ADVOCATETANMOY LAW LIBRARY

Research & Library Database

Home » INDIA » विश्वभारती अधिविद्या अधिभूत पाठ – Viswa Bharati Mantra-तैत्तिरीयारण्यक

विश्वभारती अधिविद्या अधिभूत पाठ – Viswa Bharati Mantra-तैत्तिरीयारण्यक

ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्या- यप्रवचने च । तपश्च स्वाध्यायप्रवचने च । दमश्च स्वाध्यायप्रवचने च । शमश्च स्वाध्यायप्रवचने च । अग्नयश्च स्वाध्यायप्रवचने च । अग्निहोत्रं च स्वाध्यायप्रवचने च। अतिथयश्च स्वाध्यायप्रवचने च । मानुषं च स्वाध्यायप्रवचने च । प्रजा च स्वाध्यायप्रवचने च । प्रजनश्च स्वाध्यायप्रवचने च । प्रजातिश्च स्वाध्यायप्रवचने च, इति । सत्यमिति सत्यवचा राथीतरः । तप इति तपोनित्यः पौरुशिष्टिः । स्वाध्यायप्रवचने एवैति नाको मौद्गल्यः । तद्धि तपस्तद्धि तपः  इति ।

ॐ 

शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः, इति । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदि ष्यामि । सत्यं वदिष्यामि । तन्मामवन्तु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम्, इति ।

ओमिति ब्रह्म, इति । ओमितीदं सर्वम्, इति । ओमित्येतदनुकृति ह स्म वा अप्यो श्रावयत्याश्रावयन्ति । ओमिति सामानि गायन्ति । ओं शोमिति शस्त्राणि शँसन्ति । ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति । ओमिति ब्रह्म प्रसौति । ओमित्यग्निहोत्रमनुजानाति । ओमिति ब्राह्मणः प्रवक्ष्यन्नाह-इति ।
ब्रह्मोपाप्नवानीति । ब्रह्मैवोपाप्नोति  इति

ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्या- यप्रवचने च । तपश्च स्वाध्यायप्रवचने च । दमश्च स्वाध्यायप्रवचने च । शमश्च स्वाध्यायप्रवचने च । अग्नयश्च स्वाध्यायप्रवचने च । अग्निहोत्रं च स्वाध्यायप्रवचने च। अतिथयश्च स्वाध्यायप्रवचने च । मानुषं च स्वाध्यायप्रवचने च । प्रजा च स्वाध्यायप्रवचने च । प्रजनश्च स्वाध्यायप्रवचने च । प्रजातिश्च स्वाध्यायप्रवचने च, इति । सत्यमिति सत्यवचा राथीतरः । तप इति तपोनित्यः पौरुशिष्टिः । स्वाध्यायप्रवचने एवैति नाको मौद्गल्यः । तद्धि तपस्तद्धि तपः  इति ।

अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव । ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि । द्रविणं सवर्चसम् । सुमेधा अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम्  इति ।

अथाधिविद्यम् । आचार्यः पूर्वरूपम् । अन्तेवास्युत्तररूपम् । विद्या संधिः । प्रवचनं संधानम् । इत्यधिविद्यम्, इति । अथाधिप्रजम् । माता पूर्वरूपम् । पितोत्तररूपम् । प्रजा संधिः । प्रजननंश संधानम् । इत्यधिप्रजम् , इति ।

सत्यं वद । धर्मं चर, इति । स्वाध्यायान्मा प्रमदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः । सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रमदि- तव्यम्। देवपितृकार्याभ्यां न प्रमदितव्यम्, इति । मातृदेवो भव । पितृदेवो भव । आचार्य- देवो भव । अतिथिदेवो भव, इति । यान्यनवद्यानि कर्माणि । तानि सेवि- तव्यानि । नो इतराणि, इति । यान्यस्माकं सुचरितानि । तानि त्वयोपास्यानि । नो इतराणि, इति । ये के चास्मच्छ्रेयांसो ब्राह्मणाः । तेषां त्वयाऽऽसनेन प्रश्वसितव्यम्, इति । श्रद्धया देयम् । अश्रद्धयाऽदेयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् । संविदा देयम्, इति । अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा ब्रा स्यात्  । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः, इति । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः, इति । एष आदेशः । एष उपदेशः । एषा वेदोपनिषत् । एतदन्रुशासनम् । एवमुपासितव्यम् । एवमु चैतदुपास्यम् , इति । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यं तानि त्वयोपास्यानि स्यात्तेषु वर्तेरन्त्सप्त च ।।

पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः । अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि । आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम्, इति ।

अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः समानः । चक्षुः श्रोत्रं मनो वाक्त्वक् । चर्म मांसं स्नावास्थि मज्जा, इति । एतदधिविधाय ऋषिरवोचत् ।

स य एषोऽन्तर्हृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः, इति । अन्तरेण तालुके । य एष स्तन इवावलम्बते । सेन्द्रयोनिः । यत्रासौ केशान्तो विवर्तते । व्यपोह्य शीर्षकपाले, इति । भूरित्यग्नौ प्रतितिष्ठति । भुव इति वायौ । सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् । आप्नोति मनसस्पतिम् । वाक्पति- श्चक्षुष्पतिः । श्रोत्रपतिर्विज्ञानपतिः । एतत्ततो भवति । आकाशशरीरं ब्रह्म । सत्यात्म प्राणारामं मन आनन्दम् । शान्तिसमृद्धममृतम्, इति । इति प्राचीनयोग्योपास्स्व , इति । वायावमृतमेकं च ।।

ॐ शान्तिः शान्तिः शान्तिः ।


॥ॐ॥ यश्छन्दसामृषभो विश्वरूपः। छन्दोभ्योऽध्यमृतात्सम्बभूव।
स मेन्द्रो मेधया स्पृणोतु। अमृतस्य देवधारणो भूयासम्।
शरीरं मे विचर्षणम्। जिह्वा मे मधुमत्तमा।
कर्णाभ्यां भूरि विश्रुवम्। ब्रह्मणः कोशोऽसि मेधया पिहितः।
श्रुतं मे गोपाय॥ ॐ शान्तिः शान्तिः शान्तिः॥

May the universal form, exalted among the VedasVedas Samhita: Rigveda, Samveda, Yayurveda (Shukla and Krishna), Atharvaveda. Commentary: Rig, Atharva, Shukla Yajurveda, Krishna Yajurveda. Total Manta: 20,380 and born of the essence of the Vedas, bless me with wisdom. May I be blessed with the nectar of immortality. May my body become active. May my tongue speak sweetly. May my ears hear everything well. You are the repository of BrahmanBrahman ब्रह्म > ब्रह्मसूत्र > ब्रह्मसूत्रभाष्यम् > ब्रह्मजिज्ञासा > जन्माद्यस्य यतः, and are hidden by the intellect. May my memoryMemory It is the process of storing and then remembering this information. Forgetting may be a sign of a more serious problem, such as: Alzheimer's disease, Other types of dementia, Stroke, Depression, Head injuries, Blood clots or tumors in the brain, Kidney, liver, or thyroid problems, Reactions to certain medicines, protect me. OmOm सोऽयमात्माध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा मात्राश्च पादा अकार उकारो मकार इति ॥ ८ ॥ (Mandukya) peacePeace εἰρήνη, peace, peace.

मे॒धां म॒ इन्द्रो॑ ददातु मे॒धां दे॒वी सर॑स्वती।
मे॒धां मे॑ अ॒श्विना॑वु॒भावाध॑त्तां॒ पुष्क॑रस्रजा।

May Indra give me intelligence. May goddess Saraswati give me intelligence. May the two Ashwins, who wear garlands of lotuses, give me intelligence.

मयि॑ मे॒धां मयि॑ प्र॒जां मय्य॒ग्निस्तेजो॑ दधातु॒
मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रि॒यं द॑धातु॒
मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो॒ भ्राजो॑ दधातु।

May AgniAgni अग्नि पु० अङ्गति ऊर्द्ध्वं गच्छति अगि—नि नलोपः | त्रिविधः अग्नि > भौमः दिव्यः जाठरश्चेति भेदात् । Similar: वैश्वानरः  वह्निः  वीतिहोत्रः  धनञ्जयः कृपीटयोनिः ज्वलनः जातवेदाः  तनूनपात् तनूनपाः  वर्हिःशुष्मा वर्हिः  शुष्मा  कृष्णवर्त्मा  शोचिष्केशः उषर्ब्बुधःआश्रयाशः  आशयाशः  वृहद्भानुः कृशानुः  पावकः अनलः  रोहिताश्वः  वायुसखा  शिखावान् शिखी आशुशुक्षणिः  हिरण्यरेताः  हुतभुक्  हव्यभुक्  दहनः  हव्यवाहनः  सप्तार्च्चिः दमुनाः  शुक्रः  चित्रभानुः  विभावसुः  शुचिः अप्पित्तं  वृषाकपिः  जुहूवालः  कपिलः पिङ्गलः अरणिः अगिरः पाचनः  विश्वप्साः  छागवाहनः कृष्णार्च्चिः  जुहूवारः उदर्च्चिः  भास्करः  वसुः शुष्मः हिमारातिः  तमोनुत् सुशिखः  सप्तजिह्वः  अपपारिकः  सर्व्वदेवमुखः । Rigveda (1.1.1) “अग्निमीले पुरोहितम्”| It is the 'First Principle'. It invokes the mystery of the Deity. It is पुरोहितं/Priest, देव (The Deity) and initiator of the Yajna. Vedic offerings can be made through him only. Science: Rapid oxidation of a material (Flame=mixture of reacting gases and solids emitting) give me intelligence, peopleMen Ανθρωποι (People), a woman (γυναίκα), Man (Ανδρας) > Adama, Manu > No proof to establish that due to mutation a monkey turned into a human being. and vigour. May Indra give me intelligence, people and bodily powerPower The amount of energy transferred or converted per unit of time. In the International System of Units, the unit of it is the watt, equal to one joule per second. The capacity of energy infrastructure is rated using watts, which indicate its potential to supply or consume energy in a given period of time. A Power-plant rated at 100 MW has the potential to produce 100 MWh if it operates for one hour.. May Surya give me intelligence, people and brilliance.

ॐ हं॒स॒ हं॒साय॑ वि॒द्महे॑ परमहं॒साय॑ धीमहि।
तन्नो॑ हंसः प्रचो॒दत्।

We perceive the Hamsa that is the soulSoul Abraham, having wept a short time over his wife’s body, soon rose up from the corpse; thinking, as it should seem, that to mourn any longer would be inconsistent with that wisdom by which he had been taught that he was not to look upon death as the extinction of the soul, but rather as a separation and disjunction of it from the body, returning back to the region from whence it came; and it came, from God. (Philo) न जायते म्रियते वा कदाचिन्-नायं भूत्वा भविता वा न भूयः-अजो नित्यः शाश्वतोयं पुराणो-न हन्यते हन्यमाने शरीरे (Gita 2.20 ); we meditate on that Hamsa that is the supreme being.

May that Hamsa inspire us (to reach that goalAim ambition aspiration course desideratum design desire direction end intent intent/intention intention mark object objective plan purpose scheme target where one is heading wish).

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
Om Peace, Peace, Peace ||


SOURCE: कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके दशमोऽनुवाकः

Yoga (2)