Skip to content

Advocatetanmoy Law Library

Research & Library Database

Encyclopedia of Indian Military Civilization (55-Volume): War Strategy and Armed Institutions From Antiquity to 2026

Search

  • Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System
  • West Bengal Govt Budget Statement In Bengali (2026-2027) by Swapan Dasgupta
  • Encyclopedia of Physical Measurement (3-Volume)
  • West Bengal Day, 20 June: History of the Formation of West Bengal in 1947
  • Noble Bengali Families of Kolkata (1760–1860): Rise of Abhijat Bhadralok in Colonial Bengal
  • Bishop’s College Kolkata: India’s Oldest Anglican Theological Institution (1820–2026)
  • Deep Grammar of Civilization (13-Volume): What Are the Irreducible Components of Civilization?
  • Good Life (3-Volume): An encyclopedia of everything humanity seeks when it speaks of “a better life”
  • Smallest Library for the Largest Understanding: 10 Books that give the Highest Intellectual Return per page read
  • Life After Death (Part-III)
Primary Menu
  • News
    • Editorial
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • JudgmentSupreme Court
  • Podcast
  • Legal Brief
    • Legal Eagal
  • HLJLaw Digests
    • Supreme Court Case Notes
    • Daily Digest
  • SarvarthapediaKnowledgebase
    • Sarvarthapedia (Twelve Core Areas): Macro Structure
    • Systemic-and-systematic
    • Volume One
    • Volume Two
    • Volume Three
    • Volume Four
    • Volume Five
    • Volume Six
  • Subjects
    • Knowledge Graph
    • Glossary
  • Indian Law
  • EncyclopediaCollection
Home » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » Vedic Sanskrit Culture » Sarvarthapedia Vedic Dictionary » Atman (आत्मा)
  • Sarvarthapedia Vedic Dictionary

Atman (आत्मा)

Vedic Atman is not ‘Soul’, Not ‘Spirit’, not Biblical ‘Breath’ – it can not be translated into English. at/on death, the body is like a torch light without a battery – nothing exists – simply nothing- there is nothing ‘coming out’ and going somewhere else.
advtanmoy 10/11/2018 1 minute read

© Advocatetanmoy Law Library

  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on Telegram (Opens in new window) Telegram
Village

What is Atman?

आत्मा – Atman

Vedic Atman is not ‘Soul’, Not ‘Spirit’, not Biblical ‘Breath’ – it can not be translated into English.

कोऽयम् । आत्मेति वयमुपास्महे ।
कतरः स आत्मा ।
येन वा पश्यति येन वा शृणोति येन वा गन्धाञ्जिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति ॥ ३.१ ॥

यदेतद्धृदयं मनश्चैतत् ।
सञ्ज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुरसुः कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ॥ ३.२ ॥

एष ब्रह्मा ।
एष इन्द्रः ।
एष प्रजापतिः ।
एते सर्वे देवाः ।
इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि क्षुद्रमिश्राणीव बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरम् ।
सर्वं तत्प्रज्ञानेत्रम् ।
प्रज्ञाने प्रतिष्ठितम् ।
प्रज्ञानेत्रो लोकः ।
प्रज्ञा प्रतिष्ठा ।
प्रज्ञानं ब्रह्म ॥ ३.३ ॥

स एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वामृतः समभवत्समभवत् ॥ ३.४ ॥

ऐतरेयोपनिषद्‌

Explanation as per Sankaracharya

३.१

बह्मविद्यासाधनकृतसर्वात्मभावफलावाप्तिं वामदेवाद्याचार्यपरम्परया श्रुत्यावद्योत्यमानां ब्रह्मवित्परिषद्यत्यन्तप्रसिद्धामुपलभमाना मुमुक्षवो ब्राह्मण अधुनातना ब्रह्मजिज्ञासवोऽनित्यात्साध्यसाधनलक्षणात्संसारादाजीवभावाद्व्याविवृत्सवो विचारयन्तोऽन्योन्यं पृच्छन्ति कोऽयमात्मेति? कथम् ?

भाष्य ३.१

यमात्मानमयमात्मेति साक्षाद्वयमुपास्महे कः स आत्मेति यं चात्मानमयमात्मेति साक्षादुपासीनो वामदेवोऽमृतः समभवत्तमेव वयनमप्युपास्महे को नु खलु स आत्मेति ।

एवं जिज्ञासापूर्वमन्योन्यं पृच्छतामतिक्रान्तविशेषविषयश्रुतिसंस्कारजनिता स्मृतिरजायत ।
ऽतं प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषम्ऽऽस एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यतऽ एतमेव पुरुषम् ।
अत्र द्वे ब्रह्मणी इतरेतरप्रातिकूल्येन प्रतिपन्ने इति ।
ते चास्यपिण्डस्यात्मभूते ।
तयोरन्यतर आत्मोपास्यो भवितुमर्हति ।
योऽत्रोपास्यः कः आत्मेति विशेषनिर्धारणार्थं पुनरन्योन्यं पप्रच्छुर्विचारयन्तः ।

पुनस्तेषां विचारयतां विशेषविचारणास्पदविषया मतिरभूत् ।
कथम्? द्वेवस्तुनि अस्मिन् पिण्ड उपलभ्येते ।
अनेकभेदभिन्नेन करणेन येनोपलभते ।
यश्चैक उपलभ्येते ।
करणान्तरोपलब्धविषयस्मृतिप्रतिसन्धानात् ।
तत्र न तावद्येनोपलभते स आत्मा भवितुमर्हति ।

केन पुनरुपलभत इत्युच्यते येन वा चक्षुर्भूतेन रूपं पश्यति ।
येन वा श्रुणोति श्रोत्रभूतेन शब्दम्, येन वा घ्राणभूतेन गन्धानाजिघ्रति, येन वा वाक्करणभूतेन वाचं नामात्मिकां व्याकरोति गौरश्व इत्येवमाद्यां साध्वसाध्विति च, येन वा जिह्वाभूतेन स्वादु चास्वादु च विजानातीति ॥१॥

३.२

किं पुनस्तदेवैकमनेकधा भिन्नं करणमित्युच्यते

यदेतद्धृदयं मनश्चैतत् ।
सञ्ज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुरसुः कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ॥ ३.२ ॥

भाष्य ३.२

यदुक्तं पुरस्तात्प्रजानां रेतो हृदयं हृदयस्य रेतो मनो मनसा सृष्टा आपश्च वरुणश्च हृदयान्मनो मनसश्चन्द्रमाः ।
तदेवैतद्धृदयं मनश्च एकमेव तदनेकधा ।
एतेनान्तःकरणेनैकेन चक्षुर्भूतेन रूपं पश्यति श्रोत्रभूतेन शृणोति घ्राणभूतेन जिघ्रति वाग्भूतेन वदति जिह्वाभूतेन रसयति स्वेनैव विकल्पनारूपेण मनसा विकल्पयति हृदयरूपेणाध्यवस्यति ।

तस्मात्सर्वकरणविषयव्यापारकमेकमिदं करणं सर्वोपलब्ध्यर्थमुपलब्धुः ।

तथा च कौषीतकीनां”प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति ।
प्रज्ञा चक्षुः समारुह्य चक्षुषा सर्वाणि रूपाण्याप्नोति”(३ । ३) इत्यादि ।
वाजसनेयके च “मनसा ह्येव पश्यति मनसा शृणोति हृदयेन हि रूपाणि जानाति”(बृ.उ.१ । ५ । ३) इत्यादि ।
तस्माधृदयमनोवाच्यस्य सर्वोपलब्धिकरत्वं प्रसिद्धम् ।
तदात्मकश्च प्राणो”यो वै प्राणः सा प्रज्ञा यो वै प्रज्ञा स प्राणः”(कौषी.३ । ३) इति हि ब्राह्मणम् ।

करणसंहतिरूपश्च प्राण इत्यवोचाम प्राणसंवादादौ ।
तस्माद्यत्पद्भ्यां प्रापद्यत तद्ब्रह्म तदुपलब्धुरुपलब्धिकरणत्वेन गुणभूतत्वान्नैव तद्वस्तु ब्रह्मोपास्यात्मा भवितुमर्हति ।
पारिशेष्याद्यस्योपलब्धुरुपलब्ध्यर्थं एतस्य हृदयस्य मनोरूपस्य करणस्य वृत्तयो वक्ष्यमाणाः ।
स उपलब्धोपास्य आत्मानोऽस्माकं भवितुमर्हतीति निश्चयं कृतवन्तः ।

तदन्तःकरणोपाधिस्थस्योपलब्धुः प्रज्ञारूपस्य ब्रह्मण उपलब्ध्यर्था या अन्तःकरणवृत्तयो बाह्यान्तर्वर्तिविषयविषयास्ता इमा उच्यन्ते ।
संज्ञानं संज्ञप्तिश्चेतनभावः, आज्ञानमाज्ञप्तिरीश्वरभावः विज्ञानं कलादिपरिज्ञानम्, प्रज्ञानं प्रज्ञप्तिः प्रज्ञता, मेधाग्रन्थधारणसामर्थ्यं दृष्टिरिन्द्रियद्वारा सर्वविषयोपलब्धिः, धृतिर्धारणमवसन्नानां शरीरेन्द्रियाणां ययोत्तम्भनं भवति धृत्या शरीरमुद्वहन्तीति हि वदन्ति, मतिर्मननम्, मनीषा तत्र स्वातन्त्र्यम्. जूतिश्चेतसो रुजादिदुःखित्वभावः स्मृतिः स्मरणम्, संकल्पः शुक्लकृष्णादिभावेन संकल्पनं रूपादीनाम्, क्रतुरध्यवसायः असुः प्राणनादिजीवनक्रियानिमित्ता वृत्तिः, कामो
ऽसंनिहितविषयाकाङ्क्षा तृष्णा, वशः स्त्रीव्यतिकराद्यभिलाषः, इत्येवमाद्या अन्तःकरणवृत्तयः प्रज्ञप्तिमात्रस्योपलब्धुरुपलब्ध्यर्थत्वाच्छुद्धप्रज्ञानरूपस्य ब्रह्मण उपाधिभूतास्तदुपाधिजनितगुणनामधेयानि भवन्ति संज्ञानादीनि ।
सर्वाण्येव एतानि प्रज्ञानस्य नामधेयानि भवन्ति न स्वतः साक्षात् ।
तथा चोक्तं”प्राणन्नेव प्राणो नाम भवति”(बृ.उ.१ । ४ । ७) इत्यादि ॥२॥

इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि क्षुद्रमिश्राणीव बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरम् ।

भाष्य ३.३

स एष प्रज्ञानरूप आत्मा ब्रह्मापरं सर्वशरीरस्थः प्राणः प्रज्ञात्मा ।
अन्तःकरणोपाधिष्वनुप्रविष्टो जलभेदगतसूर्यप्रतिबिम्बवद्धिरण्यगर्भः प्राणः प्रज्ञात्मा एष एव इन्द्रो गुणाद्देवराजो वा एष प्रजापतिर्यः प्रथमजः शरीरी ।
यतो मुखादिनिर्भेदद्वारेणाग्न्यादयो लोकपाला जाताः स प्रजापतिरेष एव ।
येऽप्येतेऽग्न्यादयः सर्वे देवा एष एव ।

इमानि च सर्वशरीरोपादानभूतानि पञ्च पृथिव्यादीनि महाभूतान्यन्नान्नादत्वलक्षणान्येतानि किञ्चेमानि च क्षुद्रमिश्राणि क्षुद्रैरल्पकैर्मिश्राणि इव शब्दोऽनर्थकः सर्पादीनि बीजानि कारणानीतराणि चेतराणि च द्वैराश्येन निर्दिश्यमानानि ।

कानि तानि! उच्यन्ते अण्डजानि पक्ष्यादीनि, जारुजानि जरायुजानि मनुष्यादीनि, स्वेदजादीनि यूकादीनि, उद्भिजानि च वृक्षादीनि, अश्वा गावः पुरुषा हस्तिनोऽन्यच्च यत्किञ्चेदं प्राणिजातम्, किं तत्? जङ्गमं यच्चलति पद्भ्यां गच्छति ।
यच्च पतत्रि आकाशेन पतनशीलम् ।

यच्च स्थावरमचलम् ।
सर्वं तदेष एव ।
सर्वं तदशेषतः प्रज्ञानेत्रम् ।
प्रज्ञप्तिः प्रज्ञा तच्च ब्रह्मैव ।
नीयतेऽनेनेति नेत्रं प्रज्ञा नेत्रं यस्य तदिदं प्रज्ञानेत्रम् ।
प्रज्ञाने ब्रह्मण्युत्पत्तिस्थितिलयकालेषु प्रतिष्ठितं प्रज्ञाश्रयमित्यर्थः ।
प्रज्ञानेत्रो लोकः पूर्ववत् ।
प्रज्ञाचक्षुर्वा सर्व एव लोकः प्रज्ञा प्रतिष्ठा सर्वस्य जगतः ।
तस्मात्प्रज्ञानं ब्रह्म ।

तदेतत्प्रत्यस्तमितसर्वोपाधिविशेषं सन्निरञ्जनं निर्मलं निष्क्रियं शान्तमेकमद्वयं”नेति नेति”इति (बृ.उ.३ । ९ । २६) सर्वविशेषापोहसंवेद्यं सर्वशब्दप्रत्ययागोचरम् ।
तदप्यन्तविशुद्धप्रज्ञोपाधिसंबन्धेन सर्वज्ञमीश्वरं सर्वसाधारणाव्याकृतजगद्बीजप्रवर्तकं नियन्तृत्वादन्तर्यामिसंज्ञं भवति ।
तदेव व्याकृतजगत्बीजभूतबुद्ध्यात्माभिमानलक्षणहिरण्यगर्भसंज्ञं भवति ।
तदेवान्तरण्डोद्भूतप्रथमशरीरोपाधिमद्विराट्प्रजापतिसंज्ञं भवति ।
तद्भूताग्न्याद्युपाधिमद्देवतासंज्ञं भवति ।
तथा विशेषशरीरोपाधिष्वपि ब्रह्मादिस्तम्बपर्यन्तेषु तत्तन्नामरूपलाभो ब्रह्मणः ।
तदेवैकं सर्वोपाधिभेदभिन्नं सर्वैः प्राणिभिस्तार्किकैश्च सर्वप्रकारेण ज्ञायते विकल्प्यते चानेकधा ।
“एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् ।
इन्द्रमेकेऽपरे प्राणमपरे ब्रह्म शाश्वतम्”(मनु.१२ । १२३) इत्याद्या स्मृतिः ॥३॥

३.४

स एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वामृतः समभवत्समभवत् ॥ ३.४ ॥

भाष्य ३.४

स वामदेवोऽन्यो वैवं यथोक्तं ब्रह्म वेद प्रज्ञेनात्मना येनैव प्रज्ञेनात्मना पूर्वे विद्वांसोऽमृता अभूवंस्तथायमपि विद्वानेतेनैव प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्य इत्यादि व्याख्यातम् ।
अस्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वा अमृतः समभवत्समभवदित्योमिति ॥४॥

ओं तत्सत्

Vedic Atman is not ‘Soul’, Not ‘Spirit’, not Biblical ‘Breath’ – it can not be translated into English.
at/on death, the body is like a torch light without a battery – nothing exists – simply nothing- there is nothing ‘coming out’ and going somewhere else.

In a chopped head – the brain records images and statements till after chopping the head for a few seconds- initially, it experiences immense pain – then no pain at all – after recording a few things and experiencing the outer world for a few seconds, bio-electricity and signals finished- cells damaged permanently.

Take out a live kidney from a dead body – there is no Atman in it – put it in a living body it shall be part of a ‘new’ Atman.


Aitereya Brahman

तद्धैतदेके नानाच्छन्दसा सहस्रं प्रतिजानते किमन्यत्सदन्यद्ब्रूयामेति, इति । त्रिष्टुप्सहस्रमेके जगतीसहस्रमेकेऽनुष्टुप्सहस्रमेके, इति । तदुक्तमृषिणा, इति । अनुष्टुभमनु चञ्चूर्यमाणमिन्द्रं निचिक्युः कवयो मनीषेति वाचि वै तदैन्द्रं प्राणं न्यचायन्नित्येतत्तदुक्तं भवति, इति ।

स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोः, इति । ईश्वरो (Iswara) ह तु पुराऽऽयुषः प्रैतोरिति ह स्माऽऽहाकृत्स्नो ह्येष आत्मा यद्वागभि हि प्राणे न मनसेऽस्यमानो वाचा नानुभवति, इति । बृहतीमभि संपादयेदेष वै कृत्स्न आत्मा यद्बृहती, इति ।

सोऽयमात्मा सर्वतः शरीरैः परिवृतस्तद्यथाऽयमात्मा सर्वतः शरीरैः परिवृत एवमेव बृहती सर्वतश्छन्दोभिः परिवृता, इति । मध्यं ह्येषामङ्गानामात्मा मध्य छन्दसां बृहती, इति ।

स हेश्वरो यशस्वी कल्याणकीर्तिर्भवितोरीश्वरो ह तु पुराऽऽयुषः प्रैतोरिति ह स्माऽऽह कृत्स्नो ह्येष आत्मा यद्बृहती तस्माद्बृहतीमेवाभि संपादयेत्, इति ।।

इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके तृतीयाध्याये पञ्चमः खण्डः ।। ५ ।। ( १७)

अथो अयं वा आत्मा। सर्वेषां भूतानां लोकः स यज्जुहोति यद्यजते तेन देवानां लोकोऽथ यदनुब्रूते तेनर्षीणामथ यत्प्रजामिच्छते यत्पितृभ्यो निपृणाति तेन पितॄणामथ यन्मनुष्यान्वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणामथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनां यदस्य गृहेषु श्वापदा वयांस्यापिपीलिकाभ्य उपजीवन्ति तेन तेषां लोको यथा ह वै स्वाय लोकायारिष्टिमिच्छेदेवं हैवम्विदे सर्वदा सर्वाणि भूतान्यरिष्टिमिच्छन्ति तद्वा एतद्विदितं मीमांसितम् – १४.४.२.[२९]

आत्मैवेदमग्र आसीत्। एक एव सोऽकामयत जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेत्येतावान्वै कामो नेच्छंश्चनातो भूयो विन्देत्तस्मादप्येतर्ह्येकाकी कामयते जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेति स यावदप्येतेषामेकैकं न प्राप्नोत्यकृत्स्न एव तावन्मन्यते तस्यो कृत्स्नता – १४.४.२.[३०] [शतपथब्राह्मणम्‎ – काण्डम् १४‎ – अध्यायः ४]


Tags: Contemporary Sanatan Dharma

Post navigation

Previous: Who is Lord Indra in Veda
Next: What is Brahman – Atharva Veda indicating it (10.8)

Related Stories

Sarvarthapedia
  • Sarvarthapedia Vedic Dictionary

Epistemology (3-Volume): What justifies belief, the difference between opinion and truth

advtanmoy 24/05/2026
Philosophy & Religion of Rigveda
  • Sarvarthapedia Vedic Dictionary

Rigveda (ऋग्वेदः, ऋक्, ऋच्): Meaning, Structure and Vedic Interpretation

advtanmoy 28/04/2026
Encyclopedia of Sanatan Dharma
  • Sarvarthapedia Vedic Dictionary

Isa (ईशा): Universal Controller, Karma-Phala-Data, and Inner Self

advtanmoy 19/04/2025
Islamic Pakistan

Fundamental Rights under Constitution of Pakistan 1973

Communism

Manifesto of the Communist Party 1848: History, Context, and Core Concepts

Iranian Foreign Minister Abbas Araghchi
Geo-Political

Islamabad MOU between Iran and the United States (17th June 2026): Framework agreement to end war with Iran

24/06/2026
On June 17, 2026, the U.S. and Iran signed a Memorandum of Understanding, mediated by Pakistan, to end military operations and negotiate a final deal within 60 days. Key points include terminating sanctions, ensuring safe…
USA

US and Sweden Technology Prosperity Deal (2026): Overview and Strategic Significance

Putin’s May 2026 Visit to China

Putin’s May 2026 Visit to China: Multipolar World Declaration in Beijing

China

China’s African Tariff Policy 2026: Zero Tariffs and the New Africa–China Trade Era

American-President-Donald-Trump

Trump’s 2026 Cuba Sanctions Order: History, Law, and Geopolitical Impact

  • Anosh Ekka v. CBI (2026 INSC 357): SC Grants Bail to Former Jharkhand Minister in CBI DA Case
  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Ram v. Sukhram: Tribal women’s right in ancestral property [2025] 8 SCR 272
  • Indian Constitution
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders

Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System

West Bengal Govt Budget Statement In Bengali (2026-2027) by Swapan Dasgupta

Encyclopedia of Physical Measurement (3-Volume)

West Bengal Day, 20 June: History of the Formation of West Bengal in 1947

Noble Bengali Families of Kolkata (1760–1860): Rise of Abhijat Bhadralok in Colonial Bengal

Bishop’s College Kolkata: India’s Oldest Anglican Theological Institution (1820–2026)

Sarvarthapedia

  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subjects
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia Meta-Concept
  • Contact Us
  • Privacy Policy
  • FAQs
  • NEET
  • Library Updates
2026 All rights reserved © Advocatetanmoy Law Library by advocatetanmoy.