Buddhist Sanskrit Library

Buddhist Sanskrit Library has collect and has been collecting all Buddhist sacred and philosophical text written in the original Sanskrit Devanagari text. The documents have been put here alphabetically.

  •  प्रेमपञ्चक- Prem Panchaka - प्रतिभासो वरः कान्तः प्रतीत्योत्पादमात्रकः। न स्यात् यदि मृतैव स्यात् शून्यता कामिनी मता॥१॥ शून्यतातिवरा कान्ता मुर्त्त्या निरुपमा तु या। पृथक् यदि कदाचित् स्यात् बद्धः स्यात् कान्तनायकः॥२॥ दम्पती शङ्कितौ तस्मात् गुरोरुपस्थितौ पुरः। निजप्रीत्या तयोस्तेन साहजं प्रेम कारितम्॥३॥
  • अभिधर्मकोश-वसुबन्धु -Abhi dharma kosha-VASUBANDHU - न कायस्याधरं चक्षुः ऊर्ध्वं रूपं न चक्षुषः । विज्ञानं च अस्य रूपं तु कायस्योभे च सर्वतः ॥ १.४६ ॥ तथा श्रोत्रं त्रयाणां तु सर्वमेव स्वभूमिकम् । कायविज्ञानमधरस्वभूमि अनियतं मनः ॥ १.४७ ॥ पञ्च बाह्या दिविज्ञेयाः नित्या धर्मा असंस्कृताः । धर्मार्धमिन्द्रियं ये च द्वादशाध्यात्मिकाः स्मृताः ॥
  • अभिधर्मकोषभाष्य – वसुबन्धु – Abhidharmakosha Bhasyam or Commentary on Abhidharmakosha - यः सर्वथासर्वहतान्धकारः संसारपङ्काज्जगदुज्जहार । तस्मै नमस्कृत्य यथार्थशास्त्रे शास्त्रं प्रवक्ष्याम्यभिधर्मकोशम् ॥ १.१ ॥ शास्त्रं प्रणेतुकामः स्वस्य शास्तुर्माहात्म्यज्ञापनार्थं गुणाख्यानपूर्वकं तस्मै नमस्कारमारभते य इति । बुद्धं भगवन्तमधिकृत्याह हतमस्यान्धकारमनेन वेति हतान्धकारः । सर्वेण प्रकारेण सर्वस्मिन् हतान्धकारः सर्वथासर्वहतान्धकारः । अज्ञानं हि भूतार्थदर्शनप्रतिबन्धाधकारम् ।
  • अभिधर्मसमुच्चय- Abhidharmasamuccaya by Asanga - स्कन्धा धातव आयतनानि च कति । स्कन्धाः पञ्च । रूपस्कन्धो वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धो विज्ञानस्कन्धश्च ॥ धातवोऽष्टादश । चक्षुर्धातू रूपधातुश्चक्षुर्विज्ञानधातुः श्रोत्रधातुः शब्दधातुः श्रोत्रविज्ञानधातुर्घ्राणधातुर्गन्धधातुर्घ्राणविज्ञानधातुर्जिव्हाधातू रसधातुर्जिव्हाविज्ञानधातुः कायधातुः स्प्रष्टव्यधातुः कायविज्ञानधातुर्मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्च ॥ आयतनानि द्वदश । चक्षुरायतनं रूपायतनं श्रोत्रायतनं शब्दायतनं घ्राणायतनं गन्धायतनं जिव्हायतनं रसायतनं कायायतनं स्प्रष्टव्यायतनं मनआयतनं धर्मायतनं च ॥
  • आर्य तारा स्रग्धरा स्तोत्र- Arya Tara Sragdhara Stotram - दुर्लङ्घे दुःखवह्नौ विनिपतिततनुर्दुर्भगः कांदिशीकः किं किं मूढः करोमीत्यसकृदपि कृतारम्भवैयर्थ्यखिन्नः । श्रुत्वा भूयः परेभ्यः क्षतनयन इव व्योम्नि चन्द्रार्कलक्ष्मीम् आलोकाशानिबद्धः परगतिगमनस्त्वां श्रये पापहन्त्रीम्
  • Sayambhu आर्य शालिस्ताम्बा सूत्र-Arya Salistamba Sutram - अविद्याप्रत्यया: संस्कारा: - संस्कारा:प्रत्ययं विज्ञानं - विज्ञानप्रत्यय नामरूपं - नामरूपप्रत्ययं षडायातानं - षडायातानाप्रत्याया: स्पर्ष: - स्पर्शप्रत्यया वेदना -
  • आर्यतारा भट्टारिका नामाष्टोत्तर शतक स्तोत्र -Aryatara bhattarika nanastottara sataka stotram - ओं शुद्धे विशुद्धे शोधनविशोधनि । सुगतात्मजे मैत्रीहृदये निर्मले श्यामे श्यामरूपिणि ॥  महाप्राज्ञे प्रवरे प्रवरभूषिते पराजिते । महारौद्रि विश्वरूपि महायश ॥  कल्पाग्निमहातेजा लोकधात्रीमहायशा । सरस्वती विशालाक्षी प्रज्ञाश्रीबुद्धिवर्धनी ॥
  • धर्मसंग्रहः – Dharma-Saṅgraha by Nagarjuna - चित्तसंप्रयुक्तसंस्काराश्चत्वारिंशत् । तद्यथा - वेदना, संज्ञा, चेतना, छन्दः, स्पर्शः, मतिः, स्मृतिः, मनस्कारः, अधिमोक्षः, समाधिः, श्रद्धा, अप्रमादः, प्रस्रब्धिः, उपेक्षा, ह्रीः, अपत्रपा, अलोभः, अद्वेषः, अहिंसा, वीर्यम्, मोहः, प्रमादः, कौसीद्यम्, अश्राद्ध्यम्, स्त्यानम्, औद्धत्यम्, अह्रीकता, अनपत्रपा, क्रोधः, उपनाहः, शाठ्यम्, ईर्ष्या, प्रदानः, म्रक्षः, मात्सर्यम्, माया, मदः, विहिंसा, वितर्कः, विचारश्चेति ॥
  • धर्मसंग्रहः-Dharma Samgraha by Nagarjuna - तत्र प्रथमं तावत् त्रीणि रत्नानि। तथद्या- बुद्धो धर्मः संघश्चेति॥त्रीणि यानानि। [तद्यथा-] श्रावकयानम्, प्रत्येकबुद्धयानम्, महायानं चेति-पञ्च बुद्धाः। तद्यथा-वैरोचनः, अक्षोभ्यः, रत्नसंभवः, अमिताभः, अमोघसिद्धिश्चेति॥चतस्रो देव्यः। तद्यथा- रोचनी, मामकी, पाण्डुरा, तारा चेति॥पञ्च रक्षा। तद्यथा- प्रतिसरा, साहस्रप्रमर्दनी, मारीची, मन्त्रानुसारिणी, शीलवती चेति॥
  • प्रतिमा लक्षण विवरणम् – Pratima Lakshana Vibaranam - तत्र सम्यक्सम्बुद्धानां महावज्रधराणाञ्च दैर्घ्येण कायस्य बाहुद्वयपार्श्वप्रसारितव्यामेनापि किं प्रमाणम्। स्वकीयाङ्गुलेन सार्द्धद्वादशाङ्गुलस्तालिस्तेन पञ्चविंशत्यधिकशताङ्गुलम्। लोचनादिदेवीनां द्वादशाङ्गुलस्तालस्तेन नवतालेनाष्टोत्तरशताङ्गुलायामो व्यामश्च। बोधिसत्त्वानाञ्च द्वादशाङ्गुलैर्दशतालकमेव। खर्व्वलम्बोदरक्रोधानाञ्च षण्णवत्यङ्गुलमष्टतालेन।ललत्क्रोधानां तु दशतालेन विंशत्युत्तरशताङ्गुलायामव्यामाभ्यां सर्वाङ्गोपाङ्गोदितं ज्ञातव्यम्।
  • बुद्धकपालतन्त्र- Buddha Kapal Tantra - ओं बुद्धकापालिनी ह्रीः। ओं कापालवज्रिणी आः। विध्वंसय सर्वनागान्। उत्थापय विध्याधरान्। जीवापय कालदष्टान्। भो भो भगवति बुद्धकापालिनी सर्वनागक्षयंकरी। हः ह हः स्वाहा॥
  • बोधिपथप्रदीप – दीपङ्करश्रीज्ञान-Bodhi Patha Pradip-Dipankar Sreegyana - पुरुषास्त्रिविधा ज्ञेया उत्तमाधममध्माः । लिख्यते लक्षणं तेषां स्फुटं प्रत्येकभेदतः ॥ २ ॥ उपायेन तु केनापि केवलं संसृतेः सुखम् । स्वस्यैवार्थे य ईहेत ज्ञेयः सो पुरुषोऽधमः ॥ ३ ॥ पापकर्मनिवृत्तात्मा भवसुखात्पराङ्मुखः । आत्मनिर्वाणमात्रार्थी यो नरो मध्यमस्तु सः ॥ ४ ॥ स्वसन्तानगतैर्दुःखैर्दुःखस्यान्यस्य सर्वथा । सर्वस्य यः क्षयं काङ्क्षेदुत्तमः पुरुषस्तु सः ॥ ५ ॥
  • मूलमाध्यमककारिका – नागार्जुन Mula Madhyamika Karika – Nagarjuna - न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः । उत्पन्ना जातु विद्यन्ते भावाः क्व चन के चन ॥चत्वारः प्रत्यया हेतुरारम्बणमनन्तरम् । तथैवाधिपतेयं च प्रत्ययो नास्ति पञ्चमः ॥न हि स्वभावो भावानां प्रत्ययादिषु विद्यते । अविद्यमाने स्वभावे परभावो न विद्यते ॥क्रिया न प्रत्ययवती नाप्रत्ययवती क्रिया । प्रत्यया नाक्रियावन्तः क्रियावन्तश्च सन्त्युत ॥
  • शून्यतासप्ततिः-Sunya Saptati by Nagarjuna - न जायते यदा जातं नाजातमपि जायते । जाताजाताच्च नैवं हि जायमानोऽपि जायते ॥ ५ ॥ नैकत्वेऽनेकवृत्तिर्न नोऽनेकत्वे हि नैकता । तत्प्रतीत्यसमुत्पन्नभावास्ते ह्यनिमित्तकाः ॥ ७ ॥ द्वादशाङ्गो ह्यनुत्पादः समुत्पादः प्रतीत्यजः । एकचित्ते न तद्युक्तं बहुष्वपि न युज्यते ॥ ८ ॥ आत्मा नास्ति न चानात्मा नित्यानित्ये दुःखं सुखम् । शुचिर्नाशुचिरप्यस्ति विपर्यासा न सन्त्यतः ॥ ९ ॥
  • श्रीगुह्यसमाजतन्त्रम्- Sree Guhya Samaj Tantram - एकस्मिन् समये भगवान् सर्वतथागतकायवाक्चित्तहृदयवज्रयोषिद्भगेषु विजहार। अनभिलाप्यानभिलाप्यैः सर्वबुद्धक्षेत्रसुमेरुपरमाणुरजःसमैर्बोधिसत्त्वैर्महासत्त्वैः। तद्यथा। समयवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन। कायवज्रेण च नाम बोधिसत्त्वेन महासत्त्वेन।
  • सम्यक्सम्बुद्धभाषितं प्रतिमालक्षणम्- Samyak Sambuddha Bhasitam Pratima Lakshanam - मयि गते परिनिर्वृते वा न्यग्रोधपरिमण्डलं कायं कर्तव्यम्। यावत्कायं तावद्‍व्यामं यावद्‍व्यामं तावत्कायं पूजासत्कारार्थं प्रतिमा कर्तव्या। सर्वाङ्गोपाङ्गावयवस्थौल्यलावण्यलालित्यसलीलत्वं छत्राकारं शिरःस्कन्धासु संस्थितोष्णीषत्वादिसुसंस्थानात्। तत्रायामविस्तारोच्छेद सन्धिबन्धनिर्गमैः प्रमाणं बोधिसत्त्वानां सुगतानाञ्च प्रवक्ष्यामि तच्छृणु।