Skip to content

Advocatetanmoy Law Library

Research & Library Database

Yuddha Gita (1st Vol): The First Question of Human Civilization

Search

  • Genesis-1 (Bereshit-1) — Torah Reading: Bereshit Bara Elohim – The Creation of the World
  • An Introduction to the Rashtriya Swayamsevak Sangh
  • Swami Pranabananda and the Making of Shyama Prasad Mukherjee’s Early Political Outlook
  • 18th Lok Sabha Election 2024 in West Bengal: Party Position and Elected Members
  • Sarvarthapedia: The Knowledge Universe of Civilization
  • Dakshineswar Bhabatarini Kali: Three Kali Idols, Rani Rashmoni, and Temple History
  • Political Evolution of Bengal (1300–2000): A 700-Year History of State, Society and Power
  • Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System
  • West Bengal Govt Budget Statement In Bengali (2026-2027) by Swapan Dasgupta
  • Encyclopedia of Physical Measurement (3-Volume)
Primary Menu
  • News
    • Editorial
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • JudgmentSupreme Court
  • Podcast
  • Legal Brief
    • Legal Eagal
  • HLJLaw Digests
    • Supreme Court Case Notes
    • Daily Digest
  • SarvarthapediaKnowledgebase
    • Sarvarthapedia (Twelve Core Areas): Macro Structure
    • Systemic-and-systematic
    • Volume One
    • Volume Two
    • Volume Three
    • Volume Four
    • Volume Five
    • Volume Six
  • Subjects
    • Knowledge Graph
    • Glossary
  • Indian Law
  • EncyclopediaCollection
Home » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » Vedic Sanskrit Culture » Brahma Sutram Anu Bhashyam
  • Vedic Sanskrit Culture

Brahma Sutram Anu Bhashyam

advtanmoy 02/05/2019 1 minute read

© Advocatetanmoy Law Library

  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on Telegram (Opens in new window) Telegram

॥ सूत्रप्रस्थानम् ॥
॥ अनुव्याख्यानम् ॥

नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः ।
अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ १,१.१ ॥

तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव ।
विशेषतो मे परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव ॥ १,१.२ ॥
प्रादुर्भूतो हरिर्व्यासो विरिञ्चभवपूर्वकैः ।
अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम् ॥ १,१.३ ॥
गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः ।
यतस्तदुदितं मानमजादिभ्यस्तदर्थतः ॥ १,१.४ ॥
वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता ।
आप्तवाक्यतया तेन श्रुतिमूलतया तथा ॥ १,१.५ ॥
युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत् ।
दृश्यते ब्रह्मसूत्राणामेकधान्यत्र सर्वशः ॥ १,१.६ ॥
अतो नैतादृशं किञ्चित्प्रमाणतममिष्यते ।
स्वयं कृतापि तद्वयाख्या क्रियते स्पष्टतार्थतः ॥ १,१.७ ॥
तत्र ताराथमूलत्वं सर्वशशस्त्रस्य चेष्यते ।
सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेऽखिलैः ॥ १,१.८ ॥
ओतत्ववाची ह्योङ्कारो वक्तयसौ तद्गुणोतताम् ।
स एव ब्रह्मशब्दार्थो नारायणपदोदितः ॥ १,१.९ ॥
स एव भर्गशब्दार्थो व्याहृतीनां च भूमतः ।
भावनाच्चैव सुत्वाच्च सोऽयं पुरुष इत्यपि ॥ १,१.१० ॥
स एव सर्ववेदार्थो जिज्ञास्योऽयं विधीयते ।
ज्ञानी प्रियतमोऽतो मे तं विद्वानेव चामृतः ॥ १,१.११ ॥
वृणुते यं तेन लभ्य इत्याद्युक्तिबलेन हि ।
जिज्ञासोत्थज्ञानजात्तत्प्रसादादेव मुच्यते ॥ १,१.१२ ॥
द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ॥ १,१.१३ ॥
नर्ते त्वत्क्रियते किञ्चिदित्यादेर्न हरिं विना ।
ज्ञानस्वभावतोऽपि स्यान्मुक्तिः कस्यापि हि क्वचित् ॥ १,१.१४ ॥
अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः ।
आनन्ददश्च मुक्तानां स एवैको जनार्दनः ॥ १,१.१५ ॥
इत्युक्तेर्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते ।
मिथ्यात्वमपि बन्धस्य न प्रत्यक्षविरोधतः ॥ १,१.१६ ॥
मिथ्यात्वं यदि दुःखादेस्तद्वाक्याग्रतो भवेत् ।
मिथ्यायाः साधकत्वं च न सिद्धं प्रतिवादिनः ॥ १,१.१७ ॥
तच्च मिथ्याप्रमाणेन सता वा साध्यते त्वया ।
सता चेद्द्वैतसिद्धिः स्यान्न सिद्धं चान्यसाधनम् ॥ १,१.१८ ॥
साधकत्वं सतस्तेन साक्षिणा सिद्धिमिच्छता ।
स्वीकृतं ह्यविशेषस्य साध्या साधकता पुनः ॥ १,१.१९ ॥
तच्चाविशेषमानेन साध्यमित्यनवस्थितिः ।
अनङ्गीकुर्वतां विश्वसत्यतां तन्न वादिता ॥ १,१.२० ॥
तस्माद्व्यवहृतिः सर्वा सत्येत्येव व्यवस्थिता ।
व्यावहारिकमेतस्मात्सत्यमित्येव चागतम् ॥ १,१.२१ ॥
व्यवहारसतश्चापि साधकत्वं तु पूर्ववत् ।
सत्त्रैविध्यं च मानेन सिद्धयेत्केनेति पृच्छ्यते ॥ १,१.२२ ॥
तस्याप्युक्तप्रकारेण नैव सिद्धिः कथञ्चन ।
वैलक्षण्यं सदसतोरप्येतेन निषिध्यते ॥ १,१.२३ ॥
वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः ।
असतश्चापि विश्वस्य तेनानिष्यं कथं भवेत् ॥ १,१.२४ ॥
यद्युच्यतेऽपि सर्वस्मादिति सद्भेदसंस्थितिः ।
सन्मात्रत्वं ब्रह्मणोऽपि तस्मात्तदपि नो भवेत् ॥ १,१.२५ ॥
ज्ञानबाध्यत्वमपि तु न सिद्धं प्रतिवादिनः ।
विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम् ॥ १,१.२६ ॥
असद्विलक्षणज्ञप्त्यै ज्ञातव्यमसदेव हि ।
तस्मादसत्प्रतीतिश्च कथं तेन निवार्यते ॥ १,१.२७ ॥
अन्यथात्वमसत्तस्माद्भ्रान्तावेव प्रतीयते ।
सत्त्वस्यासत एवं हि स्वीकार्यैव प्रतीतता ॥ १,१.२८ ॥
तस्यानिर्वचनीयत्वे स्यादेव ह्यनवस्थितिः ।
निर्विशेषे स्वयं भाते किमज्ञानावृतं भवेतः ॥ १,१.२९ ॥
मिथ्याविशेषोऽप्यज्ञानसिद्धिमेव ह्यपेक्षते ।
नचाअवरणमज्ञानमसत्ये तेन चेष्यते ॥ १,१.३० ॥
अप्रकाशस्वरूपत्वाज्जडेऽज्ञानं न मन्यते ।
अज्ञानाभावतः शास्त्रं सर्वं व्यर्थीभविष्यति ॥ १,१.३१ ॥
अज्ञानस्य च मिथ्यात्वमज्ञानादिति कल्पने ।
अनवस्थितिस्तथाच स्यादन्योन्याश्रयताथवा ॥ १,१.३२ ॥
स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद्भवेत् ।
अविद्यादुर्घटत्वं चेत्स्यादात्मापि हि तादृशः ॥ १,१.३३ ॥
अतोऽधिकारिविषयफलयोगादिवर्जितम् ।
अनन्तदोषदुष्टं च हेयं मायामतं शुभैः ॥ १,१.३४ ॥
सत्यत्वात्तेन दुःखादेः प्रत्यक्षेण विरोधतः ।
न ब्रह्मतां वदेद्वेदो जीवस्य हि कथञ्चन ॥ १,१.३५ ॥
यजमानप्रस्तरत्वं यथा नार्थः श्रुतेर्भवेत् ।
ब्रह्मत्वमपि जीवस्य प्रत्यक्षस्याविशेषतः ॥ १,१.३६ ॥
सार्वज्ञ्यादिगुणं जीवाद्भिन्नं ज्ञापयति श्रुतिः ।
ईशं तामुपजीव्यैव वर्तते ह्यैक्यवादिनी ॥ १,१.३७ ॥
उपजीव्यविरोधेन नास्यास्तन्मानता भवेत् ।
स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्त्यैक्ययोरपि ॥ १,१.३८ ॥
सादृश्ये चैक्यवाक्सम्यक्सावकाशा यथेष्यतः ।
अवकाशोज्खिता भेदश्रुतिर्नातिबला कथम् ॥ १,१.३९ ॥
अज्ञानासम्भवादेव मिथ्याभेदो निराकृतः ।
अतो यथार्थबन्धस्य विना विष्णुप्रसादतः ॥ १,१.४० ॥
अनिवृत्तेस्तदर्थं हि जिज्ञासात्र विधीयते ।
यथा दृष्टया प्रसन्नः सन् राजा बन्धापनोदकृत् ॥ १,१.४१ ॥
एवं दृष्टः स भगवान् कुर्याद्बन्धविभेदनम् ।
कार्यता च न काचित्स्यादिष्टसाधनतां विना ॥ १,१.४२ ॥
कार्यं न हि क्रियाव्याप्यं निषिद्धस्य समत्वतः ।
न भविष्यत्क्रिया कार्यं स्रक्ष्यतीश इति ह्यपि ॥ १,१.४३ ॥
कार्यं स्यान्नैव चाकर्तुमशक्यं कार्यमिष्यते ।
साम्यादेव निषिद्धस्य तदिष्टं साधनं तथा ॥ १,१.४४ ॥
कार्यं साधनमिष्टस्य भगवानिष्टदेवता ।
मुख्येष्यं वा सुमनसां प्रेयस्तदिति च श्रुतिः ॥ १,१.४५ ॥
प्राणबुद्धिमनःखात्मदेहापत्यधनादयः ।
यत्सम्पर्कात्प्रिया आसंस्ततः को न्वपरः प्रियः ॥ १,१.४६ ॥
इत्यादिवाक्यैराकाङ्क्षासन्निधिर्योग्यता यतः ।
अस्मिन्नेव समस्तस्येतीष्ये व्युत्पत्तिरिष्यते ॥ १,१.४७ ॥
अत्त्यपूपांस्तव भ्रातेत्यादावावापतोऽपि च ।
उद्वापाद्वर्तमानत्वादाकाङ्क्षादिबलादपि ॥ १,१.४८ ॥
बालो व्युत्पत्तिमप्येति नानयेत्यादिवाक्यतः ।
आनीयमानदृष्टयैव व्युत्पत्तेः सम्भवे सति ॥ १,१.४९ ॥
एष्यदानयनायायं कुत एव प्रतीक्षते ।
व्युत्पन्नो वर्तमाने तु क्रियाशब्दे भविष्यति ॥ १,१.५० ॥
पुनर्दृष्ट्यैव शब्दश्रुत्पश्चात्व्युत्पत्तिमेष्यति ।
वर्तमानमतीतं च भविष्यदिति च क्रमात् ॥ १,१.५१ ॥
आकाङ्क्षादियुतं यस्माद्विधेर्व्युत्पादनं कुतः ।
दृष्ट्या ज्ञातपदार्थस्य पदाकाङ्क्षा भविष्यति ॥ १,१.५२ ॥
व्युत्पत्तिः प्रथमा तस्माद्वतर्माने गते ततः ।
इष्टमाकाङ्क्षते सर्वो न प्रवृत्तिमपेक्षते ॥ १,१.५३ ॥
अपरोक्षं परोक्षं वा ज्ञानमिष्टस्य साधनम् ।
क्वापि चेष्या तदर्था स्यादत्तिर्हि रसवित्तये ॥ १,१.५४ ॥
वाक्यार्थज्ञानमात्रेण क्वचिदिष्टं भवेदपि ।
न च स्रुकस्रुववह्नयादावतात्पर्यं श्रुतेर्भवेत् ॥ १,१.५५ ॥
यत्किञ्चित्करणरस्यापि यज्ञतैवान्यथा भवेत् ।
तस्मादुपासनार्थं च स्वार्थे तात्पर्यवद्भवेत् ॥ १,१.५६ ॥
इति शब्दोन्नयेऽग्नावित्युन्नीते स्मृतिर्भवेत् ।
इतिशब्दव्यपेतानि ह्यपि सन्ति वचांस्यलम् ॥ १,१.५७ ॥
आत्मानमेवेत्यादीनि योगेऽग्नावपि तत्समम् ।
एकवाक्यत्वयोगे तु वेदस्यापि ह्यशेषतः ॥ १,१.५८ ॥
वाक्यभेदो न युक्तः स्याद्योगश्च स्यान्महाफले ।
इति ब्रूयादिति वचो गतमग्नौ समीपगम् ॥ १,१.५९ ॥
कल्पनागौरवं चेत्स्यात्पृथक्तात्पर्यसम्भवे ।
कल्पनागौरवादेव पदार्था न स्युरेव हि ॥ १,१.६० ॥
प्रमाणावगतत्वं चेत्तात्पर्याणशं तथैव हि ।
तस्मात्पदार्थे वाक्यार्थे तात्पर्यमुभयत्र च ॥ १,१.६१ ॥
पृथगेव च वाक्यत्वं पृथगन्वयतो भवेत् ।
अवान्तरत्वाद्वाक्यानां वाक्यभेदो न दूषणम् ॥ १,१.६२ ॥
अङ्गीकृतत्वादपि तैः पदार्थानां पृथक्पृथक् ।
क्रियापदेनान्वयस्य वाक्यभेदाद्धि दूषणम् ॥ १,१.६३ ॥
प्रत्यक्षादिविरोधेऽतो गौणार्थस्यापि सम्भवात् ।
अतात्पर्यं पदार्थेऽपि न कल्प्यमविरोधतः ॥ १,१.६४ ॥
अतो ज्ञानफलान्येव कर्माणि ज्ञानमेव हि ।
मुख्यप्रसाददं विष्णोर्जिज्ञासायाश्च तद्भवेत् ॥ १,१.६५ ॥
कर्तव्या तेन जिज्ञासा श्रुतिप्रामाण्ययोगतः ।
प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि ॥ १,१.६६ ॥
अनवस्थान्यथा हि स्यादप्रामाण्यं तथान्यतः ।
मिथ्याज्ञप्तिप्रलम्भादेस्तेन वेदविरोधि यत् ॥ १,१.६७ ॥
न मानमपि वेदानामङ्गीकार्या हि नित्यता ।
न हि धर्मादिसिद्धिः स्यान्नित्यवाक्यं विना क्वचित् ॥ १,१.६८ ॥
अविप्रलम्भस्तज्ज्ञानं तत्कृतत्वादयोऽपि च ।
कल्प्या गौरवदोषेण पुंवाक्यं ज्ञापकं न तत् ॥ १,१.६९ ॥
प्रत्यक्षः कस्यचिद्धर्मो वस्तुत्वादिति चोदिते ।
न बुद्धो धर्मदर्शी स्यात्पुंस्त्वादित्यनुमाहतिः ॥ १,१.७० ॥
अधर्मवादिनो वाक्यमप्रयोजनमेव हि ।
धर्माभावोऽपि नो तेन प्रत्यक्षावगतो भवेत् ॥ १,१.७१ ॥
अतः संशयसम्पत्तौ वाक्यं प्रत्यक्षवत्प्रमा ।
शक्तिश्चैवान्विते स्वार्थे शब्दानामनुभूयते ॥ १,१.७२ ॥
अतोऽन्विताभिधायित्वं गौरवं कल्पनेऽन्यथा ।
नचाशक्याभिधायित्वं प्रवृत्तिश्च द्विधान्यथा ॥ १,१.७३ ॥
एतत्सर्वं तर्कशास्त्रे ब्रह्मतर्के हि विस्तरात् ।
उक्तं विद्यापृथक्तवात्तु सङ्क्षेपेणात्र सूचितम् ॥ १,१.७४ ॥
प्रमाणन्यायसच्छिक्षा क्रियते तर्कशास्त्रतः ।
मानन्यायैस्तु तत्सिद्धैमीमांसा मेयशोधनम् ॥ १,१.७५ ॥
ब्रह्मतर्कं च भगवान् स एव कृतवान् प्रभुः ।
पञ्चाशत्कोटिविस्तारान्नारायणतनौ कृतात् ॥ १,१.७६ ॥
उद्धृत्य पञ्चसाहस्रं कृतवान् बादरायणः ।
अतस्तदर्थं सङ्क्षेपादत इत्यभ्यसूचयत् ॥ १,१.७७ ॥
यतोऽनुभवतः सर्वं सिद्धमेतदतोऽपि च ।
देवैश्च दुर्गमार्थेषु व्यापृतो नातिविस्तृतिम् ॥ १,१.७८ ॥
चकारैता ह्यवज्ञेया युक्तयः प्रतिपक्षगाः ।
प्रत्यक्षेक्षाक्षमः पक्षं कमेवात्राभिवीक्षते ॥ १,१.७९ ॥
तस्मादक्षमपक्षत्वान्मोक्षशास्त्रेऽभ्युपेक्षितः ।
स्वयं भगवता विष्णुर्ब्रह्मेत्येतत्पुरोदितम् ॥ १,१.८० ॥
स विष्णुराह हीयन्ते देवशास्त्रस्य तेन हि ।
आद्यन्तं देवशास्त्रस्य स्वयं भगवता कृतम् ॥ १,१.८१ ॥
मध्यं तदाज्ञया पैलशेषाभ्यां कृतमञ्जसा ।
अतस्तत्रैव विष्णुत्वसिद्धेर्ब्रह्मेत्यसूचयत् ॥ १,१.८२ ॥
दोषारच्छिद्रशब्दानां पर्यायत्वं यतस्ततः ।
गुणा नारा इति ज्ञेयस्तद्वान्नारायणः स्मृतः ॥ १,१.८३ ॥
ब्रह्मशब्दोऽपि हि गुणपूर्तिमेव वदत्ययम् ।
अतो नारायणस्यैव जिज्ञासात्र विधीयते ॥ १,१.८४ ॥
सिद्धत्वाद्ब्रह्मशब्दस्य विष्णौ स्पष्टतया श्रुतौ ।
अम्भस्यपार इत्युक्तो नारायणपदेरितः ॥ १,१.८५ ॥
आपो नारा इति ह्याह स एवाप्स्वन्तरीरितः ।
कामतो विधिरुद्रादिपददातृया स्वयं श्रिया ॥ १,१.८६ ॥
योनित्वेनात्मनो विष्णोस्तिष्ठन्तीत्युदितस्य च ।
यस्मिन् देवा अधीत्युक्तवा समुद्रं स्थानमेव च ॥ १,१.८७ ॥
नाम चाक्षरमित्येव ऋच इत्युदितं तु यत् ।
यतः प्रसूतेत्युक्तवा च तदेव ब्रह्म चाब्रवीत् ॥ १,१.८८ ॥
अन्तःसमुद्रगं विश्वप्रसूतेः कारणठ तु यत् ।
सूक्तोपनिषदाद्युक्तं जन्माद्यस्येति लक्ष्यते ॥ १,१.८९ ॥
सृष्टिः स्थितिश्च संहारो नियतिर्ज्ञानमावृतिः ।
बन्धमोक्षावपि ह्यासु श्रुतिषूक्ता हरेः सदा ॥ १,१.९० ॥
यं नामानि विशन्त्यद्धा यो देवानामिति ह्यपि ।
श्रुतेर्नामानि सर्वाणि विष्णोरेव यतस्ततः ॥ १,१.९१ ॥
अतो न मुख्यतो नाम तदन्यस्य हि कस्यचित् ।
गुणाः श्रुता इति ह्यस्मान्न दोषोऽर्थः श्रुतेर्भवेत् ॥ १,१.९२ ॥
प्रीत्या मोक्षपरत्वाच्च तात्पर्यं नैव दूषणे ।
सर्वेषामपि वाक्यानां महातात्पर्यमत्र हि ॥ १,१.९३ ॥
तद्विरोधे न मानत्वं फलं मुक्तिर्हि वाक्यतः ।
न पुराणादिमानत्वं विरुद्धार्थे श्रुतेर्भवेत् ॥ १,१.९४ ॥
दर्शनान्तरमूलत्वान्मोहार्थं चाज्ञया हरेः ।
न सर्वनामतान्येषां श्रुतावुक्ता हि कुत्रचित् ॥ १,१.९५ ॥
अदोषवचनाच्चैव नियमेन हरेः श्रुतौ ।
अज्ञानं पारतन्त्र्यं च प्रळयेऽभाव एव च ॥ १,१.९६ ॥
अशक्तिश्चोदितान्येषां सर्वेषामपि च श्रुतौ ।
जन्माद्यस्येति तेनैतद्विष्णोरेव स्वलक्षणम् ॥ १,१.९७ ॥
अस्योद्भवादिहेतुत्वं साक्षादेव स्वलक्षणम् ।
कृष्णद्धयानच्छलेनैव स्वयं भागवतेऽब्रवीत् ॥ १,१.९८ ॥
अतो जीवैक्यमपि स निराचक्रे जगद्गुरुः ।
न हि जन्मादिहेतुत्वं जीवस्य जगतो भवेत् ॥ १,१.९९ ॥
हिताक्रियादिदोषं च वक्ष्यत्येव स्वयं प्रभुः ।
निर्गुणत्वं च तेनैव निषिद्धं प्रभुणा स्वयम् ॥ १,१.१०० ॥
भेदेनैव तु मुख्यार्थसम्भवे लक्षणा कुतः ।
कथं नित्यगुणस्यास्य स्यादैक्यं गुणहानतः ॥ १,१.१०१ ॥
सदैव गुणवत्त्वेऽस्य भिन्नं स्यान्निर्गुणं सदा ।
न च मिथ्यागुणत्वं स्यादनिर्वाच्यस्य दूषणात् ॥ १,१.१०२ ॥
निर्गुणत्वं तदा च स्यादासुरत्वं नचान्यथा ।
लक्ष्यलक्षणयोर्भेदोऽभेदो वा यदि वोभयम् ॥ १,१.१०३ ॥
इति पृष्टे तदैक्यस्य गतिरेव न विद्यते ।
ऐक्याभेदे न शास्त्रेण ज्ञेयं तत्स्वप्रकाशतः ॥ १,१.१०४ ॥
भेदे मिथ्यात्वतो भेदसत्यत्वं स्याद्बलादपि ।
भेदाभेदौ यदि तदा स्यादेव ह्यनवस्थितिः ॥ १,१.१०५ ॥
स्वनिर्वाहकता चेत्स्याद्बाह्यं बाहकमित्यपि ।
पर्यायो भेदवान् वा स्यादनवस्थोभयत्र च ॥ १,१.१०६ ॥
सत्यज्ञानादिकेऽप्येव न व्यावृत्त्या प्रयोजनम् ।
व्यावृत्तस्याविशेषत्वे तदखण्डं च खण्डितम् ।
निर्विशेषत्वमेतेन मूकोऽहमितिवद्भवेत् ॥ १,१.१०७ ॥
अभिन्नेऽपि विशेषोऽयं बलादापतति ह्यतः ।
विशेषतद्वतोश्चैव स्वनिर्वाहकता भवेत् ॥ १,१.१०८ ॥
भेदहीने त्वपर्यायशब्दान्तरनियामकः ।
विशेषो नाम कथितः सोऽस्ति वस्तुष्वशेषतः ॥ १,१.१०९ ॥
विशेषास्तेऽप्यनन्ताश्च परस्परविशेषिणः ।
स्वनिर्वाहकतायुक्ताः सन्ति वस्तुष्वशेषतः ॥ १,१.११० ॥
अतोऽनन्तगुणं ब्रह्म निर्भेदमपि भण्यते ।
एवं धर्मानिति श्रुत्या तदभेदोऽप्युदीर्यते ॥ १,१.१११ ॥
शैवाद्यागमसम्प्राप्तदृष्टगेन फलेन तु ।
तद्वाक्योपमयान्यच्च प्रमाणत्वेऽनुमीयते ॥ १,१.११२ ॥
ईशवाक्यत्वत इति चेत्तद्गव्यभिचारिणा ।
अप्रामाण्यानुमा च स्यान्न पृथक्चानुमेश्वरे ॥ १,१.११३ ॥
पुंस्त्वहेतुबलादेव पूर्वोक्तेनैव वर्त्मना ।
शास्त्रयोनित्वमेतेन कारणस्य बलाद्भवेत् ॥ १,१.११४ ॥
नावेदविन्न तर्केण मतिरित्यादिवाक्यतः ।
तर्को ज्ञापयितुं शक्तो नेशितारं कथञ्चन ॥ १,१.११५ ॥
वनकृत्त्वादिरूपेण पक्षभूतस्य चेशितुः ।
किञ्चिज्ज्ञानं हि पुंस्त्वेन शक्यं साधयितुं सुखम् ॥ १,१.११६ ॥
वृक्षकृन्नाखिलं वृक्षं वेत्ति पुंस्त्वाद्धि चैत्रवत् ।
इत्याद्यनुमया स्पर्धि नानुमानं परेशितुः ।
शक्तं विज्ञापने चातिप्रसङ्गोऽनुमयेदृशा ॥ १,१.११७ ॥
वस्तुत्वात्तुरगः शृङ्गी पुष्पवत्खं सुतैर्युता ।
चित्रिणी च रसः षष्ठो रसत्वात्सोत्तरो भवेत् ।
उपक्रमादिलिङ्गेभ्यो नान्यास्यादनुमा ततः ॥ १,१.११८ ॥
त एवान्वयनामानस्तैः सम्यक्प्रविचारिते ।
मुख्यार्थो भगवान् विष्णुः सर्वशास्त्रस्य नापरः ॥ १,१.११९ ॥
ईक्षणीयत्वतो विष्णुर्वाच्य एव नचान्यथा ।
लक्ष्यत्वं क्वापि दृष्टं हि किं तदित्यनवस्थितिः ॥ १,१.१२० ॥
माधुर्यादिविशेषाश्च तच्छब्दैरुदिताः सदा ।
वाक्यार्थोऽपि हि वाक्यार्थशब्देनैवोदितो भवेत् ॥ १,१.१२१ ॥
नावाच्यं तेन किञ्चित्स्याद्यत इत्यादिकैर्वदन् ।
अवाच्यत्वं कथं ब्रूयान्मूकोऽहमितिवत्सुधीः ॥ १,१.१२२ ॥
येन लक्ष्यमिति प्रोक्तं लक्ष्यशब्देन सोऽवदत् ।
एकस्यापि हि शब्दस्य गौणार्थस्वीकृतौ सताम् ॥ १,१.१२३ ॥
महती जायते लज्जा यत्र तत्राखिला रवाः ।
अमुख्यार्था इति वदन् यस्तन्मार्गानुवर्तिनाम् ।
कथं न जायते लज्जा वक्तुं शाब्दत्वमात्मनः ॥ १,१.१२४ ॥
आत्मब्रह्मादयः शब्दाः साक्षात्पूर्णाभिधायिनः ।
जन्मादिकारणं ब्रह्म लक्षितं च यदा तदा ॥ १,१.१२५ ॥
वन्ध्यापुत्रोपमं मायाशबलं वाच्यमित्यपि ।
कल्पयित्वा विना मानं लक्ष्यं शुद्धं वदन् पदैः ॥ १,१.१२६ ॥
आत्मशब्दोदितस्यैव ज्ञानं मुक्तावसाधनम् ।
आह श्रुतपरित्यागः स्याच्चास्याश्रुतकल्पनम् ॥ १,१.१२७ ॥
स्यात्सर्वत्र च यत्रैकमपि लोको जुगुप्सते ।
नियमेनोभयं स्याद्धि यस्य स्वपरयोर्मते ॥ १,१.१२८ ॥
अलङ्कृतः सदैवायं दुर्घटैरेव भूषणैः ।
अन्धन्तमो नित्युदुःखं तस्य स्याद्वसनद्वयम् ॥ १,१.१२९ ॥
अनन्दा नाम ते लोका अन्धेन तमसाऽवृताः ।
तांस्ते प्रेत्याभिगच्छन्त्यविद्वांसो बुधो जनाः ॥ १,१.१३० ॥
असुर्या नाम ते लोका अन्धेन तमसाऽवृताः ।
तांस्ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाः ॥ १,१.१३१ ॥
इत्यादिश्रुतयो मानं शतशोऽत्र समन्ततः ।
हेयत्वावचनाच्चैव नात्मा गौणः श्रुतौ श्रुतः ॥ १,१.१३२ ॥
तमेवैकं जानथान्या वाचो मुञ्चथ चेति ह ।
उक्त आत्मा कथं गौणो हेयपक्षे ह्यसौ श्रुतः ॥ १,१.१३३ ॥
परिवारतया ग्राह्या अपि हेयाः प्रधानतः ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ १,१.१३४ ॥
इति स्वस्यैव पूर्णस्य पूर्णेऽप्यय उदाहृतः ।
कथं मायाव्यवच्छिन्नः पूर्णो मुख्यतया भवेत् ॥ १,१.१३५ ॥
पदं च निर्गुण इति कथं गौणं वदिष्यति ।
गुणाभावोपलक्ष्यं चेत्पदं तदपि वाचकम् ॥ १,१.१३६ ॥
अतोऽनवस्थितिमुखसर्वदोषमहास्पदम् ।
कथमेतन्मतं सद्भिराद्रियेत विचक्षणैः ॥ १,१.१३७ ॥
न च साङ्खयनिराकृत्यै सूत्राण्येतान्यचीकॢपत् ।
भगवान्नह्यशब्दत्वं प्रधानेऽङ्गीकरोत्यसौ ॥ १,१.१३८ ॥
समन्वये प्रतिज्ञाते शब्दगोचरतैव हि ।
प्रथमप्रतिपाद्या स्यात्तदभावे कुतोऽन्वयः ॥ १,१.१३९ ॥
कथं च लक्षणावादी ब्रूयाद्ब्रह्मसमन्वयम् ।
योऽसौ शब्दस्य मुख्यार्थस्तत्रैव स्यात्समन्वयः ॥ १,१.१४० ॥
जन्मादिकारणे साक्षादाह देवः समन्वयम् ।
उक्तं तदेव जिज्ञास्यं क्वावकाशोऽत्र निर्गुणे ॥ १,१.१४१ ॥
कथञ्चासम्भवस्तस्य मुख्यार्थस्य निराकृतौ ।
मानेन केन विज्ञेयमवाच्याज्ञेयनिर्गुणम् ॥ १,१.१४२ ॥
अमेयं चेन्न शास्त्रस्य तत्र वृत्तिः कथञ्चन ।
तस्माच्छास्त्रेण जिज्ञास्यमस्मदीयं गुणार्णवम् ॥ १,१.१४३ ॥
वासुदेवाख्यमद्वन्द्वं परं ब्रह्माखिलोत्तमम् ।
विज्ञेयवाच्यलक्ष्यत्वपूर्वाशेषविशेषतः ॥ १,१.१४४ ॥
निर्गतं मनसो वाचो यदि तत्स्यादगोचरम् ।
अस्तु तन्मा वदेद्वादी नचास्मच्छास्त्रगं तु तत् ॥ १,१.१४५ ॥
अवाच्यं वाच्यमित्युक्तवा किमित्युन्मत्तवन्मृषा ।
अस्मच्छास्त्रस्य चौर्याय यतते स्वोक्तिदूषकः ॥ १,१.१४६ ॥
जन्मादिकारणं यत्तत्साक्षान्नारायणाभिधम् ।
वदन्तु श्रुतयो ब्रह्म शास्त्रं चैतत्तदर्थतः ॥ १,१.१४७ ॥
स्वप्रकाशत्वमपि तु यैर्ज्ञानस्य निवारितम् ।
कथं सर्वज्ञता तस्य स्वज्ञानाधिगमं विना ॥ १,१.१४८॥
प्रवृत्तमस्त्ववाच्यं ते मैव ब्रूयाः कथञ्चन ।
सर्वशब्दैरवाच्यं तदुक्तवा तद्विषयं पुनः ॥ १,१.१४९ ॥
वयं त्वां श्रुतियुक्तिभ्यां बद्ध्वास्मच्छास्त्रमञ्जसा ।
विचारयामः श्रुतिभिर्युक्तिभिश्चैव सादरम् ॥ १,१.१५० ॥
अद्भुतत्वादवाच्यं तदतर्क्याज्ञेयमेव च ।
अनन्तगुणपूर्णत्वादित्यूदे पैङ्गिनां श्रुतिः ।
अवाच्यमिति लोकेऽपि वक्तयाश्चार्यतमं भुवि ॥ १,१.१५१ ॥
एवं शास्त्रावगम्यत्वे विभागेन समन्वयम् ।
आनन्दमय इत्यादिनाध्यायेन वदत्यजः ॥ १,१.१५२ ॥
तत्रान्यत्र प्रसिद्धानां विष्णावेव समन्वयम् ।
शब्दानां प्रथमे पादे गुणिसामान्यवाचिनाम् ॥ १,१.१५३ ॥
गुणवाचिनां च प्रथममाह देवः समन्वयम् ।
समुद्रशायिनं सर्वप्रसूतिप्रसवं श्रुतिः ॥ १,१.१५४ ॥
तदेव ब्रह्म परममिति सावधृतिर्जगौ ।
यतोऽतो ब्रह्मशब्दस्य तत्रैव नियतत्वतः ॥ १,१.१५५ ॥
योऽन्नं ब्रह्मेत्यादिरूपादभ्यासात्तैत्तिरीयके ।
अन्यासु चैतद्रूपासु शाखास्वपि सहस्रशः ॥ १,१.१५६ ॥
आनन्दमय इत्याद्यैः शब्दैर्वाच्यो हरिः स्वयम् ।
उपलक्षणत्वं शब्दानामानन्दमयपूर्विणाम् ॥ १,१.१५७ ॥
सूत्रस्याल्पाक्षरत्वेन सर्वशाखाविनिर्णये ।
पुनश्च प्रापकाद्धेतोस्तत्राधिकरणान्तरम् ॥ १,१.१५८ ॥
सर्वे वेदा आमनन्ति यत्पदं त्विति हि श्रुतिः ।
आनन्दमयरूपे तु ब्रह्मणः पुच्छतोक्तितः ॥ १,१.१५९ ॥
समस्ताब्रह्मताप्राप्तेरानन्दमयनाम हि ।
ब्रह्मशब्दस्य चाभ्यासात्पञ्चरूपादिषु स्फुटम् ॥ १,१.१६० ॥
ब्रह्मतावयवेऽपि स्यात्तथावयविनि स्वतः ।
यथैव कृष्णकेशस्य कृष्णस्य ब्रह्मताखिला ॥ १,१.१६१ ॥
दर्शिता चैव पार्थाय निःसीमाः शक्तयोऽस्य हि ।
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ॥ १,१.१६२ ॥
विष्ण्वाख्यमुक्तमन्यत्र ह्यूर्ध्वरेतं च तत्प्रति ।
विरूपाक्षाख्यमवरं ब्रह्मोक्तं तद्व्रते स्थितम् ॥ १,१.१६३ ॥
समानाधिकृतत्वं चेदुत्तरं नीललोहितम् ।
कृष्णपिङ्गलरूपेण पुनरुक्तं भविष्यति ॥ १,१.१६४ ॥
ब्रह्माधिपतिरित्यत्र तापनीयश्रुतौ पुरः ।
स्वरितब्रह्मशब्दान्तं बहुव्रीहित्वमेष्यति ॥ १,१.१६५ ॥
स्वाहेन्द्रशत्रुवर्धस्व यद्बहुव्रीहितामगात् ।
महाव्याकरणे सूत्रमिति स्वरविनिर्णये ॥ १,१.१६६ ॥
पूर्वान्तस्वरिते पुंसोर्बहुव्रीहित्वमेष्यति ।
महाव्याकरणे सूत्रमिति स्वरविनिर्णये ॥ १,१.१६७ ॥
ऋतं सत्यं परं ब्रह्मेत्याद्युद्देश्यद्वितीयका ।
विभक्तिरूर्ध्वरेतादिः प्रथमा रुद्रगोचरा ॥ १,१.१६८ ॥
तस्माद्विष्णुं परं ब्रह्म प्रति रुद्रो व्रते स्थितः ।
ऊर्ध्वरेता इति ह्येव श्रुत्यर्थोऽवसितो भवेत् ॥ १,१.१६९ ॥
ऋतं सत्यं परं ब्रह्म प्रति विष्णुं सदाशिवः ।
ऊर्ध्वरेता ध्यायति ह शङ्करो नीललोहितः ॥ १,१.१७० ॥
इत्यर्थमेतमेवाह नीलग्रीवश्रुतिः परा ।
आर्थर्वणी परं ब्रह्म तस्मादेको हरिः श्रुतौ ॥ १,१.१७१ ॥
तदेवर्तमिति प्राह कथमेवान्यथा श्रुतिः ।
अवधारयन्ती तस्यैव ह्यृतत्वादिकमञ्जसा ॥ १,१.१७२ ॥
एको नारायण आसीन्न ब्रह्मा न च शङ्करः ।
वासुदेवोऽग्र एवासीन्न ब्रह्मा न च शङ्करः ॥ १,१.१७३ ॥
नेन्द्रसूर्यौ न च गुहो न सोमो न विनायकः ।
इत्यादिवाक्यतो विष्णोरुत्पत्तिरवतारगा ॥ १,१.१७४ ॥
मुख्यं ब्रह्म हरिस्तस्मात्प्रस्तावः परमित्यपि ।
मुख्यब्रह्मग्रहे युक्ते नामुख्यं युज्यते क्वचित् ॥ १,१.१७५ ॥
असम्भवे हि मुख्यस्य गौणार्थाङ्गीकृतिर्भवेत् ।
प्राचुर्यार्थाश्च मयटः सर्वेऽत्र प्रतिपादिताः ॥ १,१.१७६ ॥
भोग्यत्वमत्र चाद्यत्वमुपजीव्यतया हरेः ।
महाभोक्ता महाभोग्य इत्यर्थोऽन्नमये भवेत् ॥ १,१.१७७ ॥
महाप्राणो महाबोधो महाविज्ञानवानपि ।
विशेषसामान्यतया विज्ञानं मन इत्यपि ॥ १,१.१७८ ॥
एकस्य ज्ञानरूपस्य हरेरुक्तिर्विभागतः ।
अभेदेऽपि विशेषेणैवान्य इत्युदितो हरिः ॥ १,१.१७९ ॥
भेदशब्दा विशेषं तु हरावन्यत्र भिन्नत्वात् ।
ब्रूयुर्हरेर्जीवजडैरपि भेदं हि मुख्यतः ॥ १,१.१८० ॥
ब्रह्मतर्कवचोऽप्येवमत एकः स पञ्चधा ।
उक्तोऽन्नमय इत्यादि भृगोश्चैतद्वदिष्यति ॥ १,१.१८१ ॥
प्राप्यत्वेन मयट्प्रोक्तेर्न तत्राप्यन्यदुच्यते ।
प्रचुरान्नादिरेवातो ह्यन्नमन्नमयेत्यपि ॥ १,१.१८२ ॥
उच्यते ह्यविशेषेण नान्यत्किञ्चिदिहोच्यते ।
महानन्दत्व एवास्य हेतुः कोऽन्यादिति स्फुटम् ॥ १,१.१८३ ॥
उक्तः श्रुत्यन्तरे यस्मात्सुखं लब्ध्वा करोत्ययम् ।
करोति नासुखी भूमा सुखं नाल्पे सुखं भवेत् ॥ १,१.१८४ ॥
इत्युक्तं यत्प्रवृत्तिश्च नृत्तगानादिका सुखात् ।
दुःखाद्रोदादिका चैव सर्वकर्तृत्वतोऽस्य च ॥ १,१.१८५ ॥
सर्वशक्तेर्न दुःखं स्यादतः केवललीलया ।
प्रवर्तको न चेदेष प्राण्यादन्याच्च कः पुमान् ॥ १,१.१८६ ॥
ब्रह्मवित्परमाप्नोतीति यत्प्रथमसूचितम् ।
तदेव मन्त्रवर्णेन सत्यं ज्ञानमनन्तवत् ॥ १,१.१८७ ॥
लक्षितं तत्र सत्यत्वं सृष्टयान्नप्राणयोरपि ।
उक्तं ज्ञानं तु मनसा विज्ञानेनाप्युदीरितम् ॥ १,१.१८८ ॥
अनन्तत्वं तथाऽनन्दमयवाचाप्युदाहृतम् ।
सद्भावं यापयेद्यस्मात्सत्यं तत्तेन कथ्यते ॥ १,१.१८९ ॥
इति सृष्टिरिह प्रोक्ता जगत्सद्भावयापकम् ।
ब्रह्मेति स्थापनायैव सत्त्वं जीवनमेव च ॥ १,१.१९० ॥
विशीर्णता च सत्त्वं स्यात्सन्नमित्याहुरेव यत् ।
अतोऽद्यतात्तृतान्नत्वं सत्यशब्दार्थ एव हि ॥ १,१.१९१ ॥
प्राणं देवा अनुप्राणन्ति मनुष्याः पशवश्च ये ।
आयुः प्राणो हि भूतानामिति यद्गतिजीवने ॥ १,१.१९२ ॥
उक्ते सदितिधात्वर्थो गतिश्चातो हि सत्यता ।
प्राणत्वमवबोधार्थो मनुधातुः प्रकीर्तितः ॥ १,१.१९३ ॥
नाल्पे सुखमिति प्रोक्तयैवानन्दमयतोक्तितः ।
अनन्तत्वं सुनिर्णीतं पूर्णानन्दो हि नाल्पके ॥ १,१.१९४ ॥
अतो हि मन्त्रवर्णोक्तविस्तृतिस्तु समस्तया ।
क्रियते परया यस्मादितरोऽत्र न कथ्यते ॥ १,१.१९५ ॥
पुरुषं वेत्ति यो मुच्येन्नान्यः पन्था हि विद्यते ।
इति श्रुतेरन्यवेदी कथं मुक्तिं प्रयास्यति ॥ १,१.१९६ ॥
पुरुषः पर आत्माजो ब्रह्म नारायणः प्रभुः ।
महानानन्द उद्विष्णुर्भर्ग ओम इतीर्यते ॥ १,१.१९७ ॥
स्वयं नारायणो देवो नान्यस्यैतानि कस्यचित् ।
तस्मादोमित्युदाहृत्य यज्ञदानादि कुर्वते ॥ १,१.१९८ ॥
सूक्तेन पौरुषेणैनं यजन्त्यध्यात्मकोविदाः ।
इति पैङ्गिश्रुतिस्तेन नान्यज्ञानाद्विमुच्यते ॥ १,१.१९९ ॥
ब्रह्मशब्दोदिते तस्मिन्नात्मशब्दं प्रयुज्य च ।
तस्मादाकाशसृष्टिं च प्रोवाचात्र चतुविर्धाम् ॥ १,१.२०० ॥
भूतं भूताभिमानी च तद्देहोऽन्तर्नियामकः ।
हरिश्चाकाशशब्दोक्तो मुख्यतो हरिरेव च ॥ १,१.२०१ ॥
आ समन्तात्काशते यदाकाशो मुख्यतो हरिः ।
बलज्ञानस्वरूपत्वाद्वायुरग्निरगं नयन् ॥ १,१.२०२ ॥
आप आपालनाच्चैव पृथिवी प्रथितो यतः ।
उष्यानामाश्रयत्वेन स एवोषधिनामकः ॥ १,१.२०३ ॥
ओषधीषु स्थितो विष्णुः क्षुधितैराश्रितो भवेत् ।
पुरि शेते यतः सोऽथ पुरुषश्चेति गीयते ॥ १,१.२०४ ॥
क्रियाप्रवर्तकत्वेन प्रादुर्भावो हरेर्जनिः ।
आकाशादिषु नान्यास्ति ह्यभिमानोऽभिमानिनः ॥ १,१.२०५ ॥
अभिमानिशरीरस्य साक्षाद्भूतस्य चोद्भवः ।
एवं देहादिपर्यन्तमागतं हरिमेव तु ॥ १,१.२०६ ॥
परामृशति तस्यैव पञ्चरूपत्ववित्तये ।
त्यक्तवा भूतादिकं सर्वं स वा एष इति श्रुतिः ॥ १,१.२०७ ॥
स इत्यात्मपदोद्दिष्ट एष जीवशरीरगः ।
सारान्नमय एवायं न लोकान्नमयः प्रभुः ॥ १,१.२०८ ॥
इति तं रसशब्देन विशिनष्टि शरीरगम् ।
इदमित्येव निर्देशो वस्त्रप्रावृतवद्विभोः ॥ १,१.२०९ ॥
शिर आदेर्भवेज्जीवशिर आदौ व्यवस्थितेः ।
तं विदित्वास्य मुक्तिः स्यान्नान्यज्ञानात्कथञ्चन ॥ १,१.२१० ॥
आदित्ये पुरुषे चायमिति भेदोपदेशतः ।
नास्याभेदोऽस्ति जीवेन नानुमा कामचारिणी ॥ १,१.२११ ॥
विमतानि शरीराणि मद्भोगायतनानि यत् ।
शरीराणीत्यादिका तु तत्त्वज्ञाने ह्यपेक्ष्यते ॥ १,१.२१२ ॥
प्रत्यक्षादिविरुद्धत्वादक्षागमभयोज्खिता ।
अनुमा कामवृत्ता हि कुत्र नावसरं व्रजेत् ॥ १,१.२१३ ॥
जड आत्मैव वस्तुत्वात्प्रमेयत्वाज्जडं चितिः ।
घन आकाश इत्याद्या वार्यन्ते केन हेतुना ॥ १,१.२१४ ॥
न जीवभेदसूत्राणां शङ्कयात्र पुनरुक्तता ।
वाक्यान्तरद्योतकत्वात्पृथगित्यत्र पूर्णता ।
योगमन्नमयाद्यैर्यत्फलत्वेनास्य शंसति ।
स्थानद्वयेऽप्यतः कोशा एत इत्यतिसाहसम् ॥ १,१.२१५ ॥
उपसङ्क्रमणं चैव द्वितीयोद्देशितं प्रति ।
अतिक्रमं वदन्तं तमुपशब्दो निवारयेत् ॥ १,१.२१६ ॥
अश्रुतस्यातिशब्दस्य स्थानं दद्यात्कथं पुनः ।
श्रुताश्रुतपरित्यागकल्पने विगतह्रियाम् ॥ १,१.२१७ ॥
मृतावेव परित्यागः कृतो ह्यन्नमयस्य च ।
येऽन्नं ब्रह्मेत्याद्युपासां सामानाधिकरण्यतः ॥ १,१.२१८ ॥
उक्तवा पञ्चस्वरूपाणां पुनस्तत्प्राप्तिवादिनी ।
स्थानद्वयगता वेदवाणी तदपलापिनाम् ॥ १,१.२१९ ॥
तमसोऽन्यत्र संस्थानं कथमेव सहेत सा ।
अधीहि भगवो ब्रह्मेत्युक्तोऽन्नप्राणपूर्वकम् ॥ १,१.२२० ॥
आह ब्रह्म कथं तन्न द्वारं तदिति वादिनः ।
उपसत्तिं कथं विद्युरुपसन्नाय हि त्रिशः ॥ १,१.२२१ ॥
वक्तव्यं ब्रह्म गुरुणा चतुर्वारमथापि वा ।
सकृद्वेत्यागमा ब्रूयुः सम्प्रदायविदोऽपि च ॥ १,१.२२२ ॥
तद्यत्किञ्चित्कथं ब्रूयादुपसन्नाय दिक्पतिः ।
न वदेद्ब्रह्म च कथं मायावी न हि वारिराट् ॥ १,१.२२३ ॥
चष्ट इत्येव तच्चक्षुः श्रवणाच्छ्रोत्रमुच्यते ।
वचनादेव वाग्ब्रह्म सृष्टिस्थित्यादिकारणम् ॥ १,१.२२४ ॥
तच्च वाघूलशाखायामष्टरूपमुदाहृतम् ।
विज्ञानानन्दसहितं पृथक्सृष्टयादिलक्षणैः ॥ १,१.२२५ ॥
आवापोद्वापतष शाखा यत आहुः परं पदम् ।
यतो भूतानि जायन्त इत्याद्यैर्लक्षणैः स्वयम् ॥ १,१.२२६ ॥
लक्षितं गुरुणा पश्चात्तपसैवापरोक्षतः ।
दृष्ट्वैकैकं स्वरूपं तु समस्तोक्तानुदर्शनम् ॥ १,१.२२७ ॥
इच्छताऽज्ञां गुरोः प्राप्य तपसैवारोक्षितम् ।
अब्रह्मेत्येव वदतां श्रुतहान्यश्रुतग्रहौ ॥ १,१.२२८ ॥
साक्षाल्लक्षणतां प्राप्ताविति लज्जा तदुक्तिषु ।
समीपे सहभोगस्य मुक्तित्वेनोक्तितोऽसकृत् ॥ १,१.२२९ ॥
भेदो जीवेशयोर्मिथ्येत्येव मिथ्या स्वयं भवेत् ।
एतेन मयटश्चैव द्वैविध्येनार्थकल्पनात् ।
तदन्येषां मतमपि सत्संसत्सु न भासते ॥ १,१.२३० ॥
अतो नारायणो देवो निःशेषगुणवाचकैः ।
गुणिसामान्यवचनैरपि मुख्यतयोदितः ॥ १,१.२३१ ॥
अध्यात्मगैश्च प्राणाद्यैस्तथैव ह्यधिभूतगैः ।
अन्नादिशब्दैर्भगवानेको मुख्यतयोदितः ॥ १,१.२३२ ॥
जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये ।
ब्रह्मणो लक्षणं प्रोक्तं शास्त्रमूलं यतस्ततः ॥ १,१.२३३ ॥
अन्वयः सर्वशब्दानां गुणसर्वस्ववेदकः ।
शब्दप्रवृत्तिहेतूनां तस्मिन्मुख्यसमन्वयात् ॥ १,१.२३४ ॥
अन्यार्थेष्वल्पताहेतोस्तन्निमित्तत्वतस्तथा ।
तद्वाचकत्वं शब्दानां बहुलातिप्रयोगतः ॥ १,१.२३५ ॥
रूढमित्येव साध्यं स्याद्रूढिर्हि द्विविधा मता ।
अविद्वद्विद्वदाप्त्यैव मुख्या हि विदुषां तु सा ॥ १,१.२३६ ॥
विद्वद्रूढिर्वैदिका स्यात्सा योगादेव लभ्यते ।
तस्मान्मुख्यार्थता विष्णोरिति कृत्वा हृदि प्रभुः ॥ १,१.२३७ ॥
समन्वयं साधयति देवानां तत्र शक्तताम् ।
आशङ्कय तत्र रूढिं च तच्छब्दानामपि स्वयम् ॥ १,१.२३८ ॥
समुद्रान्तस्थितत्वाद्यैस्तद्धर्मैर्विष्णुरूढताम् ।
साधयित्वाभिदां तैश्च पुनरेव न्यवारयत् ॥ १,१.२३९ ॥
चेष्टा हि चेतनानां या सा भवेत्तत्प्रसादतः ।
अचेतनस्वभावस्तु विवरादिः कथं ततः ॥ १,१.२४० ॥
इति शङ्कानिवृत्त्यर्थमाकाश इति नाम च ।
परतोऽपिवरीयस्त्वपूर्वाल्लिङ्गाद्धरेर्भवेत् ॥ १,१.२४१ ॥
इति शङ्कानिवृत्त्यर्थमाकाश इति नाम च ।
परतोऽपि वरीयस्त्व पूर्वाल्लिङ्गाद्धरेर्भवेत् ॥ १,१.२४२ ॥
प्राणादिहेतुतादृष्टेरतिदेशो हि तादृशः ।
लिङ्गं बलवदेव स्यात्प्रेरकोऽस्यापि यद्धरिः ॥ १,१.२४३ ॥
नित्यत्वादेव शब्दस्य तत्स्वभावः कथं हरेः ।
कथं प्रसिद्धबहुलशब्दानामयथार्थता ॥ १,१.२४४ ॥
इति चेत्तद्धरेरेव बाहुल्याच्छ्रुतिलिङ्गयोः ।
तादृशत्वाच्च तच्छक्तेर्बाहुल्ये श्रुतिलिङ्गयोः ॥ १,१.२४५ ॥
अन्यस्य मुख्यवाच्यत्वमिति तन्नात्रगस्य हि ।
विष्णोरेव तु लिङ्गानि प्राणस्थानि तु सर्वशः ॥ १,१.२४६ ॥
प्राणसंवादपूर्वाणि मुख्यतो जीवगानि च ।
अभ्यार्चच्छतवर्षाणि प्राणवंशत्वमित्यपि ॥ १,१.२४७ ॥
तस्मादन्यत्रगैः शब्दैरुक्तन्यायैः समन्ततः ।
एको नारायणो देवो भण्यते नात्र संशयः ॥ १,१.२४८ ॥
वासुदेवादिरूपेण चतुर्मूर्तिश्च सर्वशः ।
अथवा पञ्चमूर्तिः स प्रोक्तोऽधिकरणं प्रति ॥ १,१.२४९ ॥
प्रतिसूत्रं प्रतिपदं प्रत्यक्षरमथापि वा ।
तैस्तैर्युक्तिश्रुतिन्यायविशेषैर्योग्यता यथा ॥ १,१.२५० ॥
बृहत्तन्त्रप्रमाणेन बह्वर्थमपि सङ्ग्रहात् ।
उच्यते नरबुद्धीनामपि किञ्चिद्ग्रहार्थतः ॥ १,१.२५१ ॥
ग्रन्थोऽयमपि बह्वर्थो भाष्यं चात्यर्थविस्तरम् ।
बहुज्ञा एव जानन्ति विशेषणार्थमेतयोः ।
तस्मान्महागुणो विष्णुर्नाम्नायपुनरुक्तितः ॥ १,१.२५२ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचायर्विरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य प्रथमः पादः ॥

लिङ्गात्मकानां शब्दानां वृत्तिर्नारायणे परे ।
चिन्त्यते सर्वगत्वं तु प्रथमं प्रविचार्यते ॥ १,२.१ ॥
तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः ।
दूरतोऽप्यतिरिक्तः स लीलया केवलं प्रभुः ॥ १,२.२ ॥
इति ज्ञापयितुं कर्मकर्त्रोरुत्सर्गतो भिदा ।
अभेदोऽपि विशेषे स्याद्बली सोऽप्यनपोदितः ॥ १,२.३ ॥
एतद्भावाभिधं लिङ्गं क्रियालिङ्गे ततः परम् ।
अन्तर्याम्यन्तरश्चेति क्रियाभावाख्यमुच्यते ॥ १,२.४ ॥
अदृश्यत्वाद्यभावाख्यं श्रुतिर्लिङ्गाधिका परा ।
अनित्यत्वात्क्रियाणां तु कथमेव स्वरूपता ॥ १,२.५ ॥
इति चेत्स विशेषोऽपि क्रियाशक्तयात्मना स्थिरः ।
शक्तिता व्यक्तता चेति विशेषोऽपि विशेषवान् ॥ १,२.६ ॥
अभिन्नोऽपि क्रियादिश्च स्वभाव इति हि श्रुतिः ।
ज्ञानं नित्यं क्रिया नित्या बलं शक्तिः परात्मनः ॥ १,२.७ ॥
इति पैङ्गिश्रुतिश्चाह शक्तिसद्भाव एव तु ।
क्रियादिनित्यता ज्ञेया तदन्यत्र त्वनित्यता ॥ १,२.८ ॥
इति सत्तत्त्ववचनं द्वित्वं चैकस्य युज्यते ।
यः सेतुरिति चैकत्ववचनेन विशेषणात् ॥ १,२.९ ॥
अन्तः स्थित्वा रमणकृदन्तरः समुदाहृतः ।
रमणं चात्मशब्देनादेयं मातीति चोच्यते ॥ १,२.१० ॥
विशिष्टसुखवत्त्वाच्च ब्रह्मत्वं च विशिष्टता ।
अन्योन्यनियतिश्चेशनियमे नान्यथा भवेत् ॥ १,२.११ ॥
चेतनानां विशेषो यः स्वभावोऽपीश्वरापिर्तः ।
अन्योन्यनियमे तस्मादनवस्थित्यसम्भवौ ॥ १,२.१२ ॥
ईश्वरश्चेन्नियन्ता च स एव प्रथमागतः ।
किमित्यपोद्यते कस्माद्वृथावस्थितिकल्पना ।
दोषवत्येव तस्मात्सा नैव कार्या कथञ्चन ॥ १,२.१३ ॥
रमणं नातियत्नस्य विक्षेपादेव युज्यते ।
इति चेत्सर्वनियमो यस्य कस्मान्न शक्यते ॥ १,२.१४ ॥
आत्मनानियतं वस्तु प्रतीपं ह्यात्मनो भवेत् ।
स्वाधीनसत्ताशक्तयादि कथमात्मप्रतीपकम् ॥ १,२.१५ ॥
गुणक्रियादयो भावा यदिवा स्युरभेदिनः ।
अभेदोऽभावधर्माणां ब्रह्मणा युज्यते कथम् ॥ १,२.१६ ॥
नाभावो भाव इति च विशेषः प्रायशो भवेत् ।
अतद्भावोऽन्यता चेति न विशेषोऽस्ति कश्चन ॥ १,२.१७ ॥
दोषाभावो गुण इति प्रसिद्धो लौकिकेष्वपि ।
अदृश्यत्वादिकांस्तस्माद्गुणानाह स्वयं प्रभुः ॥ १,२.१८ ॥
भावाभावविरोधोऽपि न तु सर्वत्र विद्यते ।
तदभावो हि तद्भावविरोधी न ततोऽपरः ॥ १,२.१९ ॥
पृथक्तवाभावतद्रूपान् भेदांस्त्रीन् कल्पयन्ति चेत् ।
कल्पनागौरवाद्यास्तु दोषास्तत्र विरोधिनः ॥ १,२.२० ॥
पृथक्तवान्यत्वभेदास्तु पर्यायेणैव लौकिकैः ।
व्यवह्रियन्ते सततं वैदिकैरपि सर्वशः ॥ १,२.२१ ॥
दृष्टहानिरदृष्टस्य कल्पनेत्येव दूषणम् ।
यदा तदधिको दोषो विद्यते को नु वादिनाम् ॥ १,२.२२ ॥
भावाभावस्वरूपास्तु विशेषा एव वस्तुनः ।
अभिन्ना एव सङ्ग्राह्या व्यवहारप्रसिद्धये ॥ १,२.२३ ॥
यथैकः समवायोऽपि भेदाभेदौ च वस्तुनि ।
अङ्गीकार्या विशेषेण स्थानेषु व्यवहर्तृभिः ॥ १,२.२४ ॥
अखण्डवादिनोऽ पि स्याद्विशेषोऽनिच्छतोऽप्यसौ ।
व्यावृत्ते निर्विशेषे तु किं व्यावर्त्यबहुत्वतः ॥ १,२.२५ ॥
बहुलिङ्गसमायुक्तैर्बहुभी रूढनामभिः ।
प्रसिद्धैरन्यगत्वेन वाच्यः साक्षाज्जनार्दनः ॥ १,२.२६ ॥
वैश्वानरादयः शब्दा अपि तद्वाचिनस्ततः ।
तानि लिङ्गानि ते शब्दा अपि तद्गा हि सर्वशः ।
बहुलाप्यज्ञरूढिस्तत्प्रज्ञारूढिं न बाधते ॥ १,२.२७ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य द्वितीयः पादः ॥

तत्रान्यत्र च सिद्धानां लिङ्गनाम्नां पुनर्हरिः ।
विशेषान्मुख्यतो वृत्तिं स्वस्मिन्नेवात्र वक्तयजः ॥ १,३.१ ॥
विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकान् ।
श्रुतिर्वक्त्यखिलेशत्वाद्भूमा विष्णुः सुखाधिकः ॥ १,३.२ ॥
अतो विरुद्धवद्भातमपि व्याख्याय तत्त्वतः ।
योजनीयं हरौ वाक्यं विरुद्धैर्लक्षणैर्युतम् ॥ १,३.३ ॥
ब्रह्मैव तानि लिङ्गानि तदन्यत्र त्वसन्त्यपि ।
अविरोधेन गोविन्दे सन्त्यस्थूलादिकानि च ॥ १,३.४ ॥
अन्यवस्तुस्वभावानां स्थौल्यादीनामपाकृतिम् ।
नारायणे श्रुतिर्वक्ति नतु तस्यास्वभावताम् ॥ १,३.५ ॥
सर्वधर्मा सर्वनामा सर्वकर्मा गुणाः श्रुताः ।
दोषाः श्रुताश्च नेत्याद्या प्रमाणं श्रुतिरत्र च ॥ १,३.६ ॥
लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः ।
पुनः शब्दा लिङ्गशब्दौ विचार्या द्विस्थिता इह ॥ १,३.७ ॥
बाहुल्यं लिङ्गशब्दानामनुक्तिश्च विरुद्धता ।
अदृष्टिरन्वयाभावो विपरीतश्रुतिभ्रमः ॥ १,३.८ ॥
लिङ्गावकाशराहित्यभ्रमस्तादृग्द्वयं तथा ।
बहुतादृक्तवमुक्तस्य विरोधोऽर्थात्तथा गतिः ।
समस्तमेतदित्यत्र पूर्वपक्षेषु युक्तयः ॥ १,३.९ ॥
ता एव बलवन्तस्तु गत्यन्तरविवर्जिताः ।
सिद्धान्तयुक्तयो ज्ञेया दृश्यन्ते ताश्च सर्वशः ॥ १,३.१० ॥
मुक्तोपसृप्यता प्राणादाधिक्यं सर्वतस्तथा ।
वैलक्षण्यं स्वभावस्य प्रेक्षापूर्वक्रिया तथा ॥ १,३.११ ॥
अरस्य ण्यस्य चेशत्वं सूर्याद्यनुकृतिस्तथा ।
वामनाख्या सर्वकम्पस्तच्छब्दानन्यसिद्धता ॥ १,३.१२ ॥
अनामरूपता भेदस्योपजीव्यप्रमाणता ।
सर्वैश्वर्यादिकाद्यास्ता वेदेशेन प्रदर्शिताः ॥ १,३.१३ ॥
अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ ।
तत्फलाय विधिः सिद्धे चोपासाया निराकृतः ॥ १,३.१४ ॥
यतो जैमिनिनान्यार्थमसिद्धेऽर्थे विधिस्तथा ।
विद्याधिराजस्य मतमविरोधस्तयोस्ततः ॥ १,३.१५ ॥
मोक्षे फलविशेषोऽस्ति न च सर्वं प्रकाशते ।
सर्वदा तेन देवानामपि युक्ता ह्युपासना ॥ १,३.१६ ॥
नित्यं वृद्धिक्षयापेतं विष्णोः पूर्णं तु वेदनम् ।
स्पष्टातिस्पष्टविशदं ब्रह्मणोऽशेषवस्तुगम् ॥ १,३.१७ ॥
अन्येषां क्रमशो ज्ञानं मितवस्तुगतं सदा ।
इत्यादयो विशेषास्तु सदा विद्यापतेर्हृदि ॥ १,३.१८ ॥
जैमिन्याद्यास्तु सामान्यवेत्तृत्वात्तत्तथावदन् ।
विद्येशमतमेतस्मान्नैव सद्भिर्विरुद्धयते ॥ १,३.१९ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य तृतीयः पादः ॥
दुःखिबद्धावराद्यास्तु तदधीनत्वहेतुतः ।
शब्दा ब्रह्मणि वर्तन्ते राज्ञि यद्वत्पराजयः ॥ १,४.१ ॥
स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् ।
स्वातन्त्र्यं तत्र मुख्यं स्यात्कुतो राज्ञि जयोऽन्यथा ॥ १,४.२ ॥
न हि भृत्यस्य विजयिशब्दस्तावत्प्रयुज्यते ।
यावद्राज्ञ्यन्यगत्वेऽपि स्वातन्त्र्याभासमात्रतः ॥ १,४.३ ॥
भृत्यबन्धादिकं राज्ञि राज्ञो बन्धादियोग्यतः ।
कारणं संशयस्य स्यादिति नैव प्रयुज्यते ॥ १,४.४ ॥
अमङ्गलत्वाच्छब्दानां राज्ञा योगादमङ्गले ।
अप्रियत्वात्तु शब्दस्य स्यात्प्रयोगनिवर्तनम् ॥ १,४.५ ॥
गुणास्तु तादृशा यत्र प्रयुज्यन्तेऽखिला अपि ।
पूज्येष्वेव विशेषेण स्वातन्त्र्यं मुख्यकारणम् ॥ १,४.६ ॥
ततो दोषातिदूरत्वात्संशयस्याप्यसम्भवात् ।
दोषाणां विष्णुगत्वस्य प्राज्ञबुद्धिव्यपेक्षया ॥ १,४.७ ॥
स्वातन्त्र्यार्थमभिप्रेत्य दोषशब्दाश्च विष्णवि ।
वासुदेवश्रुतिश्चाह नैव विष्णावमङ्गलम् ॥ १,४.८ ॥
मङ्गलामङ्गलेऽन्यत्र ततो नामङ्गलं वदेत् ।
स्वातन्त्र्यापेक्षया विष्णौ दोषो नामङ्गलोक्तितः ॥ १,४.९ ॥
बहुभुक्तवं यथा दोषो नृषु नैव हरौ क्वचित् ।
एवं दुःख्यादिशब्दाश्च स्वातन्त्र्यापेक्षयोदिताः ॥ १,४.१० ॥
नैव दोषा हरौ तद्गबुद्धयोक्ता दोषकारिणः ।
तस्मात्ते दोषशब्दाश्च तत्रैव गुणवाचकाः ॥ १,४.११ ॥
जातमोतं हरौ यस्माज्ज्योतिः षः प्राणरूपतः ।
आयज्ञेतश्चायजेतो वसन्तिश्च वसन्ततः ॥ १,४.१२ ॥
विगतच्छादनत्वात्तु गच्छ भूतक्षयङ्करः ।
भुङ्क्षेत्युक्तो हरिर्हुं च हुतमस्मिन् जगद्यतः ॥ १,४.१३ ॥
स्फुटत्वात्फडिति प्रोक्तः कवरक्षण इत्यतः ।
कवचं वतर्ते यस्मात्षड्गुणत्वेन सर्वदा ।
वषट्तद्गत्वतस्तेषां वौषडित्येव कथ्यते ॥ १,४.१४ ॥
स्वीयं स्वीकुरुते यस्मात्स्वाहेत्युक्तो जनार्दनः ।
नमन्त्यस्मिन् गुणा यस्यान्नम इत्येव कथ्यते ॥ १,४.१५ ॥
इत्यशेषक्रियानामशब्दैरेको जनार्दनः ।
उच्यते मुख्यतो यस्मात्पदवर्णस्वरादिभिः ॥ १,४.१६ ॥
तस्मादनन्तगुणता श्रुतितात्पर्यतोऽस्य हि ।
विज्ञानार्थत्वतः सर्वशब्दानां नास्ति दूषणम् ॥ १,४.१७ ॥
अङ्गीकृतेऽपि नैवास्ति दोषो वाक्यसमन्वये ।
तदर्थत्वेन कर्मादेः सम्भवादल्पबुद्धये ॥ १,४.१८ ॥
कश्छन्दसां योगमिति श्रुतेर्योगार्थतत्त्ववित् ।
ब्रह्मैको नैव चान्योऽस्ति क इत्यस्यरोभयार्थतः ॥ १,४.१९ ॥
तस्यापि पूर्वसिद्धस्य ज्ञानमेवेति निश्चयात् ।
नित्ययोगोऽपि शब्दानामर्थैर्नैव निषिद्धयते ।
स्त्रीशब्दाश्च निषेधार्थाः सर्वेऽपि ब्रह्मवाचकाः ॥ १,४.२० ॥
विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम् ।
पृथक्समन्वयार्थानि स्थानान्येतानि सर्वशः ॥ १,४.२१ ॥
सर्वमानैर्विरोधश्च व्युत्पत्तेरप्यशक्यता ।
परस्परविरोधश्च विरोधः कार्यतद्वतोः ।
स्त्रीलिङ्गत्वं निषेधश्च पूर्वपक्षेषु हेतवः ॥ १,४.२२ ॥
दोषात्यस्पृष्टिनियमः शब्दार्थानेकता तथा ।
बहुरूपत्वमीशस्य व्यक्तयव्यक्तिविशेषिता ॥ १,४.२३ ॥
उत्पादनं स्वदेहाच्च दुर्जनाव्यक्तता तथा ।
इतयाद्या युक्तयः साक्षात्सिद्धान्तस्थापका इह ॥ १,४.२४ ॥
अन्वयः सर्वशब्दानामशक्यो ज्ञातुमञ्जसा ।
इति यल्लोकवैमुख्यं जैमिन्यादिमतं वदन् ॥ १,४.२५ ॥
विद्याधिनाथो भगवानपाचक्रे स्वयं प्रभुः ।
स्वशिष्याणां प्रसिद्धयर्थं मतमात्मीयमंशतः ॥ १,४.२६ ॥
विज्ञातं तैर्जगादात्र तारतम्यं नृणां वदन् ।
तेषु तेषु पदार्थेषु रूढिरङ्गीकृता यतः ॥ १,४.२७ ॥
प्रयोजनबहुत्वेन तस्य तस्याविरोधतः ।
उपदेशादिसामर्थ्याद्विष्णौ शक्तिश्च गृह्यते ॥ १,४.२८ ॥
तथाप्येतद्विरोधे तु तद्वाचित्वमपोद्यते ।
अविरोधे तु बह्वर्था एतन्मूलतया मताः ॥ १,४.२९ ॥
इतो हि रूढतान्येषामुपजीव्यत्वमत्र हि ।
तत्सिद्धिस्तदपेक्षा च सापेक्षा च हरीच्छया ॥ १,४.३० ॥
तस्मात्परममुख्यत्वं विष्णावन्यत्र मुख्यता ।
उपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तयः ॥ १,४.३१ ॥
प्रवृत्तिहेतोर्बाहुल्यं ज्ञेयं परममुख्यता ।
तत्र प्रयोगबाहुल्यं यदि तत्परता किमु ॥ १,४.३२ ॥
उभयं दृश्यते विष्णौ शब्दानामपि सर्वशः ।
प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते ॥ १,४.३३ ॥
प्रयोगयुक्तसादृश्यं सम्बन्धो वाप्यमुख्यतः ।
वृत्तिहेतुरिति ज्ञेयः पूर्वायोगे परग्रहः ॥ १,४.३४ ॥
एतमेव तथा सन्तं शतर्चीत्यादिनामभिः ।
आचक्षत इति ह्यत्र सन्तमित्यवधारणा ॥ १,४.३५ ॥
योगस्य रूढेः प्राबल्यं विद्वद्रूढिं च तत्रगाम् ।
बहुशो दर्शयत्यञ्जस्तात्पर्यात्सनिरुक्तिकम् ॥ १,४.३६ ॥
अ इति ब्रह्म कथितं तद्वयाख्यानान्मता तथा ।
शब्दानामपि सर्वेषां नामवित्कृतकृत्यता ॥ १,४.३७ ॥
विष्णुनामार्थरूपत्वं संहितादेरथाब्रवीत् ।
णकारं च षकारं च बलचेष्टात्मकं वदन् ॥ १,४.३८ ॥
तज्ज्ञानपूर्वकत्वेन संहिताध्ययनं तथा ।
उपसर्गत्वतो वेस्तु ताच्छील्यार्थादुनस्तथा ॥ १,४.३९ ॥
णकारश्च षकारश्च नामरूपतया मतौ ।
तस्मात्समन्वयो विष्णौ स्वरवर्णपदात्मनः ॥ १,४.४० ॥
अपि वेदस्य किमुत वाक्यरूपेण सङ्गतिः ।
घोषाः सर्वेऽपि वेदाश्च सर्वे वेदाश्च यत्पदम् ॥ १,४.४१ ॥
इन्द्रं मित्रं यमिन्द्रं च प्रथमः सङ्कृतिस्तथा ।
नामधाः सर्वदेवानामेक इत्यादिका श्रुतिः ॥ १,४.४२ ॥
प्रमाणमुक्तविषये तदेवोक्तमुपक्रमात् ।
इति स्वयं भगवता ब्रुवताशेषमन्वयम् ॥ १,४.४३ ॥
न शब्दवाच्यतैवात्र प्रधनस्य निषिद्धयते ।
सर्ववेदेतिहासेषु पुराणेषु च सङ्ग्रहात् ॥ १,४.४४ ॥
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ १,४.४५ ॥
इत्यादिवाक्यरूपेण यत्रार्थो नान्य इष्यते ।
तेजोऽबन्नात्मकं वापि यद्युपादानमिष्यते ॥ १,४.४६ ॥
अनाद्येवापराधः कः प्रधानमिति चोदिते ।
अजामेकामिति प्राह श्रुतिरेतां यदा तदा ।
को दोषः सर्वथैवास्ति परिणामि जडं यदि ॥ १,४.४७ ॥
अस्माकं परममुख्यार्थो भगवानेक एव तु ।
मुख्यमात्रतया रूढं सर्वमभ्युपगम्यते ॥ १,४.४८ ॥
सर्वेषामपि शब्दानां गौण्याद्यं तदयोगतः ।
अर्थद्वयमभिप्रेत्य प्रवृत्ते हरिरुक्तवान् ॥ १,४.४९ ॥
कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ।
योगानां परमां सिद्धिं परमं ते पदं विदुः ॥ १,४.५० ॥
इति बुद्धौ समारोहादुभयोर्योगरूढयोः ।
त्यागे च कारणाभावादुभयार्थत्वमिष्यते ॥ १,४.५१ ॥
विपरीतप्रमाभावे पूर्वारोहस्तु कारणम् ।
सा भवेद्यत्र स व्यर्थः पूर्वारोहो भ्रमो यथा ।
अतो जगदुपादानं प्रधानं वक्ति सा श्रुतिः ॥ १,४.५२ ॥
यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् ।
प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ॥ १,४.५३ ॥
पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा ।
एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः ॥ १,४.५४ ॥
इति भागवते प्राह विद्याधीशः स्वयं प्रभुः ।
न च प्रकृतिशब्देन ब्रह्मोपादानमुच्यते ॥ १,४.५५ ॥
अविकारः सदा शुद्धो नित्य आत्मा सदा हरिः ।
सदैकरूपविज्ञानबल आनन्दरूपकः ॥ १,४.५६ ॥
निर्विकारोऽक्षरः शुद्धो निरातङ्कोऽजरोऽमरः ।
अविश्वो विश्वकर्ताजो यः परः सोऽभिधीयते ॥ १,४.५७ ॥
निर्विकारमनौपम्यं सदैकरसमक्षयम् ।
ब्रह्मेति परमात्मेति यं विदुर्वैदिका जनाः ॥ १,४.५८ ॥
इति श्रुतिपुराणोक्तया न विकारी जनार्दनः ।
पराधीनविशेषाप्तिरनिवर्त्यान्यथाभवः ॥ १,४.५९ ॥
क्षीरादिवद्विकारः स्यान्नैव स स्याद्धरेः क्वचित् ।
अपादानत्वमेवास्य यद्युपादानतेष्यते ॥ १,४.६० ॥
अङ्गीकृतं तत्पितृवन्नतु विश्वात्मना भवः ।
न चोर्णनाभिजनितृमातृणां च विकारिता ॥ १,४.६१ ॥
चेतनत्वात्तदन्नं हि कार्यरूपतया भवेत् ।
अपादानतया विश्वकर्तृत्वं बुद्धिपूर्वकम् ॥ १,४.६२ ॥
उक्तं भाल्लविशाखायां ब्रह्मतर्के च सादरम् ।
इच्छामात्रात्प्रभोः सृष्टिरविकारस्य सर्वदा ॥ १,४.६३ ॥
स्वभावोऽयमनन्तस्य रजो येनाभवज्जगत् ।
स्वदेहादिच्छया विश्वं भुक्तपूर्वं जनार्दनः ॥ १,४.६४ ॥
ससर्ज मातापितृवदूर्णनाभिवदेव वा ।
प्रधानं परिणाम्येशो निर्विकारः स्वयं सदा ॥ १,४.६५ ॥
न चेतनविकारः स्याद्यत्र क्वापि ह्यचेतनम् ।
नाचेतनविकारोऽपि चेतनः स्यात्कदाचन ॥ १,४.६६ ॥
नचान्यस्यान्यरूपत्वं विकृतत्वेऽपि दृश्यते ।
न क्षीरादन्यता दध्नः केनचिद्दृश्यते क्वचित् ॥ १,४.६७ ॥
सर्वज्ञाद्ब्रह्मणोऽन्यत्वं जगतो ह्यनुभूयते ।
अभेदः सत्त्वमात्रेण स्याद्खर्वस्वणयोरपि ॥ १,४.६८ ॥
भागेन परिणामश्चेद्भागयोर्भेद एव हि ।
यो भागो न विकारी स्यात्स एवास्माकमीश्वरः ॥ १,४.६९ ॥
भिन्नानां समुदायस्य नाम ब्रह्मेति चेद्भवेत् ।
ब्रह्मोपादानता न स्यात्तदा विश्वस्य हि क्वचित् ॥ १,४.७० ॥
शृङ्गाच्छरोऽविलोमभ्यो दूर्वा गोमयतस्तथा ।
वृश्चिकश्चेत्येवमाद्येष्वपादानत्वमिष्यते ॥ १,४.७१ ॥
उपादानैकदेशत्वं यद्यप्यत्र प्रदृश्यते ।
अप्यपादानतैवात्र दृष्टान्तो ब्रह्मणो भवेत् ॥ १,४.७२ ॥
न ह्युपादानतैवात्र बाह्यावयवगौरवात् ।
न चाचेतनतस्तत्र चेतनस्य समुद्भवः ॥ १,४.७३ ॥
उपादानतया किन्तर्ह्यपादानं ह्यचेतनम् ।
कार्यदेहगतस्यास्य चेतनस्य प्रदृश्यते ॥ १,४.७४ ॥
सच्च त्यच्चाभवदिति नास्य विश्वत्वमुच्यते ।
तत्सृष्ट्वेति गिरैवास्य पूर्वं विश्वस्य सिद्धितः ॥ १,४.७५ ॥
सत्त्वात्ततेर्वैदिकत्वात्सम्यग्वक्तुमशक्यतः ।
आश्रयत्वात्स्वाश्रयत्वाज्ज्ञानत्वाद्दुर्विदत्वतः ॥ १,४.७६ ॥
सत्ततेर्यातनाच्चैव ह्यप्राप्तत्वाच्च दुर्जनैः ।
नित्यासाधुगुणव्याप्तियन्तृरूपत्वतः सदा ।
जगद्गतेन रूपेण ब्रह्मैव हि तथोच्यते ॥ १,४.७७ ॥
व्यक्तिरुक्तगुणानां हि पुरुषापेक्षया नृणाम् ।
भवेदभवदित्याद्यः प्रयोगश्चात्र युज्यते ॥ १,४.७८ ॥
तस्मादशेषकर्तैको निर्विकारो रमापतिः ।
शब्दैः प्रकृतिरित्याद्यैः स्त्रीलिङ्गैरभिधीयते ॥ १,४.७९ ॥
बहु स्यामिति तस्यैव ह्युक्तमार्गेण युज्यते ।
तत्तद्गतेन रूपेण तदर्थं ह्यसृजज्जगत् ॥ १,४.८० ॥
यच्चाविकृतमेवैतद्ब्रह्म विश्वात्मना मृषा ।
दृश्यते मन्ददृष्टयैव स सर्ग इति कथ्यते ॥ १,४.८१ ॥
सा मन्ददृष्टिस्तस्यैव ब्रह्मणः किं ततोऽन्यगा ।
ब्रह्मणश्चेत्क्व सार्वज्ञ्यमन्यगा चेत्स्वतोऽन्यता ॥ १,४.८२ ॥
नादेहयोगिनो दृष्टिरिति तत्कारणं स्वतः ।
देहिनः कारणयुता देहाश्च यदि न भ्रमात् ॥ १,४.८३ ॥
किं भ्रान्तिकल्पितं तत्र भेदोऽपि भ्रमजो यदि ।
भ्रान्तेरज्ञानमूलत्वात्तस्य भेदव्यपेक्षया ॥ १,४.८४ ॥
नाज्ञानकल्पकं किञ्चिदन्योन्याश्रयता यतः ।
भ्रमत्वे त्वियमुक्तिश्च तदन्तःपतनान्नहि ॥ १,४.८५ ॥
व्यावहारिकता चास्य स्यादबाध्यत्व एव हि ।
बाध्यं नार्थक्रियाकारि न च स्वप्नोऽपि नो मृषा ॥ १,४.८६ ॥
वासनाजनितत्वेन तस्याप्यङ्गीकृतत्वतः ।
स हि कर्तेति वाक्याच्च जाग्रत्त्वमिति हि भ्रमः ॥ १,४.८७ ॥
सर्पभ्रमादावपि हि ज्ञानमस्त्येव तादृशम् ।
तदेवार्थक्रियाकारि तत्सदेवार्थकारकम् ॥ १,४.८८ ॥
ब्रह्म त्वर्थक्रियाकारि परतः स्वत एव वा ।
अङ्गीकृतं हि तेनैव परतस्त्वे न च प्रमा ॥ १,४.८९ ॥
अमुख्यसत्यमानस्य साधकत्वे सदाऽवयोः ।
न हि सम्प्रतिपत्तिः स्यादतस्तिष्ठतु सा प्रमा ॥ १,४.९० ॥
न हि विप्रतिपन्नेन शक्यं साधयितुं क्वचित् ।
साधकत्वं तु सत्यस्य साक्षिणो ह्यावयोर्द्वयोः ।
सम्यक्सम्प्रतिपन्नं तन्न विवतर्ममतं भवेत् ॥ १,४.९१ ॥
यदि नाङ्गीकृतं किञ्चिदनङ्गीकृततापि हि ।
नाङ्गीकृतेति मूकः स्यादिति नास्मद्विवादिता ॥ १,४.९२ ॥
विश्वं सत्यं यच्चिकेत प्रघान्वस्य यथार्थतः ।
इत्यादिश्रुतयः सर्वा विश्वसत्यत्ववाचकाः ॥ १,४.९३ ॥
सत्यत्वं गगनादेश्च साक्षिप्रत्यक्षसाधितम् ।
साक्षिसिद्धस्य न क्वापि बाध्यत्वं तददोषतः ॥ १,४.९४ ॥
सवर्कालेष्वबाध्यत्वं साक्षिणैव प्रतीयते ।
कालो हि साक्षिप्रत्यक्षः सुषुप्तौ च प्रतीतितः ॥ १,४.९५ ॥
अतीतानागतौ कालावपि नासाक्षिगोचरौ ।
पक्षीकर्तुमशक्यत्वान्नानुमा तत्र वर्तते ॥ १,४.९६ ॥
तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् ।
साक्षिसिद्धेन कालेन खचितं ह्येव वर्तते ॥ १,४.९७ ॥
तस्मान्न तं विना किञ्चित्स्मर्तुं द्रष्टुमथापि वा ।
शक्यं तन्नित्यसिद्धेर्हि नानुमावसरो भवेत् ॥ १,४.९८ ॥
अतोऽदोषप्रतीतस्य सत्यत्वं साक्षिणा मतम् ।
परीक्षादेश्च सत्यत्वं तेन ह्येव मतं भवेत् ॥ १,४.९९ ॥
अन्यथा श्रुतियुक्तयादिप्रमाणैश्च सहैव तु ।
अकस्माद्विनिवृत्तिश्च किं विश्वस्य न शङ्कयते ॥ १,४.१०० ॥
इतः पूर्वं तथाभावाद्यदि नो संसृतेर्गतिः ।
वाक्यानुमादितश्चेत्स्यात्तत्प्रामाण्यं च साक्षितः ॥ १,४.१०१ ॥
तत्प्रामाण्यं यथा साक्षी स्थापयत्येवमेव हि ।
सर्वकालेष्वपि स्थैर्याद्व्यभिचारमपोह्य च ॥ १,४.१०२ ॥
एवमक्षजमानत्वसिद्धां विश्वस्य सत्यताम् ।
किमिति स्थापयेन्नायं निर्दोषज्ञानशक्तितः ॥ १,४.१०३ ॥
एकज्ञानकृतं विश्वमिति यच्चोष्यते मृषा ।
बहुज्ञानकृतं विश्वमिति तस्योत्तरं भवेत् ॥ १,४.१०४ ॥
परस्य सत्यतां जानन्नपि यः स्वात्मतस्करः ।
परो नास्तीति वदति किमित्युन्मत्तवद्वदेत् ॥ १,४.१०५ ॥
पराभावे हि वाग्व्यर्था यदि नैवोच्यते तदा ।
कशावेत्रादिकं तस्य तस्करस्योत्तरं वदेत् ॥ १,४.१०६ ॥
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ १,४.१०७ ॥
विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।
उपदेशादयं वादोऽज्ञाते द्वैतं न विद्यते ॥ १,४.१०८ ॥
इत्यत्र यदिशब्दौ च निवर्तेतेति च द्वयम् ।
विश्वस्य सत्यतामाहुर्विद्येतोत्पत्तिमेव च ॥ १,४.१०९ ॥
विदोत्पत्ताविति ह्यस्माद्धातोरुत्पत्तिरेव हि ।
निवृत्तिव्याप्तियुक्प्रायः प्रपञ्चो भेदपञ्चकः ॥ १,४.११० ॥
जीवेश्वरभिदा चैव जडेश्वरभिदा तथा ।
जीवभेदो मिथश्चैव जडजीवभिदा तथा ।
मिथश्च जडभेदो यः प्रपञ्चो भेदपञ्चकः ॥ १,४.१११ ॥
सोऽयं सत्यो ह्यनादिश्च सादिश्चेन्नाशमाप्नुयात् ।
द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम् ॥ १,४.११२ ॥
इति श्रुतेर्मितं त्रातं मायाख्यहरिविद्यया ।
उत्तमोऽर्थो हरिस्त्वेकस्तदन्यन्मध्यमाध्यमम् ॥ १,४.११३ ॥
वाचारब्धं तु साङ्केत्यं नाम स्याद्विकृतं बहु ।
नित्यं तु नामधेयं यन्मृत्तिकेत्यादि वैदिकम् ॥ १,४.११४ ॥
प्राधान्यात्तत्परिज्ञानात्प्राकृताज्ञोऽपि पूरुषः ।
विद्वानित्युच्यते सद्भिरेवं नित्यपरात्मवित् ॥ १,४.११५ ॥
सदातनं सत्यमिति नित्यमेवोच्यते बुधैः ।
प्रयोगश्चोत्तरत्रास्ति जरा यद्येनमाप्नुयात् ॥ १,४.११६ ॥
देहः प्रध्वंसते वायं किं ततोऽस्यातिशिष्यते ।
हन्यते न वधेनायं जरया च न जीर्यति ॥ १,४.११७ ॥
एतत्सत्यं ब्रह्मपुरमिति नित्यत्व एव हि ।
वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम् ॥ १,४.११८ ॥
पुनरुक्तिर्नामधेयमितीत्यस्य निरर्थता ।
एकः पिण्डो मणिश्चेति पदवैयथ्यर्मेव च ॥ १,४.११९ ॥
विकारत्वविवक्षायां नचैकनखकृन्तनम् ।
सर्वकार्ष्णायसं च स्यादतः सादृश्य एव च ॥ १,४.१२० ॥
विवक्षात्र तु नित्यत्वे प्राधान्ये चोक्तवर्त्मना ।
प्राधान्यप्रतिपत्त्यर्थं सृष्टयादेश्चैव विस्तरः ॥ १,४.१२१ ॥
तस्मात्केनापि मार्गेण न विवर्तमतं भवेत् ।
तदसङ्खयातदोषेतं हेयमेव शुभार्थिभिः ॥ १,४.१२२ ॥
असङ्खयत्वेन दोषाणां ग्रन्थाधिक्यभयादपि ।
उपरम्यते ततो विष्णुरिच्छापूर्वकमश्रमः ।
करोति पितृवद्विश्वं पूर्णशेषगुणात्मकः ॥ १,४.१२३ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमोऽध्यायः ॥
उक्तः समन्वयः साक्षादविरोधोऽत्र साध्यते ।
चतुर्विधस्य तस्यादौ यौक्तस्तत्रापि च स्मृतेः ॥ २,१.१ ॥
तस्याश्चतुःस्वरूपत्वात्प्रत्येकं चतुरात्मकाः ।
पादाः सर्वे तदंशाश्च मूर्तीनां वर्णमाऽगमात् ॥ २,१.२ ॥
आप्तता समतादृष्टिश्रुतिसाम्यबलाद्भवाः ।
सर्वानुसारो लघुता विशेषादर्शनाफले ॥ २,१.३ ॥
इष्टसिद्धिश्च नियमः पूर्वपक्षेषु युक्तयः ।
एता एव त्वतिबला सिद्धान्तस्य नियामकाः ॥ २,१.४ ॥
आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं श्रतिः ।
पिपीलिकालिपिनिभा वारयेत सर्वगा हि ते ॥ २,१.५ ॥
इति चेद्यद्यशेषज्ञा रुद्राद्या हरिपूर्वकाः ।
किं नाशेषविदो मानं ह्युभयत्र समं भवेत् ॥ २,१.६ ॥
नचाप्तिनिश्चयस्तत्र शक्यते व्यभिचारतः ।
नचास्या व्यभिचारेऽपि हीयते मानता क्वचित् ॥ २,१.७ ॥
वेदोक्तस्याधिकारस्य दुर्निरूपत्वतः सदा ।
नियमो व्यभिचारो वा नैव ज्ञातुं हि शक्यते ॥ २,१.८ ॥
अधिकारो हि सुलभः कथितोऽन्यागमेष्वलम् ।
वेदोक्तो ह्यधिकारस्तु दुर्लभः सर्वमानुषैः ॥ २,१.९ ॥
अन्यागमेषु विप्रत्वमपि चण्डालजन्मनाम् ।
मण्डलान्तःप्रवेशेन क्रमशः प्रतिपाद्यते ॥ २,१.१० ॥
अधिकारं दुरापाद्यमुक्तवातिसुलभं पुनः ।
अशक्यं साधनं चोक्तवा सुशकं तत्फलाप्तये ।
उच्यतेऽतस्तदुक्तं हि व्यभिचारि फलेऽपि तु ॥ २,१.११ ॥
कथं प्रमाणतां गच्छेन्नित्यत्वात्पुरुषोद्भवैः ।
उज्खितं सर्वदोषैश्च कथं नो मानतां व्रजेत् ॥ २,१.१२ ॥
विरूप नित्यया वाचा नित्ययानित्यया सदा ।
इत्यादिश्रुतिभिर्वेदो नित्य इत्यवगम्यते ॥ २,१.१३ ॥
पिपीलिकालिपिश्चापि प्रमाणमविरोधतः ।
यथा द्रौणेरुलूकेन कृतमप्यास बोधकम् ॥ २,१.१४ ॥
अविरुद्धं विरुद्धं तु विरोधादेव बाधितम् ।
विरोधादर्शनात्तस्माद्वेदप्रामाण्यमिष्यते ॥ २,१.१५ ॥
तन्मूलत्वात्स्मृतीनां च विरोधो यत्र न क्वचित् ।
विरोधोऽपि स एवोक्तः प्रत्यक्षेणागमेन वा ॥ २,१.१६ ॥
आगमेनागमस्यैव विरोधे युक्तिरिष्यते ।
उपजीव्यविरोधे तु वेदस्यान्यार्थकल्पना ॥ २,१.१७ ॥
प्रत्यक्षमुपजीव्यं स्यात्प्रायो युक्तिरपि क्वचित् ।
आगमैकप्रमाणेषु तस्यैव ह्युपजीव्यता ॥ २,१.१८ ॥
युक्तोऽयुक्तश्च यद्यर्थ आगमस्य प्रतीयते ।
स्यात्तत्र युक्त एवार्थो युक्तिश्च त्रिविधा मता ॥ २,१.१९ ॥
व्याप्तिः प्रत्यक्षता यस्या युक्तिगाऽगमगा तथा ।
प्रत्यक्षागममूला तु युक्तिस्तत्र बलीयसी ॥ २,१.२० ॥
याथार्थ्यमेव मानत्वं तन्मुख्यं ज्ञानशब्दयोः ।
अर्थत्वमर्यतैव स्यान्न क्रियार्थेषु सा मता ॥ २,१.२१ ॥
ज्ञानार्थे ज्ञेयता मुख्या शब्दार्थे तदनन्तरम् ।
यथार्थज्ञानजनका यथार्था युक्तयः स्मृताः ॥ २,१.२२ ॥
अनुप्रमाणमेतानि ह्यक्षयुक्तिवचांस्यतः ।
प्रामाण्यं नानुवादस्य स्मृतेरपि विहीयते ॥ २,१.२३ ॥
याथार्थ्यमेव प्रामाण्यशब्दार्थो यद्विवक्षितः ।
अङ्गीकृतं चेत्प्रामाण्यं स्मृत्यादेः का विरोधता ॥ २,१.२४ ॥
नचाफलत्वं वक्तव्यं सर्वस्मृत्यनुवादयोः ।
फलवत्त्वं नचास्माभिः प्रामाण्यं हि विवक्षितम् ॥ २,१.२५ ॥
तृणादिदर्शने किं च फलवत्त्वं निगद्यते ।
सुखदुःखादिकं किञ्चित्स्मृतावपि हि दृश्यते ॥ २,१.२६ ॥
न परिच्छेदकार्येव प्रमाणमिति च प्रमा ।
निर्दोषाक्षोद्भवं ह्यत्र प्रत्यक्षमिति गीयते ॥ २,१.२७ ॥
प्राकृतं शुद्धचैतन्यमक्षं तु द्विविधं मतम् ।
शुद्धमीशरमामुक्तेष्वन्यत्र प्राकृतैर्युतम् ॥ २,१.२८ ॥
निर्दोषमेव चैतन्यमन्यत्रोभयमिष्यते ।
सुखदुःखादिविषयं शुद्धं संसारगेष्वपि ॥ २,१.२९ ॥
निर्दोषत्वातिनियमात्तद्बलिष्ठतमं मतम् ।
पञ्चेन्द्रियमनोभेदात्प्राकृतं षड्विधं स्मृतम् ॥ २,१.३० ॥
अनुमा युक्तिरेवोक्ता व्याप्तिरेव तु सा स्मृता ।
प्रतिज्ञातार्थसिद्धयर्थं व्याप्तिरेव यदोदिता ॥ २,१.३१ ॥
अवशिष्टं किमत्रास्ति लिङ्गं तत्र विजानतः ।
यदि लिङ्गमसिद्धं स्यात्कुत एवास्य मानता ॥ २,१.३२ ॥
यदि स्मारकमात्रं स्यात्स्मर्तुर्नात्र प्रयोजनम् ।
न पञ्चावयोक्तौ च विवादावसितिर्भवेत् ॥ २,१.३३ ॥
दृष्टान्तादिषु चैवं स्यात्साधनं पुनरेव हि ।
लिङ्गोक्तावपि चैवं स्यादनुमावसितिर्ध्रुवा ॥ २,१.३४ ॥
विरोधोऽसङ्गतिश्चैव साक्षाद्युक्तेस्तु दूषणम् ।
प्रतिज्ञायामसम्बन्धो युक्तेरुक्ता ह्यसङ्गतिः ॥ २,१.३५ ॥
विरोधोऽपि त्रिधैव स्यात्प्रतिज्ञार्थविरुद्धता ।
लिङ्गराहित्यमव्याप्तिर्न्यूनाधिक्ये तु वाचिके ॥ २,१.३६ ॥
साध्यव्यापकवैलोम्यमव्याप्तिः साधनस्य च ।
दुर्बलेन विरोधेऽपि न प्रमाणमसाधकम् ॥ २,१.३७ ॥
स्ववाक्येन विरोधेऽपि नैव साधकतां व्रजेत् ।
संवादानुक्तिसंयुक्ता एत एव च निग्रहाः ॥ २,१.३८ ॥
वादो जल्पो वितण्डेति कथास्तिस्रो विजानताम् ।
स्वार्थं परार्थमपि वा तत्त्वनिर्णयसाधनी ॥ २,१.३९ ॥
केवलं तु कथा वादो जल्पोऽर्थादिव्यपेक्षया ।
सतामेव कथा ज्ञेया वितण्डा त्वसतां सताम् ॥ २,१.४० ॥
अप्रकाश्य स्वसिद्धान्तमसतां पक्षदूषणम् ।
उक्ते तैः प्रथमं माने वक्तव्यं तस्य दूषणम् ॥ २,१.४१ ॥
विद्यापरीक्षापूर्वैव वितण्डा जल्प एव च ।
उच्चनीचत्वनिर्णीतिर्यतो जयपराजयौ ॥ २,१.४२ ॥
विनैव तत्त्वनिर्णीतिं न हि जल्पादिना क्वचित् ।
उच्चनीचत्वविज्ञानमिति विद्यापरीक्षणम् ॥ २,१.४३ ॥
वादेन चोच्चनीचत्वविज्ञानं भवति स्फुटम् ।
इति वादस्य पूर्वत्वं तत्सिद्धौ व्यर्थतान्ययोः ॥ २,१.४४ ॥
बहुविद्यत्वसिद्धौ तु नैव वादोऽपि कारणम् ।
सभासभापप्राश्नीकपूर्वस्तु स्पर्धिनामपि ॥ २,१.४५ ॥
वाद एवोभयार्थः स्यान्निर्णीतिजयकारकः ।
तत्त्वाप्रकाश एवैको वितण्डाजल्पयोः फलम् ॥ २,१.४६ ॥
विना वादेन विद्याया यदि शक्यं परीक्षणम् ।
स्याज्जल्पादिरपि क्वापि वाद एवान्यथा भवेत् ॥ २,१.४७ ॥
जल्प इत्यपि नाम स्याद्वादस्यैतादृशस्य तु ।
प्रतिज्ञामात्रसाध्यत्वमपि स्याद्याज्ञवल्क्यवत् ॥ २,१.४८ ॥
सभा सभापतिश्चैव प्राश्निकाश्चैव वैष्णवाः ।
रागद्वेषविहीनाश्च स्युः सभ्याः सर्ववेदिनः ॥ २,१.४९ ॥
प्राश्निकाश्चैतदज्ञाने सभ्याश्चैषां च दूरगाः ।
प्रमाणं निर्णयाय स्युः पक्षपातविवर्जिताः ॥ २,१.५० ॥
उभाभ्यां साधनं चैव दूषणं वादजल्पयोः ।
सद्भिरागम एवैकः प्रयोज्योऽभीष्यसाधकः ॥ २,१.५१ ॥
स्वसिद्धान्तानुसारेण ह्यसद्भिरनुमोच्यते ।
प्रत्यक्षागमवैरूप्यमाश्रित्यान्यार्थतैव तु ॥ २,१.५२ ॥
आगमे दशर्नीयात्र दोषो लिङ्गविलोमता ।
लिङ्गानुकूल्यं स्वार्थस्य श्रुत्यादीनामनुग्रहः ॥ २,१.५३ ॥
त्रिपञ्चावयवामेव युग्मावयविनीमपि ।
नियमाद्योऽनुमां ब्रूयाद्तं ब्रूयाद्यदि तादृशी ।
नानुमेति तदा केन साध्यावयवकल्पना ॥ २,१.५४ ॥
[ण्Oट्E जुम्पिन् वेर्से नुम्बेरिन्ग्, नो लचुन इन् तेxत्!]
नियतावयवासिद्धौ व्याप्तिमात्रेण साधनम् ।
कर्तव्यमेव तेन स्यात्तस्मात्सैवानुमा मता ॥ २,१.५७ ॥
अनुभूतिः प्रमाणं चेत्केन स्मृतिरपोद्यते ।
पूर्वानुभूते किं मानमित्युक्ते स्यात्किमुत्तरम् ॥ २,१.५८ ॥
मानसं तद्धि विज्ञानं तच्च साक्षिप्रमाणकम् ।
अतीतानागतं यद्वद्योगिभिर्दृश्यतेऽञ्जसा ।
एवं पूर्वानुभूतं च मनसैवावगम्यते ॥ २,१.५९ ॥
विज्ञातं मनसा पूर्वं मयैतत्कृतमित्यपि ।
साक्षादनुभवात्सिद्धं कथमेव ह्यपोद्यते ॥ २,१.६० ॥
एवं लक्षणके मानत्रये ब्रह्मादिवस्तुषु ।
प्रमाणं वेद एवैकस्तत्प्रामाण्यं च साधितम् ॥ २,१.६१ ॥
तथापि मृज्जलादीनां बुद्धिवागादिवाचकः ।
दृष्टव्याप्तिविरुद्धत्वात्तत्र मानं कथं भवेत् ॥ २,१.६२ ॥
ततस्तन्नामकः कश्चित्पुमानन्यो भवेदिति ।
युक्तयागमाविरोधेन प्राप्तमत्राभिधीयते ॥ २,१.६३ ॥
बालरूढिं विनैवापि विद्वद्रूढिसमाश्रयात् ।
तत्तन्नामान एवैते तत्तद्वस्त्वभिमानिनः ॥ २,१.६४ ॥
सन्ति तेषां विशेषेण शक्तिरन्येभ्य उच्यते ।
व्याप्तिश्चोक्तानुसारेण दृश्यन्ते चाधिकारिभिः ॥ २,१.६५ ॥
शास्त्रोक्तवस्तुनश्चैव व्युत्पत्तिः शास्त्रलिङ्गतः ।
व्युत्पत्तिः सा बलवती मूर्खव्युत्पत्तिता हि यत् ॥ २,१.६६ ॥
दृढयुक्तिविरोधे तु सर्वत्र न्याय ईदृशः ।
अल्पवाक्ययुता युक्तिर्बहुलैव विरोधिनी ॥ २,१.६७ ॥
यत्र तत्र कथं वस्तुनिर्णयः स्यादितीरिते ।
विरोधियुक्तिबाहुल्यादिति न्यायो विनिश्चितः ॥ २,१.६८ ॥
युक्तेस्तु युक्तिबाहुल्यमागमादागमस्य च ।
कथं न निर्णयं कुर्यादित्यसत्कारणं न हि ॥ २,१.६९ ॥
श्रुत्यर्थो भवति क्वापि श्रुतिप्रायोपपत्तिभिः ।
अविरोधश्चतुर्थे तु पाते सम्यक्समर्थ्यते ॥ २,१.७० ॥
असत्कार्यं यथा दृष्टं वस्तुत्वात्कारणं तथा ।
इति चेन्न निषेधैकस्वरूपस्य न कर्तृता ॥ २,१.७१ ॥
बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमिह निश्चितम् ।
प्रतिषेधात्मकत्वं तु भावस्याभावधर्मतः ।
धर्मधर्मैक्यतश्चैव नतु तन्मात्रता भवेत् ॥ २,१.७२ ॥
अभावस्य च भावोऽपि धर्मोऽथापि हि धर्मिणः ।
तादृक्तवं मात्रतेहोक्ता बुद्धिराहित्यमेव तत् ॥ २,१.७३ ॥
विशेष्यतैव धर्मित्वं प्रथमप्रतिपत्तिषु ।
निषेधविधिरूपत्वं भावाभावत्वमत्र हि ॥ २,१.७४ ॥
सर्वनाशेष्वपि सदा शिष्टत्वाद्यस्य कस्य नुः ।
नाशोऽयं विमतोऽपि स्यान्नाशत्वात्कर्तृशेषवान् ॥ २,१.७५ ॥
नचाशेषनृनाशस्तु दृष्टो दृश्योऽस्ति वा क्वचित् ।
धर्माधर्माश्रयत्वेन स्वीकार्योऽपि नरो लये ॥ २,१.७६ ॥
अनादित्वं विनादृष्टं कथं स्यात्कारणं क्वचित् ।
पूर्वादृष्टात्परादृष्टं यदि नैवोत्तरं कुतः ॥ २,१.७७ ॥
अदृष्टं कारणं नो चेल्लये मानं च किं भवेत् ।
उत्पत्तिनाशकारी हि बुद्धिमान् दृश्यते क्वचित् ॥ २,१.७८ ॥
तद्दृष्टान्तेन सर्वत्र कर्ता किं नानुमीयते ।
आगमानुगृहीता तु मानमेषानुमापितु ॥ २,१.७९ ॥
आगमानुग्रहाभावे न तर्कः स्यात्प्रतिष्ठितः ।
अक्षजागममूलस्य स्यादेवास्य प्रतिष्ठितिः ।
अन्यथास्याप्रतिष्ठा च स्ववाचा व्याहतैव हि ॥ २,१.८० ॥
न च शिष्यागृहीतत्वं निरीशादीशवादिनः ।
अतोऽवशिष्टजीवादिकर्तृतात्र निषिद्धयते ॥ २,१.८१ ॥
तन्मनोऽकुरुतेत्यादेरसतो मनसो जनिः ।
निवारिता तु पूर्वत्र ह्यकस्मादिति तद्विना ॥ २,१.८२ ॥
असतो विश्वजननमाशङ्कयात्र निषिद्धयते ।
प्रापकं वाक्यमात्रं तु परिहारो विशेषितः ॥ २,१.८३ ॥
क्वचिज्जीवाकृतं दृष्ट्वा चेतनादेव चाकृतम् ।
तद्वदेवानुमान्यत्र वस्तुत्वात्क्रियते श्रुतेः ॥ २,१.८४ ॥
नान्यदन्यत्वमापन्नं क्वचिद्दृष्टं कथञ्चन ।
अतो जीवस्य न ब्रह्मभावः स्याद्धि कदाचन ॥ २,१.८५ ॥
क्वचिद्भिन्नतया दृष्टं तदभिन्नतया कथम् ।
दृश्येन्नो दृष्टपूर्वं हि तादृशं न च दृश्यते ॥ २,१.८६ ॥
भोक्तृत्वापत्तित इति यन्मतं तत्कुतो हरिः ।
भोक्त्रापत्तेरिति प्राह कथं च तदनन्यता ॥ २,१.८७ ॥
जगतस्त्वविकारत्व उक्तन्यायेन साधिते ।
स्वतन्त्रकारणान्यत्वं तेन ह्यत्र निषिद्धयते ॥ २,१.८८ ॥
द्रव्यं कर्म च कालश्च स्वभावश्चेतना धृतिः ।
यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया ।
इति श्रुतेस्तद्वशस्य भावो न पर इत्यतः ॥ २,१.८९ ॥
शक्तोऽपि ह्यन्यथाकर्तुं स्वेच्छानियमतो हरिः ।
कारणैर्नियतैरेव करोतीदं जगत्सदा ॥ २,१.९० ॥
नित्यभेदो निमित्तेन ह्युपादानेन तु द्वयम् ।
असद्यत्कार्यरूपेण कारणात्मतयास्ति हि ॥ २,१.९१ ॥
अनवस्थान्यथा हि स्यात्सर्वत्रोत्पत्तिनाशयोः ।
शक्तोऽपि भगवान् विष्णुरकर्तुं कर्तुमन्यथा ॥ २,१.९२ ॥
स्वभिन्नं कारणाभिन्नभिन्नं विश्वं करोत्यजः ।
इति श्रुतेरवसित उक्तार्थोऽयमशेषतः ॥ २,१.९३ ॥
अनंशस्यापि जीवस्य किञ्चित्सामर्थ्ययोजनाम् ।
कार्येषु यः करोत्यद्धा नमस्तस्मै स्वयम्भुवे ॥ २,१.९४ ॥
यदि भागेन कार्येषु जीवशक्तिं न योजयेत् ।
हरिस्तदा हि सर्वत्र कृत्स्नयत्नोंऽशितापि वा ॥ २,१.९५ ॥
अंशिनो हि पटाद्या ये भिन्नैरेव परस्परम् ।
अंशैरंशिन उच्यन्ते नैवमेव हि चेतनाः ॥ २,१.९६ ॥
अतोऽनंशिन इत्येव श्रुतिरेतेषु वर्तते ।
अप्यनेकस्वरूपेषु विशेषादेव केवलम् ॥ २,१.९७ ॥
बहुस्वरूपताख्या तु तेष्वस्त्येव हि सांशता ।
बहुत्वेनाविनाभावाद्भिन्नता नियमाद्भवेत् ॥ २,१.९८ ॥
यदि नैवं नियमकृद्भगवान् पुरुषोत्तमः ।
तस्य त्वशेषशक्तित्वाद्युज्यते सवर्मेव च ॥ २,१.९९ ॥
विरोधः सर्ववैशिष्टये यो द्वितीये निरस्यते ।
नारायणस्य त्वध्याये तदन्ये तत्रतत्रगाः ॥ २,१.१०० ॥
सृष्टिसंहारवाक्यानां जीवरूपाभिधायिनाम् ।
अप्यन्योन्याविरोधस्तु द्वितीयाध्यायगोचरः ॥ २,१.१०१ ॥
मानमेयविशेषेण पुनरुक्तिर्न जायते ।
सदा प्रवृत्तिरीशस्य स्वभावादेव केवलम् ॥ २,१.१०२ ॥
अङ्गचेष्या यथा पुंसः काश्चिदुद्देशवर्जिताः ।
देवस्यैष स्वभावोऽयमित्याह श्रुतिरञ्जसा ॥ २,१.१०३ ॥
क्रीडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी ।
इति केवललीलैव निर्णीता प्रभुणा स्वयम् ॥ २,१.१०४ ॥
आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयत् ।
न प्रयोजनवत्त्वेनेत्यत आह जगद्गुरुः ॥ २,१.१०५ ॥
इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः ।
इति प्रशंसया कामश्रुतिभ्यश्चैव युक्तितः ।
महातात्पर्ययुक्तेश्च नेच्छामात्रं निषिद्धयते ॥ २,१.१०६ ॥
मोक्षार्थाः श्रुतयो यस्मात्स च तस्य प्रसादतः ।
उन्निनीषतिवाक्याच्च लोकदृष्टानुसारतः ॥ २,१.१०७ ॥
इच्छांनिमित्तको यस्मात्तदभावे कुतः श्रुतिः ।
महातात्पर्यरहिता प्रमाणत्वं गमिष्यति ॥ २,१.१०८ ॥
याथार्थ्यमेव मानत्वमपि वाक्यं प्रयोजकम् ।
मानत्वमेति तत्रापि यत्सम्पूर्णप्रयोजनम् ॥ २,१.१०९ ॥
वैषम्यं चैव नैर्घृण्यं वेदाप्रामाण्यकारणम् ।
नाङ्गीकार्यमतोऽन्यत्तु न वैषम्यादिनामकम् ॥ २,१.११० ॥
यदधीना गुणाश्चैव दोषा अपि हि सर्वशः ।
गुणास्तस्य कथं न स्युः स्युर्देषाश्च कथं पुनः ॥ २,१.१११ ॥
सर्वधर्मापपत्तेस्तद्वाक्यैरपि हि तादृशैः ।
निर्दोषाशेषगुणको निर्णीतो भगवान् हरिः ॥ २,१.११२ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य प्रथमः पादः ॥
स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः ।
एवं चतुर्विधा नैव विरुद्धयन्तेऽन्वयं प्रति ॥ २,२.१ ॥
इति प्रथमपादेन निर्णीतेऽप्यभियोगतः ।
दर्शनानां प्रवृत्तत्वान्मन्द आशङ्कते पुनः ॥ २,२.२ ॥
अनादिकालतो वृत्ताः समया हि प्रवाहतः ।
नचोच्छेदोऽस्ति कस्यापि समयस्येत्यतो विभुः ॥ २,२.३ ॥
भ्रान्तिमूलत्वमेतेषां पृथग्दर्शयति स्फुटम् ।
तर्कैर्दृढतमैरेव वाक्यैश्चागमवादिनाम् ॥ २,२.४ ॥
दौर्लभ्याच्छुद्धबुद्धीनां बाहुल्यादल्पवेदिनाम् ।
तामसत्वाच्च लोकस्य मिथ्याज्ञानप्रसक्तितः ।
विद्वेषात्परमे तत्त्वे तत्त्ववेदिषु चानिशम् ॥ २,२.५ ॥
अनादिवासनायोगादसुराणां बहुत्वतः ।
दुराग्रहगृहीतत्वाद्वर्तन्ते समयाः सदा ॥ २,२.६ ॥
तथापि शुद्धबुद्धीनामीशानुग्रहयोगिनाम् ।
युयुक्तयस्तमो हन्युरागमानुगताः सदा ॥ २,२.७ ॥
इति विद्यापतिः सम्यक्समयानां निराकृतिम् ।
चकार निजभक्तानां बुद्धिशाणत्वसिद्धये ॥ २,२.८ ॥
चेतनाचेतनं तत्त्वद्वयमेव निरीश्वराः ।
आहुस्तत्पञ्चपञ्चत्वविभागस्थमचेतनम् ।
चेतनं तदसङ्खयातं भिन्नमन्यद्लयं भवेत् ॥ २,२.९ ॥
अचेतनस्य कर्तृत्वं स्वातन्त्र्येण निगद्यते ।
परस्परविभेदश्च कार्याणामालयं भवेत् ॥ २,२.१० ॥
भोक्तृणां चेतनस्याहुः केचित्तामपि नापरे ।
स्वरूपचैतन्यबलात्स्वप्रकाशाच्च भोगिताम् ॥ २,२.११ ॥
प्रकृतेश्च स्वरूपस्य विवेकाग्रहमेव तु ।
अभोगवादिनो भोगमाहुर्भेदग्रहात्तयोः ॥ २,२.१२ ॥
भोगिनां मुक्तिरुद्दिष्टा स एवाभोगवादिनाम् ।
ईशस्यासङ्ग्रहादेव न युक्तौ तावुभावपि ॥ २,२.१३ ॥
चेतनेच्छानुसारेण यदा दृष्टः पटोद्भवः ।
एतादृशत्वमन्यस्य वस्तुत्वात्केन वार्यते ॥ २,२.१४ ॥
न च काचित्प्रमोक्तार्थे श्रुतिरेव प्रमा हि नः ।
आप्तत्वमुक्तमार्गेण वक्तुर्नैवोपपद्यते ॥ २,२.१५ ॥
अप्रामाण्यस्वतस्त्वस्य स्वीकारादपि मायिवत् ।
स्वोक्ताखिलनिषेधी स्यान्न च किञ्चित्प्रसिद्धयति ॥ २,२.१६ ॥
इदं नाचेतनवशं वस्तुत्वात्प्रतिपन्नवत् ।
इत्येव प्रतिषिद्धस्य केन मूलानुमा भवेत् ॥ २,२.१७ ॥
स्वतन्त्रवृत्ती रचना सा चैवाचेतने कुतः ।
अचेतनत्वं स्वातन्त्र्यमिति चात्मप्रमाहतम् ॥ २,२.१८ ॥
स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः ।
कुत इच्छाचेतनस्य सेच्छं चेत्किमचेतनम् ॥ २,२.१९ ॥
इच्छाम्यहमिति ह्येव निजानुभवरोधतः ।
अचेतनेच्छापगता यदि भेदाग्रहोऽत्र च ॥ २,२.२० ॥
कथं न स घटस्य स्यान्मनो म इति भेदतः ।
मनसोऽपि गृहीतत्वादुभयात्मकता यतः ॥ २,२.२१ ॥
कामस्य तु मनः कामः प्रियाप्रियविभेदतः ।
द्वैविध्यं दृश्यते चास्य तस्माद्भेदाग्रहः कुतः ॥ २,२.२२ ॥
रचनानुपपत्तेस्तन्न सर्वज्ञानुमागतम् ।
अचेतनं जगत्कर्तृ पयोऽम्ब्वादि च नोपमा ॥ २,२.२३ ॥
एतत्प्रशास्तिवचनाच्चेतनाचेतनस्य च ।
द्वैविध्येऽपितु कामादेः कुतः स्वामित्वमात्मनः ॥ २,२.२४ ॥
साक्षादनुभवारूढं शक्यतेऽपोदितुं क्वचित् ।
इच्छास्वामित्वमेवोक्तमिच्छावत्त्वं नचापरम् ॥ २,२.२५ ॥
किञ्चित्तद्वशगत्वेऽपि स्वामित्वं लोकवद्भवेत् ।
सर्वात्मतन्त्रकामादेः किमुतैव परेशितुः ॥ २,२.२६ ॥
न चानुभवगं कामस्वामित्वं वेदवागपि ।
शक्तापवदितुं तस्मात्सा तदन्याभिधायिनी ॥ २,२.२७ ॥
मोक्षकामो भवेदन्यो यदि मुक्ताद्भविष्यतः ।
मोक्षकामस्य किं तेन स्वनाशार्थं च को यतेत् ॥ २,२.२८ ॥
कर्तृत्वं यस्य तस्यैव भोक्तृत्वमुपलभ्यते ।
विभागे च तयोर्मानं नैव किञ्चित्क्वचिद्भवेत् ॥ २,२.२९ ॥
सर्वमानविरोधैकदुर्दीक्षादीक्षितस्त्वयम् ।
मायावाद्युपमां यायात्तच्चशब्दान्निराकृतः ॥ २,२.३० ॥
साङ्खयस्तु सेश्वरो ब्रूते क्षेत्रानुग्रहशक्तिमान् ।
अस्तीश्वरः स्वयम्भातः क्लेशकर्मादिवर्जितः ॥ २,२.३१ ॥
क्षेत्रशक्तिमती सैव प्रकृतिर्बीजशक्तिमान् ।
जीवः पर्जन्यवद्दैवशक्तिमानीश्वरः स्मृतः ॥ २,२.३२ ॥
पृथिवीवत्प्रधानं तज्जीवः सन्निधिमात्रतः ।
बीजावपनकर्तेवेत्यत्र प्राह प्रभुः स्वयम् ॥ २,२.३३ ॥
अन्यत्र कापि शक्तिर्न स्वातन्त्र्येणेश एव हि ।
शक्तीस्ताः प्रेरयत्यञ्जस्तदधीनाश्च सर्वदा ॥ २,२.३४ ॥
सत्ताप्रधानपुरुषशक्तीनां च प्रतीतयः ।
प्रवृत्तयश्च ताः सर्वा नित्यं नित्यात्मना यतः ॥ २,२.३५ ॥
यथा नित्यतया नित्यं नित्यशक्तया स्वयेश्वरः ।
नियामयति नित्यं च न ऋते त्वदिति श्रुतेः ॥ २,२.३६ ॥
स्वभावजीवकर्माणि द्रव्यं कालः श्रुतिः क्रियाः ।
यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया ॥ २,२.३७ ॥
इति श्रुतेर्न सत्ताद्या अपि नारायणं विना ।
तत्पतञ्जलिविन्ध्यादिमतं न पुरुषार्थदम् ॥ २,२.३८ ॥
चार्वाकैरुच्यते मानमक्षजं नापरं क्वचित् ।
देह आत्मा पुमर्थश्च कामार्थाभ्यां विना न हि ॥ २,२.३९ ॥
यदेवं दर्शनेनास्य कोऽर्थः प्रत्यक्षगोचरः ।
लब्धस्तेनैव हि नरैः शास्त्रात्किं मोहनं विना ॥ २,२.४० ॥
स्वपरार्थविहीनत्वात्स्वमतेनैव निष्फलम् ।
किमित्युन्मत्तवच्छास्त्रं वृथा प्रलपति स्वयम् ॥ २,२.४१ ॥
देहादन्योऽनुभवत आत्मा भाति शरीरिणाम् ।
मम देह इति व्यक्तं ममार्थ इतिवत्सदा ॥ २,२.४२ ॥
प्रत्यक्षस्यैव मानत्वमिति केनावसीयते ।
यदि तत्साधकं वेदप्रामाण्ये न कथं भवेत् ॥ २,२.४३ ॥
न चान्यामानता क्वापि प्रमाणेनावसीयते ।
स्वमतेनार्थरहित उपेक्ष्यः पक्ष ईदृशः ॥ २,२.४४ ॥
सन्निधानाच्चेतनस्य वर्तते यद्यचेतनम् ।
तथाप्यबुद्धिपूर्वत्वादुक्तदोषः समो भवेत् ॥ २,२.४५ ॥
अङ्गित्वं पुरुषस्यैव सर्वैरप्यनुभूयते ।
तदङ्गत्वोक्तितश्चैव स्यात्सर्वस्यापलापकः ।
किमु सर्वेश्वरस्यास्य ह्यपलाषाद्यतोऽखिलम् ॥ २,२.४६ ॥
अङ्गित्वं यदि तस्यैव स्वातन्त्र्यं चेन्नचाखिलम् ।
तत्प्रेरणेऽप्यशक्तत्वात्स्वतन्त्रोऽन्यो ह्यपेक्षितः ॥ २,२.४७ ॥
न च स्वातन्त्र्यमस्यैव प्रत्यक्षादिविरोधतः ।
हिताकृत्यादिदोषाच्च भद्रं नानीश्वरं मतम् ॥ २,२.४८ ॥
संसारिणोऽन्यं सर्वेशं सर्वशक्तिमनौपमम् ।
चेतनाचेतनस्यास्य सत्त्वादेस्तदधीनताम् ।
नाङ्गीकुर्वन्ति ये तेषां सर्वेषां च समा इमे ॥ २,२.४९ ॥
तस्माच्छ्रुतिप्रमाणेन युक्तिभिश्च परो हरिः ।
अङ्गीकायर्तमो नित्यः सर्वैरपि सुनिश्चितम् ॥ २,२.५० ॥
नित्यज्ञानप्रयत्नेच्छं सङ्खयद्यैरपि पञ्चभिः ।
युक्तमीशं वदन्त्यन्ये तदिच्छादृष्टचोदिताः ।
परमाणवश्चतुर्वर्गाः संयुज्यन्ते द्विशोऽखिलाः ॥ २,२.५१ ॥
परमाणुद्वयेनैव द्वयणुकं नाम जायते ।
द्वयणुकत्रयेण तृयणुकं तैश्चतुर्भिस्तदात्मकम् ॥ २,२.५२ ॥
ततस्त्वनियमेनैव खण्डावयविनां भवः ।
ततश्चानियमेनैव सर्वावयविसम्भवः ॥ २,२.५३ ॥
कारणं समवाय्याख्यं परमाण्वादि तत्र हि ।
ईशेच्छादृष्टकालास्तु निमित्तं कारणं मतम् ॥ २,२.५४ ॥
सामान्यान्त्यविशेषौ च समवायश्च तत्त्रयम् ।
नित्यं क्रिया अनित्यास्तु गुणद्रव्ये द्विरूपके ॥ २,२.५५ ॥
कार्ये गुणक्रियाणां तु समवाय्यन्यकारणम् ।
कारणस्था गुणाद्यास्तु संयोगो द्रव्यकारणम् ॥ २,२.५६ ॥
एवं स्थितेऽपि सिद्धान्ते विशेषस्तत्र कल्पितः ।
द्वयणुके परमाणौ च ह्रस्वत्वं परिमण्डलम् ॥ २,२.५७ ॥
न कारणं कार्यगुणे वैरूप्यं तत्र कारणम् ।
इत्याहुस्तानथोवाच विद्याधीशः स्वयं प्रभुः ॥ २,२.५८ ॥
महत्त्वं चैव दीर्घत्वं तृयणुकाद्येषु कल्पितम् ।
तस्माच्च सदृशं कार्यं तत्कार्येषूपजायते ॥ २,२.५९ ॥
यथा तथैव ह्रस्वत्वात्पारिमाण्डल्यतोऽपि हि ।
जायेत सदृशं कार्ये परिमाणं समत्वतः ॥ २,२.६० ॥
न चेन्महत्त्वतश्चैव दीघर्त्वादपि नो भवेत् ।
सदृशस्य हि कार्यस्य नैव योगः कथञ्चन ॥ २,२.६१ ॥
अप्रत्यक्षत्वमेवं स्याद्यतः कार्येष्वणुत्वतः ।
इति चेन्न महत्त्वं च परमाणावणावपि ।
कथं तृयणुकपूर्वेषु नाणुत्वमपि कथ्यते ॥ २,२.६२ ॥
प्रत्यक्षत्वतदन्यत्वे पुरुषापेक्षयाखिले ।
अणुत्वं च महत्त्वं च यतो वस्तुव्यपेक्षया ॥ २,२.६३ ॥
तारतम्यस्थिता यस्मात्पदार्थाः सर्व एव च ।
यथा महत्त्वविश्रान्तिस्तथाणुत्वस्य चेष्यते ॥ २,२.६४ ॥
परिमाणत्वतश्चेन्न महत्त्वस्यापि विश्रमः ।
दृश्यतेऽनन्त इत्येव तथानन्त्यमणावपि ॥ २,२.६५ ॥
न महत्तत्वगुणत एतावानिति हीश्वरः ।
परिच्छिन्नस्तथाणोश्च नैतावद्भागता क्वचित् ॥ २,२.६६ ॥
विश्रान्तो यद्यनन्तांशः कश्चिदस्तीति गम्यते ।
नावसाययितुं शक्यो विरोधादेव केवलम् ॥ २,२.६७ ॥
केवलं साक्षिमानेन कालो देशोऽपि नान्तवान् ।
अपर्यवसितिश्चाणोर्दृश्यते सक्षिणा द्वयोः ॥ २,२.६८ ॥
यदि नो साक्षिगम्यं तन्महत्त्वं केन गम्यते ।
विश्रान्तिस्तारतम्येन दृश्यते ह्यनुमानतः ॥ २,२.६९ ॥
यद्यागमादनन्तं तन्महत्त्वमवगम्यते ।
अनन्तमेव चाणुत्वं कुतो नैवावसीयते ॥ २,२.७० ॥
महत्त्वाणुत्वयोर्नैव विश्रान्तिरुपलभ्यते ।
अन्यदेव ह्यनन्तत्वं महत्त्वाणुत्वयोः समम् ॥ २,२.७१ ॥
बहुत्वाल्पत्वयोर्यद्वत्साङ्खयायामुपलभ्यते ।
आनन्त्यमेकभागानां तावत्त्वं ह्येव गण्यते ॥ २,२.७२ ॥
अणीयांश्च महीयांश्च भगवानागमोदितः ।
आनन्त्यवाचकः शब्दो द्विधानन्त्येऽपि मानताम् ॥ २,२.७३ ॥
याति नैव गुणाल्पत्वं कालात्पत्वं च मानगम् ।
सर्वकालगतस्याल्पकालेऽपि स्यादवस्थितिः ॥ २,२.७४ ॥
महागुणस्य चाल्पोऽपि गुणः स्यादिति चेद्भवेत् ।
तावत्त्वमेव नैव स्याद्देशेऽप्येतन्न नो मतम् ॥ २,२.७५ ॥
महतोऽल्पत्वमपि हि व्योमवत्प्राह वेदवित् ।
यद्यल्पदेशसंस्थानं न सर्वत्रापि नो भवेत् ॥ २,२.७६ ॥
स्थितस्य ह्यल्पदेशेषु सर्वगत्वं भवेद्ध्रुवम् ।
एकत्राप्यनवस्थस्य कुत एवाखिलस्थता ॥ २,२.७७ ॥
शून्यत्वमेव तस्य स्याद्यस्यैकत्रापि न स्थितिः ।
अतो नाणुत्वविश्रान्तिर्न महत्त्वस्य च क्वचित् ॥ २,२.७८ ॥
उभयानन्त्ययुक्तस्माद्यदि मुख्यमहद्भवेत् ।
तच्च ब्रह्म परं साक्षात्सर्वानन्त्ययुतं सदा ॥ २,२.७९ ॥
यदि साक्षी स्वयम्भातो न मानं केन गम्यते ।
अक्षजादेश्च मानत्वमनवस्थाथवा भवेत् ॥ २,२.८० ॥
अतः सर्वपदार्थानां भागाः सन्त्येव सर्वदा ।
सर्वदिक्ष्वपि सम्बन्धादविभागः पराणुता ॥ २,२.८१ ॥
तत्संयोगादनियतात्पदार्थानां जनिर्भवेत् ।
द्वयोरेव तु संयोग इति केनावसीयते ॥ २,२.८२ ॥
कारणस्य गुणास्तेन भवेयुः कार्यगा अपि ।
तारतम्येन सर्वेऽपि महान्तश्चाणवो यतः ॥ २,२.८३ ॥
न च तत्प्रोक्तसृष्टौ तु मानं केवलकल्पना ।
कथं साक्षिमितस्यास्य शक्नुयाद्वारणे क्वचित् ॥ २,२.८४ ॥
यदि साक्षिमितं नैतन्नानुमा तत्र वर्तते ।
पक्षीकर्तुमशक्यत्वात्कुत एवानुमा भवेत् ॥ २,२.८५ ॥
यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात् ।
देशान्तरादिशब्दश्च शशशृङ्गादिशब्दवत् ॥ २,२.८६ ॥
सदृशं च सजातीयं नास्मत्पक्षे किमेव हि ।
येनैव च प्रकारेणात्यसिद्धमनुमीयते ।
तेनैव शशृङ्गादेः शक्यमस्तित्वकल्पनम् ॥ २,२.८७ ॥
प्रत्यक्षमागमो वापि भवेद्यत्र नियामकः ।
सैव व्याप्तिर्भवेन्मानं नान्या सन्दिग्धमूलतः ॥ २,२.८८ ॥
सहदर्शनमात्रेण न व्याप्तिरवसीयते ।
यदैवाव्यतिरेकस्य ह्यक्षजं वागमो भवेत् ।
तन्निर्धारितयुक्तिर्वा व्याप्तिः सैवापरा न हि ॥ २,२.८९ ॥
अन्यथा सप्तमरसभवोऽप्यनुमयाऽपतेत् ।
अनिष्टानि च सर्वाणि ह्यनुमा कामचारिणी ॥ २,२.९० ॥
कार्यकारणयोश्चैव गुणादेः पञ्चकस्य च ।
भिन्नस्यैव तु सम्बन्धः समवायोऽन्य ईर्यते ॥ २,२.९१ ॥
भिन्नत्वसाम्यतस्तस्य ताभ्यां योगो भवेद्ध्रुवम् ।
स स्वनिर्वाहकश्चेत्स्याद्द्रव्यमेव तथा न किम् ॥ २,२.९२ ॥
विशेषस्तद्गतत्वादिर्यद्यभिन्नेऽवसीयते ।
गुणक्रियादिरूपस्य निषेधः केन हेतुना ॥ २,२.९३ ॥
द्रव्यमेव ततोऽनन्तविशेषात्मतया सदा ।
नानाव्यवहृतेर्हेतुरनन्तत्वं विशेषतः ॥ २,२.९४ ॥
विशेषश्च विशेषी सः स्वेनैव समवायवत् ।
कल्पनागुरुतादोषात्पदार्थान्तरता न हि ॥ २,२.९५ ॥
कल्पयित्वा षट्पदार्थान् साभावानपि केवलम् ।
एकस्मिन् स विशेषश्चेत्किं पूर्वं तस्य विस्मृतिः ॥ २,२.९६ ॥
येन प्रत्यक्षसिद्धेन व्यवहारोऽखिलो भवेत् ।
भावाभावविभागेन यं विना न कथञ्चन ॥ २,२.९७ ॥
अभेदेन प्रतीतिश्च कार्यकारणपूर्वके ।
अभावान्ते पदार्थेऽस्मिन् सविशेषावसीयते ॥ २,२.९८ ॥
सामान्यादिपदार्थेषु तन्निष्ठत्वादयोऽखिलाः ।
कथं धर्मा निवार्यन्ते वस्त्वैक्येऽपि हि वादिभिः ॥ २,२.९९ ॥
कार्यस्य तत्तन्निष्ठत्वं गुणादेर्व्यापितादिकः ।
कथं विशेषो नैवास्ति स च धर्मोऽपरो यदि ॥ २,२.१०० ॥
षट्पदार्थातिरेकः स्यात्पदार्थानियमेऽपि हि ।
धर्मस्य धर्मसन्तानादनवस्थाकरो भवेत् ॥ २,२.१०१ ॥
सामान्यस्यापि सामान्यं गुणस्यापि गुणो ह्यतः ।
नाङ्गीकृतः स च यदि नानवस्था क्वचिद्भवेत् ॥ २,२.१०२ ॥
अस्मत्पक्षे गुणाद्याश्च तद्वन्तो हि विशेषतः ।
अनन्यत्वान्नानवस्था भेदो नाशे भवेत्तथा ॥ २,२.१०३ ॥
विशेषमेव संश्रित्य विशेषो बलवान् यतः ।
दृष्टिप्रमाणतश्चैव विरोधो दर्शने कथम् ॥ २,२.१०४ ॥
विरोधो ह्यविरोधश्च यतो दर्शनमानगौ ।
ततो दृष्टे विरोधस्तु सद्भिरापाद्यते कथम् ॥ २,२.१०५ ॥
अभिन्नो भगवान् स्वेन तदन्येन विभेदवान् ।
नित्या धर्मास्तदीयास्तु सर्वेऽस्मान्नैव भेदिनः ॥ २,२.१०६ ॥
सामस्त्योच्छेदिनोऽन्यत्र धर्मा उभयरूपकाः ।
भावे त एव चोच्छेदात्तदन्ये च समस्तशः ॥ २,२.१०७ ॥
अंशांशिनोरभेदेन त्वंशसंयोग एव हि ।
अंशिनो नानवस्थातो यद्यप्यंशेष्वविश्रमः ॥ २,२.१०८ ॥
एकस्मिन् जात एवान्यः संयोगो जायते यदि ।
अनवस्था तदैव स्यात्संयोगैक्ये भवेत्क्व सा ॥ २,२.१०९ ॥
अंशे संयोगदृष्टेश्च दृष्टे का सानवस्थितिः ।
यद्यंशगो न संयोगः कार्येषु प्रथिमा कथम् ॥ २,२.११० ॥
परमाणोरणोर्नास्ति महत्तेत्यद्भुतं वचः ।
अणूनां प्रथिमापेक्षां विनैव तृयणुकेऽपि सः ।
परमाणोर्महत्त्वं च विनेत्येतद्वचः कथम् ॥ २,२.१११ ॥
अंशिनोऽंशैरभेदोऽयमंशेन तु भिदाभिदा ।
सर्वप्रत्यक्षविषयः कथमेव ह्यपोह्यते ॥ २,२.११२ ॥
संयोगश्च विभागश्च भेदश्चैव पृथक्पृथक् ।
अन्योन्यप्रतियोगेन ह्युभयोरपि दृश्यते ॥ २,२.११३ ॥
भिन्ना इति तु भेदानां समुदायो हि दृश्यते ।
यथैव च पदार्थानामनयोर्भेद इत्यपि ॥ २,२.११४ ॥
इतोऽमुष्यामुतोऽप्यस्य भेदो दृष्टो द्विधर्मिकः ।
तत्रैकवचनं यत्तद्विप्राणां भोजनं यथा ॥ २,२.११५ ॥
नरत्वादिकमप्येवं तत्तद्धर्मतयेयते ।
न सर्वधर्म एकोऽस्ति समुदायस्तु भिन्नगः ॥ २,२.११६ ॥
एतादृशं च सादृश्यं पदार्थेषु पृथक्पृथक् ।
एकस्मिन् स विनष्टेऽपि यतोऽन्यत्रैव दृश्यते ॥ २,२.११७ ॥
कुतो भस्मत्वमाप्तस्य नरत्वं पुनरिष्यते ।
एकत्वे नास्ति मानं च श्रुतिरप्याह सादरम् ॥ २,२.११८ ॥
भिन्नाश्च भिन्नधर्माश्च पदार्था अखिला अपि ।
स्वैः स्वैर्धर्मैरभिन्नाश्च स्वरूपैरपि सर्वशः ॥ २,२.११९ ॥
अनिवृत्तविनाशास्तु धर्मा उभयरूपकाः ।
न केनचिदभिन्नोऽतो भगवान् स्वगुणैर्विना ॥ २,२.१२० ॥
इति व्युत्पत्तिरपि हि सादृश्येनैव गम्यते ।
सर्वेषु युगपच्छब्दः सदृशेषु प्रवर्तते ॥ २,२.१२१ ॥
तथापि प्राप्तितस्त्वेकवचनाच्च विशेषतः ।
अभीष्यावगतिश्च स्याच्छक्तिः सादृश्यगा यतः ॥ २,२.१२२ ॥
तादृशोऽयं च तच्छब्द इति ज्ञापयति स्फुटम् ।
जातितश्चेत्कथं तासु तत्र चेदनवस्थितिः ॥ २,२.१२३ ॥
तथैव व्यक्तिविज्ञानं व्यक्तित्वाभावदूषितम् ।
यदि तच्चास्ति तस्यापि विशेषेष्वनवस्थितिः ॥ २,२.१२४ ॥
कथं स्वरूपत्वमपि ज्ञायतेऽनुगतं यदि ।
एकव्युत्पत्तिपर्यन्तमनवस्थादिदूषितम् ।
कल्पनागौरवात्तेन युक्ता नानुगकल्पना ॥ २,२.१२५ ॥
औपाधिकविशिष्टाद्यमपि तद्वस्तु किं ततः ।
अन्यत्तदेव चेदग्निमत्त्वं किं तत्र भण्यते ॥ २,२.१२६ ॥
अग्निसंयोगमात्रं चेद्भवेत्तत्सिद्धसाधनम् ।
भूधरस्याग्निसंयोगो यदि षष्ठयर्थ एव कः ॥ २,२.१२७ ॥
समवायो यदि ह्यस्य चैकत्वात्सिद्धसाधनम् ।
यद्यस्यौपाधिको भेदः कुत एकत्वमिष्यते ॥ २,२.१२८ ॥
नानिर्वाच्यं हि तेनेष्यमत औपाधिकान्ययोः ।
सत्यत्वात्को विशेषः स्यान्मायावाद्यन्यथा भवेत् ॥ २,२.१२९ ॥
उपाधिजन्यं तद्गम्यमिति वौपाधिकं भवेत् ।
उभयत्राप्यनन्ताः स्युः समवाया इतस्ततः ।
भिन्नत्वं चैव तेष्वस्ति को विशेष उपाधिगे ॥ २,२.१३० ॥
अविद्यमान एवान्यः समवायोऽधिगम्यते ।
उपाधिना तद्गमकमनुमानं न मा भवेत् ॥ २,२.१३१ ॥
एवमेवासतः सत्तसमवायो जनिर्मता ।
तत्रापि ह्युक्तदोषाणां नैव किञ्चिन्निवारकम् ॥ २,२.१३२ ॥
अस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतः ।
नास्ति दोषः क्वचिद्भावो ह्यभावश्च स एव हि ॥ २,२.१३३ ॥
अभावस्य च धर्माः स्युर्भावास्तेषां च तेऽखिलाः ।
प्रत्यक्षमानतः सर्वमेतन्नो वारणक्षमम् ।
सर्वे भावा अभावाश्च पदार्थास्तेन सर्वदा ॥ २,२.१३४ ॥
तथापि प्रथमं बुद्धेर्यो निषेधस्य गोचरः ।
सोऽभावो विधिबुद्धेस्तु गोचरः प्रथमं परः ॥ २,२.१३५ ॥
तस्मात्प्रध्वस्तभेदादि सदित्येवावगम्यते ।
अस्त्यभावोऽस्ति च ध्वंसो देहाभावश्च भस्मता ॥ २,२.१३६ ॥
इत्यादि युज्यते सर्वं प्रत्यक्षादिप्रमाणतः ।
अन्योन्याभावभेदौ च पृथक्तवं च पृथक्पृथक् ॥ २,२.१३७ ॥
यत्कल्पयन्ति तच्चैव कल्पनागौरवाद्गतम् ।
पर्यायत्वेन ते शब्दा ज्ञायन्ते सर्व एव हि ॥ २,२.१३८ ॥
भेदस्य तु स्वरूपत्वे ये वदन्ति च शून्यताम् ।
अद्भुततास्ते यतोऽन्यस्य प्रतियोगित्वमिष्यते ॥ २,२.१३९ ॥
प्रतियोगिनो हि भेदोऽयं नतु स्वस्मात्कथञ्चन ।
विभागेनाल्पतैव स्यात्कुत एव च शून्यता ॥ २,२.१४० ॥
न शून्यानां हि संयोगाद्भावो वस्तुन इष्यते ।
विदारणार्थो धातुश्च विभागगुणवाचकः ॥ २,२.१४१ ॥
अविदारणेऽपि ह्यास्यस्य भिन्नावोष्ठौ तु तस्य च ।
अत उन्मत्तवाक्यत्वान्मायावादोऽभ्युपेक्षितः ॥ २,२.१४२ ॥
न चामन्दसदानन्दस्यन्द्यनन्तगुणार्णवः ।
ईश्वरोऽष्टगुणत्वेन प्रमेयोऽप्रमितत्वतः ॥ २,२.१४३ ॥
मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे ।
अनन्तगुणमाहात्म्यशक्तिज्ञानमहार्णवः ॥ २,२.१४४ ॥
नारायणः परोऽशेषचेतनेभ्यः परं पदम् ।
इत्यादिवेदतद्वाक्यैरनन्तैश्चावसीयते ॥ २,२.१४५ ॥
अनन्तगुणता विष्णोः कथमेव ह्यपोद्यते ।
यद्यनन्तविशेषाश्च तज्ज्ञानादेर्निवारिताः ॥ २,२.१४६ ॥
कथं तत्तद्विषयता सार्वज्ञ्यार्थं विधीयते ।
औपाधिकविशेषस्तु पूर्वमेव निराकृतः ॥ २,२.१४७ ॥
स्वप्रकाशत्वमपि तु यैर्ज्ञानस्य निवारितम् ।
कथं सर्वज्ञता तस्य स्वज्ञानाधिगमं विना ॥ २,२.१४८ ॥
ज्ञानं विश्वाधिगं त्वेकं तज्ज्ञानविषयं परम् ।
इति ज्ञानद्वयेनैव सर्ववित्परमेश्वरः ॥ २,२.१४९ ॥
इति चेदेष एवार्थस्तज्ज्ञानावसितो यदि ।
स्वप्रकाशत्वमेव स्याज्ज्ञानं ह्येतद्विशेषणम् ॥ २,२.१५० ॥
ज्ञानान्तरेण चेदत्र भवेदेवानवस्थितिः ।
स्वप्रकाशत्वमेतस्माद्दुर्निवार्यं समापतेत् ॥ २,२.१५१ ॥
सुखवान् दुःखवांश्च स्यादिति व्याप्तिश्च नो भवेत् ।
निर्दुःखत्वं महानन्दः श्रुत्यैवेशस्य भण्यते ॥ २,२.१५२ ॥
योऽशनायापिपासे च शोकादींश्चातिवर्तते ।
आनन्दं ब्रह्मणो विद्वान् विपाप्मेत्यादिका च सा ॥ २,२.१५३ ॥
ईश्वरस्य तथेष्टत्वं दुःखित्वोपाधिरित्यपि ।
उक्ते किमुत्तरं ब्रूयाच्छ्रुत्यनादरतत्परः ॥ २,२.१५४ ॥
नचात्मदुःखितेच्छा स्यादत एतन्निवार्यते ।
सहदर्शनमात्रेण श्रुतीनामपलापकः ॥ २,२.१५५ ॥
यज्ञादेरपि पापस्य हेतुत्वं हिंसया युतेः ।
नानुमाति कथं तत्र यद्युपाधिर्निषिद्धता ॥ २,२.१५६ ॥
अदुःखित्वेन चानुक्तिः कथं नोपाधितां व्रजेत् ।
अदुःखमितरत्सर्वं जीवा एव तु दुःखिनः ।
तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते ॥ २,२.१५७ ॥
इति श्रुतिर्हि परमा श्रुत्युक्तिर्यदि कारणम् ।
किं कार्यमनुमानेन गळस्तनसमेन हि ॥ २,२.१५८ ॥
अनुमानेन यद्यर्थः श्रुतिदृष्टो व्यपोद्यते ।
पूर्वोक्तेन प्रकारेण नेश्वरो धर्म एव च ।
स्यात्तत्फलं च तेनात्र श्रुतिरेव प्रमा भवेत् ॥ २,२.१५९ ॥
ईशस्यानुमया सिद्धेः श्रुतिर्धमिर्प्रमा भवेत् ।
तया सर्वगुणैः पूर्ण उक्त ईशो यतस्ततः ॥ २,२.१६० ॥
अनानन्दानुमा तस्य धर्मिग्राहिविरोधतः ।
न प्रमाणं भवेत्तस्मान्नानुमात्रोपयोगिनी ॥ २,२.१६१ ॥
नित्येच्छत्वात्परेशस्य परमाणुसदात्वतः ।
अदृष्टकालयोश्चैव भावात्कार्यं सदा भवेत् ॥ २,२.१६२ ॥
न हि कालविभेदोऽस्ति तत्पक्षेऽस्मन्मते हरेः ।
विशेषकाल एवैतत्सृष्टयादीच्छा सदातना ॥ २,२.१६३ ॥
विशेषाश्चैव कालस्य हरेरिच्छावशाः सदा ।
सर्वे निमेषा इति हि श्रुतिरेवाह सादरम् ॥ २,२.१६४ ॥
उदीरयति कालाख्यशक्तिमित्यस्य वागपि ।
कालस्य कालगत्वेन न विरोधोऽपि कश्चन ॥ २,२.१६५ ॥
असङ्खयातविशेषत्वादिच्छाया अपि सर्वदा ।
ईशो देशश्च कालश्च स्वगता एव सर्वदा ॥ २,२.१६६ ॥
ईशाधीनौ च तौ नित्यं तदाधारौ च तद्गतौ ।
इति श्रुतिरपि प्राह काले स्वोद्दिष्ट एव तु ॥ २,२.१६७ ॥
तत्कालसृष्टिमेवातो वाञ्छतीशः सदैव हि ।
स्यात्कालः स तदैवेति कालस्य स्वगतत्वतः ॥ २,२.१६८ ॥
स्वभावादेव हीच्छैषा देवस्यैव इति श्रुतेः ।
स्वभावोऽपि परेशेच्छावश इत्युदितः पुरा ॥ २,२.१६९ ॥
नित्या अनित्याश्च ततस्तदधीना इति श्रुतिः ।
रूपस्पर्शादिहेतुभ्यः परमाणोरनित्यता ॥ २,२.१७० ॥
अनुमेया श्रुतीनां च विरुद्धत्वान्न तन्मतम् ।
उपादेयमतश्चायमविरुद्धः समन्वयः ॥ २,२.१७१ ॥
वैभाषिकाश्च सौत्रान्ताः स्वरसक्षणिकं जगत् ।
अणूनां समुदायं च कालकर्मनिमित्ततः ॥ २,२.१७२ ॥
उत्पत्तिकाले युक्तानामात्मानं च क्षणस्थितिम् ।
नित्यं सन्तानमेतेषां पञ्चस्कन्धात्मना स्थितम् ॥ २,२.१७३ ॥
संस्काररूपविज्ञानसञ्ज्ञादुःखात्मना स्थितिः ।
दुःखाभावं सुखं चाहुररूपज्ञानसन्ततिम् ॥ २,२.१७४ ॥
मोक्षं स समुदायो हि नैकस्मादेव युज्यते ।
नोभयोश्चोभयत्वं यत्समुदायव्यपेक्षया ॥ २,२.१७५ ॥
अतोऽन्योन्याश्रयत्वेन समुदायो न युज्यते ।
अन्योन्यापेक्षया पुंसः समुदायत्ववेदनम् ॥ २,२.१७६ ॥
स्यात्तत्सदातनत्वेऽपि तच्च सामीप्यहेतुकम् ।
इति चेत्कार्यसम्भूतिमात्रव्यापृतिकारणम् ॥ २,२.१७७ ॥
नतु कार्यविशेषेषु व्यापृतं कारणं भवेत् ।
अतोऽर्थेन्द्रियसंयोगिरूपकारणतात्मनः ।
संयोगिरूपराहित्यान्नैव तज्ज्ञानतापि हि ॥ २,२.१७८ ॥
विशषषकार्यजनकं यदि कारणमिष्यते ।
कुतः समानरूपत्वं कार्याणामपि सर्वशः ॥ २,२.१७९ ॥
अतोऽनियत्या यत्किञ्चिद्यस्य कस्यापि कारणम् ।
अदृष्टस्यापि तस्यैव विशेषापादकं कुतः ॥ २,२.१८० ॥
यस्य कस्यापि यत्किञ्चिद्विशेषमुपपादयेत् ।
कार्यं च कारणं चैव यत्किञ्चिद्यस्य कस्यचित् ॥ २,२.१८१ ॥
भवेन्नियामकाभावादिदमस्यैव कारणम् ।
इति नित्यविनाशित्वे केन मानेन गम्यते ॥ २,२.१८२ ॥
इदं न जायतेऽमुष्मादित्यत्रापि न कारणम् ।
विनाशोत्पत्तयश्चैव न दृश्यन्ते सदातनाः ॥ २,२.१८३ ॥
दृश्यते प्रत्यभिज्ञातः स्थिरत्वं सर्ववस्तुषु ।
फलादीनां विशेषेण सर्वत्राप्यनुमीयते ॥ २,२.१८४ ॥
[ण्Oट्E जुम्पिन् वेर्से नुम्बेरिन्ग्, नो लचुन इन् तेxत्!]
सत्त्वेन क्षणिकत्वं चेदाकाशस्याविशेषतः ।
अविशेषोऽखिलस्यापि सत्त्वात्किं नानुमीयते ॥ २,२.१८६ ॥
यद्याकाशस्य सत्त्वं न कुत एव नरादिषु ।
सधर्मिप्रतियोगित्वमाकाशस्यावगम्यते ॥ २,२.१८७ ॥
तौ विना न ह्यभावश्च क्वचिद्दृष्टः कदाचन ।
अधर्मिप्रतियोगित्वमाकाशस्यावगम्यते ॥ २,२.१८७* ॥
स्वीकारत्यागतोऽदृष्टदृष्टयोः सर्ववस्तुषु ।
गुणानुन्मत्त एवासौ विदधात्यधिकं पुनः ॥ २,२.१८८ ॥
उत्तरोत्पत्तिमात्रेण विनाशात्पूवर्वस्तुनः ।
न संस्कारार्पकत्वं च युज्यते कस्यचित्क्वचित् ॥ २,२.१८९ ॥
अतो ज्ञातं मयेत्यादि न ज्ञेयमनुमा कुतः ।
एकत्वमनुभूतिस्थं त्यक्तवा निर्मानका भिदा ।
कुत आत्मादिकेषु स्याद्बल्येवानुभवो यतः ॥ २,२.१९० ॥
कार्यकारणयोश्चैककालीनत्वं विना कथम् ।
पूर्वसंस्कारयोगी स्यादुत्तरो नियमेन च ॥ २,२.१९१ ॥
सम्बद्ध एव संस्कारमन्यत्रादत्ततेऽखिलाः ।
असम्बद्धः कथं पूर्व उत्तरे वासनाकरः ॥ २,२.१९२ ॥
एककालतया योगं विना संस्कारतः कथम् ।
क्षणमात्रमवस्थानं स्वीकृतं सर्ववस्तुषु ॥ २,२.१९३ ॥
पूर्वमध्यापरकलारहितः क्षण इष्यते ।
पूर्वभावभवं कार्यमुत तन्नाशसम्भवम् ॥ २,२.१९४ ॥
यौगपद्यं सति भवेदुत्पाद्यानामशेषतः ।
विनाशे चेन्न तत्कार्यं कार्योत्पत्तौ च का प्रमा ॥ २,२.१९५ ॥
अभेदेन विशेषेण देहदीपफलादिषु ।
विशेषदर्शनं युक्तमस्माकमनुभूतितः ॥ २,२.१९६ ॥
विशेषदर्शनं मानं यदि न स्थैर्यदृक्कुतः ।
दिक्सुखे च खदृष्टान्ताद्भावौ सच्चेत्क्वचिद्भवेद् ॥ २,२.१९७ ॥
विश्वं प्रत्यक्षगं त्यक्तवा तयोर्योऽनुमितं वदेत् ।
मायावादिवदेवासावुपेक्ष्यो भूतिमिच्छता ॥ २,२.१९८ ॥
सर्वप्रमाणसिद्धं यद्बुद्धेर्भेदेन सर्वदा ।
कथं नु तस्य बुद्धित्वं विश्वमन्यच्च किम्प्रमम् ॥ २,२.१९९ ॥
सर्वलोको बिभेत्यञ्जो यस्मादनुभवात्सदा ।
तस्यापलापिनः किं न निष्प्रमाणकवादिनः ॥ २,२.२०० ॥
सोऽहं तदिदमेवाहं सुखी सद्गगनं दिशः ।
सत्या इत्याद्यनुभवाः सदा तत्प्रतिपक्षगाः ॥ २,२.२०१ ॥
अतो निर्मानमखिलप्रमाणप्रतिपक्षगम् ।
दुर्मतं को नु गृह्णीयाद्विनासुरततिं क्वचित् ॥ २,२.२०२ ॥
अपरः शून्यमखिलं मनोवाचामगोचरम् ।
निर्विशेषं स्वयम्भातं निर्लेपमजरामरम् ॥ २,२.२०३ ॥
अशेषदोषरहितमनन्तं देशकालतः ।
वस्तुतश्च तदस्मीति नित्योपासापरोक्षितम् ।
रागादिदोषरहितं तद्भावं योगिनं नयेत् ॥ २,२.२०४ ॥
तस्यैवानादिसंवृत्त्या नानाभेदात्मकं जगत् ।
सदिवाभाति सत्यत्वं सांवृतं तस्य चेष्यते ॥ २,२.२०५ ॥
पारमार्थिकसत्त्वं तु शून्यादन्यस्य न क्वचित् ।
सांवृतेनैव सत्येन व्यवहारोऽखिलो भवेत् ॥ २,२.२०६ ॥
शून्यात्संवृतियोगेन विश्वमेतत्प्रवर्तते ।
सृष्टिकाले पुनश्चान्ते स्तिमितं शून्यतां व्रजेत् ।
इति ब्रूते तमुद्दिश्य जगाद जगतां गुरुः ॥ २,२.२०७ ॥
नासतो जगतो भावो न हि दृष्टासतो जनिः ।
सतः क्वचित्प्रमाणं च दृष्टिरेवाखिलाद्वरम् ॥ २,२.२०८ ॥
यद्येवं सप्तमरसान्मधुरादिव पीनता ।
भवेज्जनस्य मार्जारृङ्गं गोरिव घातकम् ॥ २,२.२०९ ॥
कार्यार्थी कारणं सच्च नोपादद्यात्कथञ्चन ।
न प्रवर्तेत चेष्याय शून्यादेवेष्यसम्भवात् ॥ २,२.२१० ॥
देशकालादिनियमो निंह शून्यात्सतो भवेत् ।
पुरुषेच्छानुसारेण यदि किञ्चित्प्रजायते ॥ २,२.२११ ॥
किं नानुमीयते तद्वद्वस्तुत्वात्पुरुषाद्भवः ।
सर्वस्यापि नचाभावो विश्वं सदिति गम्यते ॥ २,२.२१२ ॥
यतोऽनुभवरोधे तु वचनं वादिनः कुतः ।
स्वप्नभ्रान्तिवदेवेदं संवृत्त्यैवोपलभ्यते ॥ २,२.२१३ ॥
यदि सत्त्वेन किञ्चात्र भ्रमो नैव निवर्तते ।
अनादेरस्य विश्वस्य निवृत्तिर्यदि चेष्यते ।
निवृत्तिश्च निवर्तेत तस्या भ्रान्तित्वसम्भवात् ॥ २,२.२१४ ॥
दृष्टस्य भ्रान्तिता चेत्स्याददृष्टे न भ्रमः कुतः ।
गवामशृङ्गिभावेन न हि स्याच्छशशृङ्गिता ॥ २,२.२१५ ॥
अस्माकं तु प्रमाणेन प्रसादादीश्वरस्य च ।
उक्तभङ्गयाऽगमानां च प्रामाण्याद्युज्यतेऽखिलम् ॥ २,२.२१६ ॥
दृश्यत्वाद्विमंत मिथ्या स्वप्नवच्चेदियं च मा ।
मिथ्या चेत्साध्यसिद्धिर्न व्यभिचारो न चेद्भवेत् ॥ २,२.२१७ ॥
साधकत्वमसत्यस्य साध्यं विप्रतिपत्तितः ।
तस्य चेत्यनवस्था स्यात्सत्त्वं चास्यानुभूतितः ॥ २,२.२१८ ॥
अनुभूतिविरोधेन मिथ्यात्वे मा न काचन ।
अतीतानागतौ कालावपि नः साक्षिगोचरौ ।
तत्सम्बन्धितया सत्त्वमपि दृष्टस्य साक्षिगम् ॥ २,२.२१९ ॥
दृढदृष्टं तु यद्दृष्टं दृष्टाभासस्ततोऽपरम् ।
भ्रान्तेः संवृतिसत्यस्य विशेषोऽव्यभिचारवान् ।
तेनाप्यङ्गीकृतः सम्यक्स नः सत्यत्वमेव हि ॥ २,२.२२० ॥
विज्ञानाद्व्यभिचारोऽस्य कदाचित्स्यादिति प्रमा ।
नैव दृष्टा प्रमा सा च न भवेत्स्वविरोधतः ॥ २,२.२२१ ॥
भेदो विशेष्यधर्म्यादिग्रहणापेक्षया यदि ।
अन्योन्याश्रयताहेतोर्दुर्गाह्य इति यन्न तत् ॥ २,२.२२२ ॥
स्वरूपं वस्तुनो भेदो यन्न तस्य ग्रहे ग्रहः ।
अन्यथास्यामुना भेद इति वक्तुं न युज्यते ॥ २,२.२२३ ॥
अगृहीतो यदा भेदस्तदा स्वस्मादिति ग्रहः ।
स्यात्प्रतीतिविरोधाच्च न हि कश्चित्तथा वदेत् ॥ २,२.२२४ ॥
धर्मित्वप्रतियोगित्वतद्भेदा युगपद्यदि ।
विशेषणं विशेष्यं च तद्भावश्चैव गृह्यते ॥ २,२.२२५ ॥
को विरोधः स्वरूपेण गृहीतो भेद एव तु ।
अस्यामुष्मादिति पुनर्विशेषेणैव गृह्यते ॥ २,२.२२६ ॥
किञ्च भेदः कथं ग्राह्य इति यः परिपृच्छति ।
धर्म्यादिभेदग्रहणात्तेनोक्तोऽन्योन्यसंश्रयः ॥ २,२.२२७ ॥
अन्यत्वाग्रहणे प्रोक्तः कथमन्योन्यसंश्रयः ।
अन्यत्वं यदि सिद्धं स्यात्कथमन्योन्यसंश्रयः ॥ २,२.२२८ ॥
एतादृशस्य वक्तारावुभौ जात्युत्तराकरौ ।
मायी माध्यमिकश्चैव तदुपेक्ष्यौ बुभूषुभिः ॥ २,२.२२९ ॥
यच्छून्यवादिनः शून्यं तदेव ब्रह्म मायिनः ।
न हि लक्षणभेदोऽस्ति निर्विशेषत्वतस्तयोः ॥ २,२.२३० ॥
अनृतादिविरोधित्वमुभयोश्च स्वलक्षणम् ।
स्ववाक्याभावसंवादान्न कृत्यं प्रतिवादिनः ॥ २,२.२३१ ॥
तत्पक्ष इति वैधर्म्यान्न स्वप्नादिवदित्यजः ।
अप्रयत्नान्निराचक्रे चेति दृष्टिविरुद्धताम् ।
निष्प्रमाणत्वमप्यस्य सूचयामास विश्वकृत् ॥ २,२.२३२ ॥
ज्ञानमेवैकमखिलज्ञेयाकारं प्रभासते ।
तत्र सन्ततिभेदश्च स्वभेदो भेद एव च ।
कल्पिताः प्रतिभासन्ते नानासंवृतिभूमिषु ॥ २,२.२३३ ॥
इत्येतदपि नो युक्तं न हि ज्ञानतया जगत् ।
भासतेऽनुभवस्यैव विरुद्धत्वादपेशलम् ॥ २,२.२३४ ॥
तन्मतं क्षणिकत्वाच्च ज्ञानस्य स्थिररूपतः ।
ज्ञेयस्योक्तप्रकारेण सर्वश्रुतिविरोधतः ।
अनुभूतिविरुद्धत्वादपि पक्षा इमेऽशिवाः ॥ २,२.२३५ ॥
आह क्षपणको विश्वं सदसद्द्वयमद्वयम् ।
द्वयाद्वयमतत्सर्वं सप्तभङ्गिसदातनम् ॥ २,२.२३६ ॥
नैतत्पदार्थ एकस्मिन् युक्तं दृष्टिविरोधतः ।
भावाभावतया विश्वं येन रूपेण मीयते ।
तद्रूपमेव तदिति नियमः केन वार्यते ॥ २,२.२३७ ॥
तत्तद्दोषनिवृत्त्यर्थं स्वीकृता तत्तदात्मना ।
यदि तैरखिलैर्देषैर्लिप्यते चलदर्शनः ॥ २,२.२३८ ॥
अतिहाय प्रमाणाप्तं नियमं सदसत्तया ।
अशेषमाविरुद्धं च निर्मानं व्याहतं सदा ॥ २,२.२३९ ॥
सर्वप्रकारं वदतो दृष्टहानिरमग्रहः ।
स्वव्याहतत्वमित्याद्या दोषाः सर्वे भवन्ति हि ॥ २,२.२४० ॥
वक्ति स्वप्रभमात्मानं देहमानं तदप्यलम् ।
दुष्यं नानाशरीरेषु प्रवेशादन्यथाभवात् ॥ २,२.२४१ ॥
अन्यथाभावि यद्वस्तु तदनित्यमिति स्थितिः ।
तन्मते तदनित्यत्वं पुद्गलस्यानिवारितम् ॥ २,२.२४२ ॥
नानित्यतास्मत्पक्षे तु चैतन्यादेर्विशेषिणः ।
लक्षणस्य निवृत्तौ तु स्यान्न तच्चेतने क्वचित् ॥ २,२.२४३ ॥
ओतप्रोतात्मकत्वं तु पटे देहेऽङ्गसंस्थितिः ।
इत्यादिलक्षणस्यैव निवृत्तौ स्यादनित्यता ॥ २,२.२४४ ॥
भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मते ।
नैवं तस्यान्यथाभावो यस्यानित्यत्वमीरितम् ॥ २,२.२४५ ॥
रूपादियुक्तस्य तथा जगन्नाशित्वसिद्धये ।
व्याप्त्या तयान्यथाभावादात्मनोऽनित्यता भवेत् ॥ २,२.२४६ ॥
नित्योर्ध्वगतिरप्येषा या मुक्तिरिति कथ्यते ।
अलोकाकाशमाप्तस्य कथं न विकृतिश्च सा ॥ २,२.२४७ ॥
कीदृशश्चान्यथाभावो नाशहेतुतयेष्यते ।
संस्थानापगमश्चेत्स न हि भूसागरादिषु ॥ २,२.२४८ ॥
यः कश्चिदन्यथाभावो यदि मुक्तिश्च तादृशी ।
देहमाने विकारः स्यादिति स्थास्नूननात्मनः ॥ २,२.२४९ ॥
आह हस्त्यादिदेहेषु ह्यपि स्यादन्यथाभावः ।
अणुदेहस्य जीवस्य गजत्वे विकृतिर्हि या ।
देहव्याप्त्यै विशेषः कस्तस्याः स्थास्नुतनौ च नुः ॥ २,२.२५० ॥
गीतात्पुष्पफलावाप्तिः स्पर्शात्कार्श्यं रसात्स्थितिः ।
अपि वृक्षस्य दृश्यन्त इति नानात्मता भवेत् ।
एवञ्चात्माकार्त्स्न्यमिति तत एवाह वेदवित् ॥ २,२.२५१ ॥
सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं सदाशिवम् ।
जगद्विचित्ररचनाकर्तारं दोषवर्जितम् ॥ २,२.२५२ ॥
आहुः पाशुपतास्तच्च बहुश्रुतिविरोधतः ।
नोपादेयं मतं ह्यस्य देवस्य स्तुहि गर्तगम् ॥ २,२.२५३ ॥
उत्पिपेष शिरस्तस्य गृणीषे सत्पतिं पदम् ।
यद्विष्णोरुपमं हन्तुं रुद्रमाकृष्टते मया ॥ २,२.२५४ ॥
धनुर्यं कामये तं तमुग्रं मा शिश्नदेवताः ।
घ्नञ्छिश्नदेवानेकोऽसावासीन्नारायणः परः ॥ २,२.२५५ ॥
तस्माद्रुद्रः सम्प्रसादश्चाभूतां वैष्णवं मखम् ।
यज्ञेन यज्ञमयजन्ताबध्नन् पुरुषं पशुम् ॥ २,२.२५६ ॥
यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा ।
इत्यादिश्रुतिसामर्थ्यात्पारतन्त्र्यं जनिर्मृतिः ॥ २,२.२५७ ॥
पराधीनपरप्राप्तिरज्ञत्वं प्रळयेऽभवः ।
प्रतीयन्ते सदोषत्वान्नेशः पशुपतिस्ततः ॥ २,२.२५८ ॥
अशरीरत्वतस्तस्य सम्बन्धो जगता क्वचित् ।
कर्तृत्वेन न युज्येत देहिनो ज्ञानदृष्टितः ॥ २,२.२५९ ॥
न च देहादिवद्विश्वमस्य स्याद्भोगसम्भवात् ।
अधिष्ठाने स्थितः कर्ता कार्यं कुर्वन् प्रतीयते ।
नास्याधिष्ठानयोगोऽस्ति भूतानां प्रळये तदा ॥ २,२.२६० ॥
अदेहश्चेदसार्वज्ञः शिलाकाष्ठादिवत्सदा ।
देही चेदन्तवानेव यज्ञदत्तनिदर्शनात् ॥ २,२.२६१ ॥
नचैतदखिलं विष्णौ श्रुतिप्रामाण्यगौरवात् ।
मनोबुद्धयङ्गितां विष्णोर्लक्षयामो य एव सः ॥ २,२.२६२ ॥
स एव देहो विज्ञानमैश्वर्यं शक्तिरूर्जिता ।
देहो विष्णोर्न ते विष्णो वासुदेवोऽग्रतोऽभवत् ॥ २,२.२६३ ॥
एको नारायणस्त्वासीन्न ब्रह्मा न च शङ्करः ।
अजस्य नाभावध्येकमर्पितं मात्रया परः ॥ २,२.२६४ ॥
सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।
ज्ञानज्ञानः सुखसुखः स विष्णुः परमाक्षरः ॥ २,२.२६५ ॥
आनन्द एक एवाग्र आसीन्नारायणः प्रभुः ।
प्रियं तस्य शिरे मोदप्रमोदौ च भुजौ हरेः ॥ २,२.२६६ ॥
आनन्दो मध्यतो ब्रह्म पुच्छं नान्यदभूत्क्वचित् ।
मनसोऽस्याभवद्ब्रह्मा ललाटादपि शङ्करः ॥ २,२.२६७ ॥
पक्षयोर्गरुडः शेषो मुखादास सरस्वती ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ २,२.२६८ ॥
इत्यादिश्रुतिसन्दर्भबलान्नित्यगुणात्मनः ।
विष्णोर्देहाज्जगत्सर्वमाविरासीदितीयते ॥ २,२.२६९ ॥
मानवत्त्वाद्विरोधः को नामानं क्वचिदिष्यते ।
अविरोधो विरोधश्च मानेनैव हि गम्यते ॥ २,२.२७० ॥
अत उक्तं समस्तं च वासुदेवस्य युज्यते ।
शिवादिनामयुक्ताश्च श्रुतयो विष्णुवाचकाः ॥ २,२.२७१ ॥
नामानि सर्वाणि च यमेको यो देवनामधाः ।
विष्णुनामानि नान्यस्य सर्वनामा हरिः स्वयम् ॥ २,२.२७२ ॥
न नारायणनामानि तदन्येष्वपरे हरौ ।
इत्यादिश्रुतयस्तत्र मानं चोक्तः समन्वयः ॥ २,२.२७३ ॥
पुराणानि पुराणाद्यैर्विरुद्धत्वान्न तत्प्रमा ।
तद्विरुद्धेषु नो मानं पूर्वापरविरोधतः ॥ २,२.२७४ ॥
समब्राह्मविरोधाच्च नियमाद्वैष्णवेष्वपि ।
मोहार्थमुक्तितश्चैव विष्णुरेको गुणार्णवः ॥ २,२.२७५ ॥
स्कन्दसूर्यगणेशादिमतानि न्यायतोऽमुतः ।
निराकृतान्यशेषेण सिद्धान्तस्याविशेषतः ॥ २,२.२७६ ॥
निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथक् ।
दूष्यते महती देवी ह्रीङ्करी सर्वकारणम् ।
त्रिपुराभैरवीत्यादिनामभिः साभिधीयते ॥ २,२.२७७ ॥
तस्याः सदाशिवाद्याश्च जायन्ते देवमानुषाः ।
भूतभौतिकमप्येतदिति तन्नोपपद्यते ॥ २,२.२७८ ॥
दृष्टा पुम्भ्यः सदा सृष्टिः स्त्रीपुम्भ्यो वा विशेषतः ।
केवलाभ्यो न हि स्त्रीभ्यस्तत उत्पत्त्यसम्भवात् ॥ २,२.२७९ ॥
नार्च्यं महावाममतं वामैरन्यदुदीर्यते ।
शिवोपसर्जना शक्तिः ससर्जेदं समन्ततः ॥ २,२.२८० ॥
इति तच्चोपपन्नं न शिवस्याकरणत्वतः ।
अदेहत्वादपि ह्यन्ये ब्रूयुः सर्वज्ञमीश्वरम् ॥ २,२.२८१ ॥
अणुवामा न तद्युक्तमीशवादप्रवेशनात् ।
सार्वज्ञ्यादिगुणैर्युक्तं गुरुकल्पनया द्वयम् ॥ २,२.२८२ ॥
न युज्यते ह्यतस्त्वीश एक एव प्रयोजकः ।
उक्तदोषश्च तत्पक्ष इति नैवात्र दूष्यते ॥ २,२.२८३ ॥
श्रुतिस्मृतीतिहासानां सामस्त्येन विरोधतः ।
सतां जुगुप्सितत्वाच्च नाङ्गीकार्यं हि तन्मतम् ॥ २,२.२८४ ॥
पञ्चरात्रनिषेधार्थमेतान्याचक्षते यदि ।
सूत्राण्यतिविरुद्धं तद्यत आह स भारते ॥ २,२.२८५ ॥
पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ।
ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्विशिष्टते ॥ २,२.२८६ ॥
पञ्चरात्रविदो ये तु यथाक्रमपरा नृप ।
एकान्तभावोपगता वासुदेवं विशन्ति ते ॥ २,२.२८७ ॥
इति गीता च तच्छास्त्रसङ्क्षेप इति हीरितम् ।
वेदेन पञ्चरात्रेण भक्तया यज्ञेन चैव हि ॥ २,२.२८८ ॥
दृश्योऽहं नान्यथा दृश्यो वर्षकोटिशतैरपि ।
इति वाराहवचनं श्लोका इति वचः श्रुतौ ॥ २,२.२८९ ॥
वेदैश्च पञ्चरात्रैश्च ध्येयो नारायणः परः ।
पञ्चरात्रं च वेदाश्च विद्यैकैव द्विधेयते ॥ २,२.२९० ॥
इत्यादिवेदवचनैः पञ्चरात्रमपोद्यते ।
कथमेवात्र दोषः क उत्पत्तिर्ज्ञोऽत इत्यपि ॥ २,२.२९१ ॥
इहैवोक्ता नचाभूतभावस्तत्रापि कथ्यते ।
अनादिकर्मणा बद्धो जीवः संसारमण्डले ॥ २,२.२९२ ॥
वासुदेवेच्छया नित्यं भ्रमतीति हि तद्वचः ।
न हि संसारसादित्वं पञ्चरात्रोदितं क्वचित् ॥ २,२.२९३ ॥
जीवाभिमानिशेषस्य नाम्ना सङ्कर्षणस्य तु ।
वासुदेवाज्जनिः प्रोक्ता प्रद्युम्नस्य ततस्तथा ॥ २,२.२९४ ॥
मनोऽभिमानिनः कामस्यैवं साक्षाद्धरेः क्वचित् ।
सङ्कर्षणादिनाम्नैव नित्याचिन्त्योरुशक्तितः ।
व्यूह उक्तोऽन्यथानूद्य कथं दुष्टत्वमुच्यते ॥ २,२.२९५ ॥
यदि विद्याच्चतुर्वेदानितिवद्वेदपूरणम् ।
पञ्चरात्रादिति कुतो द्वेषः शाण्डिल्यवर्तने ॥ २,२.२९६ ॥
अतः परमशास्त्रोरुद्वेषादुदितमासुरैः ।
दूषणं पञ्चरात्रस्य वीक्षायामपि न क्षमम् ॥ २,२.२९७ ॥
अतोऽशेषजगद्धाता निर्दोषोरुगुणार्णवः ।
नारायणः श्रुतिगणतात्पर्यादवसीयते ॥ २,२.२९८ ॥
अन्धं तमः प्रविशन्ति ये त्वविद्यामुपासते ।
ततो भूय इवाप्स्यन्ति ये तस्या नैव निन्दकाः ॥ २,२.२९९ ॥
ततो विद्यामविद्यां च यो जानात्युभयं सह ।
दोषज्ञानादतीत्यैतान् विद्ययामृतमश्नुते ॥ २,२.३०० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य द्वितीयः पादः ॥

अथाशेषसमाम्नायविरोधापाकृतिं प्रभुः ।
करिष्यन्नधिदैवाधिभूतजीवपरात्मनाम् ॥ २,३.१ ॥
स्वरूपनिर्णयायैव वचनानां परस्परम् ।
पादेनानेनाविरोधं दर्शयत्यमितद्युतिः ॥ २,३.२ ॥
अनुभूतियुक्तिबहुवाग्वैलोम्यं च ततोऽधिकम् ।
एतत्सर्वं सतः साम्यं द्वारवैयर्थ्यमेव च ॥ २,३.३ ॥
दृष्टयुक्तयनुसारित्वमुक्तान्यार्थाविरोधतः ।
प्रसिद्धनामस्वीकारे बहुवाक्यानुवतिर्ता ॥ २,३.४ ॥
लोकदृष्टानुसारित्वं जीवसाम्यमनादिता ।
तत्र तत्र परिज्ञानं गुणसाम्यश्रुती तथा ॥ २,३.५ ॥
उत्पत्तिमत्त्वं स्वगुणाननुभूत्यल्पकल्पने ।
नानाश्रुतिश्च वैचितृयं युक्तयः पूर्वपक्षगाः ॥ २,३.६ ॥
व्यवस्थानुपपत्तिश्च स्वातन्त्र्यमनुसारिता ।
मुख्यता शक्तिमत्त्वं च वैरूप्यं सर्वसङ्ग्रहः ॥ २,३.७ ॥
गत्यादिरीशशक्तिश्च सर्वमानविरोधिता ।
अभीष्यासिद्धिसुव्यक्ती शास्त्रसिद्धिविर्पर्ययः ।
विशेषकारणं चेति सिद्धान्तस्यैव साधकाः ॥ २,३.८ ॥
प्रकृतिः पुरुषः कालो देवास्तदभिमानिनः ।
महदाद्याश्च जायन्ते पराधीनविशेषिता ।
इदं सर्वं ससर्जेति जनिमत्त्वमिहोदितम् ॥ २,३.९ ॥
अवकाशमात्रमाकाशः कथमुत्पद्यतेऽन्यथा ।
यद्यनाकाशता पूर्वं किं मूर्तनिबिडं जगत् ॥ २,३.१० ॥
मूतर्सम्पूर्णता चैव यद्यनाकाशता भवेत् ।
मूर्तद्रव्याणि चाकाशे स्थितान्येव हि सर्वदा ॥ २,३.११ ॥
अत आकाशशब्दोक्तस्तद्देवोऽत्र विनायकः ।
देहोत्पत्त्या समुत्पन्न इति श्रुत्याभिधीयते ॥ २,३.१२ ॥
भूतमप्यसितं दिव्यदृष्टिगोचरमेव तु ।
उत्पद्यतेऽव्याकृतं हि गगनं साक्षिगोचरम् ।
प्रदेश इति विज्ञेयं नित्यं नोत्पद्यते हि तत् ॥ २,३.१३ ॥
तथापि पूर्वसम्बन्धपरतन्त्रविशेषयुक् ।
खमेवोत्पत्तिमन्नाम श्रुतिशब्दविवक्षितम् ॥ २,३.१४ ॥
प्रकृतिः पुरुषः काल इत्येते च समस्तशः ।
ईशाधीनविशेषेण जन्या इत्येव कीर्तिताः ॥ २,३.१५ ॥
कालप्रवाह एवैको नित्यो नतु विशेषवान् ।
पुरुषाव्यक्तकालानां रमैवैकाभिमानिनी ॥ २,३.१६ ॥
सिसृक्षुत्वविशेषं तत्साक्षाद्भगवदिच्छया ।
प्राप्तैव सृष्टेत्युदिता प्रधानं विकृतेरपि ॥ २,३.१७ ॥
पुमांसो देहसम्बन्धात्सृष्टिमन्त इतीरिताः ।
एवं प्रळयकालेऽपि प्रतिभातपरावरः ॥ २,३.१८ ॥
मुख्यावायुर्नित्यसमः शरीरोत्पत्तिकारणात् ।
पराधीनविशेषेण जनिमानेव शब्दितः ॥ २,३.१९ ॥
नैव किञ्चित्ततो जन्मवर्जितं परमादृते ।
पराधीनविशेषत्वे जन्मनः स्थूलताभवः ॥ २,३.२० ॥
पूर्वशब्दविलोपश्च यदि जन्मेति कीर्त्यते ।
रमाया नैव जन्मास्ति चैतन्यस्यापि केवलम् ॥ २,३.२१ ॥
प्रधनस्य च वेदस्य वेदस्यापीश्वरेच्छया ।
व्यक्तिर्नाम विशेषोऽस्ति तस्मात्तद्वशतैव हि ॥ २,३.२२ ॥
उत्पत्तिरत्र कथिता स्वतन्त्रत्वात्परात्मनः ।
नैवोत्पत्तिः कथमपि न स्वतन्त्रं ततोऽपरम् ॥ २,३.२३ ॥
अच्छेद्यस्यापि जीवस्य विभागं बहुधा हरिः ।
कृत्वा भोगान् प्रदायैव चैक्यमापादयेत्पुनः ॥ २,३.२४ ॥
अत ईशवशं सर्वं चेतनाचेतनं जगत् ।
अविभागं विभागाय यदा नयति केशवः ।
किमशक्यं परेशस्य तदेति ह्यभिधीयते ॥ २,३.२५ ॥
एवं स्थितेऽपि जीवैक्यं केचिदाहुः परात्मना ।
तद्योऽहमितिपूर्वाभिः श्रुतिभिश्चानुमाबलात् ॥ २,३.२६ ॥
न तद्युक्तं यतो विष्णुः पृथगेवाभिधीयते ।
प्रज्ञानेत्रोऽलोक इति मुक्तौ भेदोऽभिधीयते ।
एतमानन्दमित्यन्या परमं साम्यमित्यपि ॥ २,३.२७ ॥
इदं ज्ञानमपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रळये न व्यथन्ति च ॥ २,३.२८ ॥
उपसम्पद्य तज्ज्योतिः स्वरूपेणाभिपद्यते ।
तत्र पर्येति जक्षंश्च क्रीडन्नपि सदा सुखी ॥ २,३.२९ ॥
आचक्ष्व मे मोक्षं धीरा यं प्रवदन्ति तम् ।
इत्यक्त आह वाग्देवी परं मोक्षं प्रजापतेः ॥ २,३.३० ॥
शाखां शाखां महानद्यः संयान्ति परितःस्रवाः ।
धानापूपा मांसकामाः सदा पायसकर्दमाः ॥ २,३.३१ ॥
यस्मिन्नग्निमुखा देवाः सेन्द्राः सहमरुद्गणाः ।
ईजिरे क्रतुभिः श्रेष्ठैस्तदक्षरमुपासते ॥ २,३.३२ ॥
प्रविशन्ति परं देवं मुक्तास्तत्रैव भोगिनः ।
निर्गच्छन्ति यथाकामं परेशेनैव चोदिताः ॥ २,३.३३ ॥
भेददृष्टयाभिमानेन निःसङ्गेनापि कमर्णा ।
कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ॥ २,३.३४ ॥
स सङ्गत्य पुनः काले कालेनेश्वरमूर्तिता ।
जातेऽगुणव्यतिकरे यथापूर्वं प्रजायते ॥ २,३.३५ ॥
ऋचां त्वः पोषमास्ते च परेण प्रेरिताः सदा ।
यत्कामस्तत्सृजत्यद्धैषात्मना तत्सृजत्यपि ॥ २,३.३६ ॥
सहैव ब्रह्मणा कामान् भुङ्कते निस्तीर्णतद्गुणः ।
दुःखादींश्च परित्यज्य जगद्वयापारवर्जितः ॥ २,३.३७ ॥
भुङ्क्ते भोगान् सहैवोच्चानित्याद्यागममानतः ।
मुक्तस्य भेदावगतेः कथमेव ह्यभिन्नता ॥ २,३.३८ ॥
जीवेशयोर्नानुमा च तदभेदं प्रमापयेत् ।
मिथ्यैव भेदो विमतो भेदत्वाच्चन्द्रभेदवत् ।
इति चेत्साध्यधर्मोऽयं सन्नसन् वा नवोभयम् ॥ २,३.३९ ॥
यदि सन्नपसिद्धान्तः स एवासन्नितीरिते ।
नोभयं चेन्न सिद्धं तदिति मानस्य दूषणम् ॥ २,३.४० ॥
न च मानान्तरेणैतच्छक्यं साधयितुं क्वचित् ।
अनुमानेन चेत्सैव ह्यनवस्था भविष्यति ॥ २,३.४१ ॥
नचागमस्तदर्थोऽस्ति नासदासीन्न तद्वदेत् ।
परिशेषादनिर्वाच्यं यदि सिद्धयेत्परात्मनः ॥ २,३.४२ ॥
अनिर्वाच्यत्वमेव स्यात्परिशिष्टो ह्यसौ तदा ।
नचान्य आगमस्तत्र सदसत्प्रतियोगिनि ॥ २,३.४३ ॥
न च प्रत्यक्षमात्रास्ति नचार्थापत्तिरिष्यते ।
बाधायोगात्सत इति बाधाभावत एव हि ॥ २,३.४४ ॥
विषयस्य कुतो बाधो विद्यमानं हि बाध्यते ।
न हि वन्ध्यासुतो वध्यो यज्ञदत्तो हि वध्यते ॥ २,३.४५ ॥
बाधायोगः सत इति व्याप्तिरेषा क्व दृश्यते ।
कश्चायं बाध उद्दिष्टो न हि नाशोऽसतो भवेत् ।
निवृत्तिश्चाप्रवृत्तस्य कथमेवोपपद्यते ॥ २,३.४६ ॥
नासीदस्ति भविष्यच्च तदिति ज्ञानमेयता ।
यदि बाधस्तदासत्त्वं तेनैवाङ्गीकृतं पुनः ॥ २,३.४७ ॥
प्रतीतिर्नासत इति वदन्नङ्गीकरोति ताम् ।
निषेधो ह्यप्रतीतस्य कथञ्चिन्नोपपद्यते ॥ २,३.४८ ॥
न चोपमा भवेदत्र प्रत्यक्षात्सत्त्वमेव च ।
शास्त्रगम्यपरेशानाद्भेदः स्वात्मन ईयते ॥ २,३.४९ ॥
अनुभूतिविरोधेन कथमेकत्वमुच्यते ।
किञ्चित्कर्ता च दुःखीति सर्वैरेवानुभूयते ॥ २,३.५० ॥
सर्वज्ञो भगवान् विष्णुः सर्वशक्तिरिति श्रुतः ।
अनुभूताद्धि भेदेन श्रुतिरेषा वदत्यमुम् ॥ २,३.५१ ॥
उपजीव्यविरुद्धं तु कथमैक्यं श्रुतिर्वदेत् ।
अप्रामाण्यं यदा भेदवाचकस्य भविष्यति ॥ २,३.५२ ॥
स एव धर्मिणो ग्राही तदभेदः कथं भवेत् ।
यत्स्वरूपग्रहे मानं तद्धर्मे न कथं भवेत् ॥ २,३.५३ ॥
एकविज्ञानविज्ञप्त्या द्वयं मानं भविष्यति ।
न चेदेकममानं तद्द्वयमप्यत्र नो भवेत् ॥ २,३.५४ ॥
धर्मिग्राहिविरोधस्तु तस्मान्मानस्य दूषणम् ।
नोपजीव्यो ह्यभेदोऽत्र क्वचिद्भेदश्रुतेर्बलात् ॥ २,३.५५ ॥
न च मानान्तरोपेयं ब्रह्म तद्भवति क्वचित् ।
येन मानेन चापेयं भेदस्तेनावगम्यते ॥ २,३.५६ ॥
सर्वज्ञानमयैवेशो यद्युपेयः कथञ्चन ।
सर्वज्ञथ्वगुणेनैव तया भेदोऽवगम्यते ॥ २,३.५७ ॥
न दुःखानुभवः क्वापि मिथ्यानुभवतां व्रजेत् ।
न हि बाधः क्वचिद्दृष्टो दुःखाद्यनुभवस्य तु ॥ २,३.५८ ॥
यदि दुःखानुभूतिश्च भ्रान्तिरित्यवसीयते ।
अदुःखिताश्रुतिः केन न भ्रान्तिरिति गम्यते ॥ २,३.५९ ॥
श्रुतिस्वरूपमर्थश्च मानेनैवावसीयते ।
तच्चेन्मानं गृहीतं ते किं दुःखानुभवे भ्रमः ॥ २,३.६० ॥
न च बाधविशेषोऽस्ति यदबाधितमेव तत् ।
बाधो यद्यनुभूतेऽर्थे कथं निर्णय ईयते ॥ २,३.६१ ॥
कोऽपि ह्यर्थो न निश्चेतुं शक्यते भ्रमवादिना ।
भ्रमत्वमभ्रमत्वं च यदैवानुभवोपगम् ।
एकस्य भ्रमता तत्र परस्याभ्रमता कुतः ॥ २,३.६२ ॥
भ्रमत्वमभ्रमत्वं च सर्वं वेद्यं हि साक्षिणा ।
स चेत्साक्षी क्वचिद्दुष्यः कथं निर्णय ईयते ॥ २,३.६३ ॥
विशेषा सर्व एवैते साक्षिप्रत्ययगोचराः ।
ऊरीकृत्य च तान् सर्वान् व्यवहारः प्रवर्तते ।
साक्षिणो व्यवसायी तु व्यवहारोऽभिधीयते ॥ २,३.६४ ॥
तस्मात्सर्वप्रसिद्धस्य व्यवहारस्य सिद्धये ।
साक्षी निर्दोष एवैकः सदाङ्गीकार्य एव नः ॥ २,३.६५ ॥
शुद्धः साक्षी यदा सिद्धो दुःखित्वं वार्यते कथम् ।
उपजीव्यप्रमाणं तद्भेदग्राहकमेव हि ।
अतो जीवेशयोर्भेदः श्रुतिसामर्थ्यसुस्थिरः ॥ २,३.६६ ॥
तथापि तु चिदानन्दपूर्वास्तत्सदृशा गुणाः ।
सारस्वरूपमस्यापि मुक्तावप्यवशिष्यते ॥ २,३.६७ ॥
अतोऽभेदवदेवैताः श्रुतयः प्रवदन्ति हि ।
पौराणानि च वाक्यानि सादृश्याभेदसंश्रयात् ॥ २,३.६८ ॥
सादृश्याच्च प्रधानत्वात्स्वातन्त्र्यादपिचाभिदाम् ।
आहुरीशेन जीवस्य न स्वरूपाभिदां क्वचित् ॥ २,३.६९ ॥
स्थानैक्यमैकमत्यं च मुक्तस्य तु विशिष्टते ।
सादृश्यं च विशेषेण जडानां द्वयमेव तु ।
भवेत्सादृश्यमत्यल्पं तृतीयं परमात्मना ॥ २,३.७० ॥
ईशरूपक्रियाणां च गुणानामपि सर्वशः ।
तथैवावयवानां तत्स्वरूपैक्यं तु मुख्यतः ॥ २,३.७१ ॥
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान् पृथक्पश्यंस्तानेवानुविधावति ।
इति श्रुतेर्नोभयं च भेदाभेदाख्यमिष्यते ॥ २,३.७२ ॥
एकमेवाद्वितीयं नेह नानास्ति किञ्चन ।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ २,३.७३ ॥
इति श्रुताविवेत्यस्माद्भेदाभेदनिराकृतिः ।
इवोभये च सादृश्य इति वाक्शब्दनिर्णये ॥ २,३.७४ ॥
भेदस्य मुक्तौ वचनादपि तत्पक्षनिग्रहः ।
चेतनत्वादिसादृश्यं यद्यभेद इतीष्यते ।
अङ्गीकृतं तदस्माभिर्न स्वरूपैकता क्वचित् ॥ २,३.७५ ॥
न केनचिदभेदोऽस्ति भेदाभेदोऽपिवा क्वचित् ।
समुदायमृते विष्णोः स्वगुणादीन् विनापि वा ॥ २,३.७६ ॥
इति श्रुतेर्न तस्यास्ति भेदाभेदोऽपि केनचित् ।
अभेदश्रुतयोऽ ंशत्वात्सादृश्यं चांशतास्य तु ॥ २,३.७७ ॥
अंशस्तु द्विविधो ज्ञेयः स्वरूपांशोऽन्य एव च ।
विभिन्नांशोऽल्पशक्तिः स्यात्किञ्चित्सादृश्यमात्रयुक् ॥ २,३.७८ ॥
अंशिनो यत्तु सामर्थ्यं यत्स्वरूपं यथा स्थितिः ।
स एव चेत्स्वरूपांशः प्रादुर्भावा हरेर्यथा ॥ २,३.७९ ॥
सूर्यमण्डलमान्येकस्तत्प्रकाशाभिमानवान् ।
सूर्योऽथ सप्तमाब्धेश्च बाह्योदस्य च वारिपः ॥ २,३.८० ॥
कठिनत्वेन मेर्वादेः पृथिव्या अपि देवता ।
धरादेव्येवमेवैको भगवान् विष्णुरव्ययः ।
नानावताररूपेण स्थितः पूर्णगुणः सदा ॥ २,३.८१ ॥
विण्मूत्राक्ष्यादिमानिन्यो यथापभ्रष्टदेवताः ।
सूर्यादिभ्यस्तथैवायं संसारी परमात्पृथक् ॥ २,३.८२ ॥
देहदोषैश्च दुष्टत्वादपभ्रष्टाख्यदेवताः ।
अन्याः सूर्यादिदेवेभ्यो ह्यनुग्राह्याश्च तैः सदा ॥ २,३.८३ ॥
एवमेव पराद्विष्णोः पृथक्संसारिणो मताः ।
अनुग्राह्याश्च तेनैव तत्प्रसादाच्च मोक्षिणः ॥ २,३.८४ ॥
न तु मत्स्यादिरूपाणामनुग्राह्यत्वमिष्यते ।
गुणैरशेषैः पूर्णत्वान्मुख्याभेदोऽपरैर्नच ॥ २,३.८५ ॥
अंशाभासाश्च सर्वेऽपि परस्यांशा न मुख्यतः ।
यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम् ॥ २,३.८६ ॥
न तु पुम्पादवत्पादा जीवा एते परात्मनः ।
पूर्णास्तस्य गुणा एव प्रादुर्भावतया स्थिताः ।
एवं जगाद परमश्रुतिर्नारायणं परम् ॥ २,३.८७ ॥
अक्षयो भगवान् विष्णुर्लक्ष्म्यावासो लये स्थितः ।
मुक्तैः सदा चिन्त्यमानो ब्रह्माद्यैस्तारतम्यगैः ॥ २,३.८८ ॥
प्रकृतिः पुरुषः कालो वेदाश्चेति चतुष्ययम् ।
नित्यं स्वरूपतो विष्णोर्विशेषावाप्तिमात्रतः ।
उत्पत्तिमादिति प्रोक्तं लक्ष्मीस्तदभिमानिनी ॥ २,३.८९ ॥
ततो जातः पुमान्नाम ब्रह्मास्यां वासुदेवतः ।
सूत्रात्मा प्राणनामा च देव्यौ प्रकृतिमानिनी ॥ २,३.९० ॥
ततो रूपं महान्नाम ब्रह्मणोऽहङ्कृतिः शिवः ।
ब्रह्मणो बुद्धिनाम्नोमा तत इन्द्रो मनोऽभिधः ।
स्कन्दश्च तत एवान्ये सर्वे देवाः प्रजज्ञिरे ॥ २,३.९१ ॥
तत्र पूर्वतनः श्रेयान् गुणैः सर्वैः समस्तशः ।
तेभ्यश्च भगवान् विष्णुस्तदधीना इमे सदा ॥ २,३.९२ ॥
जन्मस्थितिलयाज्ञाननियतिज्ञानसंसृतिः ।
मोक्षश्च तदधीनत्वमेतेषां नैव हीयते ॥ २,३.९३ ॥
मुक्तावपि स एवैकः स्वतन्त्रः पूर्णसद्गुणः ।
इति श्रुत्युपपत्तिभ्यां पादेऽस्मिन् प्रभुणोदितम् ॥ २,३.९४ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य तृतीयः पादः ॥

श्रुत्यर्थः श्रुतियुक्तिभ्यां विरुद्ध इव दृश्यते ।
यत्र तन्निर्णयं देवः सुविशिष्टोपपत्तिभिः ।
करोत्यनेन पादेन तत्र स्पष्टार्थवच्छ्रुतिः ॥ २,४.१ ॥
विशेषश्रुतिवैरूप्यं माहात्म्यं व्यक्तसद्गुणाः ।
दृष्टायुक्तिः समानत्वं कर्तृशक्तिर्विमिश्रता ॥ २,४.२ ॥
युक्तयः पूर्वपक्षेषु सुनिर्णीतासतु तादृशाः ।
युक्तयो निर्णयस्यैव स्वयं भगवतोदिताः ॥ २,४.३ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयोऽध्यायः ॥
स्वाभाविकान्यथानामसहाभावान्यथोक्तयः ।
अविशेषो विशेषौ च सहभावो विमिश्रता ॥ ३,१.१ ॥
विरुद्धोक्तिः सहस्थानं वैयर्थ्यं चान्यथागतिः ।
युक्तयः पूर्वपक्षस्य गुणाधिक्यार्थतोभवौ ॥ ३,१.२ ॥
उपपत्तिर्द्विरूपत्वमाधिक्यमनुरूपता ।
योग्यता प्रबलत्वं च विभागः कारणाभवः ।
कॢप्तिरन्यागतिश्चैव सिद्धान्तस्यैव साधकाः ॥ ३,१.३ ॥
बीजापूरुषयोनीनां सङ्गातिनियमोज्खितिम् ।
अथशब्देन भगवानाह कारणतश्च ताम् ॥ ३,१.४ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य प्रथमः पादः ॥

पश्चाददृष्टयविज्ञानकालदुःखपृथग्भवाः ।
स्थानभेदो विरुद्धत्वं न्यायसाम्यं स्वतोभवः ॥ ३,२.१ ॥
गुणसाम्यमयोगश्च तर्कबाधो विलोमता ।
नानाभावः प्रलोभश्च पूर्वपक्षगाः ॥ ३,२.२ ॥
अशक्यकर्तृताशक्तिः स्वतोऽबोधस्तदेव च ।
अमानकॢप्तिसन्मानव्यवस्थात्यल्पताभवाः ॥ ३,२.३ ॥
विशेषदृष्टिवाक्ये च पुंशक्तिः सुनिदर्शनम् ।
अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः ॥ ३,२.४ ॥
वासनाः सर्ववस्तूनामनाद्यनुभवागताः ।
सन्त्येवाशेषजीवानामनादिमनसि स्थिताः ॥ ३,२.५ ॥
त्रिगुणात्मकं मनोऽस्त्येव यावन्मुक्तिः सदातनम् ।
तत्रैवाशेषसंस्काराः सञ्चीयन्ते सदैव च ॥ ३,२.६ ॥
सूक्ष्मत्वेन लये सच्च प्राकृतैरुपचीयते ।
सृष्टिकाले यदा तन्न कुतः संसारसंस्थितिः ॥ ३,२.७ ॥
संस्कारैर्भगवानेव सृष्ट्वा नानाविधं जगत् ।
स्वप्नकाले दर्शयति भ्रान्तिर्जाग्रत्त्वमेव हि ॥ ३,२.८ ॥
अदृष्टे चाश्रुते भावे न भाव उपजायते ।
अदृष्टादश्रुताद्भावान्न भाव उपजायते ॥ ३,२.९ ॥
इति श्रुतिपुराणोक्तिरनादित्वात्तु युज्यते ।
कदाचिद्दर्शनायोग्यं यत्तत्रापि विभागतः ॥ ३,२.१० ॥
दृष्टं समानाधिकरणं दृश्यते च स च भ्रमः ।
वासनामात्रमूलत्वाज्जाग्रद्वत्स्पष्टता न च ॥ ३,२.११ ॥
भेदोऽभेदोऽथवा द्वन्द्वमिति प्रश्नो न युज्यते ।
द्रष्टुः स्वप्नस्य दृष्टत्वाद्भेदस्यैवाखिलैर्जनैः ॥ ३,२.१२ ॥
प्रश्नदोषा हि चत्वारः स्वव्याहतिरसङ्गतिः ।
सिद्धार्थता च वैफल्यं न तैः स्यात्तत्त्वनिर्णयः ॥ ३,२.१३ ॥
तत्त्वनिर्णयवैलोम्यं स्याद्वादेऽपि हि निग्रहः ।
उद्भावनीयमेव स्यान्न कथावसितिर्भवेत् ॥ ३,२.१४ ॥
विजिगीषुकथायां तु कथावसितिकारणम् ।
परिहारेऽपि सिद्धत्वं दूषणं प्रतिवादिनः ।
प्रतिज्ञायां तदन्यस्य सिद्धतैव हि साधका ॥ ३,२.१५ ॥
आश्रयव्याश्रयासिद्धी साध्यसिद्धिश्च दूषणम् ।
केषाञ्चिन्न च ते दोषा व्याप्तौ सत्यां कथञ्चन ॥ ३,२.१६ ॥
दोषो व्याहतिरेवास्ति नृशृङ्गास्तित्वसाधने ।
यत्र व्याहतता नास्ति कोऽतिसङ्गोऽस्य साधने ॥ ३,२.१७ ॥
प्रत्यक्षागममूलास्तु न्यायाः सर्वे भवन्ति हि ।
न्यायाभासा अमूलाः स्युर्न्यायस्यान्यस्य तौ पुनः ॥ ३,२.१८ ॥
अदृष्टे व्यभिचारे तु साधकं तदिति स्फुटम् ।
ज्ञायते साक्षिणैवाद्वा मानबाधे न तद्भवेत् ॥ ३,२.१९ ॥
यत्साक्षिणैव मानत्वं मानानामवसीयते ।
अमानस्य तु मानत्वं मानसत्वाच्चलं भवेत् ॥ ३,२.२० ॥
उत्सर्गतोऽपि यत्प्राप्तमपवादविवर्जितम् ।
व्यभिचार्यपवादेन मानमेव भविष्यति ॥ ३,२.२१ ॥
अतो हि भोजनादीनामिष्टसाधनतानुमा ।
मानं व्यवहृतौ नित्यं व्यभिचारो हि तत्र च ॥ ३,२.२२ ॥
व्याप्तत्वे व्याश्रयत्वं तु कथमेव हि दूषणम् ।
रोहिण्युदय आसन्नः कृत्तिकाभ्युदिता यतः ।
इत्युक्ते साधनं नो किं न ह्याज्ञैवात्र साधका ॥ ३,२.२३ ॥
अन्यत्सदसतोर्विश्वमिति च व्याहतेरमा ।
असिद्धसाधने दोषः को व्याप्तिर्यदि विद्यते ॥ ३,२.२४ ॥
व्याप्तिश्च व्यतिरेकेण तत्र तैश्चैव गम्यते ।
अप्रसिद्धस्य साध्यस्य साधकत्वं यदेष्यते ।
लिङ्गस्योक्तौ विशेषोऽयं केन मानेन गम्यते ॥ ३,२.२५ ॥
साधनं परमाण्वादेर्यदासिद्धस्य चेष्यते ।
यथानुभवमेवैतन्नाङ्गीकार्यं कुतस्तदा ॥ ३,२.२६ ॥
यत्र नातिप्रसङ्गोऽस्ति मानं न च विपर्यते ।
क्लिष्टकल्पनयैवात्र साध्यमित्यतिदुर्वचः ॥ ३,२.२७ ॥
परिशेषो मिथःसिद्धिः चक्रकस्वाश्रयादयः ।
असिद्धसाधकत्वेन पञ्चावयवतां विना ।
अङ्गीकार्याः समस्तैस्तन्नियमः किंनिबन्धनः ॥ ३,२.२८ ॥
सिद्दसाधनतायां च न कथावसितिर्भवेत् ।
व्यभिचारो हेत्वसिद्धिरेकपक्षेऽपि दूषणम् ॥ ३,२.२९ ॥
साध्यसाधनवैकल्यं दृष्टान्तस्य विशेषणे ।
वैयथ्यर्मेकासिद्धौ च विशिष्टासिद्धिरेव हि ॥ ३,२.३० ॥
अप्रयोजकता तत्र प्रथमप्रश्नदूषणम् ।
सिद्धप्रश्नादिकं यत्तदाधिक्यान्तगर्तं भवेत् ॥ ३,२.३१ ॥
अर्थापत्त्युपमाभावा अनुमान्तर्गताः क्वचित् ।
प्रत्यक्षान्तर्गतोऽभावः सुखादेर्नियमेन च ॥ ३,२.३२ ॥
अन्यत्र खडिति प्राप्तः प्रारम्भाद्याश्च युक्तयः ।
आगमार्थावसित्यर्था नियतव्याप्तयोऽखिलाः ॥ ३,२.३३ ॥
वाक्यं प्रकरणं स्थानं समाख्या च तथाविधाः ।
कुरुपाण्डववत्तेषामुपपत्तेः पृथग्वचः ॥ ३,२.३४ ॥
स्वन्यायैः साधनं कार्यं परन्यायैस्तु दूषणम् ।
स्वन्यायैर्दूषणं
च स्यात्साधितैः प्रतिवादिनः ॥ ३,२.३५ ॥
प्रसङ्गार्थतया प्रोक्ता न सिद्धान्तस्य दूषकाः ।
छलं जातिरिति द्वेधा व्याहत्यन्तरमिष्यते ।
जातिः स्वव्याहतिर्ज्ञेया छलमर्थान्तरोत्तरम् ॥ ३,२.३६ ॥
एवं संशोधितन्यायसदागमविरोधतः ।
नानिर्वाच्यमिह प्रोक्तं मायामात्रपदेन हि ॥ ३,२.३७ ॥
विलक्षणं सदसतोरिति हि व्याहतं स्वतः ।
प्रतियोगित्वमप्यस्य ब्रह्मणोऽङ्गीकृतं भवेत् ॥ ३,२.३८ ॥
मिथ्या चेत्प्रतियोगित्वं वैलक्षण्यं ततो न हि ।
अविलक्षणत्वं सत्यं स्यान्मिथ्यात्वं ब्रह्मणस्ततः ॥ ३,२.३९ ॥
अनिर्वाच्यस्य सत्त्वं वा यदि धर्मा न केचन ।
ब्रह्मणो नैव जिज्ञास्यं जिज्ञासा धर्मनिर्णयः ॥ ३,२.४० ॥
इदमित्थमिति ज्ञानं जिज्ञासायाः प्रयोजनम् ।
इत्थम्भावो हि धर्मोऽस्य न चेन्न प्रतियोगिता ॥ ३,२.४१ ॥
इत्थम्भावात्मकान् धर्मानाहुश्च श्रुतयोऽखिलाः ।
अदृश्यत्वादयोऽप्यस्य गुणा हि प्रभुणोदिताः ॥ ३,२.४२ ॥
यदि स्युस्तादृशा धर्माः सर्वज्ञत्वादयो न किम् ।
अन्यापेक्षा यदि स्युष्टे सत्तैवं देशकालगा ॥ ३,२.४३ ॥
देशकालानपेक्षा हि न सत्ता क्वापि दृश्यते ।
सर्वधर्मोज्ज्ञितस्यास्य किं शास्त्रेणाधिगम्यते ॥ ३,२.४४ ॥
मिथ्याधर्मविधातुश्च वेदस्यैवाप्रमाणता ।
अप्राप्तां भ्रान्तिमापाद्य किं वेदो मानतां व्रजेत् ॥ ३,२.४५ ॥
न हि वेदं विना ब्रह्म वेद्यं धर्माश्च तद्गताः ।
वेदवेद्यस्य मिथ्यात्वं यदि नैक्यस्य तत्कथम् ॥ ३,२.४६ ॥
धर्मारोपोऽपि सामान्यधर्मादीनां हि दशर्ने ।
इदन्तदादिधर्मित्वे धर्मोऽन्यः कल्प्यतेऽत्र हि ॥ ३,२.४७ ॥
सर्वधर्मविहीनस्य धर्मारोपः क्व दृश्यते ।
तदर्थं यदि धर्माणामारोपः सानवस्थितिः ॥ ३,२.४८ ॥
ईशतज्ज्ञानवेदाक्षजानुमामातृपूर्विणः ।
भ्रान्तिर्विश्वस्य येनैव मानाभासेन कल्प्यतेऽत्र हि ॥ ३,२.४९ ॥
तन्मात्रस्यान्यथा भावात्किं न स्याद्विश्वसत्यता ।
येनेदं कल्प्यते भ्रान्तं भ्रान्तिस्तस्यैव किं न सा ॥ ३,२.५० ॥
भ्रान्तत्वे तस्य विश्वादेरीशाद्यभ्रान्तमेव हि ।
भवेयुर्भ्रान्तयो नृणां नैवेशादेः कथञ्चन ॥ ३,२.५१ ॥
सत्यत्वमक्षजप्राप्तं यदि भ्रान्तमितीष्यते ।
प्रामाण्यमागमस्यापि प्रत्यक्षादन्यतः कुतः ॥ ३,२.५२ ॥
साक्षिप्रत्यक्षतो ह्येव मानानां मानतेयते ।
साक्षिणः स्वप्रकाशत्वमनवस्था ततो न हि ॥ ३,२.५३ ॥
तात्कालिकं प्रमाणत्वमक्षजस्य यदा भवेत् ।
ऐक्यागमस्य किं न स्यात्तस्याप्येतादृशं यदि ।
ऐक्यप्रामाण्यमिथ्यात्वं यदा विश्वस्य सत्यता ॥ ३,२.५४ ॥
ऐक्यागमस्य मानत्वं यद्यबाध्यमितीष्यते ।
अक्षजस्यापि मानत्वं नाबाध्यं किमितीष्यते ॥ ३,२.५५ ॥
अद्वैतहानिसामान्यान्न विशेषश्च कश्चन ।
यदि स्वतस्त्वं प्रामाण्ये विश्वसत्ता कथं न ते ॥ ३,२.५६ ॥
प्रामाण्यस्य च मर्यादा कालतो व्याहता भवेत् ।
कालान्तरेऽप्यमानं चेदिदानीं मानता कुतः ॥ ३,२.५७ ॥
मिथ्यात्वमानं मोक्षेऽपि मानं किं नेति भण्यताम् ।
मानत्वेऽद्वैतहानिः स्यादमानत्वेऽप्यमोक्षता ॥ ३,२.५८ ॥
विश्वस्य पुनरापत्तिर्मिथ्यामानं यदा न मा ।
अस्ति चेन्मुक्तयवस्था च द्वैतापत्तिरतोऽन्यथा ॥ ३,२.५९ ॥
अमुक्तत्वं तथा काले कालाधीना हि मुक्तता ।
काल एवागमोऽप्याह मुक्तिं कालनिवर्तने ।
मुक्तेरपि निवृत्तिः स्यात्संसारित्वमतो भवेत् ॥ ३,२.६० ॥
क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितम् ।
देहात्मत्वं यदि न तत्प्राप्तं प्रत्यक्षतः क्वचित् ।
मम देह इति ह्येव न देहोऽहमिति प्रमा ॥ ३,२.६१ ॥
उपचारश्च कृष्णोऽहमिति कर्दमलेपने ।
वस्त्रस्य यद्वदेवं स्याद्यद्युपाधिकृतं तदा ।
स्वतः शुक्लत्ववत्कार्ष्ण्यं न ममेति प्रतीयते ॥ ३,२.६२ ॥
कथं च भेदो देहादेरात्मनो न प्रमीयते ।
जातमात्रा मृगा गावो हस्तिनः पक्षिणो खषाः ।
भयाभयस्वभोगादौ कारणानि विजानते ॥ ३,२.६३ ॥
अस्मृतौ पूर्वदेहस्य विज्ञानं तत्कथं भवेत् ।
अन्वयव्यतिरेकादेरनुसन्धानविस्मृतौ ॥ ३,२.६४ ॥
यदा देहान्तरज्ञानं देहैक्यावसितिः कुतः ।
व्याप्तत्वादात्मनो देहे व्यवहारेष्वपाटवात् ॥ ३,२.६५ ॥
भेदज्ञानेऽपि चाङ्गारवह्निवत्स्वाविविक्तवत् ।
भवन्ति व्यवहाराश्च न हि प्रत्यक्षगानपि ॥ ३,२.६६ ॥
अर्थान् यथानुभवतः प्रतिपादयितुं क्षमाः ।
लोकास्ततो हि प्रत्यक्षसिद्धं नान्येन केनचित् ॥ ३,२.६७ ॥
शक्यं वारयितुं क्वापि तच्चेन्नोत्तरगोचरम् ।
कथमेवोत्तरः कालस्तद्गो मोक्षश्च गम्यते ॥ ३,२.६८ ॥
आगमोऽपि हि सामान्ये सिद्धे प्रत्यक्षतः पुनः ।
विशेषं गमयेदेव कथं शक्तिग्रहोऽन्यथा ॥ ३,२.६९ ॥
अतीतानागतार्थेषु जाते शक्तिग्रहेऽखिलम् ।
विशेषं ज्ञापयेद्वाक्यं न तदज्ञातशक्तिके ॥ ३,२.७० ॥
शक्तिश्चेद्वर्तमाने स्यान्नातीतानागतं वदेत् ।
यदि शक्तिग्रहोऽन्यत्र कथं स स्यात्तदग्रहे ॥ ३,२.७१ ॥
सामान्यं दृष्टमेवासावन्यत्र गमयेद्यदि ।
सामान्यवर्जितं वस्तुस्वरूपं गमयेत्कथम् ॥ ३,२.७२ ॥
न स्वरूपत्वसामान्यं केनाप्यङ्गीकृतं क्वचित् ।
स्वरूपं चेदनुगतं व्यावृत्तं तत्र किं भवेत् ॥ ३,२.७३ ॥
सर्वानुगतधर्माणामन्ते हि स्वत्वमिष्यते ।
किं व्यावृत्तमिति प्रश्ने स्वरूपमिति केवलम् ।
स्यादुत्तरं ततोऽन्यच्चेत्तदेव स्वयमेव नः ॥ ३,२.७४ ॥
एवं व्यावृत्तरूपेऽपि यदा शक्तिग्रहो भवेत् ।
तस्य सामान्यतो ज्ञानं विना स च भवेत्कुतः ॥ ३,२.७५ ॥
अतो विशेषसामान्यरूपं सर्वमपीष्यते ।
व्यावृत्तं यच्च सामान्यं तदेव स्याद्विशेषतः ॥ ३,२.७६ ॥
नचैकधर्मता तेन पदार्थानां परस्परम् ।
धर्माणां भेददृष्टयैव तत्सादृश्यस्य दर्शनात् ॥ ३,२.७७ ॥
अतः सर्वपदार्थाश्च सामान्यात्साक्षिगोचराः ।
सर्वमित्येव विज्ञानं सर्वेषां कथमन्यथा ॥ ३,२.७८ ॥
किञ्चित्सादृश्यविज्ञानादखिलस्यापि वस्तुनः ।
शब्दशक्तिग्रहश्च स्यात्तत्तत्सादृश्यमानतः ॥ ३,२.७९ ॥
प्रत्यक्षं मानसं चैव यदातीतार्थगोचरम् ।
तदा स्मृतिप्रमाणत्वमतीतत्वविशेषितम् ॥ ३,२.८० ॥
आधिक्यमनुभूतात्तु यदातीतत्वमिष्यते ।
मानता च कथं न स्यात्स्मृतेर्बाधश्च नात्रहि ॥ ३,२.८१ ॥
मानत्वं प्रत्यभिज्ञाया अपि सर्वानुभूतिगम् ।
अतीतवर्तमानत्वधर्मिणी सा च दृश्यते ॥ ३,२.८२ ॥
न च सा स्मृतिमात्रार्धा तदिदन्त्वग्रहैकतः ।
अतो न वतर्मानैकनियमः स्याद्ग्रहेऽक्षजे ॥ ३,२.८३ ॥
न च प्रमाणतोऽन्या स्यात्प्रमितिर्नाम कुत्रचित् ।
मानाभावाद्गौरवाच्च कल्पनायाः किमेतया ॥ ३,२.८४ ॥
मयैतज्ज्ञातमिति तु साक्षिगं ज्ञानगोचरम् ।
ज्ञानमेव ततोऽन्या न प्रमितिर्नाम दृश्यते ॥ ३,२.८५ ॥
मानामातृप्रमेयाणां तदुच्छित्तिर्नहि क्वचित् ।
स्वप्नानामपि चैतेषां न बाधो दृश्यते क्वचित् ॥ ३,२.८६ ॥
जाग्रत्त्वमात्रमत्रैकमन्यथा दृश्यते स्फुटम् ।
अतो मिथ्या न च स्वप्नो जाग्रद्वज्जाग्रदेव च ॥ ३,२.८७ ॥
आत्मवत्क्वचिदात्मा च स्यादेव भ्रमगोचरः ।
एतावता न मिथ्यासौ स्वप्ने जागरिते तथा ॥ ३,२.८८ ॥
यद्यात्मन्यन्यथा दृश्यं भ्रान्तमत्रापि तद्भवेत् ।
अबाधितानुवृत्तेस्तु स्वप्नादेर्भ्रान्तता कुतः ॥ ३,२.८९ ॥
न च काचित्प्रमा विश्वभ्रान्तत्वे सर्वमेव च ।
अभ्रान्तत्वे प्रमाणं तु कथं तद्भ्रान्तिता भवेत् ॥ ३,२.९० ॥
किञ्च भ्रान्तत्ववादी स भ्रान्तत्वं स्वमतस्य च ।
अङ्गीकरोति नियतं तत्र सम्प्रतिपन्नता ।
वादिनोस्तेन चाभ्रान्तं विश्वमेव भविष्यति ॥ ३,२.९१ ॥
भ्रान्तित्वभ्रान्तता चेत्स्यात्कथं नाभ्रान्तिसत्यता ।
अशेषदोषदुष्यं तन्मतं हेयं बुभूषिभिः ॥ ३,२.९२ ॥
येन स्वमतहेयत्वं स्वयमङ्गीकृतं सदा ।
भ्रान्तित्वाद्दुर्घटत्वस्य भूषणत्वाच्च केवलम् ॥ ३,२.९३ ॥
उन्मत्तोऽपि कथं तस्य मतं स्वीकर्तुमिच्छति ।
ईशशक्तेरचिन्त्यत्वान्महोन्मत्तैः प्रवर्तितम् ॥ ३,२.९४ ॥
अतः प्रज्ञात्र मायोक्ता जैव्युपादानमेव सा ।
निमित्तमैश्वरी मुख्यं निर्मितं त्रातमेव च ॥ ३,२.९५ ॥
ताभ्यां सह पृथक्चैव मायामात्रमितीर्यते ।
उभाभ्यां मातमैश्वर्या त्रातं सह पृथक्ततः ॥ ३,२.९६ ॥
प्रज्ञात्मकं मनो येन मनोरूपाश्च वासनाः ।
धीर्भीरिति मनस्त्वेवेत्याह च श्रुतिरञ्जसा ॥ ३,२.९७ ॥
चिदचिन्मिश्रमेवैतन्मनो यावच्च संसृतिः ।
तेनावस्था इमाः सर्वा जीवः पश्यति सर्वदा ॥ ३,२.९८ ॥
मनोविकारा विषयाः स्वाप्ना यद्बह्यवन्न ते ।
स्थूला भवन्त्यतस्तेषां स्पष्टता न तथा क्वचित् ॥ ३,२.९९ ॥
क्वचित्स्पष्टा अपि स्युष्ये वासना मानसी च सा ।
ईशेच्छयान्तर्दधाति व्यज्यते च पुनस्तया ॥ ३,२.१०० ॥
सृष्ट्वैव वासानभिश्च प्रपञ्चं स्वाप्नमीश्वरः ।
वासनामात्रतां तस्य नीत्वान्तर्धापयत्यजः ॥ ३,२.१०१ ॥
सुषुप्तिमोहबोधांश्च स्ववशस्तद्वशं सदा ।
जीवं नयति देवेशो नान्यः कर्तास्य कश्चन ॥ ३,२.१०२ ॥
न स्थानभेदतोऽप्यस्य भेदः कश्चित्परेशितुः ।
सर्वत्राशेषदोषोज्खपूर्णकल्याणचिद्गुणः ॥ ३,२.१०३ ॥
तद्विरुद्धं तु यत्तत्र मानं नैव भवेत्क्वचित् ।
महातात्पर्यरोधेन कथं तन्मानमत्र तु ॥ ३,२.१०४ ॥
दुःखाप्ययसुखावाप्तिहेतुत्वेनैव वेदवाक् ।
भवेन्मानं तदीशानात्प्रसन्नादेव नान्यथा ॥ ३,२.१०५ ॥
प्रसन्नता गुणोत्कर्षज्ञानादेव हि केवलम् ।
निर्दोषतापरिज्ञानादपि नान्येन केनचित् ॥ ३,२.१०६ ॥
यो मामशेषदोषोज्खं गुणसर्वस्वबृंहितम् ।
जानात्यस्मै प्रसन्नोऽहं दद्यां मुक्तिं नचान्यथा ॥ ३,२.१०७ ॥
यो मामशेषाभ्यधिकं विजानाति स एव माम् ।
विजानात्यखिलांस्तस्य दद्यां कामान् परं पदम् ॥ ३,२.१०८ ॥
यो मामेवमसम्मूढः किं मा निन्दन्ति शत्रवः ।
इत्यादिवेदस्मृतिगवाक्यैरेवावसीयते ॥ ३,२.१०९ ॥
लोकतश्च प्रसादेन मुक्तिः स गुणवेदनात् ।
महातात्पर्यमुख्यस्य विरोधादत एव हि ॥ ३,२.११० ॥
दोषित्वनिर्गुणत्वाल्पगुणत्वादि कथञ्चन ।
नार्थः श्रुतिपुराणादेस्तद्विरुद्धोऽखिलस्य च ।
अर्थः स्वयं विनिर्णीतो वासुदेवेन सादरम् ॥ ३,२.१११ ॥
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद्बुद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत ॥ ३,२.११२ ॥
इत्यतोऽखिलसच्छास्त्रविरुद्धत्वेन नानुमा ।
वर्तते तत्र तेनेशो निर्णीतोऽखिलसद्गुणः ॥ ३,२.११३ ॥
न च चित्त्वादभिन्नत्वं जीवस्येशवदाप्यते ।
यत आभासतामेव श्रुतिरस्य वदत्यलम् ॥ ३,२.११४ ॥
यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम् ।
छाया यथा पुंसदृशा पुमाधीना च दृश्यते ।
एवमेवात्मकाः सर्वे ब्रह्माद्याः परमात्मनः ॥ ३,२.११५ ॥
सत्ताप्रतीतिकार्येषु पुमधीनो यथेयते ।
आभास एव पुरुषा मुक्ताश्च परमात्मनः ॥ ३,२.११६ ॥
छाया विष्णो रमा तस्याश्छाया धाता विशेषकौ ।
तस्येन्द्रकामौ च तयोस्तयोरन्येऽखिला अपि ॥ ३,२.११७ ॥
हरेर्ब्रह्मास्य गीस्तस्या विशेषाविन्द्र एतयोः ।
मारश्चाभासकाः सर्व एतयोस्तदधीनतः ॥ ३,२.११८ ॥
सर्वेऽल्पशक्तयश्चैव पूर्णशक्तिः परो हरिः ।
चेतनत्वेऽपि भिन्नास्ते तस्मादेतेन सर्वदा ।
इत्यादिश्रुतिवाक्येभ्यो ज्ञायते भेद एव हि ॥ ३,२.११९ ॥
आभासत्वं हि निर्णीतं जीवस्य परमात्मनः ।
तन्न युक्तं यदाभास उपाध्यायत्त ईयते ॥ ३,२.१२० ॥
उपाध्यायत्तताभावादाभासत्वविरोधतः ।
चेतनत्वेन चांशत्वात्समुदायैक्यमापतेत् ॥ ३,२.१२१ ॥
अतः पृथक्तवमुदितं समुदायांशयोर्भवेत् ।
ईशाख्या समुदाये स्यादीशरूपेष्विवोदिता ॥ ३,२.१२२ ॥
अतो देहाद्युपाधीनामपाये समता भवेत् ।
ईशरूपैरथाभासा मुख्यतः सूर्यकादिवत् ॥ ३,२.१२३ ॥
यदा तदोपाध्यायत्तरूपाणां नाशिता भवेत् ।
इत्याशङ्कानिवृत्त्यर्थमाह वेदाधिपः प्रभुः ।
अत एवोपमेत्येव चान्याभासविशेषिताम् ॥ ३,२.१२४ ॥
यदुक्तं तदधीनत्वं सर्वावस्थास्वशेषतः ।
जीवस्य सदृशत्वं च चित्त्वमात्रं नचापरम् ॥ ३,२.१२५ ॥
तावन्मात्रेण चाभासो रूपमेषां चिदात्मनाम् ।
नोपाध्यधीनताद्यैश्च नातिसाम्यं निदर्शने ॥ ३,२.१२६ ॥
किञ्चित्सुखादिसादृश्यमपीशेनेसुरानृते ।
तत आभासते नित्यं तद्वदाभासतेऽपि च ॥ ३,२.१२७ ॥
भानमस्तित्वमपिचैवासमन्ताद्यतस्ततः ।
जीव आभास उद्दिष्टः सदैव परमात्मनः ॥ ३,२.१२८ ॥
न जलायत्तसूर्यादिप्रतिबिम्बोपमत्वतः ।
तदधीनत्वमेवेति किञ्चित्सादृश्यमेव च ।
सम्प्रकाशयतः सूत्रगतावखिलमानतः ॥ ३,२.१२९ ॥
जीवेशभेददृष्टयैव समुदायैकता कुतः ।
अशेषदोषराहित्यं सर्वशक्तित्वतो हरेः ॥ ३,२.१३० ॥
सर्वोपेतेति कथितमत ऐक्यं क्व दोषिणा ।
अशेषशक्तियुक्तश्चेत्स्वातन्त्र्याद्दोषवान् कथम् ॥ ३,२.१३१ ॥
अनुसन्धानरहितमैक्यं चेदेकता न तत् ।
चेतनैक्येऽनुसन्धानं प्रमाणं नैव चापरम् ॥ ३,२.१३२ ॥
अनुसन्धानरहितसमुदायैक्यमेव चेत् ।
चेतनेष्वस्तु तन्नाममात्रमेव यतस्ततः ॥ ३,२.१३३ ॥
मुक्तौ स्यादनुसन्धानं चेन्मिथ्याज्ञानिता भवेत् ।
सर्वज्ञ एकतां नानुसन्धत्ते नैव सा यतः ॥ ३,२.१३४ ॥
पश्चात्स्यादनुसन्धानं चेन्मिथ्याज्ञानिता भवेत् ।
विद्यमानानुसन्धानं न चेदज्ञत्वमापतेत् ॥ ३,२.१३५ ॥
असदैक्यं भवेत्पश्चाद्यदि स्यात्सप्तमो रसः ।
समुदायैक्यमेतस्माद्दूरतोऽपाकृतं सदा ॥ ३,२.१३६ ॥
अतोऽशेषगुणोन्नद्धं निर्दोषं यावदेव हि ।
तावदेवेश्वरो नाम तत्र भेदोऽपि न क्वचित् ॥ ३,२.१३७ ॥
नेह नानास्ति किमपि हरयोऽयमयं हि सः ।
इत्यादिश्रुतिमानेन जीवांशाः सर्व एव च ॥ ३,२.१३८ ॥
नियमेनानुसन्धानवन्तो यद्येकता स्वतः ।
अंशिनोऽशेषसन्धानमत्यल्पस्यापि विद्यते ॥ ३,२.१३९ ॥
भुवि जातेन चांशेन सुखदुःखादि तद्गतम् ।
अनुभूयते विशेषस्तु कश्चिदीशकृतो भवेत् ॥ ३,२.१४० ॥
ईशस्याचिन्त्यशक्तित्वान्नाशक्यं क्वापि विद्यते ।
सेशतानुपपन्नैव यदि जीवैकतास्य हि ।
अनीशस्येशतेत्येव विरुद्धं सर्वमानतः ॥ ३,२.१४१ ॥
ईशत्वेनैव विज्ञातमनीशत्वेन चेच्छ्रुतिः ।
अनीशत्वेन विज्ञातमीशत्वेनाथवा दिशेत् ॥ ३,२.१४२ ॥
उपजीव्यविरोधेन नैव मानत्वमेष्यति ।
अत एवेशतासिद्धेर्न किञ्चिच्छक्यमस्य च ॥ ३,२.१४३ ॥
ईशत्वेऽनीशभेदेन श्रुत्या सम्यक्प्रकाशिते ।
अयुक्तमपि चान्यत्र युक्तं भवति तद्बलात् ॥ ३,२.१४४ ॥
अतोऽन्यत्रापि यद्दृष्टं तदीशेनैव कल्प्यते ।
श्रुत्याभासाप्तमपि नहीशत्वपरिपन्थि यत् ॥ ३,२.१४५ ॥
ईशोऽनीशो जगन्मिथ्या दुःखी मुक्तो भिदा न हि ।
इति प्रतिज्ञाव्याघातः सर्वदोषाधिकाधिकः ॥ ३,२.१४६ ॥
इति हि ब्रह्मतर्कोक्तिरतिहेयमतोऽखिलैः ।
बुभूषुभिर्मतमिदं जीवेशाभेदवादिनः ॥ ३,२.१४७ ॥
नायुक्तमीशितुः किञ्चिदीशत्वस्याविरोधि यत् ।
यदीशित्वविरोधि स्यात्तदेवायुक्तमञ्जसा ॥ ३,२.१४८ ॥
ईशित्वस्याविरोधेन योजयित्वाखिलाः प्रमाः ।
सिद्धेशित्वेन चायुक्तमपि हीशे न योजयेत् ॥ ३,२.१४९ ॥
मानतः प्राप्तमखिलं नामानं योजयेत्क्वचित् ।
इति हि ब्रह्मतर्कोक्तिरतो युक्तमिहोदितम् ॥ ३,२.१५० ॥
स चाप्राकृतरूपत्वादरूपः स्वगुणशत्मकम् ।
रूपमस्य शिरःपाणिपादाद्यात्मकमिष्यते ॥ ३,२.१५१ ॥
अतो नानित्यता नैव श्रुतिद्वयविरोधिता ।
यथा हि तैजसस्यैव प्रकाशस्योज्खितावपि ।
आत्मैव ज्योतिरित्याह जीवस्येशं श्रुतिस्तथा ॥ ३,२.१५२ ॥
तद्भक्तितारतम्येन तारतम्यं विमुक्तिगम् ।
ब्रह्मादीनां च सर्वेषामानन्दादेर्यथाक्रमम् ॥ ३,२.१५३ ॥
प्रतिबिम्बवदप्येषामानन्दोऽन्यगुणा यथा ।
नारायणगुणाधीनश्चात्यल्पस्तदपेक्षया ॥ ३,२.१५४ ॥
तस्माद्भिन्नश्च सततमन्यज्ज्ञानं परस्य च ।
अन्यज्ज्ञानं तु जीवानामन्य आनन्द ईशता ॥ ३,२.१५५ ॥
मुख्येशता परेशस्य गौणी जीवस्य सा यतः ।
इति श्रुतेः सृष्टिनाशौ तदधीनावितीरिते ।
स्वभावत्वात्स्थितेर्नैतदपेक्षेति न युज्यते ॥ ३,२.१५६ ॥
यतः स्वभावोऽखिल ईशायत्तोऽखिलस्य च ।
अव्यक्तोऽपि स्वक्तयैव भक्तानां दृश्यते हरिः ॥ ३,२.१५७ ॥
तदभिन्ना गुणा नित्यमपि सर्वे विशेषतः ।
गुणत्वेन गुणित्वेन भोक्तृभोग्यतया स्थिताः ॥ ३,२.१५८ ॥
विशेषात्मतया तेषां नित्यशक्तयात्मना तथा ।
नित्यस्थितेर्न धर्माणां क्रियादीनामनित्यता ॥ ३,२.१५९ ॥
न विशेषात्मता चेयमनित्या शक्तिरूपता ।
सैव यत्सविशेषा स्याद्विशेषोऽन्यो नचाप्ययम् ॥ ३,२.१६० ॥
स्वनिर्वाहकताहेतोस्तथापि स्याद्विशेषतः ।
विशेषत्वेन विज्ञातेः प्रमाणैरखिलैरपि ॥ ३,२.१६१ ॥
ससर्ज सञ्जहारेति विशेषो ह्यवगम्यते ।
श्रुत्यैव स स एवेति तदभेदश्च गम्यते ॥ ३,२.१६२ ॥
भेदो यदि विशेषस्य स भेदो भेदिना कथम् ।
भिन्नश्चेदनवस्था स्यादभिन्नश्चेत्पुरा न किम् ॥ ३,२.१६३ ॥
विशेषोऽभिन्न एवेति तेन नाभ्युपगम्यते ।
अभिन्नो निविर्शेषश्चेद्भेदस्तद्भेदता कुतः ॥ ३,२.१६४ ॥
अनेनानेन भिन्नोऽयमिति यत्स विशेषतः ।
भेद एवैष बहुधा दृश्यते तत्किमुत्तरम् ॥ ३,२.१६५ ॥
अभेदभेदयोश्चैव स्वरूपत्वं हि भेदिना ।
तयोरप्यविशेषत्वे पर्यायत्वं हि शब्दयोः ॥ ३,२.१६६ ॥
अभेदभेदशब्दौ च पर्यायाविति को वदेत् ।
भेदोऽन्योन्यमभेदश्च भेदिना चेद्विशेषता ॥ ३,२.१६७ ॥
निर्विशेषे कथं भेदो भेदिनैकस्तथाभिदा ।
पुनस्तयोर्विभेदश्च भेदिमात्रत्वतो भवेत् ॥ ३,२.१६८ ॥
भेदिनश्चैव भेदस्य विशेषो यदि गम्यते ।
अभेदाभेदिनोश्चैव किं भेदोऽभेदभेदयोः ॥ ३,२.१६९ ॥
विशेषेणैव सर्वत्र यदि व्यवहृतिर्भवेत् ।
कल्पनागौरवायैव किं भेदः कल्प्यते तदा ॥ ३,२.१७० ॥
ऐक्यप्रतीत्यभावेन भेद एव गवश्वयोः ।
स एवेति प्रतीतौ हि विशेषो नाम भण्यते ॥ ३,२.१७१ ॥
सच्चिदादेरपर्यायसिद्धयर्थं मायिनापि हि ।
अङ्गीकार्यो विशेषोऽयं यद्यसत्यविशेषणम् ।
पृथक्पृथग्वारयितुं शब्दान्तरमितीष्यते ॥ ३,२.१७२ ॥
मायाविशेषराहित्यविशेषेण विशेषिता ।
सत्यस्यापि भवेत्सा च तथा चेदनवस्थितिः ॥ ३,२.१७३ ॥
यदि सत्ये विशेषो न न तदुक्तिर्भवेत्तदा ।
लक्ष्यते चेत्तेन लक्ष्यमित्यपि स्याद्विशेषिता ॥ ३,२.१७४ ॥
पुनःपुनर्लक्षणायामपि स्यादनवस्थितिः ।
यद्यभावविशेषित्वं स्यादङ्गीकृतमेव ते ॥ ३,२.१७५ ॥
असार्वज्ञ्यादिराहित्यमप्येवं ते भविष्यति ।
तदा सार्वज्ञ्यमेव स्याद्भावार्थत्वान्नञोर्द्वयोः ॥ ३,२.१७६ ॥
यदि नैतादृशं ग्राह्यमसुखत्वानिवर्तनात् ।
असत्त्वज्ञानतादेश्च स्यादसत्त्वादिकं तदा ॥ ३,२.१७७ ॥
अनृतादिविरोधित्वं यद्यस्याभ्युपगम्यते ।
अनैश्वर्यविरोधित्वमप्येवं किं निवार्यते ॥ ३,२.१७८ ॥
अखण्डखण्डनादेवं विशेषोऽखण्डवादिना ।
खण्डितेनापि मनसा स्वीकार्योऽनन्यथागतेः ॥ ३,२.१७९ ॥
अखण्डखण्डवादिभ्यां खण्डाखण्डेन चैव तत् ।
महादरेण शिरसि विशेषो धार्य एव हि ॥ ३,२.१८० ॥
निदर्शनत्रयेणातो भगवानत्यभिन्नताम् ।
गुणानामादरेणाह तच्च नाभिहितान्वयः ॥ ३,२.१८१ ॥
यदाशेषविशेषाणमुक्तिः सामान्यतो भवेत् ।
पदैकेनाप्युत्तरेण विशेषावगतिर्भवेत् ॥ ३,२.१८२ ॥
यतोऽशेषविशेषाणां वस्तुनास्त्येव चैकता ।
अतः सामान्यतो ज्ञातः पदान्तरबलात्पुनः ।
भवेद्विशेषतो ज्ञानस्तेन स्यादन्वितोक्तिता ॥ ३,२.१८३ ॥
स्वार्थ एवान्वितो यस्मात्केनचित्तद्विशेषतः ।
अनेनेति तदुक्तयैव ज्ञायतेऽनुभवेन हि ॥ ३,२.१८४ ॥
यद्यनन्वितमेवैतत्पदं स्वार्थं वदेदिह ।
तथान्यान्यपि सर्वाणि कः कुर्यादन्वयं पुनः ॥ ३,२.१८५ ॥
व्यापारो न हि शब्दस्य परः स्वार्थप्रकाशनात् ।
पुमानप्येकवारोक्तया कृतकृत्यो यदा भवेत् ॥ ३,२.१८६ ॥
अन्वयस्य कथं ज्ञानं शब्दार्थत्वं यदास्य न ।
यदैवानन्वितार्थस्य वचनं तैः पदैभर्वेत् ॥ ३,२.१८७ ॥
अनन्वितः स्याच्छब्दार्थो न तदर्थो हि सोऽन्वयः ।
निराकाङ्क्षपदान्येव वाक्यमित्युच्यते बुधैः ॥ ३,२.१८८ ॥
तत्तदर्थाभिधानेन स्यान्निराकाङ्क्षता च सा ॥ ३,२.१८९ ॥
अपूर्तेस्तावदर्थानामाकाङ्क्षा पूर्वमिष्यते ।
कर्मकर्तृक्रियाणां तु पूर्तौ कोऽन्योऽन्वयो भवेत् ॥ ३,२.१९० ॥
अपूर्तिश्चेत्पदैरुक्तैः किं नृशृङ्गेण पूर्यते ।
व्यापारश्चेत्पुनस्तेषामनुक्तावपि किं न सः ॥ ३,२.१९१ ॥
उक्ते बुद्धिस्थताहेतोर्यदि व्यापार इष्यते ।
बुद्धिस्थत्वाय यत्नं न कथं कुर्युः पुरैव च ।
पुरुषाधीनता तेषां यदि पश्चाच्च सा समा ॥ ३,२.१९२ ॥
पुमानेवान्वयायैषां पश्चाद्यदि विचेष्यते ।
अनन्विताभिधानानां स एवार्थान्तरोक्तिषु ।
यततां शब्दशक्तिश्चेत्तत्र नैवान्वये कथम् ॥ ३,२.१९३ ॥
तत्कल्पनागुरुत्वादिदोषेतोऽभिहितान्वयः ।
अनुभूतिविरुद्धश्च त्याज्य एव मनीषिभिः ॥ ३,२.१९४ ॥
कर्तृशब्दे ह्यभिहिते धर्मसामान्यवेदनात् ।
विशेषधर्ममन्विच्छन् किमित्येव हि पृच्छति ॥ ३,२.१९५ ॥
गुणक्रियादिधर्माणां विशेषे कथिते पुनः ।
निराकाङ्क्षो भवेद्यस्माच्छब्दा अन्वितवाचकाः ॥ ३,२.१९६ ॥
अतोऽनन्तगुणात्मैको भगवानेक एव तु ।
उच्यते सर्ववेदैश्च ते चाखिलविलक्षणाः ॥ ३,२.१९७ ॥
सर्वे सर्वगुणात्मानः सर्वकर्तार एव च ।
तथापि सविशेषाश्च विद्वद्य्वुत्पत्तितोऽपिच ॥ ३,२.१९८ ॥
तैस्तैः शब्दैश्च भण्यन्ते युज्यते चोपदेशतः ।
अन्यानन्दादिसादृश्यमानुकूल्यादिना परम् ॥ ३,२.१९९ ॥
पूर्णत्वादि महत्तेषां वैलक्षण्यं श्रुतौ श्रुतम् ।
पूर्णेऽशेषनियन्ता च सुखादुतम एककलः ॥ ३,२.२०० ॥
गुणोरुसमुदायोऽयं वासुदेवः स निष्कळः ।
वासुदेवश्रुतिः सैषा गुणान् वक्ति हरेः परान् ॥ ३,२.२०१ ॥
स एवाशेषजीवस्थनिस्सङ्खयानादिकालिकान् ।
धर्माधर्मान् सदा पश्यन् स्वेच्छया बोधयत्यजः ॥ ३,२.२०२ ॥
कांश्चित्तेषां फलं चैव ददाति स्वयमच्युतः ।
न ते विशेषं कमपि प्रेरणादिकमुच्यते ।
कुर्युः कदापि तेनायं स्वतन्त्रोऽनुपचारतः ॥ ३,२.२०३ ॥
कर्माणि तानि च पृथक्चेतनान्येव सर्वशः ।
अचेतनशरीराणि स्वकर्मफलभाञ्चि च ॥ ३,२.२०४ ॥
प्रत्येकं तेषु चानन्तकर्माण्येवंविधानि च ।
तानि चैवमितीशस्य निस्सीमा शक्तिरुत्तमा ॥ ३,२.२०५ ॥
एकैव ब्रह्महत्या हि वराहहरिणोदिता ।
ब्रह्मपारस्तवेनैव निष्क्रान्ता राजदेहतः ॥ ३,२.२०६ ॥
स्तोत्रस्य तस्य माहात्म्याद्व्याधत्वं गमिता पुनः ।
प्राप्य ज्ञानं परं चाप तथान्यान्यपि सर्वदा ॥ ३,२.२०७ ॥
अनन्तान्युदितान्येवं प्रभुणा कपिलेन हि ।
संसारे पच्यमानानि कर्माण्यपि पृथक्पृथक् ॥ ३,२.२०८ ॥
तस्मादनन्तमाहात्म्यगुणपूगो जनार्दनः ।
भक्त्या परमयाऽराध्य इति पादार्थ ईर्यते ॥ ३,२.२०९ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य द्वितीयः पादः ॥
वैराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत् ।
आपरोक्ष्यं भवेद्विष्णोरिति पादक्रमो भवेत् ॥ ३,३.१ ॥
युक्तितो ज्ञातवेदार्थो निरस्य समयान् परान् ।
परस्परविरोधं च प्रणुद्याशेषवाक्यगम् ॥ ३,३.२ ॥
अध्यात्मप्रणवो भूत्वा तस्य सन्निहितत्वतः ।
बहुयुक्तिविरोधानां भानात्तत्सहितश्रुतेः ॥ ३,३.३ ॥
विरोधं च निराकृत्य श्रुतीनां प्राणतस्त्वगान् ।
परिहृत्य विरोधांश्च तत्प्रसादानुरञ्जितः ॥ ३,३.४ ॥
देहकर्तृत्वमीशस्य ज्ञात्वा तत्पितृतास्मृतेः ।
विशेषस्नेहमापाद्य सर्वकर्तृत्वतोऽधिकम् ॥ ३,३.५ ॥
निष्पाद्य बहुमानं च तदन्यत्रातिदुःखतः ।
उत्पाद्याधिकवैराग्यं तद्गुणाधिक्यवेदनात् ॥ ३,३.६ ॥
सर्वस्य तद्वशत्वाच्च दार्ढ्यं भक्तेरवाप्य च ।
यतेतोपासनायैव विशिष्टाचार्यसम्पदा ॥ ३,३.७ ॥
कर्तव्या ब्रह्मजिज्ञासेत्युक्ते किमिति संशये ।
अत इत्युदितेऽप्यस्य विशेषानुक्तितः पुनः ॥ ३,३.८ ॥
सृष्टिबन्धनमोक्षादिकर्तृत्वस्य श्रुतत्वतः ।
यतो मोक्षादिदातासावतो जिज्ञास्य एव वः ।
इत्याह तत्परं ब्रह्म व्यासाख्यं ज्ञानरश्मिमत् ॥ ३,३.९ ॥
येनैव बन्धमोक्षः स्यात्स च जिज्ञासया गतः ।
सुप्रसन्नो भवेदीशो जिज्ञासातोऽस्य मुक्तिदा ॥ ३,३.१० ॥
मोक्षादिदत्वमीशस्य कथमेवावगम्यते ।
इति चेच्छास्त्रयोनित्वाच्छास्त्रगम्यो हि मोक्षदः ॥ ३,३.११ ॥
प्रत्यक्षावसितेभ्यः स्याद्यदि मोक्षः कथञ्चन ।
किमित्यनादिसंसारमग्नाः सर्वा इमाः प्रजाः ॥ ३,३.१२ ॥
यस्मान्नियमतो दुःखहानिः प्रत्यक्षतो भवेत् ।
धावन्त्येव तमुद्दिश्य राजाद्यमखिलाः प्रजाः ॥ ३,३.१३ ॥
अनुमानगम्यतो मोक्षो यदि तस्यानुमैव हि ।
दृष्टपूरुषवन्मोक्षदातृतां विनिवारयेत् ॥ ३,३.१४ ॥
तच्छास्त्रगम्य एवैको मोक्षदो भवति ध्रुवम् ।
शास्त्रगम्यश्च नान्योऽस्ति मोक्षदत्वेन केशवात् ॥ ३,३.१५ ॥
मोक्षदो हि स्वतन्त्रः स्यात्परतन्त्रः स्वयं सृतौ ।
वर्तमानः कथं शक्तः परमोक्षाय केवलम् ॥ ३,३.१६ ॥
अन्याश्रयेण यद्येष दद्यान्मोक्षं स एव हि ।
तेनाननुसृतो मोक्षं न दद्यादन्यवाक्यतः ।
अतस्तदर्थमपि स ज्ञेयो विष्णुर्मुमुक्षिभिः ॥ ३,३.१७ ॥
यमेवैष इति श्रुत्या तमेवेति च सादरम् ।
शास्त्रयोनित्वमस्यैव ज्ञायते वेदवादिभिः ॥ ३,३.१८ ॥
य एनं विदुरमृता इत्युक्तस्तु समुद्रगः ।
तदेव ब्रह्म परममिति श्रुत्यावधारितः ॥ ३,३.१९ ॥
यतः प्रसूतेति ततः सृष्टिमाह ततो हरिः ।
शास्त्रयोनिर्नचान्योऽस्ति मुख्यतस्त्विति गम्यते ॥ ३,३.२० ॥
शास्त्रयोनित्वमेतस्य ज्ञायते हि समन्वयात् ।
समिति ह्युपसर्गेण परमुख्याथर्तोच्यते ॥ ३,३.२१ ॥
एवं परममुख्यार्थो नारायण इति श्रुतेः ।
निर्धारणाय नाशब्दमिति वेदपतिर्जगौ ॥ ३,३.२२ ॥
कथं समन्वयो ज्ञेयः स्वल्पशाखाविदां नृणाम् ।
वेदा ह्यनन्ता इति हि श्रुतिराहाप्यनन्तताम् ॥ ३,३.२३ ॥
अनन्तवेदनिर्णीतिर्महाप्रळयवारिधेः ।
उत्तारणोपमेत्यस्मान्न ज्ञेयोऽत्र समन्वयः ॥ ३,३.२४ ॥
इति शङ्कापनोदार्थं स आह करुणाकरः ।
अशक्योत्तरणत्वेऽपि ह्यागमापारवारिधेः ।
निर्णीयते मयैवायं रोमकूपलयोदिना ॥ ३,३.२५ ॥
यद्यप्यशेषवेदार्थो दुर्गमोऽखिलमानवैः ।
मज्ज्ञानाव्याकृताकाशे प्राप्नोति परमाणुताम् ॥ ३,३.२६ ॥
इति प्रकाशयन् विश्वपतिराह प्रमेयताम् ।
निखिलस्यापि वेदस्य गतिसामान्यमञ्जसा ॥ ३,३.२७ ॥
को नाम गतिसामान्यमनन्तागमसम्पदः ।
ज्ञानसूर्यमृते ब्रूयात्तमेकं बादरायणम् ॥ ३,३.२८ ॥
अन्योऽप्यल्पमतिः शाखाचतुष्पञ्चगतं वसु ।
जानन्नानुमितत्वेन ब्रूयात्तस्य प्रसादतः ॥ ३,३.२९ ॥
इति मुख्यतयाशेषगतिसामान्यवित्प्रभुः ।
प्रतिजज्ञे दृढं यस्माद्देवानामपि पूर्यते ॥ ३,३.३० ॥
अतो निखिलवेदानां सिद्ध एवं समन्वयः ।
इति सुज्ञापितार्थोऽपि पृथक्चाह समन्वयम् ॥ ३,३.३१ ॥
तत्र प्रथमतोऽन्यत्र प्रसिद्धानां समन्वयः ।
शब्दानां वाच्य एवात्र महामल्लेशभङ्गवत् ॥ ३,३.३२ ॥
इतोऽत्यभ्यधिकत्वेऽपि तुर्यपादोदितस्य तु ।
महासमन्वये तस्मिन्नाधिकारोऽखिलस्य हि ॥ ३,३.३३ ॥
ब्रह्मैवाधिकृतस्तत्र मुख्यतोऽन्ये यथाक्रमम् ।
दुर्गमत्वाच्च नैवात्र प्राथम्येनोदितोऽञ्जसा ॥ ३,३.३४ ॥
अतोऽन्यत्र प्रसिद्धानां शब्दानां निर्णयाय तु ।
प्रवृत्तः प्रथमं देवस्तत्रानन्दादयो गुणाः ।
ईशस्यैवेति निर्णीताः श्रुतियुक्तिसमाश्रयात् ॥ ३,३.३५ ॥
देवतान्तरगाः सर्वे शब्दवृत्तिनिमित्ततः ।
विष्णुमेव वदन्त्यद्धा तत्सङ्गादुपचारतः ॥ ३,३.३६ ॥
अन्यदेवान् वदन्तीह विशेषगुणवक्तृतः ।
विष्णुमेव परं ब्रूयुरेवमन्येऽप्यशेषतः ॥ ३,३.३७ ॥
इत्यन्यत्रप्रसिद्धोरुशब्दराशेरशेषतः ।
ज्ञाते समन्वये विष्णौ लिङ्गैर्ह्येष समन्वयः ॥ ३,३.३८ ॥
तेषामन्यगतत्वे तु न स्यात्सम्यक्समन्वयः ।
इत्येवाशेषलिङ्गानां ब्रह्मण्येव समन्वयम् ॥ ३,३.३९ ॥
आहोभयगतत्वं च स्यादतो लिङ्गशब्दयोः ।
इति संशयनुत्त्यर्थमुभयत्र प्रतीतितः ॥ ३,३.४० ॥
शब्दानां वर्तमानानां सलिङ्गानां विशेषतः ।
समन्वयो हरावेव यन्नैवान्यत्र मुख्यतः ॥ ३,३.४१ ॥
शब्दा लिङ्गानि च यतो नैवान्यत्र स्वतन्त्रता ।
अस्वतन्त्रेषु शब्दस्य वृत्तिहेतुर्न मुख्यतः ॥ ३,३.४२ ॥
यतोऽतो यदधीनास्ते शब्दार्थत्वमुपागताः ।
अत्यल्पेनैव शब्दस्य वृत्तिहेतुगुणेन तु ॥ ३,३.४३ ॥
अयो यथा दाहकत्वं स एवेशः स्वतन्त्रतः ।
मुख्यशब्दार्थ इति हि स्वीकर्तव्यो मनीषिभिः ॥ ३,३.४४ ॥
इत्याहैवञ्च शब्दानां नारायणसमन्वये ।
सिद्धेऽप्यशेषशब्दानां न कथञ्चन युज्यते ॥ ३,३.४५ ॥
विरोधाववरत्वादेरपि प्राप्तिर्यतो भवेत् ।
इति चेदवरत्वादि द्विविधं ह्युपलभ्यते ॥ ३,३.४६ ॥
परस्यावरताहेतुर्यः स्वयं पर एव सन् ।
सोऽपि ह्यवरशब्दार्थो यथा राजा जयी भवेत् ॥ ३,३.४७ ॥
अन्योऽवरत्वानुभवी तयोः पूर्वोऽस्ति केशवे ।
द्वितीयो जीव एवास्ति स्वातन्त्रान्नच दूषणम् ॥ ३,३.४८ ॥
हरेरेवमशेषेण सर्वशब्दसमन्वये ।
उक्ते विरोधहीनस्य स्यात्समन्वयता यतः ।
अतोऽशेषविरोधानां कृतेशेन निराकृतिः ॥ ३,३.४९ ॥
समन्वयाविरोधाभ्यां सञ्जाते वस्तुनिर्णये ।
किं मया कार्यमित्येव स्याद्बुद्धिरधिकारिणः ॥ ३,३.५० ॥
तत्र भक्तिविधानार्थमभक्तानर्थसन्ततौ ।
उक्तायां भक्तिदार्ढ्याय प्रोक्तेऽशेषगुणोच्चये ।
वक्तव्योपासना नित्यं कर्तव्येत्यादरेण हि ॥ ३,३.५१ ॥
सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी ।
ध्यानरूपा परा चैव तदङ्गं धारणादिकम् ॥ ३,३.५२ ॥
तथोभयात्मकं चैव पादेऽस्मिन् बादरायणः ।
आहोपासनमद्धव विस्तराच्छ्रुतिपूर्वकम् ॥ ३,३.५३ ॥
पृथग्दृष्टिरशक्यत्वमनिर्णीतिः समुच्चयः ।
विशेषदर्शनं कार्यलोपो नानोक्तिराशुता ॥ ३,३.५४ ॥
विभ्रमोऽपाकृतिर्लिङ्गमनवस्थाविशेषिता ।
अप्रयोजनता चातिप्रसङ्गोऽदूरसंश्रयः ॥ ३,३.५५ ॥
विशिष्टकारणं चेष्या दृष्टवैरूप्यमुन्नतिः ।
अनुक्तिरप्रयत्नत्वं दृढबन्धपराभवौ ॥ ३,३.५६ ॥
पुंसाम्यं प्राप्तसन्त्यागः कारणानिर्णयो भ्रमः ।
विशेषदर्शिताऽलापो गुणसाम्यं पृथग्दृशिः ॥ ३,३.५७ ॥
अगम्यवर्त्म सन्धानमिष्टं फलमकल्पना ।
शुद्धवैरूप्यमङ्गत्वमविशेषदृशिः क्रिया ॥ ३,३.५८ ॥
युक्तयः पूर्वपक्षस्थाः सुज्ञेयत्वं विधिक्रिया ।
माहात्म्यमल्पशक्तित्वं यथायोग्यफलं भवः ॥ ३,३.५९ ॥
फलसाम्यं विशेषश्च गुणाधिक्यं प्रधानता ।
यथाशक्तिक्रिया सन्धिः प्रमाणबलमानतिः ॥ ३,३.६० ॥
कारणं कार्यवैशेष्यं स्वभावो वस्तुदूषणम् ।
प्रतिक्रियाविरोधश्च प्रतिसन्धिरनूनता ॥ ३,३.६१ ॥
संस्कारपाटवं स्वेच्छानियतिर्वस्तुवैभवम् ।
विशेषोक्तिरमानत्वं प्राधान्यं प्रीतिरागमः ॥ ३,३.६२ ॥
सुस्थिरत्वं कृतप्राप्तिरनादिगुणविस्तरः ।
साधनोत्तमता नानादृष्टिः शिष्टिरनूनता ॥ ३,३.६३ ॥
अविघ्नत्वविरोधौ च गुणवैशेष्यमागमः ।
सिद्धान्तनिर्णये ह्येता युक्तयोऽव्याहताः सदा ॥ ३,३.६४ ॥
यथाशक्तयखिलान् वेदान् विज्ञायोपासनं भवेत् ।
तत्राखिलस्य विज्ञप्तिः सम्यग्ब्रह्मण एव हि ॥ ३,३.६५ ॥
तदन्येषां यथायोग्यमखिलज्ञप्तिरिष्यते ।
तावतोपासने योग्यो भवेदेवाखिलः पुमान् ॥ ३,३.६६ ॥
महत्त्वस्य परं पारं विदित्वैव जनार्दनः ।
स्तोष्यतामेति तुष्टत्वमिति नास्त्येव नारद ॥ ३,३.६७ ॥
किन्तु निश्चलया भक्तया ह्यात्मज्ञानानुरूपतः ।
यः स्तोष्यति सदा भक्तस्तुष्यस्तस्य सदा हरिः ॥ ३,३.६८ ॥
इत्यादिवाक्यसन्दर्भाद्यथायोग्याखिलज्ञता ।
आत्मज्ञानानुरूपत्वं यथाशक्ति विचारणात् ॥ ३,३.६९ ॥
वेदः कृत्स्नोऽधिगन्तव्यः स्वाध्यायाध्ययनं भवेत् ।
इत्यादिवाक्यवैयर्थ्यमन्यथा न निवार्यते ॥ ३,३.७० ॥
अद्यापि तेन देवाद्याः शृण्वते मन्वते सदा ।
ध्यायन्ति च यथायोगं तथाप्या वस्तुनिर्णयात् ।
श्रवणं मननं चैव कर्तव्यं सर्वथैव हि ॥ ३,३.७१ ॥
मतिश्रुतिध्यानकालविशेषं गुरुरुत्तमः ।
वेत्ति तस्योक्तिमार्गेण कुर्वतः स्याद्धि दर्शनम् ॥ ३,३.७२ ॥
श्रवणं दृष्टतत्त्वस्य मननं ध्यानमेव च ।
विशेषानन्दसम्प्राप्त्या अन्यस्यैतानि दृष्टये ॥ ३,३.७३ ॥
यदि तादृग्गुरुर्नास्ति निर्णीतश्रवणादिकम् ।
तत्सिद्धान्तानुसारेण निर्णयज्ञात्समाचरेत् ॥ ३,३.७४ ॥
श्रवणादि विना नैव क्षणं तिष्ठेदपि क्वचित् ।
अत्यशक्ये तु निद्रादौ पुनरेव समारभेत् ॥ ३,३.७५ ॥
अभावे निर्णयज्ञस्य सच्छास्त्राण्येव सर्वदा ।
शृणुयाद्यदि सज्ज्ञानप्राचुर्यमुपलभ्यते ॥ ३,३.७६ ॥
महद्भयो विष्णुभक्तेभ्यो यथाशक्ति च संशयान् ।
छिन्द्यात्स्वतोऽधिकाभावे स्वयमेव समभ्यसेत् ॥ ३,३.७७ ॥
अशेषगुणपूर्णत्वं सर्वदोषसमुज्खितिः ।
विष्णोरन्यच्च तत्तन्त्रमिति सम्यग्विनिर्णयः ॥ ३,३.७८ ॥
स्वतन्त्रत्वं सदा तस्य तस्य भेदश्च सर्वतः ।
अदोषत्वस्य सिद्धयर्थं यदभेदे तदन्वयः ॥ ३,३.७९ ॥
तत्तन्त्रत्वं च मुक्तानामपि तद्गुणपूर्तये ।
मुक्तानामपि भेदश्च न हि भिन्नमभिन्नताम् ।
गच्छद्दृष्टं क्वचित्तस्याप्यभावोऽनुभवोपगः ॥ ३,३.८० ॥
पूर्वाभेदे दोषवत्त्वमीशस्येत्यतिभिन्नता ।
नारायणेन मुक्तानामपि सम्यगिति स्थितिः ॥ ३,३.८१ ॥
भेदाभेदेऽप्यभेदेन दोषाणामपि सम्भवः ।
निर्दोषत्वं रमायाश्च तदनन्तरता तथा ॥ ३,३.८२ ॥
ब्रह्मा सरस्वती वीन्द्रशेषरुद्राश्च तत्स्रियः ।
शक्रकामौ तदन्ये च क्रमान्मुक्तावपीति च ॥ ३,३.८३ ॥
सत्सिद्धान्त इति ज्ञेयो निर्णीतो हरिणा स्वयम् ।
एतद्विरोधि यत्सर्वं तमसेऽन्धाय केवलम् ॥ ३,३.८४ ॥
अन्धं तमो विशन्तीति प्राह श्रुतिरतिस्फुटम् ।
इत्येव श्रुतयोऽशेषाः पञ्चरात्रमथाखिलम् ॥ ३,३.८५ ॥
मूलरामायणं चैव भारतं स्मृतयोऽखिलाः ।
वैष्णवानि पुराणानि साङ्खययोगौ परावपि ॥ ३,३.८६ ॥
ब्रह्मतर्कश्च मीमांसेत्यनन्तः शब्दसागरः ।
अनन्तर युक्तयश्चैव प्रत्यक्षागममूलकाः ॥ ३,३.८७ ॥
प्रत्यक्षमैश्वरं चैव रमादीनामशेषतः ।
मुक्तानामप्यमुक्तानामेतमेवार्थमुत्तमम् ॥ ३,३.८८ ॥
अन्यावकाशरहितं प्रकाशयति सादरम् ।
एतदेव च सच्छास्त्रं दुःशास्त्रं तु ततः परम् ॥ ३,३.८९ ॥
सच्छास्त्रमभ्यसेन्नित्यं दुःशास्त्रं च परित्यजेत् ।
असंशयेन तत्त्वस्य निर्णये ब्रह्मदर्शनम् ॥ ३,३.९० ॥
सम्यग्विषमविज्ञानतारतम्यानुसारतः ।
फलं भवेत्तारतम्यात्सुखदुःखात्मकं नृणाम् ॥ ३,३.९१ ॥
सम्यक्चाधिकविज्ञानात्सुखाधिक्यं भवेन्नृणाम् ।
अतो यथात्मशक्तयैव श्रवणं मननं तथा ॥ ३,३.९२ ॥
विषयेषु च संसर्गाच्छाश्वतस्य च संशयात् ।
मनसा चान्यदाकाङ्क्षात्परं न प्रतिपाद्यते ॥ ३,३.९३ ॥
इति भारतवाक्यं हि तेनैतद्दोषवर्जितः ।
सदोपासनया युक्तो वासुदेवं प्रपश्यति ॥ ३,३.९४ ॥
दोषा अनादिसम्बद्धास्ते मुक्तिपरिपन्थिनः ।
सन्त्येव प्रायशः पुंसु तेन मोक्षो न जायते ॥ ३,३.९५ ॥
सर्वे त एते जीवेषु दृश्यन्ते तारतम्यतः ।
ऋजूनामेक एवास्ति परमोत्साहवर्जनम् ।
स गुणाल्पत्वमात्रत्वान्नर्जत्वेन विरुद्धयते ॥ ३,३.९६ ॥
अतो विष्णौ परा भक्तिस्तद्भक्तेषु रमादिषु ।
तारतम्येन कर्तव्या पुरुषार्थमभीप्सिता ॥ ३,३.९७ ॥
स्वादरः सर्वजन्तूनां संसिद्धो हि स्वभावतः ।
ततोऽधिकः स्वोत्तमेषु तदाधिक्यानुसारतः ॥ ३,३.९८ ॥
कर्तव्यो वासुदेवान्तं सर्वथा शुभमिच्छता ।
न कदाचित्त्यजेत्तं च क्रमेणैनं विवर्धयेत् ॥ ३,३.९९ ॥
समेषु स्वात्मवत्स्नेहः सत्स्वन्यत्र ततो दया ।
कार्यैवमापरोक्ष्येण दृश्यते क्षिप्रमीश्वरः ॥ ३,३.१०० ॥
तत्तमोऽन्धं व्रजेद्विष्णुसमत्वं योऽनुपश्यति ।
रमाब्रह्मशिवादीनामपि मुक्तौ कथञ्चन ॥ ३,३.१०१ ॥
किमुताधिक्यदृष्टेस्तद्गुणाभावमतेरपि ।
दोषवेत्तुरभेदस्य द्रष्टुर्द्रष्टुस्तथोभयोः ॥ ३,३.१०२ ॥
इत्याह सच्छ्रुतिस्तेन सम्प्रोक्तगुणसंयुतम् ।
उपासीत हरिं दृष्ट्वा मुक्तिस्तेनैव जायते ॥ ३,३.१०३ ॥
द्वेषाद्यन्मुक्तिकथनं श्रुतिवाक्यविरोधि यत् ।
रिपवो ये तु रामस्य विमुखत्वान्निरामिणः ।
अभिद्रोहपदे नित्यमन्धे तमसि ते स्थिताः ॥ ३,३.१०४ ॥
हरिद्विषस्तमो यान्ति ये चैव तदभेदिनः ।
तन्निर्गुणत्ववेत्तारस्तस्य दोषविदोऽपि च ॥ ३,३.१०५ ॥
इत्यादिश्रुतिसन्दर्भाद्द्वेषिणस्तम ईयते ।
हिरण्यकशिपुश्चापि भगवन्निन्दया तमः ।
विधिक्षुरत्यगात्सूनो प्रह्लादस्यानुभावतः ॥ ३,३.१०६ ॥
यदनिन्दत्पिता मह्यं त्वद्भक्ते मयि चाघवान् ।
तस्मात्पिता मे पूयेत दुरन्ताद्दुस्तरादघात् ॥ ३,३.१०७ ॥
निन्दां भगवतः शृण्वंस्तत्परस्य जनस्य वा ।
ततो नापैति यः सोऽपि यात्यघः सुकृताच्च्युतः ॥ ३,३.१०८ ॥
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ३,३.१०९ ॥
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहनीं श्रिताः ॥ ३,३.११० ॥
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ।
तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ ३,३.१११ ॥
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ ३,३.११२ ॥
यो द्विष्टाद्विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।
कथं स न भवेद्द्वेष्य आलोकान्तस्य कस्यचित् ॥ ३,३.११३ ॥
यो द्विष्टाद्विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।
मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः ।
इत्यादिवाक्यसन्दोहाद्द्वेषिणस्तम एव तु ॥ ३,३.११४ ॥
नैव मोक्ष इति प्राहुर्लोकायतमते स्थिताः ।
भोगः शरीरपर्यन्तं भस्मीभावस्ततो भवेत् ॥ ३,३.११५ ॥
इति तत्केन मानेन दृष्टं प्रत्यक्षवादिना ।
न हि प्रत्यक्षमानेन मोक्षाभावोऽवसीयते ॥ ३,३.११६ ॥
घटते मुक्तिदृष्टिस्तु पुरुषेण महीयसा ।
नेति वक्तुर्महत्त्वं तु कथञ्चन न विद्यते ॥ ३,३.११७ ॥
साधयन् सर्वसामान्यं कथमेव विशेषवान् ।
दृश्यन्ते पुरुषा लोके परावरविदोऽपिच ॥ ३,३.११८ ॥
अपरोक्षदृशो योगनिष्ठाश्चामलचक्षुषः ।
प्रत्यक्षं देवतां दृष्ट्वा तत्प्रसादाप्तभूतयः ॥ ३,३.११९ ॥
ज्ञानविज्ञानपारज्ञा निषिद्धयन्ते कथं नृभिः ।
दृश्यते चातिमाहात्म्यं तेषामतिमहौजसाम् ॥ ३,३.१२० ॥
यदि तेऽपि निषिद्धयन्ते किं नोक्तिस्ते निषिद्धयते ।
यदुक्तवाक्यप्रामाण्यं प्रत्यक्षेणोपलभ्यते ॥ ३,३.१२१ ॥
वरादयोऽपि तद्दत्ताः सदा सत्या भवन्ति हि ।
अप्रामाण्यं तदुक्तेश्च वृथावाचावसीयते ॥ ३,३.१२२ ॥
न हि प्रयोजनं किञ्चित्परलोकनिवारणात् ।
वृथावाचं वृथा हन्याद्यदि तस्य किमुत्तरम् ।
स्वजीवनविरोधाय वदन् किं नाम बुद्धिमान् ॥ ३,३.१२३ ॥
प्रामाण्ये संशयः किं स्यात्तयोः पुरुषयोरपि ।
स्वजीवनविरुद्धोक्तिरज्ञो दृष्टस्य चापि सः ॥ ३,३.१२४ ॥
यश्चातीन्द्रियदेवोक्तिश्रोता दृष्टपरावरः ।
अतीतानागतं सर्वं लोकानुभवमापयन् ।
अतः प्रत्यक्षगम्यत्वाद्वेदमात्वस्य च स्फुटम् ॥ ३,३.१२५ ॥
यद्यागमस्य नो मात्वमक्षजस्य तथा भवेत् ।
यद्यक्षजस्य मात्वं स्यादागमस्य कथं न तत् ।
लोकवाक्याद्विशेषश्चाव्यभिचारेण सिद्धयति ॥ ३,३.१२६ ॥
अस्ति मोक्षोऽपि धर्मेण यथार्थज्ञानतोऽपि च ।
प्रामाण्यमनुमायाश्च जिनस्याप्तत्वसाधने ॥ ३,३.१२७ ॥
तद्वाक्याद्धर्मसज्ज्ञानविज्ञप्तिर्भवतीति च ।
धर्मोऽहिंसापरो नान्यो ज्ञानं पुद्गलदर्शनम् ॥ ३,३.१२८ ॥
इति जैनाः कथं तत्स्यात्प्रमाणमनुमानतः ।
विषयान् प्रति स्थितं ह्यक्षं प्रत्यक्षमिति गीयते ।
प्रत्यक्षशब्दानुसारादनुमेति प्रकीतिर्ता ॥ ३,३.१२९ ॥
आ समन्ताद्गमयति धर्माधर्मौ परं पदम् ।
यच्चाप्यतीन्द्रियं त्वन्यत्तेनासावागमः स्मृतः ॥ ३,३.१३० ॥
एतेन कारेणेनैव तत्तन्मानत्वमिष्यते ।
स्वरूपं हि तदेतेषामन्यथासिद्धिमानतः ॥ ३,३.१३१ ॥
अतोऽनुमा कथं धर्मं पुद्गलं चापि दर्शयेत् ।
स्वरूपं पुद्गलस्योक्ता दोषा आनन्दमेव च ।
न मन्यते पुद्गलं स दुःखाभावः सुखं त्विति ॥ ३,३.१३२ ॥
मात्राभोगातिरेकेण सुखाधिक्यस्य दर्शनात् ।
सुखस्याभावता केन न च स्यात्किं विपर्ययः ॥ ३,३.१३३ ॥
यदि भावोऽपि कश्चित्स्यात्तस्यैवाभावता कुतः ।
यदि सर्वेऽप्यभावाः स्युरन्योन्यमिति भावता ॥ ३,३.१३४ ॥
अभावाभावता यत्स्यात्किं नश्छिन्नं तदा भवेत् ।
भावत्वं विधिरूपत्वं निषेधत्वमभावता ॥ ३,३.१३५ ॥
निषेधस्य निषेधोऽपि भाव एव बलाद्भवेत् ।
प्रथमप्रतिपत्तिस्तु भावभावनियामिका ॥ ३,३.१३६ ॥
न च पुद्गलविज्ञानं मोक्षदं भवति क्वचित् ।
अस्वातन्त्र्यात्पुद्गलस्य ज्ञातोऽपि सुखदो न हि ॥ ३,३.१३७ ॥
न हि दुःखिपरिज्ञानाद्दुःखित्वं विनिवर्तते ।
यदि पुद्गलविज्ञानाददुःखी स्यात्कथञ्चन ।
देहवानपि नादुःखी किं ज्ञानादुत्तरं सदा ॥ ३,३.१३८ ॥
ईशकॢप्त्यनुसारेण स्यात्कालादीशवादिनः ।
कर्महेतुत्वमपि तु निश्चैतन्यान्नहि क्वचित् ॥ ३,३.१३९ ॥
अशेषदुःखविलये नेदानीं कारणं यथा ।
तथोत्तरं च नैव स्याद्दृष्टिपूर्वानुमा यतः ॥ ३,३.१४० ॥
शक्तस्यान्यस्य विज्ञानं तत्प्रीतिजनकं यदि ।
तयैव बन्धहानिः स्यादिति किं नाम दूषणम् ॥ ३,३.१४१ ॥
स्वज्ञानाद्बन्धहानिस्तु दृश्यते कस्य कुत्रचित् ।
अहिंसायाश्च धर्मत्वं केन मानेन गम्यते ।
हिंसाया एव धर्मत्वमित्युक्ते स्यात्किमुत्तरम् ॥ ३,३.१४२ ॥
धर्मस्य सुखहेतुत्वमपि केनावगम्यते ।
हत्यया मोक्षहेतुत्वं कुतो मानान्निवार्यते ॥ ३,३.१४३ ॥
न च शून्यपरिज्ञानाच्छून्यभावनयापि च ।
मोक्षः कथञ्चन भवेद्यदीदानीं कथं न सः ॥ ३,३.१४४ ॥
परप्रसादनेच्छोस्तु विळम्बो नाम युज्यते ।
पुमिच्छाधीनता नो चेद्विळम्बः किङ्कृतो भवेत् ॥ ३,३.१४५ ॥
अन्यत्रापि विळम्बास्तु स्युरीशेच्छानिमित्ततः ।
अन्यथा कारणं चेत्स्यात्किं कार्यं नोपजायते ।
कारणे सति कार्यस्य भावः सुनियतोऽस्य हि ॥ ३,३.१४६ ॥
विज्ञानवादिनश्चैव विज्ञानाद्वैतवेदनात् ।
विज्ञानभावनाच्चैव मोक्षो न घटते क्वचित् ॥ ३,३.१४७ ॥
अन्तर्ज्ञानस्य बाह्ये च क्षणिकत्वस्य वेदनात् ।
भावनाच्चोक्तमार्गेण मानाभावान्न मुच्यते ॥ ३,३.१४८ ॥
प्रकृतेः पुरुषस्यापि विवेको मुक्तिसाधनम् ।
इति शङ्कया न चैतस्मिन्मानमीशाप्रसादतः ॥ ३,३.१४९ ॥
श्रुतयः स्मृतयश्चैव यदीशस्य प्रसादतः ।
वदन्ति नियमान्मुक्तिं तमृतेऽतः कुतो भवेत् ॥ ३,३.१५० ॥
कणादयोगाक्षपादा अपीशस्य प्रसादतः ।
मुक्तिं ब्रुवाणा अप्याहुर्भोगादेव च कर्मणाम् ।
क्षयं प्राहुः कुतश्चैतत्प्रसन्ने जगदीश्वरे ॥ ३,३.१५१ ॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ ३,३.१५२ ॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ।
इति श्रुतिपुराणादिवचनेभ्योऽन्यथागतेः ॥ ३,३.१५३ ॥
न च पाशुपताद्युक्तशिवादीनामनुग्रहात् ।
नान्यः पन्था इति ह्युक्तं पुरुषज्ञानतः श्रुतौ ॥ ३,३.१५४ ॥
सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादतः ।
एवं पुरुषशब्दश्च प्रयुक्तोऽब्धिशये हरौ ॥ ३,३.१५५ ॥
न तस्येशे कश्चन तस्य नाम महद्यशः ।
इति चाधिपतिस्तस्य प्रतिषिद्धः स्वयं श्रुतौ ॥ ३,३.१५६ ॥
विश्वतः परमां नित्यं विश्वं नारायणं हरिम् ।
इति सर्वाधिकत्वोक्तया समोऽपि विनिवारितः ।
समाधिकस्य राहित्यान्नोपचारपुमानसौ ॥ ३,३.१५७ ॥
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ ३,३.१५८ ॥
मुक्तामुक्तपरेशत्वमिति तस्याह सा श्रुतिः ।
अमृतेशानवचनात्सर्वस्येशानतोदिता ॥ ३,३.१५९ ॥
यदि सर्वत्वमुदितमुतेश इति तद्वृथा ।
उतशब्दो वदेदेष हीशत्वस्य समुच्चयम् ॥ ३,३.१६० ॥
पुरुषेणेदं व्याप्तमिति ब्राह्मणं चाह तं प्रति ।
एतावानस्य महिमेति महिम्नो वचो हि तत् ॥ ३,३.१६१ ॥
सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् ।
इत्यमुक्ताधिपत्यं तु पूर्वार्धोक्तमनूद्य च ॥ ३,३.१६२ ॥
उतामृतस्येश इति विधत्ते मुक्तिगेशताम् ।
अतो विष्णुपरिज्ञानादेव मुक्तिर्नचान्यतः ।
तद्यथेति श्रुतेश्चैव ततः कर्मक्षयो भवेत् ॥ ३,३.१६३ ॥
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३,३.१६४ ॥
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।
इत्यादिभगवद्वाक्यैरुक्तार्थश्चावसीयते ॥ ३,३.१६५ ॥
नित्यनैमित्तिकं कर्म कुर्वन्नन्यत्परित्यजन् ।
मुच्यते संसृतेश्चैतदप्येतेन निराकृतम् ।
विद्यैवेतीममेवार्थं स्वयमेवाह वेदराट् ॥ ३,३.१६६ ॥
विना कर्म न मोक्षः स्याज्ज्ञानेनेत्यपि सा श्रुतिः ।
नान्यः पन्था इति ह्येव निवारयति सादरम् ॥ ३,३.१६७ ॥
अन्यथोपासनमपि तमेवमितिवादिनी ।
निवारयत्यादरेण न प्रतीक इति प्रभुः ॥ ३,३.१६८ ॥
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
इति श्रुतिविरोधाच्च नान्यथोपासनं भवेत् ॥ ३,३.१६९ ॥
न चाप्येकत्वविज्ञानादुक्तन्यायेन मुच्यते ।
इति सर्वं प्रविज्ञाय सर्वैस्तर्कसदागमैः ।
उपासीत हरिं नित्यं गुणैरेव स्वयोगतः ॥ ३,३.१७० ॥
ब्रह्मा सर्वैगुणैश्चैव क्रियासामान्यतश्च गीः ।
गुणसामान्यतो रुद्रो द्रव्यसामान्यतः परे ॥ ३,३.१७१ ॥
अधिकारविशेषेण भक्तिज्ञानसुखादिभिः ।
विशेषो देवतादीनां मोक्षे चैव विशेषतः ॥ ३,३.१७२ ॥
न तावता विरोधोऽस्ति निर्दोषत्वात्समस्तशः ।
आभासत्वात्परेषां तदवराणां च सर्वशः ॥ ३,३.१७३ ॥
यतोऽवराणां सर्वेऽपि गुणाः सर्वाः क्रिया अपि ।
नियमेनैव पूर्वेषां सुप्रसादनिबन्धनाः ।
अतः सच्छिष्यवत्तेषां नैवेर्ष्यादिः कथञ्चन ॥ ३,३.१७४ ॥
न च संसारिदेवानां कालेयत्तापरे इमे ।
सूत्रे ह्यारब्धमात्रस्य भोगेनैव क्षयो ध्रुवः ॥ ३,३.१७५ ॥
अनारब्धकार्ये भोगेन त्वितरे इति चोदितः ।
पौनरुक्तयेन तेनैते उक्तार्थे इति निश्चयः ॥ ३,३.१७६ ॥
उषाः स्वाहा च पर्जन्यो मित्रोऽग्निर्वरुणो विधुः ।
प्रवहोऽनिरुद्ध इन्द्रोमे रुद्रो वाणी च मारुतः ।
उत्तरोत्तरतस्त्वेते गुणैः सर्वैश्च मुक्तिगाः ॥ ३,३.१७७ ॥
सूर्यधर्मौ यथा सोमो मनुर्दक्षो बृहस्पतिः ।
शची रतिश्चानिरुद्धसमास्तारा च मित्रवत् ॥ ३,३.१७८ ॥
सोमवच्छतरूपा तु प्रसूतिर्वह्निवद्विराट् ।
पर्जन्यवद्वारुणी च तथा सञ्ज्ञा च रोहिणी ॥ ३,३.१७९ ॥
धर्मी च मित्रवत्त्वेन प्रावही परिकीर्तिता ।
मित्रपजर्न्यमध्यस्थावश्विनौ विघ्नवित्तपौ ॥ ३,३.१८० ॥
भृगुरग्निसमो मित्रतन्मध्ये ब्रह्मपुत्रकाः ।
वरुणाग्न्यन्तरा तत्र नारदः प्राय इन्द्रवत् ॥ ३,३.१८१ ॥
कामः सुपर्णी चोमावद्वीन्द्रो रुद्रवदीरितः ।
निऋतिर्मित्रसदृशो विश्वामित्रः कसूनुवत् ॥ ३,३.१८२ ॥
वैवस्वतो मनुश्चाश्विपश्चादन्ये ततोऽवराः ।
च्यवनोचथ्यवैन्याश्च शशबिन्दुश्च हैहयः ।
तद्वच्च विप्रराजन्यविशेषोऽत्रापि कश्चन ॥ ३,३.१८३ ॥
तद्वत्प्रियव्रतश्चापि तदन्याः शतदेवताः ।
पजर्न्यमित्रान्तराळे तदन्ये तु ततोऽवराः ॥ ३,३.१८४ ॥
एतेभ्योऽभ्यधिका श्रीरस्तु सदा मुक्ता विशेषतः ।
तत्समो नास्ति परमो हरिरेव नचापरः ॥ ३,३.१८५ ॥
संहितायां बृहत्यां तु स्वयं भगवतोदितम् ।
तदेतदखिलं प्राण आहङ्कारिक एव च ।
इन्द्रादनन्तरो दृष्टिरपि योग्यानुसारतः ॥ ३,३.१८६ ॥
सम्यग्गुरुप्रसादश्च मुख्यतो दृष्टिकारणम् ।
श्रवणादि च कर्तव्यं नान्यथा दर्शनं क्वचित् ॥ ३,३.१८७ ॥
गुणाधिकं गुरुं प्राप्य तद्धीनं नाप्नुयात्क्वचित् ।
विपर्ययस्तु कर्तव्यः सर्वथा मुक्तिमिच्छता ॥ ३,३.१८८ ॥
समे विकल्प एव स्यात्पूर्वानुज्ञा च सर्वथा ।
तदुत्तमगुरुप्राप्त्यै पूर्वानुज्ञा न मृग्यते ॥ ३,३.१८९ ॥
गुरुबर्रह्माखिलानां च विद्या चैव सरस्वती ।
देवता भगवान् विष्णुः सर्वेषामविशेषतः ॥ ३,३.१९० ॥
तत्प्रसादेन मुक्तिः स्यान्नान्यथा तु कथञ्चन ।
स्वोत्तमास्तु क्रमेणैव सर्वेषां गुरवः श्रुताः ।
उपदेशो ब्रह्मणस्तु सर्वेषामेव मुक्तये ॥ ३,३.१९१ ॥
साधनेभ्योऽधिका भक्तिर्नैवान्यत्तादृशं क्वचित् ।
भक्तिश्चैव हरावेव मुख्यान्यत्र यथाक्रमम् ॥ ३,३.१९२ ॥
स्वाधिका त्वेव सर्वत्र स्वोत्तमेषु क्रमेण च ।
अनुवर्तते च सा भक्तिर्मुक्तावानन्दरूपिणी ।
तत्पूर्वकोपासनैवं कर्तव्या मुक्तये गुणैः ॥ ३,३.१९३ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य तृतीयः पादः ॥
एवमुत्पन्ननिर्दोषभगवद्दर्शनात्सदा ।
अपेक्षितफलप्राप्तिरारब्धस्यानतिक्रमात् ॥ ३,४.१ ॥
देवर्षिमानुषादीनां तत्तज्जात्यनुसारतः ।
जैमिन्युक्तं मानुषाणां तद्विशेषाश्च केचन ॥ ३,४.२ ॥
सामान्यं भगवत्प्रोक्तं देवादीनां विशेषतः ।
बलवद्विरोधिसद्भावे जैमिन्याद्युक्तिरिष्यते ॥ ३,४.३ ॥
विकर्मलेपो नैवास्ति सम्यग्दृष्टिमतां क्वचित् ।
गुणहानिश्च नैवास्ति ब्रह्मणस्त्वविकर्मतः ॥ ३,४.४ ॥
देवानामपि न प्रायः कॢप्तस्य तु कथञ्चन ।
प्राप्तह्रासो भवेत्क्वापि महता तु विकर्मणा ।
तथापि तत्कॢप्तमेव तस्मान्न नियमोज्खितिः ॥ ३,४.५ ॥
चन्द्रसुग्रीवयोश्चैव स्वोच्चदारपरिग्रहात् ।
प्राप्तहानिरभून्नैव कॢप्तहानिः यथञ्चन ॥ ३,४.६ ॥
ह्रासोऽपि मानुषादीनामानन्दस्य विकर्मणा ।
भवेन्मुक्तौ विशेषेण स्वोच्चानामपराधतः ॥ ३,४.७ ॥
ज्ञानोत्तरस्य पापस्य चतुर्थेऽलेप उच्यते ।
अशुचित्वादिकं तस्य न भवेदिति तत्फलम् ।
अत्र ज्ञानफलस्यैव मुक्तेर्नियततोच्यते ॥ ३,४.८ ॥
प्रारब्धकर्मजस्यैव विषभक्षान्मृतेरिव ।
प्राप्तस्याप्यनिवर्त्यस्य किञ्चिद्भुक्तस्य संविदा ।
उपमर्द इह प्रोक्तो देवादीनां यथाक्रमम् ॥ ३,४.९ ॥
सर्वात्मना त्वभोगो हि प्रारब्धस्यैव कर्मणः ।
न ब्रह्मदर्शिनोऽपि स्यात्फलह्रासस्तु विद्यते ॥ ३,४.१० ॥
सर्वात्मना फलह्रासो यदि नारब्धकर्मणः ।
स्यात्काम्यविधिवैयर्थ्यमित्युक्तनियमो भवेत् ।
एवमद्यापि सम्प्रोक्तं तन्त्रभागवते स्फुटम् ॥ ३,४.११ ॥
तारतम्यं फले नो चेद्ब्रह्मादीनां कथं श्रुतिः ।
अवृजिनोऽकामहत इति मुक्तिं निगद्य च ।
आनन्दतारतम्यं च तेषां ब्रूयात्पृथक्पृथक् ॥ ३,४.१२ ॥
संसार एव चेदेतत्तारतम्यं न मुख्यतः ।
अकामहतशब्दार्थोऽवृजिनत्वं च नो भवेत् ॥ ३,४.१३ ॥
कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि ।
इति यल्लक्षणं मुक्तेः श्रुतिराह बलीयसी ॥ ३,४.१४ ॥
कामाहतिः कुतोऽन्यत्र प्राप्तकामस्य सा भवेत् ।
अप्रयत्नेन कामानामवाप्तिः सा यदा भवेत् ।
तदैवाकामहतता कुत एवान्यथा भवेत् ॥ ३,४.१५ ॥
चेतनस्य त्वसुप्तस्य कुत्र दृष्टा ह्यकामता ।
अव्यक्तिरेव कामानां न नाशो मोहसुप्तयोः ॥ ३,४.१६ ॥
यत्कामः स्वापमाप्नोति तदेवोत्थापितः कुतः ।
अवशोऽपि व्याहरति कुतः सुप्तावकामता ॥ ३,४.१७ ॥
सर्वकामानवाप्नोति ब्रह्मणा सह मुक्तिगः ।
पर्येति तत्र जक्षंश्च क्रीडन् रतिमवाप्नुवन् ॥ ३,४.१८ ॥
कामान्नी कामरूपी सन्निमान् लोकांश्च सञ्चरन् ।
आस्ते गायन् साम मुक्त इत्यादिश्रुतिसद्बलात् ॥ ३,४.१९ ॥
अकामः स्यात्कथं मुक्तः कामा येऽस्य हृदि श्रिताः ।
इत्यन्तःकरणस्थानां कामानां मोक्षमेव हि ।
आह श्रुतिर्हृदीत्येव न चेद्व्यर्थं विशेषणम् ॥ ३,४.२० ॥
हृद्येष तेषां श्रयणमिति पक्षो न भासते ।
मुक्तानां कामितामाह पृथक्छाखासु यच्छ्रुतिः ॥ ३,४.२१ ॥
अतोऽकामहतत्वं तु मुक्तानामेव मुख्यतः ।
मुख्यार्थस्य वृथा त्यागो मायिनामेव भूषणम् ॥ ३,४.२२ ॥
अपापत्वमदुःखत्वं चावृजिनत्वमिहोदितम् ।
अप्रियं वृजिनं दुःखमकं तोद इतीयर्ते ॥ ३,४.२३ ॥
तत्कारणत्वात्पापं वा वृजिनं नाम कथ्यते ।
इत्युक्तः स्वयमीशेन नामार्थः शब्दनिर्णये ॥ ३,४.२४ ॥
अपापत्वं च नैवास्ति यावत्संसारमस्य हि ।
आरब्धपापमस्त्येव दुःखं च ज्ञानिनोऽपि हि ॥ ३,४.२५ ॥
तस्मात्तस्मादकामत्वमिति चाश्रुतकल्पना ।
अकामहत इत्युक्तेः श्रुतहानिरपि स्फुटा ॥ ३,४.२६ ॥
कुत्रचित्कामिनः पुंसः कामाभावात्क्वचित्क्वचित् ।
इन्द्रादिसुखभोगोऽस्तीत्यनुभूतिर्हि कुप्यति ॥ ३,४.२७ ॥
तस्मादमुक्तसुखगं तारतम्यं पृथक्पृथक् ।
उक्त्वा यश्चेति मुक्तानां तारतम्यं सुखे श्रुतिः ।
आहेति पेशलं तच्च चशब्दादेव गम्यते ॥ ३,४.२८ ॥
राद्धः संसिद्ध इत्येव मुक्त एवावगम्यते ।
साधुना विष्णुना युक्तो मुक्तः साधुयुवा मतः ॥ ३,४.२९ ॥
यौवनं नित्यमेतस्य मुक्तस्येति युवा स च ।
फलमध्ययनस्याप्तं तेनाध्यायक ईरितः ॥ ३,४.३० ॥
निर्ह्रासानन्दसम्प्राप्त्या चाशिष्ट इति गीयते ।
स्थितस्यानन्यथा प्राप्तेर्दृढिष्ठ इति चोदितः ॥ ३,४.३१ ॥
बलिष्ठश्च स्वभावेन मुक्तो भवति केवलम् ।
तस्येयं पृथिवीत्यादि पूर्वभावव्यपेक्षया ॥ ३,४.३२ ॥
स एक इति संसारगतमुक्तवा सुखं पुनः ।
श्रोत्रियस्येति वदति मुक्ताच्छतगुणात्मताम् ॥ ३,४.३३ ॥
संसारगाच्च संसारगतस्यैव शताधिकम् ।
मुक्तान्मुक्तस्य युक्तं स्याच्छ्रुत्युक्तमभिवीक्षितः ॥ ३,४.३४ ॥
युक्तं च साधनाधिक्यात्साध्याधिक्यं सुरादिषु ।
नाधिक्यं यदि साध्ये स्यात्प्रयत्नः साधने कुतः ॥ ३,४.३५ ॥
यत्नश्च दृश्यते तेषां महानेव महात्मनाम् ।
यत्र साधनबाहुल्यं साध्यबाहुल्यमत्र च ।
दृष्टं नियमतो नो चेन्न यत्नं कुर्यरञ्जसा ॥ ३,४.३६ ॥
कृच्छ्रेण साधनादेव न मुक्तवदुदीर्यते ।
दशकल्पं तपश्चीर्णं रुद्रेण लवणार्णवे ।
त्यक्तवा सुखानि सर्वाणि क्लिष्टेन लवणाम्भसा ॥ ३,४.३७ ॥
शक्रेण वर्षकोटिश्च धूमः पीतोऽतिदुःखतः ।
वर्षायुतं च सूर्येण तपोऽवाक्छिरसा कृतम् ॥ ३,४.३८ ॥
सुदुःखेन सुखं त्यक्तवा धर्मेणाकाशशायिना ।
पीता मयीचयो वर्षसाहस्रमतिसादरम् ॥ ३,४.३९ ॥
अतिकृच्छ्रेण कुर्वन्ति यत्नं ब्रह्मविदोऽपि हि ।
इत्येतदखिलं मोक्षविशेषाभावतः कथम् ॥ ३,४.४० ॥
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।
इति मोक्षविशेषश्च स्वयं भगवतोदितः ॥ ३,४.४१ ॥
तमेव यूयं भजतात्मवृत्तिभिर्मनोवचःकायगुणैः स्वकर्मभिः ।
अमायिनः कामदुघाङ्घ्रिपङ्कजं यथाधिकारावसितार्थसिद्धये ॥ ३,४.४२ ॥
अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः ।
आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥ ३,४.४३ ॥
इत्यादीनि च वाक्यानि तारतम्यं विमुक्तिगम् ।
व्यक्तं वदन्ति तत्केन साम्यं मुक्तेषु गम्यते ॥ ३,४.४४ ॥
दुःखाद्यभावसाम्यं च साम्यवाक्यार्थ ईयते ।
भक्तयादिगुणसद्भावे ह्यतुल्यत्वं च भारते ।
उक्तं साधनवैशेष्यमपि सर्वत्र कथ्यते ॥ ३,४.४५ ॥
दुर्ज्ञेयं घोररूपस्य त्रैलोक्यध्वंसिनः प्रभोः ।
दैवतैर्मुनिभिः सिद्धैर्महायोगिभिरेव च ॥ ३,४.४६ ॥
नित्ययुक्तैर्महाभागैर्विमुक्तक्लेशसाध्वसैः ।
महोत्साहैर्महाधैर्यैः सत्त्वस्थैर्व्यवसायिभिः ॥ ३,४.४७ ॥
अतीतानागतज्ञानप्रभवाप्ययवेदिभिः ।
शौचस्वाध्यायसन्तोषतपस्सत्यदयान्वितैः ॥ ३,४.४८ ॥
किमु मर्त्यैर्भयभ्रान्तिध्वंसमोहरुजान्वितैः ।
अल्पायुर्वीर्यधीसत्त्वव्यवसायश्रुतिव्रतैः ॥ ३,४.४९ ॥
कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ।
ब्रह्मैव किञ्चिज्जानाति न तदन्यो हि कश्चन ॥ ३,४.५० ॥
मुक्तानामपि सिद्धानां नारायणपरायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामते ॥ ३,४.५१ ॥
इयं विसृष्टिर्यत आ बभूव यदि वा दधे यदि वा न ।
यो अस्याध्यक्षः परमे व्योमन् त्सो अङ्ग वेद यदि वा न वेद ॥ ३,४.५२ ॥
यः स्वात्ममायाविभवं स्वयं गतो नाहं नभस्वांस्तमथापरे कुतः ।
ब्रह्मापि यं वेत्ति नैवेह सम्यगन्ये कुतो देवमुनीन्द्रमर्त्याः ॥ ३,४.५३ ॥
नमस्तेऽमिततत्त्वाय धर्मादीनां च सूतये ।
निर्गुणाय च सत्काष्ठां नाहं वेदापरे कुतः ॥ ३,४.५४ ॥
नाहं परायुरृषयो न मरीचिमुख्या जानन्ति यद्विरचितं खलु सत्त्वसङ्गाः ।
यन्मायया मुषितचेतस ईशदैत्यमर्त्यादयः किमुत शश्वदभद्रवृत्ताः ॥ ३,४.५५ ॥
अहं महेन्द्रो निरृतिः प्रचेताः सोमोऽग्निरीशः पवनोऽर्को विरिञ्चः ।
आदित्यविश्वे वसवोऽथ साध्या मरुद्गणा रुद्रगणाः ससिद्धाः ॥ ३,४.५६ ॥
अन्ये च ये विश्वसृजोऽमरेशा भृग्वादयोऽस्पृष्टरजस्तमस्काः ।
यस्येहितं न विदुः स्पृष्टृमायाः सत्त्वप्रधाना अपि किं ततोऽन्ये ॥ ३,४.५७ ॥
सवर्स्यादौ स्मृतो ब्रह्मा तस्माद्देवादनन्तरः ।
जानाति देवप्रवरं भूयश्चातोऽधिकं नृप ॥ ३,४.५८ ॥
न त्वामतिशयिष्यन्ति मुक्तावपि कथञ्चन ।
मद्भक्तियोगाज्ज्ञानाच्च सर्वानतिशयिष्यसि ॥ ३,४.५९ ॥
यथा भक्तिविशेषोऽत्र दृश्यते पुरुषोत्तमे ।
तथा मुक्तिविशेषोऽपि ज्ञानिनां लिङ्गभेदने ॥ ३,४.६० ॥
सायुज्यं समनुप्राप्ता अपि देवादयोऽखिलाः ।
तारतम्याद्धि तिष्ठन्ति तारतम्यं हि साधने ॥ ३,४.६१ ॥
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ ३,४.६२ ॥
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ ३,४.६३ ॥
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ ३,४.६४ ॥
अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ ३,४.६५ ॥
श्रद्धावाननसूयुश्च शृणुयादपि यो नरः ।
सोऽपि मुक्तः शुभान् लोकान् प्राप्नुयात्पुण्यकर्मणाम् ॥ ३,४.६६ ॥
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये साङ्खयेन योगेन कर्मयोगेन चापरे ॥ ३,४.६७ ॥
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ ३,४.६८ ॥
सुसूक्ष्मैरप्यशेषैश्च विशेषैः सह पश्यति ।
स्वात्मानं भगवान् विष्णुः सर्वरूपोऽपि सर्वदा ॥ ३,४.६९ ॥
सवर्त्र चान्यदप्येवं तेनादृष्टं न हि क्वचित् ।
सर्वत्र सर्वदैवेशं पश्यत्येव रमापि तु ॥ ३,४.७० ॥
नतु सर्वैर्विशेषैस्तं पश्यन्त्यप्यन्यतोऽधिकम् ।
स्वात्मानमन्यच्चाशेषं पश्यत्येव हि सर्वदा ॥ ३,४.७१ ॥
ब्रह्मा तु सर्वगं पश्येद्गुणानप्यतोऽधिकम् ।
नतु सर्वेषु कालेषु तथा पश्यत्यमुक्तिगः ॥ ३,४.७२ ॥
मुक्तस्तु सर्वदा पश्येत्सर्वगत्वेन चापि तु ।
न रमावद्विशेषाणां दर्शनं शक्नुयात्क्वचित् ॥ ३,४.७३ ॥
स्वात्मानमन्यच्च सदा विशेषैरखिलैरपि ।
पश्यन्त्यञ्जस्तथा वाणी विशोषांस्तावतो नतु ।
त्रैगुण्यात्परतः पश्येद्व्याप्तं शतगुणं हरिम् ॥ ३,४.७४ ॥
गिरिशो गरुडश्चैव तमोमात्रगतं हरिम् ।
पश्येद्विशेषानपि हि वाणीदृष्टान्न पश्यति ॥ ३,४.७५ ॥
उमा सुपर्णी च महत्तत्त्वं यावत्प्रपश्यति ।
रुद्रदृष्टान् विशेषांश्च नैव पश्येत्कदाचन ॥ ३,४.७६ ॥
स्वरूपमन्यरूपं च मुक्ता देवाः समस्तशः ।
जानन्तीन्द्रश्च कामश्च ब्रह्म यावदहङ्कृतिः ॥ ३,४.७७ ॥
पश्यन्तो मनुदक्षाद्या बुद्धितत्त्वस्थितं हरिम् ।
पश्यन्ति सोमसूर्यौ तु मनस्थं परमेश्वरम् ॥ ३,४.७८ ॥
अन्ये भूतस्थितं विष्णुं देवाः पश्यन्ति सर्वदा ।
बहुसाहस्रवर्षेण महत्तत्त्वे क्वचित्क्वचित् ॥ ३,४.७९ ॥
अन्ये चैव यथायोग्यमण्डान्तर्वर्तिनं हरिम् ।
श्वेतद्वीपपतिं चैव हृद्येवान्ये तु केचन ।
कदाचिदेव तत्रापि केचित्पश्यन्ति केशवम् ॥ ३,४.८० ॥
उमा यावदनन्तांशान् पूर्वदृष्टेभ्य एव तु ।
विशेषान् वासुदेवस्य पश्चादुक्ता विचक्षते ॥ ३,४.८१ ॥
शक्रकामादयश्चैव विशेषान् ब्रह्मणि स्थितान् ।
उमादिभिः प्रबुद्धेभ्यः शतांशानेव चक्षते ॥ ३,४.८२ ॥
इत्यादिवेदस्मृतिगवचनेभ्यो यथार्थतः ।
तारतम्यं विमुक्तानां साधनानां च दृश्यते ॥ ३,४.८३ ॥
साध्यसाधनवैरूप्यमदृष्टं केन कल्प्यते ।
वैषम्यं निर्घृणत्वं च तेन स्यातां परस्य च ।
सापेक्षत्वादिति च तौ विद्याधीशेन वारितौ ॥ ३,४.८४ ॥
तारतम्यात्साधनानां साध्यतादृक्तवमीशतः ।
अवैषम्यादिहेतुः स्यात्सदैव परमेश्वरे ॥ ३,४.८५ ॥
स्वातन्त्र्ये विद्यमानेऽपि साधनादौ परेशितुः ।
अपेक्ष्यानादिवैचितृयं न दोष इति तद्वचः ।
नानादित्वादिति ह्युक्तमुपपद्यत इत्यपि ॥ ३,४.८६ ॥
अपेक्ष्योपायवैषम्यमुपेयस्य तथा स्थितिः ।
मया कया विरुद्धा स्याद्राजादावपि दृश्यते ॥ ३,४.८७ ॥
त्यागो दृष्टस्य चादृष्टकल्पनेति सुदुष्करौ ।
मायिभ्योऽन्येन केनापि तत्किमन्यैश्च वादिभिः ॥ ३,४.८८ ॥
मायिनोऽत्रानुगम्यन्ते श्रुतहान्यश्रुतग्रहौ ।
अप्यत्र मायिनां लिङ्गे तत्के दोषास्ततोऽधिकाः ॥ ३,४.८९ ॥
निश्शेषगतदोषाणां बहुभिर्जन्मभिः पुनः ।
स्यादापरोक्ष्यं हि हरेर्द्वेषेर्ष्यादिस्ततः कुतः ॥ ३,४.९० ॥
भवेयुर्यदि चेर्ष्याद्याः समेष्वपि कुतो न ते ।
तप्यमानाः समान् दृष्ट्वा द्वेषेर्ष्यादियुता अपि ।
दृश्यन्ते बहवो लोके दोषा एवात्र कारणम् ॥ ३,४.९१ ॥
यदि निर्दोषता तत्र किमाधिक्येन दूष्यते ।
यद्यन्यदर्शनाभावादीर्ष्यादिर्विनिवार्यते ।
अदर्शनादरत्यादिः कथं तेन निवार्यते ॥ ३,४.९२ ॥
ब्रह्मणोऽप्यरतिर्दृष्ट्वा पूर्वमेकाकिनः श्रुतौ ।
नैव रेमे स चैकाकी तसमान्न रमते क्वचित् ।
द्वितीयमैच्छत्तेनासाविति श्रुतय ऊदिरे ॥ ३,४.९३ ॥
यदीच्छा तत्र नैवास्तीत्येव तत्कल्प्यते मृषा ।
श्रुत्युक्तनिर्दोषतैव किं नाङ्गीक्रियते स्वयम् ॥ ३,४.९४ ॥
तारतम्यं च कामं च श्रुतमेवातिहाय तु ।
अश्रुता समता केन कल्प्यते युक्तिमानिना ॥ ३,४.९५ ॥
किं तन्मानं समत्वे ते मुक्तानामुपलभ्यते ।
वृथायमाग्रहः केन श्रुतहान्यश्रुतग्रहे ॥ ३,४.९६ ॥
मोक्षेऽपि तारतम्येतश्चेतनत्वात्पुरा यथा ।
इत्युक्त उत्तरं किं ते कल्पनामात्रवादिनः ॥ ३,४.९७ ॥
न च दुःखादिकं कल्प्यं निर्दुःखत्वश्रुतेर्बलात् ।
शोकं तरत्यात्मवेत्ता तीर्णः सर्वानदुःखभाक् ॥ ३,४.९८ ॥
येनानन्द्येव भवति न शोचति कदाचन ।
किल्बिषस्पृत्पितुषणिररं हित इहेश्वरः ॥ ३,४.९९ ॥
यं यमन्तमभिप्रेप्सुः स सङ्कल्पाद्भवेदिह ।
इत्यादिश्रुतयो मानं निर्दुःखत्वादिसम्पदि ॥ ३,४.१०० ॥
अतो दुःखाद्यनुमया नावकाशोऽत्र लभ्यते ।
तारतम्यानुमा तेन भवेन्नातिप्रसङ्गिनी ॥ ३,४.१०१ ॥
श्रुतियुक्तिबलादेवं तारतम्यं विभाव्यते ।
मुक्तावपि ततः केऽत्र विरोधं कर्तुमीशते ॥ ३,४.१०२ ॥
अनादियोग्यतां चैव कलिवाणीश्वरावधिम् ।
को निवारयितुं शक्तो युक्तयागमबलोद्धताम् ॥ ३,४.१०३ ॥
ब्रह्मणोऽन्यत्र आधिक्ययुक्तः कालो विवादवान् ।
कालो ह्ययं यथेत्यादि मानुमामानिनो भवेत् ॥ ३,४.१०४ ॥
अन्यशब्दो हरिश्रीस्वसमेभ्योऽन्यविवक्षया ।
प्रयुक्तो नैव दोषाय रुद्रादिषु च युक्तितः ॥ ३,४.१०५ ॥
उत्तमत्वं तु मुक्तानामपि न ब्रह्मणो भवेत् ।
व्यक्तिः सुखस्य तु भवेन्नत्वाधिक्यं सुखस्य च ॥ ३,४.१०६ ॥
बलज्ञानाधिकत्वं च तेभ्यो हि ब्रह्मणः सदा ।
आधिक्यस्य त्वनित्यत्वे न किञ्चिन्मानमीयते ॥ ३,४.१०७ ॥
शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः ।
एधमानद्विळुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ॥ ३,४.१०८ ॥
परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति ।
अनानुभूतीरवधून्वानः पूर्वीतिन्द्रः शरदस्तर्तरीति ॥ ३,४.१०९ ॥
दिवेदिवे सदृशीरन्यमर्धं कृष्णा असेधदप सद्मनो जाः ।
अहन् दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ॥ ३,४.११० ॥
तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाप्येतर्हि सुप्तो भूभ्रूरित्येव प्रश्वसित्यभूतिरित्यसुरास्ते ह पराबभूवुः ॥ ३,४.१११ ॥
तद्यथा पेशस्करी पेशसो मात्रामपादायान्यन्नवतरं कल्याणतरं रूपं तनुत एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयितवान्यन्नवतरं कल्याणतरं रूपं कुरुते पितृयं पितृयं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानाम् ॥ ३,४.११२ ॥
प्रयान्ति परमां सिद्धिमैहिकामुष्मिकीं द्रुतम् ।
या न प्राप्यासुरैः सर्वैरक्षया क्लेशवर्जिता ।
न तां गतिं प्रपद्यन्ते विना भागवतान्नरान् ॥ ३,४.११३ ॥
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ३,४.११४ ॥
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहनीं श्रिताः ॥ ३,४.११५ ॥
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ ३,४.११६ ॥
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ ३,४.११७ ॥
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम् ॥ ३,४.११८ ॥
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ ३,४.११९ ॥
डम्भो दर्पोऽतिमाश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ ३,४.१२० ॥
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ।
तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ ३,४.१२१ ॥
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ ३,४.१२२ ॥
द्विविधो भूतसर्गोऽत्र दैव आसुर एव च ।
विष्णुभक्तिपरो दैवो विपरीतस्तथाऽसुरः ॥ ३,४.१२३ ॥
देवानां परमो धर्मः सदा यज्ञादिकाः क्रियाः ।
स्वाध्यायस्तत्त्ववेदित्वं विष्णुपूजारतिः स्मृतिः ॥ ३,४.१२४ ॥
दैत्यानां बाहुषाळित्वं मात्सर्यं युद्धसत्क्रिया ।
नीतिशास्त्रप्रवेदित्वं शिवपूजारतिः स्मृतिः ॥ ३,४.१२५ ॥
वर्णाश्रमाचारवत्त्वं स्वाध्यायो भक्तिरच्युते ।
शिवे सूर्ये तथा देव्यां स्वभावो मानुषः स्मृतः ॥ ३,४.१२६ ॥
अनादिवैष्णवा एव देवतास्तु स्वभावतः ।
विपरीतास्ततो दैत्याः सदैवानादिकालतः ॥ ३,४.१२७ ॥
मानुषा मिश्रमतयो विमिश्रगतयोऽपि च ।
इत्यादिवाक्यसन्दर्भे ज्ञायतेऽनादियोग्यता ॥ ३,४.१२८ ॥
यद्यनादिर्विशेषो न साम्प्रतं कथमेव सः ।
अदृष्टादेव चादृष्टं स्वीकृतं सवर्वादिभिः ॥ ३,४.१२९ ॥
आकस्मिको विशेषश्चेददृष्टे क्वचिदिष्यते ।
सर्वत्राकस्मिकत्वं स्यान्नादृष्टापेक्षता भवेत् ।
अदृष्टाश्चेद्विशेषोऽयमनादित्वं कुतो न तत् ॥ ३,४.१३० ॥
नचान्यभेदवद्विष्णौ भेदस्तद्दर्शिनामपि ।
दृश्यते प्रत्यभिज्ञैव बहुरूपेषु दृश्यते ॥ ३,४.१३१ ॥
बहुत्वं च विशेषेण न भेदेन कथञ्चन ।
प्रत्यभिज्ञा च येषां न तेऽपि तन्मुष्यदृष्टयः ॥ ३,४.१३२ ॥
भेदं नैव प्रपश्यन्ति भेदमन्येभ्य एव च ।
पश्यन्त्येवं हरिस्तेषां सन्दर्शयति नान्यथा ॥ ३,४.१३३ ॥
एवं बृहत्संहितायां वचनं न पुराणगम् ।
लोकदर्शनवाद्येव वेदरोधाय शक्नुयात् ॥ ३,४.१३४ ॥
अपरीक्षितदृष्टिश्च परीक्षापूर्वदर्शनम् ।
निषेद्धुं शक्नुवाद्येव वेदरोधाय शक्नुयात् ॥ ३,४.१३५ ॥
न च निश्चितभेदस्य दर्शनेऽस्ति पुराणगम् ।
वाक्यं क्वचिद्धि सम्मुग्धदर्शनं तत्र गम्यते ॥ ३,४.१३६ ॥
अपरीक्षितमेवात्र वेधादिकमधीशितुः ।
परीक्षादर्शने नैव दृश्यते केनचित्क्वचित् ॥ ३,४.१३७ ॥
निर्दोषमेव तं ब्रह्मा ददर्शाशेषरूपिणम् ।
निर्दोषमेव रुद्रोऽद्राङ्निर्दोषं तं पुरन्दरः ॥ ३,४.१३८ ॥
निर्दोषाण्यस्य रूपाणि दृष्टान्येवं सुरोत्तमैः ।
अन्ये सदोषाः सर्वेऽपि निर्दोषो हरिरेकलः ।
इति बर्कुश्रुतेश्चैव सदोषं नास्य दर्शनम् ॥ ३,४.१३९ ॥
अविद्धो विद्धवद्विष्णुरजातो जातवन्मृषा ।
अबद्धो बद्धवच्चैव दर्शयत्यमितद्युतिः ।
इति पैङ्गिश्रुतिश्चैव प्राह निर्दोषतां हरेः ॥ ३,४.१४० ॥
अपरीक्षितदृष्टयैव सदोषो दृश्यते हरिः ।
परीक्षादर्शने नैव दृश्यो दोषो हरेः क्वचित् ।
इति पैङ्गिश्रुतिश्चाह प्रमाणं हि परीक्षितम् ॥ ३,४.१४१ ॥
न परीक्षानवस्था स्यात्साक्षिसिद्धे त्वसंशयात् ।
मानसे दर्शने दोषाः स्युर्नवै साक्षिदर्शने ।
सुदृढो निर्णयो यत्र ज्ञेयं तत्साक्षिदर्शनम् ॥ ३,४.१४२ ॥
इच्छा ज्ञानं सुखं दुःखभयाभयकृपादयः ।
साक्षिसिद्धा न कश्चिद्धि तत्र संशयवान् क्वचित् ।
यत्क्वचिद्व्यभिचारी स्याद्दर्शनं मानसं हि तत् ॥ ३,४.१४३ ॥
मनश्चक्षुर्दर्शनादेरपि यत्रैव साक्षिणा ।
प्रामाण्यं सुगृहीतं स्यात्तत्परीक्षितदर्शनम् ॥ ३,४.१४४ ॥
न ज्ञानदृष्टिमात्रेण प्रामाण्यं तस्य दृश्यते ।
नियमेन सुखाद्येषु प्रामाण्यं साक्षिगोचरम् ॥ ३,४.१४५ ॥
स्वप्रामाण्यं सदा साक्षी पश्यत्येव सुनिश्चयात् ।
ज्ञानस्य ग्राहकेणैव साक्षिणा मानतामितेः ॥ ३,४.१४६ ॥
दोषाभावे प्रमाणत्वं दोषाभावस्य साक्षिणा ।
निश्चितत्वं क्वचिच्चैव स्वतः प्रामाण्यमिष्यते ॥ ३,४.१४७ ॥
अतो न सर्वमानानां प्रामाण्यं निश्चितं भवेत् ।
साक्षिणा निश्चितं यत्र तत्प्रामाण्यस्वलक्षणम् ॥ ३,४.१४८ ॥
न हि कश्चित्सुखाद्येषु संशयं कुरुते जनः ।
नचैवाखिलमानानि निश्चिनोत्यखिलो जनः ॥ ३,४.१४९ ॥
तस्मादनुभवारूढं किमर्थमुपलप्यते ।
दोषाभावादिकं चैव साक्षी सम्यक्प्रपश्यति ॥ ३,४.१५० ॥
तत्परीक्षितमानेन न दोषो विष्णवि क्वचित् ।
अपरीक्षितदृष्टिस्तु कस्मिन्नर्थे न विद्यते ॥ ३,४.१५१ ॥
तत्प्रत्यक्षविरुद्धार्थे नागमस्यापि मानता ।
उपजीव्यमक्षजं यत्र तदन्यत्र विपर्ययः ॥ ३,४.१५२ ॥
लौकिके व्यवहारेऽत्र प्रत्यक्षस्योपजीव्यता ।
अवतारादिदष्टौ स्यादागमस्योपजीव्यता ॥ ३,४.१५३ ॥
आगमेन हि विष्णुत्वं ज्ञात्वा दोषोऽत्र कल्प्यते ।
न चेत्स्यात्दोषवानन्यः शास्त्रसिद्धं हि लक्षणम् ॥ ३,४.१५४ ॥
कस्यचिद्दोषवत्त्वं स्यादितिमात्रेऽक्षजं भवेत् ।
न विष्णोर्देषवत्त्वे हि प्रत्यक्षं वर्तते स्वतः ॥ ३,४.१५५ ॥
केचित्पश्यन्ति दोषानित्यत्रापि स्यान्नचाक्षजम् ।
पौराणं वाक्यमेवात्र तच्छ्रुत्यैव विरुद्धयते ॥ ३,४.१५६ ॥
पुराणस्योपजीव्यश्च वेद एव नचापरः ।
तद्विरोधे कथं मानं तत्तत्र च भविष्यति ॥ ३,४.१५७ ॥
अपरीक्षितदृष्टिश्च कथमेवाक्षजं भवेत् ।
यद्येवं देवदत्तादिभ्रमः किं नाक्षजं भवेत् ॥ ३,४.१५८ ॥
यावच्छक्ति परीक्षायामुपजीव्यस्य बाधने ।
दोषो नाशोधिते दोष उपजीव्यत्वमस्वलम् ॥ ३,४.१५९ ॥
भ्रमेऽप्यभ्रमभागोऽस्ति तन्मात्रमुपजीव्य हि ।
बाधकज्ञानवृत्तिः स्यान्नचैवं सुपरीक्षिते ।
सर्वं तदुपजीव्यैव प्रमाणं वर्तते यतः ॥ ३,४.१६० ॥
कथं ब्रह्मेति तज्ज्ञेयं सर्वज्ञत्वादिलक्षणम् ।
विहाय यस्मात्कस्माच्चित्स्वरूपस्यैव चेद्यदि ॥ ३,४.१६१ ॥
उपजीव्यत्वमेतस्माद्व्यावृत्तं यावता भवेत् ।
तावतैवोपजीव्यत्वं स्वरपस्यैव न क्वचित् ॥ ३,४.१६२ ॥
सर्वलक्षणयुक्तं तु स्वरूपं यदि भण्यते ।
अस्तु नो नैव हानिः स्यात्स्वपक्षश्चायमञ्जसा ॥ ३,४.१६३ ॥
यस्मादन्वित एवार्थः शब्दानामपि सर्वशः ।
विशेषसामन्यतया स्वरूपमखिलं भवेत् ॥ ३,४.१६४ ॥
पुरोवर्तित्वपूर्वाणि देवदत्तादिकभ्रमे ।
व्यावर्तयन्ति तद्रूपं चैत्रमात्रद्विनैव हि ॥ ३,४.१६५ ॥
ब्रह्मणो निर्विशेषत्वाद्व्यावर्तयति किं पुनः ।
यस्मात्कस्माच्चिदप्यर्थात्तावच्चेत्सिद्धसाधनम् ॥ ३,४.१६६ ॥
चिन्मात्रत्वं च नैवेष्यमविशेषत्ववादिनः ।
तावन्मात्रं यदीष्यं स्यात्सर्वज्ञत्वं कुतो न तत् ॥ ३,४.१६७ ॥
चिन्मात्राभेदसाध्येऽपि सिद्धं तत्प्रतिवादिनः ।
स्वाभेदाङ्गीकृतेरेव चित्त्वं स्वस्यापि यन्मतम् ॥ ३,४.१६८ ॥
सर्वापेक्षतया सर्वज्ञत्वमित्येव तन्नहि ।
इति चेच्चेतनत्वं च ज्ञत्वं न ज्ञेयवर्जितम् ॥ ३,४.१६९ ॥
स्वज्ञेयत्वं च नैवासौ मन्यते सविशेषतः ।
स्वशब्दोऽपि परापेक्षस्तस्माद्व्यावृत्तिरेव हि ।
स्वशब्दार्थ इति प्रोक्तः स्वरूपं नाम किं न चेत् ॥ ३,४.१७० ॥
रूपशब्देन पूर्णत्वात्तच्च सामान्यतावचः ।
न स्वरूपाभिधायि स्याद्वैयर्थ्यं स्वरवस्य यत् ॥ ३,४.१७१ ॥
चेतनस्य स्वभावो हि चैतन्यमिति गीयते ।
तस्माद्विशेषबाहुल्यं चैतन्यस्य विशेषतः ॥ ३,४.१७२ ॥
न ज्ञेयज्ञातृहीनं हि ज्ञानं नाम क्वचिद्भवेत् ।
ज्ञेयज्ञानविहीनश्च ज्ञ इत्यत्र च न प्रमा ॥ ३,४.१७३ ॥
ज्ञातृज्ञेयविहीनं च ज्ञानं चेद्भोक्तृभोज्यतः ।
हीनं भोजनमेव स्यात्ताडनं कर्तृताड्यतः ॥ ३,४.१७४ ॥
नित्यत्वात्तादृशं च स्यादिति चेन्नित्यवागपि ।
वाच्यवक्तृविहीना स्यान्नहि सा चैव तादृशी ॥ ३,४.१७५ ॥
द्रष्टारो वेदवाचो हि सन्ति वाच्यानि चाञ्जसा ।
नित्यो द्रष्टा च वाच्यश्च भगवानेव च स्वयम् ॥ ३,४.१७६ ॥
न हि वक्तृविहीना च वाच्यहीनापि वाक्क्वचित् ।
ज्ञातृज्ञेयविहीनं च ज्ञानमेवं न तद्भवेत् ॥ ३,४.१७७ ॥
न हि नित्योऽपि वक्तास्ति वाक्यवाच्यविवर्जितः ।
ज्ञानज्ञेयविहीनश्च ज्ञोऽप्येवं नैव विद्यते ॥ ३,४.१७८ ॥
किञ्च सर्वविलोपश्च केन मानेन गम्यते ।
सर्वेण सह तद्वाक्यामर्थश्च यदि गृह्यते ।
तदभावेन सर्वस्य नापलापो भवेत्तदा ॥ ३,४.१७९ ॥
न गृह्यते चेद्तन्न्यायादपलापो न हि क्वचित् ।
उपपत्तिविहीनस्य वाक्यस्यार्थो न गम्यते ॥ ३,४.१८० ॥
उपक्रमादिलिङ्गानां बलीयो ह्युत्तरोत्तरम् ।
श्रुत्यादौ पूर्वपूर्वं च ब्रह्मतर्कविनिर्णयात् ॥ ३,४.१८१ ॥
प्रत्यक्षमुपपत्तिश्च बहवश्चागमा यदा ।
विरुद्धयन्ते नचार्थोऽस्ति यत्र लिङ्गविरोधिता ॥ ३,४.१८२ ॥
स एवार्थः कथं ग्राह्य उपपन्नेऽविरोधिनी ।
मुख्यार्थे विद्यमाने तु क्व सावर्ज्ञ्यं निषिद्धयते ॥ ३,४.१८३ ॥
अतः सर्वगुणैर्युक्तं ब्रह्माङ्गीकायर्मेव हि ।
अपलापोऽपि सर्वस्य न कथञ्चन युज्यते ॥ ३,४.१८४ ॥
अनादियोग्यता चोक्ता तेन ग्राह्यैव सर्वथा ।
मुक्तानां तारतम्यं च मानैरुक्तैर्न चाल्यते ॥ ३,४.१८५ ॥
ज्ञानिनोऽपि यतो नित्यं कुर्वन्ति शुभमेव हि ।
तारतम्यं तु मुक्तौ च तेनैवाध्यवसीयते ॥ ३,४.१८६ ॥
तारतम्यं न चेन्मुक्तौ कुतः कुर्युः शुभं पुनः ।
कृच्छ्रेणापि तपो ज्ञानं कर्माप्येते चरन्ति हि ॥ ३,४.१८७ ॥
बिभ्यति स्माशुभान्नित्यं सकामाश्च शुभे सदा ।
न च स्वभाव एवायं भयपूर्वप्रवृत्तितः ।
कृच्छ्रेणाचरणाच्चैव शुभस्यैव पुनः पुनः ॥ ३,४.१८८ ॥
तादृशोऽपि स्वभावश्चेदज्ञस्यापि भवेत्तथा ।
फलवत्त्वे प्रमाणं चेत्तत्र ज्ञस्य समं हि तत् ॥ ३,४.१८९ ॥
निष्कामं ज्ञानपूर्वं च निवृत्तमिह चोच्यते ।
निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम् ॥ ३,४.१९० ॥
शुभेनानन्दवृद्धि स्याद्घ्रासश्चैवाशुभेन हि ।
ज्ञानिनोऽपि यतस्तेन कर्तव्यं शुभमेव तैः ॥ ३,४.१९१ ॥
उपास्ते स य आत्मानं क्षीयते नास्य कर्म ह ।
अस्माद्धयेवात्मनो यद्यत्कामयेत्सृजते च तत् ॥ ३,४.१९२ ॥
अविद्वान् बहुकर्मापि ह्यन्तवत्फलमाप्नुयात् ।
यदेव विद्यया कुर्यात्तदेव ह्यतिवीर्यवत् ।
इत्यादिवाक्यसामर्थ्यात्तारतम्यं विमुक्तिगम् ॥ ३,४.१९३ ॥
नचात्रोपासकस्यैव फलमक्षयमुच्यते ।
न हि ज्ञानं विना क्वापि फलस्याक्षयता भवेत् ।
ज्ञानद्वारेण चेत्तस्य नास्मत्पक्षप्रतीपता ॥ ३,४.१९४ ॥
ज्ञानोत्तरस्यैवमपि ह्यक्षयत्वं नचान्यथा ।
पूर्वभाविशुभानां हि ज्ञानेनैव कृतार्थता ॥ ३,४.१९५ ॥
प्रारब्धानां तु भोगेन तज्ज्ञानोत्तरकर्मणाम् ।
मुक्तावनुप्रवेशः स्यादन्यथा तत्कृतिर्नहि ॥ ३,४.१९६ ॥
ज्ञानात्पूर्वाणि सर्वाणि शुभानि ज्ञानसिद्धये ।
अकाम्यानि निषिद्धानि ज्ञानरोधाय भुक्तये ॥ ३,४.१९७ ॥
योग्यताया बलाद्यच्च शुभबाहुल्यमादितः ।
ज्ञानबाहुल्यमेवैतत्कुर्यान्नान्यस्य कारणम् ॥ ३,४.१९८ ॥
ज्ञानस्य भक्तिभागत्वाद्भक्तिर्ज्ञानमितीर्यते ।
ज्ञानस्यैव विशेषो यद्भक्तिरित्यभिधीयते ॥ ३,४.१९९ ॥
परोक्षत्वापरोक्षत्वे विशेषौ ज्ञानगौ यथा ।
स्नेहयोगोऽपि तद्वत्स्याद्विशेषो ज्ञानगोचरः ॥ ३,४.२०० ॥
इत्याभिप्रायतः प्रायो ज्ञानमेव विमुक्तये ।
वदन्ति श्रुतयः सोऽयं विशेषोऽपि ह्युदीर्यते ॥ ३,४.२०१ ॥
भक्तिर्ज्ञानमिति क्वापि न हि द्वेषयुता दृशिः ।
पुरुषार्थाय भवति सर्वश्रुतिविरोधतः ॥ ३,४.२०२ ॥
चेतनस्य द्वयं भोग्यं संसारो मुक्तिरेव च ।
संसारस्त्रिविधस्तत्र स्वर्गो मध्यमधस्तथा ॥ ३,४.२०३ ॥
मुक्तिश्च द्विविधा तत्र सुखं नित्यं तथापरम् ।
नित्यदुःखमिति ज्ञेयं साधनं संसृतावपि ।
काम्यं कर्म निषिद्धं च साज्ञानमिति निश्चयः ॥ ३,४.२०४ ॥
द्वेषो भक्तिश्च मुक्तौ तु मुक्तिद्वयविधायकम् ।
इति पैङ्गिश्रुतेर्द्वेषो नैव सन्मुक्तिकारणम् ॥ ३,४.२०५ ॥
असन्मुक्तेः कारणं च मुक्तावित्यत्र केशवः ।
मुक्तिशब्दोदितो मोक्षं स्वभक्तानां करोति यत् ॥ ३,४.२०६ ॥
द्वेषतोऽपि विमुक्तिश्चेन्महातात्पर्यरोधनम् ।
भक्तया प्रसन्नतो देवान्मुक्तिरित्येव तद्गुणान् ।
वदन्ति श्रुतयः सर्वाः पुराणान्यागमा अपि ॥ ३,४.२०७ ॥
यदि द्वेषेण मुक्तिः स्याद्वक्तव्यो दोषसञ्चयः ।
स्मर्तव्यो भगवान्नित्यमित्यर्थेनैव हि क्वचित् ।
द्वेषादिव गुणानाह पुराणे क्रुद्धवाक्यवत् ॥ ३,४.२०८ ॥
यथा क्रुद्धः पिता पुत्रं मरेत्याक्षेपपूर्वकम् ।
प्रोक्तस्यान्यस्य कृत्यर्थं वदत्येवं पुराणगम् ॥ ३,४.२०९ ॥
वाक्यं श्रुतिविरोधेन स्वविरोधेन चाञ्जसा ।
बह्वागमविरोधाच्च न द्वेषान्मुक्तिवाचकम् ॥ ३,४.२१० ॥
तमो द्वेषेण संयान्ति भक्तया मुक्तिं तथैव च ।
विष्णौ विष्णुप्रसादेन विलोमत्वेन चाञ्जसा ।
इति षाड्गुण्यवचनमप्युक्तार्थनियामकम् ॥ ३,४.२११ ॥
महातात्पर्यरोधे च कथं वाक्यं प्रमाणताम् ।
याति सर्वार्थरूपं हि महातात्पर्यमिष्यते ॥ ३,४.२१२ ॥
वाचकत्वं हि तात्पर्यं यदर्था अखिला रवाः ।
सोऽर्थः कथं परित्याज्य एकशब्दस्य संशये ।
अतो विज्ञानभक्तिभ्यां पुरुषार्थः परो भवेत् ॥ ३,४.२१३ ॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ३,४.२१४ ॥
भक्त्या ज्ञानं ततो भक्तिस्ततो दृष्टिस्ततश्च सा ।
ततो मुक्तिस्ततो भक्तिः सैव स्यात्सुखरूपिणी ॥ ३,४.२१५॥
भक्तया प्रसन्नो भगवान् दद्याज्ज्ञानमनाकुलम् ।
तयैव दर्शनं यातः प्रदद्यान्मुक्तिमेतया ॥ ३,४.२१६ ॥
नाहं वेदैर्न तपसा न दानेन नचेज्यया ।
शक्य एवंविधो द्रष्टुं प्रदद्यान्मुक्तिमेतया ॥ ३,४.२१७ ॥
भक्तया त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्युं च परन्तप ॥ ३,४.२१८ ॥
इत्यादिवाक्यतश्चैव सोऽयमुक्तार्थ ईयते ।
न च प्रसादमाप्नोति द्वेषाद्भक्त्या तमाप्नुयात् ।
इति दृष्टानुसारित्वमप्यस्मिन्नर्थ ईयते ॥ ३,४.२१९ ॥
ये पृथग्विहिता विष्णोर्गुणा वेदेन सादरम् ।
त एव दृष्टवैलोम्यादङ्गीकार्या नचापरम् ॥ ३,४.२२० ॥
अन्यद्दृष्टानुसारेण वासुदेवेऽपि गृह्यते ।
दोषाभावाश्च ये वेदैरुदिता अविहाय तान् ॥ ३,४.२२१ ॥
अनुक्ता अपिच ग्राह्या महातात्पर्यशक्तितः ।
एवं बृहत्संहितावाक्सिद्धान्तो हि तदीरितः ॥ ३,४.२२२ ॥
तारतम्येन तद्भक्तेष्वपि भक्तिर्विनिश्चयात् ।
कर्तव्यैषापि तद्भक्तिर्लोकवेदानुसारतः ॥ ३,४.२२३ ॥
यो हि भक्तः प्रधाने स्यात्तदीयेष्वपि भक्तिमान् ।
दृश्यतेऽसौ नियमतो विपरीतो विपर्यये ॥ ३,४.२२४ ॥
व्यभिचारो यदि क्वापि भक्तिह्रासोऽत्र कल्प्यते ।
भक्तिदोषो ह्यसौ यन्न तद्भक्तेष्वपि भक्तिमान् ॥ ३,४.२२५ ॥
तारतम्येन तेष्वद्धा भक्तिर्दृष्टानुसारतः ।
विष्णुप्रसादानुसारात्कार्या दोषस्तदन्यथा ॥ ३,४.२२६ ॥
स्वप्रीत्यनुसृतौ प्रीतिर्लोकेऽप्यद्धैव दृश्यते ।
तारतम्यपरिज्ञानमप्येतेनैव साधनम् ॥ ३,४.२२७ ॥
लक्ष्मीविरिञ्चवाणीशगिरिजेन्द्राङ्गिरस्सुताः ।
सूर्यादयश्च क्रमशो भगवत्प्रीतिगोचराः ॥ ३,४.२२८ ॥
तेषु भक्तिः क्रमेणैव कार्या नित्यं मुमुक्षुभिः ।
सर्वेऽपि गुरवश्चैते पुरुषस्य सदैव हि ॥ ३,४.२२९ ॥
तस्मात्पूज्याश्च नम्याश्च ध्येयाश्च परितो हरिम् ।
इति षाड्गुण्यवचनादप्येषोऽर्थोऽवसीयते ॥ ३,४.२३० ॥
हरिभक्तिः क्रमेणैव तदीयेषु हरिस्मृतिः ।
हरिस्तुतिस्तत्स्मृतिश्च तत्स्तुतिर्हरिपूजनम् ॥ ३,४.२३१ ॥
तत्पूजाविहितत्याग इति मुक्तेः क्रमेण हि ।
नियमात्साधनान्येव नित्यसाध्यानि चाखिलैः ॥ ३,४.२३२ ॥
इति प्रवृत्तवचनं साधनस्य विनिर्णये ।
प्रवृत्ते पञ्चरात्रे हि साधनस्यातिनिश्चयः ॥ ३,४.२३३ ॥
हरिद्वेषो न शुभद ॑सद्द्वेषत्वाद्यथा गुरोः ।
क्रमाद्भक्तिर्हरिप्रीतिकारणं तत्प्रियौपगा ।
भक्तिर्यतो यथा स्वस्मिन्नित्याद्या युक्तिरत्र च ॥ ३,४.२३४ ॥
प्राधान्यतारतम्यानुसारिणी भक्तिरुत्तमा ।
प्रीतिदैव हरेर्यस्माद्भक्तिः सा स्वोपगा यथा ॥ ३,४.२३५ ॥
इति वा ज्ञानकर्मादिफलं चैषु क्रमोपगम् ।
स्वातन्त्र्यतारतम्येन फलं हि फलिनां भवेत् ॥ ३,४.२३६ ॥
अशुभं त्वशुभेऽप्येषां स्वातन्त्र्यात्प्रीतितो हरेः ।
आज्ञया चान्यगं नैव भोगाय भवति क्वचित् ॥ ३,४.२३७ ॥
पुण्यमेवामुमापानोति न देवान् पापमाप्नुयात् ।
इत्यादिश्रुतयो मानमुक्तेऽर्थे युक्तयोऽपराः ॥ ३,४.२३८ ॥
उपासनाधर्मफलं यतो देहान्तरे स्थितिः ।
वासुदेवाज्ञया चैव पूर्वकर्मानुसारतः ॥ ३,४.२३९ ॥
प्रेरयन्ति हि ते जीवान् पुण्यपापेषु नित्यशः ।
अरागद्वेषतश्चैव कथं दोषानवाप्नुयुः ॥ ३,४.२४० ॥
हर्याज्ञाकरणादेव पुण्यमेभिरवाप्यते ।
हरिपूजेति चोद्देशात्कथं न शुभमाप्नुयुः ॥ ३,४.२४१ ॥
अतो यथाक्रमं धर्मज्ञानयोः फलमञ्जसा ।
सर्वप्राणिगतं देवाः प्राप्नुवन्त्या विरिञ्चतः ॥ ३,४.२४२ ॥
देवा एव हि देवानां विशिष्टा विनियामकाः ।
ब्रह्मा त्वखिलदेवानां नराणां च नियामकः ।
अतः सर्वगुणानेष प्रापनोत्यधिकमन्यतः ॥ ३,४.२४३ ॥
द्रव्यस्वातन्त्र्यविज्ञानप्रयत्नैरधिकं फलम् ।
देवानामन्यगं चापि तेषु यद्ब्रह्मणो हि तत् ॥ ३,४.२४४ ॥
बृहत्तन्त्रोदितं वाक्यं हरिणा फलनिर्णये ।
लोकेऽप्येतादृशगुणैः फलाधिक्यं हि दृश्यते ॥ ३,४.२४५ ॥
एवञ्च कलिपूर्वाणामसुराणां महत्फलम् ।
अशुभेषु सदैव स्यान्मिथ्याज्ञानादिकेषु हि ॥ ३,४.२४६ ॥
शुभाशुभफलं देवा असुराश्च समाप्नुयुः ।
क्रमेणैव यथाशक्ति यथा ये ये प्रयोजकाः ॥ ३,४.२४७ ॥
प्रेरका अपि पापानां न देवाः पापमाप्नुयुः ।
इति प्रकाशिकायां हि प्रोवाच हरिरञ्जसा ॥ ३,४.२४८ ॥
यद्यप्येवं सुराणां च दैत्यानां च महत्फलम् ।
शुभाशुभेभ्य एवञ्च कर्तुश्च स्याद्यथोदितम् ॥ ३,४.२४९ ॥
तस्मान्निरयमानुष्यस्वर्गमुक्त्युपभोगिनः ।
मानुषोत्तममारभ्य देवास्तु निरयं विना ॥ ३,४.२५० ॥
असुरास्तु विना मुक्तिं तमोऽन्धमपि चाप्नुयुः ।
इति तत्त्वविवेकोक्तं स्वयं भगवता वचः ॥ ३,४.२५१ ॥
ज्ञानदा अपिचाचार्या विशेषात्फलमाप्नुयुः ।
मुक्तावष्टगुणं शिष्याद्गुरुरापनोति शोभनम् ॥ ३,४.२५२ ॥
तद्गुरुर्द्विगुणं तस्मात्सार्धं तावत्ततोऽपरे ।
देवाः सहस्रगुणितं क्रमात्तस्माद्यथोत्तरम् ॥ ३,४.२५३ ॥
ब्रह्मा महौघगुणितमेवं फलविनिर्णयः ।
इत्याह भगवाञ्छास्त्रे गुरुवृत्ताभिधे स्वयम् ।
युक्तं च तन्न गोदाता गोमात्रफलमाप्नुयात् ॥ ३,४.२५४ ॥
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ ३,४.२५५ ॥
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्मादन्यः प्रियतरो भुवि ।
इत्याह भगवानेवमपि पात्रमपेक्ष्यते ॥ ३,४.२५६ ॥
एवमेवाविरोधेन प्रारब्धस्यैव कर्मणः ।
ज्ञानं दृष्टफलं प्रोक्तं मुक्तिश्चेहैव लभ्यते ॥ ३,४.२५७ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयोऽध्यायः ॥
समन्वयाविरोधाभ्यां सिद्धे वस्तुनि साधने ।
विचारितेष्वशेषेषु साधनेषु विशेषतः ॥ ४,१.१ ॥
नित्यशः कार्यमत्यन्तमवश्यं भावि साधनम् ।
चिन्त्यते प्रथमं तत्र श्रवणादिसकृत्क्रिया ॥ ४,१.२ ॥
आवृत्तिर्वेति सन्देहे कर्तव्याऽवृत्तिरेव हि ।
उपदेशोऽतत्त्वमसीत्यादिर्ह्यसकृदेव यत् ॥ ४,१.३ ॥
लिङ्गाल्लातव्यतः पूर्वमृजोबर्रह्मत्वतः शतात् ।
शुश्रावोग्रतपा नाम योग्यो रुद्रपदस्य यः ॥ ४,१.४ ॥
सार्द्धं परार्द्धं विष्णोस्तु गुणान् भक्तया सदोद्यतः ।
तत्त्रिभागमुपासां च चक्रे सम्भृतमानसः ॥ ४,१.५ ॥
दशमन्वन्तरं शक्रपदयोग्यो गरुत्मतः ।
पदयोग्यात्सुमनसः सुनन्दो नाम चाशृणोत् ।
उपासां चक्र उद्युक्तो मन्वन्तरचतुष्ययम् ॥ ४,१.६ ॥
सूर्याचन्द्रमसोश्चैव पदयोग्यौ सुतेजसौ ।
सुरूपः शान्तरूपश्च मन्वन्तरचतुष्ययम् ।
अशृण्वतां सुमनसो मन्वन्तरमुपासताम् ॥ ४,१.७ ॥
ततः प्रोक्तास्तु ते सर्वे भक्तयोग्रतपआदयः ।
अपश्यन् परमं विष्णुं तत्प्रसादेधिताः सदा ।
इत्युक्तं विष्णुना साक्षाद्ग्रन्थे सत्तत्वसञ्ज्ञिते ॥ ४,१.८ ॥
आत्मेति नाम कथितं साक्षान्नारायणस्य हि ।
आत्मा ब्रह्म महांस्तारः परमेशः शुचिश्रवाः ॥ ४,१.९ ॥
विष्णुर्नारायणोऽनन्त इति श्रीपतिरीर्यते ।
इति पिङ्गश्रुतिश्चैव तथैव परमश्रुतिः ॥ ४,१.१० ॥
ओमात्मा भगवान् विष्णुरात्मानन्दोऽक्षरः स्वराट् ।
विश्वत्राता नृसिंहोऽजो नारायण उरुक्रमः ॥ ४,१.११ ॥
अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् ।
दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान् ॥ ४,१.१२ ॥
इति भागवते चैव तस्मादात्मा जनार्दनः ।
तस्मादुपास्यो विष्णुरिति ज्ञातव्यः सज्जनैः सदा ॥ ४,१.१३ ॥
तथैवोपासते सन्तस्तथैवोपदिशन्ति च ।
आदानार्थत्वतश्चायमात्मशब्दः पतिं वदेत् ।
स्वामी मे विष्णुरित्येव नित्यदोपास्यमञ्जसा ॥ ४,१.१४ ॥
स्वामी विष्णुरिति ध्यानं विशेषणविशेष्यतः ।
कर्तव्यं सर्वथैवैतन्न कथञ्चन विस्मरेत् ॥ ४,१.१५ ॥
इति सत्तत्त्ववचनं षाड्गुण्यवचनं परम् ।
मम स्वामी हरिर्नित्यं सर्वस्य पतिरेव च ।
इति ध्येयः सर्वदैव भगवान् विष्णुरव्ययः ॥ ४,१.१६ ॥
प्रतीकविषयत्वेन न कार्या विष्णुभावना ।
प्रतीकं नैव विष्णुर्यन्मिथ्योपासा ह्यनथर्दा ॥ ४,१.१७ ॥
योऽन्यथा सन्तमात्मेशमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥ ४,१.१८ ॥
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेणेशापहारिणा ॥ ४,१.१९ ॥
योऽन्यथैव स्थितं विष्णुमन्यथा प्रतिपद्यते ।
किं तेन न कृतं पापं चोरेण ब्रह्मचारिणा ॥ ४,१.२० ॥
स्वात्मानं प्रतिमां वापि देवतान्तरमेव वा ।
चेतनाचेतनं वान्यद्ध्यायेद्यः केशवस्त्विति ।
किं तेन न कृतं पापं चारेणेशापहारिणा ॥ ४,१.२१ ॥
योऽन्यद्विष्णुरिति ध्यायेज्जानीयाद्वा हरिं तथा ।
अन्धे तमसि मज्जेत्स यत्र नैवोत्थितिः क्वचित् ॥ ४,१.२२ ॥
योऽन्यद्विष्णुरिति ध्यायेद्विष्णुरन्यदिति स्म वा ।
अन्यथा ध्यानदोषेण महातमसि मज्जति ॥ ४,१.२३ ॥
योऽन्यद्विष्णुरिति ध्यायेद्विष्णुरन्यदिति स्म वा ।
महातमसि मग्नस्य तस्य नैवोत्थितिः क्वचित् ॥ ४,१.२४ ॥
यत्किञ्चिदन्यथा संस्थमन्यथा ध्यातमञ्जसा ।
ध्यातुर्महादोषकरं किमु सर्वेश्वरो हरिः ॥ ४,१.२५ ॥
यत्किञ्चिदन्यथा संस्थमन्यथा ज्ञातमञ्जसा ।
महादोषकरं विष्णुः किमु सर्वेश्वरेश्वरः ॥ ४,१.२६ ॥
यत्किञ्चिदन्यथा संस्थमन्यथा ज्ञातमञ्जसा ।
अनर्थकारणं लोके किमु सर्वेश्वरेश्वरः ॥ ४,१.२७ ॥
न किञ्चिदन्यथा ज्ञेयं ध्येयं वा तेन कुत्रचित् ।
किमु सर्वोत्तमो विष्णुर्ज्ञेयो नीचतया क्वचित् ॥ ४,१.२८ ॥
तस्माद्वस्तु यथारूपं ज्ञेयं ध्येयं च सर्वदा ।
कारणं पुरुषार्थस्य नान्यथा भवति क्वचित् ॥ ४,१.२९ ॥
इति श्रुतिपुराणोक्तिबलतो न प्रतीकता ।
ध्येया विष्णोः क्वचिद्यस्मान्मिथ्याज्ञानमनर्थदम् ॥ ४,१.३० ॥
इत्यभिप्रेत्य न हि स इत्याह भगवान् प्रभुः ।
प्रतीकसंस्थितत्वेन ध्येयो विष्णुर्नचान्यथा ॥ ४,१.३१ ॥
ब्रह्मेति च सदा ध्येयो भगवान् विष्णुरञ्जसा ।
उत्कृष्टो ब्रह्मशब्दार्थः पूर्णत्वं ब्रह्मता यतः ॥ ४,१.३२ ॥
आधिव्याधिनिमित्तेन विक्षिप्तमनसोऽपि तु ।
ध्येयैव ब्रह्मता नित्यं विष्णोर्भक्तया निरन्तरम् ।
इति प्रकाशिकायां च वचनं विष्णुनेरितम् ॥ ४,१.३३ ॥
नात्मेति सूत्रमीशस्य जीवत्वप्रतिपादकम् ।
आत्मशब्दं यतो हेतुं कृत्वा जीवं न्यवारयत् ।
स्वशब्दात्प्राणभृच्चैव नोक्त इत्येव वेदराट् ॥ ४,१.३४ ॥
यद्यात्मशब्दो जीवेऽपि कथं स विनिवारयेत् ।
आत्मशब्दोदितस्तस्माद्विष्णुरेव नचापरः ॥ ४,१.३५ ॥
आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।
न वदन्ति यतो नाप्ता क्वापि तैर्गुणपूर्णता ।
नारायणाध्यात्मगतमिति यद्वैष्णवं वचः ॥ ४,१.३६ ॥
यदि जीवेशयोर्वेदपतिरैक्यं च मन्यते ।
आत्मशब्दं कथं तस्मान्निवारयति युक्तितः ॥ ४,१.३७ ॥
भेदस्य व्यपदेशं च स्थितिं चादनमेव च ।
भेददार्ढ्ये हेतुमाह सतात्पर्यं जगत्पतिः ॥ ४,१.३८ ॥
व्यावहारिकभेदश्चेत्क्वासावव्यावहारिकः ।
व्यावहारिकमित्येव वचनं व्यावहारिकम् ॥ ४,१.३९ ॥
उत नेति विकल्पे तु यदि स्याद्व्यावहारिकम् ।
तस्यापि बाध्यता चेत्स्याद्भेदः स्यात्पारमार्थिकः ॥ ४,१.४० ॥
अव्यावहारिकत्वं चेद्भेदोऽयं सत्यतां गतः ।
एकस्यासत्यतायां हि द्वयोरेव विरुद्धयोः ।
अन्यस्य सत्यतैव स्यादिति केन निवार्यते ॥ ४,१.४१ ॥
असत्यं नोक्तमित्युक्ते सत्यमुक्तमिति प्रजाः ।
जानन्त्युक्तं तु नो सत्यमित्युक्तेऽसत्यतामपि ॥ ४,१.४२ ॥
न स्वप्नेऽपि द्वयं मिथ्या तत्रैकं सत्यमेव हि ।
भावाभावावुभौ तत्र कथं मिथ्या भविष्यतः ॥ ४,१.४३ ॥
भावस्य हि निषेधे तु नाभावस्य निषेधनम् ।
स्ववाचोऽसत्यता चेत्स्यात्तस्माद्भेदस्य सत्यता ॥ ४,१.४४ ॥
तस्माज्जीवेशयोर्भेद उक्तन्यायेन गम्यते ।
एतस्मादात्मशब्दोऽयं परमात्माभिधा भवेत् ॥ ४,१.४५ ॥
प्रतीकविषयत्वेन विष्णुदृष्टिर्न तद्भवेत् ।
प्रतीके विष्णुरित्येव तस्मात्कार्या ह्युपासना ॥ ४,१.४६ ॥
न च विष्णुः प्रतीकं यत्तस्मान्नात्मेत्युपासना ।
इति पक्षो यदा ब्रह्मदृष्टिश्चात्र विरुद्धयते ।
स नेति युक्तिस्तत्रापि समेत्युक्तविरुद्धता ॥ ४,१.४७ ॥
यद्यप्युत्कर्षमात्रेण ह्यतद्भवेऽप्युपासना ।
उत्कर्ष आत्मनोऽपि स्याच्चेतनत्वादचेतनात् ।
तसमादतत्त्वं नोपास्यमिति वेदविदो मतम् ॥ ४,१.४८ ॥
उत्कर्षाद्ब्रह्मताध्याने यदि स्यात्फलमञ्जसा ।
ब्रह्मणो नीचताध्यानादनर्थः किं न जायते ॥ ४,१.४९ ॥
अचेतनस्य ब्रह्मत्वध्याने तुष्यिर्नहि क्वचित् ।
नीचस्य स्वात्मताध्याने कुप्यति ब्रह्म लोकवत् ॥ ४,१.५० ॥
चण्डालो नृप इत्युक्ते नृपश्चण्डाल इत्यपि ।
को विशेषः परिज्ञाते नृपेण स्यात्कथञ्चन ॥ ४,१.५१ ॥
पुरतो नरदेवस्य चण्डालो यदि पूज्यते ।
राजवत्किं न कोपः स्याद्राज्ञो लोके हि पश्यति ॥ ४,१.५२ ॥
राज्ञस्तु पुरतः प्रोक्ते चण्डालं नृप इत्यपि ।
आत्मानं स इति प्रोक्तमितिवद्धयेव कुप्यति ॥ ४,१.५३ ॥
अभेदे नैतयोर्ध्याने को विशेषो वचस्यपि ।
अयं राजा त्वमित्युक्ते चण्डालेऽथ नृपेऽपि च ।
चण्डाल इति तु प्रोक्ते सममेव हि दूषणम् ॥ ४,१.५४ ॥
ध्याते त्वेकस्य तद्भावे तद्भावोऽन्यस्य किं न तत् ।
नचैव तदविज्ञातं सर्वज्ञब्रह्मणा क्वचित् ॥ ४,१.५५ ॥
तस्मादपेशलं सर्वमन्यस्य ब्रह्मतावचः ।
तस्माद्यथोक्तमार्गेण ब्रह्मोपास्यं मुमुक्षुभिः ॥ ४,१.५६ ॥
तथोपास्याञ्जसा दृष्टं ब्रह्म पापं च भस्मसात् ।
करोति निखिलं पूर्वं पाश्चात्त्यस्याप्यसङ्गताम् ।
करोति तद्द्विषश्चैवं पुण्यनाशोऽप्यसङ्गता ॥ ४,१.५७ ॥
यदेव विद्ययेत्यत्र पूर्वोक्ताद्धि विशिष्टते ।
पूर्वं स्वर्गादिलब्ध्यर्थं वीर्यवत्त्वेन चोदितम् ।
कर्म विद्यायुतं पश्चान्मोक्षे वीर्यप्रदं त्विति ॥ ४,१.५८ ॥
ततो भोगेन पुण्यं च क्षपयित्वेतरत्तथा ।
ब्रह्मद्विड्ब्रह्मदर्शी च तमोमोक्षाववाप्नुतः ॥ ४,१.५९ ॥
ब्रह्माणं शतकालात्तु पूर्वमारब्धसङ्क्षयः ।
ब्रह्मणस्त्वेव तावत्त्वं पञ्चाशद्ब्रह्मणस्तथा ।
रुद्रस्य विंशदेव स्यादिन्द्रस्यार्कादिके दश ॥ ४,१.६० ॥
अन्येषां ब्रह्ममात्रस्य त्वन्त आरब्धसङ्क्षयः ।
ब्रह्मणैव सहातश्च परं नारायणं व्रजेत् ।
इति सत्तत्त्ववचनं स्वयं भगवतोदितम् ॥ ४,१.६१ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य प्रथमः पादः ॥
देवानां च मनुष्याणामेतावत्सममेव हि ।
उत्क्रान्तिमार्गौ देवानां न प्रायेण भविष्यतः ॥ ४,२.१ ॥
कर्मक्षयसतथोत्क्रान्तिर्मार्गो भोगश्चतुष्ययम् ।
फलं मोक्ष इति प्रोक्तः क्रमात्पादेषु चोदितः ॥ ४,२.२ ॥
स्रष्टृष्वेव तु सृज्यानां प्रवेशो ब्रह्मणो लये ।
देवानां मार्ग उद्दिष्टो नार्चिरादिर्नचोत्क्रमः ॥ ४,२.३ ॥
स्रष्टुस्तु ग्रासभूतस्य देहस्तत्र लयं व्रजेत् ।
यतः सृज्यस्य देवस्य नैवोत्क्रान्तिस्ततो भवेत् ॥ ४,२.४ ॥
लयाच्चैवार्चिरादीनां लोकानामपि सर्वशः ।
कथं मार्गो भवेत्तेषां विशतामुत्तमं स्वतः ॥ ४,२.५ ॥
जातानां मानुषे लोके देवानां च कदाचन ।
उत्क्रान्तिमार्गौ भवतो न तदा मुक्तिरिष्यते ॥ ४,२.६ ॥
अन्येषामपि साक्षात्तु मुक्तिः प्राप्यापि तं हरिम् ।
सहैव ब्रह्मणा भूयादिति शास्त्रस्य निर्णयः ॥ ४,२.७ ॥
क्ष्माम्भोनलानिलवियन्मनैन्द्रियार्थभूतादिभिः परिवृतः प्रतिसञ्जिघृक्षुः ।
अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं परं स्वमनुभूय परः स्वयम्भूः ॥ ४,२.८ ॥
एवं परेत्य भगवन्तमनुप्रविष्टा ये योगिनो जितमरुन्मनसो विरागाः ।
तेनैव साकममृतं पुरुषं पुराणं ब्रह्म प्रधानमुपयान्त्यगताभिमानाः ॥ ४,२.९ ॥
भगवन्तमनुप्राप्ता अपि तु ब्रह्मणा सह ।
परमं मोक्षमायान्ति लिङ्गभङ्गेन योगिनः ॥ ४,२.१० ॥
प्राप्ता अपि परं देवं सहैव ब्रह्मणा पुनः ।
आनन्दव्यक्तियायान्ति पूर्णां लिङ्गस्य भङ्गतः ॥ ४,२.११ ॥
इति श्रुतिपुराणोक्तिबलाद्विज्ञायते च तत् ।
भोगस्तु सर्वदेवानां नरादीनां च विद्यते ॥ ४,२.१२ ॥
तत्र प्रवेशो देवानामुत्तरोत्तरतः क्रमात् ।
उच्यते देहगानां च वृत्तीनामेवमेव तु ॥ ४,२.१३ ॥
तत्र मोक्षस्वरूपं तु वादिनः प्रतिभाश्रयात् ।
नाना वदन्ति पुंसां हि मतयो गुणभेदतः ।
पृथक्पृथक्प्रजायन्ते तमसैवान्यथामतिः ॥ ४,२.१४ ॥
रजसा मिश्रबुद्धित्वं सत्त्वेनैव यथा मतिः ।
गुणातीता विमुक्तानां मतिः शुद्धचितिर्यतः ॥ ४,२.१५ ॥
साम्यगेवाथ नित्या च तत्तन्माहात्म्ययोगतः ।
बहळा चातिविशदा स्पष्टा चैव श्रियो मतिः ॥ ४,२.१६ ॥
महाशुद्धचितित्वेन ततोऽप्यतिमहाचितिः ।
अशेषोरुविशेषाणामतिस्पष्टतया दृशिः ।
नित्यमेकप्रकारा च नारायणमतिः परा ॥ ४,२.१७ ॥
सूर्यप्रभावदखिलं भासयन्ति निरन्तरा ।
निर्लेपा वीतदोषा च नित्यमेवाविकारिणी ॥ ४,२.१८ ॥
विशेषांसतद्गतांस्त्यक्तवा प्रायस्तल्लक्षणा श्रियः ।
तथैव स्पष्टताभावात्तत्तन्त्रत्वाच्च केवलम् ।
न तादृशी ब्रह्मणस्तु प्राय एव श्रियो यथा ॥ ४,२.१९ ॥
मुक्तानां तु तदन्येषां समुद्रतरळोपमा ।
अग्निज्वालावदेव स्यात्स्मृतिगानां दृशो भवः ॥ ४,२.२० ॥
एवंविधेषु ज्ञानेषु तमसा मुष्यदृष्टयः ।
खद्योतसदृशात्यल्पज्ञानत्वादन्यथादृशः ।
वदन्ति वादिनो मोक्षं नानामतसमाश्रयात् ॥ ४,२.२१ ॥
आश्रित्य प्रतिभामाह जिनस्तत्रातितामसीम् ।
ज्ञानात्कर्मक्षयान्मोक्षो भवेद्देहाख्यपञ्जरात् ॥ ४,२.२२ ॥
पञ्जरोन्मुक्तखगवदलाकाकाशगोचरः ।
नित्यमूर्ध्वं व्रजत्येव पुद्गलो हस्तपादवान् ॥ ४,२.२३ ॥
इति तत्केन मानेन मोक्षरूपं प्रदृश्यते ।
गतिरूर्ध्वा च दुःखेता गतित्वाल्लौकिकी यथा ।
इत्युक्ते चानुमानैकशरणस्य किमुत्तरम् ॥ ४,२.२४ ॥
अनूर्ध्वगतिता तत्र यद्युपाधिः खगस्य च ।
दूरोर्ध्वगमने दुःखमिति साध्यानुगो न सः ॥ ४,२.२५ ॥
प्रतिसाधनरूपस्य नानुमानस्य दूषणम् ।
उपाधिः प्रतिरूपं हि साधनं तन्नचापरम् ॥ ४,२.२६ ॥
अथापि सशरीरत्वं चात्रोपाधिर्न वै भवेत् ।
गतित्वं यत्र देहित्वमिति यत्साधनानुगम् ॥ ४,२.२७ ॥
आगमाननुसारित्वे प्रसङ्गोऽयं यतस्ततः ।
नापसिद्धान्तता दोषः प्रसङ्गे यदि सा भवेत् ।
तदैवातिप्रसङ्गः स्यान्न पसङ्गः क्वचिद्भवेत् ॥ ४,२.२८ ॥
लोकाकाशगतित्वं चेदुपाधिः साधनानुगः ।
सोऽपीत्युक्ते वदेत्किं स तस्माद्वेदोदितो भवेत् ॥ ४,२.२९ ॥
मोक्ष एवं स्वयं विष्णुर्यद्यपीशो ह्यशेषवित् ।
चकार सौगतमतं मोहायैव चकार यत् ॥ ४,२.३० ॥
असुराणामयोग्यानां वेदमार्गे प्रवर्तताम् ।
अतोऽसुराधिकारत्वान्न ग्राह्यं तन्मतं क्वचित् ॥ ४,२.३१ ॥
चतुष्प्रकारं तच्चोक्तं शून्यं विज्ञानमेकलम् ।
अनुमेयबहिस्तत्त्वं तथा प्रत्यक्षबाह्यगम् ॥ ४,२.३२ ॥
इति तत्र तु ये शून्यं वदन्त्यज्ञानमोहितः ।
ते मोक्षं तादृशं ब्रूयुर्निश्शङ्कं मायिनो यथा ॥ ४,२.३३ ॥
न किञ्चिनमुक्तयवस्थायामात्मात्मीयमथापि वा ।
एकस्मिन् संसृतेर्मुक्ते न किञ्चिदवशिष्यते ॥ ४,२.३४ ॥
तत्संवृत्यैव भेदोऽयं चेतनाचेतनात्मकः ।
दृश्यते संवृतेर्ध्वंसे निर्विशेषैव शून्यता ॥ ४,२.३५ ॥
न सत्त्वं नैव चासत्त्वं शून्यतत्त्वस्य विद्यते ।
न सुखत्वं न दुःखत्वं न विशेषोऽपि कश्चन ॥ ४,२.३६ ॥
निर्विशेषं स्ययम्भातं निर्लेपमजरामरम् ।
शून्यं तत्त्वमसम्बाधं नानासंवृतिवर्जितम् ॥ ४,२.३७ ॥
अशेषदोषरहितं मनोवाचामगोचरम् ।
मोक्ष इत्युच्यतेऽसद्भिर्नानासंवृतिदूषितम् ॥ ४,२.३८ ॥
संसृत्यवस्थं विज्ञेयं संवृत्यैव विशेष्यते ।
स्थितया ध्वस्तया चैव संसृतिर्मोक्ष इत्यपि ॥ ४,२.३९ ॥
केचित्तेष्वन्यथा प्राहुः संवृत्यैव त्वनेकधा ।
अवच्छिन्नं महाशून्यं नानानपुद्गलशब्दितम् ॥ ४,२.४० ॥
यस्य शून्यैकरसता ज्ञानात्सा त्वपगच्छति ।
स पुद्गलत्वनिर्मुक्तो महाशून्यत्वमेष्यति ॥ ४,२.४१ ॥
संवृत्यान्यस्त्ववच्छिन्नो दुःखान्यनुभवत्यलम् ।
इत्येवं मायिनश्चाहुरेकजीवत्ववादिनः ॥ ४,२.४२ ॥
बहुजीवमताश्चेति माया तेषां तु संवृतिः ।
निर्विशेषत्ववाचैव शून्यं ब्रह्मैव नो भिदा ॥ ४,२.४३ ॥
सच्चित्सुखादिकं चैव किं कुतोऽखण्डवादिनः ।
व्यावर्त्यमात्रभेदस्तु विद्यते शून्यवादिनः ॥ ४,२.४४ ॥
अनृतादेरपोहं तु स्वयमेव हि मन्यते ।
निर्विशेषत्वतो नैव विशेषो ब्रह्मशून्ययोः ॥ ४,२.४५ ॥
प्रामाण्यादि च वेदस्य फलतः सममेव हि ।
अतत्त्वावेदकं यस्मात्प्रमाणं तेन कथ्यते ।
अतत्त्वावेदकत्वं यदप्रामाण्यं सतां मतम् ॥ ४,२.४६ ॥
दीर्घभ्रान्तिकरी चेत्स्यादतत्त्वावेदकप्रमा ।
रज्जुसर्पादिविज्ञानादप्याधिक्यादमानता ।
स्यादागमस्यानिवर्त्यमहामोहप्रदत्वतः ॥ ४,२.४७ ॥
तलनैल्यादिविज्ञानमाकाशे मानतांव्रजेत् ।
छत्राकारत्वविज्ञानंचन्द्रप्रादेशतामतिः ॥ ४,२.४८ ॥
निर्भेदत्वं तु शून्यस्य तेनाप्यङ्गीकृतं सदा ।
सत्त्वासत्त्वादिधर्माणामभाव उभयोर्मतः ॥ ४,२.४९ ॥
न हि सत्प्रतियोगित्वं शून्यत्वं तेन चेष्यते ।
न च दुःखविरोधित्वादन्या ह्यानन्दतेष्यते ॥ ४,२.५० ॥
मायिना शून्यपक्षेऽपि ज्ञानं जाड्यविरोधि च ।
धर्मस्तेऽपि न सन्त्येव को विशेषस्ततस्तयोः ॥ ४,२.५१ ॥
एतादृशानां पक्षाणां दूषणं प्रभुरा कृतम् ।
स्वपक्षसादनेनैव नाभाव इति चोक्तितः ॥ ४,२.५२ ॥
आत्माभावे पुमर्थः क इष्टस्यात्मावधिर्यतः ।
यदि नात्मावधिर्मोक्षो मोक्षः स्याद्घटशून्यता ।
कल्पितत्वाद्विशेषाणां मायिनोऽपि समं हि तत् ॥ ४,२.५३ ॥
दृश्यमाने विशेषेऽपि यदि चेदविशेषता ।
घटाभावोऽविशेषः स्यात्पाश्चात्यश्चेदनागतः ॥ ४,२.५४ ॥
न मोक्षो विमतो यस्माददेहो घटशून्यता ।
यथेत्युक्ते वदेत्किं स योऽनुमामात्रमानकः ॥ ४,२.५५ ॥
न च मायी वदेत्तत्र पूर्वोक्तेनैव वर्त्मना ।
अमानत्वाच्छ्रुतेस्तस्य नचादेहत्ववादिनी ॥ ४,२.५६ ॥
श्रुतिः काचिददेहत्वमप्राकृतशरीरगा ।
मोक्षे भोगं यतो ब्रूते जक्षन् क्रीडन्निति श्रुतिः ॥ ४,२.५७ ॥
निर्दुःखत्वान्न तन्मोक्षः प्रतिपन्नं यथेति च ।
अनुमादूषणं किं स्याद्वादिनोः शून्यमायिनोः ॥ ४,२.५८ ॥
दुःखं दुःखादभिन्नत्वान्मोक्षोऽपि स्यादसंशयम् ।
भेदे सद्वैततैव स्यादित्याद्यमितदोषतः ।
हेयं मायामतेनैव सह शून्यमतं बुधैः ॥ ४,२.५९ ॥
एवं विज्ञानवादोऽपि ज्ञानमात्रविशेषतः ।
तस्यापि भङ्गुरत्वादिविशेषमपहाय हि ।
अद्वैततामतं साक्षादुक्तदोषस्ततो भवेत् ॥ ४,२.६० ॥
कालो न केवलज्ञानी कालत्वात्प्रतिपन्नवत् ।
एतयानुमया रोधान्न तादृङ्मोक्षरूपता ॥ ४,२.६१ ॥
यदि कालोऽपि नेत्याह कदेति प्रश्न उत्तरम् ।
किं वक्ष्यति यदावस्थां वदेत्सा पक्षतां व्रजेत् ॥ ४,२.६२ ॥
अवस्थात्वादिति ह्येव हेतुः सापि कदेति च ।
पृष्टे कालश्च वक्तव्यो नाकालत्वं ततो भवेत् ॥ ४,२.६३ ॥
न काल इति सामान्यनिषेधे कालगप्रमा ।
निरुणद्धि वक्तव्यो नाकालत्वं ततो भवेत् ॥ ४,२.६४ ॥
एकजीवत्वपक्षे तु कालाभावादियं प्रमा ।
कुपिता कालमादाय द्वैतमेवोपपादयेत् ॥ ४,२.६५ ॥
विमतः प्रपञ्चवान् कालः कालत्वात्प्रतिपन्नवत् ।
इति चान्यानुमैकत्वं जीवस्य विनिवारयेत् ॥ ४,२.६६ ॥
कालशब्देश्वरैकत्वमतान्यप्येवमेव हि ।
निराकृतानि तेषां च समत्वात्पक्षदोषयोः ॥ ४,२.६७ ॥
ज्ञानं स्वरसभङ्गयेव नित्यसन्तामिष्यते ।
बौद्धाभ्यामपराभ्यां तु तत्राप्युक्तानुमा रिपुः ॥ ४,२.६८ ॥
मोक्षो न शुद्धविज्ञानसन्तानी कालगत्वतः ।
प्रतिपन्नो यथेत्येतदनुमानं तदुत्तरम् ॥ ४,२.६९ ॥
अनुमानानि सर्वाणि प्रतिसाधनयोगतः ।
निषिद्धान्युक्तभङ्गयैव श्रुतयश्चास्मदुक्तिगाः ॥ ४,२.७० ॥
साङ्खयनैयायिकाद्याश्च प्राहुर्मोक्षं तु निस्सुखम् ।
इच्छाद्वेषप्रयत्नादेरपि सर्वात्मना लयम् ॥ ४,२.७१ ॥
तत्राहुर्नैतदप्यत्र शोभनं श्रुतयो यतः ।
महानन्दं च भोगं च नियमेन वदन्ति हि ॥ ४,२.७२ ॥
प्राकृतप्रियहानिस्तु प्रियास्पृष्टिरितीर्यते ।
अप्रियं प्रतिकूलं तदविशेषेण शब्दितम् ॥ ४,२.७३ ॥
नास्ति ह्यप्राकृतं दुःखं सतो जीवस्य कुत्रचित् ।
प्रियं स्वरूपमेवास्य बलानन्दादिवाक्यतः ॥ ४,२.७४ ॥
हेयत्वादपप्रियस्यैव प्रियहानेरनिष्ठतः ।
न समस्तप्रियाभावो मोक्षे प्रोक्ते तु युज्यते ॥ ४,२.७५ ॥
अप्रियस्य स्वरूपत्वमसुरेष्वेव हि श्रुतम् ।
असुरा नैवमेवं च नैवं चाखिलमानुषाः ।
इत्यात्मप्रियहानाय को यतेत च बुद्धिमान् ॥ ४,२.७६ ॥
सञ्ज्ञा नास्तीत्यपि ह्यस्य नामुक्तज्ञेयतेति हि ।
धर्मानुच्छित्तिमेवास्य यतो वक्तयुत्तरश्रुतिः ॥ ४,२.७७ ॥
आशङ्कयास्य ज्ञानहानिं मैत्रेय्या मोहमाह माम् ।
भवानित्युक्तवत्या हि नाहं मोहं वदामि ते ।
इत्युक्तवा याज्ञवल्क्यो हि स्वरूपानाशमूचिवान् ॥ ४,२.७८ ॥
ज्ञानरूपस्य विज्ञानानाशस्तन्नाश एव यत् ।
इति शून्यमतोच्छित्त्यै पुनरानन्दपूर्वकान् ।
धर्मानाहाप्यनुच्छिन्नांस्तार्किकैर्विनिवारितान् ।
मात्रासंसर्गमप्याह तथा माध्यन्दिनश्रुतिः ॥ ४,२.७९ ॥
आचिक्षेप मतं तच्च यस्मिन्न विषयादनम् ।
घ्राणादिभोगाभावस्य त्वनिष्टत्वहृदा श्रुतिः ॥ ४,२.८० ॥
येनेदमखिलं वेद विज्ञातारं स्वमेव च ।
केन तं च विजानीयादित्यनिष्टं हि सर्वथा ॥ ४,२.८१ ॥
नाखिलज्ञापको विष्णुरज्ञेयो नियमेन हि ।
तज्ज्ञानार्थं हि वेदानामखिलानां प्रवर्तनम् ॥ ४,२.८२ ॥
प्रत्यक्षागमात्मविज्ञानाविरोधानुभवादपि ।
न स्वविज्ञानितायां च विरोधः कश्चनेयते ॥ ४,२.८३ ॥
कर्तृकर्मविरोधश्च नित्यानुभवविरोधतः ।
कथमेव पदं गच्छेद्विरोधो दृष्टबाधनम् ॥ ४,२.८४ ॥
सोऽश्नुते सर्वकामंश्च कामान्नी कामरूप्यथ ।
इत्यादिश्रुतयश्चोक्तमर्थमेव वदन्ति हि ॥ ४,२.८५ ॥
अस्वातन्त्र्यादिवेत्युक्तं न द्वैताभावतः क्वचित् ।
आत्मैवाभूदिति ह्यस्मादविशेषप्रसङ्गतः ॥ ४,२.८६ ॥
अस्वातन्त्र्योपमाभेदभेदेष्विव उदीरितः ।
शब्दतत्त्व इति प्रोक्तं मैत्रेय्युक्तोत्तरं च किम् ॥ ४,२.८७ ॥
सुखादिधर्महानौ तु मुक्तेः किञ्च प्रयोजनम् ।
यद्यर्थो दुःखहानिः स्यादनर्थः सुखनाशनम् ॥ ४,२.८८ ॥
तयोश्च दुःखहानाद्धि सुखनाशोऽधिको भवेत् ।
प्राप्यापि दुःखं सुमहत्सुखलेशाप्तये जनः ।
यतते सुखहानौ हि को मोक्षाय यतेत्पुमान् ॥ ४,२.८९ ॥
अल्पाच्च सुखानाशाद्धि बिभेत्यतितरां जनः ।
महच्च दुःखमाप्नोति सुखनाशनिवृत्तये ॥ ४,२.९० ॥
न च रागनिमित्तं तद्वीतरागा अपि स्फुटम् ।
नारदाद्याः सुखार्थाय सहन्ते दुःखमञ्जसा ।
युद्धादिदर्शनं यस्मात्सुदुःखेनापि कुवर्ते ॥ ४,२.९१ ॥
यदेन्द्रवैरोचनयोर्ब्रह्मास्त्राभ्यां सुतापिताः ।
अपि नैवाजहुर्युद्धरसात्ते नारदादयः ।
इति स्कान्दवचस्तस्मात्सुखाभावस्य को यतेत् ॥ ४,२.९२ ॥
विमतो दुःखयुग्यस्माच्चेतनः सन् सुखोज्खितः ।
प्रतिपन्नो यथेत्येव चानुमा केन वार्यते ॥ ४,२.९३ ॥
सर्वश्रुतिपुराणेषु सुखभावोक्तितस्तथा ।
मुक्तौ न ग्राह्यमेवैतत्सुखाभावमतं बुधैः ॥ ४,२.९४ ॥
सोऽनानन्दाद्विमुक्तः सन्नानन्दी भवति स्फुटम् ।
निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः ।
परमानन्दमाप्नोति यत्र कामोऽवसीयते ॥ ४,२.९५ ॥
न विष्णुसदृशं दैवं न मोक्षसदृशं सुखम् ।
न वेदसदृशं वाक्यं न वर्णोऽकारसम्मितः ॥ ४,२.९६ ॥
यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते ।
कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि ॥ ४,२.९७ ॥
इति श्रुतिपुराणानि तत्रतत्र वदन्ति हि ।
अतो मोक्षे सुखाभाव इति यत्किञ्चिदेव हि ॥ ४,२.९८ ॥
शिरःकराद्यभावश्च न मुक्तस्य भवेत्क्वचित् ।
श्रुतयश्च पुराणानि मानमत्र बहूनि च ॥ ४,२.९९ ॥
न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः ।
न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः ॥ ४,२.१०० ॥
श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः ।
सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः ॥ ४,२.१०१ ॥
प्रवाळवैडूर्यमृणाळवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम् ।
भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ॥ ४,२.१०२ ॥
विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रावलिभिर्यथा नभः ।
श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः ॥ ४,२.१०३ ॥
ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु ।
ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रं विमिभीत उ त्वः ॥ ४,२.१०४ ॥
कामान्नरूपी चरतीतिपूर्वश्रुत्या पुराणोक्तिभिरप्यदोषः ।
देहः स्वरूपात्मक एव तेषां मुक्तिं गतानामपि चेयते हि ॥ ४,२.१०५ ॥
शिरःकराद्यैरपि मुक्तिभाजो युक्ता यतस्ते पुरुषा इदानीम् ।
यथेतिपूर्वा अनुमाश्च जीवस्वरूपमङ्गादियुगापयन्ति ॥ ४,२.१०६ ॥
न ब्रह्मरूपत्वममुष्य देहिनो मुक्तावपि स्यात्प्रमया कथञ्चित् ।
स ब्रह्मणा सहितोऽशेषभोगान् भुङ्क्ते तथोपेत्य सुखार्णवं तम् ॥ ४,२.१०७ ॥
यत्तत्परं ज्योतिरुपेत्य जीवो निजस्वरपूत्वमवाप्य कामान् ।
भुङ्क्ते स दैवं पुरुषोत्तमोऽज आत्मेति चोक्तो गुणपूर्तिहेतोः ॥ ४,२.१०८ ॥
सेतुः स देवोऽखिलमुक्तिभागामुतामृतस्येष्य इहेशिता यत् ।
इत्यादिवाक्यैर्भगवद्वशः सन् भुङ्क्तेऽखिलान्मुक्तिगतोऽपि भोगान् ॥ ४,२.१०९ ॥
कालोऽप्यसौ नैक्ययुतः परेण जीवस्य कालो यत एष यद्वत् ।
इत्यादिका अप्यनुमाः प्रमाणं मुक्तौ च जीवस्य परत्वरोधे ॥ ४,२.११० ॥
कथं च यः पूर्वमसौ न पश्चाद्भवेत्स एवेत्यपि युक्तिमेति ।
यतो न दृष्टं यदभून्न पूर्वं पश्चात्तदासेति कुतश्च किञ्चित् ॥ ४,२.१११ ॥
नचैव मुक्तौ तु हरेः पृथक्तवमैक्यं तथा स्यादिति युक्तिमेति ।
यतो न कुत्रापि भिदाभिदा च दृष्टा चितश्चेतनया कुतश्चित् ॥ ४,२.११२ ॥
इत्थं मतानि भ्रमजानि यस्मान्मोक्षं समुद्देश्यमपि भ्रमेण ।
विदुर्न सम्यग्यदपीह लौकिकाः सुखं मम स्याच्च सदेति जानते ॥ ४,२.११३ ॥
औदार्यमुच्चावचशक्तिरात्मस्वरपूदार्ढ्यं च निजस्वभावः ।
स्वातन्त्र्यमापूर्णविशेषयोग्यता विरोधहानिश्च चतुर्थपादे ॥ ४,२.११४ ॥
व्यवस्थितिस्त्वविशेषः स्थितिश्च निषेधसामान्यविधिक्रियाणाम् ।
विभक्तता चात्वरयैव सिद्धिर्विपक्षसम्प्राप्तिविरुद्धहेतवः ॥ ४,२.११५ ॥
सुशक्यता शश्वदतिप्रसिद्धिविवेकविन्यासविचारसञ्ज्ञाः ।
नानाप्रवृत्तिः कृतकृत्यता च विपक्षतर्काः समतीतपादे ॥ ४,२.११६ ॥
महाफलत्वं प्रविविक्तता च सन्धिग्रहः साधनमाप्तकृत्यम् ।
विशेषकार्यं कृतिसंस्थितिश्च सुयुक्तयो निर्णयगाः स्वपक्षे ॥ ४,२.११७ ॥
व्यामिश्रता कार्यकरत्वमर्थकॢप्तिः सुदार्ढ्यं परतन्त्रता च ।
समानधर्मः कृतशेषता च लोकोपमा पूर्वमतानुसाराः ॥ ४,२.११८ ॥
विशेषसाम्यश्रुतिराढ्यता च समानलोपो महिमा विशेषः ।
कृतार्थता शश्वदनुप्रवृत्तिः सिद्धान्तनिर्णीतिविशिष्टहेतवः ॥ ४,२.११९ ॥
प्रधानवायुस्त्विह वायुनामा भूतेष्वितिप्रोक्तगतोऽपि युक्तया ।
यस्माच्छ्रुतौ पवते चेति भूरि प्रोक्तो यतो भूतमानी च सोऽपि ।
महामानी त्वल्पमानी च यस्मात्तच्छब्देनाप्युच्यते तेन सोऽपि ॥ ४,२.१२० ॥
तस्मिन् लयं यान्ति भूतान्यशेषक्रमाविरोधेन स एव विष्णौ ।
इन्द्रादीनां तत्र लयः क्रमं तु प्रोक्तं विशेषादनुसृत्य नान्यत् ॥ ४,२.१२१ ॥
तस्मादशेषा गिरिजां प्रविश्य तयैव रुद्रं सह तेन वाणीम् ।
तया पतिं प्राप्य सहैव तेन लयं हरौ यान्ति समस्तजीवाः ॥ ४,२.१२२ ॥
सोमस्तु वारीशयुतोऽनिरुद्धं विशत्यसौ काममसौ च वारुणीम् ।
सा शेषदेवं स गिरं च सैव वायुं विशत्यञ्ज इतीह निर्णयः ॥ ४,२.१२३ ॥
उमागिरीशावपि भारतीराविति स्म वाग्वेदगता ब्रवीति ।
अहीन्द्रपत्नीमहिपं विरिञ्चपत्नीं विरिञ्चं च विमुक्तिकाले ॥ ४,२.१२४ ॥
त एव यत्तत्पदमाप्नुवन्ति तत्काल एतान् समुपास्य जीवाः ।
ब्रह्मत्वकाले प्रविशन्ति चैतानीति स्म वाक्तादृशतामुपैति ॥ ४,२.१२५ ॥
सूर्योऽग्नियुक्तो गुरुमाप्य तेन शक्रं सहैनेन सुपर्णपत्नीम् ।
तया सुपर्णं सह तेन वाणीं ब्रह्माणमेतद्गत एव याति ॥ ४,२.१२६ ॥
इन्द्रप्रवेशस्तु यदोच्यतेऽत्र तदा ह्युमेत्येव सुपर्णपत्नी ।
उक्ता सुपर्णश्च गिरीशनाम्ना ततो विरोधश्च न कश्चनात्र ॥ ४,२.१२७ ॥
भृग्वादयो दक्षमवाप्य तेन प्राप्येन्द्रमेतेन सुपर्णपत्नीम् ।
विशन्ति ये मनवो राजमुख्या मनुं प्रविश्यात्र गता महेन्द्रम् ॥ ४,२.१२८ ॥
आकाश उर्वी च गुरुं प्रविश्य तेनैव यातः पुरुहूतदेवम् ।
सनादयो यतयः काममेव विशन्ति शिष्टा अपि हव्यवाहम् ॥ ४,२.१२९ ॥
वर्णाश्रमाचाररता मनुष्या धर्मं मनुं सोऽपि समेति काले ।
तमेव सर्वे पितरः सुरानुगाः सर्वे कुबेरं स च सोममेव ॥ ४,२.१३० ॥
विमुक्तिकाले प्रविशन्त्यभीक्ष्णं भोगांश्च तद्देहगताः प्रभुञ्जते ।
आनन्दसुव्यक्तिरमुत्र तेषां भवत्यतश्चेष्यत एव निर्गताः ।
क्रीडन्ति भूयश्च समाविशन्ति तानेव सायुज्यमिदं वदन्ति ॥ ४,२.१३१ ॥
सायुज्यहीनाश्च लये तु सर्वे प्रोक्तेन मार्गेण विशन्ति सृष्टौ ।
बहिश्च निर्यान्ति ततोऽन्यदापि सायुज्यभाजां भवति प्रवेशः ॥ ४,२.१३२ ॥
उक्तं समस्तं परमश्रुतौ हि प्रोक्तं तु सर्गक्रमतो विपर्ययः ।
मुक्तौ लये यद्वदथो लयश्च विपर्ययेणेत्यवदद्गिरां पतिः ॥ ४,२.१३३ ॥
लयो यतो मुक्तिरियं सुराणां भोगो विशेषेण च यं वदिष्यति ।
उक्तश्च बिम्बप्रतिबिम्बभावः पिङ्गश्रुतावुक्तलयानुसारतः ॥ ४,२.१३४ ॥
बिम्बे लयो यन्नियतश्च मुक्तौ चिदात्मनां तद्वशता च सर्वदा ।
तेजोऽभिधां तु श्रियमाप्य विष्णुमग्रे ततः पुत्रतयैव वायुः ।
आप्तः प्रसूतः पुनरेव विष्णुं प्रविश्य मुक्तः प्रळयेऽत्र तिष्ठति ॥ ४,२.१३५ ॥
सर्वेऽपि ते मुक्तगणा अमन्दसान्द्रं निजानन्दमशेषतोऽपि ।
भुञ्जन्त एवासत ईशदेहे लयेऽथ सर्गे बहिरेव यान्ति ॥ ४,२.१३६ ॥
प्रयाति धर्मं निरृतिस्तु शक्रं मरुद्गणाः पार्षदास्तथैव ।
सर्वेऽनिरुद्धं पृतनाधिपाद्यास्तुरश्रुतिर्हीत्थमियं विमुक्तिः ॥ ४,२.१३७ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्यने चतुर्थाध्यायस्य द्वितीयः पादः ॥
उत्क्रान्तमार्गश्च विमुक्तगम्यं पादोदितं सुक्रमविक्रमौ च ।
सान्तानिकं प्राप्तिरभीष्यता च सौकयर्मित्यन्यमतस्य तर्काः ॥ ४,३.१ ॥
विशेषसम्प्राप्तिरुरुत्वमाप्तिः क्रमानुरागः कथितानुवृत्तिः ।
सिद्धान्तनिर्णीतिकराः प्रतीकं देहादिकं तद्गतमेव ये नराः ॥ ४,३.२ ॥
उपासते ते पुरतः समाप्नुयुर्ब्रह्माणमस्मान्मतिमाप्य विष्णुम् ।
प्राप्स्यन्त्यतोऽन्येऽपि तमाप्य तस्माद्धरिं गता मुक्तिभाजः परान्ते ॥ ४,३.३ ॥

॥ श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्यने चतुर्थाध्यायस्य तृतीयः पादः ॥
अतिक्रमोक्तिः कृतिरर्थलाभः परा गतिः पारगतिस्तदोकः ।
समस्तकार्यं वशिता च विश्वसम्भावना युक्तयस्त्वन्यपक्षे ॥ ४,४.१ ॥
सामान्यरूपं प्रतिभानमुक्तिराश्चर्यताकृत्रिमतास्तदोषः ।
विशेषकॢप्तिः कृतनिःश्रमश्च माहात्म्यमित्येव सुनिर्णयार्थाः ॥ ४,४.२ ॥
अनन्यभृत्यत्वमिहोदितभ्यस्त्वन्यस्य भृत्यत्वनिवारणाय ।
पतिं यदेषामपि विष्णुमाह ह्युतामृतत्वस्य पतित्ववाग्धरेः ॥ ४,४.३ ॥
एतेऽपिचान्याधिपतित्वयुक्ता विष्ण्वन्यचित्त्वेन यथा पुमांसः ।
प्रसिद्धिभाजस्त्विति चानुमैव ह्यभीष्यसिद्धयै भवतीह निश्चयात् ॥ ४,४.४ ॥
मुक्तस्वकीयावरयन्तृतास्ति मुक्तावपि ब्रह्मपुरस्सराणाम् ।
अनेन देवेन तथामुना च हीष्ये परार्वाक्तनलोकिनामिति ॥ ४,४.५ ॥
फलं श्रुतिर्ज्ञानत आह मुक्तावेतच्च सर्वाशुभनाशलिङ्गात् ।
लोकाधिपत्यं च विधातुरेव सर्वात्मनेत्याह तुरश्रुतिश्च ।
सर्वे बलिं देवगणा वहन्तीत्येतच्च नान्यस्य हि युक्तिमेति ॥ ४,४.६ ॥
लोका इतीहापि तु लोकिनां वचो लोका इति ह्येव रवः प्रजासु ।
प्रयुज्यते सर्वजनैः सदैव तन्मानिनो लोकपदेन चोक्ताः ।
तद्गास्तु मुक्ता इह लोकशब्दा अन्योन्यनाथा इति पैङ्गिनां श्रुतिः ॥ ४,४.७ ॥
अलोकशब्देन विमुक्तिभाजो वाच्याः पदं तादृगपीह युक्तम् ।
लोकाभिधाश्चापि यतो हि मुक्ताः प्रकाशरूपाः सततं च सर्वे ।
ब्रह्मैव लोकाधिपतिर्विमुक्तो भवेदिति प्राह तुरश्रुतिश्च ॥ ४,४.८ ॥
नचेह विज्ञानफलं समुक्तं लोकाधिपत्यं रविबिम्बतो हरौ ।
उक्तं पृथक्तच्च पुरैव यस्माद्भेदोऽमुनेत्यादि च सम्यगुक्तः ॥ ४,४.९ ॥
त्वप्रत्ययं चाप्यतिहाय नैव रूपेण तेनेति भवेदिहार्थः ।
भवत्यसावित्यणुशब्दमत्र विहाय वाक्यानि बहूनि दोषः ॥ ४,४.१० ॥
अतो जगद्वयापृतिमन्त एव ब्रह्मादयः पूर्णगुणाः क्रमेण ।
अमन्दमानन्दमजस्रमेव भुञ्जन्त आत्मीयमजात्समासते ॥ ४,४.११ ॥
नमो नमोऽशेषविशेषपूर्णगुणैकधाम्ने पुरुषोत्तमाय ।
भक्तानुकम्पादतिशुद्धसंविद्दात्रेऽनुपाधिप्रियसद्गुणात्मने ॥ ४,४.१२ ॥
यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यानलं बट्तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुर्मध्वो यत्तु तृतीयमेतदनुमा ग्रन्थः कृतः केशवे ॥ ४,४.१३ ॥
निःशेषदोषरहितकल्याणाखिलसद्गुण ।
भूतिस्वयम्भुशर्वादिवन्द्यं त्वां नौमि मे प्रियम् ॥ ४,४.१४ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने चतुर्थोऽध्यायः ॥

Tags: Brahma Sutram

Post navigation

Previous: Bhagabat Gita Sanskrit Commentaries : First Chapter
Next: Janma Marana Vichara: Bama Deva

Related Stories

Manu Smriti , Manu Samhita, Manusmriti
  • Vedic Sanskrit Culture

Manusmriti Chapter 1 Verses 1–30: Creation, Cosmology and Consciousness

advtanmoy 26/08/2026
Acharya Narad
  • Vedic Sanskrit Culture

Naradaparivrajaka Upanishad: Ancient Text of Vedic Sannyasa (नारदपरिव्राजकोपनिषद्: 1200 BCE)

advtanmoy 15/02/2026
The Story of Varanasi (1993–2000): A Saga of the Celebration of Life
  • Vedic Sanskrit Culture

The Story of Varanasi (1993–2000): A Saga of the Celebration of Life

advtanmoy 22/01/2026
Encyclopedia of Rashtriya Swayamsevak Sangh

Encyclopedia of Rashtriya Swayamsevak Sangh (13-Volume): History, Ideology and Organisation

The Encyclopedia of Chaitanya Mahaprabhu

Encyclopedia of Sree Krishna Chaitanya Bharati (12-Volume): The Golden Gouranga of Bengal

Encyclopedia of Macroscopic Human Social System Analysis

Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System

Encyclopedia of European Invasions in India

Encyclopedia of European Invasions in India (11-Volume): Colonialism, Resistance, and Restoration

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Deep Grammar of Civilization (13-Volume): What Are the Irreducible Components of Civilization?

Encyclopedia of Begging

Encyclopedia of Begging (6-Volume): A Global History of Asking, Giving, and Resource Acquisition

Encyclopedia of the Communist Party of China

Encyclopedia of the Communist Party of China (31-Volume): Making of Modern Chinese Civilization

Indo-Pakistan war 1971

Encyclopedia of the Indo–Pakistan War of 1971 (5-Volume): The Creation of Bangladesh

Sarvarthapedia

Encyclopedia of India’s Internal and External Intelligence System: Special Emphasis on the (R&AW)

The Encyclopedia of Political History of Bangladesh

Encyclopedia of Political History of Bangladesh (18-Volume): Identity, Liberation, And Democracy

Encyclopedia of Ecumenical Movements

Encyclopedia of Ecumenical Movements (21-Volume): History, Theology, Institutions and Dialogues

Encyclopedia of Dalit Christians and Their Theology

Encyclopedia of Dalit Christians and Their Theology (5-Volume): Crisis of Caste Culture within Christians in India

Encyclopedia of Indian Military Civilization

Encyclopedia of Indian Military Civilization (55-Volume): War Strategy and Armed Institutions From Antiquity to 2026

Sarvarthapedia

Ontology (25-Volume): Encyclopedia of All Known Conceptions of Reality and Existence

Synthesis-of-Greco-Roman-Ideologies-Shaping-Christianity and Historical Critiques of Christianity and Christian Theology

Encyclopedia of Historical Critiques of Christianity and Christian Theology: A (50-Volume) Research and Documentation

Sarvarthapedia Astronautical Engineering Knowledge Universe (SAEKU): A 250-Volume Master Reference for Space Science and Engineering

Astronautical Engineering Knowledge Universe: A 250-Volume Reference for Space Science and Engineering

Encyclopedia of Indian Economy

Encyclopedia of Indian Economy (56-Volume): A Civilisational Perspective

Encyclopedia of Constitution and Constitutional Law of the United Kingdom

Encyclopedia of Constitution and Constitutional Law of the United Kingdom (10-Volume): History and Development

Encyclopedia of Astrology

Encyclopedia of Astrology (15-Volume): The Human Quest to Predict the Future

Civilizational Encyclopedia of American Governance

Civilizational Encyclopedia of American Governance (100-Volume): Governing the American Government

Human rights conditions in the United States

Human Rights and United States (15-Volume): Violations, Resistance, and Global Impact

Civilizational History of North America

Civilizational History of North America (315-Volume): The Turtle Island and the American Imperium

Sarvarthapedia

Sarvarthapedia of Human Technological Civilization (12-Volume)

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Ultimate-Order Concepts (17-Volume): Fundamental Reason for Existence of Intelligence System

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Meta-Civilizational Architecture: How Complex Systems Survive

Global Encyclopedia of Intelligence, Espionage, and Counterintelligence

Global Encyclopedia (180-Volume) of Intelligence, Espionage, and Counterintelligence

British Parliament

Encyclopedia of the British Parliamentary System: A 100-Volume Statement on British Politics

Encyclopedia of Global Capital Markets (100 Volumes): A Comprehensive Reference to Banking, Securities, Finance, and Investment Systems

The Global Capital Markets Encyclopedia (100-Volume): Reference on Finance, Banking, and Investment Systems

The Atlas of Self-Sabotage: A 12-Volume Encyclopedia of How Lives Quietly Go Wrong

The Atlas of Self-Sabotage: A 12-Volume Encyclopedia of How Lives Quietly Go Wrong

Encyclopedia of History of Ancient and Modern India

Encyclopedia of Ancient and Modern India: A 120-Volume Civilizational Knowledge System

Contemporary World History

Encyclopedia of Contemporary World History (2001–Present): A 100-Volume Statement on World System

Non-Proliferation of Nuclear Weapons: 12-Volume Reference and Research Architecture

Non-Proliferation of Nuclear Weapons: 12-Volume Reference and Research Architecture

Encyclopedia of American Law

Encyclopedia of American Law: 180‑Volume Statement on American Law

Roman empire and Law

Roman Empire Political History (15-Volume): Rise and Destruction (300 BCE – 1453 CE)

India

Encyclopedia of Contemporary Indian Politics: 111-Volume Statement on Indian Politics (1857–2026)

Encyclopedia of Psychology

Encyclopedia of Psychology (12-Volume): Of Mind, Behavior, and Society

Encyclopedia History of Pakistan (12-Volume): From Hindustan to an Islamic Republic

Encyclopedia History of Pakistan (12-Volume): From Hindustan to an Islamic Republic

Africa and African Union

Encyclopedia of African Studies (10-Volume): History, Culture, and Development

African Studies

African Studies, Synopsis (10-Volume) and How to Study Africa

Encyclopedia of Disease and Disease Detection

Encyclopedia of Disease and Disease Detection (12-Volume): Foundations, Technologies, and Clinical Applications

Sarvarthapedia

Encyclopedia of Religion, Faith, and Beliefs (12-Volume): History, Theology, Politics, and Conflict with Science 

Cyber Security

Cybersecurity Encyclopedia (Volume-8): From ENIAC to Modern Cyber Warfare and Data Protection Laws

Sanatan Dharma

Sarvarthapedia of Hindu Scriptures and Interpretation (10-Volume): From the Vedic Period up to 2026

Sarvarthapedia

Encyclopedia of Strategic Geography (13-Volume): Spatial Logic of Civilization 

Encyclopedia of Medical Science and Research

Encyclopedia of Medical Science and Research (7-Volume): Early Civilizations to Modern Healthcare Systems

Computer Science

Computer Science Encyclopedia (13-Volume): From Its Theoretical Origins Up To 2026

Sarvarthapedia

Anthropology (12-Volume): The Study of Humankind – From Origins to 2026

Sanatan Dharma

Encyclopedia of Sanatan Dharma: Society, Politics, Militia, Rituals, and Philosophy of Vedic Civilization

Encyclopedia of Panini Ashtadhyayi

Encyclopedia of Panini’s Ashtadhyayi: Reading of Panini Grammar (Sutra Path – सूत्र पाठः)

Encyclopedia of Indian Law

Indian Law Encyclopedia: 101-Volume Statement on Indian Law

  • Anosh Ekka v. CBI (2026 INSC 357): SC Grants Bail to Former Jharkhand Minister in CBI DA Case
  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Ram v. Sukhram: Tribal women’s right in ancestral property [2025] 8 SCR 272
  • Indian Constitution
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders

Genesis-1 (Bereshit-1) — Torah Reading: Bereshit Bara Elohim – The Creation of the World

An Introduction to the Rashtriya Swayamsevak Sangh

Swami Pranabananda and the Making of Shyama Prasad Mukherjee’s Early Political Outlook

18th Lok Sabha Election 2024 in West Bengal: Party Position and Elected Members

Sarvarthapedia: The Knowledge Universe of Civilization

Dakshineswar Bhabatarini Kali: Three Kali Idols, Rani Rashmoni, and Temple History

Sarvarthapedia

  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subjects
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia Meta-Concept
  • Contact Us
  • Privacy Policy
  • FAQs
  • NEET
  • Library Updates
2026 All rights reserved © Advocatetanmoy Law Library by advocatetanmoy.