Home » Law Library Updates » Source of Indian Psychology- in Mandukya Upanishad
माण्डूक्योपनिषद्
- ओं इत्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोंकार एव ।
यच्चान्यत्त्रिकालातीतं तदप्योंकार एव ॥ १ ॥ - सर्वं ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ २ ॥
- जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ ३ ॥
- स्वप्रस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥ ४ ॥
- यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् ।
सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवान्दमयो ह्यानन्दभुक्चेतोमुखः प्राज्ञः तृतीयः पादः ॥ ५ ॥ - एषः सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ ६ ॥
- नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् ।
अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते ।
स आत्मा स विज्ञेयः ॥ ७ ॥ - सोऽयमात्माध्यक्षरमोंकारः ।
अधिमात्रं पादा मात्रा मात्राश्च पादा अकार उकारो मकार इति ॥ ८ ॥ - जागरितस्थानो वैश्वानरः अकारः प्रथमा मात्राप्तेरादिमत्त्वाद्वा ।
आप्नोति ह वै सर्वान् कामानादिश्च भवति य एवं वेद ॥ ९ ॥ - स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षादुभयत्वाद्वा ।
उत्कर्षति ह वै ज्ञानसंततिम् ।
समानश्च भवति ।
नास्याब्रह्मवित्कुले भवति य एवं वेद ॥ १० ॥ - सुषुप्तस्थानः प्राज्ञो मकारः तृतीया मात्रा मितेरपीतेर्वा ।
मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद ॥ ११ ॥ - अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैतः ।
एवमोंकार आत्मैव ।
संविशत्यात्मनात्मानं य एवं वेद ॥ १२ ॥
ओं तत्सद्ब्रह्मणे नमः
माण्डूक्योपनिषद्
शान्तिपाठ
ओं भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेम देवहितं यदायुः ॥
ओं शान्तिः !! शान्तिः !! शान्तिः !!!
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ओं शान्तिः !! शान्तिः !! शान्तिः!!!
आगम प्रकरण
मङ्गलाचरणम्
प्रज्ञानांशुप्रतानैः स्थिरचरनिकरव्यापिभिर्व्याप्य लोकान् भुक्त्वा भोगान्स्थविष्ठान्पुनरपि धिषणोद्भासितान्कामजन्यान् ।
पीत्वा सर्वान् विशेषान् स्वपिति मधुरभुङ्मायया भोजयन्नो मायासंख्यातुरीयं परममृतमजं ब्रह्म यत्तन्नतोऽस्मि ॥१॥
यो विश्वात्मा विधिजविषयान् प्राश्य भोगान् स्थविष्ठान् पश्चाच्चान्यान् स्वमतिविभवाञ्ज्योतिषा स्वेन सूक्ष्मान् ।
सर्वानेतान् पुनरपि शनैः स्वात्मनि स्थापयित्वा हित्वा सर्वान्विशेषान्विगतगुणगणः पात्वसौ नस्तुरीयः ॥२॥
१ ओमित्येतदक्षरमिदं सर्वम् ।
तस्योपव्याख्यानं वेदान्तार्थसारसंग्रहभूतमिदं प्रकरणचतृष्टयमोमित्येतदक्षरमित्याद्यारभ्यते ।
अत एव न पृथक्सम्बन्धाभिधेयप्रयोजनानि वक्तव्यानि ।
यान्येव तु वेदान्ते सम्बन्धाभिधेय प्रयोजनानि तान्येवेह भवितुमर्हन्ति ।
तथापि प्रकरणव्याचिख्यासुना संक्षेपतो वक्तव्यानि ।
तत्र प्रयोजनवत्साधनाभिव्यञ्जकत्वेनाभिधेयसम्बद्धं शास्त्रं पारम्पर्येण विशिष्टसंबन्धाभिधेयप्रयोजनवद्भवति ।
किं पुनस्तत्प्रयोजनमित्युच्यते रोगार्तस्यैव रोगनिवृत्तौ स्वस्थता ।
तथा दुःखात्मकस्यात्मनो द्वैतप्रपञ्चोपशमे स्वस्थता ।
अद्वैतभावः प्रयोजनम् ।
द्वैतप्रपञ्चस्याविद्याकृतत्वाद्विद्यया तदुपशमः स्यादिति ब्रह्मविद्याप्रकाशनायास्य आरम्भः क्रियते ।
“यत्र हि द्वैतमिव भवति”(बृ.उ २ । ४ । १४) “यत्र वान्यदिव स्यात्तत्रान्योऽन्यत्पश्येदन्योऽन्यद्विजानीयात्”(बृ.उ ४ । ३ । ३१) “यत्र वास्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्केन कं विजानीयात्”(बृ.उ २ । ४ । १४) इत्यादि श्रुतिभ्योऽस्यार्थस्य सिद्धिः ।
तत्र तावदोंकारनिर्णयाय प्रथमं प्रकरणमागमप्रधानामात्मतत्त्वप्रतिपत्त्युपायभूतम् ।
यस्य द्वैतप्रपञ्चस्योपशमेऽद्वैतप्रतिपत्ती रज्ज्वामिव सर्पादिविकल्प उपशमे रज्जुतत्त्वप्रतिपत्तिस्तस्य द्वैतस्य हेतुतो वैतथ्यप्रतिपादनाय द्वितीयं प्रकरणम् ।
तथाद्वैतस्यापि वैतथ्यप्रसङ्गप्राप्तौ युक्तितस्तथात्वदर्शनाय तृतीयं प्रकरणम् ।
अद्वैतस्य तथात्वप्रतिपत्तिपक्षभूतानि यानि वादान्तराण्यवैदिकानि तेषामन्योन्यविरोधित्वादतथार्थत्वेन तदुपपत्तिभिरेव निराकरणाय चतुर्थं प्रकरणम् ।
कथं पुन ओंकारनिर्णय आत्मतत्त्वप्रतिपत्त्युपायत्वं प्रतिपद्यत इत्युच्यते”ओं इत्येतत्”(क.उ १ । २ । १५) “एतदालम्बनम्”(क.उ.१ । २ । १७) “एतद्वै सत्यकाम”(प्र.उ.५ । २) “ओं इत्यात्मानं युञ्जीत”(मैत्र्यु.६ । ३) “ओं इति ब्रह्म”(तै.उ.१ । ८ । १) “ओंकार एवेदं सर्वम्” (छा.उ.२ । २३ । ३) इत्यादि श्रुतिभ्यः ।
रज्जुरादिरिव सर्पादिविकल्पस्यास्पदोऽद्वय आत्मा परमार्थः सन्प्राणादिविकल्पस्यास्पदो यथा तथा सर्वोऽपि वाक्प्रपञ्चः प्राणाद्यात्मविकल्पविषय ओंकार एव ।
स चात्मस्वरूपमेव तदभिधायकत्वात् ।
ओंकारविकारशब्दाभिधेयश्च सर्वः प्राणादिरात्मविकल्पोऽभिधानव्यतिरेकेण नास्ति ।
“वाचारम्भणं विकारो नामधेयम्”(छा.उ.६ । १ । ४) “तदस्येदं वाचा तन्त्या नामभिर्दामभिः सर्वं सितम्” “सर्वं हीदं नामानि”इत्यादि श्रुतिभ्यः ।
अत आह
ओं इत्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोंकार एव ।
यच्चान्यत्त्रिकालातीतं तदप्योंकार एव ॥ १ ॥
भाष्य १
ओं इत्येतदक्षरमिदं सर्वमिति ।
यदिदमर्थजातमभिधेयभूतं तस्याभिधानाव्यतिरेकादभिधानस्य च ओंकाराव्यतिरेकादोंकार एवेदं सर्वम् ।
परं च ब्रह्माभिधानाभिधेय उपायपूर्वकमेव गम्यत इत्योंकार एव ।
तस्यैतस्य परापर ब्रह्मरूपस्याक्षरस्य ओं इत्येतस्योपव्याख्यानम्॑ ब्रह्मप्रतिपत्त्युपायत्वाद्ब्रह्मसमीपतया विस्पष्टं प्रकथनमुपव्याख्यानं प्रस्तुतं वेदितव्यमिति वाक्यशेषः ।
भूतं भवद्भविष्यदिति कालत्रयपरिच्छेद्यं यत्तदप्योंकार एवोक्तन्यायतः ।
यच्चान्यत्त्रिकालातीतं कार्याधिगम्यं कालापरिच्छेद्यमव्याकृतादि तदप्योंकार एव ॥१॥
२
अभिधानाभिधेययोरेकत्वेऽप्यभिधानाप्राधान्येन निर्देशः कृतः ।
ओं इत्येतदक्षरमिदं सर्वमित्याद्यभिधानप्राधान्येन निर्दिष्टस्य पुनोऽभिधेयप्राधान्येन निर्देशोऽभिधानाभिधेययोरेकत्वप्रतिपत्त्यर्थः ।
इतरोऽथा ह्यभिधानतन्त्राभिधेयप्रतिपत्तिरित्यभिधेयस्याभिधानत्वं गौणामित्याशङ्का स्यात् ।
एकत्वप्रतिपत्तेश्च प्रयोजनमभिधानाभिधेययोरेकेनैव प्रयत्नेन युगपत्प्रविलापर्यस्तद्विलक्षणं ब्रह्म प्रतिपद्येत इति ।
तथा च वक्ष्यति”पादा मात्रा मात्राश्च पादाः” (मा.उ.८) इति ।
तदाह
सर्वं ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ २ ॥
भाष्य २
सर्वं ह्येतद्ब्रह्मेति ।
सर्वं यदुक्तमोंकारमात्रमिति तदेतद्ब्रह्म ।
तच्च ब्रह्म परोक्षाभिहितं प्रत्यक्षतो विशेषेण निर्दिशत्ययमात्मा ब्रह्मेति ।
अयमिति चतुष्पात्वेन प्रविभज्यमानं प्रत्यगात्मतयाभिनयेन निर्दिशति अयमात्मेति ।
सोऽयमात्म ओंकाराभिधेयः परापरत्वेन व्यवस्थितश्चतुष्पात्कार्षापणवन्न गौरिवेति ।
त्रयाणां विश्वादीनां पूर्वपूर्वप्रविलापनेन तुरीयस्य प्रतपत्तिरिति करणसाधनः पादशब्दः ।
तुरीयस्य पद्यत इति कर्मसाधनः पादशब्दः ॥२॥
३ कथं चतुष्पात्वमित्याह
जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ ३ ॥
भाष्य ३
जागरितं स्थानमस्येति जागरितस्थानः ।
बहिष्प्रज्ञः स्वात्मव्यतिरिक्ते विषये प्रज्ञा स बहिष्प्रज्ञो बहिर्विषय एव प्रज्ञाविद्याकृताववभासत इत्यर्थः ।
तथा सप्ताङ्गान्यस्य”तस्य ह वैतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा संदोहो बहुलो वस्तिरेव रयिः पृथिव्येव पादौ” (छा.उ.५ । १८ । २) इत्यग्निहोत्रकल्पनाशेषत्वेनाहवनीयोऽग्निरस्य मुखत्वेनोक्त इत्येवं सप्ताङ्गानि यस्य स सप्ताङ्गः ।
तथैकोनविंशतिर्मुखान्यस्य बुद्धीन्द्रियाणि कर्मेन्द्रियाणि च दश वायवश्च प्राणादयःपञ्च मनो बुद्धिरहङ्कारच्चित्तमिति मुखानीव मुखानि तान्युपलब्धिद्वाराणित्यर्थः स एवं विशिष्टो वैश्वानरो यथोक्तैर्द्वारैः शब्दादीन् स्थूलान् विषयान् भुङ्क्त इति स्थूलभुक् ।
विश्वेषां नराणामनेकधा नयनाद्वैश्वानरः ।
यद्वा विश्वश्चासौ नरश्चेति विश्वानरः ।
विश्वानर एव वैश्वानरः ।
सर्वपिण्डात्मनन्यत्वात्सः प्रथमः पादः ।
एतत्पूर्वकत्वादुत्तरपादाधिगमस्य प्राथम्यमस्य ।
कथमयमात्मा ब्रह्मेति प्रत्यगात्मनोऽस्य चतुष्पात्त्वे प्रकृते द्युलोकादीनां मूर्धाद्यङ्गत्वमिति ।
नैष दोषः ।
सर्वस्यप्रपञ्चस्य साधिदैविकस्यानेन आत्मना चतुष्पात्त्वस्य विवक्षितत्वात् ।
एवं च सति सर्वप्रपञ्च उपशमेऽद्वैतसिद्धिः ।
सर्वभूतस्थश्चात्मैको दृष्टः स्यात्सर्वभूतानि चात्मनि ।
“यस्तु सर्वाणि भूतानि”(ई.उ.६) इत्यादिश्रुत्यर्थोपसंहृतश्चैवं स्यात् ।
अन्यथा हि स्वदेहपरिच्छिन्न एव प्रत्यागात्मा सांख्यादिभिरिव दृष्टः स्यात्तथा च सत्यद्वैतमिति श्रुतिकृतो विशेषो न स्यात्सांख्यादिदर्शनेनाविशेषात् ।
इष्यते च सर्व उपनिषदां सर्वात्मैक्यप्रतिपादकत्वम् ।
अतो युक्तमेवास्याध्यात्मिकस्य पिण्डात्मनो द्युलोकाद्यङ्गत्वेन विराडात्मनाधिदैविकेनैकत्वमभिप्रेत्य सप्ताङ्गत्ववचनम् ।
“मूर्धा ते व्यपतिष्यत्”(छा.उ ५ । १२ । २) इत्यादि लिङ्गदर्शनाच्च ।
विराज एकत्वमुपलक्षणार्थं हिरण्यगर्भाव्याकृतात्मनोः ।
उक्तं चैतन्मधुब्राह्मणे”यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यच्चायमध्यात्मम्”(बृ.उ.२ । ५ । १) इत्यादि ।
सुषुप्ताव्याकृतयः स त्वेकत्वं सिद्धमेव निर्विशेषत्वात् ।
एवं च सत्येतत्सिद्धं भविष्यति सर्वद्वैत उपशमे चाद्वैतमिति ॥३॥
४ स्वप्रस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥ ४ ॥
भाष्य ४
स्वप्नः स्थानस्य तैजसस्य स्वप्नस्थानः ।
जाग्रत्प्रज्ञानेकसाधना बहिर्विषय एवावभासमाना मनःस्पन्दनमात्रा सती तथाभूतं संस्कारं मनस्याधत्ते ।
तन्मनस्तथा संस्कृतं चित्रित इव पटो बाह्यसाधनाननपेक्षमविद्याकामकर्मभिः प्रेर्यमाणं जाग्रद्वदवभासते ।
तथा चोक्तम्”अस्य लोकस्य सर्वावतो मात्रामपादाय”(बृ.उ.४ । ३ । ९) इति ।
तथा”परे देवे मनस्येकीभवति”(प्र.उ.४ । २) इति प्रस्तुत्य”अत्रैष देवः स्वप्ने महिमानमनुभवति”(प्र.उ.४ । ५) इत्याथर्वणे ।
इन्द्रियापेक्षयान्तःस्थत्वान्मनसस्तद्वासनारूपा च स्वप्ने प्रज्ञा यस्यात्यन्तःप्रज्ञः ।
विषयशून्यानां प्रज्ञायां केवलप्रकाशस्वरूपायां विषयित्वेन भवतीति तैजसः ।
विश्वस्य सविषयत्वेन प्रज्ञायाः स्थूलाया भोज्यत्वम् ।
इह पुनः केवला वासनामात्रा प्रज्ञा भोज्येति प्रविविक्तो भोग इति ।
समानमन्यत् ।
द्वितीयः पादस्तैजसः ॥४॥
५
दर्शनादर्शनवृत्त्यस्तत्वाप्रबोधलक्षणस्य स्वापस्य तुल्यत्वात्सुषुप्तिग्रहणार्थं यत्र सुप्त इत्यादि विशेषणम् ।
अथ वा त्रिष्वपि स्थानेषु तत्त्वाप्रतिबोधलक्षणः स्वापोऽविशिष्ट इति पूर्वाभ्यां सुषुप्तं विभजते
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् ।
सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवान्दमयो ह्यानन्दभुक्चेतोमुखः प्राज्ञः तृतीयः पादः ॥ ५ ॥
भाष्य ५
यत्र यस्मिन् स्थाने काले वा सुप्तो न कञ्चन स्वप्नं पश्यति न कञ्चन कामं कामयते ।
न हि सुषुप्ते पूर्वयोरिवान्यथाग्रहणलक्षणं स्वप्नदर्शनं कामो वा कश्चन विद्यने ।
तदेतत्सुषुप्तं स्थानमस्येति सुषुप्तस्थानः ।
स्थानद्वयप्रविभक्तं मनः स्पन्दितं द्वैतजातं तथा रूपापरित्यागेनाविवेकापन्नं नैशतमोग्रस्तमिवाहः सप्रपञ्चमेकीभूतमित्युच्यते ।
अत एव स्वप्नजाग्रन्मनःस्पन्दनानि प्रज्ञानानि घनीभूतानीव सेयमवस्थाविवेकरूपत्वात्प्रज्ञानघनोच्यते ।
यथा रात्रौ नैशेन तमसा विभज्यमानं सर्वं घनमिव तद्वत्प्रज्ञानघन एव ।
एव शब्दान्न जात्यन्तरं प्रज्ञानव्यतिरेकेणास्तीतार्थः ।
मनसो विषयीविषय्याकारस्पन्दनायासदुःखाभावादानन्दमय आनन्दप्रायो नानन्द एव ।
यथा लोके निरायासस्थितः सुख्यानन्दभुगुच्यतेऽत्यन्तानायासरूपा हीयं स्थितिरनेनानुभूयत इत्यानन्दभुक्”एषोऽस्य परम आनन्दः”(बृ.उ.४ । ३ । ३२) इति श्रुतेः ।
स्वप्नादिप्रतिबोधिचेतः प्रति द्वारीभूतत्वाच्चेतोमुखः ।
बोधलक्षणं वा चेतो द्वारं मुखमस्य स्वप्नाद्यागमनं प्रतीति चेतोमुखः ।
भूतभविष्यज्ज्ञातृत्वं सर्वविषयज्ञातृत्वमस्यैति प्राज्ञः ।
सुषुप्तोऽपि हि भूतपूर्वगत्या प्राज्ञोच्यते ।
अथवा प्रज्ञप्तिमात्रमस्यैवासाधारणं रूपमिति प्राज्ञ इतरयोर्विशिष्टमपि विज्ञानमस्ति ।
सोऽयं प्राज्ञस्तृतीयः पादः ॥५॥
६
एषः सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ॥ ६ ॥
भाष्य ६
एष हि स्वरूपावस्थः सर्वेश्वरः साधिदैविकस्य भेदजातस्य सर्वस्येशिता नैतस्माज्जात्यन्तरभूतोऽन्येषामिव ।
“प्राणबन्धनं हि सोम्य मनः”(छा.उ.६ । ८ । २) इति श्रुतेः ।
अयमेव हि सर्वस्य सर्वभेदावस्थो ज्ञातेत्येष सर्वज्ञः ।
एषोऽन्तर्याम्यन्तरनुप्रविश्य सर्वेषां भूतानां नियन्ताप्येष एव ।
अत एव यथोक्तं सभेदं जगत्प्रसूयत इत्येष योनिः सर्वस्य ।
यत एवं प्रभवश्चापि यश्च प्रभवाप्ययौ हि भूतानामेष एव ॥६॥
Commented by शङ्करभगवतः