ्जते तु परापरः । । २५.१९ । ।

अथ वातभराक्रान्तो याति नीयति दूरतः ।
सन्त्रासितस्तु रविना विषमः समपर्वतं । । २५.२० । ।

खञ्जमानोऽप्यसौ यत्नाद्भज्यते म्रियते तु सः ।
अथ वातकफाक्रान्तः परसारथिनेरितः । । २५.२१ । ।

सर्पव्याघ्रवृकाकीर्णं मार्गं पश्यति सर्वथा ।
खाद्यते चाप्यसौ सर्पैर्म्रियते नीयतेऽपि वा । । २५.२२ । ।

एवं पुद्गल-आत्मा वै प्रसिद्धस्कन्धं आश्रितः ।
सिद्धसारथिना युक्तः परापरवशानुगः । । २५.२३ । ।

प्रेरितोऽसौ परात्माना क्रीडते स चराचरं ।
कथितं सरहस्यं तु परात्मानिर्णयं स्फुटं । । २५.२४ । ।

यन्न कस्यचिदाख्यातं भ्रान्तिरूपं जगस्य च ।
श्रीमतं ये न विन्दन्ति भ्रान्तिस्तेषां पदे पदे । । २५.२५ । ।

पराकाशे परो ह्यात्मा मन्त्राकाशे परापरः ।
शक्त्याकाशे सुसिद्धस्तु पदभावे प्रसिद्धधीः । । २५.२६ । ।

भूताकाशपथे संस्थः पुद्गलात्मा नकिञ्चनः ।
पञ्चैते शम्भुनादिष्टाः शम्भुः सर्वत्र समरसः । । २५.२७ । ।

षष्ठनाथः परः साक्षात्सर्वज्ञः स परापरः ।
अलक्षणं असंज्ञोऽसौ प्रसादाच्छम्भुवस्तु सः । । २५.२८ । ।

श्रीकुब्जिका उवाच

अनुज्ञातोऽभिषिक्तस्तु वीरो वीरत्वं इच्छता ।
चरेद्विद्याव्रतं मन्त्री यथा तत्कथयस्व मे । । २५.२९ । ।

श्रीभैरव उवाच
शृणु देवि प्रवक्ष्यामि विद्याया व्रतं उत्तमं ।
जटी मुण्डी शिखी भस्मी ब्रह्मचारी तु स्नातकः ल्ल् । । २५.३० । ।

व्रतस्थोऽप्यव्रतस्थो वा सर्वावस्थोऽथ सिद्धिदः ।
पञ्चमुद्राधरो वापि भस्मनिष्ठो दिगम्बरः । । २५.३१ । ।

चीरवल्कलधारी वा सर्वाभरणभूषितः ।
मलीमसोऽथ शुक्लो वा वस्त्राभरणभूषितः । । २५.३२ । ।

येन येन हि वेषेण वर्तते साधकोत्तमः ।
तत्तदेव व्रतं प्रोक्तं इति शास्त्रस्य निश्चयः । । २५.३३ । ।

यद्यदाभरणं तस्य यं वा वदति वाचया ।
सा चर्या कथिता तस्य मन्त्राश्चैव न संशयः । । २५.३४ । ।

विद्या नाम परा शक्तिर्द्विभिर्भेदैर्व्यवस्थिता ।
चिच्छक्तिरहिताधिष्ठा अवर्णा वर्णगा शुभा । । २५.३५ । ।

विन्दते वर्णगा येन तेन विद्याव्रतं प्रिये ।
चीर्णचर्या जगत्सर्वं वर्णावर्णैर्व्यवस्थितं । । २५.३६ । ।

व्रतं भावं इति प्रोक्तं तेन विद्याव्रतं स्मृतं ।
चिच्चिनोति विद ज्ञाने चिच्छक्तिप्रतिबोधकं । । २५.३७ । ।

अवर्णं रक्तवत्पिण्डं विद्यामन्त्रात्मविग्रहं ।
पश्यन्ति च व्रतासक्ताश्चीर्णविद्या स उच्यते । । २५.३८ । ।

सप्तकोटिसहस्राणां विद्यानां अप्रमेयतः ।
चिच्छक्तिबोधनं यस्मादवर्णा वर्णतां गता । । २५.३९ । ।

एका एव परा प्रोक्ता विद्यारूपा तु कुण्डली ।
तेन देवि व्रतं प्रोक्तं विद्यायावरणं शुभं । । २५.४० । ।

विद्यामार्गे चरेद्यस्तु शास्त्रदृष्टेन कर्मणा ।
ध्यानं पूजा जपो होमः समयानां प्रपालनं । । २५.४१ । ।

एतद्विद्याव्रतं प्रोक्तं नान्यथा वीरनायिके ।
विद्या ज्ञेया तु योनिस्था चरते द्वादशान्तगं । । २५.४२ । ।
व्रतस्थानेषु सर्वेषु तेन विद्याव्रतं प्रिये ।
ब्रह्मा विष्णुस्तथा रुद्र ईश्वरस्तु सदाशिवः । । २५.४३ । ।

एते स्थाना व्रतस्यैव यत्र सा चरते परा ।
तं ज्ञात्वा परमं स्थानं चीर्णविद्याव्रतो हि सः । । २५.४४ । ।

पञ्चमुद्रा भवेद्देवि पञ्चकारणकं ततः ।
भूषितो हृदि तिष्ठेत पञ्चमुद्राव्यवस्थितः । । २५.४५ । ।

एतैस्तु भूषितो मन्त्री पर्यटेत्क्षेत्रं आश्रितः ।
श्मशाने कानने कूपे उद्याने देवकुलेऽपि वा । । २५.४६ । ।

शून्ये राजगृहे मन्त्री पर्वताग्रे चतुष्पथे ।
त्रिपथग्रामरथ्यासु महोदधितटे तथा । । २५.४७ । ।

नदीसङ्गमतीरे वा एकवृक्षेऽथ कानने ।
एकलिङ्गे तथा षण्डे क्षेत्रैर्वा अष्टभिः क्रमाथ् । । २५.४८ । ।

प्रयागा वरुणा कोला भीमनादा जयन्तिका ।
चरित्रेकाम्रकं चैव कोटीवर्षं तथाष्टमं । । २५.४९ । ।

एतैस्तु पर्यटेन्मन्त्री योगिनीसिद्धिं इच्छता ।
खट्वाङ्गधारिणो मौनी वेगात्पर्यटते सदा । । २५.५० । ।

डमरुं पाशखट्वाङ्गं त्रिशूलं खेटकं तथा ।
नाराचा कर्तरी चक्रं अङ्कुशं मुशलं धनुः । । २५.५१ । ।

गदा कट्टारिका शक्तिस्तथा दण्डकमण्डलुं ।
एते तु आयुधाः श्रेष्ठाश्चर्याकाले तु धारयेथ् । । २५.५२ । ।

पञ्चदैवसिकं कार्यं अस्त्रसम्ख्या व्रतोत्तमा ।
द्वादसाहं चरेन्मन्त्री पक्षमासादितोऽथवा । । २५.५३ । ।

षण्मासं अथवाब्दं च द्विरब्दं त्रीणि-म्-एव वा ।
चतुः पञ्च तथा षट्सु सप्त अष्ट तथापि वा । । २५.५४ । ।

नव द्विपञ्चकं वाथ एकादश-म्-अथापि वा ।
द्वादशाब्दं चरेन्मन्त्री ब्रह्मघ्नोऽपि स सिध्यति । । २५.५५ । ।
अब्द-म्-एकेन देवेशि मण्डलीकैः प्रपूज्यते ।
देशं भृत्या[ः] पुरं ग्रामं समन्त्री सपुरोगमः । । २५.५६ । ।

सान्तःपुरवरो राजा वश्यो भवति शोभने ।
द्विरब्दैर्यक्षकन्याश्च सिध्यन्ति सुरनायिके । । २५.५७ । ।

त्रिरब्दात्सप्तपाताला यास्तु दैत्याङ्गनाः शुभाः ।
पश्यते मदमत्तास्तु मदविभ्रान्तलोचनाः । । २५.५८ । ।

मातङ्गमदगामिन्यो अक्षया यौवनोद्वहाः ।
क्षुभ्यन्ति साधकेन्द्रस्य प्राणान्मुञ्चन्ति तत्क्षणाथ् । । २५.५९ । ।

चतुः पञ्च तथा षट्सु ब्रह्मलोकादि साधयेथ् ।
सप्तमेऽब्दे वरारोहे रुद्रान्ता या व्यवस्थिताः । । २५.६० । ।

सिध्यन्ति साधकेन्द्रस्य इति शास्त्रे प्रचोदिताः ।
अष्टमे ईश्वराख्यं तु नवमे तु सदाशिवं । । २५.६१ । ।

दशमे विद्यालयो भूत्वा क्रीडते गगने महान् ।
दशमैकादशे देवि द्वादशैर्गुणसंयुतः । । २५.६२ । ।

अणिमादिगुणैर्युक्तो गच्छते खेचरैः सह ।
अक्षयो ह्यजयो योगी क्रीडते सर्वगः शुभः । । २५.६३ । ।

व्रतस्थस्य फलं ह्येतत्कथितं तु मया प्रिये ।
साम्प्रतं योगमार्गेण यथा भवति तच्छृणु । । २५.६४ । ।

श्मशानं तु गृहं प्रोक्तं गृहो देहः प्रकीर्तितः ।
अटते तु अविश्रान्तः श्मशानगतचेतसः । । २५.६५ । ।

कं शरीरं इति प्रोक्तं तस्यान्ते नयते भृशं ।
पश्यते मन्त्रसंस्थोऽपि वाङ्मयं सचराचरं । । २५.६६ । ।

काननं तेन चाख्यातं कायान्ते संस्थितं प्रिये ।
मनः कूपं समुद्दिष्टं सङ्कल्पं कुरुते बहून् । । २५.६७ । ।

तत्राधारो व्रजेत्क्षेत्री तेन कूपेति विश्रुतः ।
उद्यतो मन नाभिस्थो मध्यतः सर्वजन्तुषु । । २५.६८ । ।
नेति तत्परमं प्राप्तं उद्यानस्तेन उच्यते ।
ददाति सततं देहे अमृतं तु नभोगतं । । २५.६९ । ।

कुलान्ते च चरेद्येन धर्माधर्मात्मबन्धनैः ।
तेन देवि समाख्यातं देही देवकुलं सदा । । २५.७० । ।

राजा चात्मा समुद्दिष्टः षट्त्रिंशेऽप्यथवाध्वनि ।
शब्दादिगुणभूयिष्ठो मनःकोष्ठगतः प्रभुः । । २५.७१ । ।

तेन स्थितेन तिष्ठन्ति तेनैव सह गच्छति ।
उन्मनत्वे सदा युक्तः शून्यो मन-म्-उदाहृतः । । २५.७२ । ।

शून्यं राजगृहं तेन उन्मनत्वे सदा प्रिये ।
पर्वतं गुरुवक्त्रं तु तस्याग्रं अवलम्बयेथ् । । २५.७३ । ।

पर्वताग्रं स्मृतं तेन पर्यायेन सुरार्चिते ।
चतुष्पथं भवेद्देवि वामा ज्येष्ठा च रौद्रिका । । २५.७४ । ।

अम्बिकाया समायुक्तं अटनं पुद्गलात्मकं ।
चतुष्कं तेन चाख्यातं पथं एतदुदाहृतं । । २५.७५ । ।

पथं नाडीत्रयं प्रोक्तं इडाद्या तु कुलेश्वरि ।
त्रिपथस्थो-र्-अटेन्नित्यं कुरुते गति-र्-आगतिं । । २५.७६ । ।

त्रिपथस्थैकभावस्थो यः करोति स सिध्यति ।
ग्रामं देहं इति प्रोक्तं आत्मा देहं इति स्मृतः । । २५.७७ । ।

आलयः सर्वसत्त्वानां सुखदुःखपरापरः ।
गच्छते अध ऊर्ध्वं तु रथ्याधारो जगत्पतिः । । २५.७८ । ।

तेन रथ्या स्मृता नाडी ब्रह्माद्या आत्मनश्च तु ।
तटं तीरं समाख्यातं सिन्धूच्चारं निगद्यते । । २५.७९ । ।

दुःखान्ते तु लयातीतं तटं उदधिसंज्ञकं ।
वाचान्ते व्यापिनं देवं शिवं परमकारणं । । २५.८० । ।

तिष्ठते सततं मन्त्री तत्र चर्या प्रकाशिता ।
नदते चान्तराधारा परा कुण्डलिनी तु या । । २५.८१ । ।
सा नदी ओघभूता तु व्योमार्णे वहते सदा ।
सङ्गमं परया युक्तं उन्मनायाः प्रकीर्तितं । । २५.८२ । ।

सङ्गमं तेन चाख्यातं नदी तु समुदाहृता ।
तीरं तु समवायिन्या विभ्वीया सा परा कला । । २५.८३ । ।

तदातीतो भवेद्व्यापी नद्यास्तीरं उदाहृतं ।
एकवृक्षं समाख्यातं एका शक्तिरिहोच्यते । । २५.८४ । ।

वृक्षं इन्द्रियं आख्यातं वृक्षं शक्तिरिति स्मृता ।
क्षयं गता परे व्योम्नि अमनस्के निरामये । । २५.८५ । ।

तेन देवि मया प्रोक्तं एकवृक्षस्तु चर्यया ।
एकं एव परं तत्त्वं लिङ्गाधारं विभुं प्रिये । । २५.८६ । ।

पर्यटे[त्] तु दिवा रात्रौ अविश्रान्तः पुनः पुनः ।
एकलिङ्गं समाख्यातं षण्डं तु कथयामि ते । । २५.८७ । ।

हृदयं तु सरः प्रोक्तं पद्मं वै अष्टपत्त्रकं ।
उदानेन तु देवेशि विकाशे तु रविस्तु सः । । २५.८८ । ।

सेव्यते पुद्गलालीनं सरोजं हृदयात्मकं ।
रमते तत्र हंसाख्यः शक्तिराद्या मनोन्मनी । । २५.८९ । ।

तं षण्डं कथितं शास्त्रे क्षेत्राणि कथयामि ते ।
क्षेत्रं नाम परं शान्तं शरीरं तत्त्वसंयुतं । । २५.९० । ।

क्षेत्रज्ञो अटते नित्यं स्थानाष्टकगतिस्थितः ।
तेनेदं कथितं देवि क्षेत्राष्टकं उदाहृतं । । २५.९१ । ।

ये पीठास्ते भवेत्क्षेत्राः क्षेत्राः पीठा उदाहृताः ।
नामपर्यायसंज्ञा तु शास्त्रे शास्त्रे पृथक्पृथक् । । २५.९२ । ।

प्रयागं नाभिसंस्थं तु वरुणा हृत्प्रदेशतः ।
कोलागिर्यं तु कण्ठस्थं भीमनादं च तालुके । । २५.९३ । ।

बिन्दुस्थाने जयन्त्याख्यं नादाख्ये तु चरित्रकं ।
एकाम्रं शक्तिमध्ये तु ज्ञातव्यं विदितात्मकैः । । २५.९४ । ।
गुरुवक्त्रगतं प्रोक्तं कोटीवर्षं तु चाष्टमं ।
एते स्थाना मया प्रोक्ता अध्यात्मं पुद्गलाश्रिताः । । २५.९५ । ।

अटते सततं येन हृच्चक्रस्थः सनातनः ।
यावदेवं न विन्देच्च पीठं अध्यात्मिकं प्रिये । । २५.९६ । ।

तावत्तस्य कुतः सिद्धिरटतोऽपि जगत्त्रयं ।
बहिरन्तरभावं तु अन्तरम्बहिरङ्गयोः । । २५.९७ । ।

लोकप्रवृत्तिहेत्वर्थे बहिःपीठाः प्रकीर्तिताः ।
अन्तरङ्गं यदा शुद्धं पश्यते मनसा प्रिये । । २५.९८ । ।

तदा पश्यति बाह्ये तु सूक्ष्मरूपा गभस्तयः ।
मेलकं च प्रयच्छन्ति चरुं वा पाशवीं विधिं । । २५.९९ । ।

सम्प्रदायं प्रयच्छन्ति स्थानं वा कथयन्त्यपि ।
अशुद्धेन तु भावेन पर्यटेत्पृथिवीं यदि । । २५.१०० । ।

न तस्य दर्शनं देवि ददते मनसा क्वचिथ् ।
पश्यन्नपि च देवेशि पश्यन्तोऽपि न पश्यति । । २५.१०१ । ।

सङ्कीर्णलक्षणा देव्यो मिश्रा ज्ञातुं न शक्यते ।
प्रभावोऽस्याः समुद्दिष्टो विना तासां अनुग्रहाथ् । । २५.१०२ । ।

ग्रामे ग्रामे तथारण्ये नगरे चत्वरे पुरे ।
खेटके चैव सन्दोहे पीठक्षेत्रे वने तथा । । २५.१०३ । ।

उद्यानोपवने चैव पूर्वं उक्ते तथैव च ।
देशे देशेऽभिजायन्ते ज्ञानरूपा गभस्तयः । । २५.१०४ । ।

पार्थिवाचरणे प्रोक्ता आपे तेजे तथानिले ।
आकाशे चैव सुश्रोणि तासां सङ्ख्या न विद्यते । । २५.१०५ । ।

पीठाश्रयविभागेन उत्पद्यन्ते ह्यनेकधा ।
खानपानरता नित्यं क्रीडन्ते चान्त्यजेष्वपि । । २५.१०६ । ।

तेन देवि मया प्रोक्ताः पीठा बाह्यस्वरूपतः ।
वेश्यागृहं प्रयागाख्यं वरुणा सौण्डिकी विदुः । । २५.१०७ । ।
कैवर्तिकी भवेत्कोल्ला अट्टहासं तु खट्टकी ।
जयन्ती कन्दुकी विद्याच्चरित्रं रजकीगृहं । । २५.१०८ । ।

एकाम्रकं भवेच्छिप्पी कोटाख्येति च कौषटी ।
पुरस्थितानि क्षेत्राणि ज्ञानात्मा लक्षयेत्तु ता[ः] । । २५.१०९ । ।

बाह्यतः कथितो भेदो गृहस्थं शृणु साम्प्रतं ।
प्रयागं मध्यदेशे तु वरुणा द्वारं आस्रिता । । २५.११० । ।

कोलापुरं तु कञ्जिन्यां चुल्ली चैवाट्टहासकं ।
चरित्रं पेषणी ज्ञेया एकाम्रं कण्डनी स्मृता । । २५.१११ । ।

देविकोट्टं घरट्टं च उपक्षेत्राण्यतः सृणु ।
वर्धमानी-म्-उपालम्भी देहल्या मुषलं तथा । । २५.११२ । ।

खट्वा शूर्पघरट्टं च वर्धमान्यादितः क्रमाथ् ।
पादेनैतान्न संस्पृश्य यदिच्छेच्छ्रियं आत्मनः । । २५.११३ । ।

मार्जनीशूर्पवातं वा दूरतः परिवर्जयेथ् ।
वाताविष्टाः प्रविश्यन्ति छिद्रं मत्वा तु साधके । । २५.११४ । ।

विघ्नानि सिद्धयोगिन्यः श्रेयं गृह्णन्त्यतोऽर्थतः ।
कणिका शिरवाख्यं तु कालिकालालयं शिवं । । २५.११५ । ।

कालञ्जरं महाकालं क्षेत्रसंस्थानं आश्रितः ।
पीठोपपीठसन्दोहं पुरस्थं गृहदेहगं । । २५.११६ । ।

ज्ञातव्यं चुम्बकेनैव भुक्तिमुक्तिफलप्रदं ।
बाह्यतः कथिता ह्येवं पीठाः क्षेत्रास्तु सुव्रते । । २५.११७ । ।

पर्यटेदेषु स्थानेषु पूजनीयाः सदा बुधैः ।
भक्ष्यभोज्यान्नपानैश्च तर्पयेन्मन्त्रवित्सदा । । २५.११८ । ।

एतेषां संस्थितिस्तेषां योगिनां अप्रमेयता ।
भवन्तीह न सन्देहो वरदाः साधकस्य तु । । २५.११९ । ।

तर्पिताः पूजिता देव्यः साधकस्य ददन्ति हि ।
षण्मासाद्युक्तमार्गस्य समयव्रतपालके । । २५.१२० । ।
मन्तव्यं साधकेन्द्रेण तोषयित्वा गुरुं प्रिये ।
अथान्यं सम्प्रवक्ष्यामि परिभाषास्त्रवादिनां । । २५.१२१ । ।

अध्यात्मिकं बहिश्चैव यथा ज्ञायन्ति तत्त्वतः ।
तथा ते कथयिष्यामि शृणुष्वायतलोचने । । २५.१२२ । ।

अध्यात्मं कुरुते बाह्यं व्रतचर्या तु साधनं ।
एवं कृते भवेत्सिद्धिः सत्यं सत्यं न संशयः । । २५.१२३ । ।

खट्वाङ्गं कथयिष्यामि खगतीकरणं परं ।
आपादतलमूर्ध्नान्तं यथा भवति तच्छृणु । । २५.१२४ । ।

शिरादौ सर्व-म्-अङ्गेषु अङ्गप्रत्यङ्गकेष्वपि ।
खट्वायते तु सुश्रोणि खट्वाङ्गी तेन उच्यते । । २५.१२५ । ।

मौनेन वर्तयेन्नित्यं हृदि गूढं परापरं ।
तेन मौनीति विज्ञेयः सर्वभावेषु भाविनि । । २५.१२६ । ।

वेगेन पर्यटेद्देहे अविश्रान्तः पुनः पुनः ।
तेन वेगान्मयाख्यातं अटनं पुद्गलस्य तु । । २५.१२७ । ।

डमरुकं प्रवक्ष्यामि यथा शास्त्रे उदाहृतं ।
अमा नाम परा सूक्ष्मा कला चामृतवाहिनी । । २५.१२८ । ।

आत्मा सञ्चरते तस्मिन्रावं मुञ्चन्ति बिन्दुके ।
विसर्गस्थो महात्मानो वादयेत्कथयेति च । । २५.१२९ । ।

डमरुकं स्मृतं तेन अमनस्के निरामये ।
नाभिस्था यस्य तिष्ठेत मायारूपा तु कुण्डली । । २५.१३० । ।

पाशं एतद्विनिर्दिष्टं खड्गं चैवाधुना शृणु ।
खस्था छिनत्ति पाशांस्तु विसर्गास्त्रेण मोहनी । । २५.१३१ । ।

खड्गवन्निर्मला येन खगमध्ये कुलेश्वरि ।
गता सा ब्रह्मसायुज्यं घटते शक्तिरव्यया । । २५.१३२ । ।

तेन खड्गं इति प्रोक्तं आयुधं सुरनायिके ।
एका एव परा शक्तिस्त्रिपथा चक्रमण्डले । । २५.१३३ । ।
वामा ज्येष्ठा तथा रौद्री इच्छाज्ञानक्रियात्मिका ।
त्रिशूलं त्रिपथं ख्यातं त्रिशक्तिं अनुपूर्वशः । । २५.१३४ । ।

खरूपा व्योमगा शान्ता निर्मला अटते प्रिये ।
खेटकं तेन नामं तु द्वादशान्ते व्यवस्थितं । । २५.१३५ । ।

नारा च शक्ति-र्-उच्चारं करणात्मव्यवस्थितं ।
वेधते तु निरोधिन्या कारणं पञ्च एव तु । । २५.१३६ । ।

तेन नाराचं आख्यातं पर्यायेण वरानने ।
कर्तरी ज्ञानशक्तिस्तु येन पाशाञ्छिनत्त्यसौ । । २५.१३७ । ।

सा कला परमा सूक्ष्मा मन्त्राणां बोधनी परा ।
कर्तरी कर्तृरूपेण ज्ञातव्या साधकेन तु । । २५.१३८ । ।

चरते द्वादशान्ते तु क्रमात्तत्त्वानि मुञ्चति ।
चक्रवेद्भ्रमते नित्यं अङ्कुशस्था परापरा । । २५.१३९ । ।

अङ्गमङ्गगता देवी बहिरन्तरसंस्थिता ।
कुरुते सततं चेष्टां आसने शयने तथा । । २५.१४० । ।

धावनं वल्गनं रोधं अङ्कुशस्थानं आश्रितः ।
मुषलत्वे स्थितो नादो रेखाकारोर्ध्वगः प्रिये । । २५.१४१ । ।

तं भित्त्वा गमनं चोर्ध्वं मुषलाख्यं सदाशिवं ।
धनुर्लक्ष्ये मनाख्यं तु येन वेधयते परं । । २५.१४२ । ।

आपूर्य सविसर्गेण परेण मनचक्षुषा ।
करणेन फडन्तेन विसर्गस्थेन सुस्वने । । २५.१४३ । ।

ऋतुद्वयविशुद्धेन काननान्तर्गतेन तु ।
अनेन करणान्तेन कट्टारिका परापरा । । २५.१४४ । ।

प्राप्नोति तत्त्वसायोज्यं गदया च सुलोचने ।
गता ह्येका परा रन्ध्रं ददते चामृतं शुभं । । २५.१४५ । ।

गतास्तु न निवर्तन्ते ये गता गदया सह ।
शक्तिः शक्तिस्थभावेन आत्मानं नयते सदा । । २५.१४६ । ।
तद्भावयोगविद्धस्तु शक्तिना तु सुराधिपे ।
दण्डवदृजुरेखा तु नादान्तपदं अव्ययं । । २५.१४७ । ।

तेन मार्गेण गन्तव्यं दण्डधारेण सुव्रते ।
कं शरीरं इति ख्यातं मण्डलाकारसंस्थितं । । २५.१४८ । ।

अत्राध्वा तु वरारोहे शोधनीयो मनीषिभिः ।
कुलाद्या या परा शुद्धा सर्व-अध्वहृदि स्थिता । । २५.१४९ । ।

तेनेदं कथितं भद्रे कमण्डलुरिति स्मृतः ।
एते तु आयुधाः सूक्ष्माः पर्यायात्कथिताः स्फुटं । । २५.१५० । ।

समयिन्यगता सूक्ष्मा कला सूक्ष्मातिनायिका ।
कथितास्तु मया देवि परापरविभागशः । । २५.१५१ । ।

बाह्यतः कथयिष्यामि दूतीनां लक्षणं सुभं ।
अन्तरङ्गे तथा ह्येवं श्रूयतां तेषु निश्चयं । । २५.१५२ । ।

माता दुहिता भगिनी सहजा तु तथा न्त्यजा ।
रजकी चर्मकारी च मातङ्गी चाग्रजन्मिका । । २५.१५३ । ।

अन्नपानं तथा भक्ष्यं आचरेच्छक्तिभिः सह ।
अन्त्यजानां द्विजानां च एकत्र चरुभोजनं । । २५.१५४ । ।

कर्तव्यं साधकेनैव यदिच्छेत्सिद्धिं उत्तमां । । २५.१५५ । ।

श्रीकुब्जिका उवाच

कुत्सितं कथितं देव अयुक्तं शास्त्रवादिनां ।
पशूनां यत्समाख्यातं आचारं परमेश्वर ।
यतीनां तु यदा सो हि तदाश्चर्यं महाप्रभो । । २५.१५६ । ।

श्रीभैरव उवाच

साधु देवि महाप्राज्ञे प्रश्नं एतत्सुदुर्लभं ।
कथयामि समासेन त्वत्प्रीत्या सुरनायिके । । २५.१५७ । ।

मातेव संस्थिता शक्तिर्जगतो योनिरूपिणी ।
अत्रोत्पन्नं समस्तं हि वाङ्मयं सचराचरं । । २५.१५८ । ।

तेन मातेति विख्याता कथिता परमेश्वरी ।
उद्भवस्था दुहित्री तु दुहनात्तु जगस्य च । । २५.१५९ । ।

दुहित्री तु द्वितीया तु भगिनी त्वथ-म्-उच्यते ।
भगरूपा परा सूक्ष्मा नान्येन तु सुनिर्मिता । । २५.१६० । ।

स्वतोत्पन्ना स्वयं जाता तेनोक्ता सहजा कला ।
अन्तस्था सर्वभूतानां वर्तते चान्तगा परा । । २५.१६१ । ।

अन्ते च संस्थिता ह्येका अन्त्यजा परमेश्वरी ।
रजस्तमोविनिर्मुक्ता महान्ते रजकी उमे । । २५.१६२ । ।

चरते चर्मगा येन स्वरङ्गेन तु रञ्जिता ।
चर्मकारी तु सा चैका मातङ्गी च ततोच्यते । । २५.१६३ । ।

आत्मस्था सततं नित्यं गीतस्यान्तपथे स्थिता ।
मातङ्गी कथिता दूती अग्रजन्मी तथोच्यते । । २५.१६४ । ।

सर्वेषां चैव शास्त्राणां अग्रोत्पन्ना तु अग्रणी ।
नान्यत्तत्र भवेत्किञ्चिच्छक्तिराद्या मनोन्मनी । । २५.१६५ । ।

अग्रजन्मा समाख्याता परा ह्यमृतवाहिनी ।
पर्यायात्कथिता देवि शक्तिस्तद्धर्मधर्मिणी । । २५.१६६ । ।

अज्ञात्वा देहजां शक्तिं बहुस्थानगतां प्रिये ।
आचरन्ति च ये मूढाः पशवः समुदाहृताः । । २५.१६७ । ।

अपाक्तेया असम्भाष्याः शिवव्रतविडम्बकाः ।
खानं पानं तथा देवि कर्तव्यं न च तैः सह । । २५.१६८ । ।

एवं युक्तः सदा तिष्ठेन्मदिरानन्दचेतसः ।
मदिरा या परा शक्ति रञ्जितं तु जगत्त्रयं । । २५.१६९ । ।

आनन्दं तत्समत्वं हि मदिरानन्दचेतसः ।
सिध्यते नात्र सन्देहो यथा भैरव-म्-अब्रवीथ् । । २५.१७० । ।
ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः ।
नैवास्ति किञ्चित्कर्तव्यं अस्ति चेन्न स तत्त्वविथ् । । २५.१७१ । ।

अथान्यत्सम्प्रवक्ष्यामि अवस्थां ज्ञानबोधिकां ।
घोषणी पिङ्गला चैव विद्युन्माला च चन्द्रिणी । । २५.१७२ । ।

मनोऽनुगा च सुकृता स्ॐया चैव निरञ्जना ।
निरालम्बा तथा देवी अन्या चैव महाबला । । २५.१७३ । ।

हेला लोला तथा लीला बोधाबोधवतीति च ।
निरामयाः समाख्याता एताः प्रत्यक्षमातराः । । २५.१७४ । ।

आज्ञासिद्धिप्रदातारा आज्ञासिद्धिकुलान्वये ।
घोषणी घोषमार्गस्था शिखा धूम्रा च पिङ्गला । । २५.१७५ । ।

रात्रौ द्योतयते शुक्लं विद्युन्मालेति चोच्यते ।
चन्द्रिणी चन्द्रगर्भेण सन्ध्याबिन्दु मनोऽनुगा । । २५.१७६ । ।

निमीलिताक्षे यत्पीतं सुकृता समुदाहृता ।
कंसध्वनिस्तथा स्ॐया घण्टा चैव निरञ्जना । । २५.१७७ । ।

हंसाख्या तु निरालम्बा किङ्किणी तु महाबला ।
गुददेशे प्रजायेत सदा सिद्धिप्रदायिका । । २५.१७८ । ।

घोषमार्गे तु यो हंसो हेला नामेति चोच्यते ।
तस्य मध्ये तु यः शब्दो लोलाख्या सा प्रकीर्तिता । । २५.१७९ । ।

लीला चैवाणवा प्रोक्ता खेचरत्वप्रदायिनी ।
चीत्कृतं कर्णदेशे तु बोधाबोधवती तु सा । । २५.१८० । ।

आत्मानं हंसं इत्याहुर्मायारूपा तु बोधनी ।
कुण्डली तु समाख्याता रुद्रशक्तिस्तु बिन्दुकं । । २५.१८१ । ।

गगने दृश्यते यस्तु प्रभाकारेण सुप्रभः ।
अखण्डमण्डलाकारं द्योतयन्तं नभस्तलं । । २५.१८२ । ।

अचलं तत्समाख्यातं अचलत्वेन संस्थितं ।
एतावस्थाः समाख्याता उदयन्ति क्रमेण तु । । २५.१८३ । ।
आज्ञातत्परभावज्ञः सुगुप्तो गुरुपूजकः ।
तस्य सिद्धिर्भवत्याशु नान्यथा कुब्जिके वचः । । २५.१८४ । ।

पितु[ः] प्राप्तं यथा सौख्यं तत्सुखं भुञ्जते स्वयं ।
मृत्युर्येन सुखेनेह तत्सुखं ध्यानं उच्यते । । २५.१८५ । ।

श्रीभैरव उवाच

समस्तेदं वरारोहे दुर्लभं प्रकटीकृतं ।
त्वं पुनश्चावतारित्वा क्रमौघं सम्प्रकाशय । । २५.१८६ । ।

सुगोप्यं गोपनीभूत्वा क्रमं पूज्यारिहा भव । । २५.१८७ । ।

या सा कुब्जि परा महौघजननी सञ्चोदितोऽहं त्वया त्वं कुब्जा परकुब्जिनी मम पुनस्त्वाहं मया त्वं पुनः ।
त्वयादिष्टचतुष्टयं क्रमपथं तेषां क्रमो वै यथा सम्प्रेष्यात्मगतं क्रमौघपरमं चाज्ञा गृहीतानघे । । २५.१८८ । ।

शतकोटिसुविस्तीर्णं तन्त्रेदं पारमेश्वरं ।
अस्य भेदोपभेदाश्च भविष्यन्ति ह्यनेकधा । । २५.१८९ । ।

अत्र कल्पे वरारोहे सूत्रसङ्ग्रहलक्षणं ।
चतुर्विंशतिसाहस्रं किं तु तत्प्रकटं न हि । । २५.१९० । ।

कर्तव्यं तु त्वया भद्रे किं तु पीठचतुष्टये ।
प्रकाशयस्व चाज्ञातो यथा गोप्यतरं भवेथ् । । २५.१९१ । ।

सुदुर्लभतरं देवि तन्त्रेदं परमाद्भुतं ।
यत्र वा तिष्ठते देशे स देशो भुक्तिभाग्भवेथ् । । २५.१९२ । ।

किं पुनः पुरमध्यस्थं गृहावस्थगतं हृदि ।
तिष्ठते यस्यऽसौ नाथे पुरं पीठसमं भवेथ् । । २५.१९३ । ।

गृहं तद्योगपीठं च मन्तव्यं अन्वयान्वितैः ।
आगमं मण्डलाद्यैस्तु पूज्योघं पारमेश्वरं । । २५.१९४ । ।

यत्रेदं तिष्ठते स्थाने दिव्याम्नायं सुदुर्लभं ।
दिव्यैस्तु पूज्यते सो हि यदि गोप्यतरं भवेथ् । । २५.१९५ । ।

विधानविहिता पूजा यद्यष्टम्यां चतुर्दशी ।
पूजयेत्परमाम्नायं पूज्यते स मरीचिभिः । । २५.१९६ । ।

यस्त्वेवं विन्दते देवि ग्रन्थतश्चार्थतोऽपि वा ।
स ज्येष्ठः कुलसन्ताने पूज्योऽसौ भैरवो यथा । । २५.१९७ । ।

अवज्ञां कुरुते यस्तु यस्य तस्य प्रकाशयेथ् ।
सामर्थ्येन सतां द्विष्टो भ्रष्टो दुःखी स सर्वतः । । २५.१९८ । ।

आगमाधारभाण्डस्य दृष्ट्वावज्ञां करोति यः ।
नमस्कारेण तत्पीठं तस्यैवायं पुरोदितं । । २५.१९९ । ।

श्रुत्वैवं विस्मयापन्ना ऊचुस्त्वेवं कुलेश्वरी ।
प्रेरयित्वादितोद्दिष्टा अत्राज्ञानविरोधिनी । । २५.२०० । ।

आज्ञाश्रुतं समस्तेदं दृष्टं अस्माद्विर्जृम्भितं ।
व्रजतोडादिसिद्धानां तेषु सर्वं समर्पयेथ् । । २५.२०१ । ।

समयिन्यश्च संयोज्य तस्य त्वामोघशालिनी ।
भविष्यसि पुरावस्था तदवस्थान्तरे स्थिता । । २५.२०२ । ।

प्रथमं मद्गुणैर्भद्रे द्वितीयं च खगान्तरे ।
तृतीयं भूचरीनाथः पश्चानन्तभवात्मिका । । २५.२०३ । ।

त्रयान्ते गुरुपङ्क्तिस्था Pऋथक्पूजाक्रमे स्थिता ।
भविष्यसि पुरावस्था ह्रास्यमाना पदे पदे । । २५.२०४ । ।

जीविकोपायहेत्वर्थं उत्कर्षार्थं अथापि वा ।
तेषु त्यज्य पराम्नायं भूतावेशकरी भव । । २५.२०५ । ।

व्यतिक्रमं यदा काले भविष्यत्कुब्जिनीमते ।
तदा काले तु तं हत्वा समाप्येवं पुनर्भज । । २५.२०६ । ।

सारसङ्ग्रहं एतद्धि अनामामतं उत्तमं ।
अस्योच्चारं न कर्तव्यं उच्चारादयुतं जपेथ् । । २५.२०७ । ।

कुब्जिका या वरारोहे पञ्चभिः प्रणवैः सह ।
तैर्विना न हि चोच्चारं कुब्जाम्नायमहाध्वरे । । २५.२०८ । ।
यैस्तु तानि वरारोहे कथयामि स्वरूपतः ।
बिन्दुयुक्तानि सर्वाणि जीवभूतानि शासने । । २५.२०९ । ।

आदिमं च तृतीयं च दशमं चैकविंशकं ।
द्वितीयं चैकविंशेन वर्जितं पञ्चमं तु तथ् । । २५.२१० । ।

किं तु वामेन जङ्घाया हतं बीजेन कारयेथ् ।
तद्बीजं परं उद्दिष्टं सर्वज्ञानावतारकं । । २५.२११ । ।

अम्बिका बिन्दुनादं च कुण्डली च परः शिवः ।
रत्नानां पञ्चकं देवि व्यापयित्वा सुदुर्लभं । । २५.२१२ । ।

अनेनाभ्यासयोगेन खेचरीकुलनन्दनः ।
सिध्यते नात्र सन्देहो गुरुवक्त्रप्रसादतः । । २५.२१३ । ।

खेचरा भूचरा चैव दिक्चरा गोचरा तथा ।
ददन्ति मेलकं सर्वं यस्येदं हृदि संस्थितं । । २५.२१४ । ।

देवदेवेन देव्याया मतं दिव्यं मया तव ।
कर्तव्यं तु तथा गोप्यं इत्याज्ञा पारमेश्वरी । । २५.२१५ । ।

पूजा चास्य प्रकर्तव्या विशेषेण वरानने ।
शुक्लपक्षे तृतीयायां वैशाखस्य तथा पुनः । । २५.२१६ । ।

कृष्णपक्षे त्रयोदश्यां नभस्यनवमी पुनः ।
आश्विने शुक्लपक्षस्य पूर्णिमा फाल्गुने मता । । २५.२१७ । ।

आषाढे श्रावणे चैव भाद्रपद्यां तथैव च ।
शुक्लपक्षे चतुर्दश्यां कर्तव्यं च पवित्रकं । । २५.२१८ । ।

आत्मवित्तानुसारेण उत्तमाधममध्यमाः ।
गुरुपर्वं इति ख्यातं पालनीयं कुलाम्बिके । । २५.२१९ । ।

युगादयः समाख्याता अत्र पीठावतारणं ।
पीठमार्गक्रमायातं आगमोऽयं तदेव हि । । २५.२२० । ।

आगमे पूजिते सर्वं पूजितं ज्ञानसागरं ।
येनेदं पुस्तकं देव्याः पूर्वोक्तं यन्मया तव । । २५.२२१ । ।
अन्यत्तत्परमोपायं सिद्धिपर्यायशासने ।
दिव्यसिद्धिप्रदातारं दिव्यभाषाविभूषितं । । २५.२२२ । ।

कुसुमं च रजं रक्तं रथ्यं शिवकुसुम्भकं ।
तडिदमृतमधुरं क्षतजोद्भवनेत्रजं । । २५.२२३ । ।

कादम्बरी प्रसन्ना च परिस्रुङ्मदिरा सुरा ।
वामामृतं अलिश्चैव सोमपानं मदालसी । । २५.२२४ । ।

धारामृतं शिवाम्बुं च रतिविष्णुवरुणोद्भवं ।
वर्चो ब्रह्मा द्विजन्मा च सरोजः कमलासनः । । २५.२२५ । ।

बुकपुष्पकणाख्यं च लिङ्गपङ्कमलं तथा ।
कुण्डगोलोद्भवं शुक्रं शशिश्चैव सितं मधु । । २५.२२६ । ।

कटं मांसं पलं क्रव्यं पिषितं फल्गुषामिषं ।
जाङ्गलं देवदारुं च क्ष्मा वै खड्गोद्भवं स्मृतं । । २५.२२७ । ।

तैलं वसा तथा स्नेहं कटुतैलं तु तीक्ष्णकं ।
तुरुष्कं सिह्णकं प्रोक्तं कपालपुटमध्यगं । । २५.२२८ । ।

लशुनं नासिकावस्थं तच्च हिङ्गु प्रकीर्तितं ।
गजं चैव तु कुष्माण्डं पलाण्डुं च विशेषतः । । २५.२२९ । ।

पर्युषिताच्छाल्यगरुं पिप्पल्यः कृष्णतण्डुलाः ।
कृष्णच्छागो महानेत्री पललं मेषात्मकं स्मृतं । । २५.२३० । ।

सामर्थज्ञविदानां च इति पूजा प्रकीर्तिता ।
सिद्धद्रव्यं समाख्यातं प्रसङ्गाद्योगिनीकुले । । २५.२३१ । ।

नानेन रहिता सिद्धिर्भुक्तिमुक्तिर्न विद्यते ।
निराचारपदं ह्येतत्तेनेदं परमं स्मृतं । । २५.२३२ । ।

इति कुलालिकाम्नाये श्रीकुब्जिकामते समस्तज्ञानावबोधचर्यानिर्देशो नाम पञ्चविंशतिमः पटलः


Categories: Hindu scriptures

Tagged as: