Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » What happens after death as per Isa Upanishad

What happens after death as per Isa Upanishad

In

ईशावास्योपनिषद्

असुर्या नाम ते लोका अन्धेन तमसावृताः ।
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ३ ॥

असुर्याः परमात्मभावमद्वयमपेक्ष्य देवादयोऽप्यसुरास्तेषाञ्च स्वभूता लोका असुर्या नाम ।
नामशब्दोऽनर्थको निपातः ।
ते लोकाः कर्मफलानि ।
लोक्यन्ते दृश्यन्ते भुज्यन्त इति जन्मानि ।
अन्धेनादर्शनात्मकेनाज्ञानेन तमसावृता आच्छादिताः तांस्थावरान्तान्प्रेत्य त्यक्त्वेमं देहमभिगच्छन्ति यथाकर्म यथाश्रुतम् ।

आत्मानं घ्नन्तीत्यात्महनाः ।
के ते जनाः येऽविद्वांसः ।
कथं त आत्मानं नित्यं हिंसन्ति ।
अविद्यादोषेण विद्यमानस्यात्मनः तिरस्करणात्विद्यमानस्य आत्मनो यत्कार्यं फलमजरामरत्वादिसंवेदनलक्षणं तद्धतस्येव तिरोभूतं भवतीति प्राकृताविद्वांसो जनाः जनाः आत्महन उच्यन्ते ।
तेन ह्यात्महननदोषेण संसरन्ति ते ॥३ ॥


But those who are not ‘चात्महनो जनाः’

पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः ।
यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६ ॥
हे पूषन्! जगतः पोषणात्पूषा रविस्तथैक एव ऋषति गच्छति इत्येकर्षिः हे एकर्षे! तथा सर्वस्य संयमनाद्यमः हे यम! तथा रश्मीनां प्राणानां रसानाञ्च स्वीकरणात्सूर्यः हे सूर्य! प्रजापतेरपत्यं प्राजापत्यः हे प्राजापत्य! व्यूह विगमय रश्मीन्स्वान् ।
समूह एकीकुरु उपसंहरते तेजस्तापकं ज्योतिः ।

यत्ते तव रूपं कल्याणतममत्यन्तशोभनं तत्ते तवात्मनः प्रसादात्पश्यामि ।
किञ्चाहं न तु त्वां भृत्यवद्याचे योऽसावादित्यमण्डलस्थो व्याहृत्यवयवः पुरुषः पुरुषाकारत्वात्पूर्णं वानेन प्राणबुद्धयात्मना जगत्समस्तमिति पुरुषः पुरि शयनाद्वा पुरुषः सोऽहमस्मि भवामि ॥१६॥


Commented by : श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीशङ्करभगवतः