SANSKRIT ENCYCLOPEDIC DICTIONARY
संस्कृत शास्त्रीय शब्द कोश:

- अक्ष मालिका – Aksha Malika - अ क्ष ओमङ्कार मृत्युञ्जय सर्वव्यापक प्रथमेऽक्षे प्रतितिष्ठ । [ ॐ अ] ओमाङ्काराकर्षणात्मकसर्वगत द्वितीयेऽक्षे प्रतितिष्ठ । ओमिङ्कारपुष्टिदाक्षोभकर तृतीयेऽक्षे प्रतितिष्ठ । ओमीङ्कार वाक्प्रसादकर निर्मल चतुर्थेऽक्षे प्रतितिष्ठ । ओमुङ्कार सर्वबलप्रद सारतर पञ्चमेऽक्षे प्रतितिष्ठ । ओमूङ्कारोच्चाटन दुःसह षष्ठेऽक्षे प्रतितिष्ठ । ओमृङ्काकार संक्षोभकर चञ्चल सप्तमेऽक्षे प्रतितिष्ठ । ओमॄङ्कार संमोहनकरोजवलाष्टमेऽक्षे प्रतितिष्ठ । ओम्लृङ्कारविद्वेषणकर मोहक नवमेऽक्षे प्रतितिष्ठ । ओम्लॄङ्कार मोहकर दशमेऽक्षे प्रतितिष्ठ । ओमेङ्कार सर्ववश्यकर शुद्धसत्त्वैकादशेऽक्षे प्रतितिष्ठ । […]
- अक्षक्षेत्र – akshakshetra - अक्षक्षेत्र न० अक्षनिमित्तं क्षेत्रम् शा० त० । ज्योतिषोक्तेषु अक्षसाधनार्थं क्षेत्रतया कल्पितेषु अक्षप्रवेषु अष्टसु क्षेत्रेषु । तानि च सिद्धान्तशिरोमणौ गणिताध्याये दर्शितानि यथा । “भुजोऽक्षभा कोटिरिनाङ्गुलोना कर्णोऽक्षकर्णः १ खलुमूलमेतत् क्षेत्राणि यान्यक्षभवानि तेषां विद्येव मानार्थयशःसुखा- नाम् ॥ लम्बज्यका कोटिरथाक्षजीवा भुजोऽत्र कर्णस्त्रि- भुजे २ त्रिभज्या । कुज्या भुजः कोटिरपक्रमज्या कर्णो- ऽग्रका च त्रिभुजं तथेदम्३ ॥ तथैव कोटिः समवृत्तशङ्कु- रग्रा भुजस्तद्धृतिरत्र कर्णः ४ । भुजोऽपमज्या […]
- अक्षपाद – Akshapada - अक्षपाद पु० अक्षं नेत्रं दर्शनसाधनतया जातः पादोऽस्य । न्यायसूत्रकारके गौतमे मुनौ, स हि स्वमतदूषकस्य व्यासस्य मुखदर्शनं चक्षुषा न कर्त्तव्यमिति प्रतिज्ञाय पश्चात् व्यासेन प्रसादितः पादे नेत्रं प्रकाश्य तं दृष्टवानिति पौराणिकी कथा । “अक्षपादप्रणीते च काणादे सांख्य- योगयोः । त्याज्यः श्रुतिविरुद्धोऽर्थ इति” पद्मपुराणम् ।
- अक्षमाला – Aksha mala – रुद्राक्ष - अक्षमाला स्त्री अक्षाणां रुद्राक्षाणां माला । रुद्राक्ष वीजग्रथितमालायाम् । अकारादिक्षकारान्तः अक्ष स्तत्कृता तत्प्रतिनिधीभूता वा माला शा० त० । एकपञ्चाशद्वर्ण- मालायाम् तत्प्रतिनिधीभूतायां स्फटिकादिग्रथितायाम् वाह्यमालायाञ्च “शोष्यमाणपुष्करवीजं ग्रथ्यमनाक्ष मालमिति” काद० । “विभान्तमच्छस्फटिकाक्षमालयेति” माघः । तद्विवरणम् । “क्रमोत्क्रमगते माला मातृकार्णे क्षमेरुके । लावसानैः साष्टवर्गैरन्तर्यजनकर्म्मणीति” सनत्कुमारीये । “पद्मवीजादिभिर्माला वहिर्यागे शृणुष्व ताः । रुद्राक्षशङ्ख- पद्माक्षपुत्रजीवकमौक्तिकैः । स्फाटिकैर्मणिरत्नैश्च सुवर्णै र्विद्रुमैस्तथा । रजतैः कुशमूलैश्च गृहस्थस्याक्षमालि- केति” तन्त्रसारे एतत्विस्तारस्ततएवागन्तव्यः […]
- अक्षय श्राद्धं [पिण्डं] – akshya sraddhya - पितरि जीवति यः श्राद्धं कुर्यात्, स येषां पिता कुर्यात्तेषां कुर्यात् । । ७५.१ । । पितरि पितामहे च जीवति येषां पितामहः । । ७५.२ । । पितरि पितामहे प्रपितामहे च जीवति नैव कुर्यात् । । ७५.३ । । यस्य पिता प्रेतः स्यात्स पित्रे पिण्डं निधाय पितामहात्परं द्वाभ्यां दद्यात् । । ७५.४ । । यस्य पिता पितामहश्च प्रेतौ स्यातां स ताभ्यां […]
- अक्षयतृतीया – Akshya tritiya - अक्षयतृतीया स्त्री कर्म्म० । वैशाखशुक्लपक्षतृतीयायाम् । “वैशाखे मासि राजेन्द्र! शुक्लपक्षे तृतीयिका । अक्षया सा तिथिः प्रोक्ता कृत्तिकारोहिणीयुता । तस्यां दानादिकं सर्व्वमक्षयं समुदाहृतमिति” । “या शुक्ला कुरुशार्द्दल! वैशाखे मासि वै तिथिः । तृतीया साक्षया लोके त्रिदशैरभिवन्दि- तेति” च भविष्यपुराणम् । “वैशाखस्य सिते पक्षे तृतीयाऽ- क्षयसंज्ञितेति” स्कन्दपुराणम् । – [वाचस्पत्यम्]
- अक्षौहिणी – akshwhini - रथाः २१८७० । गजाः २१८७० । रथवाहकाश्व- भिन्नाः अश्वाः ६५६१० । पदातयः १०९३५० ।
- अगस्त्यचार – Agastyachar – Agastodaya - अगस्त्यचार पु० अगस्त्यस्य नक्षत्ररूपेण दक्षिणस्थस्य चारः शुभाशुभसूचकगत्यादि । वराहसंहितोक्ते अगस्त्यनामक- नक्षत्रस्य उदयादौ । यथा “विन्ध्यमस्तम्भयद्यश्च तस्योदयः श्रूयताम्” इत्युपक्रम्य । “उदये च पुनेरगस्त्यनाम्नः कु–समा- योगमलप्रदूषितानि । हृदयानि सतामिव स्वभावात् पुनरम्बूनि भवन्ति निर्मलानि ॥ पार्श्वद्वयाधिष्ठितचक्रवाकामा- पुष्णती सस्वनहंसपङ्क्तिम् । ताम्बूलरक्तोत्कषिताग्रदन्ती विभाति योषेव सरित्सहासा ॥ इन्दीवरासन्नसितोत्पला- न्विता सरिद्भूमत्षट्पदपङ्क्तिभूषिता । सभ्रूलताक्षेपकटाक्ष- वीक्षणा विदग्धयोषेव विभाति सस्मरा ॥ इन्द्रोः पयोदवि- गमोपहितां विभूतिम् द्रष्टुं तरङ्गवलया कुमुदं निशासु । […]
- अग्नि – Agni - अग्निशब्दो हि अकारगकारनिशब्दानपेक्षमाणः एतिधातोरुत्पन्नात् अयनशब्दात् अकारमादत्ते । अनक्तिधातुगतस्य ककारस्य गकारादेशं कृत्वा तमादत्ते । यद्वा । दहतिधातुजन्यात् दग्धशब्दात् गकारमादत्ते । नीः इति नयति धातुः । स च ह्रस्वो भूत्वा परो भवति । ततो धातुत्रयं मिलित्वा अग्निशब्दो भवति । तस्य अग्निशब्दार्थस्य देवताविशेषस्य प्राधान्येन स्तुतिप्रदर्शनायैषा • अग्निमीळे इति ऋक् भवतीति । तामेतां ऋचं यास्क एवं व्याख्यातवान्—- अग्निमीळेऽग्निं याचामीळिरध्येषणाकर्मा पूजाकर्मा वा पुरोहितो व्याख्यातो यज्ञस्य […]
- अग्नि- Agni - अग्नि पु० अङ्गति ऊर्द्ध्वं गच्छति अगि–नि नलोपः । अग्नौ स्वनामप्रसिद्धे तेजोभेदे, तेजसि आकाशाद्वायुर्वायो- रग्निरग्नेरापोद्भ्यः पृथिवी, इति” श्रुतिः । तत्र तेजःपदार्थस्तावद्द्विविधः सूक्ष्मः स्थूलश्च । सूक्ष्म- वायुसंभूतः सूक्ष्मवायुसंभूतः सूक्ष्मः पञ्चीकृतस्तु स्थूलः “तासां त्रिवृतं त्रिवृतमेकैकां करोतीति” श्रुतौ त्रिवृत्करणस्य पञ्चीकरणस्याप्युलक्षणत्वम् । पञ्चीकरणप्रकारश्च पञ्चीकरणशब्दे वक्ष्यते । तथा च भूतान्तराष्टमभागमिश्रितेन स्वस्वार्द्धभागेन उत्पन्नः पञ्चीकृतः । तस्य च पञ्चात्मकत्वेऽपि “वैशेष्यात्तद्वाद इति” शारीरकोक्तेः भूयस्त्वात् तैजसत्वव्यवहारः । सोऽयं स्थूलो वह्निः […]
- अथ को वेदः – What is Veda - तत्र अज्ञातार्थज्ञापको वेदभागो विधिः । स च तादृशप्रयोजनवत् अर्थविधानेन अर्थवान् यादृशं च अर्थं प्रमाणान्तरेण अप्राप्तं विधत्ते यथा- “अग्निहोत्रं जुहुयात्स्वर्गकाम” इति विधिः मानान्तरेण अप्राप्तं स्वर्गप्रयोजनवद् होमं विधत्ते अग्निहोत्रहोमेन स्वर्गं भावयेत् इति वाक्यार्थबोधः ।
- अथर्ववेदविभागः - अथर्ववेदविभागः सूत उवाच अथर्ववित् सुमन्तुश्च शिष्यमध्यापयत् स्वकाम्। संहितां सोऽपि पथ्याय वेददर्शाय चोक्तवान्॥ १ शौक्लायनिर्ब्रह्मबलिर्मोदोषः पिप्पलायनिः। वेददर्शस्य शिष्यास्ते पथ्यशिष्यानथो श्रृणु। कुमुदः शुनको ब्रह्मन् जाजलिश्चाप्यथर्ववित्॥ २ बभ्रुः शिष्योऽथाङ्गिरसः सैन्धवायन एव च। अधीयेतां संहिते द्वे सावर्ण्याद्यास्तथापरे॥ ३ नक्षत्रकल्पः शान्तिश्च कश्यपाङ्गिरसादयः। एते आथर्वणाचार्याः श्रृणु पौराणिकान् मुने॥ ४ त्रय्यारुणिः कश्यपश्च सावर्णिरकृतव्रणः। वैशम्पायनहारीतौ षड् वै पौराणिका इमे॥ ५ अधीयन्त व्यासशिष्यात् संहितां मत्पितुर्मुखात्। एकैकामहमेतेषां शिष्यः सर्वाः समध्यगाम्॥ […]
- अद्वैत ब्रह्म विज्ञानम् – Advaita Brahma Vigyanam - As per Agni Puran[ Non- duality] अग्निरुवाच अद्वैतब्रह्मविज्ञानं वक्ष्ये यद्भवतोऽगदत् । शालग्रामे तपश्चक्रे वासुदेवार्चनादिकृत् ।। ३८०.१ ।। मृगसङ्गान्मृगो बूत्वा ह्यन्तकाले स्मरन् मृगं । जातिस्मरो मृगस्त्यक्त्वा देहं योगात्स्वतोऽभवत् ।। ३८०.२ ।। अद्वैतब्रह्मभूतश्च जडवल्लोकमाचरत् । क्षत्ताऽसौ वीरराजस्य विष्टियोगममन्यत ।। ३८०.३ ।। उवाह शिविकामस्य क्षत्तुर्वचनचोदितः । गृहीतो विष्टिना ज्ञानी उवाहात्मक्षयाय तं ।। ३८०.४ ।। ययौ जड़गतिः पश्चाद् ये त्वन्ये त्वरितं ययुः । शीघ्रान् […]
- अभिनय – Avinaya - यदुक्तं चत्वारोऽभिनय इति तान् वर्णयिष्यामः । अत्राह -- अभिनय इति कस्मात् । अत्रोच्यते -- अभीत्युपसर्गः णीञ् इति प्रापणार्थको धातुः । अस्याभिनीत्येवं व्यवस्थितस्य एरजित्यच्प्रत्यत्ययान्तस्याभिनय इत्येवं रूपं सिद्धम् । एतच्च धात्वर्थानुवचनेनावधार्यं भवति ।
- अर्ध नारीश्वर मूर्ति – Ardha Nariswar Murti - अथार्धनारीमूर्तेस्तु वक्ष्येऽहं शृणु सुव्रत ! । चतुर्भुजं च द्विभुजं द्विविधं परिकीर्तितम् ॥ १ ॥ समभंगस्थानकस्योक्तमार्गेणैव नतायतः । सुस्थितं दक्षिणं पादं वामपादं तु कुंचितम् ॥ २ ॥ वामेऽर्धपार्वती युक्तं दक्षिणेऽर्धं महेश्वरम् । अभयं परशुं सव्ये हस्ते तत्तु शिवांशकम् ॥ ३ ॥ वृषभमूर्ध्नि विन्यस्त कोर्परं वामहस्तके । तदन्यवामहस्ते तु कटकं पुष्पसंयुतम् ॥ ४ ॥ द्विभुजे वरदं सव्ये वामहस्ते तु पुष्पधृत् । शिवस्या […]
- अलक्ष्मीघ्नं - ALakshmiGhnam–ऋग् १०.१५५.१ सूक्तम् अश्रीनाशकरम् अरा॑यि॒ काणे॒ विक॑टे गि॒रिं ग॑च्छ सदान्वे । शि॒रिम्बि॑ठस्य॒ सत्व॑भि॒स्तेभि॑ष्ट्वा चातयामसि ॥ अरा॑यि । काणे॑ । विऽक॑टे । गि॒रिम् । ग॒च्छ॒ । स॒दा॒न्वे॒ । शि॒रिम्बि॑ठस्य । सत्व॑ऽभिः । तेभिः॑ । त्वा॒ । चा॒त॒या॒म॒सि॒ ॥ सायणभाष्यम् अरायीति प्र्ञ्चर्चं चतुर्थं सूक्तं भरद्वाजपुत्रस्य शिरिम्बिठस्यार्षमानुष्टुभम्। जपहोमादिभिरिदं सूक्तमश्रीनाशकरम्। तत्राद्योपांत्ययोस्तादृशोऽर्थ एव देवता। द्वितीयातृतीये ब्राह्मणस्पत्ये। पञ्चमी वैश्वदेवी। अनुक्रम्यते हि। अरायि श्रिम्बिठो भारद्वाजोऽलक्ष्मीघ्नम् द्वितीयातृतीये ब्राह्मणस्पत्ये […]
- आ – AA kar - आ, आकारः । द्वितीयस्वरवर्णः । अस्योच्चारणस्थानं कण्ठः । स च दीर्घः प्लुतश्च भवति । “आकारं परमाश्चर्य्यं शङ्खज्योतिर्म्मयं प्रिये । ब्रह्मविष्णुमयं वर्णं तथा रुद्रमयं प्रिये । पञ्चप्राणमयं वर्णं स्वयं परमकुण्डली” ॥ इति कामधेनुतन्त्रे ॥ अस्य लेखनप्रकारो यथा — “अकाररूपमासद्य दक्षक्रोडायता त्वधः । ब्रह्मादयस्तथा शक्तिस्तासु तिष्ठन्ति नित्यशः” ॥ इति वर्णोद्धारतन्त्रं । तस्य नामानि यथा — “आकारो विजयानन्तो दीर्घच्छायो विनायकः । क्षीरोदधिः पयोदश्च […]
- आकाङ्क्षा – Akanksha - अथ केयमाकाङ्क्षा, न तावदविनाभावः, नीलं सरोजमित्यादावभावात्। विमलं जलं नद्याः कच्छे महिष इत्यत्र जलान्वितनद्या अविनाभावात् कच्छे साकाङ्क्षतापत्ते। नापि समभिव्याहृतपदस्मारितपदार्थजिज्ञासा, अजिज्ञासोरपि वाक्यार्थबोधात् विश्वजिता यजेत द्वारं इत्यत्रापदार्थयोरप्यधिकारिणोऽध्याहृतस्य पिधानस्य चाकाङ्क्षितत्वाच्च, तत्र शब्दकल्पनपक्षेऽपि घटः कर्मत्वमानयनं कृतिरित्यत्र जिज्ञासितस्यानयनादेराकाङ्क्षितत्वापत्तेः। अथ जिज्ञासायोग्यता सा, जिज्ञासा च विशेषाज्ञाने भवति, योग्यता च श्रोतरि तदुच्चारणजन्यसंसर्गावगमप्रागभावः, विमलं जलं नद्याः कच्छे महिष इत्यत्र तात्पर्य्यवशात् कदाचित् नद्याः कच्छे संसर्गावगमात् तत्प्रागभावसत्त्वेऽपि श्रोतरि तदुच्चारणेन तात्पर्यवशात् जलान्वितनद्याः कच्छे संसर्गावगमोनेति […]
- आगम – AAgama - AAgam Sastram
- आचमनविधि – Achamana Bidhi - अथात आचमनविधिं व्याख्यास्यामः । प्राङ्मुख उदङ्मुखो वा द्वौ पाणी प्रक्षाळ्य बद्धशिखो यज्ञोपवीती जले वाथ स्थले वान्तर्जानु नविवराङ्गुळीभिः गोकर्णाकृतिवत् करं कृत्वा तिष्ठन् न प्रणतो न हसन्न जल्पन् न व्रजन् नोष्णाभिर्न विवर्णाभिर्न बुद्बुदाभिः न चलो जलं माषमग्नमात्रं पिबेत् । ब्राह्मणस्य दक्षिणे हस्ते पञ्च तीर्थानि पञ्च दैवतानि भवन्ति । अङ्गुलीमध्ये दैवं तीर्थं अङ्गुल्यग्रे आर्षं तीर्थम् अङ्गुष्ठतर्जन्योर्मध्ये पैतृकं तीर्थम् अङ्गुष्ठमूलस्योत्तरतो रेखासु ब्राह्मं तीर्थम् मध्ये […]
- आचार्य्यः- Acharyya - आचार्य्यः, पुं, (आङ् + चर् + ण्यत् ।) वेदाध्या- पकः । वैदिकमन्त्रव्याख्याकर्त्ता । तत्पर्य्यायः । मन्त्रव्याख्याकृत् २ । इत्यमरः ॥ द्रोणाचार्य्यः । इति त्रिकाण्डशेषः ॥ तल्लक्षणं यथा, — “उपनीय तु यः शिष्यं वेदमध्यापयेत् द्विजः । सकल्पं सरहस्यञ्च तमाचार्य्यं प्रचक्षते” ॥ इति मानवे २ । २४० ॥ (ततोऽनन्तरमाचार्य्यं परीक्षेत । तद्यथा, — “पर्य्यवदातश्रुतं परिदृष्टकर्म्भाणं दक्षं दक्षिणं शुचिं जितहस्तमुपकरणवन्तं सर्व्वेन्द्रियोपपन्नं प्रकृतिज्ञं प्रतिपत्तिज्ञमनुपस्कृतविद्यमनसूयकमकोपनं क्ले- […]
- आत्मा – Atman - Vedic Atman is not 'Soul' , Not 'Spirit' , not Biblical 'Breath' - it can not be translated in English.
- आश्रम – Asram Dharma - चत्वार आश्रमा गार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थ्यमिति १ तेषु सर्वेषु यथोपदेशमव्यग्रो वर्तमानः क्षेमं गच्छति २ सर्वेषामुपनयनप्रभृति समान आचार्यकुले वासः ३ सर्वेषामनूत्सर्गो विद्यायाः ४ बुद्ध्वा कर्माणि यत्कामयेत तदारभेत ५ यथा विद्यार्थस्य नियम एतेनैवान्तमनूपसीदत आचार्यकुले शरीरन्यासो ब्रह्मचारिणः ६ अथ परिव्राजः ७ अत एव ब्रह्मचर्यवान्प्रव्रजति ८ तस्योपदिशन्ति ९ अनग्निरनिकेतः स्यादशर्माशरणो मुनिः स्वाध्यायैवोत्सृजमानो वाचं ग्रामे प्राणवृत्तिं प्रतिलभ्यानिहोऽनमुत्रश्चरेत् १० तस्य मुक्तमाच्छादनं विहितम् ११ सर्वतः परिमोक्षमेके १२ सत्यानृते […]
- इक्ष्वाकु वंश – Iksvaku Vamsha - हरिश्चन्द्रस्य पुत्रोऽभूद् रोहितो नाम वीर्यवान् । रोहितस्य वृकः पुत्रः तस्मात्बाहुरजायत।।२१.३ हरितो रोहितस्याथ धुन्धुस्तस्य सुतोऽभवत् । विजयश्च सुदेवश्च धुन्धुपुत्रौ बभूवतुः । विजयस्याभवत् पुत्रः कारुको नाम वीर्यवान् । सगरस्तस्य पुत्रौऽभूद् राजा परमधार्मिकः । द्वे भार्ये सगरस्यापि प्रभा भानुमती तथा ।२१.४ ताभ्यामाराधितः वह्निः प्रादादौ वरमुत्तमम् । एकं भानुमती पुत्रमगृह्णादसमञ्जसम् ।२१.५ प्रभा षष्टिसहस्त्रं तु पुत्राणां जगृहे शुभा । असमञ्सस्य तनयो ह्यंशुमान् नाम पार्थिवः ।२१.६ […]
- उच्चारण स्थानं – Uccharana Sthanam - अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ऎ ए ऐ ऒ ओ औ अं अः क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ऱ ल ळ ऴ व श ष स ह क्ष त्र ज्ञ।। स्थानकरणप्रयत्नेभ्यो वर्णास्त्रिषष्टिः।। तत्र […]
- उपनयनं – Upanayanam - उपनयनं विद्यार्थस्य श्रुतितः संस्कारः ८ उपनयनं विद्यार्थस्य श्रुतितः संस्कारः ९ सर्वेभ्यो वेदेभ्यः सावित्र् यनूच्यत इति हि ब्राह्मणम् १० तमसो वा एष तमः प्रविशति यमविद्वानुपनयते यश्चाविद्वानिति हि ब्राह्मनम् ११ तस्मिन्नभिजनविद्यासमुदेतं समाहितं संस्कर्तारमीप्सेत् १२ तस्मिंश्चैव विद्याकर्मान्तमविप्रतिपन्ने धर्मेभ्यः १३ यस्माद्धर्मानाचिनोति स आचार्यः १४ तस्मै न द्रुह्येत्कदा चन १५ स हि विद्यातस्तं जनयति १६ तच्छ्रेष्ठं जन्म १७ शरीरमेव मातापितरौ जनयतः १८ वसन्ते ब्राह्मणमुपनयीत रीष्मे […]
- ऋग्वेद – rigveda meaning - ऋग्वेद पु० ऋच्यते स्तूयते ऋक् कर्म्म० । वेदभेदे । स च मन्त्र ब्राह्मणोभयात्मकः । तत्र मन्त्रसमूहात्मकः ऋक्शब्दे बक्ष्यमाणलक्षणर्गात्मकः संहितारूपो ग्रन्थः । तत्र दश मण्डलानि तत्राद्ये मण्डले २४ अनुवाकाः “अग्नि- मीले” इत्यादीनि आग्नेयानि १९१ सूक्तानि तानि शतर्चिकर्षिदृष्टानि अध्यायोपाकरणोत्सर्गयोर्विनियुक्तानि । द्वितीये शौनकगृत्समदर्षिदृष्टे चत्वारि अनुवाकाः । त्वमग्न इत्यादीनि ४३ सूक्तानि आग्नेयानि उपाकरणो- त्सर्गयोर्विनियुक्तानि । शौनक गृत्समदः ऋषिरेतन्मण्डद्रष्टा स च पूर्ब्बमाङ्गिरसकुले शुनहोत्रस्य पुत्रः सन् यज्ञकालेऽ- सुरैर्गृहीत इन्द्रेण मोचितः ।
- ऋच् -rich - ऋच् स्त्री ऋच्यते स्तूयतेऽनया ऋच–करण क्विप् । वेदमन्त्र भेदे “यत्रार्थवशेन पादव्यवस्थितिः सा ऋक्” जै० । “ऋचो यजूषि सामानि निगदामन्त्राः” कात्या० १, २, १, । “ऋगादयो निगदान्ताश्चत्वारोमन्त्राः । तत्रार्थवशेन वृत्त- वशेन बा यत्र पादव्यवस्था, सा ऋक् तत्र “समिधाग्निं दुवस्पत” इत्यादी यत्र प्रत्यक्षेण समाप्तोऽर्थोदृश्यते तत्रार्थ वशेन पादव्यवस्था यत्र च क्रियापदानुपादानात् “सुस- सिद्धाय शोचिषे तं त्वा समिद्भिरङ्गिरः” इत्यादौ अपर्य- बसितोऽर्थस्तत्र वृत्तवशेन पादव्यवस्था भवति […]
- ऋणलेख्य – Rina-lekhya - ऋणलेख्य न० ऋणसूचकं लेख्यं लेखपत्रम् । ऋणग्रहण- सूचके व्यवहारोपयोगिनि (स्वत) (तमःसुक) इत्यादि प्रसिद्धे पत्रभेदे । तल्लेखनप्रकारादि मिता० दर्शितं यथा “तत्र लेख्यं द्विबिधं शासनं जानपदं चेति । शासनं निरूपितं जानपदमभिधीयते । तच्च द्विविधम् स्वहस्तकृतमन्यकृतं चेति । तत्र स्वहस्तकृतमसाक्षिकम्, अन्यकृत ससाक्षिकम् । अनयोश्च देशाचारानुसारेण प्रामाण्यम् यदाह नारदः । “लेख्यन्तु द्विविधं ज्ञेयं स्वहस्तान्यकृतं तथा । असाक्षिमत्साक्षिमच्च सिद्धि- र्द्देशस्थितेस्तयोरिति” तत्रान्यकृतमाह । “यः कश्चिद- र्थोनिष्णातः […]
- ऋणादान -Rina-dana - ऋणादान न० ऋणमादीयते यत्र । स्मृत्युक्ते अष्टादशविवा- दान्तर्गते व्यवहारभेदे “तेषामाद्यमृणादानमित्यादीनि अष्टादश व्यवहारपदानि मनुना दर्शितानि । तल्लक्ष- णादि नारदादिवाक्येन मिता० दर्शितं यथा “अधुनाष्टादशानां व्यवहारपदानामाद्यमृणादानपदं दर्शयति । “अशीतिभागो वृद्धिः स्यादित्यादिना मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने” इत्येवमन्तेन । तच्चार्णा- दानं सप्तबिधम् । ईदृशमृणन्देयमीदृशमदेयमनेनाधि- कारिणा देयमस्मिन् समये देयमनेन प्रकारेण देयमित्यध- मर्णे पञ्चविधमुत्तमर्णे दानविघिरादानविधिश्चेति द्विवि- धमिति । एतच्च नारदेन स्यष्टीकृतम् “ऋणन्देयमदेयञ्च येन यत्र यथा च […]
- एकादशी व्रत – Ekadasi Vrata - सनातन उवाच ।। एकादश्यां तु दलयोर्निराहारः समाहितः ।। नानापुष्पैर्मुने कृत्वा विचित्रं मण्डपं शुभम् ।। १२०-१ ।। स्रात्वा सम्यग्विधानेन सोपवासो जितेंद्रियः ।। संपूज्य विधिवद्विष्णुं श्रद्धया सुसमाहितः ।। १२०-२ ।। उपचारैर्बहुविधैर्जपैर्होमैः प्रदक्षिणैः ।। स्तोत्रपाठैर्बहुविधैर्गीतवाद्यैर्मनोहरैः ।। १२०-३ ।। दंडवत्प्रणिपातैश्च जयशब्दैर्मनोहरैः ।। रात्रौ जागरणं कृत्वा याति विष्णोः परं पदम् । १२०-४ ।। चैत्रस्य शुक्लैकादश्यां सोपवासो नरोत्तमः ।। कृत्वा च नियमान्सर्वान्वक्ष्यमाणान्दिनत्रये ।। १२०-५ ।। द्वादश्यामर्चयेद्भक्तया […]
- ऐक्षव – oikshaba - ऐक्षव त्रि० इक्षोर्विकारः विल्वा० अण् । इक्षुविकारे गडादौ इक्षुविकारभेदाश्च इक्षुशब्दे ९०९ पृ० उक्ताः । “ऐक्षवं गुडवर्जितम्” “फलान्यगुडमैक्षवमिति” च स्मृतिः । २ मद्यभेदे च । “पानसं द्राक्षमाधूकं खार्जूरंतालमैक्षवम् । माक्षिकं टाङ्कमाध्वीकमैरेयं नारिकेलजम् । समानानि विजानीयान्मद्यान्येकादशैव तु । द्वादशन्तु सुरामद्यं सर्व्वेषामधमं स्मृतम्” पुलस्त्यः । मद्यान्येकादशेत्युक्तिः अधिकदोषार्था अन्येषामपि मद्यानां मदनपालेन दर्शितत्वात् । प्रसङ्गात् तान्यत्र गुणसहितानि दर्श्यन्ते । “मद्यं हाला सुरा शुण्डा मदिरा वरुणात्मजा […]
- ओंकार – Omkara – प्रणव - प्रणवे प्रणव इति ब्राह्मणम् ॥ २३ ॥ ओंकारं पृच्छामः को धातुः किं प्रातिपदिकम् किं नामाख्यातम् किं लिङ्गम् किं वचनम् का विभक्तिः कः प्रत्ययः कः स्वर उपसर्गो निपातः किं वै व्याकरणम् को विकारः को विकारी कतिमात्रः कतिवर्णः कत्यक्षरः कतिपदः कः संयोगः किं स्थानानुप्रदानकरणं शिक्षुकाः किम् उच्चारयन्ति किं छन्दः को वर्ण – इति पूर्वे प्रश्राः अथोत्तरे मन्त्रः कल्पो ब्राह्मणम् ऋग् यजुः साम […]
- कलियुगीय राजवंश वर्णनम् - कलियुगीयराजवंशवर्णनम् राजोवाच – स्वधामानुगते कृष्ण यदुवंशविभूषणे। कस्य वंशोऽभवत् पृथ्व्यामेतदाचक्ष्व मे मुने॥ १ श्रीशुक उवाच। योऽन्त्यः पुरञ्जयो नाम भाव्यो बार्हद्रथो नृप। तस्यामात्यस्तु शुनको हत्वा स्वामिनमात्मजम्॥ २ प्रद्योतसंज्ञं राजानं कर्ता यत् पालकः सुतः। विशाखयूपस्तत्पुत्रो भविता राजकस्ततः॥ ३ नन्दिवर्धनस्तत्पुत्रः पञ्च प्रद्योतना इमे। अष्टत्रिंशोत्तरशतं भोक्ष्यन्ति पृथिवीं नृपाः॥ ४ शिशुनागस्ततो भाव्यः काकवर्णस्तु तत्सुतः। क्षेमधर्मा तस्य सुतः क्षेत्रज्ञः क्षेमधर्मजः॥ ५ विधिसारः सुतस्तस्या जातशत्रुर्भविष्यति। दर्भकस्तत्सुतो भावी दर्भकस्याजयः […]
- कश्यपवंश – Kashypa Vamsa - अग्निरुवाच कश्यपस्य वदे सर्गमदित्यादिषु हे मुने। चाक्षुषे तुषिता देवास्तेऽदेत्यां कश्यपात्पुनः ।। १ ।। आसन् विष्णुश्च शक्रश्च त्वष्टा धाता तथार्य्थमा । पूषा विवस्वान् सविता मित्रोथ वरुणो भगः ।। २ ।। अंशुश्च द्वादशादित्या आसन् वैवस्वतेन्तरे। अरिष्टनेमिपत्नीनामपत्यानीह षोडश ।। ३ ।। बहुपुत्रस्थ विदुषश्चतस्त्रो विद्युतः सुताः । प्रत्यङ्गिरसजाः श्रेष्ठाः कृशाश्वस्य सुरायुदाः ।। ४ ।। उदयास्तमने सूर्ये तद्वदेते युगे युगे। हिरण्यकशिपुर्द्दित्यां हिरण्याक्षश्च कश्यपात् ।। ५ […]
- कालः – Kala - कालस्तु त्रिविधो ज्ञेयोऽतीतोऽनागत एव च वर्त्तमानस्तृतीयस्तु वक्ष्यामि शृणु लक्षणम् ८ कालः कालयते लोकं कालः कालयते जगत् कालः कालयते विश्वं तेन कालो विधीयते ९ कालस्य वशगाः सर्वं देवर्षिसिद्धकिन्नराः कालो हि भगवान् देवः स साक्षात्परमेश्वरः १० सर्पपालनसंहर्त्ता स कालः सर्वतः समः कालेन काल्यते विश्वं तेन कालो विधीयते ११ येनोत्पत्तिश्च जायेत येन वै कल्पते कला सत्त्ववांस्तु भवेत्कालो जगदुत्पत्तिकारकः १२ यः कर्माणि प्रपश्येत प्रकर्षं […]
- कालसंख्या – Kala Samkhya - कालसंख्या समासेन परार्द्धद्वयकल्पिता । स एव स्यात् परः कालः तदन्ते प्रतिसृज्यते ।। ५.२ निजेन तस्य मानेन चातुर्वर्षशतं स्मृतम् । तत् परार्द्धं तदर्द्धं वा परार्द्धमभिदीयते ।। ५.३ काष्ठा पञ्चदश ख्याता निमेषा द्विजसत्तमाः । काष्ठास्त्रिंशत् कला त्रिंशत् कला मौहूर्त्तिकी गतिः ।। ५.४ तावत्संख्यैरहोरात्रं मुहूर्त्तैर्मानुषं स्मृतम् । अहोरात्राणि तावन्ति मासः पक्षद्वयात्मकः ।। ५.५ तैः षड्भिरयनं वर्षं द्वेऽयने दक्षिणोत्तरे । अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम् ।। […]
- काव्य शास्त्र – Kavya Sastra - काव्यस्य नाटकादेश्च अलङ्कारान् वदाम्यऽथ । ध्वनिर्व्वर्णाः पदं वाक्यमित्येतद्वाङ्मयं मतं ।। ३३७.१ ।। शास्त्रेतिहासवाक्यानां त्रयं यत्र समाप्यते । शास्त्रे शब्दप्रधानात्वमितिहासेषु निष्ठता ।। ३३७.२ ।। अभिधायाः प्रधानत्वात् काव्यं ताभ्यां विभिद्यते । नरत्वं दुर्ल्लभं लोके विद्यातत्र च दुर्ल्लभा ।। ३३७.३ ।। कवित्वं दुर्ल्लभं तत्र शक्तिस्तत्र च दुर्ल्लभा । व्युत्पत्तिर्दुर्ल्लभा तत्र विवेकस्तत्र दुर्लभः ।। ३३७.४ ।। सर्व्वं शास्त्रमविद्वद्भिर्मृग्यमाणन्न सिध्यति । आदिवर्णा द्वितीयश्च महाप्राणास्तुरीयकः ।। […]
- गर्भो प्रकृति/गर्भोपक्रमविज्ञानं – Garva prakriti - प्रथमेऽहनि रेतश्च संयोगात्कललं च यत् जायते बुद्बुदाकारं शोणितञ्च दशाहनि १७ घनं पञ्चदशाहे स्याद्विंशाहे मांसपिण्डकम् पञ्चविंशत्तमे प्राप्ते पञ्चभूतात्मसम्भवः १८ मासैकेन च पिण्डस्य पञ्चतत्त्वं प्रजायते पञ्चाशद्दिनसम्प्राप्ते अङ्कुराणाञ्च सम्भवः १९ मासत्रये तु सम्प्राप्ते हस्तपादौ प्रवर्धते सार्द्धमासत्रये प्राप्ते शिरश्च सारवद्भवेत् २० चतुर्थके च लोमानां सम्भवश्चात्र दृश्यते पञ्चमे च सुजीवः स्यात्षष्ठे प्रस्फुरणं भवेत् २१ अष्टमे मासि जाते च अग्नियोगः प्रवर्त्तते मासे तु नवमे प्राप्ते जायते […]
- गोपामनि – Gopamani - धर्ता दिवो विभाति तपसस्पृथिव्यामिति। धर्ता ह्येष दिवो विभाति तपसस्पृथिव्यां धर्ता देवो देवानाममर्त्यस्तपोजा इति धर्ता ह्येष देवो देवानाममर्त्यस्तपोजा वाचमस्मे नियच्छ देवायुवमिति यज्ञो वै वाग्यज्ञमस्मभ्यं प्रयच्छ येन देवान्प्रीणामेत्येवैतदाह – १४.१.४.[८] अपश्यं गोपामनिपद्यमानमिति। एष वै गोपा य एष तपत्येष हीदं सर्वं गोपायत्यथो न निपद्यते तस्मादाहापश्यं गोपामनिपद्यमानमिति – १४.१.४.[९] आ च परा च पथिभिश्चरन्तमिति। आ च ह्येष परा च देवैः पथिभिश्चरति स सध्रीचीः स […]
- चतुः श्लोक भागवतम्-Chatuh-Slok Bhagavatam - अहमेवासमेवाग्रे नान्यद् यत् सदसत् परम्। पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम्-ऋतेऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि। तद्विद्यादात्मनो मायां यथाऽऽभासो यथा तमः-यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु। प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम्-एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनाऽऽत्मनः। अन्वयव्यतिरेकाभ्यां यत् स्यात् सर्वत्र सर्वदा......
- चन्द्रकलानिरूपणम्- Chandrakala Nirupanam - अङ्गुष्ठे चरणे नितम्बनिलये जानुद्वये जङ्घयो-र्नाभौ वक्षसि कक्षयोर्निगदिता कण्ठे कपोलेऽधरे । नेत्रे कर्णयुगे ललाटफलके मौलौ च वामभ्रुवा– मूर्ध्वाधश्चलनक्रमेण कथिता चान्द्री कला पक्षयोः ॥ ११ ॥ सीमन्ते नयनेऽधरे च गलके कक्षातटे चूचुके नाभौ श्रोणितटे मनोभवगृहे जङ्घातटोरुद्वये । गुल्फे पादतले तदङ्गुलितलेऽङ्गुष्ठे च तिष्ठत्यसौ वृद्धिक्षीणतया समं शशिकला लीलाकरी योषिताम् ॥ १२ ॥
- चित्तवृत्तिनिरोधः – Chitta Vritti Nirodha - According to the traditional system of medicine of India and the East , known as Ayurveda, the body and mind are connected. Ayurveda focuses on diet, herbs, mind-body type, and lifestyle choices to maintain optimal health. It believes that the body and mind are interconnected and that when the mind is balanced, the body can be healed. It also focuses on the importance of self-care, as well as the importance of addressing any underlying imbalances that may be causing physical or mental health issues.
- तत्त्वज्ञान- Tattvajyana - तत्त्वज्ञान- Tattvajyana /तत्त्वज्ञानार्थदर्शनम् means / तत्त्वविद् - means
- तत्त्वबोधः- Tattva Bodha - साधनचतुष्टयम् तत्त्वविवेकः शरीरत्रयम् ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि अवस्थात्रयम् पञ्चकोशाः आत्मन् चतुर्विंशतितत्त्वोत्पत्तिप्रकारम् जीवेश्वरभेदबुद्धिः जीवेश्वरैक्यम् जीवन्मुक्तिः कर्माणि वासुदेवेन्द्रयोगीन्द्रं नत्वा ज्ञानप्रदं गुरुम् । मुमुक्षूणां हितार्थाय तत्त्वबोधोऽभिधीयते ॥ साधनचतुष्टयसम्पन्नाधिकारिणां मोक्षसाधनभूतं तत्त्वविवेकप्रकारं वक्ष्यामः । १॥० साधनचतुष्टयम् साधनचतुष्टयं किम् ? १॥१ नित्यानित्यवस्तुविवेकः । १॥२ इहामुत्रार्थफलभोगविरागः । १॥३ शमादिषट्कसम्पत्तिः । १॥४ मुमुक्षुत्वं चेति । १॥१॥१ विवेकः नित्यानित्यवस्तुविवेकः कः ? नित्यवस्त्वेकं ब्रह्म तद्व्यतिरिक्तं सर्वमनित्यम् । अयमेव नित्यानित्यवस्तुविवेकः । १॥१॥२ वैराग्यम् विरागः कः […]
- तन्त्र – Tantra - In "Reminiscences of the Tantric Vision," Advocateanmoy writes about its experience with Tantric meditation and how it has helped it to develop a deeper understanding of the universe and his own consciousness. It talks about the importance of understanding the different aspects of Tantra, such as Kundalini energy and the power of chakras, and how it can be used to gain a deeper insight into the inner workings of reality. It also provides practical tips and advice on how to use Tantra to access higher states of consciousness and unlock the potential of the human mind.
- तपः – Tapaha - नियमेषु तपःशब्दः १ तदतिक्रमे विद्याकर्म निःस्रवति ब्रह्म सहापत्यादेतस्मात् २ कर्तपत्यमनायुष्यं च ३ तस्मादृषयोऽवरेषु न जायन्ते नियमातिक्रमात् ४ श्रुतर्षयस्तु भवन्ति केचित्कर्मफलशेषेण पुनःसंभवे ५ यथा श्वेतकेतुः ६ यत्किं च समाहितो ऽब्रह्माप्याचार्यादुपयुङ्क्ते ब्रह्मवदेव तस्मिन्फलं भवति ७ अथो यत्किञ्च मनसा वाचा चक्षुषा वा सङ्कल्पन्ध्यायत्याहाभिविपश्यति वा तथैव तद्भवतीत्युपदिशन्ति ८ गुरुप्रसादनीयानि कर्माणि स्वस्त्ययनमध्ययनसंवृत्तिरिति ९ अतोऽन्यानि निवर्तन्ते ब्रह्मचारिणः कर्माणि १० स्वाध्यायधृग् धर्मरुचिस्तप्स्व्यृजुर्मृदुः सिध्यति ब्रह्मचारी ११ सदा महान्तमपररात्रमुत्थाय […]
- तुलाविधिः – Tula-bidhi - सर्षपस्य चतुर्थांशोऽणुः चतुःसर्षपैर्माषः चतुर्माषैर्वल्लः चतुर्वल्लैः सुवर्णैः कर्षः चतुःकर्षैः पलम् चतुः पलैः कुडवः चतुःकुडवैः प्रस्थः चतुःप्रस्थैराढकः चतुर्भिराढकैर्द्रोणः १ Anu-Drona हारीतसंहिता
- त्रिदण्डं -tridandam - वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च । यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते । । १२.१० । । त्रिदण्डं एतन्निक्षिप्य सर्वभूतेषु मानवः । कामक्रोधौ तु संयम्य ततः सिद्धिं नियच्छति । । १२.११ । Manu Samhita [12th chapter]
- त्रिफला – Trifala - हरीतक्याश्चामलक्या विभीतकस्य च फलम् त्रिफलेत्युच्यते वैद्यैर्वक्ष्यामि भागनिर्णयम् १ एकभागो हरीतक्या द्वौभागौ च विभीतकम् आमलक्यास्त्रिभागश्च सहैकत्र प्रयोजयेत् २ त्रिफला कफपित्तघ्नी महाकुष्ठविनाशिनी आयुष्या दीपनी चैव चक्षुष्या व्रणशोधिनी ३ वर्णप्रदायिनी घृष्टा विषमज्वरनाशिनी दृष्टिप्रदा कण्डुहरा वमिगुल्मार्शनाशिनी ४ सर्वरोगप्रशमनी मेधा स्मृतिकरी परा हारीतसंहिता
- दक्षिणा मूर्ति स्तोत्रम्-Dakshina Murti Stotram - विश्वं दर्पणदृश्यमान नगरीतुल्यं निजान्तर्गतम्, पश्यन्नात्मनि मायया बहिरिवोद्भूतं यदा निद्रया। यः साक्षात्कुरुते प्रबोध समये स्वात्मानमेवाद्वयम्, तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥१॥
- दहनविधिः – Dahan Bidhi - अथातो दहनविधिः । आहिताग्नेरनाहिताग्नेः स्त्रियाश्चैव मरणसंशये शुचौ समे देशे गोमयेनोपलिप्य अवोक्ष्य सिकताभिरवकीर्य तासु दक्षिणाग्रान् दर्भान् संस्तीर्य तेषु दक्षिणाशिरसमेनं निधायास्वधायुक्ता ब्रह्माण्यभिश्रावयेत् आयुषः प्राणँ सन्तनु इति । अथ प्राणेषूत्क्रान्तेषु प्राचीनावीत्यवाचीनपाणिः हिरण्यशकलमास्ये प्रत्यस्याङ्गुष्ठबन्धं प्रबध्य ग्राम्येणालङ्कारेणालङ्कृत्य पत्तोदशेनाहतेन वाससा प्रच्छाद्य सायमाहुतिं हुत्वा मातराहुतिं हुत्वा पौर्णमास्येनेष्ट्वामावास्येनेष्ट्वाथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा प्रागुदेत्य समिद्वत्याहवनीये जुहोति मृत्योरधिष्ठानाय स्वाहा इति । चतुरो ब्राह्मणान् बाहयित्वा ग्रामाभिमुखेन चतुष्पथे निधाय मुखं […]
- दायभाग – Daya Bhaga - विभागोऽर्थस्य पित्र्यस्य पुत्रैर्यत्र प्रकल्प्यते । दायभाग इति प्रोक्तं तद्विवादपदं बुधैः । । १३.१ । । पितर्यूर्ध्वं मृते पुत्रा विभजेयुर्धनं पितुः । मातुर्दुहितरोऽभावे दुहितारं तदन्वयः । । १३.२ । । मातुर्निवृत्ते रजसि प्रत्तासु भगिनीषु च । निरष्टे वाप्यमरणे पितर्युपरतस्पृहे । । १३.३ । । पितैव वा स्वयं पुत्रान्विभजेद्वयसि स्थितः । ज्येष्ठं श्रेष्ठविभागेन यथा वास्य मतिर्भवेत् । । १३.४ । । बिभृयाद्वेच्छतः […]
- देव – deva - देवशब्दो दानदीपनद्योतनानामन्यतममर्थमाचष्टे । यज्ञस्य दाता दीपयिता द्योतयितायमग्निरित्युक्तं भवति । दीपनद्योतनयोरेकार्थत्वेऽप्यस्ति धातुभेदः । यद्यप्यग्निः पृथिवीस्थानस्तथापि देवान् प्रति हविर्वहनात द्युस्थानो भवति । देवशब्ददेवताशब्दयोः पर्यायत्वान्मन्त्रप्रतिपाद्या काचिदग्निव्यतिरिक्ता देवता नान्वेषणीया ।
- देवताः – Devata - आत्मैव देवताः सर्वाः सर्वं आत्मन्यवस्थितम् । आत्मा हि जनयत्येषां कर्मयोगं शरीरिणाम्
- दैवपुरुषाकार: – Daiva Purusakara - Daiva Purusakara-न विना मानुषं दैवं दैवं वा मानुषं विना-नैकं निर्वर्तयत्य् अर्थम् एकारणिरिवानलम्/ सिद्ध्यन्ते सर्व आरम्भाः संयोगात् कर्मणो ऽर्द्ध्योः- दैवात् पुरुसकाराच् च न त्व् एकस्मात् कथाज्चन/
- धर्म – Dharma - अथ प्राङिवोदङ्ङुत्क्रामति धर्मासि सुधर्मेत्येष वै धर्मो य एष तपत्येष हीदं सर्वं धारयत्येतेनेदं सर्वं धृतमेष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह धर्मासि सुधर्मेति – १४.२.२.[२९] शतपथब्राह्मणम्काण्डम् १४ अध्यायः २ ब्राह्मण २
- धर्मसाधनम् – Dharma Sadhanam - धर्मात् संजायते ह्यर्थो धर्मात् कामोऽभिजायते । धर्म एवापवर्गाय तस्माद् धर्मं समाश्रयेत् । Dharma is the source of value and wealth. Satisfaction of desires also generate from the observation of Dharma. Dharma is the source of Liberation, therefore take the shelter of Dharma.
- धातुबलं – Dhatubalam - पञ्चभूतात्मकं देहं पञ्चेन्द्रियसमायुतम् – सप्तधातुगुणोपेतं दशवातात्मिकं विदुः १ जीवो मनस्तथाकाशस्तथैव त्रिगुणात्मिकः -शुक्रशोणितसम्भूतं शरीरं दोषभाजनम् पञ्चभूतमयं चैतद्विज्ञेयं भिषजां वर २ चतुर्विधं शरीरं स्याद्बाल्यं प्रौढं प्रगल्भकम् -स्थविरञ्च तथा प्रोक्तं बाल्यमल्पशरीरकम् षोडशवार्षिकं यावद्बाल्यं तावत् प्रवर्त्तते ३ धातूनाञ्च बलं तत्र धातुमूलं शरीरकम् धातूनां पुष्टियोगेन शरीरञ्चातिवर्द्धते ४ जीवितं धातुमूलं तु मृत्युर्धातुक्षयादपि हीनधातोश्च योगेन लभते स्वल्पजीवनम् ५ आदौ धातुबलं तस्मात्सत्त्वं तस्माद्रजो विदुः -रजसा जायते कामः कामात्सुरत सङ्गमः […]
- धारणा – Dharana - अग्निरुवाच धारणा मनसो ध्येये संस्थितिर्ध्यानवद् द्विधा । मूर्त्तामूर्तहरिध्यानमनोधारणतो हरिः ।। ३७५.१ ।। यद्वाह्यावस्थितं लक्षअयं तस्मान्न चलते मनः । तावत् कालं प्रदेशेषु धारणा मनसि स्थितिः ।। ३७५.२ ।। कालावधि परिच्छिन्नं देहे संस्थापितं मनः । न प्रच्यवति यल्लक्ष्याद्धारणा साऽभिधीयते ।। ३७५.३ ।। धारणा द्वादशायामा ध्यानं द्वादशधारणाः । ध्यानं द्वादशकं यावत्समाधिरभिधीयते ।। ३७५.४ ।। धारणाभ्यासयुक्तात्मा यदि प्राणैर्विमुच्यते । कुलैकविंशमुत्तार्य्य स्वर्य्याति परमं पदं ।। […]
- ध्यानम् – Dhyanam - अग्निरुवाच ध्यै चिन्तायां स्मृतो धातुर्विष्णुचिन्ता मुहुर्मुहुः । अनाक्षइप्तेन मनसा ध्यानमित्यभिधीयते ।। ३७४.१ ।। आत्मनः समनस्कस्य मुक्ताशेषोपधस्य च । ब्रह्मचिन्तासमा शक्तिर्ध्यानं नाम तदुच्यते ।। ३७४.२ ।। ध्येयालम्बनसंस्थस्य सदृशप्रत्ययस्य च । प्रत्ययान्तरनिर्मुक्तः प्रत्ययो ध्यानमुच्यते ।। ३७४.३ ।। ध्येयावस्थितचित्तस्य प्रदेशे यत्र कुत्रचित् । ध्यानमेतत्समुद्दिष्टं प्रत्ययस्यैकभावना ।। ३७४.४ ।। एवं ध्यानसमायुक्तः स्वदेहं यः परित्यजत् । कुलं स्वजनमित्राणि समुद्धृत्य हरिर्भवेत् ।। ३७४.५ ।। एवं मुहूर्त्तमर्धं […]
- नादः – Nadaha - आकाशवायुप्रभवः शरीरात्समुच्चरन् वक्त्रमुपैति नादः । स्थानान्तरेषु प्रविभज्यमानो वर्णत्वमागच्छति यः स शब्दः ।। १ ॥ तमक्षरं ब्रह्म परं पवित्रं गुहाशयं सम्यगुशन्ति विप्राः । २ ॥ स्थानमिदं करणमिदं प्रयत्न एष द्विधानिलः स्थानं पीडयति वृत्तिकारः प्रक्रम एषोऽथ नाभितलात् ।। ३ ॥ तत्र स्थान करण प्रयत्नेभ्यो वर्णा स्त्रिषष्टिः । ४ ॥ तत्र नाभिप्रदेशात्प्रेरितः प्राणो नाम वायुरूर्ध्वमाक्रामन्नुरःप्रभृतीनां स्थानानामन्यतमस्मिन्स्थाने प्रयत्नेन विधार्यते । स विधार्यमाणो वायुः स्थानमभिहन्ति […]
- नारी संगम Nari Sangam - नाष्टमी चतुर्दशी पञ्चदशीषु स्त्रियं उपेयात् । । ६९.१ । । न श्राद्धं भुक्त्वा । । ६९.२ । । न दत्त्वा । । ६९.३ । । नोपनिमन्त्रितः श्राद्धे । । ६९.४ । । न व्रती । । ६९.५ । । न दीक्षितः । । ६९.६ । । न देवायतनश्मशानशून्यालयेषु । । ६९.७ । । न वृक्षमूलेषु । । ६९.८ । । […]
- पंच अवयव तर्कः – pancha abayaba tarka - प्रतिज्ञा हेतू दाहरणोपनय निगमनानि अवयवाः ।। ३२ ।। साध्यनिर्देशः प्रतिज्ञा ।। ३३ ।। उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः ।। ३४ ।। तथा वैधर्म्यात् ।। ३५ ।। साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्तः उदाहरणम् ।। ३६ ।। तद्विपर्ययात्वा विपरीतम् ।। ३७ ।। उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः ।। ३८ ।। हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् ।। ३९ ।। अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थं उहः तर्कः ।। […]
- पङ्क्तिपावनाः- Pankti pabana - अथ पङ्क्तिपावनाः । । ८३.१ । । त्रिणाचिकेतः । । ८३.२ । । पञ्चाग्निः । । ८३.३ । । ज्येष्ठसामगः । । ८३.४ । । वेदपारगः । । ८३.५ । । वेदाङ्गस्याप्येकस्य पारगः । । ८३.६ । । पुराणेतिहासव्याकरणपारगः । । ८३.७ । । धर्मशास्त्रस्याप्येकस्य पारगः । । ८३.८ । । तीर्थपूतः । । ८३.९ । । यज्ञपूतः । । […]
- पण्डित:- Pandit - पण्डा आत्मविषया बुद्धिर्येषां ते हि पण्डिताः, पाण्डित्यं निर्विद्य
- पति-पत्नी Pati Patni - आत्मैवेदमग्र आसीत्। पुरुषविधः सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत्सोऽहमस्मीत्यग्रे व्याहरत्ततोऽहं नामाऽभवत्तस्मादप्येतर्ह्यामन्त्रितोऽहमयमित्येवाग्र उक्त्वाऽथान्यन्नाम प्रब्रूते यदस्य भवति – १४.४.२.[१] स यत्पूर्वोऽस्मात् सर्वस्मात्सर्वान्पाप्मन औषत्तस्मात्पुरुष ओषति ह वै स तं योऽस्मात्पूर्वो बुभूषति य एवं वेद – १४.४.२.[२] सोऽबिभेत्। तस्मादेकाकी बिभेति स हायमीक्षां चक्रे यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति तत एवास्य भयं वीयाय कस्माद्ध्यभेष्यद्द्वितीयाद्वै भयम्भवति – १४.४.२.[३] स वै नैव रेमे। तस्मादेकाकी न रमते स द्वितीयमैच्छत्स हैतावानास यथा स्त्रीपुमांसौ सम्परिष्वक्तौ – […]
- परं पदम् – Param Padam - यतः प्रवृत्तिर्भूतानां यस्मिन् सर्वं यतो जगत् ।२२.७४ स विष्णुः सर्वभूतात्मा तमाश्रित्य विमुच्यते ।। यमक्षरात्परतरात्परं प्राहुर्गुहश्रयम्।।२२.७५ आनन्दं परमं व्योम स वै नारायण स्मृतः।. नित्योदितो निर्विकल्पो नित्यानन्दो नरञ्जनः।।२२.७६ चतुर्व्यूहधरो विष्णुरव्यूहः प्रोच्यते स्वयम्। परमैत्मा परन्धाम परं व्योम परं पदम्।२२.७७ त्रिपादमक्षरं ब्रह्म तमाहुब्रह्मवादिनः। स वासुदेवो विश्वात्मा योगात्मा पुरुषोत्तमः।।२२.७८ यस्यांश सम्भवो ब्रह्मा रुद्रोऽपि परमेश्वरः। स्ववर्णाश्रमधर्मेण पुंसां यः पुरुषोत्तमः ।२२.७९ अकामहतभावेन समाराध्यो न चान्यथा । एतावदुक्त्वा […]
- पाशुपत योग व्रत – Pasupat yoga vrata - ॐ नमो नीलकण्ठाय।। किरीटिनं गदिनं चित्रमालं पिनाकिनं शूलिनं देवदेवम् । शार्दूलचर्माम्बरसंवृताङ्गं देव्या महादेवमसौ ददर्श ।। 24.51 प्रभुं पुराणं पुरुषं पुरुस्तात्। सनातनं योगिनमीशतारम्।। अणोरणीयांसमनन्तशक्तिं प्राणेश्वरं शम्भमसौ ददर्श।।24.52 परश्वधासक्तकरं त्रिनेत्रं. नृसिंहचर्मावृतभस्मगात्रम् ।। समुद्गिरन्तं प्रणवं बृहन्तं। सहस्त्रसूर्यप्रतिमं ददर्श ।। 24.53 न यस्य देवा न पितामहोऽपि नेन्द्रो न चाग्निर्वरुणो न मृत्युः । प्रभावमद्यापि वदन्ति रुद्रं तमादिदेवं पुरतो ददर्श ।। 24.54 तदान्वपश्यद् गिरिशस्य वामे स्वात्मानमव्यक्तमनन्तरूपम् […]
- पुराण लक्षणम् – Purana Lakshanam - सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ।। १.१२ ब्राह्मं पुराणं प्रथमं पाद्मं वैष्णवमेव च । शैवं भागवतं चैव भविष्यं नारदीयकम् ।। १.१३ मार्कण्डेयमथाग्नेयं ब्रह्मवैवर्तमेव च । लैङ्गं तथा च वाराहं स्कान्दं वामनमेव च ।। १.१४ कौर्म्मं मात्स्यं गारुडं च वायवीयमनन्तरम् । अष्टादशं समुद्दिष्टं ब्रह्मण्डमिति संज्ञितम् ।। १.१५ अन्यान्युपपुराणानि मुनिभिः कथितानि तु । अष्टादशपुराणानि श्रुत्वा संक्षेपतो द्विजाः […]
- पुराणम् – Puranam - पुराणानि अग्निपुराणम् कूर्मपुराणम् गरुडपुराणम् नारदपुराणम् पद्मपुराणम् ब्रह्मपुराणम् ब्रह्मवैवर्तपुराणम् ब्रह्माण्डपुराणम् भागवतपुराणम् मत्स्यपुराणम् मार्कण्डेयपुराणम् लिङ्गपुराणम् वराहपुराणम् वामनपुराणम् वायुपुराणम् विष्णुपुराणम् शिवपुराणम् स्कन्दपुराणम् उपपुराणाः कालिकापुराणम् देवीभागवतपुराणम् विष्णुधर्मोत्तरपुराणम् हरिवंशपुराणम् भविष्यपुराणम् Purans are not authoratative texts for the Source of Sanatan Dharma. भविष्यपुराणम् available in the market is totally fake book and severely interpolated. भागवतपुराणम् possibly written by Bopa Deva and Sankar and Ramanuja never mentioned […]
- पुराणलक्षणं – Purana lakshanam - पुराणलक्षणवर्णनं पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिः निरूपितम्। श्रृणुष्व बुद्धिमाश्रित्य वेदशास्त्रानुसारतः॥ ८ सर्गोऽस्याथ विसर्गश्च वृत्ती रक्षान्तराणि च। वंशो वंशानुचरितं संस्था हेतुरपाश्रयः॥ ९ दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदुः। केचित् पञ्चविधं ब्रह्मन् महदल्पव्यवस्थया॥ १० अव्याकृतगुणक्षोभान्महतस्त्रिवृतोऽहमः। भूतमात्रेन्द्रियार्थानां सम्भवः सर्ग उच्यते॥ ११ पुरुषानुगृहीतानामेतेषां वासनामयः। विसर्गोऽयं समाहारो बीजाद् बीजं चराचरम्॥ १२ वृत्तिर्भूतानि भूतानां चराणामचराणि च। कृता स्वेन नृणां तत्र कामात् चोदनयापि वा॥ १३ रक्षाच्युतावतारेहा विश्वस्यानु युगे युगे। तिर्यङ्मर्त्यर्षिदेवेषु हन्यन्ते […]
- पुरुषध्यानं – Purusha Dhyanam - पुरुषध्यानं प्रशान्तात्मा चतुर्विंशत्या तत्त्वैर्व्यतीतं चिन्तयेत् । नित्यं अतीन्द्रियं अगुणं शब्दस्पर्शरूपरसगन्धातीतं सर्वज्ञं अतिस्थूलं । । ९७.२ । । सर्वगं अतिसूक्ष्मं । । ९७.३ । । सर्वतःपाणिपादं सर्वतोऽक्षिशिरोमुखं सर्वतः सर्वेन्द्रियशक्तिं । । ९७.४ । । एवं ध्यायेत् । । ९७.५ । । ध्याननिरतस्य च संवत्सरेण योगाविर्भावो भवति । । ९७.६ । । अथ निराकारे लक्षबन्धं कर्तुं न शक्नोति, तदा पृथिव्यप्तेजोवाय्वाकाशमनोबुद्ध्यात्माव्यक्तपुरुषाणां पूर्वं पूर्वं […]
- पूर्णाहुति – Purnahuti - पूर्णाहुतिं जुहोति। सर्वं वै पूर्णं सर्वेणैवैतद्भिषज्यति यत्किं च विवृढं यज्ञस्य – १४.३.२.२ स्वाहा प्राणेभ्यः साधिपतिकेभ्य इति। मनो वै प्राणानामधिपतिर्मनसि हि सर्वे प्राणाः प्रतिष्ठितास्तन्मनसैवैतद्भिषज्यति यत्किं च विवृढं यज्ञस्य – १४.३.२.३ पृथिव्यै स्वाहेति पृथिवी वै सर्वेषां देवानामायतनं तत्सर्वाभिरेवैतद्देवताभिर्भिषज्यति यत्किं च विवृढं यज्ञस्य – १४.३.२.४ अग्नये स्वाहेति अग्निर्वै सर्वेषां देवानामात्मा तत्सर्वाभिरेवैतद्देवताभिर्भिषज्यति यत्किं च विवृढं यज्ञस्य – १४.३.२.५ अन्तरिक्षाय स्वाहेति। अन्तरिक्षं वै सर्वेषां देवानामायतनं […]
- प्रज्ञा – Pragya - कोऽयमात्मेति वयमुपास्महे कतरः स आत्मा, इति । येन वा पश्यति येन वा शृणोति येन वा गन्धाना-जिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति यदेतद्धृदयं मनश्चैतत्संज्ञानमा-ज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः संकल्पः क्रतुरसुः कामो वश इति, इति । सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति, इति । एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश […]
- प्रज्ञापारमिताहृदय – Pragya Paramita Hridaya - गते गते पारगते पारसंगते बोधि स्वाहा
- प्रमाण – Pramana - प्रत्यक्षानुमानागमाः प्रमाणानि॥1.7॥ तत्र प्रमाणवृत्तिं विभजन् सामान्यलक्षणम् आह — प्रत्यक्षानुमानागमाः प्रमाणानि। अनधिगततत्त्वबोधः पौरुषेयो व्यवहारहेतुः प्रमा। तत्कारणं प्रमाणम्। विभागवचनं च न्यूनाधिकसंख्याव्यवच्छेदार्थम्। तत्र सकलप्रमाणमूलत्वात् प्रथमतः प्रत्यक्षं लक्षयति — इन्द्रियेति। अर्थस्येति समारोपितत्वं निषेधति। तद्विषयेति बाह्यगोचरतया ज्ञानाकारगोचरत्वं निवारयति। चित्तवर्तिनो ज्ञानाकारस्य बाह्यज्ञेयसंबन्धं दर्शयति — बाह्यवस्तूपरागाद् इति। व्यवहितस्य तदुपरागे हेतुम् आह — इन्द्रियप्रणालिकयेति। सामान्यमात्रम् अर्थ इत्य् एके। विशेषा एवेत्य् अन्ये। सामान्यविशेषतद्वत्तेत्य् अपरे वादिनः प्रतिपन्नास् तन्निरासायाह — सामान्यविशेषात्मन […]
- प्रमेय लक्षणम – Prameya lakshanam - आत्म शरीरेन्द्रियार्थ बुद्धि मनः प्रवृत्ति दोष प्रेत्यभाव फल दुःखापवर्गाः तु प्रमेयम् ।। ९ ।। इच्छाद्वेष प्रयत्न सुख दुःखज्ञानानि आत्मनः लिङ्गं इति ।। १० ।। चेष्टेन्द्रियार्थाश्रयः शरीरम् ।। ११ ।। घ्राणरसनचक्षुस्त्वक्श्रोत्राणि इन्द्रियाणि भूतेभ्यः ।। १२ ।। पृथिवी आपः तेजः वायुः आकाशं इति भूतानि ।। १३ ।। गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणाः तदर्थाः ।। १४ ।। बुद्धिः उपलब्धिः ज्ञानं इति अनर्थान्तरम् ।। १५ ।। युगपत्ज्ञानानुत्पत्तिः […]
- प्रव्रज्याश्रमी – Prabajya Asrami - अथ त्रिष्वाश्रमेषु पक्वकषायः प्राजापत्यां इष्टिं कृत्वा सर्ववेदसं दक्षिणां दत्त्वा प्रव्रज्याश्रमी स्यात् । । ९६.१ । । आत्मन्यग्नीनारोप्य भिक्षार्थं ग्रामं इयात् । । ९६.२ । । सप्तागारिकं भैक्षं आचरेत् । । ९६.३ । । अलाभे न व्यथेत । । ९६.४ । । न भिक्षुकं भिक्षेत । । ९६.५ । । भुक्तवति जने अतीते पात्रसंपाते भैक्षं आदद्यात् । । ९६.६ । । […]
- प्राणः- Prana - विश्वामित्रं ह्येतदहः शंसिष्यन्तमिन्द्र उपनिषससाद स हान्नमित्यभिव्याहृत्य बृहतीसहस्रं शशंस तेनेन्द्रस्य प्रियं धामोपेयाय, इति । तमिन्द्र उवाच – ऋषे प्रियं वै मे धामोपागाः स वा ऋषे द्वितीयं शंसेति स हान्नमित्येवाभिव्याहृत्य बृहती-सहस्रं शशंस तेनेन्द्रस्य प्रियं धामोपेयाय, इति । तमिन्द्र उवाच- ऋषे प्रियं वै ते धामोपागाः स वा ऋषे तृतीयं शंसेति स हान्नमित्येवाभिव्याहृत्य बृहती-सहस्रं शशंस तेनेन्द्रस्य प्रियं धामोपेयाय, इति । तमिन्द्र उवाच – ऋषे […]
- ब्रह्म – Brahma - ब्रह्म वा इदमग्र आसीत्। तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्तद्यो यो देवानां प्रत्यबुध्यत स सऽएव तदभवत्तथर्षीणां तथा मनुष्याणाम् – १४.४.२.[२१] तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे। अहं मनुरभवं सूर्यश्चेति तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशत आत्मा ह्येषां स भवत्यथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानां यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियं भवति […]
- ब्रह्म वाराह शरणं स्तुति – Brahma Baraha Saranam Stuti - नमस्ते देव देवाय ब्रह्मणे परमेष्ठिने । पुरुषाय पुराणाय शाश्वताय जयाय च-नमः स्वयंभुवे तुभ्यं स्त्रष्ट्रे सर्वार्थ वेदिने । नमो हिरण्यगर्भाय वेधसे परमात्मने-नमस्ते वासुदेवाय विष्णवे विश्वयोनये । नारायणाय देवाय देवानां हितकारिणे
- ब्राह्मी लिपि – Brahmic scripts -
- भग – भगवान Bhagaban - ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य यशसः श्रइयः । ज्ञानवैराग्ययोश्चैव षण्णं भग इतीङ्गना ।। ३७९.११ ।।
- भर्गः-Vargha - अथ संस्थिते संस्थिते सवने वाचयति मयि भर्गो मयि महो मयि यशो मयि सर्वम् इति पृथिव्य् एव भर्गो ऽन्तरिक्ष एव महो द्यौर् एव यशो ऽप एव सर्वम् अग्निर् एव भर्गो वायुर् एव मह आदित्य एव यशश् चन्द्रमा एव सर्वम् [ आदित्या] वसव एव भर्गो रुद्रा एव मह आदित्या एव यशो विश्वेदेवा एव सर्वम् गायत्र्य् एव भर्गस् त्रिष्टुब् एव महो जगत्य् एव […]
- भाव – Bhaba - भावानिदानीं व्याख्यास्यामः । अत्राह- भावा इति कस्मात् । किं भवन्तीति भावाः किं वा भावयन्तीति भावाः । उच्यते – वागङ्गसत्त्वोपेतान्काव्यार्थान्भावयन्तीति भावा इति । भू इति करणे धातुस्तथा च भावितं वासितं कृतमित्यनर्थान्तरम् । लोकेऽपि च प्रसिद्धम् । अहो ह्यनेन गन्धेन रसेन वा सर्वमेव भावितमिति । तच्च व्याप्त्यर्थम् । श्लोकाश्चात्र- विभावेनाहृतो योऽर्थो ह्यनुभावैस्तु गम्यते । वागङ्गसत्त्वाभिनयैः स भाव इति सन्ज्ञितः ॥ १॥ वागङ्गमुखरागेण सत्त्वेनाभिनयेन च […]
- भूतविद्या – Bhut vidya - ग्रह भूत पिशाचाश्च शाकिनी डाकिनीग्रहाः एतेषां निग्रहः सम्यग्भूत विद्या निगद्यते //
- म मकारः [Ma kara] - म मकारः । स तु पञ्चविंशतितमव्यञ्जनवर्णः । अस्योच्चारणस्थानमोष्ठः । इति व्याकरणम् ॥ (“उपूपध्मानीयानामोष्ठौ ।” इति सिद्धान्त- कौमुदी ॥) अस्य स्वरूपं यथा, — “मकारं शृणु चार्व्वङ्गि ! स्वयं परमकुण्डली । तरुणादित्यसङ्काशं चतुर्व्वर्गप्रदायकम् ॥ पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ।” इति कामधेनुतन्त्रम् ॥ (वङ्गीयाक्षरैः) अस्य लेखनप्रकारः । यथा, — “ऊर्द्ध्वाधःक्रमतो रेखा वामे वक्रा तु कुण्डली । पुनश्चाधोगता सैव तत ऊर्द्ध्वगता पुनः । ब्रह्मा […]
- मकरध्वजः – Makaradwaja - मकरध्वजः, पुं, (मकरेण चिह्नितो ध्वजो यस्य ।) कामदेवः । इत्यमरः । १ । १ । २७ ॥ (यथा, माधे । ३ । ६१ । “शरीरिणा जैत्रशरेण यत्र निशङ्कमूषे मकरध्वजेन ॥”) रससिन्दूरविशेषः । तस्य नामान्तरं चन्द्रो- दयः । तस्य करणप्रकारो यथा, — “पलं मृदु स्वर्णदलं रसेन्द्रं पलाष्टकं षोडशगन्धकस्य । शोणैः सुकार्पासभवप्रसूनैः सर्व्वं विमर्द्द्याथ कुमारिकाद्भिः ॥ तत् काचकुम्भे निहितं सुगाढे मृत्कर्पटैस्तद्दिवसत्रयञ्च । पचेत् क्रमाग्नौ सिकताख्ययन्त्रे […]
- मङ्गलचण्डी – Mangal Chandi - मङ्गलचण्डी, स्त्री, (मङ्गला चासौ चण्डी चेति यद्वा, देषानां मुन्यादिभक्तानां मङ्गलाय दुर्जया- सुरादिमारणे चण्डी अत्यन्तकोपना । मङ्गले- चण्डी दक्षेति वा । अथवा सृष्टौ मङ्गला प्रलये चण्डी । भागवतेऽस्या नामनिरुक्तिर्यथा, — “सृष्टौ मङ्गलरूपा च संहारे कोपरूपिणी । तेन मङ्गलचण्डी सा पण्डितैः परिकीर्त्तिता ॥”) दुर्गा । यथा, — नारायण उवाच । “कथितं षष्ठ्युपाख्यानं ब्रह्मपुत्त्र ! यथागमम् । देवी मङ्गलचण्डी या तदाख्यानं निशामय ॥ […]
- मठः – Math/Matt - मठः, पुं, छात्रादिनिलयः । इत्यमरः । २ । २ । ८ ॥ मठन्ति वसन्ति छात्रादयोऽत्र मठः । मठ वासमर्द्दयोः अल् । छत्रशीला विद्यार्थिनच्छात्राः । छत्रेण गुरुसेवा लक्ष्यते गुरुदोषच्छादनात् छत्रं तच्छी- लत्वात् छात्रः विकारसंघेति ष्णः । आदिना परिव्राजकक्षपणकादीनां ग्रहः । छात्रादीनां निलयो गृहं छात्रादिनिलयः । अर्थकथनमेतत् । नामाप्येतदिति केचित् । छात्रशाला प्रतिश्रय- श्चात्रैव । इति भरतः ॥ गन्त्रीरथः । इति हारा- […]
- मन्त्रकण्टक - अविदित्वा ऋषिं छन्दो दैवतं योगमेव च। योऽध्यापयेज्जपेद्वापि पापीयाञ्जायते तु सः ॥ ऋषिच्छन्दोदैवतानि ब्राह्मणार्थं स्वराद्यपि ।। अविदित्वा प्रयुञ्जानो मन्त्रकण्टक उच्यते ॥ इति ॥ वेदनविधिश्च स्मर्यते– स्वरो वर्णोऽक्षरं मात्रा विनियोगोऽर्थ एव च । मन्त्रं जिज्ञासमानेन वेदितव्यं पदे पदे ॥ इति ॥ सायणाचार्य : ऋग्वेदः सूक्तं १.१
- मांसवर्गो – Mamsha barga - हंसः श्लेष्मकरो बलातिरुचिदो वृष्यो गुरुः शीतलस् तद्वच्च कण्डजाड्यशुक्रजननो वृष्योऽतिरुच्यो मृदुः । ज्ञेयः सारसकः कफानिलहरो वृष्यो गुरुश्चोच्यते वृष्यो वीर्यविवर्द्धनः कफहरः कङ्कस्तथा भासकः १ आडी वातविकारकासहननी बल्या वृषा दीपनी क्रौञ्ची चासुरिशुक्रदोषहननी तुल्यस्तथा कर्कटः । दात्यूहो मरुतस्य नाशनकरो वृष्योबलः शुक्रदस् तथा श्रेष्ठगुणः श्रमोपशमनः शुक्रप्रदो वातहा २ मत्स्यानां मकरः श्रेष्ठो दीपनो वातनाशनः रुचिप्रदः शुक्रकरश्चाश्मरीदोषनाशनः ३ शृङ्गी वातविनाशनो रुचिकरो वृष्यः कफघ्नो मतस् तस्माद्रोहितको हितो बलकरो […]
- मृत्यु कालः – Mrityu Kala - यो न पश्येद् ध्रुवं सम्यक्स्वर्णं वा मनुजो बुधः तस्य षण्मासमध्ये तु मृतिश्चैवोपपद्यते २ यो वै द्वितीयां हिमधामलेखां नरो न पश्येद्द्विजहानिरस्य मासत्रयं प्राप्य शरीरमाशु जीवो व्रजेत्तस्य यमस्य लोकम् ३ यः कर्णघोषं न शृणोति दृप्ता मृताश्च यूकाः प्रपतन्ति लाभात् या वैपरीत्यं विशृणोति शब्दं मासद्वयं प्राप्य जहाति जीवम् ४ यः स्वस्थदेहः श्वसते मुखेन नेत्रेऽरुणे श्यावमथैव वक्त्रम् जिह्वा विशीर्णा दशनाश्च कृष्णा स्वस्थोऽपि शीघ्रं यमलोकगन्ता […]
- यज्ञ -Yagna - यज्ञं व्याख्यास्यामः १ स त्रयाणां वर्णानां ब्राह्मणराजन्ययोर्वैश्यस्य च २ स त्रिभिर्वेदैर्विधीयते ३ ऋग्वेदयजुर्वेदसामवेदैः ४ ऋग्वेदयजुर्वेदाभ्यां दर्शपूर्णमासौ ५ यजुर्वेदेनाग्निहोत्रम् ६ सर्वैरग्निष्टोमः ७ उच्चैरृग्वेदसामवेदाभ्यां क्रियते ८ उपांशु यजुर्वेदेन ९ अन्यत्राश्रुतप्रत्याश्रुतप्रवरसंवादसंप्रैषैश्च १० अन्तरा सामिधेनीष्वनूच्यम् ११ मन्द्रेण प्रागाज्यभागाभ्यां प्रातःसवने च १२ मध्यमेन प्राक् स्विष्टकृतो माध्यंदिने च १३ क्रुष्टेन शेषे तृतीयसवने च १४ वाक्संद्रवश्च तद्वत् १५ ऋग्वेदेन होता करोति १६ सामवेदेनोद्गाता १७ यजुर्वेदेनाध्वर्युः १८ सर्वैर्ब्रह्मा […]
- यज्ञक्रम-Yagna Krama - अथातो यज्ञक्रमाः (१,५.७ ) अग्न्याधेयम् (१,५.७ ) अग्न्याधेयात्पूर्णाहुतिः (१,५.७ ) पूर्णहुतेरग्निहोत्रम् (१,५.७ ) अग्निहोत्राद्दर्शपूर्णमासौ (१,५.७ ) दर्शपूर्णमासाभ्यामाग्रयणम् (१,५.७ ) आग्रयणाच्चातुर्मास्यानि (१,५.७ ) चातुर्मास्येभ्यः पशुबन्धः (१,५.७ ) पशुबन्धादग्निष्टोमः (१,५.७ ) अग्निष्टोमाद्राजसूयः (१,५.७ ) राजसूयाद्वाजपेयः (१,५.७ ) वाजपेयादश्वमेधः (१,५.७ ) अश्वमेधात्पुरुषमेधः (१,५.७ ) पुरुषमेधात्सर्वमेधः (१,५.७ ) सर्वमेधाद्दक्षिणावन्तः (१,५.७ ) दक्षिणावद्भ्योऽदक्षिणाः (१,५.७ ) अदक्षिणाः सहस्रदक्षिणे प्रत्यतिष्ठन् (१,५.७ ) ते वा एते यज्ञक्रमाः (१,५.७ […]
- यज्ञक्रमाः- Yagna Krama - अथातो यज्ञक्रमाः अग्न्याधेयम् अग्न्याधेयात् पूर्णाहुतिः पूर्णहुतेर् अग्निहोत्रम् अग्निहोत्राद् दर्शपूर्णमासौ दर्शपूर्णमासाभ्याम् आग्रयणम् आग्रयणाच् चातुर्मास्यानि चातुर्मास्येभ्यः पशुबन्धः पशुबन्धाद् अग्निष्टोमः अग्निष्टोमाद् राजसूयः राजसूयाद् वाजपेयः वाजपेयाद् अश्वमेधः अश्वमेधात् पुरुषमेधः पुरुषमेधात् सर्वमेधः सर्वमेधाद् दक्षिणावन्तः दक्षिणावद्भ्यो ऽदक्षिणाः अदक्षिणाः सहस्रदक्षिणे प्रत्यतिष्ठन् ते वा एते यज्ञक्रमाः स य एवम् एतान् यज्ञक्रमान् वेद यज्ञेन सात्मा सलोको भूत्वा देवान् अप्येतीति ब्राह्मणम् ॥ ७ ॥ गोपथ ब्राह्मणम्/भागः १ -1.5.7
- यमगीता – Yama Gita - आग्नेये महापुराणे यमगीता नाम द्व्यशीत्यधिकत्रिशततमोऽध्यायः ॥
- यमनियमाः- Yama-niyama - अग्निरुवाच संसारतापमुक्त्यर्थं वक्ष्याम्यऽष्टाङ्गयोगकं । ब्रह्मप्रकाशकं ज्ञानं योगस्तत्रैकचित्तता ।। ३७२.१ ।। चित्तवृत्तिनिरोधश्य जीवब्रह्मात्मनोः परः । अहिसा सत्यमस्तेयं ब्रह्मचर्य्यापरिग्रहौ ।। ३७२.२ ।। यमाः पञ्च स्मृता विप्र नियमाद् भुक्तिमुक्तिदाः । शौचं सन्तोषतपसी स्वाध्यायेश्वरपूजने ।। ३७२.३ ।। भूतापीड़ा ह्यहिंसा स्यादहिंसा धर्म्म उत्तमः । यथा गजपदेऽन्यानि पदानि पथगामिनां ।। ३७२.४ ।। एवं सर्वमहिंसायां धर्म्मार्थमभिधीयते । उद्वेगजननं हिंसा सन्तापकरणन्तथा ।। ३७२.५ ।। रुक्कृतिः शोनितकृतिः पैशुन्यकरणन्तथा । […]
- योगस्थानानि – yoga sthanai - संक्षेपतः प्रवक्ष्यामि योगस्थानानि साम्प्रतम् । कल्पितानि शिवेनैव हिताय जगतां द्विजाः ॥ १,८.१ ॥ गलादधो वितस्त्या यन्नाभेरुपरि चोत्तमम् । योगस्थानमधो नाभेरावर्तं मध्यमं भ्रुवोः ॥ १,८.२ ॥ सर्वार्थज्ञाननिष्पत्तिरात्मनो योग उच्यते । एकाग्रता भवेच्चैव सर्वदा तत्प्रसादतः ॥ १,८.३ ॥ प्रसादस्य स्वरूपं यत्स्वसंवेद्यं द्विजोत्तमाः । वक्तुं न शक्यं ब्रह्माद्यैः क्रमशो जायते नृणाम् ॥ १,८.४ ॥ योगशब्देन निर्वाणं माहेशं पदमुच्यते ।तस्य हेतुरृषेर्ज्ञानं ज्ञानं तस्य प्रसादतः ॥ […]
- राजधर्माः – Raja dharma - अथ राजधर्माः । । ३.१ । । प्रजापरिपालनं । । ३.२ । । वर्णाश्रमाणां स्वे स्वे धर्मे व्यवस्थापनं । । ३.३ । । राजा च जाङ्गलं पशव्यं सस्योपेतं देशं आश्रयेत् । । ३.४ । । वैश्यशूद्रप्रायं च । । ३.५ । । तत्र धन्वनृमहीवारिवृक्षगिरिदुर्गाणां अन्यतमं दुर्गं आश्रयेत् । । ३.६ । । तत्रस्थश्च स्वस्वग्रामाधिपान्कुर्यात् । । ३.७ । । दशाध्यक्षान् […]
- लक्ष्मी -Lakshmi - साक्षिणी सर्वभूतानां लक्षयामि शुभाशुभम्। लक्ष्मीश्चास्मि हरेर्नित्यं लक्ष्यं सर्वमितेरहम्
- व-वकारः [ba-Ba∧kara] - व -व्यञ्जनवर्णभेदः । स च स्पर्शोष्मवर्णयोरन्तःस्थितत्वात् अन्तःस्थवर्णभेदः अस्योच्चारणस्थानं दन्तोष्टौ “दन्त्याष्ठ्यो वः स्मृतो बुधैः” शिक्षोक्तेः । अस्योच्चारणे जिह्वा- ग्रेण दन्तौष्ठयोरीषत्स्पर्शात् ईषत्स्पृष्टता आभ्यन्तर- प्रयत्नः । बाह्यप्रयत्नाश्चास्य विवारनादघोषा अल्पप्राणश्च । अस्य दन्त्यौष्ठ्यत्वात् दन्त्यत्वं क्वचिच्च ओष्ठ्यत्वमाश्रित्य कार्य्यभेदस्तेन संवुपूर्षतीत्यादौ ओष्ठ्यत्वमाश्रित्य लः अणपरः । दन्त्यत्वमाश्रित्य च अनुस्वारस्थाने अनुनासिको बो वा पक्षे अनुस्वारस्थितिः । अस्य मातृकान्यासे वामस्कन्धे न्यस्यता । काव्यादौ प्रयोगे “व्यसनमथ लवौ” वृ० र० टी० उक्तेः […]
- वज्र – Vazra - वज्र पुंन० वज–रन् । १ हीरके २ इन्द्रस्यास्त्रभेदे च । तच्च दधीचिमुन्थस्थितो जातम् भाग० ५ । १० अ० उक्तम् २ ब्रालके ३ धात्याम् न० मेदि० ४ काञ्जिके जटा० ५ वज्रपुष्पे शब्दर० । ६ लौहभेदे ७ अभ्रम्भेदे न० भावप्र० ज्योतिषोक्ते विष्कुम्भादिषु सप्तविंशतौ योगेषु मध्ये पञ्चदशे योनभेदे च न० । ९ कोकिलाक्षवृक्षे १० श्वेतकुशे पु० राजनि० । ११ श्रीकृष्णस्य प्रपौत्रे यदुवंश्ये नृपभेदे […]
- वरुण – varun - वरुण पु० वृ–उनन् । पश्चिमाशापतौ १ जलेशे स्वनामख्याते देवभेदे अमरः । २ जले मेदि० ३ सूर्य्ये च विश्वः । ५ द्वीप- भेदे वराहशब्दे दृश्यम् । ६ काशीस्थे नदीभेदे स्त्री । काशीस्थनदीभेदस्योत्पत्त्यादिकं वामनपु० ३ अ० उक्तं यथा “प्रयागे वसते नित्यं योगशायी तु विश्रुतः । चरणाद्द- क्षिणात्तस्य विनिर्याता सरिद्वरा । विश्रुता वरु(र)णेत्येर्व सर्वपापहरा शुभा । सव्यात् पादात् द्वितीया च असिरित्येव विश्रुता । […]
- वर्ण -Varna - वर्ण न० वर्ण–अच् । १ कुङ्कुम न० २ स्वर्णे ३ व्रते ४ शुक्लादिरूपे ५ अकाराद्यक्षरे ६ भेदे ७ गीतक्रमे ८ चित्रे ९ तालभेदे १० अङ्गरागे पु० हेमच० । ११ गजचित्रकम्बले पु० अमरः १२ यशसि १३ गुणे १४ स्तुतौ पु० मेदि० । भेद रूपे अक्षरे पु० न० मेदि० । १५ ब्राह्मणादिजातौ पु० अमरः । “चातुर्वर्ण्यं मया सृष्टम्” गीता । तत्र विप्रादिवर्णानां […]
- वर्ष – Barsha - वर्ष पु० वृष–भावे घञ् कर्त्तरि अच् वा । १ वृष्टौ २ जम्बु- द्वीपांशभेदे पुंन० अमरः । “लङ्कादेशाद्धिमगिरिरुदग्धेमकूटोऽथ तस्मात् तस्माच्चान्यो निषध इति ते सिन्धुपर्यन्तदैर्घ्या । एवं सिद्धादुदगपि पुराच्छृङ्गवच्छुक्लनीला वर्षाण्येषां जगुरिह बुधा अन्तरे द्रोणिदेशान् । भारतवर्षमिदं ह्युदगस्मात किन्नरवर्षमतो हरिवर्षम् । सिद्धपुराच्च तथा कुरु तस्म द्विद्धि हिरण् मयरम्यकवर्षे । माल्यवांश्च यमकोटिपत्तनाद्रोमकाच्च किल नन्धमादनः । नीलशैलनिषधावधो च तावन्तरालमन योरिलावृतम् । माल्यवज्जलधिमध्यवर्ति यत् तत् तु […]
- वाक् रीतिः- Bak Riti - वाग्विद्यासम्प्रतिज्ञने रीतिः सापि चतुर्विधा । पाञ्चली गौड़देशीया वैदर्भी लाटजा तथा ।। ३४०.१ ।। उपचारयुता मृद्वी पाञ्चाली ह्रस्वविग्रहा । अनवस्थितसन्दर्भा गौडीया दीर्घविग्रहा ।। ३४०.२ ।। उपचारैर्न्न बहुभिरुपचारैर्विवर्ज्जिता । नातिकोमलसन्दर्भा वैदर्भी मुक्तविंग्रहा ।। ३४०.३ ।। लाजीया स्फुजसन्दर्भा नातिविस्फुरविग्राहा । परित्यक्तापि भूयोभिरुपचारैरुदाहृता ।। ३४०.४ ।। क्रियास्वविषमा वृत्तिर्भारत्यारभटी तथा । कौशिकी सात्वती चैति सा चतुर्द्धा प्रतिष्ठिता ।। ३४०.५ ।। वाक्प्रधाना नरप्राया स्त्रीयुक्ता प्राकृतोक्तिता । […]
- वाजीकरणम् - क्षीणानां चाल्पवीर्याणां बृंहणं बलवर्द्धनम्तर्पणं समधातूनां वाजीकरणमुच्यते //
- वानप्रस्थ – Bana prastha - गृही वलीपलितदर्शने वनाश्रयो भवेत् । । ९४.१ । । अपत्यस्य चापत्यदर्शने वा । । ९४.२ । । पुत्रेषु भार्यां निक्षिप्य तयानुग्म्यमानो वा । । ९४.३ । । तत्राप्यग्नीनुपचरेत् । । ९४.४ । । अफालकृष्टेन पञ्च यज्ञान्न हापयेत् । । ९४.५ । । स्वाध्यायं च न जह्यात् । । ९४.६ । । ब्रह्मचर्यं पालयेत् । । ९४.७ । । चर्मचीरवासाः स्यात् […]
- विभूति – Bivuti - अथातो विभूतयोऽस्य पुरुषस्य, इति । तस्य वाचा सृष्टौ पृथिवी चाग्निश्चास्यामोषधयो जायन्तेऽग्निरेनाः स्वदयतीदमाहरतेदमाहरतेत्येवमेतौ वाचं पितरं परिचरतः पृथिवी चाग्निश्च, इति । यावदनु पृथिवी यावदन्वग्निस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतयोर्न जीर्यते पृथिव्याश्चाग्नेश्च य एवमेतां वाचो विभूतिं वेद, इति । प्राणेन सृष्टावन्तरिक्षं च वायुश्चान्तरिक्षं वा अनु चरन्त्यन्तरिक्षमनु शृण्वन्ति वायुरस्मै पुण्यं गन्ध-मावहत्येवमेतौ प्राणं पितरं परिचरतोऽन्तरिक्षं च वायुश्च यावदन्वन्तरिक्षं यावदनु वायुस्तावा-नस्य लोको भवति नास्य तावल्लोको […]
- विवाहाः- Vibaha - अष्टौ विवाहाः श्रुत-शीले विज्ञाय ब्रह्मचारिणे अर्थिने दीयते स ब्राह्मः ॥ आच्छाद्य अलंकृत्य एषा सह धर्मश् [: धर्मं ] चर्यताम् इति प्राजाप्त्यः ॥ पूर्वां लाजाहुतिं हुत्वा गोभ्यां सह आर्षः ॥ [: पूर्वां लाजाहुतिं हुत्वा गो -मिथुनं कन्यावते दत्त्वा ग्रहणमार्षः ] दक्षिणासु नीयमानास्व् अन्तर्वेद्य् ऋत्विजे स दैवः ॥ धनेन उपतोष्या आसुरः ॥ [: सकामेन सकामाया मिथस्संयोगो गान्धर्वः ] सकामेन सकामाया मिथः संयोगो […]
- विष्णु – Vishnu - ते होचुः यो नः श्रमेण तपसा श्रद्धया यज्ञेनाहुतिभिर्यज्ञस्योदृचम्पूर्वोऽवगच्छात्स नः श्रेष्ठोऽसत्तदु नः सर्वेषां सहेति तथेति – १४.१.१.[४] तद्विष्णुः प्रथमः प्राप स देवानां श्रेष्ठोऽभवत्तस्मादाहुर्विष्णुर्देवानां श्रेष्ठ इति – १४.१.१.[५] स यः स विष्णुर्यज्ञः सः। स यः स यज्ञोऽसौ स आदित्यस्तद्धेदं यशो विष्णुर्न शशाक संयन्तुं तदिदमप्येतर्हि नैव सर्व इव यशः शक्नोति संयन्तुम् – १४.१.१.[६] शतपथब्राह्मणम्काण्डम् १४ अध्यायः१ ब्राह्मण १
- विष्णु अर्चना – Vishnu archana - Vaidik Vishnu archana
- वेदस्तुतिः - वेदस्तुतिः श्रीपरीक्षिदुवाच ब्रह्मन् ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः। कथं चरन्ति श्रुतयः साक्षात् सदसतः परे॥ 01 श्रीशुक उवाच बुद्धीन्द्रियमनःप्राणान् जनानामसृजत् प्रभुः। मात्रार्थं च भवार्थं च आत्मनेऽकल्पनाय च॥ 02 सैषा ह्युपनिषद् ब्राह्मी पूर्वेशां पूर्वजैर्धृता। श्रद्धया धारयेद् यस्तां क्षेमं गच्छेदकिञ्चनः॥ 03 अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम्। नारदस्य च संवादमृषेर्नारायणस्य च॥ 04 एकदा नारदो लोकान् पर्यटन् भगवत्प्रियः। सनातनमृषिं द्रष्टुं ययौ नारायणाश्रमम्॥ 05 यो वै भारतवर्षेऽस्मिन् क्षेमाय […]
- शब्दालङ्काराः – Sabdalankara - स्यादावृत्तिरनुप्रासो वर्णानां पदवाक्ययोः । एकवर्णाऽनेकवर्णावृत्तेर्व्वर्णगुणो द्विधा ।। ३४३.१ ।। एकवर्णगतावृत्तेर्ज्जायन्ते पञ्च वृत्तयः । मधुरा ललिता प्रौढा भद्रा परुषया सह ।। ३४३.२ ।। मधुरायाश्च वर्गान्तादधो वर्ग्या रणौ स्वनौ। ह्रस्वस्वरेणान्तरितौ संयुक्तत्वं नकारयोः ।। ३४३.३ ।। न कार्य्या वर्ण्यवर्णानामावृत्तिः पञ्चमाधिका । म्हाप्राणोष्मसंयोगप्रविमुक्तलघूत्तरौ ।। ३४३.४ ।। ललिता बलभूयिष्ठा प्रौढा या पणवर्गजा । ऊद्र्ध्वं रेफेण युज्यन्ते नटवर्गोनपञ्चमाः ।। ३४३.५ ।। भद्रायां परिशिष्टाः स्युः परुषा साऽभिधीयते […]
- शान्तिपाठः- Vedic Santi Patha - ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुःश्रोत्रम् । अथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्मनिराकुर्याम् । मा मा ब्रह्मनिराकरोदनिराकरणमस्तु । अनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु । ते मयि सन्तु ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
- शालग्रामादि मूर्तिलक्षण – Saligram Gem Identification - शालग्रामादिमूर्तेश्च वक्ष्येहं भुक्तिमुक्तिदाः-शालग्रामादिचक्राङ्कपूजाः सिद्ध्यै वदामि ते-ओंरूपः केशवः पद्मशङ्खचक्रगदाधरः
- शृङ्गारादिरस – Rasa - Kavya rasa : अक्षरं परमं ब्र्ह्म सनातनमजं विभुं । वेदान्तेषु वदन्त्येकं चैतन्यं ज्योतिरीश्वरम् ।। ३३९.१ ।। आनन्दः सहजस्तस्य व्यज्यते स कदाचन । व्यक्तिः सा तस्य चैतन्यचमत्काररसाह्वया ।। ३३९.२ ।। आद्यस्तस्य विकारो यः सोऽहङ्कार इति स्मृतः । ततोऽभिमानस्तत्रेदं समाप्तं भुवनत्रयं ।। ३३९.३ ।। अभिमानाद्रतिः सा च परिपोषमुपेयुषी । व्यभिचार्य्यादिसामान्यात् श्रृङ्गार इति गीयते ।। ३३९.४ ।। तद्भेदाः काममितरे हास्याद्या अप्यनेकशः । स्वस्वस्थादिविशेषोत्थपरिघोषस्वलक्षणाः […]
- श्रुतिविप्रतिपन्ना- Sruti Vipratipanna - श्रुतिविप्रतिपन्ना अनेक साध्य साधन संबन्ध प्रकाशन श्रुतिभिः श्रवणैः प्रवृत्तिनिवृत्तिलक्षणैः विप्रतिपन्ना नानाप्रतिपन्ना
- सनातनः – Sanatana - मरीचयः स्वायंभुवाः । ये शरीराण्यकल्पयन् ।अष्टाचक्रा नवद्वारा ।अमृतेनाऽऽवृतां पुरीम् । तस्मै ब्रह्म च ब्रह्मा च ।स ह्येवास्मि सनातनः ।
- सप्त द्वीपा पृथिबी -Sapta Dvipa Prithibi - जम्बुद्वीपः प्रधानोऽयं प्लक्षः शाल्मलिरेव च । कुशः क्रौञ्चश्च शाकश्च पुष्करश्चैव सप्तमः ।। एते सप्त महाद्वीपाः समुद्रैः सप्तभिर्वृताः । द्वीपाद् द्वीपो महानुक्तः सागरादपि सागरः ।। क्षारोदेक्षुरसोदश्च सुरोदश्च घृतोदकः । दध्योदः क्षीरसलिलः स्वादूदश्चेति सागराः ।। पञ्चाशत्कोटिविस्तीर्णा ससमुद्रा धरा स्मृता । द्वीपैश्च सप्तभिर्युक्ता योजनानां समासतः ।।
- सप्त पदार्थाः – Sapta Padartha - द्रव्य गुण कर्म सामान्य विशेष समवाया ऽभावाः सप्त पदार्थाः॥१॥ पदार्थान् विभजते द्रव्येति। पदस्यार्थः पदार्थः इति व्युत्पत्याभिधेयत्वं पदार्थसामान्यलक्षणम् (लभ्यते)। ननु विभागादेव सप्तत्वे सिद्धे सप्त (पद)ग्रहणं व्यर्थमिति चेत्, न अधिकसङ्ख्याव्यवच्छेदार्थकत्वात्। नन्वतिरिक्तः पदार्थः प्रमितो वा न वा। नाऽद्यः, प्रमितस्य निषेधायोगात्। न द्वितीयः, प्रतियोगोप्रमितिं विना निषेधानुपपत्तेरिति चेत्, न। पदार्थत्वं द्रव्यादिसप्तान्यतमत्वव्याप्यमिति व्यवच्छेदार्थकत्वात् (सप्तग्रहण)। ननु सप्तान्यतमत्वं सप्तभिन्नभिन्नत्वमिति वक्तव्यम्। सप्तभिन्नस्याप्रसिद्धया कथं सप्तान्यतमत्वव्याप्तिनिश्चय इति चेत्, न। द्रव्यादिसप्तान्यतमत्वं नाम […]
- समाधिः Samadhi - यदात्ममात्रं निर्भासं स्तिमितोदधिवत् स्थितं । चैतन्यरूपवद्ध्यानं तत् समाधिरिहोच्यते ।।
- सामान्य धर्मः – Samanya Dharma - ॐ। ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चेति वर्णाश्चत्वारः । । २.१ । । तेषां आद्या द्विजातयस्त्रयः । । २.२ । । तेषां निषेकाद्यः श्मशानान्तो मन्त्रवत्क्रियासमूहः । । २.३ । । तेषां च धर्माः । । २.४ । । ब्राह्मणस्याध्यापनं । । २.५ । । क्षत्रियस्य शस्त्रनित्यता । । २.६ । । वैश्यस्य पशुपालनं । । २.७ । । शूद्रस्य द्विजातिशुश्रूषा । । […]
- सूर्य – Surya - तद्वा इदं बृहतीसहस्रं संपन्नं तस्य यानि व्यञ्जनानि तच्छरीरं यो घोषः स आत्मा य ऊष्माणः स प्राणः, इति । एतद्ध स्म वै तद्विद्वान्वसिष्ठो वसिष्ठो बभूव तत एतन्नामधेयं लेभे, इति । एतदु हैवेन्द्रो विश्वामित्राय प्रोवाचैतदु हैवेन्द्रो भरद्वाजाय प्रोवाच तस्मात्स तेन बन्धुना यज्ञेषु हूयते, इति । तद्वा इदं वृहतीसहस्रं संपन्नं तस्य वा एतस्य बृहतीसहस्रस्य संपन्नस्य षट्त्रिंशतमक्षराणां सहस्राणि भवन्ति तावन्ति शतसंवत्सरस्याह्नां सहस्राणि भवन्ति व्यञ्जनैरेव […]
- सृस्टि क्रम: -Sristi kram - अव्यक्तं महेश्वरः परोऽव्यक्तश्चतुर्व्यूहः सनातनः । अनन्तश्चाप्रमेयश्च नियन्ता विश्वतोमुखः ।। ४.५ अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् । प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिन्तकाः ।। ४.६ गन्धवर्णरसैर्हीनं शब्दस्पर्शविवर्जितम् । अजरं ध्रुवमक्षय्यं नित्यं स्वात्मन्यवस्थितम् ।। ४.७ जगद्योनिर्महाभूतं परं ब्रह्म सनातनम् । विग्रहः सर्वभूतानामात्मनाऽधिष्ठितं महत् ।। ४.८ अनाद्यन्तमजं सूक्ष्मं त्रिगुणं प्रभवाप्ययम् । असांप्रतमविज्ञेयं ब्रह्माग्रे समवर्त्तत ।। ४.९ गुणसाम्ये तदा तस्मिन् पुरुषे चात्मनि स्थिते । प्राकृतः प्रलयो ज्ञेयो यावद् विश्वसमुद्भवः […]
- हरि – Hari - 3.15 अनुवाक १५ हरि हरन्तमनुयन्ति देवाः । विश्वस्येशानं वृषभं मतीनाम् । ब्रह्म सरूपमनु मेद्मागात् । अयनं मा विवधीर्विक्रमस्व, इति । मा छिदो मृत्यो मा वधीः । मा मे बलं विवृहो मा प्रमोषीः । प्रजां मा मे रीरिष आयुरुग्र । नृचक्षसं त्वा हविषा विधेम, इति । सद्यश्चकमानाय । प्रवेपानाय मृत्यवे (१) । प्रास्मा आशा अशृण्वन् । कामेनाजनयन्पुनः, इति । कामेन मे काम […]
- हरीतकी- Haritaki - रसैः पञ्चभिः संयुक्ता रसेनैकेन वर्जिता कषायाम्ला च कटुका तिक्ता स्वादुरसा स्मृता । लवणेन वर्जिता च शृणु तस्याः पृथक्पृथक्।। ६ त्वचाश्रितञ्च कटुकं मेदस्तस्याः कषायकम् मेदोऽन्तरे तथा चाम्लं मधुरं चास्थिसंश्रितम्।। ७ तिक्तञ्चान्तरे तावत् तु रसैः पञ्चभिः संयुता आम्लत्वान्मारुतं हन्ति पित्तं मधुरतिक्ततः कफं कटुकषायत्वात्त्रिदोषघ्नी हरीतकी।। ८ हरीतकी देहभृतां हिता स्यान्मातेव चैषा हितकारिणी च । वरं कदाचित्कुपितापि माता न कुप्यते चाचरितापि पथ्या ।।९ हारीतसंहिता […]
- Gist of Bhagabat Gita गीतासारः [Gita Sarah from Agni Puranm] - यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते-कामत्यागादात्मनिष्ठः स्थिरप्रज्ञस्तदोच्यते । या निशा सर्वभूतानां तस्यां जागर्ति संयमी-ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन । ब्रह्मण्याधाय कर्माणि सङ्गन्त्यक्त्वा करोति यः-चतुर्विधा भजन्ते मां ज्ञानी चैकत्वमास्थितः । अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते....

Ordinary Sanskrit English Dictionary
Home › Forums › Advocatetanmoy Sanskrit Dictionary
Tagged: Dictionary, Sanskrit Devanagari
© Advocatetanmoy Law Library
© Advocatetanmoy Law Library