ओं [OM]
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीव्यासं ततो जयमुदीरयेत् ॥ 1.1.0॥
श्रीसूत उवाच [Sage Suta said]
ओं [OM] पराशरं मुनिवरं कृतपौर्वाह्निकक्रियम् ।
मैत्रेयः परिपप्रच्छ प्रणिपत्याभिवाद्य च ॥ 1.1.1 ॥
त्वत्तो हि वेदाध्ययनमधीतमखिलं गुरो ।
धर्मशास्त्राणि सर्वाणि तथाङ्गानि यथाक्रमम् ॥ 1.1.2॥
त्वाप्रसादान्मुनिश्रेष्ट मामन्ये नाकृतश्रमम् ।
वक्ष्यन्ति सर्वशास्त्रेषु प्रयशो येपि विद्विषः ॥ 1.1.3 ॥
सोहमिच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत् ।
बभूव भूयश्च यथा महाभाग भविष्यति ॥ 1.1.4 ॥
यन्मयं च जगद्ब्रह्मन्यतश्चौतच्चराचरम् ।
लीनमासीद्यथा यत्र लयमेष्यति यत्र च ॥ 1.1.5॥
यत्प्रमाणानि भूतानि देवादीनां च संभवम् ।
समुद्रपर्वतानां च संस्थानं च यथा भुवः ॥ 1.1.6॥
सूर्यादीनां च संस्थानं प्रमाणं मुनिसत्तम ।
देवादीनां तथा वंशान्मनून्मन्वन्तराणिच ॥ 1.1.7॥
कल्पान् कल्पविभागांश्च चातुर्युगविकल्पितान् ।
कल्पान्तस्य स्वरूपं च युगधर्मांश्च कृत्स्नशः ॥ 1.1.8॥
देवर्षिपार्थिवानां च चरितं यन्महामुने ।
वेदशाखाप्रणयनं यथावव्द्यासकर्तृकम् ॥ 1.1.8 ॥
धर्मांश्च ब्रह्मणादीनां तथा चाश्रमवासिनाम् ।
श्रेतुमिच्छाम्यहं सर्वं त्वत्तो वासिष्ठनन्दन ॥ 1.1.10 ॥
ब्रह्मन्प्रसादप्रवणं कुरुष्व मयि मानसम् ।
येनाहमेतज्जानीयां त्वत्प्रसादान्महामुने ॥ 1.1.11 ॥
श्रीपराशर उवाच [Sage Parasara said]
साधु मैत्रेय धर्मज्ञ स्मारितोस्मि पुरातनम् ।
पितुः पिता मे भगवान् वसिष्ठो यदुवाच ह ॥ 1.1.12 ॥
विश्वामित्रपुयुक्तेन रक्षसा भक्षितः पुरा ।
श्रुतस्तातस्ततः क्रोधे मैत्रेयाभून्ममातुलः ॥ 1.1.13 ॥
ततोऽहं रक्षसां सत्रं विनाशाय समारभम् ।
भस्मी भूताश्च शतशस्तस्मिन्सत्रे निशाचराः ॥ 1.1.14॥
ततः संक्षीयमाणेषु तेषु रक्षस्वशेषतः ।
मामुवाच महाभागो वसिष्ठी मत्पितामहः ॥ 1.1.15॥
अलमत्यन्तकोपेन तात मन्युमिमं जहि ।
राक्षसा नापराध्यन्ति पितुस्ते विहितं हि तत् ॥ 1.1.16॥
मूढानामेव भवति क्रोधो ज्ञानवतां कुतः ।
हन्यते तात कः केन यतः स्वकृतभुक्पुमान् ॥ 1.1.17॥
सञ्चिचस्यापि महता वत्स क्लेशेन मानवैः ।
यशसस्तपसश्चैव क्रोधो नाशकरः परः ॥ 1.1.18 ॥
स्वर्गापवर्गव्यासेधकारणं परमर्षयः ।
वर्जयन्ति सदा क्रोधं तात मा तद्वशो भवः ॥ 1.1.19॥
अलं निशाचरैर्धग्धैर्दीनैरनपकारिभिः ।
सत्रं ते विरमत्वेतत्क्षमासारा हि साधवः ॥ 1.1.20 ॥
एवं तातेन तेनाहमनुनीतो महात्मना ।
उपसंहृतवान्सत्रं सद्यस्तद्वाक्यगौरवात् ॥ 1.1.21 ॥
ततः प्रीतः स भगवान्वसिष्ठो मुनिसत्तमः ।
संप्राप्तश्च तदा तत्र पुलस्त्यो ब्रह्मणः सुतः ॥ 1.1.22 ॥
पितामहेन दत्तर्घ्यः कृतासनपरिग्रहः ।
मामुवाच महाभागो मैत्रेय पुलहाग्रजः ॥ 1.1.23 ॥
पुलास्त्य उवाच
वैरे महति यद्वाक्याद्गुरोरद्याश्रिता क्षमा ।
त्वया तस्मात्समस्तानि भवाञ्शास्त्राणि वेत्स्यति ॥ 1.1.24॥
संततेर्न ममोच्छेदः क्रुद्धेनापि यतः कृतः ।
त्वया तस्मान्महाभाग ददाम्यन्यं महावरम् ॥ 1.1.25॥
पुराणसंहिताकर्त भवान्वत्स भविष्यति ।
देवतापारमार्थ्यं च यथावद्वेत्स्यते भवान् ॥ 1.1.26॥
प्रवृत्ते च निवृत्ते च कर्मण्यस्तमला मतिः ।
मत्प्रसादादसंदिग्धा तव वत्स भविष्यति ॥ 1.1.27॥
ततश्च प्राह भगवान्वसिष्ठो मे पितामहः ।
पुलस्त्येन यदुक्तं ते सर्वमेतद्भविष्यति ॥ 1.1.28 ॥
इति पूर्वं वसिष्ठेन पुलस्त्येन च धीमता ।
यदुक्तं तत्स्मृतिं याति त्वत्प्रश्रादखिलं मम ॥ 1.1.29॥
सोऽहं वदाम्यशेषं ते मैत्रेय परिपृच्छते ।
पुरामसंहितां सम्यक्तां निबोध यथातथम् ॥ 1.1.30 ॥
विष्णोः सकाशादुद्भुतं जतत्तत्रैव च स्थितम् ।
स्थितिसंयमकर्तासौ जगतोस्य जगच्च सः ॥ 1.1.31 ॥
इति श्रिविष्णुपुराणे प्रथमेऽंशे प्रथमोऽध्यायः (1)
श्रीपराशर उवाच [Sage Parasara said]
अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ 1.2.1 ॥
नमो हिरण्यगर्भाय हरये शङ्कराय च ।
वासुदेवाय ताराय सर्वस्थित्यन्तकारिणे ॥ 1.2.2॥
एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः ।
अव्यक्तव्यक्तरूपाय विष्णवे मुक्तिहेतवे ॥ 1.2.3 ॥
सर्गस्थितिविनाशानां जगतो यो जगन्मयः ।
मूलभूतो नसम्तस्मै विष्णवे परमात्मने ॥ 1.2.4 ॥
आधारभूतं विश्वस्याप्यणीयांसमणीयसाम् ।
प्रणम्य सर्वभूतस्थमच्युतं पुरुषोत्तमम् ॥ 1.2.5॥
ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः ।
तमेवार्थस्वरूपेण भ्रन्तिदर्शनतः स्थितम् ॥ 1.2.6॥
विष्णु ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम् ।
प्रणम्य जगतामीशमजमक्षयमव्ययम् ॥ 1.2.7॥
कथयामि यथापूर्वं दक्षाद्यैर्मुनिसत्तमैः ।
पृष्टः प्रोवाच भगवानब्जयोनिः पितामहः ॥ 1.2.8॥
तैश्चोक्तं पुरुकुत्साय भूभुजे नर्मदातटे ।
सारस्वताय तेनापि मह्यं सारस्वतेन च ॥ 1.2.8 ॥
परः पराणां परमः परमात्मात्मसंस्थितः ।
रूपवर्णादिनिर्देशविशेषणविवर्जितः ॥ 1.2.10 ॥
अपक्षयविनाशाभ्यां परिणामर्द्धिजन्मभिः ।
वर्जितः शक्यते वक्तुं यः सदास्तीति केवलम् ॥ 1.2.11 ॥
सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः ।
ततः स वासुदेवेति विद्वद्भिः परिपठ्यते ॥ 1.2.12 ॥
तद्ब्रह्म परमं नित्यमजमक्षयमव्ययम् ।
एकस्वरूपं तु सदा हेयाभावाच्च निर्मलम् ॥ 1.2.13 ॥
तदेव सर्वमेवैतद्व्यक्ताव्यक्तस्वरूपवत् ।
तथा पुरुषरूपेण कालरूपेण च स्थितम् ॥ 1.2.14॥
परस्य ब्रह्मणो रूपं पुरूषः प्रथमं द्विज ।
व्यक्ताव्यक्ते तथैवान्ये रूपे कालस्तथापरम् ॥ 1.2.15॥
प्रधानपूरुषव्यक्तकालानां परमं हि यत् ।
पश्यन्ति सूरयः शुद्धं तद्विष्णोः परमं पदम् ॥ 1.2.16॥
प्रधानपूरुषव्यक्तकालास्तु प्रविभागशः ।
रूपाणि स्थितिसर्गान्तव्यक्तिसद्भावहेतवः ॥ 1.2.17॥
व्यक्तं विष्णुस्तथव्यक्तं पुरूषः काल एव च ।
क्रीडतो बालकस्येव चेष्टां तस्य निशामय ॥ 1.2.18 ॥
अव्यक्तं कारणं यत्तत्प्रधानमृषिसत्तमैः ।
प्रोच्यते प्रकृतिः सीक्ष्मा नित्यं सदसदात्मकम् ॥ 1.2.19॥
अक्षय्यं नान्यदाधारममेयमजरं ध्रुवम् ।
शब्दस्पर्शविहीनं तद्रूपादिभिरसंहितम् ॥ 1.2.20 ॥
त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् ।
तेनाग्रे सर्वमेवासीव्द्याप्तं वै प्रलयादनु ॥ 1.2.21 ॥
वेदवादविदो विद्वन्नियता ब्रह्मवादिनः ।
पठन्ति चैतमेवार्थं प्रधानप्रतिपादकम् ॥ 1.2.22 ॥
नाहो न रात्रिर्न नभो न भूमिर्नासीत्तमोज्योतिरभूच्च नान्यत् ।
श्रोत्रादिबुद्ध्यानुपलभ्यमेकं प्राधानिकं ब्रह्म पुमांस्तदासीत् ॥ 1.2.23 ॥
विष्णोः स्वरूपात्परतोदिते द्वे रूपे प्रधानं पुरूषश्च विप्र ।
तस्यैव तेऽन्येन धृते वियुक्ते रूपातरं तद्द्विज कालसंज्ञम् ॥ 1.2.24॥
प्रकृतौ संस्थितं व्यक्तमतीतप्रलये तु यत् ।
तस्मात्प्राकृतसंज्ञोयमुच्यते प्रतिसंचरः ॥ 1.2.25॥
अनादिर्भगवान्कालो नान्तोस्त द्विज विद्यते ।
अव्युच्छिन्नस्ततस्त्वेते सर्गस्थित्यन्तसंयमाः ॥ 1.2.26॥
गुणसाम्ये ततस्तस्मिन्पृथक्पुंसि व्यवस्थिते ।
कालस्वरूपं तद्विष्णोर्मैत्रेय परिवर्तते ॥ 1.2.27॥
ततस्तु तत्परं ब्रह्म परमात्मा जगन्मयः ।
सर्वगः सर्वभूतेशः सर्वात्मा परमेश्वरः ॥ 1.2.28 ॥
प्रधानपुरूषौ चापि प्रविश्यात्मेच्छया हरिः ।
क्षोभयामास संप्राप्ते सर्गकाले व्ययाव्ययौ ॥ 1.2.29॥
यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते ।
मनसो नोपकर्तृत्वात्तथासौ परमेश्वरः ॥ 1.2.30 ॥
स एव क्षोभको ब्रह्मन् क्षोभ्यश्च पुरूषोत्तमः ।
स संकोचविकासाभ्यां प्रधानत्वेपि च स्थितः ॥ 1.2.31 ॥
विकासाणुस्वरूपैश्च ब्रह्मरूपादिभिस्तथा ।
व्यक्तस्वरूपश्च तथा विष्णुः सर्वेश्वरेश्वरः ॥ 1.2.32 ॥
गुणसाम्यात्ततस्तस्मात्क्षेत्रज्ञाधिष्ठितान्मुने ।
गुणव्यञ्जनसंभूतिः सर्गकाले द्विजोत्तम ॥ 1.2.33 ॥
प्रधानतत्त्वमुद्भूतं महान्तं तत्समावृणोत् ।
सात्त्विको राजसश्चैव तामसश्च त्रिधा महान् ॥ 1.2.34॥
प्रधानतत्त्वेन समं त्वचा बीज मिवावृतम् ।
वैकारेकस्तैजसश्च भूतादिश्चैव तामसः ॥ 1.2.35॥
त्रिविधोयमहङ्कारो महत्तत्त्वादजायत ।
भीतेन्द्रियाणां हेतुःस त्रिगुणत्वान्महामुने ।
यथा प्रधानेन महान्महता स तथा वृतः ॥ 1.2.36॥
भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकं ततः ।
ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ॥ 1.2.37॥
शब्दमात्रं तथाकाशं भूतादिः स समावृणोत् ।
अकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह ॥ 1.2.38 ॥
बलवानभवद्वायुस्तस्य स्पर्शो मुणो मतः ।
आकाशं शब्दमात्रं तु स्वर्शमात्रं समावृणोत् ॥ 1.2.39॥
ततो वायुर्विकुर्वाणो रूपमात्रं ससर्ज ह ।
ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ॥ 1.2.40 ॥
स्पर्शमात्रं तु वै वायू रूपमात्रं समावृणोत् ।
ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह ॥ 1.2.41 ॥
सम्भवन्ति ततोंभांसि रसाधाराणि तानि च ।
रसमात्राणि चाम्भांसि रूपमात्रं समावृणोत् ॥ 1.2.42 ॥
विकुर्वाणानि चाम्भांसि गन्धमात्रं सस र्जिरे ।
संघातो जायते तस्मात्तस्य गन्धो गुणो मतः ॥ 1.2.43 ॥
तस्मिंस्तस्मिंस्तु तन्मात्रं तेन तन्मात्रता स्मृता ॥ 1.2.44॥
तन्मात्रण्यविशेषाणि अविशेषास्ततो हि ते ॥ 1.2.45॥
न शान्ता नापि धोरास्ते न मूढाश्चाविशेषिणः ।
भूततन्मात्रसर्गोयमहङ्कारात्तु तामसात् ॥ 1.2.46॥
तेजसानीन्द्रियाण्याहुर्देवा वैकारिका दश ।
एकादशं मनश्चात्र देवा वैकारिकाः स्मृताः ॥ 1.2.47॥
त्वक्चक्षुर्नासिका जिह्वा श्रोत्रमत्र च पञ्च मम् ।
शब्दादीनामवाप्त्यर्थं बुद्धियुक्तानि वै द्विज ॥ 1.2.48 ॥
पायूपस्थौ करौ पादौ वाक्च मैत्रेय पञ्चमी ।
विसर्गशिल्पगत्युक्ति कर्म तेषां च कथ्यते ॥ 1.2.49॥
आकाशवायुतेजांसि सलिलं पृथिवी तथा ।
शब्दादिभिर्गुणैर्ब्रह्मन्संयुक्तान्युत्तरोत्तरै ॥ 1.2.50 ॥
शान्ता घोराश्च मूढाश्च विशेषस्तेन ते स्मृताः ॥ 1.2.51 ॥
नानाविर्याः पृथग्भूतास्ततस्ते संहतिं विना ।
नाशक्नुवन्प्रजाः स्रष्टुमसमागम्य सृत्स्त्रशः ॥ 1.2.52 ॥
समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः ।
एकसंघातलक्ष्याश्च संप्राप्यैक्यमशेषतः ॥ 1.2.53 ॥
पुरुषाधिष्ठितत्वाच्च प्रधानानुग्रहेण च ।
महदाद्य विशेषान्ता ह्यण्डमुत्पादयन्ति ते ॥ 1.2.54॥
तत्क्रमेण विवृद्धं सज्जलबुद्बुदवत्समम् ।
भूतेभ्योण्डं महाबुद्धे महत्तदुदकेशयम् ।
प्रकृतं ब्रह्मरूपस्य विष्णोः स्थानमनुत्तमम् ॥ 1.2.55॥
तत्राव्यक्तस्वरूपोऽसौ व्यक्तरूपो जगत्पतिः ।
विष्णुर्ब्रह्मस्वरूपेण स्वयमेव व्यवस्थितः ॥ 1.2.56॥
मेरुरुल्बमभूत्तस्य जरायुश्च महीधराः ।
गर्भोदकं समुद्राश्च तस्यासन्सुमहात्मनः ॥ 1.2.57॥
साद्रिद्वीपसमुद्राश्च सज्योतिर्लोकसंग्रहः ।
तस्मिन्नण्डेऽभवद्विप्र सदेवासुरमानुषाः ॥ 1.2.58 ॥
वारिवह्न्यनिलाकाशैस्ततो भूतादिना बहिः ।
वृतं दशगुणैरण्डं भूतादिर्महता तथा ॥ 1.2.59॥
अव्यक्तेनावृतो ब्रह्मंस्तै सर्वैः सहितो महान् ।
एभिरावरणैरण्डं सप्तभिः प्रकृतैर्वृतम् ।
नालिकेरफलस्यान्तर्बाजं बाह्यदलैरिव ॥ 1.2.60 ॥
जुषन् रजो गुणं तत्र स्वयं विश्वेश्वरो हरिः ।
ब्रह्माभूत्वास्य जगतो विसृष्टौ संप्रवर्तते ॥ 1.2.61 ॥
सृष्टं च पात्यनुयुगं यावत्कल्पविकल्पना ।
सत्त्वभृद्भगवान्विष्णुरप्रमेयपराक्रमः ॥ 1.2.62 ॥
तमोद्रेकी च कल्पान्ते रुद्ररूपी जर्नादनः ।
मैत्रेयाखिलभूतानि भक्षयत्यतिदारूणः ॥ 1.2.63 ॥
भक्षयित्वा च भूतानि जगत्येकाणवीकृते ।
नागपर्यङ्कशयने शेते च परमेश्वरः ॥ 1.2.64॥
प्रबुद्धश्च पुनः सृष्टिं करोति ब्रह्मरूपधृक् ॥ 1.2.65॥
सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् ।
स संज्ञां याति भगवानेक एव जनार्दनः ॥ 1.2.66॥
स्त्रष्टा सृजति चात्मानं विष्णुः पाल्यं च पाति च ।
उपसंह्रियते चान्ते संहर्ता च स्वयं प्रभुः ॥ 1.2.67॥
पृथिव्यापस्तथा तेजो वायुराकाश एव च ।
सर्वेन्द्रियान्तःकरणं पुरुषाख्यं हि यज्जगत् ॥ 1.2.68 ॥
स एव सर्वभूतात्मा विश्वरूपो यतोऽव्ययः ।
सर्गादिकं तु तस्यैव भूतस्थमुपकारकम् ॥ 1.2.69॥
स एव सृज्यः स च सर्गकर्ता स एव पात्यत्ति च पाल्यते च ।
ब्रह्माद्यवस्थाभिरशेषमूर्तिर्विष्णुर्वरिष्ठो वरदो वरेण्यः ॥ 1.2.70 ॥
इति श्रीविष्णुपुराणे प्रथमेऽंशें द्वितीयोऽध्यायः (2)
मैत्रेय उवाच
निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मनः ।
कथं सर्गादिकर्तृत्वं ब्रह्मणोभ्युपगम्यते ॥ 1.3.1 ॥
श्रीपराशार उवाच
शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः ।
यतोऽतो ब्रह्मणस्तस्तु सर्गाद्या भावशक्तयः ।
भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता ॥ 1.3.2॥
तन्निबोध यथा सर्गे भगवान्संप्रवर्तते ।
नारायणाख्यो भगवान्ब्रह्मा लोकपितामाहः ॥ 1.3.3 ॥
उत्पन्नः प्रोच्यते विद्वन्नित्यमेवोपचारतः ॥ 1.3.4 ॥
निजेन तस्य मानेन आयुर्वर्षशतं स्मृतम् ।
तत्पराख्यं तदर्द्ध च परार्धमभिधियते ॥ 1.3.5॥
कालस्वरूपं विष्णोश्च यन्मयोक्तं तवानघ ।
तेन तस्य निबोधे त्वं परिमाणोपपादनम् ॥ 1.3.6॥
अन्येषां चैव जन्तूनां चराणामचराश्च ये ।
भूभृत्सागरादीनामशेषाणां च सत्तम ॥ 1.3.7॥
काष्ठा पञ्चदशाख्याता निमेषा मुनिसत्तम ।
काष्ठात्रिंशत्कला त्रिंशत्कला मौहूर्तिको विधिः ॥ 1.3.8॥
तावत्संख्यैरहोरात्रं मुहूर्तैर्मानुषं स्मृतम् ।
अहोरात्राणि तावन्ति मासः पक्षद्वयात्मकः ॥ 1.3.8 ॥
तैः षड्भिरयनं वर्षं द्वेऽयने दक्षिणोत्तरे ।
अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम् ॥ 1.3.10 ॥
दिव्यैर्वर्षसहस्रैस्तु कृतत्रेतादिसंज्ञितम् ।
चतुर्युगं द्वादशभिस्तद्विभागं निबोद मे ॥ 1.3.11 ॥
चत्वारित्रीणि द्वे चैकं कृतादिषु यथाक्रमम् ।
द्विव्याब्दानां सहस्राणि युगोष्वाहुः पुराविदः ॥ 1.3.12 ॥
तत्प्रमाणैः शतैः संध्या पूर्वा तत्राभिधीयते ।
सन्ध्यांशश्चैव तत्तुल्यो युगस्यानन्तरो हि सः ॥ 1.3.13 ॥
सन्ध्यासंध्यांशयोरन्तर्यः कालो मुनिसत्तम ।
युगाख्यः स तु विज्ञेयः कृतत्रेतादिसंज्ञितः ॥ 1.3.14॥
कृतं त्रेता द्वापरश्च कलिश्चैव चतुर्युगम् ।
प्रोच्यते तत्सहस्रं व ब्रह्मणां दिवसं मुने ॥ 1.3.15॥
ब्रह्मणो दिवसे ब्रह्मन्मनवस्तु चतुर्दश ।
भवन्ति परिणामं च तेषां कालकृतं शृणु ॥ 1.3.16॥
सप्तर्षयः सुराः शक्त्रो मनुस्तत्सूनवो नृपाः ।
एककाले हि सृज्यन्ते संह्नियन्ते च पूर्ववत् ॥ 1.3.17॥
चतुर्युगाणां संख्याता साधिका ह्येकसप्ततिः ।
मन्वन्तरं मनोः कालः सुरादीनां च सत्तम ॥ 1.3.18 ॥
अष्टौ शत सहस्राणि दिव्यया संख्यया स्मृतम् ।
द्विपञ्चाशत्तथान्यानि सहस्राण्यधिकानि तु ॥ 1.3.19॥
त्रिंशत्कोट्यस्तु संपूर्णाः संख्याताः संख्यया द्विज ।
सप्तषष्टिस्तथान्यानि नियुतानि महामुने ॥ 1.3.20 ॥
विंशतिस्तु सहस्राणि कालोयमधिकं विना ।
मन्वन्तरस्य संख्येयं मानुषैर्वत्सरैर्द्विज ॥ 1.3.21 ॥
चतुर्दशगुणो ह्येष कालो ब्रह्ममहः स्मृतम् ।
ब्रह्मो नैमित्तिको नाम तस्यान्ते प्रतिसञ्चरः ॥ 1.3.22 ॥
तदा हि दह्यते सर्व त्रैलोक्यं भूर्भुवादिकम् ।
जनं प्रयान्ति तापार्ता महर्लोकनिवासिनः ॥ 1.3.23 ॥
एकार्णवे तु त्रैतोक्ये ब्रह्मा नारायणात्मकः ।
भोगिशय्यां गतः शेते त्रैलोक्यग्रासबृंहितः ॥ 1.3.24॥
जनस्थैर्योगिभिर्देवश्चित्यमानोब्जसम्भवः ।
तत्प्रमाणां हि तांरात्रिं तदन्ते सृजते पुनः ॥ 1.3.25॥
एवं तु ब्रह्मणो वर्षमेवं वर्षशतं च यत् ।
शतं हिं तस्य वर्षाणां परमायुर्महात्मनः ॥ 1.3.26॥
एकमस्य व्यतीतं तु परार्धं ब्रह्मणोऽनघ ।
तस्यान्तेभून्महाकल्पः पाद्म इत्यभिविश्रुतः ॥ 1.3.27॥
द्वितीयस्य परार्धस्य वर्तमानस्य वै द्विज ।
वाराह इति कल्पोयः प्रथमः परिकीर्तितः ॥ 1.3.28 ॥
इति श्रीविष्णुपुराणे प्रथमेऽंशे तृतीयोऽध्यायः (3)
श्रीमैत्रेय उवाच
ब्रह्मनारायणाख्योऽसै कल्पादौ भगवान्यथा ।
ससर्ज सर्वभूतानि तदाचक्ष्व महामुने ॥ 1.4.1 ॥
श्रीपराशर उवाच [Sage Parasara said]
प्रजाः ससर्ज भगवान्ब्रह्मा नारायणात्मकः ।
प्रजापतिपतिर्देवो यथा तन्मे निशामय ॥ 1.4.2॥
अतीतकल्पावसाने निशासुप्तोत्थितः प्रभुः ।
सत्त्वोद्रिक्तस्तथा ब्रह्मा शून्यं लोकमवैक्षत ॥ 1.4.3 ॥
नारायणः परोऽचिन्त्यः परेषामपि स प्रभुः ।
ब्रह्मस्वरूपी भगवाननादिः सर्वसम्भवः ॥ 1.4.4 ॥
इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति ।
ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम् ॥ 1.4.5॥
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥ 1.4.6॥
तोयान्तःस्थां महीं ज्ञात्वा जगत्येकार्णवीकृते ।
अनुमानात्तदुद्धारं कर्तुकामः प्रजापतिः ॥ 1.4.7॥
अकरोत्स्वतनूमन्यां कल्पादिषु यथा पुरा ।
सत्स्यकूर्मादिकां तद्वद्वाराहं वरुरास्थितः ॥ 1.4.8॥
वेदयज्ञमयं रूपमशेषजगतः स्थितौ ।
स्थितः स्थिरात्मा सर्वात्मा परमात्मा प्रजापतिः ॥ 1.4.8 ॥
जनलोकगतैः सिद्धैः सनकाद्यैरभिष्टुतः ।
प्रविवेश तदा तोयमात्माधारो धराधरः ॥ 1.4.10 ॥
निरीक्ष्य तं तदा देवी पातालातलमागतम् ।
तुष्टाव प्रणता भूत्वा भक्तिनम्रा वसुन्धरा ॥ 1.4.11 ॥
श्रीपृथिव्युवाच
नमस्ते पुण्डरीकाक्ष शङ्खचक्रगदाधर ।
मामुद्धरास्मादद्य त्वं त्वत्तोऽहं पूर्वसुत्थिता ॥ 1.4.12 ॥
त्वयाहमुद्धृता पूर्वं त्वन्मयाहं जनार्दन ।
तथान्यानि च भूतानि गगनादिन्यशेषतः ॥ 1.4.13 ॥
नमस्ते पर मात्मात्मन्पुरुषात्मन्नमोस्तु ते ।
प्रधानव्यक्तभूताय कालभूताय ते नमः ॥ 1.4.14॥
त्वं कर्ता सर्वभूतानां त्वं पाता त्वं विनाशकृत् ।
सर्गादिषु प्रभो ब्रह्मविष्णुरुद्रात्मरूपधृक् ॥ 1.4.15॥
सम्भक्षयित्वा सकलं जगत्येकार्णवीकृते ।
शेषे त्वमेव गोविन्द चिन्त्यमानो मनीषिभिः ॥ 1.4.16॥
भवतो यत्परं तत्त्वं तन्न जानाति कश्चन ।
अवतारेषु यद्रूपं तदर्चन्ति दिवौकसः ॥ 1.4.17॥
त्वामाराध्य परं ब्रह्म याता मुक्तिं मुमुक्षवः ।
वासुदेवमनाराध्य को मोक्षं समवाप्स्यति ॥ 1.4.18 ॥
यत्किञ्चिन्मनसा ग्राह्यं यद्ग्रह्यं चक्षुरादिभिः ।
बुद्ध्या च यत्परिच्छेद्यं तद्रूपमखिलं तव ॥ 1.4.19॥
त्वन्मयाहं त्वदाधारा त्वत्सृष्टा त्वत्समाश्रया ।
माधवीमिति लोकोयमभिधत्ते ततो हि माम् ॥ 1.4.20 ॥
जयाखिलज्ञानमय जय स्थूलमयाव्यय ।
जयानन्त जयाव्यक्त जय व्यक्तमय प्रभो ॥ 1.4.21 ॥
परापरात्मन्विश्वात्मञ्जय यज्ञ पतेऽनघ ।
त्वं यज्ञस्त्वं पषट्कारस्त्वमोङ्कारस्त्वमग्नयः ॥ 1.4.22 ॥
त्वं वेदास्त्वं तदङ्गानि त्वं यज्ञपुरुषो हरे ।
सूर्यादयो ग्रहास्तारा नक्षत्राण्य खितं जगत् ॥ 1.4.23 ॥
मूर्तामूर्तमदृश्यं च दृश्यं च पूरुषोत्तम ।
यच्चोक्तं यच्च नैवोक्तं मयात्र परमेश्वर ।
तत्सर्वं त्वं नमस्तुभ्यं भूयोभूयो नमोनमः ॥ 1.4.24॥
श्रीपराशर उवाच [Sage Parasara said]
एवं संस्तूयमानस्तु पृथिव्या धरणीधरः ।
सामस्वरध्वनिः श्रीमाञ्जगर्ज परिघर्घरम् ॥ 1.4.25॥
ततः समुत्क्षिप्य धरां स्वदंष्ट्रया महावराहः स्फुटपद्मलोचनः ।
रसातलादुत्पलपत्रसन्निभः समुत्थितो नील इवाचलो महान् ॥ 1.4.26॥
उत्तिष्ठता तेन मुखानिलाहतं तत्संभवाम्भो जनलोकसंश्रयान् ।
प्रक्षालयामास हि तान्महाद्युतीन् सनान्दनादीनपकल्मषान्मुनीन् ॥ 1.4.27॥
प्रयानिति तोयानि खुराग्रविक्षतरसातलेऽधः कृतशब्दसन्तति ।
श्वसानिलास्ताझ परितः प्रयान्ति सिद्धा जने ये नियता वसन्ति ॥ 1.4.28 ॥
उत्तिष्ठतस्तस्य जलार्द्रकुक्षेर्महावराहस्य महीं विगृह्य ।
विधुन्वतो वेदमयं शरीरं रोमान्तरस्था मुनयः स्तुवन्ति ॥ 1.4.29॥
त तुष्टुवुस्तोषपरीतचेतसो लोके जने ये निवसन्ति योगिनः ।
सनन्दनाद्या ह्यतिनम्रकन्धरा धराधरं धीरतरोद्धतेक्षणम् ॥ 1.4.30 ॥
जयेश्वराणां परमेश केशव प्रभो गदाशङ्खधरासिचक्रधृक् ।
प्रसूतिनाशस्थिहेतुरीश्वरस्त्वमेव नान्यत्परमं च यत्पदम् ॥ 1.4.31 ॥
पादेषु देदास्तव यूपदंष्ट्रा दन्तेषु जज्ञाश्चितयश्च वक्त्रे ।
हुताशजिह्वोसि तनुरुहाणि दर्भाः प्रभो यज्ञपुमांस्त्वमेव ॥ 1.4.32 ॥
विलोचने रात्र्यहनी महात्मन्सर्वाश्रयं ब्रह्मपरं शिरस्ते ।
सूक्तान्यशेषाणि सटाकलापो घ्राणं समस्तानि हवींषि देव ॥ 1.4.33 ॥
मुक्तुण्डसामस्वरधीरनादप्राग्वंशकाया खिलसत्रसन्धे ।
पूर्तेष्टधर्मश्रवणोसि देव सनातनात्मन्भगवन्प्रसीद ॥ 1.4.34॥
पदक्रमाक्रान्तभुवं भवन्तमादिस्थितं चाक्षरविश्वमूर्ते ।
विश्वस्य विद्मः परमेश्वरोऽसि प्रसीद नाथोसि परावरस्त ॥ 1.4.35॥
दंष्ट्राग्रविन्यस्तमशेषमेतद्भुमण्डलं नाथ विभाव्यते ते ।
विगाहतः पद्मवनं विलगानं सरोजिनीपत्रमिवोढपङ्कम् ॥ 1.4.36॥
द्यावापृथिव्योरतुलप्रभाव यदन्तरं तद्वपुषा तवैव ।
व्याप्तं जगव्द्याप्तिसमर्थदीप्ते हिताय विश्वस्य विभो भव त्वम् ॥ 1.4.37॥
परमार्थस्त्वमेवैको नान्योस्ति जगतः पते ।
तवैष महिमा येन व्याप्तमेतच्चराचरम् ॥ 1.4.38 ॥
यदेतद्दृश्यते मूर्तमेतज्ज्ञानात्मनस्तव ।
भ्रान्तिज्ञानेन पश्यन्ति जगद्रूपमयोगिनः ॥ 1.4.39॥
ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः ।
अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसंप्लवे ॥ 1.4.40 ॥
येतु ज्ञानविदः सुद्धचेतसस्तेऽखिलं जगत् ।
ज्ञानात्मकं प्रपश्यन्ति त्वद्रूपं परमेश्वर ॥ 1.4.41 ॥
प्रसीद सर्व सर्वात्मन्भवाय जगतामिमाम् ।
उद्धरोर्वीममेयात्मञ्छन्नो देह्यब्जलोचन ॥ 1.4.42 ॥
सत्त्वोद्रिक्तोऽसि भगवन् गोविन्द पृथिवीमिमाम् ।
समुद्धर भवायेश शन्नो देह्यब्जलोचन ॥ 1.4.43 ॥
सर्गप्रवृत्तिर्भवतो जगतामुपकारिणि ।
भवत्वेषा नमस्तेऽस्तु शन्नो देह्यब्जलोचन ॥ 1.4.44॥
श्रीपारशर उवाच
एवं संस्तूयमानस्तु परमात्मा महीधरः ।
उज्जहार क्षितिं क्षिप्रं न्यस्तवांश्च महाम्भसि ॥ 1.4.45॥
तस्योपरि जलौघस्य सहती नौरिव स्थिता ।
विततत्त्वात्तु देहस्य न मही याति संप्लावम् ॥ 1.4.46॥
ततः क्षितिं समां कृत्वा पृथिव्यां सोचिनोद्गिरीन् ।
यथाविभागं भगवाननादिः परमेश्वरः ॥ 1.4.47॥
प्राक्सर्गदग्धानखिलान् पर्वतान् पृथिवीतले ।
अमोघेन प्रभावेण ससर्जामोघवाञ्छितः ॥ 1.4.48 ॥
भूविभागं ततः कृत्वा सप्तद्वीपान्यथातथम् ।
भूराद्यांश्चतुरो लोकान्पूर्ववत्समकल्पयत् ॥ 1.4.49॥
ब्रह्मरूपधरो देवस्ततोऽसौ रजसा वृतः ।
चकार सृष्टिं भगवांश्चतुर्वक्रधरो हरिः ॥ 1.4.50 ॥
निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि ।
प्रधानकारणीभूता यतो वै सृज्यशक्तयः ॥ 1.4.51 ॥
निमित्तमात्रं मुक्त्वैवं नान्यत्किञ्चिदपेक्षते ।
नीयते तपतां श्रेष्ट स्वशक्त्या वस्तु वस्तुताम् ॥ 1.4.52 ॥
इति श्रीविष्णुपुराणे प्रथमेऽंशे पृथिव्युद्धारश्चतुर्थोऽध्यायः (4)
श्रीमैत्रेय उवाच
यथा ससर्ज देवोऽसौ देवर्षिपितृदान वान् ।
मनुष्यतिर्यग्वृक्षादीन्भूव्योमसलिलौकसः ॥ 1.5.1 ॥
यद्गुणं यत्स्वभावं च यद्रूपं च जगद्द्विज ।
सर्गादौ सृष्टवान्ब्रह्मा तन्ममाचक्ष्व कृत्स्त्रशः ॥ 1.5.2॥
श्रीपराशर उवाच [Sage Parasara said]
मैत्रेय कथयाम्येतच्छृषुष्व सुसमाहितः ।
यथा ससर्ज देवोसौ देवादीनखिलान्विभुः ॥ 1.5.3 ॥
सृष्टिं चिन्तय तस्तस्य कल्पादिषु यथा पुरा ।
अबुद्धिपूर्वकः सर्गः प्रादुर्भूतस्तमोमयः ॥ 1.5.4 ॥
तमोमोहो महामोहस्तामिस्त्रो ह्यन्धसंज्ञितः ।
अविद्य पञ्चपर्वैषा प्रागुर्भूता महात्मनः ॥ 1.5.5॥
पञ्चधावस्थितः सर्गो ध्यायतो प्रतिबोधवान् ।
बहिरन्तोऽप्रकाशश्च संवृतात्मा नगात्मकः ॥ 1.5.6॥
मुख्या नगा यतः प्रोक्ता मुख्यसर्गस्ततस्त्वयम् ॥ 1.5.7॥
तं दृष्वासाधकं सर्गममन्यदपरं पुनः ॥ 1.5.8॥
तस्याभिध्यायतः सर्गस्तिर्यक्स्त्रोतोभ्यवर्तत ।
यस्मात्तिर्यक्प्रवृत्तिस्य तिर्यक्स्त्रोतास्ततः स्मृतः ॥ 1.5.8 ॥
पश्वादयस्ते विख्याता स्तमःप्राया ह्यवेदिनः ।
उत्पथग्राहिणश्चैव तेऽज्ञाने ज्ञानमानिनः ॥ 1.5.10 ॥
अहङ्कृता अहंमाना अष्टाविंशद्वधात्मकाः ।
अतः प्रकाशास्ते सर्वे आवृताश्च परस्परम् ॥ 1.5.11 ॥
तमप्यसाधकं मत्वा ध्यायतोन्यस्ततोऽभवत् ।
ऊर्ध्वस्त्रेतास्तृतीयस्तु सात्त्विकोर्ध्वमवर्तत ॥ 1.5.12 ॥
ते सुखप्रीतिबहुला बहिरन्तश्च नावृताः ।
प्रकाशा बहिरन्तश्च ऊर्ध्वस्त्रोतोद्भवाः स्मृताः ॥ 1.5.13 ॥
तुष्टात्मानस्तृतीयस्तु देवसर्गस्तु स स्मृतः ।
तस्मिन्सर्गेभवत्प्रीतिर्निष्पन्ने ब्रह्मणस्त दा ॥ 1.5.14॥
ततोन्यं स तदा दध्यौ साधकं सर्गमुत्तमम् ।
असाधकांस्तु ताञ्ज्ञात्वाः मुख्यसर्गादिसम्भवान् ॥ 1.5.15॥
तथाभिध्यायतस्तस्य सत्याभिध्यायिनस्ततः ।
प्रादुर्बभूव चाव्यक्तादर्वास्त्रेतास्तु साधकः ॥ 1.5.16॥
यस्मादर्वाग्व्यवर्तन्त ततोर्वाक्स्त्रोतसस्तु ते ।
ते च प्रकाशबहुलास्तमोद्रिक्ता रजोधिकाः ॥ 1.5.17॥
तस्मात्ते दुःखबहुला भूयोभूयश्च कारिणः ।
प्रकाशा बहिरन्तश्च मनुष्याः साधकास्तु ते ॥ 1.5.18 ॥
इत्येते कथिताः सर्गाः षडत्र मुनिसत्तम ।
प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः ॥ 1.5.19॥
तन्मात्राणां द्वितीयश्च भूतसर्गो हि स स्मृतः ।
वैकारिकस्तृतीयस्तु सर्ग एन्द्रियकः स्मतः ॥ 1.5.20 ॥
इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः ।
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ॥ 1.5.21 ॥
तिर्यक्स्त्रोतास्तु यः प्रोक्तस्तैर्यग्योन्यः स उच्यते ।
तदूर्ध्वस्त्रोतसां षष्ठो देवसर्गस्तु संस्मृतः ॥ 1.5.22 ॥
ततोर्ऽवाक्स्त्रोतसां सर्गः सप्तमः स तु मानुषः ॥ 1.5.23 ॥
अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसश्च सः ।
पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः ॥ 1.5.24॥
प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः ।
इत्येते वै समाख्याता नव सर्गाः प्रजापतेः ॥ 1.5.25॥
प्राकृता वैकृताश्चैव जगतो मूलहेतवः ।
सृजतो जगदीशस्य किमन्यञ्छ्रोतुमिच्छसि ॥ 1.5.26॥
श्रीमैत्रेय उवाच
संक्षेपात्कथितः सर्गे देवादीनां मुने त्वया ।
विस्तराच्छ्रोतुमिच्छमि त्वत्तो मुनिवरोत्तम ॥ 1.5.27॥
श्रीपराशर उवाच [Sage Parasara said]
कर्मभिर्भाविताः पूर्वैः कुशलाः कुशलैस्तु ताः ।
ख्यात्या तया ह्यनिर्मुक्ताः संहारे ह्युपसंहृताः ॥ 1.5.28 ॥
स्थावरान्ताः सुराद्यास्तु प्रजा ब्रह्मश्चतुर्विधाः ।
ब्रह्मणः कुर्वतः सृष्टिं जज्ञिरे मानसास्तु ताः ॥ 1.5.29॥
ततो देवासुरपितॄन्मनुष्यांश्च चतुष्टयम् ।
सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयुजत् ॥ 1.5.30 ॥
युक्तात्मनस्तमोमात्रा ह्युद्रिक्ताभूत्प्रजापतेः ।
सिसृक्षोर्जघनात्पूर्वमसुरा जज्ञिरे ततः ॥ 1.5.31 ॥
उत्ससर्ज ततस्तां तु तमोमात्रात्मिकां तनुम् ।
सा तु व्यक्ता तनुस्तेन मैत्रेयाभूद्विभावरी ॥ 1.5.32 ॥
सिसृक्षुरन्यदेहस्थः प्रीतिमाप ततः सुराः ।
सत्त्वोद्रिक्ताः समुद्भुता मुखतो ब्रह्मणो द्विजः ॥ 1.5.33 ॥
त्यक्ता सापि तनुस्तेन सत्त्वप्रायमभूद्दिनम् ।
ततो हि बलिनो रात्रावसुरा देवता दिवा ॥ 1.5.34॥
सत्त्वमात्रात्मिकामेव ततोन्यां जगृहे तनुम् ।
पितृवन्मन्यमानस्य पितरस्तस्य जज्ञिरे ॥ 1.5.35॥
उत्ससर्ज ततस्तां तु पितॄन्सृष्ट्वापि स प्रभुः ।
सा चोत्सृष्टाभवत्संध्या दिन नक्तान्तरस्थिता ॥ 1.5.36॥
रजोमात्रात्मिकामन्यां जगृहे स तनुं ततः ।
रजोमात्रोत्कटा जाता मनुष्या द्विजसत्तम ॥ 1.5.37॥
तामप्याशु स तत्याज तनुं सद्यः प्रजापतिः ।
ज्योत्स्त्रा समभवत्सापि प्राक्सन्ध्या याभिधीयते ॥ 1.5.38 ॥
ज्योत्स्त्रागमे तु बलिनो मनुष्याः पितरस्तथा ।
मैत्रेय संध्यासमये तस्मादेते भवन्ति वै ॥ 1.5.39॥
ज्योत्स्ना रात्र्यहनि संध्या चत्वार्यतानि वै प्रभोः ।
ब्रह्मणस्तु शरीराणि त्रिगुणोपाश्रयाणि तु ॥ 1.5.40 ॥
रजोमात्रात्मिकामेव ततोन्यां जगृहे तनुम् ।
ततः क्षुद्ब्रह्मणो जाता जज्ञे कामस्तया ततः ॥ 1.5.41 ॥
क्षुत्क्षामानन्धकारेथ सोसृजद्भगवांस्ततः ।
वुरूपाः श्मश्रुला जातास्तेभ्यधावं स्ततः प्रभुम् ॥ 1.5.42 ॥
मैवं भो रक्ष्यतामेष यैरुक्तं राक्षसास्तु ते ।
ऊचुः खादाम इत्यन्ये ये ते यक्षास्तु जक्षणात् ॥ 1.5.43 ॥
अप्रियेण तु तान्दृष्ट्वा केशाः शीर्यन्तवेधसः ।
हीनाश्च शिरसो भूयः समारोहन्त तच्छिरः ॥ 1.5.44॥
सर्पणात्तेऽभवन् सर्पा हीनत्वादहयः स्मृताः ।
ततः क्रुद्धो जगत्स्त्रष्टा क्रोधात्मानो विनिर्ममे ।
वर्णेन कपिशेनोग्रभूतास्ते पिशिताशनाः ॥ 1.5.45॥
ध्यायतोङ्गात्समुत्पन्ना गन्धर्वास्तस्य तत्क्षणात् ।
पिबन्तो जज्ञिरे वाचं गन्धर्वास्तेन ते द्विज ॥ 1.5.46॥
एतानि सृष्ट्वा भगवान्ब्रह्म तच्छक्तिचोदितः ।
ततः स्वच्छन्दतोन्यानि वयांसि वयसोऽसृजत् ॥ 1.5.47॥
अपयो वक्षसश्चक्रे मुखतोजाः स सृषृवान् ।
सृशृवानुदराद्गाश्च पार्श्वभ्यां च प्रजापतिः ॥ 1.5.48 ॥
पद्भ्यां चाश्वान्समातङ्गान्रासभान्गवयान्मृगान् ।
उष्ट्रानश्वतरांश्चैव न्यङ्कूनन्याश्च जातयः ॥ 1.5.49॥
ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जत्रिरे ।
त्रेतायुगमुखे ब्रह्मा कल्पस्यादौ द्विजोत्तम ।
सृष्ट्वापश्चौषधीः सम्यग्युयोजस तदाध्वरे ॥ 1.5.50 ॥
गौरजः पुरुषो मेषश्चाश्वाश्वतरगर्दभाः ।
एतान्ग्राम्यान्पशूनाहुरारण्यांश्च निबोध मे ॥ 1.5.51 ॥
श्वापदा द्विखुरा हस्ती वानराः पक्षिपञ्चमाः ।
औदकाः पशवः षष्ठा सप्तमास्तु सरीसृपाः ॥ 1.5.52 ॥
गायत्रं च ऋचश्चैव त्रिवृत्सोमं रथन्तरम् ।
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥ 1.5.53 ॥
यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा ।
बृहत्साम तथोक्थं च दक्षिणादसृजन्मु खात् ॥ 1.5.54॥
सामानि जगतीछन्दः स्तोमं सप्तदशं तथा ।
वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात् ॥ 1.5.55॥
एकविंशमथर्वाणमाप्तोर्यामाणमेव च ।
अनुष्टुभं च वैराजमुत्तरादसृजन्मुखात् ॥ 1.5.56॥
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ।
देवासुरपितॄन् सृष्ट्वा मनुष्यांश्च प्रजापतिः ॥ 1.5.57॥
ततः पुनः ससर्जादौ संकल्पस्य पितामहः ।
यक्षान् पिशाचान्गन्धर्वान् तथैवाप्सरसां गणान् ॥ 1.5.58 ॥
नरकिन्नररक्षांसि वयः पशुमृगोरगान् ।
अव्ययं च व्ययं चैव यदिदं स्थाणुजङ्गमम् ॥ 1.5.59॥
तत्ससर्ज तदा ब्रह्म भगवानादिकृत्प्रभुः ।
तेषां ये यानि कर्माणि प्रक्सृष्ट्यां प्रतिपेदिरे ।
तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनःपुनः ॥ 1.5.60 ॥
हिस्त्राहिंस्त्रे मृदुक्रूरे धर्मधर्मावृतानृते ।
तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ 1.5.61 ॥
इन्द्रियार्थेषु भूतेषु शरीरेषु च स प्रभुः ।
नानात्वं विनियोगं च धातैवं व्यसृजत्स्वयम् ॥ 1.5.62 ॥
नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनम् ।
वेदशब्देभ्य एवादौ देवादीनां चकार सः ॥ 1.5.63 ॥
ऋषीणां नामधेयानि यथा वेदश्रुतानि वै ।
तथा नियोगयोग्यानि ह्यन्येषामपि सोऽकरोत् ॥ 1.5.64॥
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्य ये ।
दृस्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ 1.5.65॥
करोत्येवंविधां सृष्टिं कल्पादौ स पुनः पुनः ।
सिसृक्षाशक्तियुक्तोसौ सृज्यशक्तिप्रचोदितः ॥ 1.5.66॥
इति श्रीविष्णुपुराणे प्रथमेऽंशे पञ्चमोऽध्यायः (5)
श्रीमैत्रेय उवाच
अर्वाक्स्त्रोतास्तु कथितो भवता यस्तु मानुषः ।
ब्रह्मन्विस्तरतो ब्रूहि ब्रह्म तमसृजद्यथा ॥ 1.6.1 ॥
यथा च वर्णानसृजद्यद्गुणां श्च प्रजापतिः ।
यच्च तेषां स्मृतं कर्म विप्रादीनां तदुच्यताम् ॥ 1.6.2॥
श्रीपराशर उवाच [Sage Parasara said]
सत्याभिध्यायिनः पूर्वं सिसृक्षेर्ब्रह्मणो जगत् ।
अजायन्त द्विजश्रेष्ठ सत्त्वोद्रिक्ता मुखात्प्रजाः ॥ 1.6.3 ॥
वक्षमो रजसोद्रिक्तास्तथा वै ब्रह्मणोऽभवन् ।
रजसा तमसा चैव समुद्रिक्तास्तथोरुतः ॥ 1.6.4 ॥
पद्भ्यामन्याः प्रजा ब्रह्मा ससर्ज द्विजसत्तम ।
तमःप्रधानास्ताः सर्वश्चातुर्वर्ण्यमिदं ततः ॥ 1.6.5॥
ब्रह्मणाः क्षत्रिया वेश्याः शूद्राश्च द्विजसत्तम ।
पादोरुवक्षस्थलतो मुखतश्च समुद्गताः ॥ 1.6.6॥
यज्ञनिष्पत्तये सर्वमेतद्ब्रह्या चकार वै ।
चातुर्वर्ण्यं महाभाग यज्ञसाधनमुत्तमम् ॥ 1.6.7॥
यज्ञैराप्यायिता देवा वृष्ट्युत्सर्गेण वै प्रजाः ।
आप्याययन्ते धर्मज्ञ यज्ञाः कल्याणहेतवः ॥ 1.6.8॥
निष्पाद्यन्ते नरैस्तैस्तु स्वधर्माभिरतैः सदा ।
विशुद्धाचरणैपेतैः सद्भिः सन्मार्गगामिभिः ॥ 1.6.8 ॥
स्वर्गापवर्गौ मानुष्यात्प्राप्नुवन्ति नरा मुने ।
यच्चाभिरुचितं स्थानं तद्यान्ति मनुजा द्विज ॥ 1.6.10 ॥
प्रजास्ता ब्रह्मणा सृष्टाश्चातुर्वर्ण्यव्यवस्थि ताः ।
सम्यक्छ्रद्धाः समाचारप्रवणा मुनिसत्तम ॥ 1.6.11 ॥
यथेच्छावासनिरताः सर्वबाधाविवर्जिताः ।
शुद्धान्तः करणाः शुद्धाः कर्मानुष्ठा ननिर्मलाः ॥ 1.6.12 ॥
शुद्धे च तासां मनसि शुद्धेन्तःसंस्थिते हरौ ।
सुद्धज्ञानं प्रपश्यन्ति बिल्वाख्यं येन तत्पदम् ॥ 1.6.13 ॥
ततः कालात्म को योऽसौ स चांशः कथितो हरेः ।
स पातयत्यघं घोरमल्पमल्पाल्पसारवत् ॥ 1.6.14॥
अधर्मबीजमुद्भुतं तमोलोभसमुद्भवम् ।
प्रजासु तासु मैत्रेय रागादिकमसाधकम् ॥ 1.6.15॥
ततः सा सहजा सिद्धस्तासां नातीव जायते ।
रसोल्लासादयश्चान्याः सिद्धयोष्टौ भवन्ति याः ॥ 1.6.16॥
तासु क्षीणास्वशेषासु वर्धमाने च पातके ।
द्वन्द्वाभिभवदुःखार्तास्ता भवन्ति ततः प्रजाः ॥ 1.6.17॥
ततो दुर्गाणि ताश्चक्रुर्धान्वं पार्वतमौदकम् ।
कृत्रिमं च तथा दुर्गं पुरखर्वटकादिकम् ॥ 1.6.18 ॥
गृहीणि च यथान्यायं तेषु चकुः पुरादिषु ।
शीतातपादिबाधानां प्रशमाय महामते ॥ 1.6.19॥
प्रतीकारमिमं कत्वा शीतादेस्ताः प्रजाः पुनः ।
वार्तोपायं ततश्चक्रुर्हस्तसिद्धिं च कर्मजाम् ॥ 1.6.20 ॥
व्रीहयश्च यवाश्चैव गोधूमाश्चणवस्तिलाः ।
प्रियङ्गवो ह्युदा राश्च कोरदूषाः सतीनकाः ॥ 1.6.21 ॥
माषा मुद्गा मसूराश्च निष्पावाः सकुलात्थकाः ।
आढक्यश्चणकाश्चैव शणाः सप्तदश स्मृताः ॥ 1.6.22 ॥
इत्येता ओषधीनां तु ग्राम्यानां जातयो मुने ।
ओषध्यो यज्ञियाश्चैव ग्राम्यारण्याश्चतुर्दश ॥ 1.6.23 ॥
व्रीहयःसयवा माषा गोधूमाश्चाणव स्तिलाः ।
प्रियङ्गुसप्तमा ह्येते अष्टमास्तु कुलत्थकाः ॥ 1.6.24॥
श्यामाकास्त्वथ नीवारा जर्तिलाः सगवेधुकाः ।
तथा वेणुयवाः प्रोक्तस्तथा मर्कटका मुने ॥ 1.6.25॥
ग्राम्यारण्याः स्मृता ह्येता ओषध्यस्तु चतुर्दश ।
यज्ञनिष्पत्तये यज्ञस्तथासां हेतुरुत्तमः ॥ 1.6.26॥
एताश्च सह यज्ञेन प्रजानां कारणं परम् ।
परावरविदः प्राज्ञास्ततो यज्ञान्वितन्वेत ॥ 1.6.27॥
अहन्यहन्यनुष्ठानं यज्ञानां मुनिसत्तम ।
उपकारकरं पुंसां क्रियमाणा घशान्तिदम् ॥ 1.6.28 ॥
येषां तु कालसृषोऽसौ पापबन्दुर्महामुने ।
चेतःसु ववृधे चक्रुस्ते न यज्ञेषु मानसम् ॥ 1.6.29॥
वेदवादांस्तथा वेदान्यज्ञ कर्मादिकं च यत् ।
तत्सर्वं निन्दयामासुर्यज्ञव्यासेधकारिणः ॥ 1.6.30 ॥
प्रवृत्तिमार्गव्युच्छित्तिकारिणो वेदनिन्दकाः ।
दुरात्मानो दुराचारा बभूवुः कुटिलाशयाः ॥ 1.6.31 ॥
संसिद्धायां तु वार्तायां प्रजाः सृष्ट्वा प्रजापतिः ।
सर्यादां स्थापयामास यथास्थानं यथागुणम् ॥ 1.6.32 ॥
वर्णा नामाश्रमाणां च धर्मधर्मभृतां वर ।
लोकांश्च सर्ववर्णानां सम्यग्धर्मानुपालिनाम् ॥ 1.6.33 ॥
प्रजापत्यं ब्रह्मणानां स्मृतं स्थानं क्रियावताम् ।
स्थानमैन्द्रं क्षत्रियाणां संग्रमेष्वनिवर्तताम् ॥ 1.6.34॥
वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तिनाम् ।
गान्धर्वं शूद्रजातीनां.परिचर्यानुवर्तिनाम् ॥ 1.6.35॥
अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम् ।
स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम् ॥ 1.6.36॥
सप्तर्षिणां तु यत्स्थानं स्मृतं तद्वै वनौकसाम् ।
प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मसंज्ञितम् ॥ 1.6.37॥
योगिनाममृतं स्थानं स्वात्मसंतोषकारिणाम् ॥ 1.6.38 ॥
एकान्तिनः सदा ब्रह्मध्यायिनो योगिनश्च ये ।
तेषां तु परमं स्थानं यत्तत्पश्यन्ति सूरयः ॥ 1.6.39॥
गत्वागत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः ।
अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ॥ 1.6.40 ॥
तामिस्त्रमन्धतामिस्त्रं महारौरवरौरवौ ।
असिपत्रवनं घोरं कालसूत्रमवीचिकम् ॥ 1.6.41 ॥
विनिन्दकानां वेदस्य यज्ञव्याघातकारिणाम् ।
स्थानमेतत्समाख्यातं स्वधर्मत्यागिनश्च ये ॥ 1.6.42 ॥
इति श्रीविष्णुरुराणे प्रथमेऽंशे षष्ठोऽध्यायः (6)
श्रीपराशर उवाच [Sage Parasara said]
ततोभिध्यायतस्तस्य जज्ञिरे मानसाः प्रजाः ।
तच्छरीरसमुत्पन्नैः कार्यैस्तैः करणैः सह ।
क्षेत्रज्ञाः समवर्तन्त गात्रेभ्यस्य स्यः धीमतः ॥ 1.7.1 ॥
ते सर्वे समावर्तन्त ये मया प्रागुदाहताः ।
देवाद्याः स्थावरान्ताश्च त्रैगुण्यविषये स्थिताः ॥ 1.7.2॥
एवंभूतानि सृष्टानि चराणि स्थावराणि च ॥ 1.7.3 ॥
यदास्य ताः प्रजाः सर्वा न व्यवर्धन्त धीमतः ।
अथान्यान्मानसान्पुत्रान्सदृशानात्मनोऽसृजत् ॥ 1.7.4 ॥
भृगुं पुलस्त्यं पुलहं क्रतुमङ्गिरसं तथा ।
मरीचिं दभमत्रिं च वसिष्ठं चैव मानसान् ॥ 1.7.5॥
नव ब्रह्माण इत्येते पुराणे निश्चयं गताः ॥ 1.7.6॥
ख्यातिं भूतिं च संभूतिं क्षमां प्रीतिं तथैव च ।
सन्नतिं च तथैवोर्जमनसूयां तथैव च ॥ 1.7.7॥
प्रसूतिं च ततः सृष्ट्वा ददौ तेषां महात्मनाम् ।
पत्न्यो भवध्व मित्युक्त्वा तेषामेव तु दत्तवान् ॥ 1.7.8॥
सनन्दनादयो ये च पूर्वसृष्टास्तु वेधसा ।
न ते लोकेष्वसज्जन्त निरपेक्षाः प्रजासु ते ॥ 1.7.8 ॥
सर्वे तेऽभ्या गतज्ञाना वीतरागा विमत्सराः ।
तेष्वेवं निरपेक्षेषु लोकसृष्टौ महात्मनाः ॥ 1.7.10 ॥
ब्रह्मणोभून्महान् क्रोधस्त्रैलोक्यदहनक्षमः ।
तस्य क्रोधात्स मुद्भूतज्वालामालातिदीपितम् ।
ब्रह्मणोभूत्तदा सर्वं त्रैलोक्यमखिलं मुने ॥ 1.7.11 ॥
भ्रकुटीकुटिलात्तस्य ललाटात्क्रोधदीपितात् ।
समुत्पन्न स्तदा रुद्रो मध्याह्नार्कसमप्रभः ॥ 1.7.12 ॥
अर्धनारीनरवपुः प्रचण्डोऽतिशरीरवान् ।
विभजात्मानमित्युक्त्वा तं ब्रह्मान्तर्दधे ततः ॥ 1.7.13 ॥
तथोक्तोसौ द्विधा स्त्रीत्वं पुरुषत्वं तथाकरोत् ।
विभेदपुरुषत्वं च दशधा चैकधा पुनः ॥ 1.7.14॥
सौम्यासौम्योस्तदाशान्ताशान्तैः स्त्रीत्वं च स प्रभुः ।
विभेद बहुधा देवाः स्वरूपैरसितैः सितैः ॥ 1.7.15॥
ततो ब्रह्मात्मसंभूतं पूर्वं स्वायंभुवं प्रभु ।
आत्मानमेव कृत वान्प्रजापाल्ये मनुं द्विज ॥ 1.7.16॥
शतरूपां च तां नारीं तपोनिर्धूतकल्पषाम् ।
स्वायंभुवो मनुर्देवः पत्नीत्वे जगृहे प्रभुः ॥ 1.7.17॥
तस्मात्तु पुरुषाद्देवी शतरूपा व्यजायत ।
प्रियव्रतोत्तानपादौ प्रसूत्याकूतिसंज्ञितम् ॥ 1.7.18 ॥
कन्याद्वयं च धर्मज्ञ रूपौदार्यगुणान्वितम् ।
ददौ प्रसूतिं दक्षाय आकूतिं रुचये पुरा ॥ 1.7.19॥
प्रजापतिः स जग्राह तयोर्जज्ञे सदक्षिणः ।
पुत्रो यज्ञे महाभाग दम्पत्योर्मिथुनं ततः ॥ 1.7.20 ॥
यज्ञस्य दक्षिणायां तु पुत्रा द्वादश जज्ञिरे ।
यामा इति समाख्याता देवाः स्वायंभुवे मनौ ॥ 1.7.21 ॥
प्रसूत्यां च तथा दक्षश्चतस्त्रो विंशतिस्तथा ।
ससर्ज कन्यास्तासां च सम्यङ्नामानि मे शृणु ॥ 1.7.22 ॥
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिर्मेधा पुष्टिस्तथा क्रिया ।
बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी ॥ 1.7.23 ॥
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ।
ताभ्यः शिष्टयवीयस्य एकादश सुलोचनाः ॥ 1.7.24॥
ख्यातिः सत्यथ संभूतिः स्मृतिः पीतिः क्षमा तथा ।
सन्ततिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥ 1.7.25॥
भृतुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः ।
पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस्तथा ॥ 1.7.26॥
अत्रिर्वसिष्ठो वह्निश्च पितरश्च यथाक्रमम ।
ख्यात्याद्य जगृहुः कन्या मुनयो मुनि सत्तम ॥ 1.7.27॥
श्रद्धा कामं चला दर्पं नियमं धृतिरात्मजम् ।
सन्तोषं च तथा तुष्टिर्लोभं पुष्टिरसूयत ॥ 1.7.28 ॥
मेधा श्रुतं क्रिया दण्डं नयं विनयमेव च ॥ 1.7.29॥
बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम् ।
व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयता ॥ 1.7.30 ॥
सुखं सिद्धिर्यशः कीर्तिरित्येते धर्मसूनवः ।
कामाद्रतिः सुतं हर्षं धर्मपौत्रमसूयत ॥ 1.7.31 ॥
हिंसा भार्या त्वधर्मस्य ततो जज्ञे तथानृतम् ।
कन्या च निकृतिस्ताभ्यां माया जज्ञे च वेदना ॥ 1.7.32 ॥
माया च वेदना चैव मिथुनं त्विदमेतयोः ।
तयोर्जज्ञेथ वै माया मृत्युं भूतापहारिणम् ॥ 1.7.33 ॥
वेदना स्वसूतं चापि दुःखं जज्ञेऽथ रौरवात् ।
मृत्योर्व्याधिजराशोकतृष्णक्रोधाश्च जज्ञिरे ॥ 1.7.34॥
दुःखोत्तराः स्मृता ह्येते सर्वे चाधर्मलक्षणाः ।
नैषां पुत्रोस्ति वै भार्या ते सर्वे ह्यूर्ध्वरेतसः ॥ 1.7.35॥
रौद्राण्येतानिरूपाणि विष्णोर्मुनिवरात्मज ।
नित्यप्रलयहेतुत्वं जगतोस्य प्रयान्ति वै ॥ 1.7.36॥
दक्षो मरीचिरत्रिश्च भृग्वाद्याश्च प्रजेश्वराः ।
जगत्यत्र महाभाग नित्यसर्गस्य हेतवः ॥ 1.7.37॥
मनवो मनुपुत्राश्च भूपा वीर्यधराश्च ये ।
सन्मार्गनिरताः शूरास्ते सर्वे स्थितिकारिणः ॥ 1.7.38 ॥
श्रीमैत्रेय उवाच
येयं नित्या स्थितिर्ब्रह्मन्नित्यसर्गस्तथेरितः ।
नित्याभावश्च तेषां वै स्वरूपं मम कथ्यताम् ॥ 1.7.39॥
श्रीपराशर उवाच [Sage Parasara said]
सर्गस्थितिविनाशांश्च भगवान्मधुसूदनः ।
तैस्तै रूपैरचिन्त्यात्मा करोत्यव्याहतो विभुः ॥ 1.7.40 ॥
नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको द्विज ।
नित्यश्च सर्वभूतानां प्रलयोऽयं चतुर्विधः ॥ 1.7.41 ॥
ब्रह्मो नैमित्तिकस्तत्र च्छेतेयं जगतीपतिः ।
प्रयाति प्राकृतं चैव ब्रह्मण्डं प्रकृतौ लयम् ॥ 1.7.42 ॥
ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि ।
नित्यः सदैव भूतानां यो विनाशो दिवानिशम् ॥ 1.7.43 ॥
प्रसूतिः प्रकृतेर्या तु सा सृष्टिः प्राकृता स्मृता ।
दैनन्दिनी तथा प्रोक्ता नान्तरप्रलयादनु ॥ 1.7.44॥
भूतान्यनुदिने यत्र जायन्ते मुनिसत्तम ।
नित्यसर्गो हि स प्रोक्तः पुराणार्थविचक्षणैः ॥ 1.7.45॥
एवं सर्वशरीरेषु भगवान्भूतभावनः ।
संस्थितः कुरुते विष्णुरुत्पत्तिस्थितिसंयमान् ॥ 1.7.46॥
सृष्टि स्थितिविनाशानां शक्तयः सर्वदेहिषु ।
वैष्णव्यः परिवर्तन्ते मैत्रेयाहर्निशं समाः ॥ 1.7.47॥
गुणत्रयमयं ह्यतद्ब्रह्यन् शक्तित्रयं महत् ।
योऽतियाति सा यात्येव परं नावर्तते पुनः ॥ 1.7.48 ॥
इति श्रीविष्णुपुराणे प्रथमेऽंशे सप्तमोऽध्यायः (7)
श्रीपारशर उवाच
कथितस्तामसः सर्गो ब्रह्मणस्ते महामुने ।
रुद्रसर्गं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ 1.8.1 ॥
कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः ।
प्रादुरासीत्प्रभोरङ्के कुमारो नीललोहितः ॥ 1.8.2॥
रुरोद सुस्वरं सोथ प्राद्रवद्दि जसत्तम ।
किं त्वं रोदिषि तं ब्रह्म रुदन्तं प्रत्युवाच ह ॥ 1.8.3 ॥
नाम देहीति तं सोऽथ प्रत्युवाच प्रजापतिः ।
रुद्रस्त्वं देवनाम्नासि मारो दीर्धैर्यमावह ।
एवमुक्तः पुनः सोऽथ सप्तकृत्वो रुरोद वै ॥ 1.8.4 ॥
ततोन्यानि ददौ तस्मै सप्त नामानि वै प्रभुः ।
स्थानानि चैषामष्टानां पत्नीः पुत्रांश्च स प्रभुः ॥ 1.8.5॥
भवं शर्वमथेशानं तथा पशुपतिं द्विज ।
भीममुग्रं महादेवमुवाच स पितामहः ॥ 1.8.6॥
चक्रे नामान्यथैतानि स्थानान्येषां चकार सः ।
सूर्यो जलं मही वायुर्वह्निराकाशमेव च ।
दीक्षितो ब्रह्मणः सोम इत्येतास्तनवः क्रमात् ॥ 1.8.7॥
सुवर्चला तथैवोषा विकेशी चापरा शिवा ।
स्वाहा दिशस्तथा दीक्षा रोहिणी च यथाक्रमम् ॥ 1.8.8॥
सूर्यादीनां द्विजश्रेष्ठ रुद्राद्यैर्नामभिः सह ।
पत्न्यः स्मृता महाभाग तदपत्यानि मे शृणु ॥ 1.8.8 ॥
एषां सूतिप्रसूतिभ्यामिदमापूरितं जगत् ॥ 1.8.10 ॥
शनैश्चरस्तथा शुक्रो लोहिताङ्गो मनोजवः ।
स्कन्दः सर्गोऽथ सन्तानो बुधश्चानुक्रमात्सुताः ॥ 1.8.11 ॥
एवंप्रकारो रुद्रोऽसौ सतीं भार्यामनिन्दिताम् ।
उपयेमे दुहितरं रक्षस्यैव प्रजापतेः ॥ 1.8.12 ॥
दक्षकोपाच्च तत्याज स सती स्वकलेवरम् ।
हिमवद्दुहित साभून्मेनायां द्विजसत्तम ॥ 1.8.13 ॥
उपयेमे पुनश्चोमामनन्यां भगवान्हरः ॥ 1.8.14॥
देवौ धातृविधातारौ भृगोः ख्यातिरसूयत ।
श्रियं च देवदेवस्य पत्नी नारायणस्य या ॥ 1.8.15॥
श्रीमैत्रेय उवाच
क्षीराब्धौ श्रीः समुत्पन्ना श्रूयतेऽमृतमन्थने ।
भृगोः ख्यात्यां समुत्पन्नेत्येतदाह कथं भवात् ॥ 1.8.16॥
श्रीपराशर उवाच [Sage Parasara said]
नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनि ।
यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम ॥ 1.8.17॥
अर्थो विष्णुरियं वाणी नीतिरेषा नयो हरिः ।
बोधो विष्णुरियं बुद्धिर्धर्मोऽसौ सत्क्रिया त्वियम् ॥ 1.8.18 ॥
स्त्रष्टा विष्णुरियं सृष्टिः श्रीर्भूमिर्भूधरो हरिः ।
सन्तोषो भगवाल्लङ्क्ष्मीस्तुष्टिर्मैत्रेय शाश्वती ॥ 1.8.19॥
इच्छा श्रीर्भगवान्कामो यज्ञोऽसौ दक्षिणा त्वियम् ।
आज्याहुतिरसौ देवी पुरोडाशो जनार्दनः ॥ 1.8.20 ॥
पत्नीशाला मुने लक्ष्मीः प्राग्वंशौ मधुसूदनः ।
चितिर्लक्ष्मीर्हरिर्यूप इध्मा श्रीर्भगवान्कुशः ॥ 1.8.21 ॥
सामास्वरूपी भगवानुद्गीतिः कमलालया ।
स्वाहा लक्ष्मीर्जगन्नाथो वासुदेवो हुता शनः ॥ 1.8.22 ॥
शङ्करो भगवाञ्छौरिर्गौरीलक्ष्मीर्द्विजोत्तम ।
मैत्रेय केशवः सूर्यस्तत्प्रभा कमलालया ॥ 1.8.23 ॥
विष्णुः पितृगणः पद्मा स्वधा शाश्वतपुष्टिदा ।
द्यौः श्रीः सर्वात्मको विष्णुरवकाशोतिविस्तरः ॥ 1.8.24॥
शशाङ्कः श्रीधरः कान्तिः श्रीस्तथैवानपायिनी ।
धृतिर्लक्ष्मीर्जगच्चेष्टा वायुः सर्वत्रगो हरिः ॥ 1.8.25॥
जलधिर्द्विजगोविन्दस्तद्वेला श्रीर्महामुने ।
लक्ष्मीस्वरूपमिन्द्राणी देवेन्द्रो मधुसूदनः ॥ 1.8.26॥
यमश्चक्रधरः साक्षाद्धूमोर्णा कमलालया ।
ऋद्धिः श्रीः श्रीधरो देवः स्वयमेव धनेश्वरः ॥ 1.8.27॥
गौरी लक्ष्मीमंहाबागा केशवो वरुणः स्वयम् ।
श्रीर्देवसेना विप्रेन्द्र देवसेनापतिर्हरिः ॥ 1.8.28 ॥
अवष्टंभो गदापाणिः शक्तिर्लक्ष्मीर्द्विजोत्तम ।
काष्ठा लक्ष्मीर्निमेषोऽसौ मुहूर्तोऽसौ कला त्वियम् ॥ 1.8.29॥
ज्योत्स्ना लक्ष्मीः प्रदीपोऽसौ सर्वः सर्वेश्वरो हरिः ।
लताभूता जगन्माता श्रीर्विष्णुर्द्रुमसंज्ञितः ॥ 1.8.30 ॥
विभावरी श्रीर्दिवसो देवचक्रगदाधरः ।
वरप्रदो वरो विष्णुर्वधूः पद्मवनाल या ॥ 1.8.31 ॥
नदस्वरूपी भगवाञ्छ्रीर्नदीरूपसंस्थिता ।
ध्वजश्च पुण्डरीकाक्षः पताका कमलालया ॥ 1.8.32 ॥
तृष्णा लक्ष्मीर्जगन्नाथो लोभो नारायणः परः ।
रती रागश्च मैत्रेय लक्ष्मीर्गोविन्द एव च ॥ 1.8.33 ॥
किं चातिबहुनोक्तेन संक्षेपेणेदमुच्यते ॥ 1.8.34॥
देवतिर्यङ्मनुष्यादौ पुन्नामा भगवान्हरिः ।
स्त्रीनाम्नी श्रीश्च विज्ञेया नानयोर्विद्यते परम् ॥ 1.8.35॥
इति श्रीविष्णुपुराणे प्रथमेऽंशे अष्टमोऽध्यायः (8)
श्रीपराशर उवाच [Sage Parasara said]
इदं च शृणु मैत्रेय यत्पृष्टोहमिह त्वया ।
श्रीसम्बन्धं मायाप्येतच्छ्रुतमासीन्मरीचितः ॥ 1.8.1 ॥
दुर्वासाः शङ्करस्यांशश्चार पृथिविमिमाम ।
स ददर्श स्रजं दिव्यामृषिर्विद्याधरीकरे ॥ 1.8.2॥
संतानकानामखिलं यस्या गन्धेन वासितम् ।
अतिसेव्यमभूद्ब्रह्यन् तद्वनं वनचारिणाम् ॥ 1.8.3 ॥
उन्मत्तव्रतधृग्विप्रस्तां दृष्ट्वा शोभनां स्रजम् ।
तां ययाचे वरारोहां विद्याधरवधूं ततः ॥ 1.8.4 ॥
याचिता तेन तन्वङ्गी मालां विद्याधराङ्गना ।
ददौ तस्मै विशालाक्षी सादरं प्रणिपत्य तम् ॥ 1.8.5॥
तामादायात्मनो मूर्ध्नि स्रजमुन्मत्तरूपधृक् ।
कृत्वा स विप्रो मैत्रेय परिबभ्राम मेदिनीम् ॥ 1.8.6॥
स ददर्श तमायान्तमुन्मत्तैरावते स्थितम् ।
त्रैलोक्याधिपतिं देवं सह देवैः शचीपतिम् ॥ 1.8.7॥
तामात्मनः स शिरसः स्रजमुन्मत्त षट्पदाम् ।
आदायामरराजाय चिक्षेपोन्मत्तवन्मुनिः ॥ 1.8.8॥
गृहीत्वामरराजेन स्रगैरावतमूर्धनि ।
न्यस्ता रराज कैलासशिखरे जाह्नवी यथा ॥ 1.8.8 ॥
मदान्धकारिताक्षोसौ गन्धाकृष्टेन वारणः ।
करेणाघ्राय चिक्षेप तां स्रजं धरणीतले ॥ 1.8.10 ॥
ततश्चुक्रोध भगवान्दुर्वासा मुनि सत्तमः ।
मैत्रेय देवराजानं क्रुद्धश्चैतदुवाच ह ॥ 1.8.11 ॥
दुर्वासा उवाच
ऐश्वर्यमददुष्टात्मन्नतिस्तब्धोसि वासव ।
श्रियो धाम स्रजं यस्त्वं मद्दत्तां नाभिनन्दसि ॥ 1.8.12 ॥
प्रसाद इति नोक्तं ते प्रणिपातपुरः सरम् ।
हर्षोत्फुल्लकपोलेन न चापि शिरसा धृता ॥ 1.8.13 ॥
मया दत्तामि मां मालं यस्मान्न बहु मन्यसे ।
त्रैलोक्यश्रीरतो मूढ विनाशमुपयास्यति ॥ 1.8.14॥
मां मन्यसे त्वं मदृशं नूनं शक्रतरद्विजैः ।
अतोवमा नमस्मासु मानिना भवता कृतम् ॥ 1.8.15॥
मद्दत्त भवता यस्मात्क्षिप्ता माला महीतले ।
तस्मात्प्रणष्टलक्ष्मीकं त्रैलोक्यं ते भविष्यति ॥ 1.8.16॥
यस्य संजातकोपस्य भयमेति चराचरम् ।
तं त्वं मामतिगर्वेण देवराजवमन्यसे ॥ 1.8.17॥
श्रीपराशर उवाच [Sage Parasara said]
महेन्द्रो वारणस्कन्धादवतीर्य त्वरान्वितः ।
प्रसादयामास मुनिं दुर्वाससमकल्मषम् ॥ 1.8.18 ॥
प्रसाद्यमानः स तदा प्रणिपातपुरःसरम् ।
इत्युवाच सहस्राक्षं दुर्वासा मुनिसत्तम ॥ 1.8.19॥
दुर्वासा उवाच
नाहं कृपालुहृदयो न चमां भजते क्षमा ।
अन्ये ते मुनयः शक्र दुर्वाससमवेहि माम ॥ 1.8.20 ॥
गौतमादिभिरन्यैस्त्वं गर्वमारोपितो मुधा ।
अक्षान्तिसारसर्वस्वं दुर्वाससमवेहि माम् ॥ 1.8.21 ॥
वसिष्ठाद्यैर्दयासारैः स्तोत्रं कुर्वद्भिरुच्चकैः ।
गर्वं गतो सि येनैवं मामप्यद्यावमन्यसे ॥ 1.8.22 ॥
ज्वलज्जटाकलापस्य भृकुटीकुटिलं मुखम् ।
निरीक्ष्य कस्त्रिभुवने मम यो न गतो भयम् ॥ 1.8.23 ॥
नाहं क्षमिष्ये बहुना किमुक्तेन शतक्रतो ।
विडंबनामिमां भूयः करोष्यनुनयात्मिकाम् ॥ 1.8.24॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्त्वा प्रययै विप्रो देवराजोपि तं पुनः ।
आरुह्यैरावतं ब्रह्मन् प्रययावमरावतीम् ॥ 1.8.25॥
ततः प्रभृति निःश्रीकं सशक्रं भुवनत्रयम् ।
मैत्रेयासीदपध्वस्तं संक्षा णौषधिवीरुधम् ॥ 1.8.26॥
न यज्ञाः समवर्तन्ते न तपस्यन्ति तापसाः ।
न च दानादिधर्मेणु मनश्चक्रे तदा जनः ॥ 1.8.27॥
निःसत्त्वाः सकला लोका लोभाद्युपहतेन्द्रियाः ।
स्वल्पेपि हि बभूवुस्ते साभिलाषा द्विजोत्तम ॥ 1.8.28 ॥
यतः सत्त्वं ततो लक्ष्मीः सत्त्वं भूत्यनुसारि च ।
निःश्रीकाणां कुतः सत्त्वं विना तेन गुणाः कुतः ॥ 1.8.29॥
बलशौर्याद्यभावश्च पुरुषाणां गुणैर्विना ।
लवनायः समस्तस्य बलशौर्यविवर्जितः ॥ 1.8.30 ॥
भवत्यपध्वस्तमतिर्लघितः प्रथितः पुमान् ।
एवमत्यन्तनिःश्रीके त्रैलोक्ये सत्त्ववर्जिते ॥ 1.8.31 ॥
दवान् प्रति बलोद्योगं चक्रुर्दैतेयदानवाः ॥ 1.8.32 ॥
लोभाभिभूता निःश्रीका दैत्याः सत्त्वविवर्जिताः ।
श्रिपाविहीनैर्निःसत्त्वैर्देवैश्चक्रुस्ततो रणम् ॥ 1.8.33 ॥
विजितास्त्रिदशा दैत्यैरिन्द्राद्याः शरणं ययुः ।
पितामहं महाभागं हुताशनपुरोगमाः ॥ 1.8.34॥
यथावत्कथितो देवैर्ब्रह्मा प्राह ततः सुरान् ।
परावरेशं शरणं व्रजध्वमसुरार्दनम् ॥ 1.8.35॥
उत्पत्तिस्थितिनाशानामहेतुं हेतुमीश्वरम् ।
प्रजा पतिपतिं विष्णुमनन्तमपराजितम् ॥ 1.8.36॥
प्रधानपुंसोरजयोः कारणं कार्यभूतयोः ।
प्रणतार्तिहरं विष्णुं स वः श्रेयो विधास्यति ॥ 1.8.37॥
श्रीपराशर उवाच [Sage Parasara said]
एवमुक्त्वा सुरान्सर्वान् ब्रह्मा लोकपितामहः ।
क्षीरोदस्योत्तरं तीरं तैरेव सहितो ययौ ॥ 1.8.38 ॥
स गत्वा त्रिदशैः सर्वैः समवेतः पितामहः ।
तुष्टाव वाग्भिरिष्टाभिः परावरपतिं हरिम् ॥ 1.8.39॥
ब्रह्मोवाच
नमामि सर्वं सर्वेशमनन्तमजमव्ययम् ।
लोकधाम धराधारमप्रकाशमभेदिनम् ॥ 1.8.40 ॥
नारायणमणीयांसमशेषणामणीयसाम् ।
समस्तानां गरिष्ठं च भूरादीनां गरीयसाम् ॥ 1.8.41 ॥
यत्र सर्वं यतः सर्वमुत्पन्नं मत्पुरःसरम् ।
सर्वभूतश्च यो देवः पराणामपि यः परः ॥ 1.8.42 ॥
परः परस्मात्पुरुषात्परमात्मस्वरूपधृक् ।
योगिभिश्चिन्त्यते योऽसौ सुक्तिहेतोर्मुमुक्षुभिः ॥ 1.8.43 ॥
सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः ।
स शुद्धः सर्वशुद्धेभ्यः पुमानाद्यः प्रसीदतु ॥ 1.8.44॥
कला काष्ठा मुहूर्तादिकालासूत्रस्य गोचरे ।
यस्य शक्तिर्न शुद्धस्य स नो विष्णुः प्रसीदतु ॥ 1.8.45॥
प्रोच्यते परमेशो हि यः शुद्धोऽप्युपचारतः ।
प्रसीदतु स नो विष्णुरात्मा यः सर्वदेहिनाम् ॥ 1.8.46॥
यः कारणं च कार्यं च कारणस्यापि कारणम् ।
कार्य स्यापि च यः कार्यं प्रसीदतु स नो हरिः ॥ 1.8.47॥
कार्यकार्यस्य यत्कार्यं तत्कार्यस्यापि यः स्वयम् ।
तत्कार्यकार्यभूतो यस्ततश्च प्रणतास्म तम् ॥ 1.8.48 ॥
कारणं कारणस्यापि तस्य कारणकारणम् ।
तत्कारणानां हेतुं तं प्रणता स्म परेश्वरम् ॥ 1.8.49॥
भोक्तारं भोग्यभूतं च स्रष्टारं सृज्यमेव च ।
कार्यकर्तृस्वरूपं तं प्रणता स्म परं पदम् ॥ 1.8.50 ॥
विशुद्धबोधवन्नित्यमजमक्षयमव्ययम् ।
अव्यक्तमविकारं यत्तद्विष्णोः परमं पदम् ॥ 1.8.51 ॥
न स्थुलं न च सूक्ष्मं यन्न विशेषणगोचरम् ।
तत्पदं परमं विष्णोः प्रणमाम सदामलम् ॥ 1.8.52 ॥
यस्या युतायुतांशांशे विश्वशक्तिरियं स्थिता ।
परब्रह्मस्वरूपं यत्प्रणमामस्तमव्ययम् ॥ 1.8.53 ॥
यद्योगिनः सदोद्युक्ताः पुण्यपापक्षयेक्षयम् ।
पश्यन्ति प्रणवे चिन्त्यं तद्विष्णोः परमं पदम् ॥ 1.8.54॥
यन्न देवा न मुनयो न चाहं न च शङ्करः ।
जानन्ति परमेश स्य तद्विष्णोः परमं पदम् ॥ 1.8.55॥
शक्तयो यस्य देवस्य ब्रह्मविष्णुशिवात्मिकाः ।
भवन्त्यभूतपूर्वस्य तद्विष्णोः परमं पदम् ॥ 1.8.56॥
सर्वेश सर्वभूतात्मन्सर्व सर्वाश्रयाच्युत ।
प्रसीद विष्णो भक्तानां व्रज नो दृष्टिगोचरम् ॥ 1.8.57॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युदीरितमाकर्ण्य ब्रह्मणस्त्रिदशास्ततः ।
प्रणम्योचुः प्रसीदेति व्रज नो दृष्टि गोचरम् ॥ 1.8.58 ॥
यन्नायं भगवान् ब्रह्म जानाति परमं पदम् ।
तन्नताः स्मजगद्धाम तव सर्वगताच्युत ॥ 1.8.59॥
इत्यन्ते वचसस्तेषां देवानां ब्रह्मणस्त था ।
ऊचुर्देवर्षयःसर्व बृहस्पतिपुरोगमाः ॥ 1.8.60 ॥
अद्यो यज्ञः पुमानीड्यः पूर्वेषां यश्च पूर्वजः ।
तन्नताः स्म जगत्स्त्रष्टुः स्रष्टारम विशेषणम् ॥ 1.8.61 ॥
भगवन्भूतभव्येश यज्ञमूर्तिधराव्यय ।
प्रसीद प्रणतानां त्वं सर्वेषां देहि दर्शनम् ॥ 1.8.62 ॥
एष ब्रह्म सहास्माभिः सह रुद्रैस्त्रिलोचनः ।
सर्वादित्यैः समं पूषा पावकोऽयं सहाग्निभः ॥ 1.8.63 ॥
अश्विनौ वसवश्चेमे सर्वे चैते मरुद्गणाः ।
साध्या विश्वे तथा देवा देवेन्द्रश्चायमीश्वरः ॥ 1.8.64॥
प्रणामप्रवणा नाथ दैत्यसैन्यैः पराजिताः ।
शरणं त्वामनुप्राप्ताः समस्ता देवतागणाः ॥ 1.8.65॥
श्रीपराशर उवाच [Sage Parasara said]
एवं संस्तूयमानस्तु भगवाञ्छंखचक्रधृक् ।
जगाम दर्शनं तेषां मैत्रेय परमे श्वरः ॥ 1.8.66॥
तं दृष्ट्वा ते तदा देवाः शङ्खचक्रगदाधरम् ।
अपूर्वरूपसंस्थानं तेजसां राशिमूर्जितम् ॥ 1.8.67॥
प्रणम्य प्रणताः सर्वे संक्षोभ स्तिमितेक्षणाः ।
तुष्टुवुः पुण्डरीकाक्षं पितामहपुरोगमाः ॥ 1.8.68 ॥
देवा ऊचुः ।
नमोनमो विशेषस्त्वं त्वं ब्रह्म त्वं पिनाकधृक् ।
इन्द्रस्त्वम ग्निः पवनो वरुणः सविता यमः ॥ 1.8.69॥
वसवो मरुतः साध्या विश्वेदेवगणा भवान् ।
योऽयं तवाग्रतो देव समीपं देवतागणः ।
स त्वमेव जगत्स्त्रष्टा यतः सर्वगतो भवान् ॥ 1.8.70 ॥
त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः प्रजापतिः ।
विद्या वेद्यं च सर्वात्मंस्त्वन्मयं चाखिलं जगत् ॥ 1.8.71 ॥
त्वमार्ताः शरणं विष्णो प्रयाता दैत्यनिर्जिताः ।
वयं प्रसीद सर्वात्मंस्तेजसाप्याययस्व नः ॥ 1.8.72 ॥
तावदार्तिस्तथा वाञ्छा ताव न्मोहस्तथा मुखम् ।
यावन्न याति शरणं त्वामशेषाघनाशनम् ॥ 1.8.73 ॥
त्वं प्रसादं प्रसन्नत्मन् प्रपन्नानां कुरुष्व नः ।
तेजसां नाथ सर्वेषां स्वशक्त्याप्यायनं कुरु ॥ 1.8.74॥
श्रीपराशर उवाच [Sage Parasara said]
एवं संस्तूयमानस्तु प्रणतैरमरैर्हरिः ।
प्रसन्नदृश्टिर्भगवानिदमाह स विश्वकृत् ॥ 1.8.75॥
तेजसो भवतां देवाः करिष्याम्युपबृंहणम् ।
वदाम्यहं यत्क्रियतां भवद्भिस्तदिदं सुराः ॥ 1.8.76॥
आनीय सहिता दैत्यैः क्षीराब्धौ सरलौ षधीः ।
प्रक्षिप्यात्रमृतार्थं ताः सकला दैत्यदानवैः ।
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा च वासुकिम् ॥ 1.8.77॥
मथ्यताममृते देवाः सहाये मय्यवस्थिते ॥ 1.8.78 ॥
सामपूर्वं च दैतेयास्तत्र साहाय्यकर्मणि ।
सामान्यफलभोक्तारो यूयं वाच्या भविष्यथ ॥ 1.8.79॥
मथ्यमाने च तत्राब्धौ यत्समुत्पत्स्यतेऽमृतम् ।
तत्पानाद्बलिनो यूयममराश्च भविष्यथ ॥ 1.8.80 ॥
तथा चाहं करिष्यामि ते यथा त्रिदशद्विषः ।
न प्राप्स्यन्त्यमृतं देवाः केवलं क्लेशभागिनः ॥ 1.8.81 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्ता देवदेवेन सर्व एव तदा सुराः ।
सन्धानमसूरैः कृत्वा यत्नवन्तोऽमृतेऽभवन् ॥ 1.8.82 ॥
नानौषधीः समानीय देवदैतेयदानवाः ।
क्षिप्त्वा क्षीराब्धिपयसि शर दभ्रामलत्विषि ॥ 1.8.83 ॥
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा च वासुकिम् ।
ततो मथितुमारब्धा मैत्रेय तरसामृतम् ॥ 1.8.84॥
विबुधाः सहिताः सर्वे यतः पुच्छं ततः कृताः ।
कृष्णेन वासुकेर्दैत्याः पूर्वकाये निवेशिताः ॥ 1.8.85॥
ते तस्य मुखनिश्वासवह्नितापहतत्विषः ।
निस्तेजसोऽसुराः सर्वे बभूवुरमितौजसः ॥ 1.8.86॥
तेनैव मुखनिश्वासवायुनास्तबलाहकैः ।
पुच्छप्रदेशे वर्षद्भिस्तदा चाप्यायिताः सुराः ॥ 1.8.87॥
क्षीरो दमध्ये भगवान्कूर्मरूपी स्वयं हरिः ।
मन्थनाद्रेरधिष्ठानं भ्रमतोऽभून्महामुने ॥ 1.8.88 ॥
रूपेणान्येन देवानां मध्ये चक्रगदाधरः ।
चकर्ष नाग राजानं दैत्यमध्येऽपरेण च ॥ 1.8.89॥
उपर्याक्रान्तवाञ्शैलं बृहद्रूपेण केशवः ।
तथापरेण मैत्रेय यन्न दृष्टं सुरासुरैः ॥ 1.8.90 ॥
तेजसा नागरा जानं तथाप्यायितवान्हरिः ।
अन्येन तेजसा देवानुपबृंहितवान्प्रभुः ॥ 1.8.91 ॥
मथ्यमाने ततस्तस्मिन्क्षिराब्धो देवदानवैः ।
हविर्धामाभवत्पूर्वं सुरभिः सुरपूजीता ॥ 1.8.92 ॥
जग्मुर्मुदं ततो देवा दानवाश्च महामुने ।
व्याक्षिप्तचेतसश्चैव बभूवुस्तिमितेक्षणाः ॥ 1.8.93 ॥
किमेतदितिसिद्धानां दिवि चिन्तयतां ततः ।
बभूव वारुणी देवी मदाघूर्णितलोचना ॥ 1.8.94॥
कृतावर्तात्ततस्तस्मात्क्षीरोदाद्वासयञ्जगत् ।
गन्धेन पारीजातोभूद्देवस्त्रीनन्दनस्तरुः ॥ 1.8.95॥
रूपौदार्यगुणोपेतस्तथा चाप्सरसां गणः ।
क्षीरोदधेः समुत्पन्नो मैत्रेय परमाद्भुतः ॥ 1.8.96॥
ततः शीतांशुरभवज्जगृहे तं महेश्वरः ।
जगृहुश्च विषं नागाः क्षीरोदाब्धिसमुत्थितम् ॥ 1.8.97॥
ततो धन्वन्तरिर्देवः श्वेताम्बरधरस्वयम् ।
बिभ्रत्कमण्डलुं पूर्णममृतस्य समुत्थितः ॥ 1.8.98 ॥
ततः स्वस्थमनस्कास्ते सर्वे दैतैयदानवाः ।
बभूवुर्मुदिताः सर्वे मैत्रेय मुनिभिः सह ॥ 1.8.99॥
ततः स्फुरत्कान्तिमती विकासिकमले स्थिता ।
श्रीर्देवी पयसस्तस्मादुद्भूता धृतपङ्कजा ॥ 1.8.100 ॥
तां तुष्टुवुर्मुदा युक्ताः श्रीसूक्तेन महर्षयः ॥ 1.8.101 ॥
विश्वावसुमुखास्तस्या गन्धर्वाः पुरतो जगुः ।
घृताचीप्रमुखास्तत्र ननृतुश्चाप्सरोगणाः ॥ 1.8.102 ॥
गङ्गाद्याः सरितस्तोयैः स्नानार्थमुपतस्थिरे ।
दिग्गजा हेमपात्रस्थमादाय विमलं जलम् ।
स्त्रापयाञ्चक्रिरे देवीं सर्वलोकमहेश्वरीम् ॥ 1.8.103 ॥
क्षीरोदो रूपधृक्तस्यै मालामम्लानपङ्कजाम् ।
ददौ विभूषणान्यङ्गे विश्वकर्मा चकार ह ॥ 1.8.104॥
दिव्यमाल्याम्बरधरास्त्राता भूषणभूषिता ।
पश्यतां सर्वदेवानां ययौ वक्षस्थलं हरेः ॥ 1.8.105॥
तया विलोकिता देवा हरिवक्षस्थलस्थया ।
लक्ष्म्या मैत्रेय सहसा परां निर्वृतिमागताः ॥ 1.8.106॥
उद्वेगं परमं जग्मुर्दैत्या विष्णुपराङ्मुखाः ।
त्यक्ता लक्ष्म्या महाभाग विप्रचित्तिरुरोगमाः ॥ 1.8.107॥
ततस्ते जगृहुर्दैत्या धन्वन्तरिकरस्थितम् ।
कमण्डलुं महावीर्या यत्राऽस्तेऽमृतमुत्तमम् ॥ 1.8.108 ॥
मायया मोहयित्वा तान्विष्णुः स्त्रीरूपसंस्थितः ।
दानवेभ्यस्तदादाय देवेभ्यः प्रददौ प्रभुः ॥ 1.8.109॥
ततः पपुः सुरगुणाः शक्राद्यास्तत्तदामृतम् ।
उद्यतायुधनिस्त्रंशा दैत्यास्तांश्च समाभ्ययुः ॥ 1.8.110 ॥
पीतेऽमृते च बलिभिर्देवैर्दैत्यचमूस्तदा ।
वध्यमाना दिशो भेजे पातालं च विवेश वै ॥ 1.8.111 ॥
ततो देवा मुदा युक्ताः शङ्खचक्रगदाभृतम् ।
प्रणिपत्य यथापूर्वमाशासत्तत्त्रिविष्टपम् ॥ 1.8.112 ॥
ततः प्रसन्नभाः सूर्यः प्रययौ स्वेन वर्त्मना ।
ज्योतींषि च यथामार्गं प्रययुर्मुनिसत्तम ॥ 1.8.113 ॥
जज्वाल भगवांश्चोच्चैश्चारुदीप्तिर्विभावसुः ।
धर्मे च सर्वभूतानां तदा मतिरजायत ॥ 1.8.114॥
त्रैलोक्यं च श्रिया जुष्टं बभूव द्विजसत्तम ।
शक्रश्च त्रिदशश्रेष्ठः पुनः श्रीमा नजायत ॥ 1.8.115॥
सिंहासनगतः शक्रःसंप्राप्य त्रिदिवं पुनः ।
देवराज्ये स्तितो देवीं तुष्टावाब्जकरां ततः ॥ 1.8.116॥
इन्द्र उवाच
नमस्ये सर्वलोकानां जननीमब्जसम्भवाम् ।
श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षस्थलस्थिताम् ॥ 1.8.117॥
पद्मालयां पद्मकरां पद्मपत्रनिभेक्षणाम् ।
वन्दे पद्मसुखीं देवीं पद्मनाभप्रियामहम् ॥ 1.8.118 ॥
त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी ।
सन्ध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ॥ 1.8.119॥
यज्ञविद्या महाविद्य गुह्यविद्य च शोभने ।
आत्मविद्या च देवि त्वं विसुक्तिफलदायिनी ॥ 1.8.120 ॥
आन्वीक्षिकीत्रयीवार्त दण्डनीतिस्त्वमेव च ।
सैम्यासौम्यैर्जगद्रूपैस्त्वयैत्तद्देवि पूरितम् ॥ 1.8.121 ॥
का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः ।
अध्यास्ते देवदेवस्य योगिचिन्त्यं गदाभृतः ॥ 1.8.122 ॥
त्वाया देवि परित्यक्तं सकलं भुवनत्रयम् ।
विनष्टप्रायमभवत्त्वयेदानीं समेधितम् ॥ 1.8.123 ॥
दाराः पुत्रास्तथागारसुहृद्धान्यधनादिकम् ।
भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्तृणाम् ॥ 1.8.124॥
शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखम् ।
देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम् ॥ 1.8.125॥
त्वं माता सर्वलोकानां देवदेवो हरिः पिता ।
त्वयैतद्विष्णुना चाम्ब जगव्द्याप्तं चराचरम् ॥ 1.8.126॥
मा नः कोशं तथा गोष्ठं मा गृहं मा परिच्छदम् ।
मा शरीरं कलत्रं च त्यजेथाः सर्वपावनि ॥ 1.8.127॥
मा पुत्रान्मा सुहृर्द्वग मा पशुन्मा विभूषणम् ।
त्यजेथा मम देवस्य विष्णोर्वक्षःस्थलालये ॥ 1.8.128 ॥
सत्त्वेन सत्यशौचाभ्यां तथा शीलदिभिर्गुणैः ।
त्यज्यन्ते ते नराः सद्यः संत्यक्ता ये त्वायामले ॥ 1.8.129॥
त्वया विलोकिताः सद्यः शीलाद्यैरखिलैर्गुणैः ।
कुलैश्वर्यैश्च युज्यन्ते पुरुषा निर्गुणा अपि ॥ 1.8.130 ॥
सर्श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् ।
स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः ॥ 1.8.131 ॥
सद्यो वैगुण्यमायान्ति शीलाद्यः सकला गुणाः ।
पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥ 1.8.132 ॥
न ते वर्णयितुं शक्ता गुणाञ्चिह्वापि बेधसः ।
प्रसीद देवि पद्माक्षि मास्मांस्त्याक्षीः कदाटन ॥ 1.8.133 ॥
श्रीपरशर उवाच
एवं श्रीः संस्तुता सम्यक्प्राह देवी शतक्रतुम् ।
शृण्वतां सर्वदेवानां सर्वभूतस्थिता द्विज ॥ 1.8.134॥
श्रीरुवाच
परितुष्टास्मि देवेशे स्तोत्रेणानेन ते हरे ।
वरं वृणीष्व यस्त्विष्टो वर दाहं तवागता ॥ 1.8.135॥
इन्द्र उवाच
वरदा यदि मे देवि वारर्हे यदि वाप्यहम् ।
त्रैलोक्यं न त्वया त्याज्यमेष मेस्तु वरः परः ॥ 1.8.136॥
स्तोत्रेण यस्तथैतेन त्वां स्तोष्यत्यब्धिसम्भवे ।
स त्वया न परीत्याज्यो द्वितीयोस्तु वरो मम ॥ 1.8.137॥
श्रीरुवाच
त्रैलोक्यं त्रिद शश्रेष्ठ न सन्त्यक्ष्यामि वासव ।
दत्तो वरो मयायन्ते स्तौत्राराधनतुष्टया ॥ 1.8.138 ॥
यश्च सायं तथा प्रातः स्तोत्रेणानेन मानवः ।
मां स्तोष्यति न तस्याहं भविष्यामि पराङ्मुखी ॥ 1.8.139॥
श्रीपराशर उवाच [Sage Parasara said]
एवं ददौ वरं देवी देवराजाय वै पुरा ।
मैत्रेय श्रीर्महाभागा स्तोत्राराधनतोषिता ॥ 1.8.140 ॥
भृगोः ख्यात्यां समुत्पन्ना श्रीः पूर्वमुदधेः पुनः ।
देवदानवयत्नेन प्रसूतामृतमन्थने ॥ 1.8.141 ॥
एवं यदा जगत्स्वामी देवदेवो जनार्दनः ।
अवतारं करोत्येषा तदा श्रीस्तत्महायिनि ॥ 1.8.142 ॥
पुनश्च पद्मादुत्पन्ना आदित्योभूद्यदा हरिः ।
यदा तु भार्गवो रामस्तदाभूद्धरणी त्वियम् ॥ 1.8.143 ॥
राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि ।
अन्येषु चावतारेषु विष्णोरेषानपायिनि ॥ 1.8.144॥
देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी ।
विष्णोर्देहानुरूपां वै करोत्येषात्मनस्तनुम् ॥ 1.8.145॥
यश्चैतच्छृणुयाज्जन्म लक्ष्म्या यश्च पठेन्नरः ।
श्रियो न विच्युतिस्तस्य गृहे यावत्कुलत्रयम् ॥ 1.8.146॥
पठ्यते येषु चैवेयं गृहेषु श्रीस्तुतिर्मुने ।
अलक्ष्मीः कलहाधारा न ते ष्वास्ते कदाचन ॥ 1.8.147॥
एतते कथितं ब्रह्मन्यन्मां त्वं परिपृच्छसि ।
क्षीराब्धो श्रीर्यथा जाता पूर्वं भृगुसुता सती ॥ 1.8.148 ॥
इति सकल विभूत्यवाप्तिहेतुः स्तुतिरियमिन्द्रमुखोद्गता हि लक्ष्म्याः ।
अनुदिनमिह पठ्यते नृभिर्यैर्वसति न तेषु कदाचिदप्यलक्ष्मीः ॥ 1.8.149॥
इति श्रीविष्णुपुराणे प्रथमेऽंशे नवमोऽध्यायः (8)
श्रीमैत्रेय उवाच
कथितं मे त्वाया सर्वं यत्पृष्टोसि मया मुने ।
भृगुसर्गात्प्रभृत्येष सर्गो मे कथ्यतां पुनः ॥ 1.10.1 ॥
श्रीपराशर उवाच [Sage Parasara said]
भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्विष्णुपरिग्रहः ।
तथा धातृविधातारौ ख्यात्यां जातौ सुतौ भृगोः ॥ 1.10.2॥
आयतिर्नियतिश्चैव मेरोः कन्ये महात्मनः ।
भार्ये धातृविधात्रोस्ते तयोर्जातौ सुतावुभौ ॥ 1.10.3 ॥
प्राणश्चैव मृकण्डुश्च मार्कण्डेयो मृकण्डुतः ।
ततो वेदशिरा जज्ञे प्राणस्यापि सुतं शृणु ॥ 1.10.4 ॥
प्राणस्य द्युतिमान्पुत्रो राजवांश्च ततोऽभवत् ।
ततो वंशो महाभाग विस्तरं भार्गवो गतः ॥ 1.10.5॥
पत्नी मरीचेः संभूतिः पौर्णमासमसूयता ।
विरजाः पर्वतश्चैव तस्य पुत्रो महात्मनः ॥ 1.10.6॥
वंशसंकीर्तने पुत्रान्वदिष्येहं ततो द्विज ।
स्मृतिश्चाङ्गीरसः पत्नी प्रसूता कन्यकास्तथा ।
सिनीवाली कुहूश्चैव राका चानुमती तथा ॥ 1.10.7॥
अनसूया तथैवात्रेर्जज्ञे निष्कल्मषान्सुतान् ।
सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् ॥ 1.10.8॥
प्रीत्यां पुलस्त्यभार्यायां दत्तोलिस्तत्सुतोऽभवत् ।
पूर्वजन्मनि योऽगस्त्यः स्मृतः स्वायंभुवेन्तरे ॥ 1.10.8 ॥
कर्दमश्चार्वरीवांश्च सहिष्णुश्च सुतास्त्रयः ।
क्षमा तु सुषवे भार्या पुलहस्य प्रजापतेः ॥ 1.10.10 ॥
क्रतोश्च संततिर्भार्या वालखिल्यानसूयत ।
षष्टिपुत्रसहस्राणि मुनीनामूर्ध्वरेतसाम् ।
अङ्गुष्ठपर्वमात्राणां ज्वलद्भास्करतेजसाम् ॥ 1.10.11 ॥
ऊर्जायां तु वसिष्ठस्य सप्ताजायन्त वै सुताः ॥ 1.10.12 ॥
रजो गोत्रोर्ध्वबाहुश्च सवनश्चानघस्तथा ।
सुतपाः शुक्र इत्येते सर्वे सप्तर्षयोऽमलाः ॥ 1.10.13 ॥
योऽसावग्न्यभिमानी स्यात्ब्रह्मणस्तनयोऽग्रजः ।
तस्मात्स्वाहा सुतांल्लेभे त्रीनुदारौजसो द्विज ॥ 1.10.14॥
पावकं पवमानं तु शुचिं चापि जलाशिनम् ॥ 1.10.15॥
तेषां तु सन्ततावन्ये चत्वारिंशच्च पञ्च च ।
कथ्यन्ते वह्नयश्चैते पितापुत्रत्रयं च यत् ॥ 1.10.16॥
एवमेकोनपञ्चशद्वह्नयः परिकीर्तिताः ॥ 1.10.17॥
पितरो ब्रह्मणा सृष्टा व्याख्याता ये मया द्विज ।
आग्निष्वात्त बर्हिषदोऽनग्नयः साग्नयश्च ये ॥ 1.10.18 ॥
तेभ्यः स्वधा सुते जज्ञे मेनां वै धारीणीं तथा ।
ते उभे ब्रह्मवादिन्यौ योगिन्यावप्युभे द्विज ॥ 1.10.19॥
उत्तमज्ञानसंपन्ने सर्वैः समुदिर्तैर्गुणैः ॥ 1.10.20 ॥
इत्येषा दक्षकन्यानां कथिता सत्यसंततिः ।
श्रद्धावान्संस्मरन्नेतामनपत्यो न जायते ॥ 1.10.21 ॥
इति श्रीविष्णुपुराणे प्रथमेऽंशे दशमोऽध्यायः (10)
श्रीपराशर उवाच [Sage Parasara said]
प्रियव्रतोत्तानपादौ मनोः स्वायंभुवस्य तु ।
द्वौ पुत्रौ तु महावीर्यौ धर्मज्ञौ कथितौ तव ॥ 1.11.1 ॥
तयोरुत्तानपादस्य सुरुच्यामुत्तमः सुतः ।
अभीष्टायामभूद्ब्रह्यन्पितुरत्यन्तवल्लभः ॥ 1.11.2॥
सुनीतिर्नाम या राज्ञस्तस्यासीन्महिषी द्विज ।
स नाति प्रीतिमांस्तस्यामभूद्यस्या ध्रुवः सुतः ॥ 1.11.3 ॥
राजासनस्थितस्याङ्कं पितुर्भ्रतरमाश्रितम् ।
दृष्ट्वोत्तमं ध्रुव श्चक्रे तमारोढुं मनोरथम् ॥ 1.11.4 ॥
प्रत्यक्षं भूपतिस्तस्याः सुरुच्या नाभ्यनन्दत ।
प्रणयेनागतं पुत्रमुत्संगारोहणोत्सुकम् ॥ 1.11.5॥
सपत्नी तनयं दृष्ट्वा तमङ्कारोहणोत्सुकम् ।
स्वपुत्रं च तथारूढं सुरुचिर्वाक्यमब्रवीत् ॥ 1.11.6॥
क्रियते किं वृथा वत्स महानेष मनोरथः ।
अन्यस्त्रीगर्भजातेन ह्यसंभूय ममोदरे ॥ 1.11.7॥
उत्तमोत्तममप्राप्यमविवेको हि वाञ्छसि ।
सत्यं सुतस्त्वमप्यस्य किं तु न त्वं मया धृतः ॥ 1.11.8॥
एतद्राजासनं सर्व भूभृत्संश्रयकेतनम् ।
योग्यं ममैव पुत्रस्य किमात्मा क्लिश्यतेत्वया ॥ 1.11.8 ॥
उच्चैर्मनोरथस्तेयं मत्पुत्रस्येव किं वृथा ।
सुनीत्यामात्मनो जन्म किं त्वया नावगम्यते ॥ 1.11.10 ॥
श्रीपराशर वाच
उत्सृज्य पितरं बालस्तच्छ्रुत्वा मातृभाषितम् ।
जगाम कुपितो मातुर्निजाया द्विजमन्दिरम् ॥ 1.11.11 ॥
तं दृष्ट्वा कुपितं पुत्रमीषत्प्रस्फुरिताधरम् ।
सुनीतिरङ्कमारोप्य मैत्रेयेदमभाषत ॥ 1.11.12 ॥
वत्स कः कोपहेतुस्ते कश्च त्वां नाभि नन्दति ।
कोवजानाति पितरं वत्स यस्तेपराध्यति ॥ 1.11.13 ॥
श्रीपराशर वाच
इत्युक्तः सकलं मात्रे कथयामास तद्यथा ।
सुरुचिः प्राह भूपालप्रत्यक्षमतगर्विता ॥ 1.11.14॥
विनिश्वस्येति कथिते तस्मिन्पुत्रेण दुर्मनाः ।
श्वसक्षामेक्षणा दीना सुनीतिर्वाक्यमब्रवीत् ॥ 1.11.15॥
सुनीतिरुवाच
सुरुचिः सत्यमाहेदं मन्दभाग्योसिःपुत्रक ।
न हि पुण्यवतां वत्स सपत्नैरेव मुच्यते ॥ 1.11.16॥
नोद्वेगस्तात कर्तव्यः कृतं यद्भवता पुरा ।
तत्कोपहर्तु शक्नोति दातुं कश्चाकृतं त्वया ॥ 1.11.17॥
तत्त्वया नात्र कर्तव्यं दुःखं तद्वाक्यसम्भवम् ॥ 1.11.18 ॥
राजासनं राजच्छत्रं वराश्चावरवारणाः ।
यस्य पुण्यानि तस्यैते मत्वैतच्छांम्य पुत्रक ॥ 1.11.19॥
अन्यजन्मकृतैः पुण्यैः सुरुच्या सुरुचिर्नृपः ।
भार्येति प्रोच्यते चान्यां मद्विधा पुण्यवर्जिता ॥ 1.11.20 ॥
पुण्योपचयसंपन्नस्तस्याः पुत्रस्तथोत्तमः ।
मम पुत्रस्तथा जातः स्वल्पपुण्यो ध्रुवो भवान् ॥ 1.11.21 ॥
तथापि दुःखं न भवान् कर्तुमर्हसि पुत्रक ।
यस्य यावत्स तेनैव स्वेन तुष्यति मानवः ॥ 1.11.22 ॥
यदि ते दुःखमत्यर्थं सुरुच्या वचसाभवत् ।
तत्पुण्योपचये यत्नं कुरु सर्वफलप्रदे ॥ 1.11.23 ॥
सुशीलो भव धर्मात्मा मैत्रः प्राणिहिते रतः ।
निम्नं यथापः प्रवणाः पात्रमायान्ति सम्पदः ॥ 1.11.24॥
ध्रुव उवाच
अम्ब यत्त्वमिदं प्रात्थ प्रशमाय वचो मम ।
नैतद्दुर्वाचसा भिन्ने हृदये मम तिष्ठति ॥ 1.11.25॥
सोऽहं तथा यतिष्यामि यथा सर्वोत्तमोत्तमम् ।
स्थानं प्राप्स्याम्यशोषाणां जगतामभि पूजितम् ॥ 1.11.26॥
सुरुचिर्दयिता राज्ञस्तस्या जातोस्मि नोदरात् ।
प्रभावं पश्य मेंब त्वं वृद्धस्यापि तवोदरे ॥ 1.11.27॥
उत्तमः स मम भ्राता यो गर्भेण धृतस्तया ।
स राजासनमाप्नोतु पित्रा दत्तं तथास्तु तत् ॥ 1.11.28 ॥
नान्यदत्तमभीप्स्यामि स्तानमम्ब स्वकर्मणा ।
इच्छामि तदहं स्थानं यत्र प्राप पिता मम ॥ 1.11.29॥
श्रीपराशर उवाच [Sage Parasara said]
निर्जगाम गृहान्मातुरित्युक्त्वा मातरं ध्रुवः ।
पुराच्च निर्गम्य ततस्तद्बाह्योपवनं ययो ॥ 1.11.30 ॥
स ददर्श मुनींस्तत्र सप्तपूर्वागतान्ध्रुवः ।
कुष्माजिनोत्तरीयेषु विष्टरेषु समास्थितान् ॥ 1.11.31 ॥
स राजपुत्रस्तान्सर्वान्प्रणिपत्याभ्य भाषत ।
प्रश्रयावनतः सम्यगभिवादनपूर्वकम् ॥ 1.11.32 ॥
ध्रुव उवाच
उत्तानपादतनयं मां निबोधत सत्तमाः ।
जातं सुनीत्यां निर्वेदाद्युष्माकं प्राप्तमन्तिकम् ॥ 1.11.33 ॥
ऋषय ऊचुः
चतुःपञ्चा ब्दसंभूतो बालस्त्वं तृपनन्दन ।
निर्वेदकारणं किञ्चित्तव नाद्यापि वर्तते ॥ 1.11.34॥
न चिन्त्यं भवतः किञ्चिद्ध्रयते भूपतिः पिता ।
न चैवैष्ट वियोगादि तव पश्याम बालक ॥ 1.11.35॥
शरीरे न च ते व्याधिरस्माभिरुपलक्ष्यते ।
निर्वेदः किन्निमित्तस्ते कथ्यतां यदि विद्यते ॥ 1.11.36॥
श्रीपराशर उवाच [Sage Parasara said]
ततः स कथयामास सुरुच्या यदुदाहृतम् ।
तन्निशम्य ततः प्रोचुर्मुनयस्ते परस्परम् ॥ 1.11.37॥
अहो क्षात्रं परं तेजो बालस्यापि यदक्षमा ।
सपत्न्या मातुरुक्तं यद्धृदयान्नापसर्पति ॥ 1.11.38 ॥
भोभोः क्षत्रियदायादः निर्वेदाद्यत्त्वायाधुना ।
कर्तुं व्यवसितं तन्नः कथ्यतां यदि रोचते ॥ 1.11.39॥
यच्च कार्यं तवास्माभिः साहाय्यममितद्युते ।
तदुच्यतां विवक्षुस्त्वमस्माभिरुपलक्ष्यसे ॥ 1.11.40 ॥
ध्रुव उवाच
नाह मर्थमभीप्सामि न राज्यं द्विजसत्तमाः ।
तत्स्थानमेकमिच्छामि भुक्तं नान्येन यत्पुरा ॥ 1.11.41 ॥
एतन्मे क्रियतां सम्यक्कथ्यतां प्राप्यते यथा ।
स्थानमग्र्यं समस्तेभ्यः स्थानेभ्यो मुनिसत्तमाः ॥ 1.11.42 ॥
मरीचिरुवाच
अनाराधितगोविन्दैर्नरैः स्थानं नृपात्मज ।
न हि संप्राप्यते श्रेष्ठं तस्मादाराधयाच्युतम् ॥ 1.11.43 ॥
अत्रिरुवाच
परः पराणां पुरुषो यस्य तुष्टो जनार्दनः ।
संप्राप्नोत्यक्षयं स्थानमेतत्सत्यं मयोदितम् ॥ 1.11.44॥
अङ्गिरा उवाच
यस्यान्तः सर्वमेवेदमच्युतस्याव्ययात्मनः ।
तमाराधय गोविन्दं स्थानमग्र्यं यदीच्छसि ॥ 1.11.45॥
पुलस्त्य उवाच
परं ब्रह्म परं धाम योऽसौ ब्रह्म तथा परम् ।
तमाराध्य हरिं याति मुक्तिमप्यति दुर्लभाम् ॥ 1.11.46॥
पुलह उवाच
ऐन्द्रमिन्द्रः परं स्थानं यमाराध्य जगत्पतिम् ।
प्राप यज्ञपतिं विष्णुं तमाराधय सुव्रत ॥ 1.11.47॥
क्रतुरुवाच
यो यज्ञपुरुषो यज्ञो योगेशः परमः पुमान् ।
तस्मिंस्तुष्टे यदप्राप्यं किन्तदस्ति जनार्दने ॥ 1.11.48 ॥
वसिष्ठ उवाच
प्राप्नोष्याराधिते विष्णौ मनसा यद्यदिच्छति ।
त्रेलोक्यान्तर्गतं स्थानं किमु वत्सोत्तमोत्तमम् ॥ 1.11.49॥
ध्रुव उवाच
आराध्यः कथितो देवो भवद्भिः प्रणतस्य मे ।
मया तत्परीतोषाय यज्जप्तव्यं तदुच्यताम् ॥ 1.11.50 ॥
यथा चाराधनं तस्य मया कार्यं महात्मनः ।
प्रसादसुमुखास्तन्मे कथयन्तु महर्षयः ॥ 1.11.51 ॥
ऋषय ऊचुः
राजपुत्र यथा विष्णोराराधनपरैर्नरैः ।
कार्यमाराधनं तन्नो यथावच्छ्रोतुमर्हसि ॥ 1.11.52 ॥
बाह्यार्थादखिलाच्चित्तं त्याजयेत्प्रथमं नरः ।
तस्मिन्नेव जगद्धाम्नि ततः कुर्वित निश्चलम् ॥ 1.11.53 ॥
एवमेकाग्रचित्तेन तन्मयेन धृतात्मना ।
जप्तव्यं यन्नि बोधैतत्तन्रः पार्थिवनन्दन ॥ 1.11.54॥
हिरण्यगर्भपुरुषप्रधानव्यक्तरूपिणे ।
ओं [OM] नमो वासुदेवाय शुद्धज्ञानस्वरूपिमे ॥ 1.11.55॥
एतज्जजाप भगवान् जप्यं स्वायंभुवो मनुः ।
पितामहस्तव पुरा तस्य तुष्टो जनार्दनः ॥ 1.11.56॥
ददो यथाभिलषितां सिद्धिं त्रैलोक्यदुर्लभाम् ।
तथा त्वमपि गोविन्दं तोषयैतत्सदा जपन् ॥ 1.11.57॥
इति श्रीविष्णुपुराणे प्रथमेंश एकादशोऽध्यायः (11)
श्रीपराशर उवाच [Sage Parasara said]
निशम्यैतदशेषेण मैत्रेय नृपते सुतः ।
निर्जगाम वनात्तस्मात्प्रणिपत्य स तानृषीन् ॥ 1.12.1 ॥
कृतकृत्यमिवात्मानं मन्यमानस्ततो द्विज ।
मधुसंज्ञं महापुण्यं जगाम यमुनातटम् ॥ 1.12.2॥
पुनश्च मधुसंज्ञेन दैत्येनाधिष्ठितं यतः ।
ततो मधुवनं नाम्ना ख्यातमत्र महीतले ॥ 1.12.3 ॥
हत्वा च लवणं रक्षो मधुपुत्रं महाबलम् ।
शत्रुघ्नो मधुरां नाम पुरीं यत्र चकार वै ॥ 1.12.4 ॥
यत्र वै देवदेवस्य सान्निध्यं हरिमेधसः ।
सर्वपापहरे तस्मिंस्तपस्तीर्थे चकार सः ॥ 1.12.5॥
मरीचिमुख्यैर्मुनिभिर्यथोद्दिष्टमभूत्तथा ।
आत्मन्यशेपदेवेशं स्थितं विष्णुममन्यत ॥ 1.12.6॥
अनन्यचेतसस्तस्य ध्यायतो भगवान्हरिः ।
सर्वभूतगतो विप्र सर्वभावगतोऽभवत् ॥ 1.12.7॥
मनस्यवस्थिते तस्मिन्विष्णौ मैत्रेय योगिनः ।
न शशाक धरा भारमुद्वोढुं भूतधारिणी ॥ 1.12.8॥
वामपादस्थिते तस्मिन्ननामार्धेन मेदिनी ।
द्वितीयं च ननामार्धं क्षितेर्दक्षिणतः स्थिते ॥ 1.12.8 ॥
पादांसुष्ठेन संपीड्य यथा स वसुधां स्थितः ।
तदा समस्ता वसुधा चचाल सह पर्वतैः ॥ 1.12.10 ॥
नद्यो नदाः समुद्राश्च संक्षोभं परमं ययुः ।
तत्क्षोभादमराः क्षोभं परं जग्मुर्महामुने ॥ 1.12.11 ॥
यामा नाम तदा देवा मैत्रेय परमाकुलाः ।
इन्द्रेण सह संमन्त्र्य ध्यानभङ्गं प्रचक्रमुः ॥ 1.12.12 ॥
कूष्माण्डा विविधै रूपैर्महेन्द्रेण महामुने ।
समाधिभङ्गमत्यन्तमारब्धाः कर्तुमातुराः ॥ 1.12.13 ॥
सुनीतिर्नाम तन्माता सास्त्रा तत्पुरतः स्थिता ।
पुत्रेति करुणां वाचमाह मायामयी तदा ॥ 1.12.14॥
पुत्रकास्मान्निवर्तस्व शरीरात्ययदारुणात् ।
निर्बन्धतो मया लब्धो बहुभिस्त्वं मनोरथै ॥ 1.12.15॥
दीनामेकां परित्यक्तुमनाथां न त्वमर्हसि ।
सपत्नीवचनाद्वत्स अगतेस्त्वं गतिर्मम ॥ 1.12.16॥
क्व च त्वं पञ्चवर्षीयः क्वचैतद्दारूणं तपः ।
निवर्ततां मनः कष्टान्निर्बन्धात्फलवर्जितात् ॥ 1.12.17॥
कालः क्रीडनकानान्ते तदन्तेऽध्ययनस्य ते ।
ततः समस्तभोगानां तदन्ते चेष्यते तपः ॥ 1.12.18 ॥
कालः क्रीडनकानां यस्तव बालस्य पुत्रक ।
तस्मिंस्त्वमिच्छसि तपः किं नाशायात्मनो रतः ॥ 1.12.19॥
मत्प्रीतिः परमो धर्मो वयोवस्थाक्रियाक्रमम् ।
अनुवर्तस्व मा मोहान्निवर्तास्मादधर्मतः ॥ 1.12.20 ॥
परित्यजति वत्साध्य यध्येतन्न भवांस्तपः ।
त्यक्ष्याम्यहमिह प्राणांस्ततो वै पश्यतस्तव ॥ 1.12.21 ॥
श्रीपराशर उवाच [Sage Parasara said]
तां प्रलापवतीमेवं बाष्पाकुलविलोचनाम् ।
समाहितमना विष्णौ पश्यन्नपि न दृष्टवान् ॥ 1.12.22 ॥
वत्स वत्स सुघोराणि रक्षांस्येतानि भीषणे ।
वनेऽभ्युद्यतशस्त्राणीः समायान्त्यपगम्यताम् ॥ 1.12.23 ॥
इत्युक्त्वा प्रययौ साथ रक्षांस्याविर्बभुस्ततः ।
अभ्युद्यतोग्रशस्त्राणि ज्वालामालाकुलैर्मुखैः ॥ 1.12.24॥
ततो नादानतीवोग्रन्राजपुत्रस्य ते पुरः ।
मुमुचुर्दीप्तशस्त्राणि भ्रामयन्तो निशाचराः ॥ 1.12.25॥
शिवाश्च शतशो नेदुः सज्वालाः कवलैर्मुखैः ।
त्रासाय तस्य बालस्य योगयुक्तस्य सर्वदा ॥ 1.12.26॥
हन्यतां दन्यतामेष छिद्यतां छिद्यतामयम् ।
भक्ष्यतां भक्ष्यतां चाय मित्युचुस्ते निशाचराः ॥ 1.12.27॥
ततो नानाविधान्नादान् सिंहोष्ट्रमकराननाः ।
त्रासाय राजपुत्रस्य नेदुस्ते रजनीचराः ॥ 1.12.28 ॥
रक्षांसि तानि ते नादाः शिवास्तान्यायुधानि च ।
गोविन्दासक्तचित्तस्य ययुर्नन्द्रियगोचरम् ॥ 1.12.29॥
एकाग्रचेताः सततं विष्णुमेवात्मसंश्रयम् ।
दृष्टवान् पृथिवीनाथपुत्रो नान्यं कथञ्चन ॥ 1.12.30 ॥
ततः सर्वासु मायासु विलीनासु पुनः सुराः ।
संक्षोभं परमं जग्मुस्तत्पराभवशङ्किताः ॥ 1.12.31 ॥
ते समेत्य जगद्योनिमनादिनिधनं हरिम् ।
शरण्यं शरणं यातास्तपसा तस्य तापिताः ॥ 1.12.32 ॥
देवा ऊचुः
देवदेव जगन्नाथ परेश पुरुषोत्तम ।
ध्रुवस्य तपसा तप्तास्त्वां वयं शरणं गताः ॥ 1.12.33 ॥
दिने दिने कलालेशैः शशाङ्क पूर्यते यथा ।
तथायं तपसा देव प्रयात्यृद्धिमहर्निंशम् ॥ 1.12.34॥
औतानपादितपसा वयमित्थं जनार्दन ।
भीतास्त्वां शरणं यातास्तपसस्तं निवर्तय ॥ 1.12.35॥
नविद्मः किं स शक्रत्वं सूर्यत्वं किमभीप्सति ।
वित्तपाम्बुपसोमानां साभिलाषः पदेषु किम् ॥ 1.12.36॥
तदस्माकं प्रसीदेश हृदयाच्छल्यमुद्धर ।
उत्तानपादतनयं तपसः सन्निवर्तय ॥ 1.12.37॥
श्रीभगवानुवाच
नेन्द्रत्वं न च सूर्यत्वं नैवाम्बुपधनेशताम् ।
प्रार्थयत्येष यं कामं तं करोम्यखिलं सुरा ॥ 1.12.38 ॥
यात देवा यथाकाम स्वस्थानं विगतज्वराः ।
निवर्तयाम्यहं बालं तपस्यासक्तमानसम् ॥ 1.12.39॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्ता देवदेवेन प्रणम्य त्रिदशास्ततः ।
प्रययुः स्वानि धिष्ण्यानि शतक्रतुपुरोगमाः ॥ 1.12.40 ॥
भगवानपि सर्वात्मा तन्मयत्वेन तोषितः ।
गत्वा ध्रुवमुवाचेदं चतुर्भुजवपुर्हरिः ॥ 1.12.41 ॥
श्रीभगवानुवाच
औत्तानपादे भद्रं ते तपसा परितोषितः ।
वरदोहमनुप्राप्तो वरं वरय सुव्रत ॥ 1.12.42 ॥
ब्राह्यार्थनिरपेक्षं ते मयि चित्तं यदा हितम् ।
तुष्टोहं भवतस्तेन तद्वृणीष्व वरं परम् ॥ 1.12.43 ॥
पराशर उवाच
श्रुत्वेत्थं गदितं तस्य देवदेवस्य बालकः ।
उन्मीलिताक्षो ददृशे ध्यानदृष्टं हरिं पुरः ॥ 1.12.44॥
शङ्खचक्रगदाशार्ङ्गवरासिधरमच्युतम् ।
किरीटिनं समालोक्य जगाम शिरसा महीम् ॥ 1.12.45॥
रोमाञ्चिताङ्गः सहसा साध्वसं परमं गतः ।
स्तवाय देवदेवस्य स चक्रे मानसं ध्रुवः ॥ 1.12.46॥
किं वदामि स्तुतावस्य केनोक्तेनास्य संस्तुतिः ।
इत्याकुल मतिर्देवं तमेव शरणं ययौ ॥ 1.12.47॥
ध्रुव उवाच
भगवन्यदि मे तोषं तपसा परमं गतः ।
स्तोतुं तदहमिच्छामि वरमेनं प्रयच्छ मे ॥ 1.12.48 ॥
(ब्रह्माद्यौर्यस्य वेदज्ञैर्ज्ञायते यस्य नो गतिः ।
तं त्वां कथमहं देव स्तोतुं शक्रोमि बालकः ।
त्वद्भक्तिप्रवणं ह्येतत्परमेश्वर मे मनः ।
स्तोतुं प्रवृत्तं त्वत्पादौ तत्र प्रज्ञां प्रयच्च मे)
श्रीपराशर उवाच [Sage Parasara said]
शङ्खप्रान्तेन गोविन्दस्तं पस्पर्श कृताञ्जलिम् ।
उत्तानपादतनयं द्विजवर्य जगत्पतिः ॥ 1.12.49॥
अथ प्रसन्नवदनः स क्षणान्नृपनन्दनः ।
तुष्टाव प्रणतो भूत्वा भूतधातारमच्युतम् ॥ 1.12.50 ॥
ध्रुव उवाच
भूमिरापोनलो वायुः खं मनो बुद्धिरेव च ।
भूतादिरादि प्रकृतिर्यस्य रूपं नतोस्मि तम् ॥ 1.12.51 ॥
शुद्धः सूक्ष्मोखिलव्यापी प्रधानात्परतः पुमान् ।
यस्य रूपं नमस्तस्मै पुरुषाय गुणात्मने ॥ 1.12.52 ॥
भूतादीनां समस्तानां गन्धादीनां च शाश्वतः ।
बुध्यादीनां प्रधानस्य पुरुषस्य च यः परः ॥ 1.12.53 ॥
तं ब्रह्मभूतमात्मानमशेषजगतः पतिम् ।
प्रपद्ये शरणं शुद्धं त्वद्रूपं परमेश्वर ॥ 1.12.54॥
बृहत्त्वाद्बृंहणत्वाच्च यद्रूपं ब्रह्मसंज्ञितम् ।
तस्मै नमस्ते सर्वात्मन्योगिचिन्त्याविकारिणे ॥ 1.12.55॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सर्वव्यापी भुवः स्पर्शादत्यतिष्ठद्दशाङ्गुलम् ॥ 1.12.56॥
यद्भूतं यच्च वै भव्यं पुरूषोत्तम तद्भवान् ।
त्वत्तौ विराट्स्वराट्सम्राट्त्वत्तश्चप्यधिपूरुषः ॥ 1.12.57॥
अत्यरिच्यत सोधश्च तिर्यगूर्ध्वं च वै भुवः ।
त्वत्तो विश्वमिदं जातं त्वत्तौ भूतं भविष्यति ॥ 1.12.58 ॥
त्वद्रूपधारिणश्चान्तः सर्वभूतमिदं जगत् ।
त्वत्तो यज्ञः सर्वहुतः पृषदाज्यं पशुर्द्विधा ॥ 1.12.59॥
त्वत्तो ऋचोथ सामानि त्वत्तश्छन्दांसि जज्ञिरे ।
त्वत्तो यजूंष्यजायन्त त्वत्तोश्वाश्चैकतो दतः ॥ 1.12.60 ॥
गावस्त्वत्तः समुद्भूतास्त्व त्तोजा अवयो मृगाः ।
त्वमन्मुखाद्ब्राह्मणा बाह्वोस्त्वत्तो क्षत्रमजायत ॥ 1.12.61 ॥
वैश्वास्तवोरुजाः शूद्रास्तव पद्भ्यां समुद्गताः ।
आक्ष्णोः सूर्योऽनिलः प्राणाच्चन्द्रमा मनसस्तव ॥ 1.12.62 ॥
प्राणोन्तः मुषिराज्जातो मुखादग्निरजायत ।
नाभितो गगनं द्यौश्च शिरसः समवर्तत ॥ 1.12.63 ॥
दिशः श्रोत्रात्क्षितिः पद्भ्यां त्वत्तः सर्वमभूदिदिम् ॥ 1.12.64॥
न्यग्रोधः सुमहानल्पे यथा बीजे व्यवस्थितः ।
संयमे विस्वमखिलं बीजभूते तथात्वायि ॥ 1.12.65॥
बीजादङ्कुरसम्भूते न्यग्रोधस्तु समुत्थितः ।
विस्तारं च यथा याति त्वत्तः सृष्टौ तथा जगत् ॥ 1.12.66॥
यथा हि कदली नान्या त्वक्पत्रादपि दृस्यते ।
एवं विश्वस्य नान्यस्त्वं त्वस्थयीश्वर दृश्येत ॥ 1.12.67॥
ह्लादिनी संधिनी संवित्त्वय्येका सर्वसंस्थितौ ।
ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥ 1.12.68 ॥
पृथग्भूतैकभूताय भूतभूताय ते नमः ।
प्रभूतभूतभूताय तुभ्यं भूतात्मने नमः ॥ 1.12.69॥
व्यक्तं प्रधानपुरुषौ विराट्सम्राट्स्वराट्तथा ।
विभाव्यतेन्तःकरणे पुरुषेष्वक्षयो भवान् ॥ 1.12.70 ॥
सर्वस्मिन्सर्वभूतस्त्वं सर्वः सर्वस्वरूपधृक् ।
सर्वं त्वत्तस्ततश्च त्वं नमः सर्वात्मनेऽस्तु ते ॥ 1.12.71 ॥
सर्वात्मकोसि सर्वेश सर्वभूतस्थितो यतः ।
कथयामि ततः किं ते सर्वं वेत्सि हृति स्थितम् ॥ 1.12.72 ॥
सर्वात्मन्सर्वभूतेश सर्वसत्त्वसमुद्भव ।
सर्वभूतो भवान्वेत्ति सर्वसत्त्वमनोरथम् ॥ 1.12.73 ॥
यो मे मनोरथो नाथ सफलः स त्वया कृतः ।
तपश्च तप्तं सफलं यद्दृष्टोऽसि जगत्पते ॥ 1.12.74॥
श्रीभगवानुवाच
तपसस्तत्फलं यद्दृष्टोऽहं त्वया ध्रुव ।
मदृर्शनं हि विफलं राजपुत्र न जायते ॥ 1.12.75॥
वरं वरय तस्मात्त्वं यथाभिमतमात्मनः ।
सर्वं संपद्यते पुंसां मयि दृष्टिपथं गते ॥ 1.12.76॥
ध्रुव उवाच
भगवन्भूतभव्येश सर्वस्यास्ते भवान् हृदि ।
किमज्ञातं तव ब्रह्मन्मनसा यन्मयेक्षितम् ॥ 1.12.77॥
तथापि तुभ्यं देवेश कथयिष्यामि यन्मया ।
प्रार्थ्यते दुर्विनीतेन हृदयेनातिदुर्लभम् ॥ 1.12.78 ॥
किं वा सर्वजगत्स्त्रष्टः प्रसन्ने त्वयि दुर्लभम् ।
त्वत्प्रसादफलं भुङ्क्ते त्रैलोक्यं मघ वानपि ॥ 1.12.79॥
नैतद्राजासनं योग्यमजातस्य ममोदरात् ।
इति गर्वदवोचन्मां सपत्नीमातुरुच्चकैः ॥ 1.12.80 ॥
आधारभूतं जगतः सर्वेषामुत्तमोत्तमम् ।
प्रार्थयामि प्रभो स्थानं त्वत्प्रसादादतोव्ययम् ॥ 1.12.81 ॥
श्रीभगवानुवाच
यत्त्वया प्रार्थ्यते स्थानमेतत्प्राप्स्यति वै भवान् ।
त्वयाहं तोषितः पूर्वमन्यजन्मनि वालक ॥ 1.12.82 ॥
त्वमासीर्ब्रह्मणः पूर्वं मय्येकाग्रमतिः सदा ।
मातापित्रोश्च शुश्रषुर्निजधर्मानुपालकः ॥ 1.12.83 ॥
कालेन गच्छता मित्रं राजपुत्रस्तवाभवत् ।
योवनेखिलभोगाढ्यो दर्शनीयोज्ज्वलाकृतिः ॥ 1.12.84॥
तत्सङ्गात्तस्य तामृद्धिमवलोक्यादिदुर्लभाम् ।
भवेयं राजपुत्रोहमिति वाञ्छा त्वया कृता ॥ 1.12.85॥
ततो यथाभिलषिता प्राप्ता ते राजपुत्रता ।
उत्तानपादस्य गृहे जातोसि ध्रुव दुर्लभे ॥ 1.12.86॥
अन्येषां दुर्लभं स्थानं कुले स्वायम्भुवस्य यत् ॥ 1.12.87॥
तस्यैतदपरं बाल येनाहं परितोषितः ।
मामाराध्य नरो मुक्तिमवाप्नोत्यविलम्बिताम् ॥ 1.12.88 ॥
मय्यर्पितमना बाल किमु स्वर्गादिकं पदम् ॥ 1.12.89॥
त्रैलोक्यादधिके स्थाने सर्वताराग्रहाश्रयः ।
भविष्यति न संदेहो मत्प्रसादाद्भावन्ध्रुव ॥ 1.12.90 ॥
सूर्यात्सोमात्तथा भौमात्सोमपुत्राद्बृहस्पतेः ।
सितार्कतनयादीनां सर्वर्क्षाणां तथा ध्रुवः ॥ 1.12.91 ॥
सप्तर्षिणामशेषाणां ये च वैमानिकाः सुराः ।
सर्वेषामुपरि स्थानं तव दत्तं मया ध्रुव ॥ 1.12.92 ॥
केचिच्चतुर्युगं यावत्केचिन्मन्वन्तरं सुराः ।
तिष्ठन्ति भवतो दत्ता मया वै कल्पसंस्थितिः ॥ 1.12.93 ॥
सुनीतिरपि ते माता त्वदासन्नातिनिर्मला ।
विमाने तारका भूत्वा तावत्कालं निवत्स्यति ॥ 1.12.94॥
ये च त्वां मानवाः प्रातः सायं च सुसमाहि ताः ।
कीर्तयिष्यन्ति तेषां च महत्पुण्यं भविष्यति ॥ 1.12.95॥
श्रीपराशर उवाच [Sage Parasara said]
एवं पूर्वं जगन्नाथाद्देवदेवाज्जनार्दनात् ।
वरं प्राप्य ध्रुवः स्थान मध्यास्ते स महामते ॥ 1.12.96॥
स्वयं शुश्रूषणाद्धर्म्यान्मातापित्रोश्च वै तथा ।
द्धादशाक्षरमाहत्म्यात्तपसश्च प्रभावतः ॥ 1.12.97॥
तस्याभिमानमृद्धिं च महिमानं निरिक्ष्य हि ।
देवासुराणामाचार्यः श्लोकमत्रोशना जगौ ॥ 1.12.98 ॥
अहोस्य तपसो वीर्यमहोस्य तपसः फलम् ।
यदेनं पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥ 1.12.99॥
ध्रुवस्य जननी चेयं सुनीतिर्नाम सूनृता ।
अस्याश्च महिमानं कः शक्तो वर्णयितुं भुवि ॥ 1.12.100 ॥
त्रैलोक्यश्रयतां प्राप्तं परं स्थानं स्तिरायति ।
स्थानं प्राप्ता परं धृत्वा या कुक्षिविवरे ध्रुवम् ॥ 1.12.101 ॥
यश्चैतत्कीर्तयेन्नित्यं ध्रुवस्यारोहणं दिवि ।
सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥ 1.12.102 ॥
स्थानभ्रंशं न चाप्नोति दिवि वा यदि वा भुवि ।
सर्वकल्याणसंयुक्तो दीर्घकालं स जीवति ॥ 1.12.103 ॥
इति श्रीविष्णुपुराणे प्रथमेऽंशे द्वादशोऽध्यायः (12)
श्रीपराशर उवाच [Sage Parasara said]
ध्रुवाच्छिष्टिं च भव्यं च भव्याच्छम्भुर्व्यजायत ।
शिष्टोराधत्त सुच्छाया पञ्चपुत्रानकल्मषान् ॥ 1.13.1 ॥
रिपुं रिपुञ्जयं विप्रं वृकलं वृकतेजसम् ।
रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् ॥ 1.13.2॥
अजीजनत्पुष्करिण्यां वारुण्यां चाक्षुषो मनुम् ।
प्रजापतेरात्मजायां वीरणस्य महात्मनः ॥ 1.13.3 ॥
मनोरजायन्त दश नड्वलायां महौजसः ।
कन्यायां तपतां श्रेष्ठ वैराजस्य प्रजापतेः ॥ 1.13.4 ॥
कुरुः पुरुः शत द्युम्नस्तपस्वी सत्यवाञ्छुचिः ।
अग्निष्टोमोतिरात्रश्च सुद्युम्नश्चेति ते नव ।
अभिमन्युश्च दशमो नड्वलायां महौजसः ॥ 1.13.5॥
कुरोरजनयत्पुत्रान् षडाग्नोयी महाप्रभान् ।
अङ्गं सुमनसं ख्यातिं क्रतुमङ्गिरसं शिबिम् ॥ 1.13.6॥
अङ्गात्सुनीथापत्यं वै वेनमेकमजायत ।
प्रजार्थमृषयस्तस्य ममन्थुर्दक्षिणं करम् ॥ 1.13.7॥
वेनस्य पाणौ मथिते सम्बभूव महामुने ।
वैन्यो नाम महीपालो यः पृथुः परिकीर्तितः ॥ 1.13.8॥
येन दुग्धा मही पूर्वं प्रजानां हितकारणात् ॥ 1.13.8 ॥
मैत्रेय उवाच
किमर्थं मथितः पाणिर्वेनस्य परमर्षिभिः ।
यत्र जज्ञे महावीर्यः स पृथृर्मुनिसत्तम ॥ 1.13.10 ॥
श्रीपराशर उवाच [Sage Parasara said]
सुनीथा नाम या कन्या कृत्यो प्रथमतोऽभवत् ।
अङ्गस्य भार्या सा दत्ता तस्यां वेनो व्यजायत ॥ 1.13.11 ॥
स मातामहदोषेण तेन मृत्योः सुतात्मजः ।
निसर्गादेष मैत्रेय दुष्ट एव व्यजायत ॥ 1.13.12 ॥
अभिषिक्तो यदा राज्ये स वेनः परमर्षिभिः ।
घोष यामास स तदा पृथिव्यां पृथिवीपतिः ॥ 1.13.13 ॥
न यष्टव्यं न दातव्यं न होतव्यं कथञ्चन ।
भोक्ता यज्ञस्य कस्त्वन्योऽह्यहं यज्ञपतिः प्रभुः ॥ 1.13.14॥
ततस्तमृषयः पूर्व संपूज्यं पृथिवीपतिम् ।
ऊचुः सामाकलं वाक्यं मैत्रेय समपस्थिताः ॥ 1.13.15॥
ऋषय ऊचुः
भोभो राजन् शृणुष्व त्वं यद्वदाम महीपते ।
राज्यं देहोपकाराय प्रजानां च हितं परम् ॥ 1.13.16॥
दीर्घसत्रेण देवेशं सर्वयज्ञेश्वरं हरिम् ।
पूजयिष्याम भद्रं ते तस्यांशस्ते भविष्यति ॥ 1.13.17॥
यज्ञेन यज्ञपुरुषो विष्णुः संप्रीणिते नृप ।
अस्माभिर्भवतः कामान्सर्वानेव प्रदास्यति ॥ 1.13.18 ॥
यज्ञैर्यज्ञेश्वरो येषां राष्ट्रे संपूज्यते हरिः ।
तेषां सर्वेप्सितावाप्तिं ददाति नृप भूभृताम् ॥ 1.13.19॥
वेन उवाच
मत्तः कोऽभ्यधिकोन्योस्ति कश्चाराध्यो ममापरः ।
कोयं हरिरिति ख्यातो यो वो यज्ञश्वरो मतः ॥ 1.13.20 ॥
ब्रह्मा जनार्दनः शम्भुरिन्द्रो वायुर्यमो रविः ।
हुतभुग्वरुणो धाता पूषा भूमिर्निंशाकरः ॥ 1.13.21 ॥
एते चान्ये च ये देवाः शापानुग्रहकारिणः ।
नृपस्यैते शरीरस्थाः सर्वदेवमयो नृपः ॥ 1.13.22 ॥
एवं ज्ञास्वा मयाज्ञप्तं यद्यथा क्रियतां तथा ।
न दातव्यं न यष्टव्यं न होतव्यं च भो द्विजाः ॥ 1.13.23 ॥
भर्तृशुश्रूषणं धर्मो यथा स्त्रीणां परो मतः ।
ममाज्ञापालनं धर्मो भवतां च तथा द्विजाः ॥ 1.13.24॥
ऋषय ऊचुः
देह्यनुज्ञां महाराज मा धर्मो यातु संक्षयम् ।
हविषां परिणामोऽयं यदेतदखिलं जगत् ॥ 1.13.25॥
श्रीपराशर उवाच [Sage Parasara said]
इति विज्ञाप्यमानोऽपि स वेनः परमर्षिभिः ।
यदा ददाति नानुज्ञं प्रोक्तः प्रोक्तः पुनः पुनः ॥ 1.13.26॥
ततस्ते मुनयः सर्वे कोपामर्षसमन्विताः ।
हन्यतां हन्यतां पाप इत्यूचुस्ते परस्परम् ॥ 1.13.27॥
यो यज्ञपुरुषं विष्णुमनादिनिधनं प्रभुम् ।
विनिन्दत्यधमाचारो न स योग्यो भुवः पतिः ॥ 1.13.28 ॥
इत्युक्त्वा मन्त्रपूतैस्तैः कुशैर्मुनिगणानृपम् ।
निजघ्नुर्निहतं पुर्वं भगवन्निन्दनादिना ॥ 1.13.29॥
ततश्च मुनयो रेणुं ददृशुः सर्वतो द्विज ।
किमेतदिति चासन्नात्पप्रच्छुस्ते जनास्तदा ॥ 1.13.30 ॥
आख्यातं च जनैस्तेषां चोरीभूतैरराजके ।
राष्ट्रे तु लोकैरारब्धं परस्वादानमातुरैः ॥ 1.13.31 ॥
तेषामुदीर्णवेगानां चोराणां मुनिसत्तमाः ।
सुमहद्दृश्यते रेणुः परवित्तापहारिणाम् ॥ 1.13.32 ॥
ततः संमन्त्र्य ते सर्वे सुनयस्तस्य भूभृतः ।
ममन्थुरूरुं पुत्रार्थमनपत्यस्य यत्नतः ॥ 1.13.33 ॥
मथ्यमानात्समुत्तस्थौ तस्योरोः पुरुषः किल ।
दग्धस्थूणाप्रतीकाशः खल्वाटास्योतिह्रस्वकः ॥ 1.13.34॥
किं करोमीति तान्सर्वान्स विप्रानाह चातुरः ।
निषीदेति तमूचुस्ते निषादस्तेन सोऽभवत् ॥ 1.13.35॥
ततस्तत्संभवा जाता विन्ध्यशैलनिवासिनः ।
निषादा मुनिशार्दूल पापकर्मोपलक्षणाः ॥ 1.13.36॥
तेन द्वारेण तत्पापं निष्क्रान्तं तस्य भूपतेः ।
निषादास्ते ततो जाता वेनकल्मषनाशनाः ॥ 1.13.37॥
तस्यैव दक्षिणं हस्तं ममन्थुस्ते ततो द्विजाः ॥ 1.13.38 ॥
मथ्यमाने च तत्राभूत्पृथुर्वैन्यः प्रतापवान् ।
दीप्यमानः स्ववपुषा साक्षादग्निरिव ज्वलन् ॥ 1.13.39॥
आद्यमाजगवं नाम खात्पपात ततो धनुः ।
शराश्च दिव्या नभसः कवचं च पपात ह ॥ 1.13.40 ॥
तस्मिन् जाते तु भूतानि संप्रहृष्टानि सर्वशः ॥ 1.13.41 ॥
सत्पुत्रेणैव जातेन वेनोपि त्रिदिवं ययो ।
पुन्नाम्नो नरकात्त्रातः सुतेन सुमहात्मना ॥ 1.13.42 ॥
तं समुद्राश्च नद्यश्च रत्नान्यादाय सर्वशः ।
तोयानि चाभिषेकार्थं सर्वाण्येवोपतस्थिरे ॥ 1.13.43 ॥
पितामहश्च भगवान्देवैराङ्गिरसैः सह ।
स्थावराणि च भूतानि जङ्गमानि च सर्वशः ।
समागम्य तदा वैन्यमभ्यसिञ्चन्नराधिपम् ॥ 1.13.44॥
हस्ते तु दक्षिणे चक्रं दृष्ट्वा तस्य पितामहः ।
विष्णोरंशं षृथुं मत्वा परितोषं परं ययै ॥ 1.13.45॥
विष्णुचक्र करे चिह्नं सर्वेषां चक्रवर्तिनाम् ।
भवत्यव्याहतो यस्य प्रभावस्त्रिदशेरपि ॥ 1.13.46॥
महता राजराज्येन पृथुर्वैन्यः प्रतापवान् ।
सोभिषिक्तो महातेजा विधिवद्धर्मकोविदै ॥ 1.13.47॥
पित्रा पराजितास्तस्य प्रजास्तेनानुरञ्चिताः ।
अनुरागात्ततस्तस्य नाम राजेत्यजायत ॥ 1.13.48 ॥
आपस्तस्तंभिरे चास्य समुद्रमभियास्यतः ।
पर्वताश्च ददुर्मार्गं ध्वजभङ्गश्च नाभवत् ॥ 1.13.49॥
अकृष्टपच्या पृथिवी सिद्धन्त्यन्नानि चिन्तया ।
सर्वकामदुघा गावः पुटके पुटके मधु ॥ 1.13.50 ॥
तस्य वै जातमात्रस्य यज्ञे पैतामहे शुभे ।
सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः ॥ 1.13.51 ॥
तस्मिन्नेव महायज्ञेजज्ञे प्राज्ञेऽथ मागधः ।
प्रोक्तौ तदा मुनिवरैस्तावुभौ सूतमागधौ ॥ 1.13.52 ॥
स्तूयतामेष नृपतिः पृथुर्वैन्यः प्रतापवान् ।
कर्मैतदनुरूपं वां पात्रं स्तोत्रस्य चापरम् ॥ 1.13.53 ॥
ततस्तावूचतुर्विप्रान्सर्वानेव कृताञ्जली ।
अद्य जातस्य नो कर्म ज्ञायतेस्य महीपतेः ॥ 1.13.54॥
गुणा न चास्य ज्ञायन्ते न चास्य प्रथितं यशः ।
स्तोत्रं किमाश्रयं त्वस्य कार्यमस्माभिरुच्यताम् ॥ 1.13.55॥
कृषय ऊचुः
करिष्यत्येष यत्कर्म चक्रवर्ति महाबलः ।
गुणा भविष्या ये चास्य तैरयं स्तूयतां नृपः ॥ 1.13.56॥
श्रीपराशर उवाच [Sage Parasara said]
ततः स नृपतिस्तोषं तच्छ्रत्वा परमं ययौ ।
सद्गुणैः श्लाघ्यतामेति तस्माच्छ्लाघ्या गुणा मम ॥ 1.13.57॥
तस्माद्यदद्य स्तोत्रेण गुणनिर्वर्णनं त्विमौ ।
करिष्येते करिष्यामि तदेवाहं समाहितः ॥ 1.13.58 ॥
यदिमौ वर्जनीयं च किञ्चिदत्र वदिष्यतः ।
तदहं वर्जयिष्यामीत्येवं चक्रे मतिं नृपः ॥ 1.13.59॥
अथ तौ चक्रतुः स्तोत्रं पृथोर्वैन्यस्य धीमतः ।
भविष्यैः कर्मभिः सम्यक्सुस्वरौ सूतमागधौ ॥ 1.13.60 ॥
सत्यवाग्दानशीलोयं सत्यसन्धो नरेश्वरः ।
ह्रीमान्मैत्रः क्षमाशीलो विक्रान्तो दुष्टशानः ॥ 1.13.61 ॥
धर्मज्ञश्च कृतज्ञश्च दयावान् प्रियभाषकः ।
मान्यान्मानयिता यज्वा ब्रह्मण्यः साधुसंमतः ॥ 1.13.62 ॥
समः शत्रौ च मित्रे च व्यवहारस्थितौ नृपः ॥ 1.13.63 ॥
सूतेनोक्तान् गुणानित्थं स तदा मागधेन च ।
चकार हृदि तादृक्च कर्मणा कृतवानसौ ॥ 1.13.64॥
ततस्तु पृथिवीपालः पालयन्पृथिवीमिमाम् ।
इयाज विविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः ॥ 1.13.65॥
तं प्रजाः पृथिवीनाथमुपतस्थुः क्षुधार्दिताः ।
ओषधीषु प्रणष्टासु तस्मिन्काले ह्यराजके ।
तमूचुस्ते नताः पृष्टास्तत्रागमनकारणम् ॥ 1.13.66॥
प्रजा ऊचुः
अराजके नृपश्रष्ठ धरित्र्या सकलौषधीः ।
ग्रस्तास्ततः क्षयं यान्ति प्रजाः सर्वाः प्रजेश्वर ॥ 1.13.67॥
त्वन्नो वृत्तिप्रदो धात्रा प्रजापालो निरूपितः ।
देहि नः क्षुत्परीता नां प्रजानां जीवनौषधीः ॥ 1.13.68 ॥
श्रीपराशर उवाच [Sage Parasara said]
ततस्तु नपतिर्दिव्यमादायजगवं धनुः ।
शरांश्च दिव्यान्कुपितः सोन्वधावद्वसुन्धराम् ॥ 1.13.69॥
ततो ननाश त्वरीता गौर्भूत्वा च वसुन्धरा ।
सा लोकान्ब्रह्मलोकादीन्संत्रासादगमन्मही ॥ 1.13.70 ॥
यत्र यत्र ययौ देवी सा तदा भूतधारिणी ।
तत्र तत्र तु सा वैन्यं ददृशेऽभ्युद्यतायुधम् ॥ 1.13.71 ॥
ततस्तं प्राह वसुधा पृथुं राजपराक्रमम् ।
प्रवेपमाना तद्बाणपरित्राणपरायणा ॥ 1.13.72 ॥
पृथिव्युवाच
स्त्रीवधे त्वं महापापं किं नरेन्द्र न पश्यसि ।
येन मां हन्तुमत्यर्थं प्रकरोषि नृपोद्यमम् ॥ 1.13.73 ॥
पृथुरुवाच
एकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि ।
बहूनां भवति क्षेमं तस्य पुण्यप्रदो वधः ॥ 1.13.74॥
पृथुव्युवाच
प्रजानामुपकाराय यदि मां त्वं हनिष्यसि ।
आधारः कः प्रजानां ते नृपश्रेष्ठ भविष्यति ॥ 1.13.75॥
पृथुरुवाच
त्वां हत्वा वसुधे बाणैर्मच्छासनपराङ्मुखीम् ।
आत्म योगबलेनेमा धारयिष्याम्यहं प्रजाः ॥ 1.13.76॥
श्रीपराशर उवाच [Sage Parasara said]
ततः वसुधा तं भूयः तं भूयः प्राह पार्थिवम् ।
प्रवेपिताङ्गी परमं साध्वसं समुपागता ॥ 1.13.77॥
पृथिव्युवाच
उपायतः समारब्धाः सर्वे सिद्ध्यन्त्युपक्रमाः ।
तस्माद्वदाम्युपायं ते तं कुरुष्व यदीच्छसि ॥ 1.13.78 ॥
समस्ता या मया जीर्णा नरनाथ महौषधीः ।
यदीच्छसि प्रदास्यामि ताः क्षीरपरिणामिनीः ॥ 1.13.79॥
तस्मात्प्रजाहितार्थाय मम धर्मभृतां वर ।
तं तु वत्सं कुरुष्व त्वं क्षरेयं येन वत्सला ॥ 1.13.80 ॥
समां च कुरु सर्वत्र येन क्षीरं समन्ततः ।
वरौषधीबीजभूतं बीजं सर्वत्र भावये ॥ 1.13.81 ॥
श्रीपराशर उवाच [Sage Parasara said]
तत उत्सारयामास शैलान् शतसहस्रशः ।
धनुष्कोट्या पदा वैन्यस्तेन शौला विवर्धिताः ॥ 1.13.82 ॥
न हि पूर्वविसर्गे वै विषमे पृथिवीतले ।
प्रवीभागः पुराणां वा ग्रामाणां वा पुराभवात् ॥ 1.13.83 ॥
न सस्यानि न गोरक्ष्यं न कृषिर्न वणिक्पथः ।
वैन्यात्प्रभृति मैत्रेय सर्वस्यैतस्य सम्भवः ॥ 1.13.84॥
यत्रयत्र समं त्वस्य भूमेरासीद्द्द्वजोत्तम ।
तत्रतत्र प्रजाः सर्वा निवासं समरोचयन्त् ॥ 1.13.85॥
आहारः फलमूलानि प्रजानामभवत्तदा ।
कृच्छ्रेण महता सोऽपि प्रणष्टास्वैषदीषु वै ॥ 1.13.86॥
स कल्पयित्वा वत्सं तु मनुं स्वायंभुवं प्रभुम् ।
स्वपाणौ पृतिवीनाथो दुदोह पृथिवीं पृथुः ।
सस्याजातानि सर्वाणि प्रजानां हितकाम्यया ॥ 1.13.87॥
तेनान्नेन प्रजास्तात वर्तन्तेद्यापि नित्यशः ॥ 1.13.88 ॥
प्राणप्रदाता स पृथुर्यस्माद्भुमेरभीत्पिता ।
ततस्तु पृथिवीसंज्ञामवापाखिलाधारिणी ॥ 1.13.89॥
ततश्च देवैर्मुनिभिर्दैत्यै रक्षोभिरद्रिभिः ।
गन्धर्वैरुरगैर्यक्षैः पितृभिस्तरुभिस्तथा ॥ 1.13.90 ॥
तत्तत्पात्रमुपादाय तत्तद्दुग्धं मुने पयः ।
वत्सदो ग्धृविशेषाश्च तेषां तद्योनयोऽभवन् ॥ 1.13.91 ॥
सैषा धत्री विधात्री च धारिणी पोषणी तथा ।
सर्वस्य तु ततः पृथ्वी विष्णुपादतलोद्भावा ॥ 1.13.92 ॥
एवं प्रभावःस पृथुः पुत्रो वैन्यस्य वीर्यवान् ।
जज्ञे महीपतिः पूर्वो राजाभूज्जनरञ्जनात् ॥ 1.13.93 ॥
य इदं जन्म वैन्यस्य पृथोः संकीर्तरेन्नरः ।
न तस्य दुष्कृतं किञ्चित्फलदायि प्रजायते ॥ 1.13.94॥
दुःस्वप्नोपशमं नॄणां शृण्वतामेतदुत्तमम् ।
पृथोर्जन्म प्रभावश्च करोति सततं नृणाम् ॥ 1.13.95॥
इति श्रीविष्णुपुराणे प्रथमेऽंशे त्रयोदशोध्यायः (13)
श्रीपराशर उवाच [Sage Parasara said]
पृतोः पुत्रो तु धर्मज्ञो जज्ञातेन्तर्धिवादिनौ ।
शिखण्डिनी हविर्धानमन्तर्धानाव्द्यजायत ॥ 1.14.1 ॥
हविर्धानात्षडाग्नोयी धिषणाजयत्सुताना ।
प्राचीनबर्हिषं शुक्रं गयं कृष्णं वृजाजिनौ ॥ 1.14.2॥
प्रचीनबर्हिर्भगवान्महानासीत्प्रजापतिः ।
हविर्धानान्महाभाग येन संवर्धिताः प्रजाः ॥ 1.14.3 ॥
प्राचीनाग्राः कुशास्तस्य पृथिव्यां विश्रुता मुने ।
प्राचीनवर्हिरभवत्ख्यातो भुवि महाबलः ॥ 1.14.4 ॥
समुद्रतनयायां तु कृतदारो महीपतिः ।
महतस्तमसः पारे सवर्णायां महामते ॥ 1.14.5॥
सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः ।
सर्वे प्राचेतसो नाम धनुर्वेदस्य पारगाः ॥ 1.14.6॥
अपृथग्धर्मचरणास्ते तप्यन्त महत्तपः ।
दशवर्षसहस्राणि समुद्रसलिलेशयः ॥ 1.14.7॥
श्रीमैत्रेय उवाच
यदर्थं ते महात्मानस्तपस्तेपुर्महामुने ।
प्राचेतसः समुद्राम्भस्येतदाख्यातुमर्हसि ॥ 1.14.8॥
श्रीपराशर उवाच [Sage Parasara said]
पित्रा प्रचेतसः प्रोक्ताः प्रजार्थममितात्मना ।
प्रजापतिनियुक्तेन बहुमानपुरःसरम् ॥ 1.14.8 ॥
प्राचीनबर्हिरुवाच
ब्रह्मणा देवदेवेन समादिष्टोस्म्यहं सुताः ।
प्रजाः संवर्धनीयास्ते मया चोक्तं तथेति तत् ॥ 1.14.10 ॥
तन्मम प्रीतये पुत्राः प्रजावृद्धिमतन्द्रिताः ।
कुरुध्वं माननीया वः सम्यगाज्ञा प्रजापतेः ॥ 1.14.11 ॥
श्रीपराशर उवाच [Sage Parasara said]
ततस्ते तत्पितुः श्रुत्वा वचनं नृपनन्दनाः ।
तथेत्युक्त्वा च तं भूयः पप्रच्छुः पितरं मुने ॥ 1.14.12 ॥
प्रचेतस ऊचुः
येन तात प्रजावृद्धौ समर्था कर्मणा वयम् ।
भवेम तत्समस्तं नः कर्म व्याख्यातुमर्हसि ॥ 1.14.13 ॥
पितोवाच
आराध्य वरदं विष्णुमिष्टप्राप्तिमसंशयम् ।
समेति नान्यथा मर्त्यः किम न्यत्कथयामि वः ॥ 1.14.14॥
तस्मात्प्रजा विवृद्ध्यर्थं सर्वभूतप्रभुं हरिम् ।
आराधयत गोविन्दं यदि सिद्धिमभीप्सथः ॥ 1.14.15॥
धर्ममर्थं च कामं च मोक्षं चान्विच्छतां सदा ।
आराधनीयो भगवाननादिपुरुषोत्तमः ॥ 1.14.16॥
यस्मिन्नाराधिते सर्गं चकारादौ प्रजापतिः ।
तमाराध्याच्युतं वृद्धिः प्रजानां वो भविष्यति ॥ 1.14.17॥
श्रीपराशर उवाच [Sage Parasara said]
इत्येवमुक्तास्ते पित्रा पुत्राः प्राचेतसो दश ।
मग्नाः पयोधिसलिले तपस्तेषुः समाहिताः ॥ 1.14.18 ॥
दशवर्षसहस्राणि न्यस्तचित्ता जगत्पतौ ।
नारायणे मुनिश्रेष्ठ सर्वलोकपरायणे ॥ 1.14.19॥
तत्रैवावस्थिता देवमेकाग्रमनसो हरिम् ।
तुष्टुवुर्यःस्तुतः कामान् स्तोतुरिष्टान्प्रयच्छति ॥ 1.14.20 ॥
श्रीमैत्रेय उवाच
स्तवं प्रचेतसो विष्णोः समुद्राम्भसि संस्थिताः ।
चक्रुस्तन्मे मुनिश्रेष्ठ सुपुण्यं वक्तुमर्हसि ॥ 1.14.21 ॥
श्रीपराशर उवाच [Sage Parasara said]
शृणु मैत्रेय गोविन्दं यथापूर्वं प्रचेतसः ।
तुष्टुवुस्तन्मयीभूताः समुद्रसलिलेशयाः ॥ 1.14.22 ॥
प्रचेतस ऊचुः
नताः स्म सर्ववचसां प्रतिष्ठा यत्र शाश्वती ।
तमाद्यन्तमशेषस्य जगतः परमं प्रभुम् ॥ 1.14.23 ॥
ज्योतिराद्यमनौपम्यमण्वनन्तमपारवत् ।
योनिभूतमशेषस्य स्थावरस्य चरस्य च ॥ 1.14.24॥
यस्याहः प्रथमं रूपमरूपस्य तथा निशा ।
संध्या च परमेशस्य तस्मै कालात्मने नमः ॥ 1.14.25॥
बुज्यतेऽनुदिनं देवैः पितृभिश्च सुधात्मकः ।
बीजभूतं समस्तस्य तस्मै सोमात्मनेन मः ॥ 1.14.26॥
यस्तमास्यत्ति तीव्रात्मा प्रभाभिर्भासयन्नभः ।
घर्मशीताम्भसा योनिस्तस्मै सूर्यत्मने नमः ॥ 1.14.27॥
काठिन्यवान् यो बिभर्ति जगदेतदशेषतः ।
शब्दादिसंश्रयो व्यापी तस्मै भूम्यात्मने नमः ॥ 1.14.28 ॥
यद्योनिभूतं जगतो वीजं यत्सर्वदेहिनाम् ।
तत्तोयरूपमीशस्य नमामो हरिमेधसः ॥ 1.14.29॥
यो मुखं सर्वदेवानां हव्यभुक्कव्यभुक्तथा ।
पितॄणां च नमस्तस्मै विष्णवे पावकात्मने ॥ 1.14.30 ॥
पञ्चधावस्थितो देहे यश्चेष्टां कुरुतेऽनिशम् ।
आकाशयोनिर्भगवांस्तस्मै वाय्वात्मने नमः ॥ 1.14.31 ॥
अवकाशमशेषाणां भूतानां यः प्रयच्छति ।
अनन्तमूर्तिमाञ्धुद्धस्तस्मै व्योमात्मने नमः ॥ 1.14.32 ॥
समस्तोन्द्रियसर्गस्य यः सदा स्थानमुत्तमम् ।
तस्मै शब्दादिरूपाय नमः कृष्णाय वेधसे ॥ 1.14.33 ॥
गृह्णाति विषयान्नित्यमिन्द्रियात्माक्षराक्षरः ।
यस्तस्मै ज्ञानमूलाय नतास्म हरिमेधसे ॥ 1.14.34॥
हृहीतानिन्द्रियैरर्थानात्मने यः प्रयच्छति ।
अन्तःकरणरूपाय तस्मै विश्वत्मने नमः ॥ 1.14.35॥
यस्मिन्ननन्ते सकलं विश्वं यस्मात्तथोद्गतम् ।
लयस्थानं च यस्तस्मै नमः प्रकृतिधर्मिणे ॥ 1.14.36॥
शुद्धः संल्लक्ष्यते भ्रान्त्या गुणवानिव योऽगुणः ।
तमात्मरूपिणं देव नतास्म पुरुषोत्तमम् ॥ 1.14.37॥
अविकारमजं शुद्धं निर्गुणं यन्निरजनम् ।
नताःस्मतत्परं ब्रह्म विष्णोर्यत्परमं पदम् ॥ 1.14.38 ॥
अदीर्घह्रस्वमस्थूलण्वनमश्यामलोहितम् ।
अस्नेहच्छायमतनुमसक्तमशरीरीणम् ॥ 1.14.39॥
अनाकाशमसंस्पर्शमगन्धमरसं च यत् ।
अचक्षुश्रोत्रमचलमवाक्पाणिममानिसम् ॥ 1.14.40 ॥
अनामगोमत्रसुखमतेजस्कमहेतुकम् ।
अभयं भ्रान्तिरहितम निद्रमजरामरम् ॥ 1.14.41 ॥
अरजोशब्दममृतमप्लुतं यदसंवृतम् ।
पूर्वापरेण वै यस्मिस्तद्विष्णोः परमं पदम् ॥ 1.14.42 ॥
परमेशत्वगुणवत्सर्वभूतम संशयम् ।
नतास्म तत्पदं विष्णोर्जिह्वादृग्गोचरं न यत् ॥ 1.14.43 ॥
श्रीपराशर उवाच [Sage Parasara said]
एवं प्रचेतसो विष्णुं स्तुवन्तस्तत्समाधयः ।
दशवर्षसहस्राणि तपश्चेरुर्महार्णवे ॥ 1.14.44॥
ततः प्रसन्नो भगवांस्तेषामन्तर्जले हरिः ।
ददौ दर्शनमुन्निद्रनीलोत्पलदलच्छविः ॥ 1.14.45॥
पतत्रि राजमारूढमवलोक्य प्रचेतसः ।
प्रणिपेतुः शिरोभिस्तं भक्तिभारावनामितैः ॥ 1.14.46॥
ततस्तानाह भगवान्व्रयतामीप्सतो वरः ।
प्रसाद सुमुखोहं वो वरदः समुपस्थितः ॥ 1.14.47॥
ततस्तमूचुर्वरदं प्रणिपत्य प्रचेतसः ।
यथा पित्रा समादिष्टं प्रजानां वृद्धिकारणम् ॥ 1.14.48 ॥
स चापि देवस्तं दत्त्वा यथभिलषितं वरम् ।
अन्तर्धानं जगामाशु ते च निश्चक्रमुर्जलात् ॥ 1.14.49॥
इति श्रीविष्णुपुराणे प्रथमेऽंशे प्रचेतास्तवो नाम चतुर्दशोऽध्यायः (14)
श्रीपराशर उवाच [Sage Parasara said]
तपश्चरत्सु पृथिवीं प्रचेतःसु महीरुहाः ।
अरक्ष्यमाणामावव्रुर्बभूवाथ प्रजाक्षयः ॥ 1.15.1 ॥
नाशकन्मरुतो वातुं वृतं खमभवद्द्रुमैः ।
दशवर्षसहस्राणि न शकुश्चेष्टितुं प्रजाः ॥ 1.15.2॥
तान्दृष्ट्वा जलनिष्क्रान्ताः सर्वे क्रुद्धाः प्रचेतसः ।
मुखेभ्यो वायुमग्निं च तेऽसृजन् जातमन्यवः ॥ 1.15.3 ॥
उन्मूलानथ तान्वृक्षान्कृत्वा वायुरशोषयत् ।
तानग्निरदहद्घोरस्तत्राभूद्द्रुमसंक्षयः ॥ 1.15.4 ॥
द्रुमक्षयमथो दृष्ट्वा किञ्चिच्छिष्टेषु शाखिषु ।
उपगम्याब्रवीदेतान्राजा सोमः प्रजापतीन् ॥ 1.15.5॥
कोपं यच्छत राजानः शृणुध्वञ्च वचो मम ।
सन्धानं वः करिष्यामि सह क्षितिरुहैरहम् ॥ 1.15.6॥
रत्नभूता च कन्येयं वार्क्षेयी वरवर्णिनी ।
भविष्यज्जानता पूर्वं मया गोभिर्विवर्धिता ॥ 1.15.7॥
मारिषा नाम नाम्नैषा वृक्षाणामिति निर्मिता ।
भार्या वोऽस्तु महाभागा ध्रुवं वंशविवर्धिनी ॥ 1.15.8॥
युष्माकं तेज सोर्धेन मम चार्धेन तेजसः ।
अस्यामुत्पत्स्यते विद्वान्दक्षोनाम प्रजापतिः ॥ 1.15.8 ॥
मम चांशेन संयुक्तो युष्मत्तेजोमयेन वै ।
तेजसाग्निसमो भूयः प्रजाः संवर्धयिष्यति ॥ 1.15.10 ॥
कण्डुर्नाम मुनिः पूर्वमासीद्वेदविदां वरः ।
मुरम्ये गोमतीतीरे म तेपे परमं तपः ॥ 1.15.11 ॥
तत्क्षोभाय सुरेन्द्रेण प्रम्लोचाख्या वराप्सराः ।
प्रयुक्ता क्षोभयामास तमृषिं सा शुचिस्मिता ॥ 1.15.12 ॥
क्षोभितः स तया सार्धं वर्षाणामधिकं शतम् ।
अतिष्ठन्मन्दरद्रोण्यां विषयासक्तमानसः ॥ 1.15.13 ॥
तं सा प्राह महाभाग गन्तुमिच्छाम्यहं दिवम् ।
प्रसादसुमुखो ब्रह्मन्ननुज्ञां दातुमर्हसि ॥ 1.15.14॥
तयैवमुक्तः स मुनिस्तस्यामासक्तमानसः ।
दिनानि कतिचिद्भद्रे स्थीयतामित्यभाषत ॥ 1.15.15॥
एवमुक्ता ततस्तेन साग्रं वर्षशतं पुनः ।
बुभुजे विषयांस्तन्वी तेन साकं महात्मना ॥ 1.15.16॥
अनुज्ञां देहि भगवन् व्रजामि त्रिदशालयम् ।
उक्तस्तथेति स पुनः स्थीयतामित्यभाषत ॥ 1.15.17॥
पुनर्गते वर्षशते साधिक सा शुभानना ।
यामीत्याह दिवं ब्रह्मन्प्रणयस्मितशोभनम् ॥ 1.15.18 ॥
उक्तस्तयैवं स मुनिरुपगुह्यायते क्षणाम् ।
इहास्यतां क्षणं सुभु चिरकालं गमिष्यसि ॥ 1.15.19॥
सा क्रीडमाना सुश्रोणी सह तेनर्षिणा पुनः ।
शतद्वयं किञ्चिदूनं वर्षणामन्वतिष्ठत ॥ 1.15.20 ॥
गमनाय महाभाग देवराजनिवेशनम् ।
प्रोक्तः प्रोक्तस्तया तन्व्या स्थीयतामित्यभाषत ॥ 1.15.21 ॥
तस्य शापभयाद्भीता दाक्षिण्येन च दक्षिणा ।
प्रोक्ता प्रणयभङ्गर्तिवेदिनी न जहौ मुनिम् ॥ 1.15.22 ॥
तया च रमतस्तस्य परमर्षेरहर्निशम् ।
नवंनवमभूत्प्रम मन्मथाविष्टचेतसः ॥ 1.15.23 ॥
एकदा तु त्वरायुक्तो निश्चक्रामोटजान्मुनिः ।
निष्क्रामन्तं च कुत्रेति गम्यते प्राह सा शुभा ॥ 1.15.24॥
इत्युक्तः स तया प्राह परिवृत्तमहः शुभे ।
सन्ध्योपास्तिं करिष्यामि क्रियालोपोन्यथा भवेत् ॥ 1.15.25॥
ततः प्रहस्य सुददी तं सा प्राह महामुनिम् ।
किमद्य सर्वधर्मज्ञ परिवृत्तमहस्तव ॥ 1.15.26॥
बहूनां विप्र वर्षाणां परिवृत्तम हस्तव ।
गतमेतन्न कुरुते विस्मयं कस्य कथ्यताम् ॥ 1.15.27॥
मुनिरुवाच
प्रातस्त्वमागता भद्रे नदीतीरमिदं शुभम् ।
मया दृष्टासि तन्वङ्गि प्रविष्टासि ममाश्रमम् ॥ 1.15.28 ॥
इयं च वर्तते सन्ध्या परिणाममहर्गतम् ।
उपहासः किमर्थोयं सद्भावः कथ्यतां मम ॥ 1.15.29॥
प्रम्लोचोवाच
प्रत्यूषस्यागता ब्रह्मन् सत्यमेतन्न तन्मृषा ।
नन्वस्य तस्य कालस्य गतान्यब्दशतानि ते ॥ 1.15.30 ॥
सोम उवाच
ततः स साध्वसो विप्रस्तां पप्रच्छायतेक्षणाम् ।
कथ्यतां भीरु कः कालस्त्वया मे रमतः सह ॥ 1.15.31 ॥
प्रम्लोचोवाच
सप्तोत्तराम्यतीतानि नववर्षशतानि ते ।
मासाश्च षट्तथैवान्यत्समतीतं दिनत्रयम् ॥ 1.15.32 ॥
ऋषिरुवाच
सत्यं भीरु वदस्येतत्परिहासोऽथवा शुभे ।
दिनमेकमहं मन्येत्वया सार्धमिहासितम् ॥ 1.15.33 ॥
प्रम्लोचोवाच
वदिष्याम्यनृतं ब्रह्मन्कथमत्र तवान्तिके ।
विशेषेणाद्य भवता पृष्टा मार्गानुवर्तिना ॥ 1.15.34॥
सोम उवाच
निशम्य तद्वचः सत्यं स मुनिर्नृपनन्दनाः ।
धिक्धिक्मामित्यतीवेत्थं निनिन्दात्मानमात्मना ॥ 1.15.35॥
मुनिरुवाच
तपांसि मम नष्टनि हतं ब्रह्मविदां धनम् ।
हतो विवेकः केनापि योषिन्मोहाय निर्मिताः ॥ 1.15.36॥
ऊर्मिषट्कातिगं ब्रह्म ज्ञेयमात्मजयेन मे ।
मतिरेषा हृता येन धिक्तं कामं महाग्रहम् ॥ 1.15.37॥
व्रतानि वेदवेद्याप्तिकाराणान्यखिलानि च ।
नरकग्राममर्गेण सङ्गेनापहृतानि मे ॥ 1.15.38 ॥
विनिन्द्येत्थं स धर्मज्ञः स्वयमात्मानमात्मना ।
तामप्सरसमासीनामिदं वचनमब्रवीत् ॥ 1.15.39॥
गच्छ पापे यथाकामं यत्कार्यं तत्कृतं त्वया ।
देवराजस्य मत्क्षोभं कुर्वन्त्या भावचेष्टितैः ॥ 1.15.40 ॥
न त्वां करोण्यहं भस्म क्रोधतीव्रेण वह्निना ।
सतां सप्तपदं मैत्रुमुषि तोहं त्वया सह ॥ 1.15.41 ॥
अथ वा तव को दोषः किं वा कुप्याम्यहं तव ।
ममैव दोषो नितरां येनाहमजितेन्द्रियः ॥ 1.15.42 ॥
यया शक्रप्रियार्थिन्या कृतो मे तपसो व्ययः ।
त्वया धिक्तां महामोहमञ्जृषां सुजुगुप्सिताम् ॥ 1.15.43 ॥
सोम उवाच
यावदित्थं स विप्रर्षिस्तां ब्रवीति समुध्यमाम् ।
तावद्गलत्स्वेदजला साबभूवातिवेपथुः ॥ 1.15.44॥
प्रवेपमानां सततं खिन्नगात्रलतां सतीम् ।
गच्छ गच्छेति सक्रोधमुवाच मुनिसत्तमः ॥ 1.15.45॥
सा तु निर्भर्त्सिता तेन विनाष्क्रम्य तदाश्रमात् ।
आकाशगामिनी स्वेदं ममार्ज तरुपल्लवैः ॥ 1.15.46॥
निर्मार्जमाना गात्राणि गलत्स्वेदजलानि वै ।
वृक्षाद्धृक्षं ययौ बला तदग्ररुणपल्लवैः ॥ 1.15.47॥
ऋषिणा यस्तदा गर्भस्तस्या देहे समाहितः ।
निर्जगाम स रोमाञ्चस्वेदरूपी तदङ्गतः ॥ 1.15.48 ॥
तं वृक्षा जगृहुर्गर्भमेकं चक्रे तु मारुतः ।
मया चाप्यायितो गोभिः स तदा ववधे शनैः ॥ 1.15.49॥
वृक्षाग्रगर्भसम्भूता मारिषाख्या वरानना ।
तां प्रदास्यन्ति वो वृक्षाः कोप एष प्रशाम्यताम् ॥ 1.15.50 ॥
कण्डोरपत्यमेवं सा वृक्षेभ्यश्च समुद्गता ।
ममापत्यं तथा वायोः प्रम्लोचातनया च सा ॥ 1.15.51 ॥
स चापि भगवान् कण्डुः क्षीणे तपसि सत्तमः ।
पुरुषोत्तमाख्यं मैत्रेय विष्णोरायतनं ययौ ॥ 1.15.52 ॥
तत्रैकाग्रमतिर्भूत्वा चकाराराधनं हरेः ।
ब्रह्मपारमयं कुर्वञ्जपमेकाग्रमानसः ।
ऊर्ध्वबाहुर्महायोगी स्थित्वासौ भूपनन्दनाः ॥ 1.15.53 ॥
प्रचेतस ऊचुः
ब्रह्मपारं मुने श्रोतुमिच्छामः परमं स्तवम् ।
जपता कण्डुना देवो येनाराध्यत केशवः ॥ 1.15.54॥
सोम उवाच
पारं परं विष्णुरपारपारः परः परेभ्यः पामारथरूपी ।
सब्रह्पारः परपारभूतः परः पराणामपि पारपारः ॥ 1.15.55॥
स कारणं कारणतस्ततोपि तस्यापि हेतुः ।
कार्येषु चैवं सह कर्मकर्तृरूपैरशेषैरवतीह सर्वम् ॥ 1.15.56॥
ब्रह्म प्रभुर्ब्रह्म स सर्वभूतो ब्रह्म प्रजानां पतिरच्युतोऽसौ ।
ब्रह्माव्ययं नित्यमजं स विष्णुरपक्षयाद्यैरखिलैरसङ्गि ॥ 1.15.57॥
ब्रह्माक्षरमजं नित्यं यथासौ पुरुषोत्तमः ।
तथा रागादयो दोषः प्रयान्तु प्रशमं मम ॥ 1.15.58 ॥
सोम उवाच
एतद्ब्रह्म पराख्यं वै संस्तवं परमं जपन् ।
अवाप परमांसिद्धिं स तमाराध्य केशवम् ॥ 1.15.59॥
इमं स्तवं यः पठति शृणुयाद्वापिनित्यशः ।
स कामदेषैरशिलैर्मुक्तः प्राप्रोति वाञ्छितम् ॥ 1.15.59।1 ॥
इयं च मारीषा पूर्वमासीद्य तां ब्रवीमि वः ।
कार्यगौरवमेतस्याः कथने फलदायि वः ॥ 1.15.60 ॥
अपुत्रा प्रागियं विष्णुं मृते भर्तरि सत्तमाः ।
भीपपत्नी महाभागा तोषयामास भक्तितः ॥ 1.15.61 ॥
आराधितस्तया विष्णुः प्राह प्रत्यक्षतां गतः ।
वरं वृणीष्वेति शुभे सा च प्राहात्मवाञ्छितम् ॥ 1.15.62 ॥
भगवन्बालवैधव्याद्वृथाजन्माहमीदृशी ।
मन्दभाग्या समुद्भुता विफला च जगत्पते ॥ 1.15.63 ॥
भवन्तु पतयः श्लाघ्या मम जन्मनि जन्मनि ।
त्वत्प्रसादात्तथा पुत्रः प्रजापतिसमोस्तु मे ॥ 1.15.64॥
कुलं शीलं वयः सत्यं दाक्षिण्यं क्षिप्रकारिता ।
अविसंवादिता सत्त्वं वृद्धसेवा कृतज्ञता ॥ 1.15.65॥
रूपसम्पत्समायुक्ता सर्वस्य प्रियदर्शना ।
अयोनिजा च जायेयं त्वन्प्रसादादाधेक्षज ॥ 1.15.66॥
सोम उवाच
तयैवमुक्तो देवेशो हृषीकेश उवाच ताम् ।
प्रणामनम्रामुत्थाप्य वरदः परमेश्वरः ॥ 1.15.67॥
देव उवाच
भविष्यन्ति महावीर्या एकस्मिन्नेव जन्मनि ।
प्रख्यातोदारकर्णाणो भवत्याः पतयो दश ॥ 1.15.68 ॥
पुत्रञ्च सुमहावीर्यं महाबलपराक्रमम् ।
प्रजापतिगुणैर्युक्तं त्वमवाप्स्यसि शोभने ॥ 1.15.69॥
वंशानां तस्य कर्तृत्वं जगत्यस्मिन्भविष्यति ।
त्रैलोक्यमखिला सूतिस्तस्य चापूरयिष्यति ॥ 1.15.70 ॥
त्वं चाप्ययोनिजा साध्वी रूपौदार्यगुणान्विता ।
मनः प्रीतिकरी नॄणां मत्प्रसादाद्भविष्यसि ॥ 1.15.71 ॥
इत्युक्त्वान्तर्दधे देवस्तां विशालविलोचनाम् ।
सा चेयं मारिषा जाता युष्मत्पत्नी नृपात्मजाः ॥ 1.15.72 ॥
श्रीपराशर उवाच [Sage Parasara said]
ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः ।
संहृत्य कोपं वृक्षेभ्यः पत्नीधर्मोण मारीषाम् ॥ 1.15.73 ॥
दशभ्यस्तु प्रचेतोभ्यो मारीषायां प्रजापतिः ।
जज्ञे दक्षो महाभागो यः पूर्वं ब्रह्मणोऽभवत् ॥ 1.15.74॥
स तु दक्षो महाभागःसृष्ट्यर्थं सुमहामते ।
पुत्रानुत्पादयामास प्रजासृष्ट्यर्थमात्मनः ॥ 1.15.75॥
अवरांश्च वरांश्चैव द्विपदोथ चतुष्पदान् ।
आदेशं ब्रह्मणः कुर्वन् सृष्ट्यर्थं समुपस्थितः ॥ 1.15.76॥
स सृष्ट्वा मनसा दक्षः पश्चादसृजत स्त्रियः ।
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥ 1.15.77॥
तासु देवास्तथा दैत्या नागा गावस्तथा खगाः ।
गन्धर्वाप्सरसश्चैव दानवाद्याश्च जज्ञिरे ॥ 1.15.78 ॥
ततः प्रभृति मैत्रेय प्रजा मैथुनसम्भवाः ।
संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषामभवन् प्रजाः ।
तपोविशेषैः सिद्धानां तदात्यन्ततपस्विनाम् ॥ 1.15.79॥
श्रीमैत्रेय उवाच
अङ्गुष्ठाद्दक्षिणाद्दक्षः पूर्वं जातो मया श्रुतः ।
कथं प्राचेतसो भूयः समुत्पन्नो महामुने ॥ 1.15.80 ॥
एष मे संशयो ब्रह्मन्सुमहान्हृदि वर्तते ।
यद्दैहित्रश्च सोमस्य पुनः श्वशुरतां गतः ॥ 1.15.81 ॥
श्रीराशर उवाच
उत्पत्तिश्च निरोधश्च नित्यो भूतेषु सर्वाद ।
ऋषयोत्र न सुह्यन्ति ये चान्ये दिव्यचक्षुषः ॥ 1.15.82 ॥
युगेयुगे भवन्त्येते दक्षाद्या मुनिसत्तम ।
पुनश्चैवं निरुद्ध्यन्ते विद्वांस्तत्र न मुह्यति ॥ 1.15.83 ॥
कानिष्ठ्यं ज्यैष्ठ्यमप्येषां पूर्वं नाभूद्द्द्विजोत्तम ।
तप एव गरीयोभूत्प्रभा वश्चैव कारणम् ॥ 1.15.84॥
मैत्रेय उवाच
देवानां दानवानां च गन्धर्वोरगरक्षसाम् ।
उत्पत्तिं विस्तरेणेह मम ब्रह्मन्प्रकीर्तय ॥ 1.15.85॥
श्रीपराशर उवाच [Sage Parasara said]
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा ।
यथा ससर्ज भूतानि तथा शृणु महामुने ॥ 1.15.86॥
मानसान्येव भूतानि पूर्वं दक्षोऽसृजत्तदा ।
देवानृषीन्सगन्धर्वानसुरान्पन्नगांस्तथा ॥ 1.15.87॥
यदास्य सृजमानस्य न व्यवर्धन्त ताः प्रजाः ।
ततः संचिन्त्य स पुनः सृष्टिहेतोः प्रजापतिः ॥ 1.15.88 ॥
मैथुनेनैव धर्मेण सिसृक्षुर्विविधाः प्रजाः ।
असक्नीमावहत्कन्यां वीरणस्य प्रजापतेः ।
सुतां सुतपसा युक्तां महतीं लोकधारिणीम् ॥ 1.15.89॥
अथ पुत्रसहस्राणै वैरुण्यां पञ्च वीर्यवान् ।
असिक्न्यां जनयामास सर्गहेतोः प्रजापतिः ॥ 1.15.90 ॥
तान्दृष्ट्वा नारदो विप्र संविवर्धयिषून्प्रजाः ।
संगम्य प्रियसंवादो देवर्षिरिदमब्रवीत् ॥ 1.15.91 ॥
हे हर्यश्वा महावीर्याः प्रजा यूयं करिष्यथ ।
ईदृशो दृश्यते यत्नो भवतां श्रूयतामीदम् ॥ 1.15.92 ॥
बालिश बत यूयं वै नास्या जानीत वै भुवः ।
अन्तरूर्ध्वमधश्चैव कथं सृक्ष्यथ वै प्रजाः ॥ 1.15.93 ॥
ऊर्ध्वं तिर्यगधश्चैव यदाप्रतिहता गतिः ।
तदा कस्माद्भुवो नान्तं सर्वे द्रक्ष्यथ बालिशाः ॥ 1.15.94॥
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशम् ।
अद्यापि नो निवर्तन्ते समुद्रेभ्य इवापगाः ॥ 1.15.95॥
हर्य श्वेष्वथ नष्टोषु दक्षः प्राचेतसः पुनः ।
वैरुण्यामथ पुत्राणां सहस्रमसृजत्प्रभुः ॥ 1.15.96॥
विवर्धयिषवस्ते तु शबलाश्वाः प्रजाः पुनः ।
पूर्वोक्तं वचनं ब्रह्मन्नारदेनैव नोदिताः ॥ 1.15.97॥
अन्योन्यमूचुस्ते सर्वे सम्यगाह महामुनिः ।
भ्रतॄणां पदवी चैव गन्तव्या नात्र संशयः ॥ 1.15.98 ॥
ज्ञात्वा प्रमाणं पृथ्व्याश्च प्रजाःसृज्यामहे ततः ॥ 1.15.99॥
तेपि तेनैव मार्गेण प्रयाताः सर्वतोमुखम् ।
अद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ।
ततः प्रभृति वै भ्राता भ्रातुरन्वेषणे द्विज ।
प्रयातो नश्यति तथा तन्न कार्यं विजानता ॥ 1.15.100 ॥
तां श्चापि नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः ।
क्रोधं चक्रे महाभागो नारदं स शशाप च ॥ 1.15.101 ॥
सर्गकामस्ततो विद्वान्स मैत्रेय प्रजापतिः ।
षष्टिं तक्षोऽसृजत्कन्या वैरुण्यामिति नः श्रुतम् ॥ 1.15.102 ॥
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
सप्तविंशति सोमाय चतस्त्रोऽरिष्टनेमिने ॥ 1.15.103 ॥
द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा ।
द्वेकृशाश्वाय विदुषे तासां नामानि मे शृणु ॥ 1.15.104॥
अरुन्धती वसुर्जामिर्लङ्घा भानुमरुत्वती ।
संकल्पा च मुहूर्ता च साध्या विश्वा च तादृशी ।
धर्मपत्न्यो दशत्वेतास्तास्वपत्यानि मे शृणु ।
विश्वेदेवास्तु विश्वायाः साध्या साध्यानजायत ।
मरुत्वत्यां सरुत्वन्तो वसोश्च वसवः स्मृता ॥ 1.15.105॥
भानोस्तु भानवः पुत्रा मुहूर्तायां मुहूर्तजाः ॥ 1.15.106॥
लङ्घायाश्चैव घोषोथ नागवीथी तु जामिता ॥ 1.15.107॥
पृथिवीविषयं सर्वमरुन्धत्याम जायत ।
संकल्पायास्तु सर्वात्मा जज्ञे संकल्प एव हि ॥ 1.15.108 ॥
ये त्वनेकवसुप्राणदेवा ज्योतिः पुरोगमाः ।
वसवोष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् ॥ 1.15.109॥
आपो ध्रुवश्च सोमश्च धर्मश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ॥ 1.15.110 ॥
आपस्य पुत्रो वैतण्डः श्रमः शान्तोऽध्वनिस्तथा ।
ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥ 1.15.111 ॥
सोमस्य भगवान्वर्चो वर्चस्वी येन जायते ॥ 1.15.112 ॥
धर्मस्य पुत्रो द्रविणो हुतहव्यवहस्तथा ।
मनोहरायां शिशिरः प्राणोथ रवणस्तथा ॥ 1.15.113 ॥
अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः ।
अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु ॥ 1.15.114॥
अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत ।
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजाः ॥ 1.15.115॥
अपत्यं कृत्तिकानां तु कार्त्तिकेय इति स्मृतः ॥ 1.15.116॥
प्रत्यूषस्य विदुः पुत्रं ऋषि नाम्नाथ देवलम् ।
द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥ 1.15.117॥
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी ।
योगसिद्धा जगत्कृत्स्नमसक्ता विचरत्युत ।
प्रभासस्य तु सा भार्या वसूनामष्टमस्य तु ॥ 1.15.118 ॥
विश्वकर्मा महाभागस्तस्यां जज्ञे प्रजापतिः ।
कर्ता शिल्पसहस्राणां त्रिदशानां च वार्धकिः ॥ 1.15.119॥
भूषणानां च सर्वेषां कर्ताशिल्पवतां वरः ।
यः सर्वैषां विमानानि देवतानां चकार ह ।
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ॥ 1.15.120 ॥
अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्यवान् ।
त्वष्टुश्चाप्यात्मजः पुत्रो विश्वरूपो महातपाः ॥ 1.15.121 ॥
हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ।
वृषाकपिश्च शम्भुश्च कपर्दीरैवतः स्मृतः ॥ 1.15.122 ॥
मृगव्याधश्च शर्वश्च कपाली च महामुने ।
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥ 1.15.123 ॥
शतं त्वेकं समाख्यातं रुद्राणाममितौजसाम् ।
काश्यपस्य तु भार्या यास्तासां नामानि मे शृणु ।
अदितिर्दितिर्दनुश्चैवारिष्टा च सुरसा खसा ॥ 1.15.124॥
सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा ।
कद्रुर्मुनिश्च धर्मज्ञ तदपत्यानि मे शृणु ॥ 1.15.125॥
पूर्वमन्वन्तरे श्रेष्ठा द्वादशासन्सुरोत्तमाः ।
तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेन्तरे ॥ 1.15.126॥
उपस्थितेऽतियशसश्चाक्षुषस्यान्तरे मनोः ।
समवायीकृताः सर्वे समागम्य परस्परम् ॥ 1.15.127॥
आगच्छत द्रुतं देवा अदितिं संप्रविश्य वै ।
मन्वन्तरे प्रसूयामस्तन्नः श्रेयो भवेदिति ॥ 1.15.128 ॥
एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः ।
मारीचात्कश्यपाज्जाता अदित्या दक्षकन्यया ॥ 1.15.129॥
तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव हि ।
अर्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥ 1.15.130 ॥
विवस्वान्सविता चैव मित्रो वरुण एव च ।
अंशुर्भगश्चातितेजा आदित्या द्वादश स्मृताः ॥ 1.15.131 ॥
चाक्षुषस्यान्तरे पूर्वमासन्ये तुषिताः सुराः ।
वैवस्वतेऽन्तरे ते वै आदित्या द्वादश स्मृताः ॥ 1.15.132 ॥
सप्तविंशति याः प्रोक्ताः सोमपत्न्योथ सुव्रताः ।
सर्वा नक्षत्रयोगिन्यस्
तन्नाम्नश्चैव ताः स्मृताः ।
तासामपत्यान्यभवन्दीप्तान्यमिततेजसाम् ॥ 1.15.133 ॥
अरिष्टनेमिपत्नीनामपत्यानीह षोडश ॥ 1.15.134॥
बहुपुत्रस्य विदुषश्चतस्त्रोविद्युतः स्मृताः ॥ 1.15.135॥
प्रत्यङ्गिरसजाः श्रेष्ठा ऋचो ब्रह्मर्षिसत्कृताः ॥ 1.15.136॥
कृशाश्वस्य तु देवर्षेर्देवप्रहरणाः स्मृताः ॥ 1.15.137॥
एते युगसहस्रान्ते जायन्ते पुनरेव हि ।
सर्वे देवगणास्तात त्रयस्त्रिंशत्तु छन्दजाः ।
तेषामपीह सततं निरोधोत्पत्तिरुच्यते ॥ 1.15.138 ॥
यथा सूर्यस्य मैत्रेय उदयास्तमनाविह ।
एवं देवनिकायास्ते सम्भवन्ति युगेयुगे ॥ 1.15.139॥
दित्या पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् ।
हिरण्यकशिपुश्चैव हिरण्याक्षश्च दुर्जयः ॥ 1.15.140 ॥
सिंहिका चाभवत्कन्या विप्रचित्तेः परिग्रहः ॥ 1.15.141 ॥
हिरण्यकशिपोः पुत्राश्चात्वारः प्रथितौजसः ।
अनुह्लादश्च ह्लादश्च प्रह्लादश्चैव बुद्धिमान् ।
संह्लादश्च महावीर्या दैत्यवंशविवर्धनाः ॥ 1.15.142 ॥
तेषां मध्ये महाभाग सर्वत्र समदृग्वाशी ।
प्रह्लादः परमां भक्तिं च उवाच जनार्दने ॥ 1.15.143 ॥
दैत्येन्द्रदीपितो वह्निः सर्वाङ्गोपचितो द्विज ।
न ददाह च यं विप्र वासुदेव हृदि स्थिते ॥ 1.15.144॥
महार्णवान्तः सलिले स्थितस्य चलतो मही ।
चचाल चलता यस्य पाशबद्धस्य धीमतः ॥ 1.15.145॥
न भिन्नं विविधैः शस्त्रैर्यस्य दैत्येन्द्रपातितैः ।
शरीरमद्रिकठिनं सर्वत्राच्युतचेतसः ॥ 1.15.146॥
विषानलोज्ज्वलमुखा यस्य दैत्यप्रचोदिताः ।
नान्ताय सर्पपतयो बभूवुरुरुतेजसः ॥ 1.15.147॥
शैलैराक्रान्तदेहोपि यः स्मरन्पुरुषोत्तमम् ।
तत्याज नात्मनः प्राणान् विष्णुस्मरणदंशितः ॥ 1.15.148 ॥
पतन्तमुच्चादवनिर्यमुपेत्य महामतिम् ।
दधार दैत्यपतिना क्षिप्तं स्वर्गनिवासिना ॥ 1.15.149॥
यस्य सशोषको वायुर्देहे दैत्येन्द्रयोजितः ।
अवाप संक्षयं सद्यश्चित्तस्थे मधुसूदने ॥ 1.15.150 ॥
विषाणभङ्गमुन्मत्ता मदहानिं च दिग्गजाः ।
यस्य वक्षःस्थले प्राप्ता दैत्येन्द्रपरिणामिताः ॥ 1.15.151 ॥
यस्य चोत्पादिता कृत्या दैत्यराजपुरोहितैः ।
बभूव नान्ताय पुरा गोविन्दासक्तचेतसः ॥ 1.15.152 ॥
शम्बरस्य च मायानां सहस्रमतिमायिनः ।
यस्मिन्प्रयुक्तं चक्रेण कृष्णस्य वितथिकृतम् ॥ 1.15.153 ॥
दैत्येन्द्रसूदोपहृतं यस्य हालाहलं विषम् ।
जरयामास मतिमानविकारममत्सरी ॥ 1.15.154॥
समचेता जगत्यस्मिन्यः सर्वेष्वेव जन्तुषु ।
यथात्मनि तथान्येषां परं मैत्रगुणान्वितः ॥ 1.15.155॥
धर्मात्मा सत्यशौर्यादिगुणानामाकरः परः ।
उपमानमशेषाणां साधूनां यः सदाभवत् ॥ 1.15.156॥
इतिश्रीविष्णुपुराणे प्रथमेऽंशे पञ्चदशोऽध्यायः (15)
श्रीमैत्रेय उवाच
कथितो भवता वंशो मानवानां महात्मनाम् ।
कारणं चास्य जगतो विष्णुरेव सनातनः ॥ 1.16.1 ॥
यत्त्वेतद्भगवानाह प्रह्लादं दैत्यसत्तमम् ।
ददाह नाग्निर्नास्त्रैश्च क्षुण्णस्तत्याज जीवितम् ॥ 1.16.2॥
जगाम वसुधा क्षोभं यत्राब्धिसलिले स्थिते ।
पाशौर्बद्धे विचलति विक्षिप्ताङ्गैः समाहता ॥ 1.16.3 ॥
शैलैराक्रान्तदेहोपि न ममार च यः पुरा ।
त्वाय चातीव माहात्म्यं कथितं यस्य धीमतः ॥ 1.16.4 ॥
तस्य प्रभावमतुलं विष्णोर्भक्तिमतो मुने ।
श्रोतुमिच्छामि यस्यैतच्चरितं दीप्ततेजसः ॥ 1.16.5॥
किंनिमित्तमसौ शस्त्रैर्विक्षिप्तो दितिजेमुन ।
किमर्थं चाब्धिसलिले विक्षिप्तो धर्मतत्परः ॥ 1.16.6॥
आक्रान्तः पर्वतैः कस्माद्दष्टश्चैव महोरगैः ।
क्षिप्तः किमद्रिशिखराक्तिं वा पावकसञ्चये ॥ 1.16.7॥
दिग्दन्तिनां दन्तभूमिं स च कस्मान्निरूपितः ।
सशोषकोनिलश्चास्य प्रयुक्तः किं महासुरैः ॥ 1.16.8॥
कृत्यां च दैत्यगुरवो युयुजुस्तत्र किं मुने ।
शम्बरश्चापि मायानां सहस्रं किं प्रयुक्तावान् ॥ 1.16.8 ॥
हालाहलं विषमहो दैत्यसूदैर्महात्मनः ।
कस्माद्दत्तं विनाशाय यज्जीर्णं तेन धीमता ॥ 1.16.10 ॥
एतत्सर्वं महाभाग प्रह्लादस्य महात्मनः ।
चरितं श्रोतुमिच्छामि महामाहात्म्यसूचकम् ॥ 1.16.11 ॥
न हि कौतूहलं तत्र यद्दैत्यौर्निहतो हि सः ।
अनन्यमनसो विष्णो कः समर्थो निपातने ॥ 1.16.12 ॥
तस्मिन्धर्मपरेनित्यं केशवाराधनोद्यते ।
स्ववंशप्रभवैर्दैत्यैः कृतो द्वेषोतिदुप्करः ॥ 1.16.13 ॥
धर्मात्मनि महाभागो विष्णुभक्ते विमत्सरे ।
दैतयैः प्रहृतं कस्मात्तन्ममाख्यातुमर्हसि ॥ 1.16.14॥
प्रहरन्ति महात्मानो विपक्षा अपि नेद्दशे ।
गुणैः समन्विते साधौ किं पुनर्यः स्वपक्षजः ॥ 1.16.15॥
तदेतत्कथ्यतां सर्वं विस्तरान्मुनिपुङ्गव ।
दैत्येश्वरस्य चारितं श्रोतुमिच्छाम्यशेषतः ॥ 1.16.16॥
इति श्रीविष्णुपुराणे प्रथमेऽंशे षोडशोऽध्यायः (16)
श्रीपराशर उवाच [Sage Parasara said]
मैत्रेय क्षूयतां सम्यक्चरितं तस्य धीमतः ।
प्रह्लादस्य सदोदारचरितस्य महात्मनः ॥ 1.17.1 ॥
दितेः पुत्रो महावीर्यो हिरण्यकशिपुः पुरा ।
त्रैलोक्यं वशमानिन्ये ब्रह्मणो वरदर्पितः ॥ 1.17.2॥
इन्द्रत्वमकरोद्दैत्यः स चासीत्सविता स्वयम् ।
वायुरग्निरपां नाथः सोमश्चाभून्महासुरः ॥ 1.17.3 ॥
धनानामधिपः सोऽभूत्स एवासीत्स्वयं यमः ।
यज्ञभागानशेषांस्तु स स्वयं बुभुजेऽसुरः ॥ 1.17.4 ॥
देवाः स्वर्गं परित्यज्य तर्त्रासान्मुनिसत्तम ।
विचेरुरवनौ सर्वे बिभ्राणा मानुषीं तनुम् ॥ 1.17.5॥
जित्वा त्रिभुवनं सर्वं त्रैलोक्यैश्वर्यदर्पितः ।
उपगीयमानो गन्धर्वैर्बुभुजे विषयान्प्रियान् ॥ 1.17.6॥
पानासक्तं महात्मानं हिरण्यकशिपुं तदा ।
उपासांचक्रिरे सर्वे सिद्धगन्धर्वपन्नगाः ॥ 1.17.7॥
अवादयन् जगुश्चान्ये जयशब्दं तथापरे ।
दैत्यराजस्य पुरतश्चक्रुः सिद्धा मुदान्विताः ॥ 1.17.8॥
तत्र प्रनृत्तप्सरसि स्फाटिकाभ्रमयेऽसुरः ।
पपौ पानं मुदा युक्तः प्रासादे सुमनोहरे ॥ 1.17.8 ॥
तस्य पुत्रो महाभागः प्रह्लादो नाम नामतः ।
पपाठ बालपाठ्यानि गुरुगेहङ्गतोर्ऽभकः ॥ 1.17.10 ॥
एकदा तु स धर्मात्मा जगाम गुरुणा सह ।
पानासक्तस्य पुरतः पुतुर्दैत्यपतेस्तदा ॥ 1.17.11 ॥
पादप्रणामावनतं तमुत्थाप्य पिता सुतम् ।
हिरण्यकशिपुः प्राह प्रह्लादममितौजसम् ॥ 1.17.12 ॥
हिरण्यकशिपुरुवाच
पठ्यतां भवता वत्स सारभूतं सुभाषितम् ।
कालेनैतावता यत्ते सदोद्योक्तेन शिक्षितम् ॥ 1.17.13 ॥
प्रह्लाद उवाच
श्रूयतां तात वक्ष्यामि सारभूतं तवाज्ञया ।
समाहितमना भूत्वा यन्मे चेतस्यवस्थितम् ॥ 1.17.14॥
अनादिमध्यान्तमजमवृद्धिक्षयमच्युतम् ।
प्रणतोस्म्यन्तमन्तानं सर्वकारणकारणम् ॥ 1.17.15॥
श्रीपराशर उवाच [Sage Parasara said]
एतन्निशम्य दैत्येन्द्रः सकोपो रक्तलोचनः ।
विलोक्य तद्गुरुं प्राह स्फुरिताधरपल्लवः ॥ 1.17.16॥
हिरण्यकशिपुरुवाच
ब्रह्मबन्धो किमेतत्ते विपक्षस्तुतिसंहितम् ।
असारं ग्राहितो बालो मामवज्ञाय दुर्मते ॥ 1.17.17॥
गुरुरुवाच
दैत्येश्वर न कोपस्य वशमागन्तुमर्हसि ।
ममोपदेशजनितंनायं वदति ते सुतः ॥ 1.17.18 ॥
हिरण्यकशिपुरुवाच
अनुशिष्टोसि केनेदृग्वत्स ब्रह्लाद कथ्यताम् ।
मयोपदिष्टं नेत्येष प्रब्रवीति गुरुस्तव ॥ 1.17.19॥
प्रह्लाद उवाच
शास्ता विष्णुरशेषस्य जगतो यो हृदि स्थितः ।
तमृते परमात्मानं तात कः केन शास्यते ॥ 1.17.20 ॥
हिरण्यकशिपुरुवाच
कोयं विष्णुः सुदुर्बुद्धे यं ब्रवीषि पुनः पुनः ।
जगतामीश्वरस्येह पुरतः प्रसभ मम ॥ 1.17.21 ॥
प्रह्लाद उवाच
न शब्दगोचरे यस्य योगिध्येयं परं पदम् ।
यतो यश्च स्वयं विश्वं स विष्णुः परमेश्वरः ॥ 1.17.22 ॥
हिरण्यकशिपुरुवाच
परमेश्वरसंज्ञोज्ञ किमन्यो मय्यवस्थिते ।
तथापि मर्तुकामस्त्वं प्रब्रवीषि पुनः पुनः ॥ 1.17.23 ॥
प्रह्लाद उवाच
न केवलं तात मम प्रजानां स ब्रह्मभूतो भवतश्च विष्णुः ।
धाता विधाता परमेश्वरश्च प्रकीद कोपं कुरुषे किमर्थम् ॥ 1.17.24॥
हिरण्यकशिपुरुवाच
प्रविष्टः कोऽस्य हृदये दुर्बुद्धेरतिपापकृत् ।
येनेदृशान्यसाधूनि वदत्याविष्टमानसः ॥ 1.17.25॥
प्रह्लाद उवाच
न केवलं मद्धृदयं स विष्णुराक्रम्य ललोकानखिलानवस्थितः ।
स मां त्वदान्दीश्च पितःसमस्तान्समस्तचेष्टासु युनक्ति सर्वगः ॥ 1.17.26॥
हिरण्यकिशिपुरुवाच
निष्कास्यतामयं पापः शास्यतां च गुरोर्गृहे ।
योजितो दुर्मतिः केन विपक्षविषयस्तुतौ ॥ 1.17.27॥
श्रीपारशर उवाच
इत्युक्तोऽसौ तदा दैत्यैर्नीतो गुरुगृहं पुनः ।
जग्राह विद्यमनिशं गुरुशुश्रूषणोद्यतः ॥ 1.17.28 ॥
कालोतीतेति महति प्रह्लादमसुरेश्वरः ।
समाहूयाब्रवीद्राथा काचित्पुत्रक गीयताम् ॥ 1.17.29॥
प्रह्लाद उवाच
यतः प्रधानपुरुषौ यतश्चैतच्चराचरम् ।
कारणं सकलस्यास्य स नो विष्णुः प्रसीदतु ॥ 1.17.30 ॥
हिरण्यकशिपुरुवाच
दुरात्मा वध्यतामेष नानेनार्थोस्ति जीवता ।
स्वपक्षहानिकर्तृत्वाद्यः कुलाङ्गारतां गतः ॥ 1.17.31 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्याज्ञप्तास्ततस्तेन प्रगृहीतमहायुधाः ।
उद्यतास्तस्य नाशाय दैत्याः शतसहस्रशः ॥ 1.17.32 ॥
प्रह्लाद उवाच
विष्णुः शस्त्रेषु युष्मासु मयि चासौ व्यवस्थितः ।
दैतेयास्तेन सत्येन माक्रमन्त्वायुधानि मे ॥ 1.17.33 ॥
श्रीपराशर उवाच [Sage Parasara said]
ततस्तैः शतशो दैत्यैः शस्त्रोघैराहतोपि सन् ।
नावाच वेदनामल्पामभूच्चैव पुनर्नवः ॥ 1.17.34॥
हिरण्यकशिपुरुवाच
दुर्बुद्धे विनिवर्तस्व वैरिपक्षस्तवाहतः ।
अभयं ते प्रयच्छामि मातिमूढमतिर्भव ॥ 1.17.35॥
प्रह्लाद उवाच
भयं भयानामपहारिण स्थिते मनस्यनन्ते मम कुत्र तिष्ठति ।
यस्मिन्स्मृते जन्मजरान्तकादिभयानि सर्वाम्यपयान्ति तात ॥ 1.17.36॥
हिरण्यकशिपुरुवाच
भोभोः सर्पाः दुराचारमेनमत्यन्तदुर्मतिम् ।
विषज्वालाकुलैर्वक्रैः सद्यो नयतः संक्षयम् ॥ 1.17.37॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्तास्ते ततः सर्पाः कुहकास्तक्षकादयः ।
अदशन्त समस्तेषु गात्रेष्वतिविषोल्बणाः ॥ 1.17.38 ॥
स त्वासक्तमतिः कृष्णे दश्यमानो महोरगैः ।
न विवेदात्मनो गात्रं तत्स्मृत्याह्लादसुस्थितः ॥ 1.17.39॥
सर्पा ऊचुः
दंष्ट्रा विशीर्णा मण्यः स्फुटन्ति फणेषु तापो हृदयेषु कंपः ।
नास्य त्वचः स्वल्पमपीह भिन्नं प्रसाधि दैत्येश्वर कार्यमन्यत ॥ 1.17.40 ॥
हिरण्यकशिपुरुपाच
हे दिग्गाजाः संकटदन्तमिश्र घ्नतैनमस्मद्रिपुपक्षभिन्नम् ।
तज्जा विनाशाय भवन्ति तस्य यथारणेः प्रज्वलितो हुताशः ॥ 1.17.41 ॥
श्रीपराशर उवाच [Sage Parasara said]
ततः स दिग्गजैर्बालो भूभृच्छिखरसन्निभैः ।
पातितो धरणीपृष्ठे विषाणैर्वावपीडितः ॥ 1.17.42 ॥
स्मरतस्तस्य गोविन्दमिभदन्ताः सहस्रशः ।
शीर्णा वक्षस्थलं प्राप्य स प्राह पितरं ततः ॥ 1.17.43 ॥
दन्ता गजानां कुलिशाग्रनिष्ठुराझ शीर्णा यदेतेन बलं ममैतत् ।
महाविपत्तापविनाशनोऽयं जनार्दनानुस्मरणानुभावः ॥ 1.17.44॥
हिरण्यकशिपुरुवाच
ज्वाल्यतामसुरा बह्निरपसर्पत दिग्गजाः ।
वायो समेधयाग्निं त्वं दह्यतामेष पापकृत् ॥ 1.17.45॥
श्रीपराशर उवाच [Sage Parasara said]
महाकाष्ठचयस्थं तमसुरेन्द्रसुतं ततः ।
प्रज्वाल्य दानवा वह्निं ददहुः स्वामिनोदिताः ॥ 1.17.46॥
प्रह्लाद उवाच
तातैष वह्निः पवनेरितोपि न मां दहत्यत्र समन्ततोहम् ।
पश्यामि पद्मास्तरणास्तृतानि शीतानि सर्वाणि दिशां मुखानि ॥ 1.17.47॥
श्रीपराशर उवाच [Sage Parasara said]
अथ दैत्येश्वरं प्रोचुर्भार्गवस्यात्मजा द्वाजाः ।
पुरोहिता महात्मानः साम्ना संस्तूय वाग्मिनः ॥ 1.17.48 ॥
पुरोहिता ऊचुः
राजन्नियम्यतां कोपो बालेपि तनये निजे ।
कोपो देवनिकायेषु तेषु ते शपलो यतः ॥ 1.17.49॥
(ततः पुरोहितैरुक्तो हिरण्यकशिपुः स्वकैः)
तथातथैनं बालं ते शासितारो वयं नृपः ।
यथा विपभनाशाय विनीतस्ते भविष्यति ॥ 1.17.50 ॥
बालत्वं सर्वदोषाणां दैत्यराजास्पदं यतः ।
ततोत्र कोपमत्यर्थं योक्तुमर्हसि नार्भके ॥ 1.17.51 ॥
न त्यक्ष्यति हरेः पक्षमस्माकं वचनाद्यदि ।
ततः कृत्यां वधायास्य करिष्यामोऽनिवर्तिनीम् ॥ 1.17.52 ॥
श्रीपराशर उवाच [Sage Parasara said]
एवमभ्यर्थितस्तैस्तु दैत्यराजः पुरोहितैः ।
दैत्यैर्निष्कासयामास पुत्रं पावकसंचयात् ॥ 1.17.53 ॥
ततो गुरुगृहे वालः स वसन्बालदानवान् ।
अध्यापयामास मुहुरुपदेशान्तरे गुरोः ॥ 1.17.54॥
प्रह्लाद उवाच
श्रूयतां परमार्थो मे दैतेया दितिजात्मजाः ।
न चान्यथैतन्मन्तव्यं नात्र लोभादिकारणम् ॥ 1.17.55॥
जन्म बाल्यं ततः सर्वो जन्तुः प्राप्नोति यौवनम् ।
अव्याहतैव भवति ततोनुदिवसं जराः ॥ 1.17.56॥
ततश्च सृत्युमभ्येति जन्तुर्दैत्येश्वरात्मजाः ।
प्रत्यक्षं दृस्यते चैतदस्माकं भवतां तथा ॥ 1.17.57॥
मृतस्य च पुनर्जन्म भवत्येतच्च नान्यथा ।
आगमोऽयं तथा यच्च नोपादानं विनोद्भवः ॥ 1.17.58 ॥
गर्भवासादि यावत्तु पुनर्जन्मोपपादनम् ।
सह स्तावस्थकं तावद्दुःखमेवावगम्यताम् ॥ 1.17.59॥
क्षुत्तृष्णोपशमं तद्वच्छीताद्युपशमं मुखम् ।
मन्यते बालबुद्धित्वाद्दुःखमेव हि तत्पुनः ॥ 1.17.60 ॥
अत्यन्तस्तिमिताङ्गानां व्यायामेन सुखैषिणाम् ।
भ्रान्तिज्ञानावृताक्षाणां दुःखमेव सुखायते ॥ 1.17.61 ॥
क्व शरीरमशेषाणां श्लेष्मादीनां महाचयः ।
क्व कान्तिशोभासौन्दर्यरमणीयादयो गुणाः ॥ 1.17.62 ॥
मांसासृक्पूयविण्मूत्रस्नायुमज्जास्थिसंहतौ ।
देहे चेत्प्रीतिमान्मूढो भविता नरकेप्यसौ ॥ 1.17.63 ॥
अग्नोः शीतेन तोयस्य तृषा भक्तस्य च क्षुधा ।
क्रियते सुखकर्तृत्वं तद्विलोमस्य चेतरैः ॥ 1.17.64॥
करोति हे दैत्यसुता यावन्मात्रं परिग्रहम् ।
तावन्मात्रं स एवास्य दुःखं चेतसि यच्छति ॥ 1.17.65॥
यावतः कुरुते जन्तुः सम्बन्धान्मनसः प्रियान् ।
तावन्तोस्य निखन्यन्ते हृदये शोकशङ्कवः ॥ 1.17.66॥
यद्यद्गृहे तन्मनसि यत्र तत्रावतिष्ठतः ।
नाशदाहोपकरणं तस्य तत्रैव तिष्ठति ॥ 1.17.67॥
जन्मन्यत्र महद्दुःखं म्रियमाणस्य चापि तत् ।
यातनासु यमस्योग्रं गर्भसंक्रमणेषु च ॥ 1.17.68 ॥
गर्भेषु सुखलोशोपि भवद्भिरनुमीयते ।
यदि तत्कथ्यतामेवं सर्वं दुःखमयं जगत् ॥ 1.17.69॥
तदेवमतिदुखानामास्पदेत्र भवार्मवे ।
भवतां कथ्यते सत्यं विष्णुरेकः परायणः ॥ 1.17.70 ॥
मा जानीत वयं बाला देही देहेषु शाश्वतः ।
जरायौवनजन्माद्य धर्मा देहस्य नात्मनः ॥ 1.17.71 ॥
बालोहं तावदिच्छातो यतिष्ये श्रेयसे युवा ।
युवाहं वार्धके प्राप्ते करिष्याम्यत्मनो हितम् ॥ 1.17.72 ॥
वृद्धोऽहं मम कार्याणि समस्तानि न गोचरे ।
किं करिष्यामि मन्दात्मा समर्थेन न यत्कृतम् ॥ 1.17.73 ॥
एवं दुराशया क्षिप्तमानसः पुरुषः सदा ।
श्रेयसोऽभिमुखं याति न कादाचित्पिपासितः ॥ 1.17.74॥
बाल्ये क्रिडनकासक्ता योवने विषयोन्मुखाः ।
अज्ञा नयन्त्यशक्त्या च वार्धकं समुपस्थितम् ॥ 1.17.75॥
तस्माद्बाल्ये विवेकात्मा यतेत श्रेयसे सदा ।
बाल्ययौवनवृद्वाद्यैर्देहभावैरसंयुतः ॥ 1.17.76॥
तदेतद्वो मयाख्यातं यदि जानीत नानृतम् ।
तदस्मत्प्रीतये विष्णुः स्मर्यतां बन्धमुक्तिदः ॥ 1.17.77॥
प्रयासः स्मरणे कोस्य स्मृतो यच्छति शोभनम् ।
पापक्षयश्च भवति स्मरतां तमहर्निशम् ॥ 1.17.78 ॥
सर्वभूतस्थिते तस्मिन्मतिर्मैत्री दिवानिशम् ।
भवतां जायतामेवं सर्वक्लेशान्प्रहास्यथ ॥ 1.17.79॥
तापत्रयेणाभिहतं यदेतदखिलं जगत् ।
तदा शोच्येषु भूतेषु द्वेषं प्राज्ञः करोति कः ॥ 1.17.80 ॥
अथ भद्राणि भूतानि हीनशक्तिरहं परम् ।
मुदं तदापि कुर्वित हानिर्द्वेषफलं यतः ॥ 1.17.81 ॥
बद्धवैराणि भूतानि द्वेषं कुर्वन्ति चेत्ततः ।
सुशोच्यान्यतिमोहेन व्याप्तानीति मनीषिणाम् ॥ 1.17.82 ॥
एते भिन्नदृसां दैत्या विकल्पाः कथिता मया ।
कृत्वाभ्युपगमं तत्र संभेपः श्रूयतां मम ॥ 1.17.83 ॥
विस्तारः सर्वभूतस्य विष्णोः सर्वमिदं जगत् ।
द्रष्टव्यमात्मवत्तस्मादभेदेन विचक्षणैः ॥ 1.17.84॥
समुत्सृज्यासुरं भावं तस्माद्ययं यथा वयम् ।
तथा यत्नं करिष्यामो यथा प्राप्स्याम निर्वृतिम् ॥ 1.17.85॥
या नाग्निना न चार्केण नेन्दुना न च वायुना ।
पजन्यवरुणाभ्यां वा न सिद्धेर्न च साक्षसैः ॥ 1.17.86॥
न यक्षैर्न च दैत्येन्द्रैर्नोरगैर्न च किन्नरैः ।
न मनुष्यैर्न पशुभिर्दोषैर्नैवात्मसम्भवैः ॥ 1.17.87॥
ज्वाराक्षिरोगातीसारप्लीहगुल्मादिकैस्तथा ।
द्वेषोर्ष्यामत्सराद्यौर्वा रागलोभादिभिः क्षयम् ॥ 1.17.88 ॥
न चान्यैर्नीयते कैश्चिन्नित्या यात्यन्तनिर्मला ।
तामाप्नोत्यमलेन्यस्य केशवे हृदयं नरः ॥ 1.17.89॥
असारसंसारविवर्तनेषु मा यात तोषं प्रसभं ब्रवीमि ।
सर्वत्र दैत्याःसमतामुपैत समत्वमाराधनमच्युतस्य ॥ 1.17.90 ॥
तस्मिन्प्रसन्ने किमिहास्त्यलभ्यं धर्मार्थकामैरलमल्पकास्ते ।
समाश्रिताद्ब्रह्यतरोरनन्तान्निः संशयं प्राप्स्तथ वै महत्फलम् ॥ 1.17.91 ॥
इति श्रीविष्णुपुराणे प्रथमेऽंशे प्रह्लादानुचरितं नाम सप्तदशोध्यायः (17)
श्रीपारशर उवाच
तस्यैतां दानवाश्चेष्टां दृष्ट्वा दैत्यपतेर्भयात् ।
आचचख्युः स चोवाच सूदानाहूय सत्वरः ॥ 1.18.1 ॥
हिरण्यकशिपुरुवाच
हे सूदाःमम पुत्रोसावन्योषामपि दुर्मतिः ।
कुमार्गदेशिको दुष्टो हन्यतामविलम्बितम् ॥ 1.18.2॥
हालाहलं विषं तस्य सर्वभक्षेषु दीयताम् ।
अविज्ञातमसौ पापो हन्यतां मा विचार्यताम् ॥ 1.18.3 ॥
श्रीपराशर उवाच [Sage Parasara said]
ते तथैव ततश्चक्रुः प्रह्लादाय महात्मने ।
विषदानं यथाज्ञाप्तं पित्रा तस्य महात्मनः ॥ 1.18.4 ॥
हालाहलं विषं घोरमनन्तोच्चारणेन सः ।
अभिमन्त्र्य सहान्नेन मैत्रेय बुभुजे तदा ॥ 1.18.5॥
अविकारं स तद्भुक्त्वा प्रह्लादः स्वस्थमानसः ।
अनन्तख्यातिनिर्विर्यजरयामास तद्विषम् ॥ 1.18.6॥
ततः सूदा भयत्रस्ता जीर्णं दृष्ट्वा महद्विषम् ।
दैत्येश्वरमुपागम्य प्रणिपत्येदमब्रुवन् ॥ 1.18.7॥
सूदा ऊचुः
दैत्यराज विषं दत्तमस्माभिरतिभीषणम् ।
जीर्णं तेन सहान्नेन प्रह्लाहेन सुतेन ते ॥ 1.18.8॥
हिरण्यकशिपुरुवाच
त्वर्यतां त्वर्यतां हे हे सद्यो दैत्यपुरोहिताः ।
कृत्यां तस्यविनाशाय उत्पादयत मा चिरम् ॥ 1.18.8 ॥
श्रीपराशर उवाच [Sage Parasara said]
सकाशमागम्य ततः प्रह्लादस्य पुरोहिताः ।
सामपूर्वमथोचुस्ते प्रह्लादं विनयान्वितम् ॥ 1.18.10 ॥
पुरोहिता ऊचुः
जातस्त्रैलोक्यविख्यात आयुष्मन्ब्रह्मणः कुले ।
दैत्यराजस्य तनयो हिरण्यकशिपोर्भवात् ॥ 1.18.11 ॥
किन्देवैः किमनन्तेन किमन्येन तवाश्रयः ।
पिता ते सर्वलोकानां त्वं तथैव भविष्यसि ॥ 1.18.12 ॥
तस्मात्परित्यजैनां त्वं विपक्षस्तवसंहिताम् ।
श्लाघ्यः पिता समस्तानां गुरूणां परमो गुरुः ॥ 1.18.13 ॥
प्रह्लाद उवाच
एवमेतन्महाभागाः श्लाघ्यमेतन्महाकुलम् ।
मरिचेः सकलेप्यस्मिन् त्रैलोक्ये ना न्याथा वदेत् ॥ 1.18.14॥
पिता च मम सर्वास्मिञ्जगत्युक्तृष्टचेष्टितः ।
एतदप्यवगच्छामि सत्यमत्रापि नानृतम् ॥ 1.18.15॥
गुरूणामपि सर्वेषां पिता परमको गुरुः ।
यदुक्तं भ्रान्तिस्तत्रापि स्वल्पापि हि न विद्यते ॥ 1.18.16॥
पिता गुरुर्न सन्देहः पूजनीयः पूयत्नतः ।
तत्रापि नापराध्यामीत्येवं मनसि से स्थितम् ॥ 1.18.17॥
यत्त्वेतत्किमनन्तेनेत्युक्तं युष्माभिरिदृसम् ।
को ब्रवीति यथान्याय्यं किं तु नैतद्वचोर्थवत् ॥ 1.18.18 ॥
इत्युक्त्वा सोऽभवन्मौनी तेषां गोरवयन्त्रितः ।
प्रहस्य च पुनः प्राह किमनन्तेन साध्विति ॥ 1.18.19॥
साधु भोः किमनन्तेन साधु भो गुरुवो मम ।
श्रूयतां यदनन्तेन यदि खेदं न यास्यथ ॥ 1.18.20 ॥
धर्मार्थकाममोक्षाश्च पुरुषार्था उदाहृताः ।
चतुष्टयमिदं यस्मात्तस्माक्तिं किमिदं वच ॥ 1.18.21 ॥
मरीचिमिश्रैर्दक्षाद्यैस्तथैवान्यैरनन्ततः ।
धर्म प्राप्तस्तथा चान्यैरर्थः कामस्तथापरैः ॥ 1.18.22 ॥
तन्तत्त्ववेदिनो भूत्वा ज्ञानध्यानसमाधिभिः ।
अवापुर्मुक्तिमपरे पुरुषा ध्वस्तबन्धनाः ॥ 1.18.23 ॥
सम्पदैश्वर्यमाहात्म्यज्ञानसंततिकर्मणाम् ।
विमुक्तेश्चैकतो लभ्यं मूलमाराधनं हरेः ॥ 1.18.24॥
यतो धर्मार्थकामाख्यं मुक्तिश्चपि फलं द्विजाः ।
तेनापि किङ्किमित्येवमनन्तेन किमुच्यते ॥ 1.18.25॥
किं चापि बहुनोक्तेन भवन्तो गुरवो मम ।
वदन्तु साधु वासाधु विवेकोऽस्माकमल्पकः ॥ 1.18.26॥
बहुनात्र किमुक्तेन स एव जगतः पतिः ।
स कर्ता च विकर्ता च संहर्ता च हृदि स्थितः ॥ 1.18.27॥
स भोक्ता भोज्यमप्येवं स एव जगदीश्वरः ।
भवद्भिरेतत्क्षन्तव्यं बाल्यादुक्तं तु यन्मया ॥ 1.18.28 ॥
पुरोहिता ऊचुः
दह्यमानस्त्वमस्माभिरग्निना बाल रक्षितः ।
भूयो न वक्ष्यसीत्येवं नैव ज्ञातोस्यबुद्धिमान् ॥ 1.18.29॥
यदास्मद्वचनान्मोहग्राहं न त्यक्षते भवान् ।
ततः कृत्यां विनाशाय तव सृक्ष्याम दुर्मते ॥ 1.18.30 ॥
प्रह्लाद उवाच
कः केन हन्यते जन्तुर्जन्तुः कः केन रक्ष्यते ।
हन्ति रक्षति चैवात्मा ह्यसत्साधु समाचरन् ॥ 1.18.31 ॥
कर्मणा जायते सर्वं कर्मैव गतिसाधनम् ।
तस्मात्सर्वप्रयत्नेन साधु कर्म समाचरेत् ॥ 1.18.32 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्तास्तेन ते क्रुद्धा दैत्यराजपुरोहिताः ।
कृत्यामुत्पादयामासुर्ज्वालामालोज्ज्वलाकृतिम् ॥ 1.18.33 ॥
अतिभीमा समागम्य पादन्यासक्षतक्षितिः ।
शुलेन साधु संक्रुद्धा तं जघानाशु वक्षसि ॥ 1.18.34॥
तत्तस्य हृदयं प्राप्य शूलं बालस्य दीप्तिमत् ।
जगाम खण्डितं भूमौ तत्रापि शतधा गतम् ॥ 1.18.35॥
यत्रानपायी भगवान् हृद्यास्ते हरिरिश्वरः ।
भङ्गो भवति वज्रस्य तत्र शूलस्य का कथा ॥ 1.18.36॥
आपापे तत्र पापैश्च पातिता दैत्यायाजकैः ।
तानेव सा जघानाशु कृत्या नाशं जगाम च ॥ 1.18.37॥
कृत्यया दह्यमानांस्तन्विलोक्य स महामतिः ।
त्राहि कृष्णेत्यनन्तेति वदन्नभ्यवपद्यत ॥ 1.18.38 ॥
प्रह्लाद उवाच
सर्वव्यापिन् जगद्रूप जगत्स्त्रष्टर्जनार्दन ।
पाहि विप्रानिमानस्माद्दुः सहान्मन्त्रपावकात् ॥ 1.18.39॥
यथा सर्वेषु भूतेषु सर्वव्यापी जगद्गुरुः ।
विष्णुरेव तथा सर्वे जीवन्त्वेते पुरोहिताः ॥ 1.18.40 ॥
यथा सर्वगतं विष्णुं मन्यमानोनपायिनम् ।
चिन्तयाम्यरिपक्षेपि जीवन्त्वेते पुरोहिताः ॥ 1.18.41 ॥
ये हन्तुमागता दत्तं योर्विषं यैर्हुताशनः ।
यैर्दिग्गजैरहं क्षुण्णो दष्टः सर्पैश्च यैरपि ॥ 1.18.42 ॥
तेष्वहं मित्रभावेन समः पापोस्मि न क्वचित् ।
यथा तेनाद्य सत्येन जीवन्त्वसुरयाजकाः ॥ 1.18.43 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्तास्तेन ते सर्वे संस्पृष्टाश्च निरामयाः ।
समुत्तस्थुर्द्विजा भूयस्तमूचुः प्रश्रयान्वितम् ॥ 1.18.44॥
पुरोहिता ऊचुः
दीर्घायुरप्रतिहतो बलवीर्यसमन्वितः ।
पुत्रपौत्रधनश्वैर्यैर्युक्तो वत्स भवोत्तमः ॥ 1.18.45॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्त्वा तं ततो गत्वा यथावृत्तं पुरोहिताः ।
दैत्यराजाय सकलमाचचख्युर्महामुने ॥ 1.18.46॥
इति श्रीविष्णुपुराणे प्रथमेऽंशे प्रह्लादचारितेऽष्टादशोऽध्यायः (18)
श्रीपराशर उवाच [Sage Parasara said]
हिरण्यकशिपुः श्रुत्वा तां कृत्यां वितथीकृताम् ।
आहूय पुत्रं पप्रच्छ प्रभावस्यास्य कारणम् ॥ 1.19.1 ॥
हिरण्यकशिपुरुवाच
प्रह्लाद सुप्रभावोसि किमेतत्ते विचेष्टितम् ।
एतन्मन्त्रादिजनितमुताहो सहजं तव ॥ 1.19.2॥
श्रीपराशर उवचा
एवं पृष्टस्तदा पित्रा प्रह्लादोऽसुरबालकः ।
प्रणिपत्य पितुः पादाविदं वचनमब्रवीत् ॥ 1.19.3 ॥
न मन्त्रादिकृतं तात न च नैसर्गिको मम ।
प्रभाव एष सामान्यो यस्य यस्याच्युतो हृदि ॥ 1.19.4 ॥
अन्येषां यो न पापानि चिन्तयत्यात्मनो यथा ।
तस्य पापागमस्तात हेत्व भावान्न विद्यते ॥ 1.19.5॥
कर्मणा मनसा वाच परिपीडां करोति यः ।
तद्वीजं जन्म फलति प्रभूतं तस्य चाशुभम् ॥ 1.19.6॥
सोऽहं न पाप मिच्छामि न करोमि वदामि वा ।
चिन्तयन्सर्वभूतस्थमात्मन्यपि च केशवम् ॥ 1.19.7॥
शारीरं मानसं दुःखं दैवं भूतभवं तथा ।
सर्वत्र शुभचित्तस्य तस्य मे जायेत कुतः ॥ 1.19.8॥
एवं सर्वेषु भूतेषु भक्तिरव्यभिचारिणी ।
कर्तव्या पण्डितैर्ज्ञात्वा सर्वभूतमयं हरिम् ॥ 1.19.8 ॥
श्रीपराशर उवाच [Sage Parasara said]
इति श्रुत्वा स दैत्येन्द्रः प्रासादशिखरे स्थितः ।
क्रोधान्धकारितमुखः प्राह दैतेयकिङ्करान् ॥ 1.19.10 ॥
हिरण्यकशिपुरुवाच
दुरात्मा क्षिप्यतामस्मात्प्रासादाच्छतयोजनात् ।
गिरिपृष्ठे पतत्वस्मिन् शिलाभिन्नाङ्गसंहतिः ॥ 1.19.11 ॥
ततस्तं चिक्षुपुः सर्वे बालं दैतेयदानवाः ।
पपात सोऽप्यधः क्षिप्तो हृदयेनोद्वहह्नरिम् ॥ 1.19.12 ॥
पतमानं जगद्धात्री जगद्धातरि केशवे ।
भक्तियुक्तं दधारैनमुपसंगम्यमैजिनी ॥ 1.19.13 ॥
ततो विलोक्य तं स्वस्थमविशिर्णस्थिपञ्जरम् ।
हिरण्यकशिपुः प्राह शम्बरं मायिनां वरम् ॥ 1.19.14॥
हिरण्यकशिपुरुवाच
नास्माभिः शक्यते हन्तुमसौ दुर्बुद्धिबालकः ।
मायां वेत्ति भवांस्तस्मान्माययैनं निषूदय ॥ 1.19.15॥
शम्बर उवाच
सूदयाम्येव दैत्यैन्द्र पश्य मायाबलं मम ।
सहस्रमत्र मायानां पश्य कोटिशतं तथा ॥ 1.19.16॥
श्रीपराशर उवाच [Sage Parasara said]
ततः स ससृजे मायां प्रह्लादे शम्बरोऽसुरः ।
विनाशमिच्छन्दुर्बुद्धिः सर्वत्र समदर्शिनि ॥ 1.19.17॥
समाहितमतिर्भूत्वा शम्बरेपि विमत्सरः ।
मैत्रेय सोऽपि प्रह्लादः सस्मार मधुसूदनम् ॥ 1.19.18 ॥
श्रीपराशर उवाच [Sage Parasara said]
ततो भगवता तस्य रक्षार्थं चक्रमुत्तमम् ।
आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम् ॥ 1.19.19॥
तेन मायामहस्रं तच्छम्बरस्याशुगामिना ।
बालस्य रक्षता देहमेकैकं चारिशोधितम् ॥ 1.19.20 ॥
संशोषकं तथा वायुं दैत्येन्द्रस्त्विदमब्रवीत् ।
शीग्रमेष ममादेशाद्दुरात्मा नीयतां क्षयम् ॥ 1.19.21 ॥
तथेत्युक्त्वा तु सोऽप्येनं विवेश पवनो लघु ।
शीतोतिरुक्षः शोषाय तद्देहस्यातिदुः सहः ॥ 1.19.22 ॥
तेनाविष्टमथात्मानं स बुद्ध दत्यबालकः ।
हृदयेन महात्मानं दधार धरणीधरम् ॥ 1.19.23 ॥
हृदयस्थस्ततस्तस्य तं वायुमति भीषणम् ।
पपौ जनार्धनः क्रुद्धः स ययौ पवनः क्षयम् ॥ 1.19.24॥
क्षीणासु सर्वमायासु पवने च क्षयं गते ।
जगाम सोऽपि भवनं कुरोरेव महामतिः ॥ 1.19.25॥
अहन्यहन्यथाचार्यो नीतिं राज्यफलप्रदाम् ।
ग्राहयामास तं बालं राज्ञामुसनसा कृताम् ॥ 1.19.26॥
गृहीतनीतिशास्त्रं तं विनीतं च यदा गुरुः ।
मेने तदैनं तत्पित्रे कथयामास शिक्षितम् ॥ 1.19.27॥
आचार्य उवाच
गृहीतनीतिशास्त्रस्ते पुत्रो दैत्यपते कृतः ।
प्रह्लादस्तत्त्वतो वेत्ति भार्गवेण यदीरितम् ॥ 1.19.28 ॥
हिरण्यकशिपुरुवाच
मित्रेषु वर्तेत कथमरिवर्गेषु भूपतिः ।
प्रह्लाद त्रिषु लोकेषु मध्यस्थेषु कथं चरेत् ॥ 1.19.29॥
कथं मन्त्रि ष्वमात्येषु बाह्योष्वाभ्यन्तरेषु च ।
चारेषु पौरवर्गेषु शङ्कितेष्वितरेषु च ॥ 1.19.30 ॥
कृत्याकृत्यविधानञ्च दुर्गाटविकसाधनम् ।
प्रह्लाद कथ्यतां सम्यक्तथा कण्टकशोधनम् ॥ 1.19.31 ॥
एतच्चान्यच्च सकलमधीतं भवता यथा ।
तथा मे कथ्यतां ज्ञातुं तवेच्छामि मनोगतम् ॥ 1.19.32 ॥
श्रीपराशर उवाच [Sage Parasara said]
प्रणिपत्य पितुः पादौ तदा प्रश्रयभूषणः ।
प्रह्लादः प्राह दैत्येन्द्रं कृताञ्जलिपुटस्तथा ॥ 1.19.33 ॥
प्रह्लाद उवाच
ममो पदिष्टं सकलं गुरुमा नात्र संशयः ।
गृहीतन्तु मया किन्तु न सदेतन्मतंमम ॥ 1.19.34॥
साम चोपप्रदानं च भेददण्डौ तथापरौ ।
उपायाः कथिताः सर्वे मित्रादिनां च साधने ॥ 1.19.35॥
परमात्मनि गोविन्दे मित्रादींस्तात मा क्रुद्धः ।
साध्याभावे महाबाहो साधनैः किं प्रयोजनम् ॥ 1.19.36॥
सर्वभूतात्मके तात जगन्नाथे जगन्मये ।
परमात्मनि गोविन्दै मित्रादींस्तात मा क्रुद्धः ।
साध्याभावे महाबाहो साधनैः किं प्रयोजनम् ॥ 1.19.36॥
सर्वबूतात्मके तात जगन्नाथे जगन्मये ।
परमात्मनि गोविन्दे मित्रामित्रकथा कुतः ॥ 1.19.37॥
त्वाय्यस्ति भगवान् विष्णुर्मयि चान्यत्र चास्ति सः ।
यतस्ततोयं मित्रं मे शत्रुश्चेति पृथक्तुतः ॥ 1.19.38 ॥
तदेभिरलमत्यर्थं दुष्टारम्भोक्तिविस्तरैः ।
अविद्यान्तर्गतैर्यत्नः कर्तव्यस्तात शोभेने ॥ 1.19.39॥
विद्याबुद्धिरविद्यायामज्ञानान्तात जायते ।
बालोऽग्निं किं न खद्योतमसुरेश्वर मन्यते ॥ 1.19.40 ॥
तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये ।
आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ॥ 1.19.41 ॥
तदेतदवगम्याहमसारं सारमुत्तमम् ।
निशामय महाभाग प्रणिपत्य ब्रवीमि ते ॥ 1.19.42 ॥
न चिन्तयति को राज्यं को धनं नाभिवाञ्छति ।
तथापि भाव्यमेवैतदुभयं प्राप्यते नरैः ॥ 1.19.43 ॥
सर्व एव महाभाग महत्त्वं प्रति सोद्यमाः ।
तथापि पुंसां भग्यानि नोद्यमा भूतिहेतवः ॥ 1.19.44॥
जडानामविवेकानामशूराणमपि प्रभो ।
भाग्यभोज्यानि राज्यानि सन्त्यनीतिमतामपि ॥ 1.19.45॥
तस्माद्यतेत पुण्येषु य इच्छेन्महतीं श्रियम् ।
यतितव्यं समत्वे च निर्वाणमपि चेच्छता ॥ 1.19.46॥
देवा मनुष्याः पशवः पक्षिवृक्षसरीसृपाः ।
रूपमेतदनन्तस्य विष्णोर्भिन्नमिव स्थितम् ॥ 1.19.47॥
एतद्विजानता सर्वं जगत्स्थावरजङ्गमम् ।
द्रष्टव्यमात्मवद्विष्णुर्यतोऽयं विश्वरूपधृक् ॥ 1.19.48 ॥
एवं ज्ञाते स भगवाननादिः परमेश्वरः ।
प्रसीदत्यच्युतस्तस्मिन्प्रसन्ने क्लेशसंक्षयः ॥ 1.19.49॥
श्रीपराशर उवाच [Sage Parasara said]
एतच्छ्रुत्वा तु कोपेन समुत्थाय वरासनात् ।
हिरण्यकशिपुः पुत्रं पदा वक्षस्यताडयत् ॥ 1.19.50 ॥
उवाच च स कोपेन सामर्षः प्रज्यलन्निव ।
निष्पिष्य पाणिना पिणिं हन्तुकामो जगद्यथा ॥ 1.19.51 ॥
हिरण्यकशिपुरुवाच
हे विप्रचित्ते हे राहो हे बलैष महार्णवे ।
नागापाशैर्दढैर्बद्धा क्षिप्यतां मा विलंब्यताम् ॥ 1.19.52 ॥
अन्यथा सकला लोकास्तथा दैतेयदानवाः ।
अनुयास्यन्ति मूढस्य मतमस्य दुरात्मनः ॥ 1.19.53 ॥
बहुशो वारि तोस्माभिरयं पापस्तथाप्यरेः ।
स्तुतिं करोति दुष्टानां वध एवोपकारकः ॥ 1.19.54॥
पराशर उवाच
ततस्ते सत्वरा दैत्या बद्धा तं नागबन्धनैः ।
भर्तुराज्ञां पुरस्कृत्य चिक्षिपुः सलिलार्णवे ॥ 1.19.55॥
ततश्चचाल चलता प्रह्लादेन महार्णवः ।
उद्वेलोभूत्परं क्षोभमुपेत्य च सम न्ततः ॥ 1.19.56॥
भुर्लोकमखिलं दृष्ट्वा प्लाव्यमानं महाम्भसा ।
हिरण्यकशिपुर्दैत्यानिदमाह माहमते ॥ 1.19.57॥
हिरण्यकशिपुरुवाच
दैतेयाः सकलैः शैलैरत्रैव वरुणालये ।
निश्छिद्रैः सर्वशः सर्वैश्चीयतामेष दुर्मतिः ॥ 1.19.58 ॥
नाग्निर्दहति नैवायं शस्त्रैश्छिन्नो न चोरगैः ।
क्षयं नीतो न वातेन न विषेण न कृत्यया ॥ 1.19.59॥
न मायाभिर्न चैवोच्चत्पातितो न च दिग्गजैः ।
बालोतिदुष्टचित्तोयं नानेनार्थोस्ति जीवता ॥ 1.19.60 ॥
तदेष तोयमध्ये तु समाक्रान्तो महीधरैः ।
तिष्ठत्वब्दसहस्रान्तं प्राणान्हास्यति दुर्मतिः ॥ 1.19.61 ॥
ततो दैत्यादानवाश्च पर्वतैस्तं महोदधौ ।
आक्रम्य चयनं चक्रुर्योजनानि सहस्रशः ॥ 1.19.62 ॥
स चितः पर्वतेरन्तः समुद्रस्य महामतिः ।
तुष्टावाह्निक वेलायामेकाग्रमतिरच्युतम् ॥ 1.19.63 ॥
प्रह्ला उवाच
नमस्ते पुण्डरीकाक्ष नमस्ते पुरुषोत्तम ।
नमस्ते सर्वलोकात्मन्नमस्ते तिग्मचक्रिणे ॥ 1.19.64॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमोनमः ॥ 1.19.65॥
ब्रह्मत्वे सृजते विश्वं स्थितौ पालयते पुनः ।
रुद्ररूपाय कल्पान्ते नमस्तुभ्यं त्रिमूर्तये ॥ 1.19.66॥
देवा यक्षाः सुराः सिद्धा नागा गन्धर्वकिन्नराः ।
पिशाचा राक्षसाश्चैव मनुष्याः पशवस्तथा ॥ 1.19.67॥
पक्षिणस्थावराश्चैव पिपीलिकसरीसृपाः ।
भूम्यापोग्निर्नभोवायुः शब्दः स्पर्शस्तथा रसः ॥ 1.19.68 ॥
रूपं गन्धो मनो बुद्धिरात्मा कालस्तथा गुणाः ।
एतेषां परमार्थश्च सर्वमेतत्त्वमच्युत ॥ 1.19.69॥
विद्याविद्ये भवान्सत्यमसत्यं त्वं विषामृते ।
प्रवृत्तं च निवृत्तं च कर्म वेदोदितं भवान् ॥ 1.19.70 ॥
समस्तकर्मभोक्ता च कर्मोपकरणानि च ।
त्वमेव विष्णो सर्वाणि सर्वकर्मफलं च यत् ॥ 1.19.71 ॥
मय्यन्यत्र तथान्येषु भूतेषु भुवनेषु च ।
तवैवाव्याप्तिरैश्वर्यगुणसंसूचिकी प्रभो ॥ 1.19.72 ॥
त्वां योगिनश्चिन्तयन्ति त्वां यजन्ति च याजकाः ।
हव्यकव्यभुगेकस्त्वं पितृदेवस्वरूपधृक् ॥ 1.19.73 ॥
रूपं महत्ते स्थितमत्र विश्वं ततश्च सूक्ष्मं जगदेतदीश ।
रूपामि सर्वाणि च भूतभेदास्तेष्वन्तरात्माख्यमतीव सूक्ष्मम् ॥ 1.19.74॥
तस्माच्च सूक्ष्मादिविशेषणानामगोचरे यत्परमात्मरूपम् ।
किमप्यचिन्त्यं तव रूपमस्ति तस्मै नमस्ते पुरुषोत्तमाय ॥ 1.19.75॥
सर्वभूतेषु सर्वात्मन्या शक्तिरपरा तव ।
गुणाश्रया नमस्तस्यै शाश्वतायै सुरेश्वर ॥ 1.19.76॥
यातीतगोचरा वाचां मनासां चाविशेषणा ।
ज्ञानिज्ञानपरिच्छेद्य तां वन्दे स्वेश्वरीं पराम् ॥ 1.19.77॥
ओं [OM] नमो वासुदेवाय तस्मै भगवते सदा ।
व्यतिरिक्तं न यस्यास्ति व्यतिरिक्तोखिलस्य यः ॥ 1.19.78 ॥
नमस्तस्मै नमस्तस्मै नमस्तस्मै महात्मने ।
नाम रूपं न यस्यैको योस्तित्वेनोपलभ्यते ॥ 1.19.79॥
यस्यावताररूपामि समर्चन्ति दिवौकसः ।
अपश्यन्तः परं रूपं नमस्तस्मै महात्मने ॥ 1.19.80 ॥
योन्तस्तिष्ठन्नशोषस्य पश्यतीशः शुभाशुभम् ।
तं सर्वसाक्षिणं विश्वं नमस्ये परमेश्वरम् ॥ 1.19.81 ॥
नमोस्तु विष्णवे तस्मै यस्या भिन्नमिदं जगत् ।
ध्येयः स जगतामाद्यः स प्रसीदतु मेऽव्ययः ॥ 1.19.82 ॥
यत्रोतमेतत्प्रोतं च विश्वमक्षरमव्ययम् ।
आधारभूतः सर्वस्य स प्रसीदतु मे हरिः ॥ 1.19.83 ॥
ओं [OM] नमो विष्णवे तस्मै नमस्तस्मै पुनः पुनः ।
यत्र सर्वं यतः सर्वं यः सर्वं सर्वसंश्रयः ॥ 1.19.84॥
सर्वगत्वादनन्तस्य स एवाहमवस्थितः ।
मत्तः सर्वमहं सर्वं मयि सर्वं सनातने ॥ 1.19.85॥
अहमेवाक्षयो नित्यः परमात्मात्मसंश्रयः ।
ब्रह्मसंज्ञोऽहमेवाग्रे तथान्ते च परः पुमान् ॥ 1.19.86॥
इति श्रीविष्णुपुराणे प्रथमेंश एकोनविंशतितमोऽध्यायः (19)
श्रीपराशर उवाच [Sage Parasara said]
एवं संचिन्तयन्विष्णुमभेदेनात्मनो द्विज ।
तन्मयत्वमवाप्यग्र्य मेने चात्मानमच्युतम् ॥ 1.20.1 ॥
विसस्मार तथात्मानं नान्यत्किञ्चिदजानत ।
अहमेवाव्ययोऽनन्तः परमात्मेत्यचिन्तयत् ॥ 1.20.2॥
तस्य तद्भावनायोगात्क्षीणपापस्य वै क्रमात् ।
शुद्धेन्तःकरणे विष्णुस्तस्थौ ज्ञानमयोच्युतः ॥ 1.20.3 ॥
योगप्रभावात्प्रह्लादे जाते विष्णुमयेऽसुरे ।
चलत्युरगबन्धैस्तैर्मैत्रेय त्रुटितं क्षणात् ॥ 1.20.4 ॥
भ्रन्तग्राहगमः सोर्मिर्ययौ क्षोभं महार्णवः ।
चचाल च मही सर्वा सशैलवनकानना ॥ 1.20.5॥
स च तं शैलसंघातं दैत्यैर्न्यस्तमथोपरि ।
उत्क्षिप्य तस्मात्सलिलान्निश्चक्राम महामतिः ॥ 1.20.6॥
दृष्ट्वा च स जगद्भू6 ओ गगनाद्युपलक्षणम् ।
प्रह्लादोस्मीति सस्मार पुनरात्मानमात्मनि ॥ 1.20.7॥
तुष्टाव च पुनर्धामाननादिं पुरुषोत्तमम् ।
एकाग्रमतिरव्यग्रो यतवाक्वायमानसः ॥ 1.20.8॥
प्रह्लाद उवाच
ओंनमः परमार्थाय स्थूल सूक्ष्मक्षराक्षर ।
व्यक्ताव्यक्तकलातीत सकलेश निचञ्जन ॥ 1.20.8 ॥
गुणाञ्जन गुणाधार निर्गुणात्मन् गुणस्थित ।
मूर्तामूर्तमहामूर्ते सूक्ष्ममूर्ते स्फुटास्फुट ॥ 1.20.10 ॥
करालसौम्यरूपात्मन्विद्याविद्यामयाच्युत ।
सदसद्रूपसद्भाव सदसद्भावभावन ॥ 1.20.11 ॥
नित्यानित्यप्रपञ्चात्मन्निष्प्रपञ्चामलाश्रित ।
एकानेक नमस्तुभ्यं वासुदेवादिकारण ॥ 1.20.12 ॥
यः स्थूलसूक्ष्मः प्रकटः प्रकाशो यः सर्वभूतो न च सर्वभूतः ।
विश्वं यतश्चैतदविश्वहेतो नमोस्तु तस्मै पुरुषोत्तमाय ॥ 1.20.13 ॥
पराशर उवाच
तस्य तच्चेतसो देवः स्तुतिमित्थं प्रकृर्वतः ।
आविर्बभूव भगवान् पीताम्बरधरो हरिः ॥ 1.20.14॥
ससम्भ्रमस्तमालोक्य समुत्थायाकुलाक्षरम् ।
नमोस्तु विष्णवेत्येतव्द्याजहारास कृद्द्विज ॥ 1.20.15॥
प्रह्लाद उवाच
देव प्रपन्नार्तिहर प्रसादं कुरु केशव ।
अवलोकनदानेन भूयो मां पावयाच्युत ॥ 1.20.16॥
श्रीभगवानुवाच
कुर्वतस्ते प्रसन्नोहं भक्तिमव्यभिचारिणीम् ।
यथाभिलषितो मत्तः प्रह्लाद व्रीयतां वरः ॥ 1.20.17॥
प्रह्लाद उवाच
नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम् ।
तेषु तेष्वच्युताभक्तिरच्युतास्तु सदा त्वयि ॥ 1.20.18 ॥
या प्रीतिरविवेकानां विषयेष्वनपायिनी ।
त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ॥ 1.20.19॥
श्रीभगवानुवाच
मयि भक्तिस्तवास्त्येव भूयोऽप्येवं भविष्यति ।
वरस्तु मत्तः प्रह्लाद व्रीयतां यस्तवेप्सितः ॥ 1.20.20 ॥
प्रह्लाद उवाच
मयि द्वेषानुबन्धोभूत्संस्तुतावुद्यते तव ।
मत्पितुस्तत्कृतं पापं देव तस्य प्रमश्यतु ॥ 1.20.21 ॥
शस्त्राणि पातितान्यङ्गे क्षिप्तो यच्चाग्निसंहतौ ।
दंशितश्चोरगैर्दत्तं यद्विषं मम भोजने ॥ 1.20.22 ॥
बद्धा समुद्रे यत्क्षिप्तो यच्चितोऽस्मि शिलोच्चयैः ।
अन्यानि चाप्यसाधूनि यानि पित्रा कृताति मे ॥ 1.20.23 ॥
त्वयि भक्तिमतो द्वेषादघं तत्संभवं च यत् ।
त्वत्प्रसादात्प्रभो सद्यस्तेन मुच्यतु मे पिता ॥ 1.20.24॥
श्रीभगवानुवाच
प्रह्लाद सर्वमेतत्ते मत्प्रसादाद्भाविष्यति ।
अन्यच्च ते वरं दघ्नि व्रीयतामसुरात्मज ॥ 1.20.25॥
प्रहलाद उवाच
कृतकृत्योस्मि भगवन्वरे णानेन यत्त्वयि ।
भवित्री त्वत्प्रसादेन भक्तिरव्यभिचारिणी ॥ 1.20.26॥
धर्मार्थकामैः किं तस्य मुक्तिस्तस्य करे स्तिता ।
समस्तजगतां मूले यस्य भक्तिः स्थिरा त्वयि ॥ 1.20.27॥
श्रीभगवानुवाच
यथा ते निश्चलं चेतो मयि भक्तिसमन्वितम् ।
तथा त्वं मत्प्रसादेन निर्वाणम्परमाप्स्यसि ॥ 1.20.28 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्त्वान्तर्दधे विष्णुस्तस्य मैत्रेय पश्यतः ।
स चापि पुनरागम्य ववन्दे चरणौ पितुः ॥ 1.20.29॥
तं पिता मूर्ध्न्युपाघ्राय परिष्वज्य च पीडितम् ।
जीवसीत्याह वत्सेति बाष्पार्द्रनयनोद्विज ॥ 1.20.30 ॥
प्रीतिमांश्चाभवत्तस्मिन्ननुतापी महासुरः ।
गुरुपित्रोश्चकारैवं शुश्रूषां सोऽपि धर्मतम् ॥ 1.20.31 ॥
पितर्युपरतिं नीते नरसिंह स्वरूपिणा ।
विष्णुना सोऽपि दैत्यानां मैत्रेयाभूत्पतिस्ततः ॥ 1.20.32 ॥
ततो राज्यद्युतिं प्राप्य कर्मशुद्धिकरीं द्वीज ।
पुत्रपौत्रांश्च सुबहूनवाप्यैश्वर्यमेव च ॥ 1.20.33 ॥
क्षीणाधिकारः स यदा पुण्यपापविविर्जितः ।
तदा स भगवद्ध्यानात्परं नीर्वाणमाप्पवान् ॥ 1.20.34॥
एवं प्रभावो दैत्योऽसौ मैत्रेयासीन्महामतिः ।
प्रह्लादो भगवद्भक्तो यं त्वं मामनुपृच्छसि ॥ 1.20.35॥
यस्त्वेतच्चारीतं तस्य प्रह्लादस्य महात्मनः ।
शृणोति तस्य पापानि सद्यो गच्छन्ति संक्षयम् ॥ 1.20.36॥
अहोरात्रकृतं पापं प्रह्लादचरितं नरः ।
शृण्वन् पठंश्च मैत्रेय व्यपोहति न संशयः ॥ 1.20.37॥
पौर्ममास्याममावास्यामष्टम्यामथ वा पठन् ।
द्वादश्यां तदाप्रन्तोति गोप्रदानफलं द्विज ॥ 1.20.38 ॥
प्रह्लादं सकलापत्सु यथा रक्षितवान्हरिः ।
तथा रक्षति यस्तस्य शृणोति चरितं सदा ॥ 1.20.39॥
इति श्रीविष्णुपुराणे प्रथमेंशोध्यायः (20)
प्रह्लादपुत्र आयुष्माञ्छिबिर्बाष्कल एव च ।
विरोचनस्तु प्राह्लदिर्बलिर्जज्ञे विरोचनात् ॥ 1.21.1 ॥
बलेः पुत्रशतं त्वसीद्बाणज्येष्ठं महामुने ।
हिरण्याक्षसुताश्चासन्सर्व एव महा बला ॥ 1.21.2॥
झर्झरः शकुनिश्चैव भूतसन्तापनस्तथा ।
महानाभो महाबाहुः कालनाभस्तथापरः ॥ 1.21.3 ॥
अभवन्दनुपूत्राश्च द्विमूर्ध शंबरस्तथा ।
अयोमुखः शङ्कुशिराः कपिलः शङ्करस्तथा ॥ 1.21.4 ॥
एकचक्रो महाबाहुस्तारकश्च महाबलः ।
स्वर्भानुर्वृषपर्वा च पुलोम च महाबलः ॥ 1.21.5॥
एते दनोः सुताः ख्याता विप्रचित्तिश्च विर्यवान् ॥ 1.21.6॥
स्वर्भानोस्तु प्रभा कन्या शर्मिष्ठा वार्षपर्वणी ।
उपदानी हयशिरः प्रख्याता वरकन्यकाः ॥ 1.21.7॥
वैश्वानरसुते चोभे पुलोमा कालका तथा ।
उभे सुते महाभागे मारीचेस्तु परिग्रहः ॥ 1.21.8॥
ताभ्या पुत्रसहस्राणि षष्टिर्दानवसत्तमाः ।
पौलोमाः कालके याश्च मारीचतनयाः स्मृताः ॥ 1.21.8 ॥
ततोऽपरे महावीर्या दारुणा स्त्वतिनिर्घृणा ।
सिंहिकायामथोत्पन्ना विप्रचित्ते सुतास्तथा ॥ 1.21.10 ॥
त्र्यंशः शल्यश्च बलवान्नभश्चैव महाबलः ।
वातापी नमुचिश्चैव इल्वलः खसृमस्तथा ॥ 1.21.11 ॥
आन्धको नरकश्चैव कालनाभस्तथैव च ।
स्वर्भानुश्च महावीर्यो वक्त्रयोधी महासुरः ॥ 1.21.12 ॥
एते वै दानवाः श्रेष्ठा दनुवंशविवर्धनाः ।
एतेषां पुत्रपौत्रश्च शतशोऽथ सहस्रशः ॥ 1.21.13 ॥
प्रह्लादस्य तु दैत्यस्य निवात कवचाः कुले ।
समुत्पन्नाः सुमहता तपसा भावितात्मनः ॥ 1.21.14॥
षट्सुताः सुमहासत्त्वास्ताम्रायाः परिकीर्तिताः ।
शुकी श्येनी च भासी च सुग्रीवी शुचिगृद्ध्रका ॥ 1.21.15॥
शुकी शुकानजनयदुलूकप्रत्युलूकिकान् ।
श्येनी श्येनांस्तथा भासी भासान्गृर्ध्यांश्च गृद्ध्र्यपि ॥ 1.21.16॥
शुच्यौ दकान्पक्षिगणान्सुग्रीवी तु व्यजायत ।
अश्वानुष्ट्रान्गर्दभां श्च ताम्रावंशः प्रकीर्तितः ॥ 1.21.17॥
विनतायास्तु द्वौ पुत्रौ विरतौ गरुडारुणौ ।
सुपर्णः पततां श्रेष्ठो दारुणः पन्नगाशनः ॥ 1.21.18 ॥
सुरसायां सहस्रं तु सर्पाणाममितौजसाम् ।
अनेकशिरसां ब्रह्मन् खेचरामां महात्मनाम् ॥ 1.21.19॥
कान्द्रवेयास्तु बलिनः सहस्रममितौजसः ।
सुपर्णवशागा ब्रह्मन् जज्ञिरे नैकमस्तकाः ॥ 1.21.20 ॥
तेषां प्रधानभूतास्तु शेषवासुकितक्षकाः ।
शङ्खश्वेतो महापद्मः कम्बलाश्वतरौ तथा ॥ 1.21.21 ॥
एलापुत्रस्तथा नागः कर्कोटकधनञ्जयौ ।
एते चान्ये च बहवो दन्दशुका विषोल्बणा ॥ 1.21.22 ॥
गणं क्रोधवशं विद्धि तस्याः सर्वे च दंष्ट्रिणः ।
स्थलजाः पक्षिणोब्जाश्च दारुणाः पिशिताशनाः ॥ 1.21.23 ॥
क्रोधात्तु पिशाचांश्च जनयामास महाबलान् ।
गास्तु वै जनयामास सुराभीर्महिषीस्तथा ।
इरावृक्षलतावल्लीस्तृमजतीश्च सर्वशः ॥ 1.21.24॥
स्वसा तु यक्षरक्षांसि मुनिरप्सरसस्तथा ।
आरीष्टा तु महासत्त्वान् गन्धर्वान्समजीजनत् ॥ 1.21.25॥
एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः ।
तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥ 1.21.26॥
एष मन्वन्तरे सर्गो ब्रह्मन्स्वारोचिषेस्मृतः ॥ 1.21.27॥
वैवस्वते च महति वारुणे वितते कृतौ ।
जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते ॥ 1.21.28 ॥
पूर्वं यत्र तु सप्तर्षिनुत्पन्नान्सप्तमानसान् ।
पुत्रत्वे कल्पयामास स्वयमेव पितामहः ।
गन्धर्वभोगिदेवानां दानवानां च सत्तम ॥ 1.21.29॥
दितिर्विनष्टपुत्रा वै तोषयामास काश्यपम् ।
तया चाराधितः सम्यक्काश्यपस्तपतां परः ॥ 1.21.30 ॥
वरेण च्छन्दयामास सा च वव्रे ततो वरम् ।
पुत्रमिन्द्रवधार्थाय समर्थम मितौजसम् ॥ 1.21.31 ॥
स च तस्मै वरं प्रादाद्भार्यायै मुनिसत्तमः ।
दत्त्वा च वरमत्युग्रं कश्यपस्तामुवाच ह ॥ 1.21.32 ॥
शक्रं पुत्रो निहन्ता ते यदि गर्भं शरच्छतम् ।
समाहितातिप्रयता शौचिनी धारयिष्यसि ॥ 1.21.33 ॥
इत्येवसुक्त्वा तां देवीं संगतः कश्यपो मुनिः ।
दधार सा च तं गर्भं सम्यक्छोचसमन्विता ॥ 1.21.34॥
गर्भमात्मवधार्थाय ज्ञात्वा तं मघवानपि ।
शुश्रूषुस्तामथागच्छद्विनयादमराधिपः ॥ 1.21.35॥
तस्या श्चैवान्तरप्रेप्सुरतिष्ठत्पाकशासनः ।
ऊने वर्षशते चास्या ददर्शान्तरमात्मना ॥ 1.21.36॥
अकृत्वा पादयोः शौचं दितिः शयनमाविशत् ।
निद्रां चाहारयामास तस्याः कुक्षिं प्रविश्य सः ॥ 1.21.37॥
वज्रपाणिर्महागर्भं चिच्छेदाथ स सप्तधा ।
सम्पीड्यमानो पज्रेण स रुरोदादिदारुणम् ॥ 1.21.38 ॥
मा रोदीरिति तं शक्रः पुनःपुनरभाषत ।
सोऽभवत्सप्तधा गर्भस्तमिद्रः कुपितः पुनः ॥ 1.21.39॥
एकैकं सप्तधा चक्रे वज्रेणारिविदारिणा ।
मरुतो नाम देवास्ते बभूवुरतिवेगिनः ॥ 1.21.40 ॥
यदुक्तं वै भगवता तेनैव मरुतोऽभवन् ।
देवा एकोनपछ्चाशत्सहाया वज्रपाणिनः ॥ 1.21.41 ॥
इति श्रिविष्णुपुरामे प्रथमैंश एकविंशोध्यायः (21)
श्रीपराशर उवाच [Sage Parasara said]
यदाभिषिक्तः स पृथुः पूर्वं राज्ये महर्षिभिः ।
ततः क्रमेण राज्यानि ददौ लोकपितामहः ॥ 1.22.1 ॥
नक्षत्रग्रहविप्राणां वीरुधां चाप्यशेषतः ।
सोमं राज्ये दधद्ब्रह्म यज्ञानां तपसामपि ॥ 1.22.2॥
राज्ञां वैश्रवणं राज्ये जलानां वरुणं तथा ।
आदित्यानां पतिं विष्णुं वसूनामथ पावकम् ॥ 1.22.3 ॥
प्रजापतीनां दक्षं तु वासवं मरुतामपि ।
दैत्यानां दानवानां च प्रह्लादमधिपं ददौ ॥ 1.22.4 ॥
पितॄणां धर्मराजानं यमं राज्येऽभ्यषेचयत् ।
ऐरावतं गर्जेद्राणामशोषाणां पतिं ददौ ॥ 1.22.5॥
पतत्रिणां तु गुरुडं देवानामपि वासवम् ।
उच्चैःश्रवसमश्वानां वृषभं तु गवामपि ॥ 1.22.6॥
मृगाणां चैव सर्वेषां राज्ये सिंहं ददौ प्रभुः ।
शेषं तु दन्दशूकानामकरोत्पतिमव्ययः ॥ 1.22.7॥
हिमालयं स्थावरणां मुनीनां कपिलं मुनिम् ।
नखिनां देष्ट्रिणां चैव मृगाणां व्याघ्रमीश्वरम् ॥ 1.22.8॥
वनस्पतीनां राजानेः प्लक्षमैवाब्यषेचयत् ।
एवमेवान्यजातीनां प्राधान्येनाकरोत्प्रभून् ॥ 1.22.8 ॥
एवं विभज्य राज्यानि दिशां पालाननन्तरम् ।
प्रजापतिपतिर्ब्रह्मा स्थापयामास सर्वतः ॥ 1.22.10 ॥
पूर्वस्यां दिशि राजानं वैराजस्य प्रजापतेः ।
दिशापालं सुधन्वानं सुतं वै सोऽभ्यषेचयत् ॥ 1.22.11 ॥
दक्षिणस्यां दिशि तथा कर्दमस्य प्रजापतेः ।
पुत्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत् ॥ 1.22.12 ॥
पश्चिमस्यां दिशि तथा रजसः पुत्रमच्युतम् ।
केतुमन्तं महात्मानं राजानं सोऽभ्यषैचयत् ॥ 1.22.13 ॥
तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः ।
उदीच्यां दिशि दुर्धर्षं राजानमभ्यषेचयत् ॥ 1.22.14॥
तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ।
यथाप्रदेशमद्यापि धर्मतः परिपाल्यते ॥ 1.22.15॥
एते सर्वे प्रवृत्तस्य स्थितौ विष्णोर्महात्मनः ।
विभूतिभूता राजानो ये चान्ये मुनिसत्तम ॥ 1.22.16॥
ये भविष्यन्ति ये भूताः सर्वे भूतेश्वरा द्विज ।
ते सर्वे सर्वभूतस्य विष्णोरंशा द्विजोत्तम ॥ 1.22.17॥
ये तु देवाधिपतयो ये च दैत्याधिपास्तथा ।
दानवानां च ये नाथा ये नाथाः पिशिताशिनाम् ॥ 1.22.18 ॥
पशुनां ये च पतयः पतयो ये च पक्षिणाम् ।
मनुष्याणां च सर्पाणां नागानामधिपाश्च ये ॥ 1.22.19॥
वृक्षाणां पर्वतानां च ग्रहाणां चापि येऽधिपाः ।
अतीता वर्तमानाश्च ये भविष्यन्ति चापरे ।
ते सर्वे सर्वभूतस्य विष्णोरंशसमुद्भावाः ॥ 1.22.20 ॥
न हि पालनसामर्थ्यमृते सर्वेश्वरं हरिम् ।
स्थितं स्थितौ महाप्राज्ञ भवत्यन्यस्य कस्यचित् ॥ 1.22.21 ॥
सृजत्येष जगत्सृष्टौ स्थितौ पाति सनातनः ।
हन्ति चैवान्तकत्वेन रजःसत्त्वादिसंश्रयः ॥ 1.22.22 ॥
चतुर्विभागः संसृष्टौ चतुर्धा संस्थितः स्थितौ ।
प्रलयं च करोत्यन्ते चतुर्भेदो जनार्दनः ॥ 1.22.23 ॥
एकेनांशेन ब्रह्मसौ भवत्यव्यक्तमूर्तिमान् ।
मरीचिमिश्राः पतयः प्रजानाञ्चान्यभागशः ॥ 1.22.24॥
कालस्तृतीयस्तस्यांशः सर्वभूतानि चापरः ।
इत्थं चतुर्धा संसृष्टौ वर्ततेसौ रजोगुणः ॥ 1.22.25॥
एकांशेनास्थितो विष्णुः करोति प्रतिपालनम् ।
मन्वादिरूपश्चान्येन कालरूपोऽपरोण च ॥ 1.22.26॥
सर्वभूतेषु चान्येन संश्थितः कुरुते स्थितिम् ।
सत्त्वं गुणं समाश्रित्य जगतः पुरुषोत्तमः ॥ 1.22.27॥
आश्रित्य तमसो वृत्तिमन्तकाले तथा पुनः ।
रुद्रस्वरूपो भगवानेकांशेन भवत्यजः ॥ 1.22.28 ॥
अग्न्यन्तकादिरूपेण भागेनान्येन वर्तते ।
कालस्वरूपो भागो यःसर्वभूतानि चापरः ॥ 1.22.29॥
विनाशं कुर्वतस्तस्य चतुर्धैवं महात्मनः ।
विभागकल्पना ब्रह्मन् कथ्यते सार्वकालिकी ॥ 1.22.30 ॥
ब्रह्म दक्षादयः कालस्तथै वाखिलजन्तवः ।
विभूतयो हरेरेता जगतः सृष्टिहेतवः ॥ 1.22.31 ॥
विष्णुर्मन्वादयः कालः सर्वभूतानि च द्विज ।
स्थितेर्निमित्तभूतस्य विष्णोरेता विभूतयः ॥ 1.22.32 ॥
रुद्रः कालान्तकाद्याश्च समस्ताश्चैव जन्तवः ।
चतुर्धा प्रलायायैता जनार्दनविभूतयः ॥ 1.22.33 ॥
जगदादौ तथा मध्ये सृष्टिराप्रलया द्विज ।
धात्रा मरीचिमिश्रैश्च क्रियते जन्तुभिस्तथा ॥ 1.22.34॥
ब्रह्म सृजत्यादिकाले मरीचिप्रमुखास्ततः ।
उत्पादयन्त्यपत्यानि जन्तवश्च प्रतिक्षणम् ॥ 1.22.35॥
कालेन न विना ब्रह्म सृष्टिनिष्पादको द्विज ।
न प्रजापतयः सर्वे न चैवाखिलजन्तवः ॥ 1.22.36॥
एवमेव विभागोयं स्तितावप्युपदिश्यति ।
चतुर्दा तस्य देवस्य मैत्रेय प्रलये तथा ॥ 1.22.37॥
यत्किञ्चित्सृज्यते येन सत्त्वजातेन वै द्विज ।
तस्य सृज्यस्य सम्भूतो तत्सर्वं वै हरेस्तनुः ॥ 1.22.38 ॥
हन्ति यावच्च यत्किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
जनार्दनस्य तद्रौद्रं मैत्रेयान्तकरं वतुः ॥ 1.22.39॥
एवमेष जगत्स्त्रष्टा जगत्पाता तथा जगत् ।
जगद्भक्षयिता देवः समस्तस्य जनार्दनः ॥ 1.22.40 ॥
सृष्ठिस्थित्यन्तकालेषु त्रिधैवं संप्रवर्तते ।
गुणप्रवृत्या परमं पदं तस्यागुणं महत् ॥ 1.22.41 ॥
तच्च ज्ञानमयं व्यापि स्वासंवेद्यमनौपमम् ।
चतुष्प्रकारं तदपि स्वरूपं परमात्मनः ॥ 1.22.42 ॥
श्रीमैत्रेय उवाच
चतुःप्रकारतां तस्य ब्रह्मभूतस्य हे मुने ।
ममाचक्ष्व यथान्यायं यदुक्तं परमं पदम् ॥ 1.22.43 ॥
श्रीपरासर उवाच
मैत्रेय कारणं प्रोक्तं साधनं सर्ववस्तुषु ।
साध्यं च वस्त्वभिमतं यत्साधयितुमात्मनः ॥ 1.22.44॥
योगिनो मुक्तिकामस्य प्राणायामादिसाधनम् ।
साध्यं च परमं ब्रह्म पुनर्नवर्ततेयतः ॥ 1.22.45॥
साधनालम्बनं ज्ञानं मुक्तये योगिनां हि यत् ।
स भेदः प्रथमस्तस्य ब्रह्मभूतस्य वै मुने ॥ 1.22.46॥
युञ्जतः क्लेशमुक्त्यर्थं साध्यं यद्ब्रह्म योगिनः ।
तदालम्बनविज्ञानं द्वितीयोऽंशो महामुने ॥ 1.22.47॥
उभयोस्त्वविभागेन साध्यसाधनयोर्हि यत् ।
विज्ञानमद्वैतमयं तद्भागोन्यो मयोदितः ॥ 1.22.48 ॥
ज्ञानत्रयस्य वै तस्य विशेषो यो महामुने ।
तन्निराकरणद्वारा दर्शितात्मस्वरूपवत् ॥ 1.22.49॥
निर्व्यापारमनाख्येयं व्याप्तिमात्रमनूपमम् ।
आत्मसम्बोधविषयं सत्तामात्रमलक्षणम् ॥ 1.22.50 ॥
प्रशान्तमभयं शुद्धं दुर्विभाव्यमसंश्रयम् ।
विष्णोर्ज्ञानमयस्योक्तं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥ 1.22.51 ॥
तत्र ज्ञाननिरोधेन योगिनो यान्ति ये लयम् ।
संसारकर्षणोप्तौ ते यान्ति निर्बीजतां द्विजा ॥ 1.22.52 ॥
एवंप्रकारममलं नित्यं व्यापकमक्षयम् ।
समस्तहेयरहितं विष्ण्वाख्यं परमं पदम् ॥ 1.22.53 ॥
तद्ब्रह्म परमं योगी यतो नावर्तते पुनः ।
श्रयत्यपुण्योपरमे क्षीणक्लेशेऽतिनिर्मले ॥ 1.22.54॥
द्वे रूपे ब्रह्मणस्तस्य मूर्त चामूर्तमेव च ।
क्षराक्षरास्वरूपे ते सर्वभूतेष्ववस्थिते ॥ 1.22.55॥
अक्षरं तत्परं ब्रह्म क्षरं सर्वमिदं जगत् ।
एकदेशस्थितस्याग्नेर्ज्योत्स्त्रा विस्तारिणि यथा ।
परस्य ब्रह्मणः शक्तिस्तथोदमखिलं जगत् ॥ 1.22.56॥
तत्राप्यासन्नदूरत्वाद्बहुत्वस्वल्पतामयः ।
ज्योत्स्नाभेदोस्ति तच्छक्तेस्तद्वन्मैत्रेय विद्यते ॥ 1.22.57॥
ब3 मविष्णुशिवा ब्रह्मन्प्रधाना ब्रह्मशक्तयः ।
ततश्च देवा मैत्रेय न्यूना दक्षादयस्ततः ॥ 1.22.58 ॥
ततो मनुष्याः पशवौ मृगपक्षिसरीसृपाः ।
न्यूनान्यूनतराश्चैव वृक्षगुल्मादयस्तथा ॥ 1.22.59॥
तदेतदक्षरं नित्यं जगन्मुनिवराखितम् ।
आविर्भावतिरोभावजन्मनाशविकल्पवत् ॥ 1.22.60 ॥
सर्वशक्ति मयो विष्णुः स्वरूपं ब्रह्मणः परम् ।
मूर्तं यद्योगिभिः पुर्वं योगारम्भेषु चिन्त्यते ॥ 1.22.61 ॥
सालम्बनो महायोगः सबीजो यत्रसंस्थितः ।
मनस्यव्याहते सम्यग्युञ्जतां जायते मुने ॥ 1.22.62 ॥
स परः परशक्तीनां ब्रह्मणः समनन्तरम् ।
मूर्तं ब्रह्म महाभाग सर्वब्रह्ममयो हरिः ॥ 1.22.63 ॥
यत्र सर्वमिदं प्रोतमोतं चैवाखितं जगत् ।
ततो जगज्जगत्यस्मिन्स जगच्चखिलं मुने ॥ 1.22.64॥
क्षराक्षरमयो विष्णुर्बिभर्त्यखिलमीश्वरः ।
पुरुषाव्याकृतमयं भूषणास्त्रस्वरूपवत् ॥ 1.22.65॥
श्रीमैत्रेय उवाच
भूषणास्त्रस्वरूपस्थं यच्चैतदखिलं जगत् ।
बिभर्ति भगवन्विष्णु स्तन्ममाख्यातुमर्हसि ॥ 1.22.66॥
श्रीपराशर उवाच [Sage Parasara said]
नमस्कृत्वाप्रमेयाय विष्णवे प्रभविष्णवे ।
कथयामि यथाख्यातं वसिष्ठेन ममा भवत् ॥ 1.22.67॥
आत्मानमस्य जगतो निर्लेपमगुणामलम् ।
बिभर्ति कौस्तुभमणिस्वरूपं भगवान्हरिः ॥ 1.22.68 ॥
श्रीवत्ससंस्थानधर मनन्ते न समाश्रितम् ।
प्रधानं बुद्धिरप्यास्ते गदरूपेण माधवे ॥ 1.22.69॥
भूतादिमिन्द्रियादिं च द्विधाहङ्कारमीश्वरः ।
बिभर्ति शंखरूपेण शार्ङ्गरूपेण च स्थितम् ॥ 1.22.70 ॥
चलत्स्वरूपमत्यन्तं जवेनान्तारितानिलम् ।
चक्रस्वरूपं च मनो धत्ते विष्णुकरे स्थितम् ॥ 1.22.71 ॥
पञ्चरूपा तु या माला वैजयन्ती गदाभृतः ।
सा भूतहेतुसंघाता भूतमाला च वै द्विज ॥ 1.22.72 ॥
यानीन्द्रियाण्यशेषाणि बुद्धिकर्मात्मकानि वै ।
शररूपाण्यशेषाणि तानि धत्ते जनार्दनः ॥ 1.22.73 ॥
बिभर्ति यच्चासिरत्नमच्युतोत्यन्तनिर्मलम् ।
विद्यामय तु तज्ज्ञानमविद्याकोशसंस्थितम् ॥ 1.22.74॥
इत्थं पुमान्प्रधानं च बुद्ध्यहङ्कारमेव च ।
भूतानि च हृषीकेशे मनः सर्वेन्द्रियाणि च ।
विद्याविद्ये च मैत्रेय सर्वमेतत्समाश्रितम् ॥ 1.22.75॥
अस्त्रभूषणसंस्थानस्वरूपं रूपवर्जितः ।
बिभार्ति मायारूपोसौ श्रेयसे प्राणिनां हरिः ॥ 1.22.76॥
सविकारं प्रधानं च पुमांश्चैवाखिलं जगत् ।
बिभर्ति पुण्डहीकाक्षस्तदेवं परमेश्वरः ॥ 1.22.77॥
या विद्या या तथाविद्या यत्सद्यच्चासदव्ययम् ।
तत्सर्वं सर्वभूतेशे मैत्रेय मधुसूदने ॥ 1.22.78 ॥
कलाकाष्ठानिमेषादिदिनर्त्वयनहायनैः ।
कालस्वरूपो भगवानपापो हरिरव्ययः ॥ 1.22.79॥
भूर्लोकोथ भुवर्लोकः स्वर्लोको मुनिसत्तम ।
महर्जनस्तपः सत्यं सप्त लोका इमे विभुः ॥ 1.22.80 ॥
लोकात्ममूर्तिः सर्वेषां पूर्वेषामपि पूर्वजः ।
आधारः सर्वविद्यानां स्वयमेव हरिः स्थितः ॥ 1.22.81 ॥
देवमानुषपश्वादिश्वरूपैर्बहुभिः स्थितः ।
ततः सर्वेश्वरोऽनन्तो भूतमूर्तिरमूर्तिमान् ॥ 1.22.82 ॥
ऋचो यजूंषि सामानि तथैवाथर्वाणानि वै ।
इतिहासोपवेदाश्च वेदान्तेषु तथोक्तयः ॥ 1.22.83 ॥
वेदाङ्गानि समस्तानि मन्वादिगदितानि च ।
शास्त्राण्यशेषाण्याख्यानान्यनुवाकाश्च ये क्वचित् ॥ 1.22.84॥
काव्यालापाश्च ये केचिद्रीतकान्यखिलानि च ।
शब्दमूर्तिधरस्यैतद्वपुर्विष्णोर्महात्मनः ॥ 1.22.85॥
यानि मूर्तान्यमूर्तानि यान्यत्रान्यत्र वा क्वचित् ।
सन्ति वै वस्तुजातानि तानि सर्वाणि तद्वपुः ॥ 1.22.86॥
अहं हरिः सर्वमिदं जनार्दनो नान्यत्ततः कारणकार्यजातम् ।
ईदृङ्मनो यस्य न तस्यट भूयो भवोद्भावा द्वन्द्वगदा भवन्ति ॥ 1.22.87॥
इत्यैष तेंशः प्रथमः पुराणस्यास्य वै द्विज ।
यथावत्कथितो यस्मिन्धृते पापैः प्रमुच्यते ॥ 1.22.88 ॥
कार्त्तिक्यां पुष्करस्नाने द्वादशाब्देन यत्फलम् ।
तदस्य श्रवणात्सव मैत्रेयाप्नोति मानवः ॥ 1.22.89॥
देवर्षिपितृगन्धर्वयक्षादिनां च सम्भवम् ।
भवन्ति शृण्वतः पुंसो देवाद्य वरदा मुने ॥ 1.22.90 ॥
इति श्रिविष्णुमहापुराणे प्रथमेऽंशे द्वाविंशोऽध्यायः
मैत्रेय उवाच
भगवन्सम्यगाख्यातं ममैतदखिलं त्वाया ।
जगतः सर्गसम्बन्धि यत्पृष्टोसि गुरो मया ॥ 2.1.1 ॥
योयमंशो जगत्सृष्टिसम्बन्धो गदितस्त्वया ।
तत्राहं श्रोतुमिच्छामि भूयोपि मुनिसत्तम ॥ 2.1.2॥
प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य यौ ।
तयोरुत्तानपादस्य ध्रुवः पुत्रस्त्वयोदितः ॥ 2.1.3 ॥
प्रियव्रतस्य नैवोक्ता भवता द्विज सन्ततिः ।
तामहं श्रोतुमिच्छामि प्रसन्नो वक्तुमर्हसि ॥ 2.1.4 ॥
श्रीपराशर उवाच [Sage Parasara said]
कर्दमस्यात्मजां कन्यामुपयेमे प्रयिव्रतः ।
सम्राट्कुक्षि च तत्कन्ये दशपुत्रस्तथापरे ॥ 2.1.5॥
महाप्रज्ञा महावीर्या विनीता दयिताः पितुः ।
प्रियव्रतसुताः ख्यातास्तेषां नामानि मे शृणु ॥ 2.1.6॥
आग्नीध्रश्चाग्निबाहुश्च वपुष्मान्द्युतिमांस्तथा ।
मेधा मेधातिथिर्भव्यः सवनः पुत्र एव च ॥ 2.1.7॥
ज्योतिष्मान्दशमस्तेषां सत्यनामा सुतोऽभवत् ।
प्रियव्रतस्य पुत्रास्ते प्रख्याता बलवीर्यतः ॥ 2.1.8॥
मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः ।
जातिस्मारा महाभागान राज्याय मनो दधुः ॥ 2.1.8 ॥
निर्मलाः सर्वकालन्तु समस्तार्थेषु वै मुने ।
चक्रुः क्रियां यथान्यायमफलाकाक्षिणो हि ते ॥ 2.1.10 ॥
प्रियव्रतो ददौ तेषां सप्तानां मुनिसत्तम ।
सप्तद्वीपानि मैत्रेय विभज्य सुमहात्मनाम् ॥ 2.1.11 ॥
जम्बूद्वीपे महाभाग सोग्नीध्राय ददौ पिता ।
मेधातिथेस्तथा प्रादात्प्लक्षद्वीपं तथापरम् ॥ 2.1.12 ॥
शाल्मले च वपुष्मन्तं नरेन्द्रमभिषिक्तवान् ।
ज्योतिष्मन्तं कुशद्वीपे राजानं कृतावान्प्रभुः ॥ 2.1.13 ॥
द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत् ।
शाकद्वीपेश्वरं चापि भव्यं चक्रे प्रियव्रतः ॥ 2.1.14॥
पुष्कराधिपतिं चक्रे सवनं चापि स प्रभुः ।
जम्बूद्वीपेश्वरो यस्तु आग्नीध्रो मुनिसत्तम ॥ 2.1.15॥
तस्य पुत्रा बभूवुस्ते प्रजापतिसमा नव ।
नाभिः किंपुरुषश्चैव हरिवर्ष इलावृतः ॥ 2.1.16॥
रम्यो हिरण्वान्षष्ठश्च कुरुभद्राश्व एव च ।
केतुमालस्तथैवान्यः साधुचेष्टोऽभवन्तृपः ॥ 2.1.17॥
जन्बूद्वीपवि भागांश्च तेषां विप्र निशामय ।
पित्रा दत्तं हिमाह्वं तु वर्षं नाभेस्तु दक्षिणम् ॥ 2.1.18 ॥
हेमकूटं तथा वर्षं ददौ किंपुरुषाय सः ।
तृतीयं नैषधं वर्षं हरिवर्षाय दत्तवान् ॥ 2.1.19॥
इलावृताय प्रददौ मेरुर्यत्र तु मध्यमः ।
नीलाचलाश्रितं वर्ष रम्याय प्रददौ पिता ॥ 2.1.20 ॥
श्वेतं यदुत्तरं तस्मात्पित्रा दत्तं हिरण्वते ॥ 2.1.21 ॥
यदुत्तरं शृङ्गवतो वर्ष तत्कुरवे ददौ ।
मेरोः पुर्वेण यद्वर्ष भद्राश्वाय प्रदत्तवान् ॥ 2.1.22 ॥
गन्धमाधनवर्ष तु केतुमालाय दत्तवान् ।
इत्येतानि ददौ तेभ्यः पुत्रेभ्यः स नरेश्वरः ॥ 2.1.23 ॥
वर्षेष्वेतेषु तान्पुत्रानभिषिच्य स भूमिपः ।
सालाग्रामं महापुण्यं मैत्रेय तपसे ययौ ॥ 2.1.24॥
यनि किंपुरुषादीति वर्षाव्यष्टौ महामुने ।
तेषां स्वाभाविकि सिद्धिः सुखप्राया ह्ययत्नतः ॥ 2.1.25॥
विपर्ययो न तेष्वस्ति जरामृत्युभयं न च ।
धर्मधमौ न तेष्वास्तां नोत्तमाधममध्यमाः ॥ 2.1.26॥
न तेष्वस्ति युगावस्था क्षेत्रेष्वष्टसु सर्वदा ।
हिमाह्वयं तु वै वर्षं नाबेरासीन्महात्मनः ।
तस्यर्षभोऽभवत्पुत्रो मेरुदेव्यां महाद्युतिः ॥ 2.1.27॥
ऋषभाद्भारतो जज्ञे ज्येष्ठः पुत्रशतस्य सः ।
कृत्वा राज्यं स्वधर्मेण तथैष्ट्वा विविधान्मखान् ॥ 2.1.28 ॥
अभिषिच्य सुतं वीरं भरतं पृथिवीपतिः ।
तपसे स महाभागः पुलहस्याश्रमं ययौ ॥ 2.1.29॥
वानप्रस्थविधानेन तत्रापि कृतनिश्चयः ।
तपस्तेपे यथान्यायमियाज स महीपतिः ॥ 2.1.30 ॥
तपसा कर्षितोत्यर्थं कृशो धमनिसन्ततः ।
नग्नो वीटां मुखे कृत्वा वीराध्वानं ततो गतः ॥ 2.1.31 ॥
ततश्च भारतं वर्षमेतल्लोकेषु गीयते ।
भरताय यतः पित्रा दत्तं प्रातिष्ठता वनम् ॥ 2.1.32 ॥
सुमतीर्भरतस्याभूत्पुत्रः परमधार्मिकः ।
कृत्वा सम्यग्ददौ तस्मै राज्यमिष्टमखं पिता ॥ 2.1.33 ॥
पुत्रसंक्रामित श्रीस्तु भरतः स महीपतिः ।
योगाभ्यासरतः प्राणान्सालग्रामेऽयजन्मुने ॥ 2.1.34॥
अजायत च विप्रोसौ योगीनां प्रवरे कुले ।
मैत्रेय तस्य चरितं कथयिष्यामि ते पुनः ॥ 2.1.35॥
मुमतेस्तेजसस्तस्मादिन्द्रद्युम्नो व्यजायत ।
परमेष्ठी ततस्तस्मात्प्रतिहारस्तदन्वयः ॥ 2.1.36॥
प्रतिहर्तेति विख्यात उत्पन्नस्तस्य चात्मजः ।
भवस्तस्मादथोद्गीथः प्रास्तविस्तत्सुतो विभुः ॥ 2.1.37॥
पृथुस्ततस्ततो नक्तो नक्तस्यापि गयः सुतः ।
नरो गयस्य नतयस्तत्पुत्रोभूद्विराट्ततः ॥ 2.1.38 ॥
तस्य पुत्रो महावीर्यो धीमांस्तस्मादजायत ।
महान्तस्तत्सुतश्चाभून्मनस्युस्तस्य चात्मजः ॥ 2.1.39॥
त्पष्टा त्वष्टुश्च विरजो रजस्तस्याप्यभूत्सुतः ।
शतजिद्रजसस्तस्य जज्ञे पुत्रशन्त मुने ॥ 2.1.40 ॥
विष्वग्ज्योतिप्रधानास्ते यैरिमा वर्धिताः प्रजाः ।
तैरिदं भारतं वर्षं नवभेदमलङ्कृतम् ॥ 2.1.41 ॥
तेषां वंशप्रसूतैश्च भुक्तेयं भारती पुरा ।
कृतत्रेतादिसर्गेण युगाख्यामेकसप्ततिम् ॥ 2.1.42 ॥
एष स्वायंभुवः सर्गौ येनेदं पूरितं जगत् ।
वाराहे तु मुने कल्पे पूर्वमन्वन्तराधिपः ॥ 2.1.43 ॥
इति श्रीविष्णुपुराणे द्वितीयेऽंशे प्रथमोऽध्यायः (1)
श्रीमैत्रेय उवाच
कथितो भवता ब्रह्मन्सर्गः स्वायम्भुवश्च मे ।
श्रोतुमिच्छाम्यहं त्वत्तः सकलं मण्डलं भुवः ॥ 2.2.1 ॥
यावन्तः सागर द्वीपास्तथा वर्षाणि पर्वताः ।
वनानि सतितः पुर्यो देवादीनां तथा मुने ॥ 2.2.2॥
यत्प्रमाणमिदं सर्वं यदाधारं यदात्मकम् ।
संस्थानमस्य च मुने यथाबद्वक्तुमर्हसि ॥ 2.2.3 ॥
श्रीपराशर उवाच [Sage Parasara said]
मैत्रेय श्रूयतामेतत्संक्षेपाद्गदतो मम ।
नास्य वर्षशतेनापि वक्तुं शक्यो हि विस्तरः ॥ 2.2.4 ॥
जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलिश्चापरो द्विज ।
कुशः क्रैञ्चस्तथा शाकः पुष्करश्चैव सप्तमः ॥ 2.2.5॥
एते द्वीपाः समुद्रैस्तु सप्तसप्तभिरावृताः ।
लवणेक्षुसुरासर्पिर्दधिगुग्धजलैः समम् ॥ 2.2.6॥
प्रविष्टः षोडशाधस्ताद्द्वात्रिंशन्मूर्ध्रि विस्तृत ।
मूले षोडशसाहस्रो विस्तारस्तस्य सर्वशः ॥ 2.2.8 ॥
भूपद्मस्यास्य शैलोसौ कर्णिकाकारसंस्थितः ॥ 2.2.10 ॥
हिमावान्हेमकूटश्च विषधश्चस्य दक्षिणे ।
नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः ॥ 2.2.11 ॥
लक्षप्रमाणो द्वौ मध्यौ दशहीनास्तथापरे ।
सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते ॥ 2.2.12 ॥
भारतं प्रथमं वर्षं ततः किपुरुषं स्मृतम् ।
हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विज ॥ 2.2.13 ॥
रम्यकं चोत्तरं वर्षं तस्यैवानु हिरण्मयम् ।
उत्तराः कुरवश्चैव यथा वै भारतं तथा ॥ 2.2.14॥
नवसाहस्रमैकैकमेतेषां द्विजसत्तम ।
इलावृतं च तन्मध्ये सौवर्णो मेरुरुच्छ्रितः ॥ 2.2.15॥
मेरोश्चतुर्दिशं तत्तु नवसाहस्रविस्तृतम् ।
इलावृतं महाभाग चत्वारश्चात्र पर्वताः ॥ 2.2.16॥
विष्कंभारचिता मेरोर्योजनायुतमुच्छ्रितः ।
नवैः सरोभिश्च समं दिक्ष्वेते केशवाचलाः ॥ 2.2.17॥
पुर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ।
विप्ललः पश्चिमे पार्श्वे मुपार्श्वश्चोत्तर स्मृतः ॥ 2.2.18 ॥
कदम्बस्तेषु जम्बूश्च पिप्पलो वट एव च ।
एकादशशतायामाः पादपा गिरिकेतवः ॥ 2.2.19॥
जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्महामुने ।
महागजप्रमामानि जम्ब्वास्तस्याः फलनि वै ।
पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ॥ 2.2.20 ॥
रसेन तेषां प्रख्याता तत्र जाम्बूनदीति वै ।
सरित्प्रवर्तते चापि पीयते तन्निवासिभिः ॥ 2.2.21 ॥
न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः ।
तत्पानात्स्वच्छमनासांजनानां तत्र जायते ॥ 2.2.22 ॥
तीरमृत्तद्रसं प्राप्य सुखवायुविशोषिता ।
जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ॥ 2.2.23 ॥
भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे ।
वर्षे द्वे तु मुनिश्रेष्ठ तयोर्मध्यमिलावृतः ॥ 2.2.24॥
वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनम् ।
वैभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम् ॥ 2.2.25॥
अरुणोदं महाभद्रमसितोदं समानसम् ।
सरांस्योतानि चत्वारि देवभोग्यानि सर्वदा ॥ 2.2.26॥
शीताम्भश्च कुमुन्दश्च कुररी माल्यवांस्तथा ।
वैकङ्कप्रसुखा मेरोः पूर्वतः केसराचलाः ॥ 2.2.27॥
त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा ।
निषदाद्या दक्षिणतस्तस्य केसरपर्वतः ॥ 2.2.28 ॥
शिखिवासाः सवैडूर्यः कपिलो गन्धमादनः ।
जारुधिप्रमुखास्तद्वत्पश्चिमे केसराचलाः ॥ 2.2.29॥
मेरोरनन्तराङ्गेषु जठरादिष्ववस्थिताः ।
शंशकूटोथ ऋषभो हंसो नागस्तथा परः ।
कालञ्जनाद्याश्च तथा उत्तरे केसराचलाः ॥ 2.2.30 ॥
चतुर्दशसहस्राणि योजनानां महापुरी ।
मेरोरुपरि मैत्रेय ब्रह्मणः प्रथिता दिवि ॥ 2.2.31 ॥
तस्याःसमन्ततश्चाष्टौ दिशासु विदिशासु च ।
इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः ॥ 2.2.32 ॥
विष्णुपादविनिष्क्रान्ता प्लावयित्वेन्दुमण्डलम् ।
समन्ताद्ब्रह्यणः पुर्यां गङ्ग पतति वै दिवः ॥ 2.2.33 ॥
सा तत्र पतिता दिक्षु चतुर्धा प्रतिपद्यते ।
सीता चालकनन्दा च चक्षुर्भद्रा च वै क्रमात् ॥ 2.2.34॥
पूर्वेण शैलाच्छीता तु शैलं यात्यन्तरीक्षगा ।
ततश्च पूर्ववर्षैण भद्राश्वैनैति सार्णवम् ॥ 2.2.35॥
तथैवालकनन्दापि दक्षिणेनैत्य भारतम् ।
प्रयाति सागरं भूत्वा सप्तभेदा महामुने ॥ 2.2.36॥
चक्षुश्चं पश्चिमगिरीनतीत्य सकलांस्ततः ।
पश्चिमं केतुमालाख्य वर्षं गत्वैति सागरम् ॥ 2.2.37॥
भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून् ।
अतीत्योत्तरमम्भोधिं समभ्येति महामुने ॥ 2.2.38 ॥
आनीलनिषधायामौ माल्यवद्गन्धमादनौ ।
तयोर्मध्यगतो मेरूः कर्णिकाकारसंस्थितः ॥ 2.2.39॥
भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा ।
पत्राणि लोकपद्मस्य मर्यादाशैलबाह्यतः ॥ 2.2.40 ॥
जठरो हेमकूटश्च मर्यादापर्वतावुभौ ।
तौ दक्षिमोत्तरायामावानीलनिषधायतौ ॥ 2.2.41 ॥
गन्धमादनकैलासौ पूर्ववच्चायतावुभौ ।
आशीति योजनायामावर्णवान्तव्यवस्थितौ ॥ 2.2.42 ॥
निषधः परियात्रश्च मर्यादापर्वतावुभौ ।
मेरोः पश्चिमदिग्भागे यथा पूर्वे तथा स्थितौ ॥ 2.2.43 ॥
त्रिशृङ्गो जारुधिश्चैव उत्तरौ वर्षपर्वतौ ।
पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ ॥ 2.2.44॥
इत्येते मुनिवर्योक्ता मर्यादापर्वतास्तव ।
जठराद्याः स्थिता मेरोस्तेषां द्वौद्वौ चतुर्दिशम् ॥ 2.2.45॥
मेरो श्चतुर्दिशं येतु प्रोक्ताः केसरपर्वताः ।
शीतान्ताद्या मुने तेषामतीव हि मनोरमाः ।
शैलानामन्तरे द्रोण्यः सिद्धचारणसेविताः ॥ 2.2.46॥
सुरम्याणि तथा तासु काननानि पुराणि च ।
लक्ष्मीविष्ण्वग्निसूर्यादिदेवानां मुनि सत्तम ।
तास्वायतनवर्याणि जुष्टानि वरकिन्नरैः ॥ 2.2.47॥
गन्धर्वयक्षरक्षांसि तथा दैतेयदानवाः ।
क्रीडन्ति तासु रम्यासु शैलद्रोणीष्वहर्निसम् ॥ 2.2.48 ॥
भौमा ह्येते स्मृताः स्वर्गा धर्मिणामालया मुने ।
नैतुषु पापकर्माणो यान्ति जन्मशतैरपि ॥ 2.2.49॥
भद्राश्वे भगवान्विष्णुरास्ते हयशिरा द्विज ।
वराजः केतुमाले तु भारते कूर्मरूपधृक् ॥ 2.2.50 ॥
मत्स्यरूपश्च गोविन्दः कुरुष्वास्ते जनार्दनः ।
विश्वरूपेण सर्वत्र सर्वः सर्वत्रगो हरिः ॥ 2.2.51 ॥
सर्वस्याधारभूतोसौ मैत्रेयास्तेखिलात्मकः ॥ 2.2.52 ॥
यानिं किंपुरुषादिनि वर्षाण्यष्टौ महामुने ।
न तेषु शौको नायासो नोद्वेगः क्षुद्भयादिकम् ॥ 2.2.53 ॥
स्वस्थाः प्रजा निरातङ्काःसर्वदुःखविवर्जिताः ।
दश द्वादशवर्षाणां सहस्राणि स्थिरायुषः ॥ 2.2.54॥
न तेषु वर्षते देवो भौमान्यम्भांसि तेषु वै ।
कृतत्रेतादिकं नैव तेषु स्थानेषु कल्पना ॥ 2.2.55॥
सर्वेष्वेतेषु वर्षेषु सप्तसप्तकुलाचलाः ।
नद्यश्च शतशस्तेभ्यः प्रसूता या द्विजोत्तम ॥ 2.2.56॥
इति श्रिविष्णुमहापुराणे द्वितीयेऽंशे द्वितीयोऽध्यायः (2)
श्रीपराशर उवाच [Sage Parasara said]
उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।
वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥ 2.3.1 ॥
नवयोजनसाहस्रो विस्तारोस्य महामुने ।
कर्मभूमिरियं स्वर्गमपवर्गं च गच्छताम् ॥ 2.3.2॥
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ।
विन्ध्यश्च पारीयात्रश्च सप्तात्र कुलपर्वताः ॥ 2.3.3 ॥
अतः संप्राप्यते स्वर्गो सुक्तिमस्मात्प्रयान्ति वै ।
तिर्यक्त्वं नरकं चापि यान्त्यतः पुरुषा मुने ॥ 2.3.4 ॥
इतः स्वर्गश्च मोक्षश्च मध्यं चान्तश्च गम्यते ।
न ख्लवन्यत्र मर्त्यानां कर्मभूमौ विधीयते ॥ 2.3.5॥
भारतस्यास्य वर्षस्य नवभादान्नशामय ।
इद्रद्वीपः कसेरुश्च ताम्रपर्णां गभस्तिमान् ॥ 2.3.6॥
नागद्वीपस्तथा साम्यो गन्धर्वस्त्वथ चारुणः ।
अयं तु नवमस्तषां द्वीपः सागारसंवृतः ॥ 2.3.7॥
योजनानां सहस्रं तु द्वीपोयं दक्षिणोत्तरात् ।
पूर्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः ॥ 2.3.8॥
ब्राह्मणाः क्षत्रिया वैश्या मध्ये शब्द्राश्च भागशः ।
इज्यायुधवणिज्याद्यैर्वर्तयन्तो व्यवस्थिताः ॥ 2.3.8 ॥
शतद्रूचन्द्रभागाद्या हिमयत्पादनिर्गताः ।
वेदस्मृतिमुखाद्याश्च पारीयात्रोद्भवा मुने ॥ 2.3.10 ॥
नर्मदा मुरसाद्याश्च नद्यो विन्ध्याद्रिनिर्गताः ।
तापीपयोष्णीनिर्विन्ध्या प्रसूखा ऋक्षसंभवाः ॥ 2.3.11 ॥
गोदावरी भीमरथी कृष्णवेण्यादिकास्तथा ।
सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ॥ 2.3.12 ॥
कृतमाला ताम्रपर्णिप्रसुखा मलयोद्भवाः ।
त्रिसामा चर्षिकुल्याद्या महेन्द्रप्रभवाः स्मृताः ॥ 2.3.13 ॥
ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः ।
आसां नद्य उपानद्यः सन्त्यन्याश्च सहस्रशः ॥ 2.3.14॥
तास्विमे कुरुपाञ्चाला मध्यदेशादयो जनाः ।
पूर्वदेशादिकाश्चैव कामरूपनिवासिनः ॥ 2.3.15॥
पुण्ड्राः कलिङ्गा मगधा दक्षिणाद्याश्च सर्वशः ।
तथापरान्ताः सौराष्ट्राः शूराभीरास्तथार्बुदाः ॥ 2.3.16॥
कारूषा मालबाश्चैव पारियात्र निवासिनः ।
सौवीराः सैन्धवा हूणाः साल्वाः कोसलवासिनाः ॥ 2.3.17॥
माद्रारामास्तथाम्बष्ठा पारसीकादयस्तथा ।
आसां पिबन्ति सलिलं वसन्ति सहिताः सदा ।
समीपतो महाभाग हृष्टपुष्टजनाकुलाः ॥ 2.3.18 ॥
चत्वारि भारते वर्षे युगान्यत्र महामुने ।
कृतं त्रेता द्वापरञ्च कलिश्चान्यत्र न क्वचित् ॥ 2.3.19॥
तपस्तप्यन्ति मुनयो जुह्वते चात्र यज्वनः ।
दानानि चात्र दीयन्ते परलोकार्थमादरात् ॥ 2.3.20 ॥
पुरुषैर्यज्ञपुरुषो जम्बूद्वीपे सदेज्यते ।
यज्ञैर्यज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा ॥ 2.3.21 ॥
अत्रापि भारतं श्रेष्ठं जन्बूद्वीपे महामुने ।
यतो हि कर्मभूरेषा ह्यतोन्या भोगभूमयः ॥ 2.3.22 ॥
अत्र जन्मसहस्राणां सहस्रैरपि सत्तम ।
कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसंचयात् ॥ 2.3.23 ॥
गायन्ति देवाः किल गीतकानि धन्यास्तु ते भारत भूमिभागे ।
स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात् ॥ 2.3.24॥
कर्माण्यसंकल्पिततत्फलानि संन्यस्य विष्णो परमात्म्भूते ।
अवाप्य तां कर्ममहीमनन्ते तस्मिल्लयं ये त्वमलाः प्रयान्ति ॥ 2.3.25॥
जानीम नैतत्क्व वयं विलीने स्वर्गप्रदे कर्मणि देहबन्धम् ।
प्राप्स्याम धन्याः खलु ते मनुष्या ये भारते नेन्द्रियविप्रहीनाः ॥ 2.3.26॥
नववर्षं तु मैत्रेय जम्बुद्वीपमिदं मया ।
लक्षयोजनविस्तारं संक्षेपात्कथितं तव ॥ 2.3.27॥
जम्बूद्वीपं समावृत्य लक्षयोजनविस्तरः ।
मैत्रेय वलयाकारः स्थितः क्षारोदधिर्बहिः ॥ 2.3.28 ॥
इति श्रिविष्णुमहापुराणे द्वितीयेऽंशे तृतीयोध्यायः (3)
श्रीपराशर उवाच [Sage Parasara said]
क्षारोदेन यथा द्वीपो जम्बूसंज्ञोऽभिवेष्टितः ।
संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः ॥ 2.4.1 ॥
जम्बूद्वीपस्य विस्तारः शतसाहस्रसंमितः ।
स एवं द्विगुणो ब्रह्मन् प्लक्षद्वीप उदाहृतः ॥ 2.4.2॥
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै ।
ज्येष्ठ शान्तहयो नाम शिशिरस्तदनन्तरः ॥ 2.4.3 ॥
सुखोदयस्तथानन्दः शिवः क्षेमक एव च ।
ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा हि ते ॥ 2.4.4 ॥
पूर्वं शान्तहयं वर्षं शिशिरं च सुखं तथा ।
आनन्दं च शिवं चैव क्षेमकं ध्रुवमेव च ॥ 2.4.5॥
मर्यादाकारकास्तेषां तथान्ये वर्षपर्वताः ।
सप्तैव तेषां नामानि शृणुष्व मुनिसत्तम ॥ 2.4.6॥
गोमदेश्चैव चन्द्रश्च नारदौ दुन्दुभिस्तथा ।
सोमकः मुमनाश्चैव वैभ्राजश्चैव सप्तमः ॥ 2.4.7॥
वर्षाचलेषु रम्येषु वर्षेष्वेतेषु चानघाः ।
वसंति देवगन्धर्वसहिताः सततं प्रजाः ॥ 2.4.8॥
तेषु पुण्या जनपदाश्चिराच्च म्रियते जनः ।
नाधयो व्याधयो वापि सर्वकालसुखं हि तत् ॥ 2.4.8 ॥
तेषां नद्यस्तु सप्तैव वर्षाणां च समुद्रगाः ।
नामतस्ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः ॥ 2.4.10 ॥
अनुतप्ता शिखी चैव विपाशा त्रिदिवाक्लमः ।
अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः ॥ 2.4.11 ॥
एते शैलास्तथा नद्यः प्रधानाः कथितास्तव ।
क्षुद्रशैलास्तथा नद्यस्तत्र सन्ति सहस्रशः ।
ताः पिबन्दि सदाहृष्टा नदीर्जनपदास्तुते ॥ 2.4.12 ॥
अपसर्पिणी न तेषां वै न चैवोत्सर्पिणी द्विज ।
न त्वेवास्ति युगावस्था तेषु स्तानेषु सप्तसु ॥ 2.4.13 ॥
त्रेतायुगसमः कालः सर्वदैव महामते ।
प्लक्षद्वीपादिषु ब्रह्मञ्शाकद्वीपान्तिकेषु वै ॥ 2.4.14॥
पञ्च वर्षसहस्राणि जना जीवन्त्यनामयाः ।
धर्मः पञ्चस्वथैतेषु वर्णाश्रमविभागशः ॥ 2.4.15॥
वर्णाश्च तत्र चत्वारस्तान्निबोध वदामि ते ॥ 2.4.16॥
आर्यकाः कुरारश्चैव विदिश्या भाविनश्चे ते ।
विप्रक्षत्रिवैश्यास्ते शूद्राश्च मुनिसत्तम ॥ 2.4.17॥
ज्मबूवृक्षप्रमाणस्तु तन्मध्ये सुमहांस्तरुः ।
प्लक्षस्तन्नामसंज्ञोयं प्लक्षद्वीपो द्विजोत्तम ॥ 2.4.18 ॥
इज्यते तत्र भगवांस्तैर्वर्णैरार्यकादिभिः ।
सीमरूपि जगत्स्त्रष्टा सर्वः सर्वेश्वरो हरिः ॥ 2.4.19॥
प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपः समावृतः ।
तथैवेक्षुरमोदेन परिवेषानुकारिणा ॥ 2.4.20 ॥
इत्येवं तव मैत्रेय प्लक्षद्वीप उदाहृतः ।
संक्षेपेण मया भूयः शाल्मलं मे निसामय ॥ 2.4.21 ॥
शाल्ममस्येश्वरोःवीरो वपुष्मांस्तत्सुताञ्छृणु ।
तेषां तु नामसंज्ञानि सप्तवर्षाणि तानि वै ॥ 2.4.22 ॥
श्वेतोथ हरितश्चैव जीमूतो रोहितस्तथा ।
वैद्युतो मानसश्चैव सुप्रभश्च महामुने ॥ 2.4.23 ॥
शाल्मलेन समुद्रोसौ द्वीपेनेक्षुरसोदकः ।
विस्तारद्विगुणेनाथ सर्वतः संवृतः स्थितः ॥ 2.4.24॥
तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः ।
वर्षाभिव्यञ्जका ये तु तथा सप्त च निम्नगाः ॥ 2.4.25॥
कुमुदश्चेन्नतश्चैव तृतीयश्च बलाहकः ।
द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः ॥ 2.4.26॥
कङ्कस्तुपञ्चमः षष्ठी महिषः सप्तमस्तथा ।
ककुद्मान्पर्वतवरः सरिन्नामानि मे शृणु ॥ 2.4.27॥
योनितोयो वितृष्णा च चन्द्रा मुक्ता विमोचनी ।
निवृत्तिः सप्तमी तासां स्मृतास्ताः पापशान्तिदाः ॥ 2.4.28 ॥
श्वेतञ्च हरितं चैव वैद्युतं मानसं तथा ।
जीमूतं रोहितं चैव सुप्रभं चापि शोभनम् ।
सप्तैतानि तु वर्षाणि चातुर्वर्ण्ययुतानि वै ॥ 2.4.29॥
शाल्मले ये तु वर्णाश्च वसन्त्येते महामुने ।
कपिलाश्चारुणाः पीताः कृष्णाश्चैव पृथक्पृथक् ॥ 2.4.30 ॥
ब्रह्मणाः क्षत्रया वैश्याः शुद्राश्चैव यजन्तितम् ।
भगवन्तं समस्तस्य विष्णुमात्मानमव्ययम् ।
वायुभूतं मखश्रेष्ठैर्यज्वनो यज्ञसंस्थितिम् ॥ 2.4.31 ॥
देवानामत्र सान्नध्यमतीव सुमनोहरे ।
शाल्मलिः सुमहान्वृक्षो नाम्ना निर्वृतिकारकः ॥ 2.4.32 ॥
एष द्वीपः समुद्रेण सुरोदेन समावृतः ।
विस्ताराच्छाल्मलस्यैव समेन तु समन्ततः ॥ 2.4.33 ॥
सुरोदकः परिवृतः कुशद्वीपेन सर्वतः ।
शाल्मलस्य तु विस्तराद्द्विगुणेन समन्ततः ॥ 2.4.34॥
ज्योतिष्मतः कुशद्वीपे सप्त पुत्राञ्छृणुष्व तान् ॥ 2.4.35॥
उद्भिदो वेणुमांश्चैव वेरथो लम्बनो धृतिः ।
प्रभाकरोतिकपिलस्तन्नामा वर्षपद्धतिः ॥ 2.4.36॥
तस्मिन्वसन्ति मनुजाः सह दैते यदानवैः ।
तथैव देवगन्धर्वयक्षकिंपुरुषादयः ॥ 2.4.37॥
वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः ।
दमिनः शुष्मिणः स्नेहा मन्देहाश्च महामुने ॥ 2.4.38 ॥
ब्रह्मणाः क्षत्रिया वैश्याः शूद्राश्चानुक्रमोदिताः ॥ 2.4.39॥
यथोस्ककर्मकर्तृत्वात्स्वाधिकारोक्षयाय ते ।
तत्रैव तं कुशद्वीपे ब्रह्मरूपं जनार्दनम् ।
यजन्तः क्षपयन्त्युग्रमधिकारफलप्रदम् ॥ 2.4.40 ॥
विद्रुमो हेमशैलश्च द्यतिमान् पुष्पवांस्तथा ।
कुशशयो हरिश्चैव सप्तमो मन्दराचलः ॥ 2.4.41 ॥
वर्षाचलास्तु सप्तैते तत्र द्वीपे महामुने ।
नद्यश्च सप्त तासां तु शृणु नामान्यनुक्रमात् ॥ 2.4.42 ॥
धूतपापा शिवा चैव पवित्रा संमतिस्तथा ।
विद्युदम्भा मही चान्या सर्वपाप हरास्त्विमाः ॥ 2.4.43 ॥
अन्याः सहस्रशस्तत्र क्षुद्रनद्यस्तथाचलाः ।
कुशद्वीपे गुशस्तम्बः संज्ञया तस्य तत्स्मृतम् ॥ 2.4.44॥
तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः ।
घृतोदश्च समुद्रो वै क्रौञ्चद्वीपेन संवृतः ॥ 2.4.45॥
क्रौञ्चद्वीपो महाभाग श्रुयताञ्चापरो महान् ।
कुशद्वीपस्य विस्तारा द्द्विगुणो यस्य विस्तरः ॥ 2.4.46॥
क्रौञ्चद्वीपे द्युतिमतः पुत्रास्तस्य महात्मनः ।
तन्नामानि च वर्षाणि तेषां चक्रे महीपतिः ॥ 2.4.47॥
कुशलो मल्लगश्चोष्णः पीवरोथान्धकारकः ।
मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुता मुने ॥ 2.4.48 ॥
तत्रापि देवगन्धर्वसेविताः सुमनोहराः ।
वर्षाचला महाबुद्धे तेषां नामानि मे शृणु ॥ 2.4.49॥
क्रौञ्चश्च वामनश्चैव तृतीयश्चान्धकारकः ।
चतुर्थो रत्नशैलश्च स्वाहिनी हयसन्निभः ॥ 2.4.50 ॥
दिवावृत्पञ्चमश्चात्र तथान्यः पुण्डरीकवान् ।
दुन्दुभिश्च महाशैलो द्विगुणास्त परस्परम् ।
द्वीपाद्वीपेषु ये शैला यथा द्वीपानि ते तथा ॥ 2.4.51 ॥
वर्षेष्वेतेषु रम्येषु तथा शैलवरेषु च ।
निवसंति निरातङ्काः सह देवगणैः प्रजाः ॥ 2.4.52 ॥
पुष्कराः पुष्कला धन्यास्तितिख्याश्च महामुने ।
ब्रह्मणाः क्षत्रिया वैश्याः शुद्राश्चानुक्रमोदिताः ॥ 2.4.53 ॥
नदीर्मैत्रेय ते तत्र याः पिबन्ति शृणुष्व ताः ।
सप्तप्रधानाः शतशस्तत्रान्याः क्षुद्रनिम्नगाः ॥ 2.4.54॥
गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ।
क्षान्तिश्च पुण्डरीका च सप्तैता वर्षनिम्नगाः ॥ 2.4.55॥
तत्रापि विष्णुर्भगवान्पुष्काराद्यैर्जानार्दनः ।
यागौ रुद्रस्वरूपश्च इज्यते यज्ञसन्निधौ ॥ 2.4.56॥
क्रौञ्चद्वीपः समुद्रेण दधिमण्डोदकेन च ।
आवृतः सर्वतः क्रौञ्च द्वीपतुल्येन मानतः ॥ 2.4.57॥
दधिमण्डोदकश्चापि शाकद्वीपेन संवृतः ।
क्रौञ्चद्वीपस्य विस्ताराद्द्विगुणेन महामुने ॥ 2.4.58 ॥
शाकद्वीपेश्वरस्यापि भव्यस्य मुमहात्मनः ।
सप्तैव तनयास्तषां ददौ वर्षाणि सप्त सः ॥ 2.4.59॥
जलदश्च कुमारश्च मुकुमारो मरीचकः ।
कुसुमोदश्च मौदाकिः सप्तमश्च महाद्रुमः ॥ 2.4.60 ॥
तत्संज्ञान्येव तत्रापि सप्त वर्षाण्यनुक्रमात् ।
तत्रापि पर्वताः स्पत वर्षविच्छेदकारिणः ॥ 2.4.61 ॥
पूर्वस्तत्रोदयगिरिर्जलाधारस्तथापरः ।
तथा रैवतकः श्यामस्तथैवास्तगिरिर्द्विज ।
आम्बिकेयस्तथा रम्यः केसरी पर्वतोत्तमः ॥ 2.4.62 ॥
शाकस्तत्र महावृक्षः सिद्धगन्धर्वसेवितः ।
यत्रत्यवातसंस्पार्शादाह्लादो जायते परः ॥ 2.4.63 ॥
तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः ।
नद्यश्चात्र महापुण्याः सर्वपापभयापहाः ॥ 2.4.64॥
सुकुमारी कुमारी च नलिनी धेनुका च या ।
इक्षुश्च वेणुका चैव गभस्ती सप्तमी तथा ॥ 2.4.65॥
अन्याश्च शतशस्तत्र क्षुद्रनद्यो महामुने ।
महीधरास्तथा सन्ति शतशोथ सहस्रशः ॥ 2.4.66॥
ताः पिबन्ति मुदायुक्ता जलदादिषु ये स्थिताः ।
वर्षषु ते जनपदाः स्वर्गादभ्येत्य मेदिनीम् ॥ 2.4.67॥
धर्महानिर्न तेष्वस्ति न संघर्षः परस्परम् ।
मर्यादाव्युत्क्रमो नापि तेषु देशेषु सप्तसु ॥ 2.4.68 ॥
वङ्गाश्च मागधाश्चैव मानसा मन्दगास्तथा ।
वङ्गा ब्रह्मणभूयिष्ठा मागधाः क्षत्रियास्तथा ।
वैश्यास्तु मानसास्तेषां शूद्रस्तेषां तु मन्दगाः ॥ 2.4.69॥
शाकद्वीपे तु तैर्विष्णुः सूर्यरूपधरो मुनें ।
यथोक्तौरिज्यते सम्यक्कर्मभिर्नियतात्मभिः ॥ 2.4.70 ॥
शाकद्वीपस्तु मैत्रेय क्षिरोदेन समावृतः ।
शाकद्वीपप्रमाणेन वलयेनेव वेष्टितः ॥ 2.4.71 ॥
क्षिराब्धिः सर्वतो ब्रह्मन्पुष्कराख्येन वेष्टितः ।
द्वीपेन शाकद्वीपात्तु द्वीगुणेन समन्ततः ॥ 2.4.72 ॥
पुष्करे सवनस्यापि महावीरोऽभवत्सुतः ।
धातुकिश्च तयोस्तत्र द्वे वर्षे नामचिह्निते ।
महावीरं तथैवान्यद्धातुकीखण्डसंज्ञितम् ॥ 2.4.73 ॥
एकश्चत्र महाभाग प्रख्यातो वर्षपर्वतः ।
मानासोत्तरसंज्ञो वै मध्यतो वलयाकृतिः ॥ 2.4.74॥
योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः ।
तावदेव च विस्तीर्णः सर्वतः परिमण्डलः ॥ 2.4.75॥
पुष्करद्वीपवलयं मध्येन विभजन्निव ।
स्थितोसौ तेन विछिन्नं जातं तद्वर्षकद्वयम् ॥ 2.4.76॥
वलयाकारमेकैकं तयोर्वर्षं तथा गिरिः ॥ 2.4.77॥
दशवर्षसहस्राणि तत्र जीवन्ति मानवाः ।
विरामया विशोकाश्च रागद्वेषादिवर्जिताः ॥ 2.4.78 ॥
अधमोत्तमौ न तेष्वास्तां न वध्यवधकौ द्विज ।
नेर्ष्यासूया भयं द्वेषो दोषो लोभादिको न च ॥ 2.4.79॥
महापीतंबहिर्वर्षं धातकीखण्डमन्ततः ।
मानसोत्तरशौलस्य देवदैत्यादिसेवितम् ॥ 2.4.80 ॥
सत्यानृतेन तत्रास्तां द्वीपे पुष्करसंज्ञिते ।
न तत्र नद्यः शैला वा द्वीपे वर्षद्वयान्विते ॥ 2.4.81 ॥
तुल्यपेषास्तु मनुजा देवास्तत्रैकरूपिणः ॥ 2.4.82 ॥
वर्णाश्रमाचारहीनं धर्माचरणवर्जितम् ।
त्रयीवार्तादण्डनीतिशुश्रूषारहितञ्च यत् ॥ 2.4.83 ॥
वर्षद्वयं तु मैत्रेय भौमः स्वर्गोयमुत्तमः ।
सर्वर्तुसुखदः कालो जरारोगादिवर्जितः ।
धातकीखण्डसंज्ञेऽथ महावीरे च वै मुने ॥ 2.4.84॥
न्यग्रोधः पुष्करद्वीपे ब्रह्मणः स्थानमुत्तमम् ।
तस्मिन्नवसति ब्रह्मा पूज्यमानः सुरासुरैः ॥ 2.4.85॥
स्वादूदकेनोदधिना पुष्करः परिवेष्टितः ।
समेन पुष्करस्यैव विस्तारान्मण्डलं तथा ॥ 2.4.86॥
एवं द्वीपाः समुद्रैश्च सप्तसप्तभिरावृताः ।
द्वीपश्चैव समुद्रश्च समानो द्विगुणौ परौ ॥ 2.4.87॥
पयांसि सर्वदा सर्वसमुद्रेषु समानि वै ।
न्यूनातिरिक्तता तेषां कदाचिन्नैव जायते ॥ 2.4.88 ॥
स्थालीस्थमग्नीसंयोगादुद्रेकिसलिले यथ ।
तथेन्दुवृद्धौ सलिलमंभोधौ मुनिसत्तम ॥ 2.4.89॥
अन्यूनानतिरिक्ताश्च वर्धन्त्यापो ह्रसंति च ।
उदयास्तमनेष्विन्दोः पक्षयोः शुक्लकृष्णयोः ॥ 2.4.90 ॥
दशोत्तराणि पञ्चैव ह्यङ्गुलानां शतानि वै ।
अपां वृद्धिक्षणो दृष्टौ सामुद्रीणां महामुने ॥ 2.4.91 ॥
भोजनं पुष्करद्वीपे तत्र स्वयमुपस्थितम् ।
षड्रसं भुञ्जते विप्र प्रजाः सर्वाः सदैव हि ॥ 2.4.92 ॥
स्वादूदकस्य परितो दृस्यते लोकसंस्थितिः ।
द्विगुणा काञ्चनी भूमिः सर्वजन्तुविवर्जिता ॥ 2.4.93 ॥
लोकालोकस्ततः शैलो जोजनायुतविस्तृतः ।
उच्छ्रायेणापि तावन्ति सहस्राण्यचलो हि सः ॥ 2.4.94॥
ततस्तमः समावृत्य तं शौलं सर्वतः स्थितम् ।
तमश्चाण्डकटाहेन समन्तात्परिवेष्टितम् ॥ 2.4.95॥
पञ्चशत्कोटिविस्तारा सेयमुर्व महामुने ।
सहैवाण्डकटाहेन सद्वीपाब्धिमहीधरा ॥ 2.4.96॥
सेयं धात्री विधात्री च सर्वभूतगुणाधिका ।
आधारभू6 आ सर्वेषां मैत्रेय जगतामिति ॥ 2.4.97॥
इति श्रीविष्णुमहापुराणे द्वितीयेऽंशे चतुर्थोऽध्यायः (4)
श्रीपराशर उवाच [Sage Parasara said]
विस्तार एष कथितः पृथिव्या भवतो मया ।
सप्ततिस्तु सहस्राणि द्विजोच्छ्रायोपि कथ्यते ॥ 2.5.1 ॥
दशसाहस्रमेकैकं पातालं मुनिसत्तम ।
अतलं वितलं चैव नितलं च गभस्तिमत् ।
महाख्यं सुतलं चाग्र्यं पातालं चापि सप्तमम् ॥ 2.5.2॥
शुक्लाकृष्णारुणाः पीताः शर्कराः शैलकाञ्चनाः ।
भूमयो यत्र मैत्रेय परग्रासादमण्डिताः ॥ 2.5.3 ॥
तेषु दानवदैतेया यक्षाश्च शतशस्तथा ।
निवसन्ति महानागजा तयश्च महामुने ॥ 2.5.4 ॥
स्वर्लोकादपि रम्याणि पातालानीति नारदः ।
प्राह स्वर्गसदं मध्ये पातालाभ्यागतो दिवि ॥ 2.5.5॥
आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः ।
नागाभरणभूषासु पातालं केन तत्समम् ॥ 2.5.6॥
दैत्यदानवकन्याभिरितश्चैतश्च शोभिते ।
पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते ॥ 2.5.7॥
दिवार्करश्मयो यत्र प्रभां तन्वन्ति नातपम् ।
शशिरश्मिर्न शीताय निशि द्योताय केवलम् ॥ 2.5.8॥
भक्ष्यभोज्यमहापानमुदितैरपि भोगिभिः ।
यत्र न ज्ञायते कालो गतोपि दनुजादिभिः ॥ 2.5.8 ॥
वनानि नद्यो रम्याणि सरांसि कमलाकराः ।
पुंस्कोकिलाभिलापाश्च मनोज्ञान्यम्बराणि च ॥ 2.5.10 ॥
भूषणान्यतिशुभ्राणि गन्धाढ्यं चानुलेपनम् ।
वीणावेणुमृदङ्गानां स्वनैरपूरितानि च ॥ 2.5.11 ॥
एतान्यन्यानि चोदारभग्यभोग्यानि तानवैः ।
दैत्योरगैश्च भुज्यन्ते पातालान्तरगोचरैः ॥ 2.5.12 ॥
पातालानामधश्चास्ते विष्णोर्या तामसी तनुः ।
शेषख्या यद्रुणान्वक्तुं न शक्ता दैत्यदानवाः ॥ 2.5.13 ॥
योनन्तः पाठ्यते सिद्धैर्दैवो देवर्षिपूजितः ।
स सहस्रशिरा व्यक्तस्वस्तिकामलभूषणः ॥ 2.5.14॥
फणामणिसहस्रेण यः स विद्योतयन्दिशः ।
सर्वान्करोति निर्विर्यान् हिताय जगतोऽसुरान् ॥ 2.5.15॥
मदाघूर्णितनेत्रोसौ यः सदैवैककुम्डलः ।
किरिटी स्रग्धरो भाति साग्निः श्वेत इवाचलः ॥ 2.5.16॥
नीलवासा मदोत्सिक्तः श्वेतहारोपशोभितः ।
साभ्रगङ्गाप्रवाहोसौ कैलासाद्रिरिवापरः ॥ 2.5.17॥
लाङ्गलासक्तहस्ताग्रो बिभ्रन्मुसलमुतमम् ।
उपास्यते स्वयं कान्त्या यो वारुण्या च मूर्तया ॥ 2.5.18 ॥
कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः ।
संकर्षणात्मको रूद्रो निष्क्रम्यात्ति जगत्त्रयम् ॥ 2.5.19॥
स बिभ्रच्छेखरीभूतमशेषं क्षितिमण्डलम् ।
आस्ते पातालमूलस्थः शेषोऽशेषसुरार्चितः ॥ 2.5.20 ॥
तस्य वीर्यं प्रभावश्च स्वरूपं रूपमेव च ।
न हि वर्णयितुं शक्यं ज्ञातुं च त्रिदशैरपि ॥ 2.5.21 ॥
यस्यैषा सकला पृथ्वी फणामणिशिखारूणा ।
आस्ते कुसुममालेव कस्तद्वीर्यं वदिष्यति ॥ 2.5.22 ॥
यदा विजृम्भतेनन्तो मदाघूर्णितलोचनः ।
तदा चलति भूरेषा साब्धितोया सकानना ॥ 2.5.23 ॥
गन्धर्वाप्सरसः सिद्धाः किन्नरोरगचारणाः ।
नान्तं गुणानां गच्छन्ति तेनानन्तोयमव्ययः ॥ 2.5.24॥
यस्य नागवधूहस्तैर्लंबितं हरि चन्दनम् ।
मुहुः श्वासानिलापास्तं याति दिक्क्षोदवासताम् ॥ 2.5.25॥
यमाराध्य पूराणर्षिर्गर्गो ज्योतींषि तत्त्वतः ।
ज्ञातवान्सकलं चैव निमित्तपठितं फलम् ॥ 2.5.26॥
तेनेयं नागवर्येण शिरसा विधृता मही ।
बिभर्ति मालां लोकानां सदेवासुरमानुषाम् ॥ 2.5.27॥
इति श्रीविष्णुमहाहुराणे द्वितीरयेऽंशे पञ्चमोऽध्याय (5)
पराशर उवाच
ततश्च नरका विप्र भुवोधः सलिलस्य च ।
पापिनो येषु पात्यन्ते ताञ्छृणुष्वमहामुने ॥ 2.6.1 ॥
रौरवः सूकरो रोधस्तालो विशसनस्तथा ।
महाज्वालस्तप्तकुम्भो लवणेथ विलोहितः ॥ 2.6.2॥
रूधिराम्भो वैतरणिः क्रिमिशः क्रिमिभोजनः ।
असिपत्रवनं कृष्णो लालाभक्षश्च दारुणः ॥ 2.6.3 ॥
तथा पूयवहः पापो वह्निज्वालो ह्यधः शिराः ।
संदंशः कालसूत्रश्च तमश्चावीचिरेव च ॥ 2.6.4 ॥
श्वभोजनोथाप्रतिष्ठश्चाप्रचिश्च तथा परः ।
इत्येवमादयश्चान्ये नरका भृशदारूणाः ॥ 2.6.5॥
यमस्य विषये घोराः शस्त्राग्निभयदायिनः ।
पतन्ति येषु पुरुषाः पापकर्मरतास्तु ये ॥ 2.6.6॥
कूटसाक्षी तथासम्यक्पक्षपातेन यो वदेत् ।
यश्चान्यदनृतं वक्ति स नरो याति रौरवम् ॥ 2.6.7॥
भ्रूणहा पुरहन्ता च गौघ्नश्च मुनिसत्तम ।
यान्ति ते नरकं रोधं यश्चोच्छ्वासनिरोधकः ॥ 2.6.8॥
सुरापो ब्रह्महा हर्ता सुवर्णस्य च सूकरे ।
प्रयान्ति नरके यश्च तैः संसर्गमुपैति वै ॥ 2.6.8 ॥
राजन्यवैश्यहन्ता च तथैव गुरुतल्पगः ।
तप्तकुण्डेस्वसृगामी हन्ति राजभटांश्च यः ॥ 2.6.10 ॥
साध्वीविक्रयकृद्बन्धपालः केसरिविक्रयी ।
तप्तलोहे पतन्त्येते यश्च च भक्तं परित्यजेत् ॥ 2.6.11 ॥
स्नुषां सुतां चापि गत्वा महाज्वाले निपात्यते ।
अवमन्ता गुरूणां यो यश्चाक्रोष्टा नराधमः ॥ 2.6.12 ॥
वेददूषयितायश्च वेदविक्रयकश्च यः ।
अगम्यगामी यश्च स्यात्ते यान्ति लवणं द्विज ॥ 2.6.13 ॥
चोरो विलोहे पतति मर्यादादूषकस्तथा ॥ 2.6.14॥
देवद्विजपितृद्वेष्टा रत्नद्वषयिता च यः ।
स याति क्रिमिभक्षे वै क्रिमिशे च दुरिष्टकृत् ॥ 2.6.15॥
पितृदेवातिथींस्त्यक्त्वा पर्यश्नाति नराधमः ।
लालाभक्षे स यात्युग्रे शरकर्ता च वेधके ॥ 2.6.16॥
करोति कर्णनो यश्च यश्च खङ्गादिकृन्नरः ।
प्रयान्त्येते विशसने नरके भृशदरुणे ॥ 2.6.17॥
असत्प्रतिगृहीता तु नरके यात्यधोमुखे ।
अयाज्ययाजकश्चैव तथा नक्षत्रसूचकः ॥ 2.6.18 ॥
वेगी पूयवहे चैको याति मष्टान्नभुङ्गरः ॥ 2.6.19॥
लाक्षामासरसानां च तिलानां लवणस्य च ।
विक्रेता ब्रह्मणो याति तमेव नरकं द्विज ॥ 2.6.20 ॥
मार्जारकुक्कुटच्छाग श्ववराहविहङ्गमान् ।
पोषयन्नरकं याति तमेव द्विजसत्तम ॥ 2.6.21 ॥
रङ्गोपजीवी कैवर्तः कुम्डाशी गरदस्तथा ।
सूची माहिषकश्चैव पर्वकारी च यो द्विजः ॥ 2.6.22 ॥
अगारदाही मित्रघ्नः शाकुनिर्ग्रमयाजकः ।
रुधिरान्धे पतन्त्येते सोमं विक्रीणते च ये ॥ 2.6.23 ॥
मखहा ग्रामहन्ता च याति वैतरणीं नरः ॥ 2.6.24॥
रेतः पातादिकर्तारो मर्यादाभेदिनो हि ये ।
ते कृष्णे यान्त्यशौचाश्च कुहकाजीविनश्च ये ॥ 2.6.25॥
असिपत्रवनं याति वनच्छेदी वृथैव यः ।
औरभ्रिको मृगव्याधो वह्निज्वाले पतन्ति वै ॥ 2.6.26॥
यान्त्येते द्विज तत्रैव ये चापाकेषु वह्निदाः ॥ 2.6.27॥
व्रतानां लोपको यश्चस्वाश्रमाद्विच्युतश्च यः ।
सन्दंशयातनामध्ये पततस्तावुभावपि ॥ 2.6.28 ॥
दिवा स्वप्ने च स्कन्दन्ते ये नरा ब्रह्मचारिणः ।
पुत्रैरध्यापिता ये च ते पतन्ति श्वभोजने ॥ 2.6.29॥
एते चान्ये च नरकाः शतशोथ सहस्रशः ।
येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः ॥ 2.6.30 ॥
यथैव पापान्येतानि तथान्यानि सहस्रशः ।
भुज्यन्ते तानि पुरुषैर्नरकान्तरगोचरैः ॥ 2.6.31 ॥
वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नराः ।
कर्मणा मनसा वाचा निरयेषु पतन्ति ते ॥ 2.6.32 ॥
अधः शिरोभिदृश्यन्ते नारकैर्दिवि देवताः ।
देवाश्चाधोमुखान्सर्वानधः पश्यन्ति नारकान् ॥ 2.6.33 ॥
स्थावराः क्रिमयोब्जाश्च पक्षिणः पशवो नराः ।
धार्मिकास्त्रिदशास्तद्धन्मोक्षिणश्च यथाक्रमम् ॥ 2.6.34॥
सहस्रभागप्रथमा द्वितीयानुक्रमास्तथा ।
सर्वे ह्येते महाभागा यावन्मुक्तिसमाश्रयाः ॥ 2.6.35॥
यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः ।
पापकृद्याति नरकं प्रायाश्चित्तपराङ्मुखः ॥ 2.6.36॥
पापानामनुरूपाणि प्रायश्चित्तानि यद्यथा ।
तथा तथैव संस्मृत्य प्रोक्तानि परमर्षिभिः ॥ 2.6.37॥
पापे गुरूणि गुरुणि स्वल्पान्यल्पे च तद्विदः ।
प्रायश्चित्तानि मैत्रेय जगुः स्वायंभुवादयः ॥ 2.6.38 ॥
प्रायश्चित्तान्यशेषाणि तपःकर्मत्मकानि वै ।
यानि तेषाणशेषाणां कृष्णानुस्मरणम्परम् ॥ 2.6.39॥
कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते ।
प्रायश्चित्तं तु तस्यैकं हरिसंस्मरणं परम् ॥ 2.6.40 ॥
प्रातर्निशि तथा सन्ध्यामध्याह्नादिषु संस्मरन् ।
नारायणमवाप्नोति सद्यः पापक्षयन्नरः ।
विष्णुसंस्मरणात्क्षीणसमस्तक्लेशसञ्चयः ।
मुक्तिं प्रयाति स्वर्गाप्तिस्तस्य विघ्नोनुमीयते ॥ 2.6.42 ॥
वासुदेवे मनो यस्यजपहोमार्चनादिषु ।
तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम् ॥ 2.6.43 ॥
क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् ।
क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम् ॥ 2.6.44॥
तस्मादहर्निशं विष्णु संस्मरन्पुरुषो मुने ।
न याति नरकं मर्त्यः संक्षीणाखिलपातकः ॥ 2.6.45॥
मनः प्रीतिकरः स्वर्गो नरकस्तद्विपर्ययः ।
नरकस्वर्गसंज्ञे वै पापपुण्ये द्विजोत्तम ॥ 2.6.46॥
वस्त्वेकमेव दुःखाय सुखायेष्र्यागमाय च ।
कोपाय च यतस्तस्माद्वस्तु वस्त्वात्मकं कुतः ॥ 2.6.47॥
तदेव प्रीतये भूत्वा पुनर्दुःखा य जायते ।
तदेव कोपाय यतः प्रसादाय च जायते ॥ 2.6.48 ॥
तस्माद्दुःखात्मकं नास्ति न च किञ्चित्सुखात्मकम् ।
मनसः परिमामोयं सुखदुःखादिलक्षमः ॥ 2.6.49॥
ज्ञानमेव परं ब्रह्म ज्ञानं बन्धाय चेष्यते ।
ज्ञानत्मकमिदं विश्वं न ज्ञानाद्विद्यते परम् ॥ 2.6.50 ॥
विद्याविद्येति मैत्रेय ज्ञानमेवोपधारय ॥ 2.6.51 ॥
एवमेतन्मयाख्यातं भवतो मण्डलं भुवः ।
पातालानि च सर्वाणि तथाव नरका द्विज ॥ 2.6.52 ॥
समुद्राः पर्वताश्चैव द्वीपा वर्षाणि निम्नगाः ।
संक्षेपात्सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ 2.6.53 ॥
इति श्रीविष्णुमहापुराणे द्वितीयेऽंशे षष्ठोऽध्यायः (6)
मैत्रेय उवाच
कथितं भूतलं ब्रह्मन्भमैतदखिलं त्वया ।
भुवर्लोकादिकांल्लोकाञ्छ्रोतुमिच्छाम्यहं मुने ॥ 2.7.1 ॥
तथैव ग्रहसंस्थानं प्रमाणानि यथा तथा ।
समाचक्ष्व महाभाग तन्मह्यं परिपृच्छते ॥ 2.7.2॥
श्रीपराशर उवाच [Sage Parasara said]
रविचन्द्रमसोर्यावन्मयूखैरवभास्यते ।
ससमुद्रसरिच्छैला तावती पृथिवी स्मृता ॥ 2.7.3 ॥
यावत्प्रमाणा पृथिवी विस्तारपरिमण्डलात् ।
नभस्तावन्प्रमाणं वै व्यासमण्डलतो द्विज ॥ 2.7.4 ॥
भूमेर्यो जनलक्षे तु सौरं मैत्रेय मण्डलम् ।
लक्षाद्दिवाकरस्यापि मण्डलं शशिनः स्थितम् ॥ 2.7.5॥
पूर्णो शतसहस्रे तु योजनानां निशाकरात् ।
नक्षत्रमण्डलं कृत्स्त्रमुपरिष्टात्प्रकाशते ॥ 2.7.6॥
द्वे लक्षे चोत्तरे ब्रह्मन् बुधो नक्षत्रमण्डलात् ।
तावत्प्रमाणभागे तु बुधस्याप्युशनाः स्थितः ॥ 2.7.7॥
अङ्गरकोपि शुक्रस्य तत्प्रमाणे व्यवस्थितः ।
लक्षद्वये तु भौमस्य स्थितो देवपुरोहितः ॥ 2.7.8॥
सौरिर्बृहस्पतेश्चोर्ध्वं द्विलक्षे समवस्थितः ।
सप्तर्षिमण्डलं तस्माल्लक्षमेकं द्विजोत्तमा ॥ 2.7.8 ॥
ऋषिभ्यस्तु सहस्राणां शतादूर्ध्वं व्यवस्थितः ।
मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः ॥ 2.7.10 ॥
त्रैलोक्यमेतत्कथितमुत्सेधेन महामुने ।
इज्याफलस्य भूरेषा इज्या चात्र प्रतिष्ठिता ॥ 2.7.11 ॥
ध्रुवादूर्ध्वं महर्लोको यत्र ते कल्पवासिनाः ।
एकयोजनकोटिस्तु यत्र ते कल्पवासिनः ॥ 2.7.12 ॥
द्वे कोटी तु जनो लोको यत्र ते ब्रह्मणः सुताः ।
सनन्दनाद्याः प्रथिता मैत्रेयामलचेतसः ॥ 2.7.13 ॥
चतुर्गणोत्तरे चोर्ध्वं जनलोकात्तपः स्थितः ।
वैराजा यत्र ते देवाः स्थिता दाहविवर्जिताः ॥ 2.7.14॥
षड्गुणेनतपोलोकान्सत्यलोको विराजते ।
अपुनर्मारका यत्र ब्रह्मलोको हि संस्मृतः ॥ 2.7.15॥
पादगम्यन्तु यत्किञ्चिद्वस्त्वस्ति पृथिवीमयम् ।
स भूर्लोकः समाख्यातो विस्तरोऽस्य मयोदितः ॥ 2.7.16॥
भूमिमूर्यान्तरं यच्च सिद्धादिमुनिसेवितम् ।
भुवर्लोकस्तु सोऽप्युक्तो द्वितीयो मुनिसत्तम ॥ 2.7.17॥
ध्रुवसूर्यान्तरं यच्च नियुतानि चतुर्दश ।
स्वर्लोकः सोऽपि गदितो लोकसंस्थानचिन्तकैः ॥ 2.7.18 ॥
त्रैलोक्यमतत्कृतकं मैत्रेय परिपठ्यते ।
जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम् ॥ 2.7.19॥
कृतकाकृतयोर्मध्ये महर्लोक इति स्मृतः ।
शुन्यो भवति कल्पान्ते योत्यन्तं न विनश्यति ॥ 2.7.20 ॥
एते सप्त मया लोका मैत्रेय कथितास्तव ।
पातालानि च सप्तैव ब्रह्माण्डस्यैष विस्तरः ॥ 2.7.21 ॥
एतदण्डकटाहेन तिर्यक्चोध्वमधस्तथा ।
कपित्थस्य यथा बीजं सर्वतो वै समावृतम् ॥ 2.7.22 ॥
दशोत्तरेण पयसा मैत्रेयाण्डं च तद्वृतम् ।
सर्वोम्बुपरिधानोसौ वह्निना वेष्टितो बहिः ॥ 2.7.23 ॥
वह्निश्च वायुना वायुर्मैत्रेय नभसा वृतः ।
भूतादिना नभः सोऽपि महता परिवेष्टितः ।
देशोत्तराम्यशेषाणि मैत्रेयैतानि सप्त वै ॥ 2.7.24॥
महान्तं च समावृत्य प्रधानं समवस्थितम् ।
अनन्तस्य न तस्यान्तः संख्यानं चापि विद्यते ॥ 2.7.25॥
तदनन्तमसंख्यातप्रमाणं चापि वै यतः ।
हेतुभूतमशेषस्य प्रकृतिः सा परा मुने ॥ 2.7.26॥
अण्डानां तु सहस्राणां सहस्राण्ययुतानि च ।
ईदृशानां तथा तत्र कोटिकोटिशतानि च ॥ 2.7.27॥
हारुण्यग्निर्यथा तैलं तिले तद्वत्पुमानपि ।
प्रधानेऽवस्थितो व्यापी चेतनात्मात्मवेदनः ॥ 2.7.28 ॥
प्रधानं च पुमांश्चैव सर्वभूतात्मभूतया ।
विष्णुशक्त्या महाबुद्धे वृतौ संश्रयधर्मिणौ ॥ 2.7.29॥
तयोः सैव पृथग्भावकारणं संश्रयस्य च ।
क्षोभकारणभूता च सर्गकाले महामते ॥ 2.7.30 ॥
यथा सक्तं जले वातो बिभर्ति कणिकाशतम् ।
शक्तिः सापि तथा विष्णोः प्रधानपुरुषात्मकम् ॥ 2.7.31 ॥
यथा च पादयौर्मूलस्कन्धशाखादिसंयुतः ।
आदिबीजात्प्रभवति बीजान्यन्यानि वै ततः ॥ 2.7.32 ॥
प्रभावन्तिततस्तेभ्यः सम्भवन्त्यपरे द्रुमाः ।
तेपि तल्लक्षणद्रव्यकारणानुगता मुने ॥ 2.7.33 ॥
एवमव्याकृतात्पूर्वं जायन्ते महदादयः ।
विशंषान्ता स्ततस्तेभ्यः संभवन्त्यसुरादयः ।
तेभ्यश्च पुत्रास्तेषां च पुत्राणामपरे सुताः ॥ 2.7.34॥
बीजाद्वृक्षप्ररोहेण यथा नापचयस्तरोः ।
भूतानां भूतसर्गेण नैवास्त्यपचयस्तथा ॥ 2.7.35॥
सन्निधानाद्यथाकाशकालाद्याः कारणं तरोः ।
तथैवापरिणामेव विश्वस्य भगवान्हरिः ॥ 2.7.36॥
व्रीहिबीजे यथा मूलं नालं पत्राङ्कुरौ तथा ।
काण्डकोषस्तु पुष्पं च क्षीरं तद्वच्च तण्जुलाः ॥ 2.7.37॥
तुषाः कणाश्च सन्तो वै यान्त्याविर्भावमात्मनः ।
प्ररोहहेतुसामग्र्यमासाद्य मुनिसत्तम ॥ 2.7.38 ॥
तथा कर्मस्वनेकेषु देवाद्याः समवस्थिताः ।
विष्णुशक्तिं समासाद्य प्ररोहमुपयान्ति वै ॥ 2.7.39॥
स च विष्णुः परं ब्रह्म यतः सर्वमिदं जगत् ।
जगच्च यो यत्र चेदं यस्मिंश्च लयमेष्यति ॥ 2.7.40 ॥
तद्ब्रह्म तत्परं धाम सदसत्परमं पदम् ।
यस्य सर्वमभेदेन यतश्चैतच्चराचरम् ॥ 2.7.41 ॥
स एव मूल प्रकृतिर्व्यक्तरूपी जगच्च सः ।
तस्मिन्नेव लयं सर्वं याति तत्र च तिष्ठति ॥ 2.7.42 ॥
कत्ता क्रियाणां स च इज्यते क्रतुः स एवतत्कर्मफलं च तस्य ।
स्त्रुगादियत्साधनमप्यशेषं हरेर्न किञ्चिव्द्यतिरिक्तमस्ति ॥ 2.7.43 ॥
इति श्रीविष्णुमहापुराणे द्वितीयेऽंशे सप्तमोऽध्यायः (7)
प्राशर उवाच
व्याख्यातमैतद्ब्रह्मण्डसंस्थानं तव सुव्रत ।
ततः प्रमाणसंस्थाने सूर्यादीनां शृणुष्व मै ॥ 2.8.1 ॥
योजनानां सहस्राणि भास्करस्य रथो नव ।
ईषादण्डस्तथैवास्य द्विगुणो मुनिसत्तम ॥ 2.8.2॥
सार्धकोटिस्तथा सप्त नियुतान्यधिकानि वै ।
योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम् ॥ 2.8.3 ॥
त्रिनाभिमति पञ्चारे षण्णेमिन्यत्रयात्मके ।
संवत्सरमये कृत्स्त्रं कालचक्रं प्रतिष्ठितम् ॥ 2.8.4 ॥
हयाश्च सप्तच्छदांसि तेषां नामानि मे शृणु ।
गायत्री च बृहत्युष्णिग्जगती त्रिष्टुभेव च ।
अनुष्टुप्पङ्क्तिरित्युक्ता छन्दांसि हरयो रवेः ॥ 2.8.5॥
चत्वारिंशत्सहस्राणि द्वितीयोऽक्षो विवस्वतः ।
पञ्चान्यानि तु सार्धानि स्यन्दनस्य महामते ॥ 2.8.6॥
आक्षप्रमाणमुभयोः प्रमाणं तद्युगार्धयो ।
ह्रस्वोक्षस्तद्युगार्धेन ध्रुवाधारो रथस्य वै ।
द्वितीयेक्षे तु तच्चक्रं सस्थितं मानसाचले ॥ 2.8.7॥
मानसोत्तरशैलस्य पूर्वतो वासवी पुरी ।
दक्षिणे तु यम स्यान्याप्रतीच्यां वरुणस्य च ।
उत्तरेण च सोमस्य तासां नामानि मे शृणु ॥ 2.8.8॥
वस्वौकसारा शक्रस्य याम्या संयमनी तथा ।
पुरी सुखाजलेशस्य सोमस्य च विभावरी ॥ 2.8.8 ॥
काष्ठां गतो दक्षिणतः क्षिप्तेषुरिव सर्पति ।
मैत्रेय भगवान्भानुर्ज्योतिषां चक्रसंयुतः ॥ 2.8.10 ॥
अहोरात्रव्यवस्थानकारणं भगवान्रविः ।
देवयानः परः पन्था योगिनां क्लेशसंक्षये ॥ 2.8.11 ॥
दिवसस्य वरिर्मध्ये सर्वाकालं व्यवस्थितः ।
सर्वद्वीपेषु मैत्रेय निशार्धस्य च सन्मुखः ॥ 2.8.12 ॥
उदयास्तमने चैव सर्वकालं तु संमुखे ।
विदिशासु त्वशेषासु तथा ब्रह्मन् दिशासु च ॥ 2.8.13 ॥
यैर्यत्र दृश्यते भास्वान्स तेषामुदयः स्मृतः ।
तिरोभावं च यत्रैति तत्रैवास्तमनं रवेः ॥ 2.8.14॥
नैवास्तमनमर्कस्य नोदयः सर्वदा सतः ।
उदयास्तमनाख्यं हि दर्शनादर्शनं रवेः ॥ 2.8.15॥
शक्रादीनां पुरे तिष्ठन् स्पृशत्येष पुरत्रयम् ।
विकोणौ द्वौ विकोणस्थस्त्रीन् कोणान्द्वे पुरे तथा ॥ 2.8.16॥
उदितो वर्धमानाभिरामध्याह्नात्तपन्रविः ।
ततः परं ह्रसन्तीभिर्गोभिरस्तं नियच्छति ॥ 2.8.17॥
उदयास्तमनाभ्यां च स्मृते पूर्वापरे दिशौ ।
यावत्पुरस्तात्तपति तावत्पृष्ठे च पार्श्वयोः ॥ 2.8.18 ॥
ऋतेऽमरगिरेर्मेरोरुपरि ब्रह्मणः सभाम् ।
येये मरीचयोर्कस्य प्रयान्ति ब्रह्मणः सभाम् ।
तेते निरस्तास्तद्भासा प्रतीपमुपयान्ति वै ॥ 2.8.19॥
तस्माद्दिश्युत्तरस्यां वै दिवारात्रिः सदैव हि ।
सर्वेषां द्वीपवर्षाणां सेरुरुत्तरतो यतः ॥ 2.8.20 ॥
प्रभा विवस्वतो रात्रावस्तं गच्छति भास्करे ।
विशत्यग्निमतो रात्रौ वह्निर्दूरात्प्रकाशते ॥ 2.8.21 ॥
वह्नोः प्रभा तथा भानुर्दिनेष्वाविशति द्विज ।
अतीव वह्निसंयोगादतः सूर्यः प्रकाशते ॥ 2.8.22 ॥
तेजसी भास्कराग्नेये प्रकाशोष्णस्वरूपिणी ।
परस्परानुप्रवेशादाप्यायेते दिवानिशम् ॥ 2.8.23 ॥
दक्षिणोत्तरभूम्यर्ध समुत्तिष्ठति भास्करे ।
आहोरात्रं विशत्यम्भस्तमः प्राकाश्यशीलवत् ॥ 2.8.24॥
आताम्रा हि भवत्यापो दिवानक्तप्रवेशनात् ।
दिनं विशति चैवांभो भास्करेस्तमुपेयुषि ।
तस्माच्छुक्ला भवन्त्यापो नक्तमह्नः प्रवेशनात् ॥ 2.8.25॥
एवं पुष्करमध्येन यदा याति दिवाकरः ।
त्रिंशद्भागस्तु मेदिन्यास्तदा मौहूर्तिकी गतिः ॥ 2.8.26॥
कुलालचक्रपर्यन्ते भ्रमन्नेष दिवाकरः ।
करोत्यहस्तथा रात्रिं विमुञ्चन्मेदिनीं द्विजः ॥ 2.8.27॥
अयनस्योत्तरस्यादौ मकरं याति भास्करः ।
ततः कुम्भं च मीनं च राशे राश्यन्तरं द्विज ॥ 2.8.28 ॥
त्रिष्वेतेष्वथ भुक्तेषु ततो वैषुवतीं गतिम् ।
प्रयाति सविता कुर्वन्नहोरात्रं ततः समम् ॥ 2.8.29॥
ततो रात्रिः क्षयं याति वर्धतेऽनुदिनं दिनम् ॥ 2.8.30 ॥
ततश्च मिथुनस्यान्ते परां काष्ठामुपागतः ।
राशिं कर्कटकं प्राप्य कुरुते दक्षिणायनम् ॥ 2.8.31 ॥
कुलालचक्रपर्यन्तो यथाशीघ्रं प्रवर्तते ।
दक्षिणप्रक्रमे सूर्यस्तथा शीघ्रं प्रवर्तते ॥ 2.8.32 ॥
अतिवेगितया कालं वायुवेगबलाच्चरन् ।
तस्मात्प्रकष्टां भूमिं तु कालेनाल्पेन गच्छति ॥ 2.8.33 ॥
सूर्यो द्वादशभिः शैघ्र्यान्मुहूर्ते दक्षिणायने ।
त्रयोदशार्धमृक्षाणामह्ना तु चरति द्विज ।
मुहूर्तैस्तावदृक्षाणि नक्तमष्टादशैश्चरन् ॥ 2.8.34॥
कुलालचक्रमध्यस्थो यथा मन्दं प्रसर्पति ।
तथोदगयने सूर्यः सर्पते मन्दविक्रमः ॥ 2.8.35॥
तस्माद्दीर्घेण कालेन भूमिमल्पां तु गच्चति ।
अष्टादशसुहूर्तं यदुत्तरायणपश्चिमम् ॥ 2.8.36॥
अहर्भवति तच्चापि चरते मन्दविक्रमः ॥ 2.8.37॥
त्रयोदशार्धमह्ना तु ऋक्षाणां चरते रविः ।
मुहूर्तैस्तावदृक्षाणि रात्रौ द्वादशभिश्चरन् ॥ 2.8.38 ॥
अतो मन्दतरं नाभ्यां चक्रं भ्रमति वै यथा ।
मृत्पिण्ड इव मध्यस्थो ध्रुवो भ्रमति वै तथा ॥ 2.8.39॥
कुलालचक्रनाभिस्तु यथा तत्रैववर्तते ।
ध्रुवस्तथा हि मैत्रेय तत्रैव परिवर्तते ॥ 2.8.40 ॥
उभयोः काष्ठयोर्मध्ये भ्रमतो मण्डलानि तु ।
दिवा नक्तं च सूर्यस्य मन्दा शीघ्राच वै गतिः ॥ 2.8.41 ॥
मन्दाह्नि यस्मिन्नयने शीघ्रा नक्तं तदा गतिः ।
शीघ्रा निशि यदा चास्य तदा मन्दा दिवा गतिः ॥ 2.8.42 ॥
एक प्रमाणमेवैष मार्गं याति दिवाकरः ।
अहोरात्रेण यो भुङ्क्ते समस्ता राशयो द्विज ॥ 2.8.43 ॥
षडेव राशीन् यो भुङ्क्ते रात्रावन्यांश्च षड्दिवा ॥ 2.8.44॥
राशिप्रमाणजनिता दीर्घह्रस्वात्मता दिने ।
तथा निशायां राशीनां प्रमाणैर्लघुदीर्घता ॥ 2.8.45॥
दिनादेर्दिर्घह्रस्वत्वं तद्भोगेनैव जायते ।
उत्तरे प्रक्रमे शीघ्रा निशि मन्दा गतिर्दिवा ॥ 2.8.46॥
दक्षिणे त्वयने चैव विपरीतां विवस्वतः ॥ 2.8.47॥
उषा रात्रिः समाख्याताव्युष्टिश्चाप्युच्यते दिनम् ।
प्रोच्यते च तथा संध्या उषाव्युष्ट्योर्यदन्तरम् ॥ 2.8.48 ॥
संध्याकाले च संप्राप्ते रौद्रे परमदारुणे ।
मन्देहा राक्षसा घोराः सूर्यमिच्छिन्ति खादितुम् ॥ 2.8.49॥
प्रजापतिकृतः शापस्तेषां मैत्रेय रक्षसाम् ।
अक्षयत्वं शरीराणां मरणं च दिने दिने ॥ 2.8.50 ॥
ततः सूर्यस्य तैर्युद्धं भवत्यत्यन्तदारुणम् ।
ततो द्विजोत्तमा स्तोयं संक्षिपन्ति महामुने ॥ 2.8.51 ॥
ओङ्कारब्रह्मसंयुक्तं गायत्र्या चाभिमन्त्रितम् ।
तेन दह्यन्ति ते पापा वज्रीभूतेन वारिणा ॥ 2.8.52 ॥
अग्निहोत्रे हूयते या समन्त्रा प्रथमाहुतिः ।
सूर्योज्योतिः सहस्रांशु समा दीप्यति भास्करः ॥ 2.8.53 ॥
ओङ्कारो भगवान्विष्णुस्त्रिधामा वचसां पतिः ।
तदुच्चारणतस्ते तु विनाशं यान्ति राक्षसाः ॥ 2.8.54॥
वैष्णुवोंशः परः सूर्यो योन्तर्ज्योतिरसंप्लवम् ।
अभियायक ओङ्कारस्तस्य तत्प्रेरकं परम् ॥ 2.8.55॥
तेन संप्रेरितं ज्योतिरोंकारेणाथ दीप्तिमत् ।
दहत्यशेषरक्षांसि मन्देहाख्यान्यघानि वै ॥ 2.8.56॥
तस्मान्नोल्लङ्घनं कार्यं संध्योपासनकर्मणः ।
स हन्ति सूर्यं सन्ध्याया नोपास्तिं कुरुते तु यः ॥ 2.8.57॥
ततः प्रयाति भगवान्ब्राह्मणैरभिरक्षितः ।
वालखिल्यादिभिश्चैव जगतः पालनोद्यतः ॥ 2.8.58 ॥
काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठा गणयेत्कलां च ।
त्रिंशत्कलश्चैव भवेन्मुहूर्तस्तैस्त्रिंशता रात्र्यहनी समेते ॥ 2.8.59॥
ह्रासवृद्धी त्वहर्भागोर्दिवसानां यथाक्रमम् ।
सन्ध्यामुहूर्तमात्रा वै ह्रासवृद्धौ समा स्मृता ॥ 2.8.60 ॥
रेखाप्रभृत्यथादित्ये त्रिमुहूर्तगते रवौ ।
प्रातः स्मृतस्ततः कालो भागश्चाह्नः स पञ्चमः ॥ 2.8.61 ॥
तस्मात्प्रातस्तनात्कालात्त्रमुहूर्तस्तु सङ्गवः ।
मध्याह्नस्त्रिमुहूर्तस्तु तस्मात्कालात्तु सङ्गवात् ॥ 2.8.62 ॥
तस्मान्माध्याह्निकात्कालादपराह्न इति स्मृतः ।
त्रय एव मुहूर्तास्तु कालभागः स्मृतो बुधैः ॥ 2.8.63 ॥
आपराह्ने व्यतीते तु कालः सायाह्न एव च ।
दशपञ्च मुहूर्तं वै मुहूर्तास्त्रय एव च ॥ 2.8.64॥
दशपञ्च मुहूर्तं वै अहर्वैषुवतं स्मृतम् ॥ 2.8.65॥
वर्धते ह्रसेत चैवाप्ययने दक्षिणोत्तरे ।
अहस्तु ग्रसते रात्रिं रात्रिर्ग्रसति वासरम् ॥ 2.8.66॥
शरद्वसन्तयोर्मध्ये विषुवं तु विभाव्यते ।
तुलामेषगते भानौ समरात्रिदिनं तु तत् ॥ 2.8.67॥
कर्कटावस्थिते भानौ दक्षिणायनमुच्यते ।
उत्तरायणमप्युक्तं मकरस्थे दिवाकरे ॥ 2.8.68 ॥
त्रिंशन्मुहूर्तं कथितमहोरात्रं तु यन्मया ।
तानिपञ्चदश ब्रह्मन् पक्ष इत्यभिधीयते ॥ 2.8.69॥
मासः पक्षद्वयेनोक्तो द्वौ मासौ चार्कजावृतुः ।
ऋतुत्रयं चाप्ययनं द्वेऽयने वर्षसंज्ञिते ॥ 2.8.70 ॥
संवत्सरादयः पञ्च चतुर्मासविकल्पिताः ।
निश्चयः सर्वकाल्सय युगमित्यभिधीयते ॥ 2.8.71 ॥
संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः ।
इद्वत्सरस्तृतीयस्तु चतुर्थश्चानुवत्सरः ।
वत्सरः पञ्चमश्चात्र कालोयं युगसंज्ञितः ॥ 2.8.72 ॥
यः श्वेतस्योत्तरः शैलः शृङ्गवानिति विश्रुतः ।
त्रीणि तस्य तु शृङ्गाणि मैरयं शृङ्गवान् स्मृतः ॥ 2.8.73 ॥
दक्षिणं चोत्तरं चैव मध्यं वैषुवतं तथा ।
शरद्वसंतयोर्मध्ये तद्भानुः प्रतिपद्यते ।
मेषादौ च तुलादौ च मैत्रेय विषुवं स्मृतम् ॥ 2.8.74॥
तदा तुल्यमहोरात्रं करोति तिमिरापहः ।
दशपञ्च मुहूर्तं वै तदेतदुभयं स्मृतम् ॥ 2.8.75॥
प्रथमे कृत्तिकाभागे यदा भास्वांस्तदा शशी ।
विशाखानां चतुर्थेऽंशे मुने तिष्ठत्यसंशयम् ॥ 2.8.76॥
विशाखानां यदा सूर्यश्चरत्यंशं तृतीयकम् ।
तदा चन्द्रं विजानीयात्कृत्तिकाशिरसि स्थितम् ॥ 2.8.77॥
तदैव विषुवाख्योऽयं कालः पुण्योऽभिधीयते ।
तदा दानादि देयानि देवेभ्यः प्रयतात्मभिः ॥ 2.8.78 ॥
ब्रह्मणेभ्यः पितृभ्यश्च मुखमेतत्तु दानाजम् ।
दत्तदानस्तु विषुवे कृतकृत्योभिजायते ॥ 2.8.79॥
अहोरात्रार्धमासा तु कलाः काष्ठाः क्षणास्तथा ।
पौर्णमासी तथा ज्ञेया अमावास्या तथैव च ।
सिनीवाली कुहूश्चैव एका चानुमतिस्तथा ॥ 2.8.80 ॥
तपस्तपस्यै मधुमाधवौ च शुक्रः शुचिश्चायनमुत्तरं स्यात् ।
नभोनभस्यौ च इषस्तथोर्जःसहः सहस्याविति दक्षिणं तत् ॥ 2.8.81 ॥
लोका लोकश्च यः शैलः प्रागुक्तो भवतो मया ।
लोकपालास्तु चत्वारस्तत्र तिष्ठन्ति सुव्रताः ॥ 2.8.82 ॥
सुधामा शङ्खपाच्चैव कर्दमस्यात्मजौ द्विज ।
हिरण्यरोमा चैवान्यश्चतुर्थः केकुमानपि ॥ 2.8.83 ॥
निर्धन्द्वा निरभीमाना निस्तन्द्रा निष्परिग्रहाः ।
लोकपालाः स्थिता ह्येते लोका लोके चतुर्दिशम् ॥ 2.8.84॥
उत्तरं पदगस्त्यस्य अजवीथ्याश्च दक्षिणम् ।
पितृयानः स वै पन्था वैश्वानरपथाद्बाहिः ॥ 2.8.85॥
तत्रासते महात्मान ऋषयो येऽग्निहोत्रिणः ।
भूतारंभकृतं ब्रह्म शंसन्तो ऋत्विगुद्यताः ।
प्रारभन्ते तु ये लोकास्तेषां पन्थाः स दक्षिणः ॥ 2.8.86॥
चलितं ते पुनर्ब्रह्म स्थापयन्ति युगेयुगे ।
सन्तत्या तपसा चैव मर्यादाभिः श्रुतेन च ॥ 2.8.87॥
जायमानास्तु पूर्वे च पश्चिमानां गृहेषु वै ।
पश्चिमाश्चैव पूर्वेषां जायन्ते विधनेष्विह ॥ 2.8.88 ॥
एवमावर्तमानास्ते तिष्ठन्ति नियतव्रताः ।
सवितुर्दक्षिणं मार्गं श्रिता ह्यचन्द्रतारकम् ॥ 2.8.89॥
नागावीथ्युत्तरं यच्च सप्तर्षिभ्यश्च दक्षिणम् ।
उत्तरः सवितुः पन्था देवयानश्च स स्मृतः ॥ 2.8.90 ॥
तत्र ते वासिनः सिद्धाविमला ब्रह्मचारिणः ।
सन्ततिं ते जुगुप्संति तस्मान्मृत्युर्जितश्च तैः ॥ 2.8.91 ॥
अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेत साम् ।
उदक्पन्थनमर्यम्णः स्थिता ह्याभूतसंप्लवम् ॥ 2.8.92 ॥
ते सेप्रयोगाल्लोभस्य मैथुनस्य च वर्जनात् ।
इच्छाद्वेषाप्रवृत्त्या च भूतारम्भवि वर्जनात् ॥ 2.8.93 ॥
पुनश्च कामासंयोगाच्छब्दादेर्देषदर्शनात् ।
इत्येभिः कारणैः शुद्धास्तेमृतत्वं हि भेजिरे ॥ 2.8.94॥
आभूतसंप्लवं स्थानममृतत्वं विभाव्यते ।
त्रैलोक्यस्थितिकालोयमपुनर्मार उच्यते ॥ 2.8.95॥
ब्रह्महत्याश्वमेधाभ्यां पापपुण्यकृतो विधिः ।
आभूतसंप्लवान्तन्तु फलमुक्तं तयोर्द्विज ॥ 2.8.96॥
यावन्मात्रे प्रदेशे तु मैत्रेयावस्थितो ध्रुवः ।
क्षयमायाति तावत्तु भूमेराभूतसंप्लवात् ॥ 2.8.97॥
ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः ।
एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भासुरम् ॥ 2.8.98 ॥
निर्धूतदोषपङ्कानां यतीनां संयतात्मनाम् ।
स्थानं तत्परमं विप्र पुण्यपापपरिक्षये ॥ 2.8.99॥
अपुण्यपुण्योपरमे क्षीणाशेषाप्तिहेतवः ।
यत्र गत्वा न शोचन्ति तद्विष्णोः परपं पदम् ॥ 2.8.100 ॥
धर्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाक्षिणः ।
तत्सार्ष्ट्योत्पन्नयोगर्धिस्तद्विष्णोः परमंपदम् ॥ 2.8.101 ॥
यत्रोतमेतत्प्रोतं च यद्भूतं सचराचरम् ।
भव्यं य विश्वं मैत्रेय तद्विष्णोः परमं पदम् ॥ 2.8.102 ॥
दिवीव चक्षुराततंयोगिनां तन्मयात्मनाम् ।
विवेकज्ञानदृष्टं च तद्विष्णोः परमं पदम् ॥ 2.8.103 ॥
यस्मिन्प्रतिष्ठितो भास्वान्मेढीभूतः स्वयं ध्रुवः ।
ध्रुवे च सर्वज्योतींषि ज्योतिष्वम्भोमुचो द्विज ॥ 2.8.104॥
मेघेषु संगता वृष्टिर्वृष्टेः सृष्टेश्च पोषणम् ।
आप्यायनं च सर्वेषां देवादीनां महामुने ॥ 2.8.105॥
ततश्चाज्याहुतिद्वारा पोषितास्ते हविर्भुजः ।
वृष्टेः कारणतां यान्ति भूतानां स्थितये पुनः ॥ 2.8.106॥
एवमेतत्पदं विष्णोस्तृतीयममलात्मकम् ।
आधारभूतं लोकानां त्रयाणां वृष्टिकारणम् ॥ 2.8.107॥
ततः प्रभवति ब्रह्मन् सर्वपापहरा सरित् ।
गङ्गा देवाङ्गनाङ्गानामनुलेपनपिञ्जरा ॥ 2.8.108 ॥
वामपादाम्बुजाङ्गुष्ठनखस्त्रोतोविनिर्गताम् ।
विष्णोर्बिभार्ति यां भक्त्या शिरसाहर्निशं ध्रुवः ॥ 2.8.109॥
ततः सप्तर्षयो यस्याः प्राणायामपरा यणाः ।
तिष्ठन्ति वीचिमालाभिरुह्यमानजटाजले ॥ 2.8.110 ॥
वार्योघैः संततैर्यस्याः प्लावितं शशिमण्डलम् ।
भूयोधिकतरां कान्तिं वहत्येतदुह क्षये ॥ 2.8.111 ॥
मेरुपृष्टे पतत्युच्चैर्निष्क्रान्ता शशिमण्डलात् ।
जगतः पावनार्थाय प्रयाति च चतुर्दिशम् ॥ 2.8.112 ॥
सीती चालकनन्दा च चक्षुर्भद्रा च संस्थिता ।
एकैव या चतुर्भेदा दिग्भेदगतिलक्षणा ॥ 2.8.113 ॥
भेदं चालकनन्दाख्यं यस्याः शर्वोपि दक्षिणाम् ।
दधार शिरसा प्रीत्य वर्षाणामधिकं शतम् ॥ 2.8.114॥
शम्भोर्जटाकलापाच्च विनिष्क्रान्ताश्थिशर्कराः ।
प्लावयित्वा दिवं निन्ये या पापान्सगरात्मजान् ॥ 2.8.115॥
स्त्रातस्य सलिले यस्याः सद्यः पापं प्रणश्यति ।
अपूर्वपुण्यप्राप्तिश्च सद्यो मैत्रेय जायते ॥ 2.8.116॥
दत्ताः पितृभ्यो यत्रापस्तनयैः श्रद्धयान्वितैः ।
समाशतं प्रयच्छन्ति तृप्तिं मैत्रेय दुर्लभाम् ॥ 2.8.117॥
यस्यामिष्ट्वा महायज्ञैर्यज्ञेशं पुरुषोत्तमम् ।
द्विजभूपाः परां सिद्धिमवापुर्दिवि चेह च ॥ 2.8.118 ॥
स्नानाद्विधूतपापाश्च यज्जलैर्यतयस्तथा ।
केशबासक्तमनसः प्राप्ता निर्वाणमुत्तमम् ॥ 2.8.119॥
श्रुताभिलषिता दृष्टा स्पृष्टा पीतावगाहिता ।
या पावयति भूतानि कीर्तिता च दिवेदिने ॥ 2.8.120 ॥
गगागङ्गेति यैर्नामयोजनाना शतष्वपि ।
स्थितैरुच्चारितं हन्ति पापं जन्मत्रयार्जितम् ॥ 2.8.121 ॥
यतः सा पावनायालं त्रयाणां जगतामपि ।
समुद्भूता परं तत्तु तृतीयं भगवत्पदम् ॥ 2.8.122 ॥
इति श्रीविष्णुमहापुराणे द्वितीयेऽंशेऽष्टमोऽध्यायः (8)
श्रीपारशर उवाच
तारामयं भगवतः शिशुमाराकृति प्रभोः ।
दिवि रूपं हरेर्यत्तु तस्य पुच्छे स्थितो ध्रुवः ॥ 2.8.1 ॥
सैष भ्रमन् भ्रामयति चन्द्रादित्यादिकान् ग्रहान् ।
भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत् ॥ 2.8.2॥
सूर्याचन्द्रमसौ तारा नक्षत्रामि ग्रहैः सह ।
वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै ॥ 2.8.3 ॥
शिशुमाराकृति प्रोक्तं यद्रूपं ज्योतिषां दिवि ।
नारायणोऽयनं धाम्नां तस्याधारः स्वयं हृदि ॥ 2.8.4 ॥
उत्तानपादपुत्रस्तु तमाराध्य जगत्पतिम् ।
स तारा शिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः ॥ 2.8.5॥
आधारः शिशुमारस्य सर्वाध्यक्षो जनार्दनः ।
ध्रुवस्य शिशुमारस्तु ध्रुवे भानुर्व्यवस्थितः ॥ 2.8.6॥
तदाधारं जगच्चेदं सदेवासुरमानुषम् ॥ 2.8.7॥
येन विप्रविधानेन तन्ममैकमनाः शृणु ।
विवस्वानष्टभिर्मासैरादायापो रसात्मिकाः ।
वर्षत्यम्बुततश्चान्नमन्नादप्यखिलं जगत् ॥ 2.8.8॥
विवस्वानंशुभिस्तीक्ष्णैरादाय जगतो जतम् ।
सोमं पुष्मात्यथेन्दुश्च वायुनाडीमयैर्दिवि ।
नालैर्विक्षिपतेऽभ्रेषु धूमाग्न्यनिलमूर्तिषु ॥ 2.8.8 ॥
न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः ।
अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः ।
संस्कारं कांलजनितं मैत्रेयासाद्य निर्मलाः ॥ 2.8.10 ॥
सरित्समुद्रभोमास्तु तथापः प्राणिसम्भवाः ।
चतुष्प्रकारा भगवानादत्ते सविता मुने ॥ 2.8.11 ॥
आकाशगङ्गासलिलं तथादायगभस्तिमान् ।
अनभ्रगतमेवोर्व्यां सद्यः क्षिपति रश्मिभिः ॥ 2.8.12 ॥
तस्य संस्पर्शनिर्धूतपापपङ्को द्विजोत्तम ।
न याति नरकं मर्त्यो दिव्यं स्नानं हि तत्स्मृतम् ॥ 2.8.13 ॥
दृष्टसूर्यं हि यद्वारि पतत्यभ्रैर्विना दिवः ।
आकाशगङ्गासलिलं तद्गोभिः क्षिप्यते रवेः ॥ 2.8.14॥
कृत्तिकादिषु ऋक्षेषु विषमेषु च यद्दिवः ।
दृष्टार्कपतितं ज्ञेयं तद्गाङ्गं दिग्गजोज्झितम् ॥ 2.8.15॥
युग्मर्क्षेषु च यत्तोयं पतत्यर्कोज्झितं दिवः ।
तत्सूर्यरश्मिभिः सर्वं समादाय निरस्यते ॥ 2.8.16॥
उभयं पुण्यमत्यर्थं नृणां पापभयापहम् ।
आकाशगङ्गासलिलं दिव्यं स्नानं महामुने ॥ 2.8.17॥
यत्तु मैघैः समुत्सृष्टं वारि तत्प्राणिनां द्विज ।
पुष्णात्यौषधयः सर्वा जीवनायामृतं हि तत् ॥ 2.8.18 ॥
तेन वृद्धिं परां नीतः सकलश्चौषधीगणः ।
साधकः फलपाकन्तः प्रजानां द्विज जायते ॥ 2.8.19॥
तेन यज्ञान्यथाप्रोक्तान्मानवाः शास्त्रचक्षुषः ।
कुर्वन्त्यहरहस्तैश्च देवानाप्याययन्तिते ॥ 2.8.20 ॥
एवं यज्ञाश्च वेदाश्च वर्णाश्च द्विजपूर्वकाः ।
सर्वे देवनिकायाश्च सर्वे भूतगणाश्च ये ॥ 2.8.21 ॥
वृष्ट्या धृतमिदं सर्वमन्नं निष्पाद्यते यया ।
सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तम ॥ 2.8.22 ॥
आधारभूतः सवितुर्ध्रुवो मुनिवरोत्तम ।
ध्रुवस्य शिशुपारोऽसौ सोऽपि नारायणात्मकः ॥ 2.8.23 ॥
हृदि नारायणस्तस्य शिशुमारस्यं संस्थितः ।
बिभर्ता सर्वभूतानामादिभूतः सनातनः ॥ 2.8.24॥
इति श्रीविष्णुमहापुराणे द्वितीयेऽंशे नवमोऽध्यायः (8)
श्रीपराशर उवाच [Sage Parasara said]
त्र्यशीतिमण्डलशतं काष्ठयोरन्तरं द्वयोः ।
आरोहणावरोहाभ्यां भानोरब्देन या गतिः ॥ 2.10.1 ॥
स रथोधिष्ठितो देवैरादित्यै ऋषिभिस्तथा ।
गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥ 2.10.2॥
धाता क्रतुस्थला चैव पुलस्त्यो बासुकिस्तथा ।
रथभृद्ग्रामणीर्हेतिस्तुम्बुरुश्चैव सप्तमः ॥ 2.10.3 ॥
एते वसन्ति वै चैत्रे मधुमासे सदैव हि ।
मैत्रेय स्यन्दने भानोः सप्तमासाधिकारिणः ॥ 2.10.4 ॥
अर्यमा पुलहश्चैव रथौजाः पुञ्चिकस्थला ।
प्रहेतिः कच्छवीरश्व नारदश्च रथे रवेः ॥ 2.10.5॥
माधवे निवसन्त्येते शुचिसंज्ञे निबोध मे ॥ 2.10.6॥
मित्रोत्रिस्तक्षको रक्षः पौरुषेयोथ मेनका ।
हाहा रथस्वनश्चैव मैत्रेयैते वसन्ति वै ॥ 2.10.7॥
वरुणो वसिष्ठो रम्भा च सहजन्या हुहूरथः ।
रथचित्रस्तथा शुक्रे वसन्त्याषाढसंज्ञके ॥ 2.10.8॥
इन्द्रो विश्वावसुः स्रोता एलापुत्रस्तथाङ्गिराः ।
प्रम्लोचा च न भस्येते सप्तिश्चार्के वसन्ति वै ॥ 2.10.8 ॥
विवस्वानुग्रसेनश्च भृगुरापूरणस्तथा ।
अनुम्लोचा शङ्खपालो व्याघ्रो भाद्रपदे तथा ॥ 2.10.10 ॥
पूषा च सुरुचिर्वातो गौतमोथ धनञ्जयः ।
सुषेणोऽन्यो घृताची च वसन्त्याश्वयुजे रवौ ॥ 2.10.11 ॥
विश्वावसुर्भरद्वाजः पर्जन्यैरावतौ तथा ।
विश्वाची सेनजिच्चापि कार्त्तिके च वसन्ति वै ॥ 2.10.12 ॥
अंशः काश्यपतार्क्ष्यास्तु महापद्मस्तथोर्वशी ।
चित्रसेनस्तथा विद्युन्मार्गशीर्षेधिकारिणः ॥ 2.10.13 ॥
क्रतुर्भगस्ततोर्णायुः स्फूर्जः कार्कोटकस्तथा ।
अरिष्टनेमिश्चैवान्या पूर्वाचित्तिर्वराप्सराः ॥ 2.10.14॥
पौषमासे वसन्त्येते सप्तभास्करमणाले ।
लोकप्रकाशनार्थाय विग्रवर्याधिकारिणः ॥ 2.10.15॥
त्वष्टाथ जमदग्निश्च कम्बलोभ तिलोत्तमा ।
ब्रह्मोपेतोथ ऋतजिद्धृतराष्ट्रोथ सप्तमः ॥ 2.10.16॥
माघमासे वसन्त्त्येते सप्त मैत्रेय भास्करे ।
श्रूयतां चापरे सूर्ये फाल्गुनेनिवसन्ति यो ॥ 2.10.17॥
विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित् ।
विश्वामित्रस्तथा रक्षो यज्ञोपेतो महामुने ॥ 2.10.18 ॥
मासेष्वेतेषु मैत्रेय वसन्त्येते तु सप्तकाः ।
सवितुर्मण्डले ब्रह्मन्विष्णुसक्त्युपबृंहिताः ॥ 2.10.19॥
स्तुवन्ति मुनयः सूर्यं गन्धर्वैर्गीयते पुरः ।
नृत्यन्त्यप्सरसो यान्ति सूर्यस्यानुनिशाचराः ॥ 2.10.20 ॥
वहन्ति पन्नगा यक्षैः क्रियतेऽभीषुसंग्रहः ॥ 2.10.21 ॥
वालखित्यास्तथैवैनं परिवार्य समासते ॥ 2.10.22 ॥
सोयं सप्तगणः सूर्यमण्डले मुनिसत्तम ।
हिमोष्णवारिवृष्टीनां हेतुः स्वसमयं गतः ॥ 2.10.23 ॥
इति क्षिविष्णुमहापुराणे द्वितीयेऽंशे दशमोऽध्यायः (10)
मैत्रेय उवाच
यदेतद्भगवानाह गणः सप्तविधो रवेः ।
मण्डले हिमतापादेः कारणं तन्मया श्रुतम् ॥ 2.11.1 ॥
व्यापारश्चापिकथितो गन्धर्वोरगरक्षसाम् ।
ऋषीणां वालखिल्यानां तथैवाप्सरसां गुरो ॥ 2.11.2॥
यक्षाणां च रथे भानोर्विष्णुशक्तिधृतात्मनाम् ।
किं चादित्यस्य यत्कर्म तन्नात्रोक्तं त्वया मुने ॥ 2.11.3 ॥
यदि सप्तगणो वारि हिममुष्णं च वर्षति ।
तत्किमत्र रवेर्येन वृष्टिः सूर्यादितीर्यते ॥ 2.11.4 ॥
विवस्वानुदितो मध्ये यात्यस्तमिति किं जनः ।
ब्रवीत्येतत्समं कर्म यदि सप्तगणस्य तत् ॥ 2.11.5॥
पराशर उवाच
मैत्रेयश्रूयतामेतद्यद्भवान्परिपृच्चति ।
यथा सप्तगणोप्येकः प्राधान्येनाधिको रविः ॥ 2.11.6॥
सर्वशक्तिः परा विष्णो ऋग्यजुःसामसंज्ञिता ।
सैषात्रयी तपत्यंहो जगतश्च हिनस्ति या ॥ 2.11.7॥
सैष विष्णुः स्थितः स्थित्यां जगतः पालनोद्यतः ।
ऋग्यजुः सामभूतोन्तः सवितुर्द्विजतिष्ठति ॥ 2.11.8॥
मासिमासि रविर्योयस्तत्र तत्र हि सा परा ।
त्रयीमयी विष्णुशक्तिरवस्थानं करोति वै ॥ 2.11.8 ॥
ऋचस्तुवन्तिः पूर्वाह्ने मध्याह्नेथ यजूंषि वै ।
बृहद्रथन्तरादीनि सामान्यह्नः क्षये रविम् ॥ 2.11.10 ॥
अङ्गमेषा त्रयी विष्णो ऋग्यजुः सामसंज्ञिता ।
विष्णुशक्तिरवस्थानं सदादित्ये करोति सा ॥ 2.11.11 ॥
न केवलं रवेः शक्तिर्वैष्णवी सा त्रयीमयी ।
ब्रह्माथ पुरुषो रुद्रस्त्रयमेतत्त्रयीमयम् ॥ 2.11.12 ॥
सर्गादौ ऋङ्मयो ब्रह्मा स्थितौ विष्णुर्यजुर्मयः ।
रुद्रः साममयोन्ताय तस्मात्तस्याशुचिर्थ्वनिः ॥ 2.11.13 ॥
एवं सा सात्त्विकी शक्तिर्वैष्णवी या त्रयीमयी ।
आत्मसप्तगणस्थं तं भास्वन्तमधितिष्ठति ॥ 2.11.14॥
तया चाधिष्ठितः सोऽपि जाज्वलीति स्वरश्मिभिः ।
तमः समस्तजगतां नाशंनयति चाखिलम् ॥ 2.11.15॥
स्तुवन्ति चैनं मुनयो गन्धर्वैर्गीयते पुरः ।
नृत्यन्त्योऽप्सरसो यान्ति तस्य चानु निशाचराः ॥ 2.11.16॥
वहन्ति पन्नगा यक्षैः क्रियतेऽभीषुसंग्रहः ।
वालखिल्यास्तथैवैनं परिवार्य समासते ॥ 2.11.17॥
नोदेता नास्तमेता च कदाचिच्छक्तिरूपधृक् ।
विष्णुर्विष्णोः पृथक्तस्य गणाःसप्तविधोऽप्ययम् ॥ 2.11.18 ॥
स्तम्भस्थदर्पणस्येव योऽयमासन्नतां गतः ।
छायादर्शनसंयोगं स तं प्राप्नोत्यथात्मनः ॥ 2.11.19॥
एवं सा वैष्णवी शक्तिर्नैवापैति ततो द्विज ।
मासानुमासं भास्वन्तमध्यास्ते तत्र संस्थितम् ॥ 2.11.20 ॥
पितृदेवमनुष्यादीन्स सदाप्याययन्प्रभुः ।
परिवर्तत्यहोरात्रकारणं सविता द्वज ॥ 2.11.21 ॥
सूर्यरश्मिसुषुम्णायस्तर्पितस्तेन चन्द्रमाः ।
कृष्णपक्षेमरैः शश्वत्पीयते वै सुधामयः ॥ 2.11.22 ॥
पीतं तं द्विकलं सोमं कृष्णपक्षक्षये द्विज ।
पिबन्ति पतरस्तेषां भास्करात्तर्पमं तथा ॥ 2.11.23 ॥
आदत्ते रश्मिभिर्यंतु क्षितिसंस्थं रसं रविः ।
तमुत्सृजति भूतानां पुष्ट्यर्थं सस्यवृद्धये ॥ 2.11.24॥
तेन प्रीणात्यशेषाणि भूतानि भगवान्रविः ।
पितृदेवमनुष्यादीनेवमाप्याययत्यसौ ॥ 2.11.25॥
पक्षतृप्तिं तु देवानां पितॄणां चैव मासिकीम् ।
शश्वत्तृप्तिं च मर्त्यानां मैत्रेयार्कः प्रयच्छति ॥ 2.11.26॥
इति श्रीविष्णुमहापुराणे द्वितीयेंश एकादशोऽध्यायः (11)
श्रीपराशर उवाच [Sage Parasara said]
रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः ।
वामदक्षिणतो युक्ता दशतेन चरत्यसौ ॥ 2.12.1 ॥
वीथ्याश्रयाणि ऋक्षाणि ध्रुवाधारेण वेगिना ।
ह्रासवृद्धिक्रमस्तस्य रश्मीनां सवितुर्यथा ॥ 2.12.2॥
अर्कस्येव हि तस्याश्वाः सकृद्युक्ता वहन्ति ते ।
कल्पमेकं मुनिश्रेष्ठ वारीगर्भसमुद्भवाः ॥ 2.12.3 ॥
क्षीणं पीतं सुरैः सोममाप्याययति दीप्तिमान् ।
मैत्रेयैककलं सन्तं रश्मिनैकेन भास्करः ॥ 2.12.4 ॥
क्रमेण येन पीतोऽसौ देवैस्तेन निशाकरम् ।
आप्याययत्यनुदिनं भास्करो वारितस्करः ॥ 2.12.5॥
संभृतं चार्धमासेन तत्सोमस्थं सुधामृतम् ।
पिबन्दि देवा मैत्रेय सुधाहारा यतोऽमराः ॥ 2.12.6॥
त्रयास्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च ।
त्रयस्त्रिंशत्तथा देवाः पिबन्ति क्षणदाकरम् ॥ 2.12.7॥
कलाद्वयाविशिष्टस्तु प्रविष्टः सूर्यमण्डलम् ।
अमाख्यारश्मौ वसति अमावास्या ततः स्मृता ॥ 2.12.8॥
अप्सु तस्मिन्नहोरात्रे पूर्वं विशति चन्द्रमाः ।
ततो वीरुत्सु वसति प्रयात्यर्कं ततः क्रमात् ॥ 2.12.8 ॥
छिनत्ति विरुधो यस्तु वीरुत्संस्थे निशाकरे ।
पत्रं वा पातयत्येकं ब्रह्महत्यां स विन्दति ॥ 2.12.
10 ॥
सोमं पञ्चदशे भागे किञ्चिच्छिष्टे कलात्मके ।
अपाराह्ने पितृगणाजघन्यं पर्युपासते ॥ 2.12.11 ॥
पिबन्ति द्विकलाकारं शिष्टा तस्य कला तु या ।
सुधामृतमयी पुण्या तामिन्दोः पितरो मुने ॥ 2.12.12 ॥
निःसृतन्तदमावास्यां गभस्तिभ्यः सुधामृतम् ।
मासं तृप्तिमवाप्याग्र्यां पितरः सन्ति निर्वृताः ।
सौम्या बर्हिषदश्चैव अग्निष्वात्ताश्च ते त्रिधा ॥ 2.12.13 ॥
एवं देवान् सिते पक्षे कृष्णपक्षे तथा पितॄन् ।
वीरुधश्चामृतमयैः शीतैरप्परमाणुभिः ॥ 2.12.14॥
वीरुधौषधिनिष्पत्त्या मनुष्यपशुकीटकान् ।
आप्याययति शीतांशुः प्राकाश्याह्लादनेन तु ॥ 2.12.15॥
वाय्वग्निद्रव्यसंभूतो रथश्चन्द्रसुतस्य च ।
पिशङ्गैस्तुरगैर्युक्तः सोऽष्टाभिर्वायुवेगिभिः ॥ 2.12.16॥
सवरूथः सानुकर्षो युक्तो भूसंभवैर्हयैः ।
सोपासंगपताकस्तु शुक्रस्यापि रथो महान् ॥ 2.12.17॥
अष्टाश्वः काञ्चनः श्रीमान्भौमस्यापि रथो महान् ।
पद्मरागारुणैरश्वैः संयुक्तो वह्निसम्भवैः ॥ 2.12.18 ॥
अष्टाभिः पाण्डुरैर्युक्तो वाजिभिः काञ्चनोरथः ।
तस्मिंस्तिष्ठति वर्षान्ते राशौराशौ वृहस्पतिः ॥ 2.12.19॥
आकाशसम्भवैरश्वैः शबलैः स्यन्दनं युतम् ।
तमारुह्य शनैर्याति मन्दगामीशनैश्चरः ॥ 2.12.20 ॥
स्वर्भानोस्तुरगा ह्यष्टौ भृङ्गाभा धूसरं रथम् ।
सकृद्युक्तास्तु मैत्रेय वहन्त्यविरतं सदा ॥ 2.12.21 ॥
आदित्यान्निःसृतो राहुः सोमं गच्छति पर्वसु ।
आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु ॥ 2.12.22 ॥
तथा केतुरथस्याश्वा अप्यष्टौ वातरंहसः ।
पलालधूमवर्णाभा लाक्षारसनिभारुणाः ॥ 2.12.23 ॥
एते मया ग्रहाणां वै तवाख्याता रथा नव ।
सर्वे ध्रुवे महाभाग प्रबद्धा वायुरश्मिभिः ॥ 2.12.24॥
ग्रहर्क्षताराधिष्ण्यानि ध्रुवे बद्धान्यशेषतः ।
भ्रमन्त्युचितचारेण मैत्रेयानिलरश्मिभिः ॥ 2.12.25॥
यावान्त्यश्चैव तारास्ता तावन्तो वातरश्मयः ।
सर्वे ध्रुवे निबद्धास्ते भ्रमन्तो भ्रामयन्ति तम् ॥ 2.12.26॥
तैलपीडा यथा चक्रं भ्रमन्तो भ्रामयन्ति वै ।
तथा भ्रमन्ति ज्योतींषि वातविद्धानि सर्वशः ॥ 2.12.27॥
अलातचक्रवद्यान्ति वातचक्रेरितानि तु ।
यस्मज्योतींषि वहति प्रवहस्तेन स स्मृतः ॥ 2.12.28 ॥
शिशुमारस्तु यः प्रोक्तः स ध्रुवो यत्र तिष्ठति ।
सन्निवेशं च तस्यापि शृणुष्व मुनिसत्तम ॥ 2.12.29॥
यदह्ना कुरुते पापं तं दृष्ट्वा निशि मुच्यते ।
यावन्त्यश्चैव तारास्ताः शिशुमाराश्रिता दिवि ।
तावन्त्येव तु वर्षाणि जीवत्यभ्यधिकानिच ॥ 2.12.30 ॥
उत्तानपादस्तस्याधो विज्ञेयो ह्युत्तरो हनुः ।
यज्ञोऽधरश्च विज्ञेयो धर्मो मूर्धानमाश्रितः ॥ 2.12.31 ॥
हृदि नारायणश्चास्ते अश्विनौ पूर्वपादयोः ।
वरुणश्चार्यमा चैव पश्चिमे तस्य सक्थिनी ॥ 2.12.32 ॥
शिश्रः संवत्सरस्तस्य मित्रोऽपानं समाश्रितः ॥ 2.12.33 ॥
पुच्छेग्निश्च महेन्द्रश्च कस्यपोथ ततो ध्रुवः ।
तारका शिशुमारस्य नास्तमेति चतुष्टयम् ॥ 2.12.34॥
इत्येष सन्निवेशोऽयं पृथिव्या ज्योतिषां तथा ।
द्वीपानामुदधीनां च पर्वतानां च कीर्तितः ॥ 2.12.35॥
वर्षाणां च नदीनां च ये च तेषु वसन्ति वै ।
तेषां स्वरूपमाख्यातं संक्षेपः श्रुयतां पुनः ॥ 2.12.36॥
यदम्बु वैष्णवः कायस्ततो विप्र वसुन्धरा ।
पद्माकारा समुद्भूता पर्वताब्ध्यादिसंयुता ॥ 2.12.37॥
ज्योतीषि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्च ।
नद्यः समुद्राश्च स एव सर्वं यदस्ति यन्नास्ति च विप्रवर्य ॥ 2.12.38 ॥
ज्ञानस्वरूपो भगवान्यतोसा वशेषमूर्तिर्न तु वस्तुभूतः ।
ततो हि शैलब्धिधरादिभेदाञ्जानीहि विज्ञानविजृम्भितानि ॥ 2.12.39॥
यदा तु शुद्धं निजरूपि सर्वं कर्मक्षये ज्ञानमपास्तदोषम् ।
तदा हि संकल्पतरोः फलानि भवन्ति नो वस्तुषु वस्तुभेदाः ॥ 2.12.40 ॥
वस्त्वस्ति किं कुत्राचिदादिमध्यपर्यन्तहीनं सततैकरूपम् ।
यच्चान्यथात्वं द्विज याति भूयो न तत्तथा तत्र कुतो हि तत्त्वम् ॥ 2.12.41 ॥
मही घटत्वं घटतः कपालिका कपालिकाचूर्णरजस्ततोऽणुः ।
जनैः स्वकर्मस्तिमितात्मनिश्चयैरालक्ष्यते ब्रूहि किमत्र वस्तु ॥ 2.12.42 ॥
ज्ञानं विशुद्धं विमलं विशो कमशेषलोभादिनिरस्तसङ्गम् ।
एकं सदैकं परमः स वासुदेवो न यतोऽन्यदस्ति ॥ 2.12.44॥
सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमस्तयत्यमन्यत् ।
एतत्तु यत्संव्यवहारभूतं तत्रापि चोक्तं भुवनाश्रितं ते ॥ 2.12.45॥
यज्ञः पशुर्वह्निरशेषऋत्विक्सोमः सुराः स्वर्गमयश्च कामः ।
इत्यादिकर्माश्रितमार्गदृष्टं भूरादिभोगाश्च फलानि तेषाम् ॥ 2.12.46॥
यच्चैतद्भुवनगतं मया तवोक्तं सर्वत्र व्रजति हि तत्र कर्मवश्यः ।
ज्ञात्वैवं ध्रुवमचलं सदैकरूपं तत्कुर्याद्विशति हि येन वासुदेवम् ॥ 2.12.47॥
इति श्रीविष्णुमहापुराणे द्वितीयेऽंशे द्वादशोऽध्यायः (12)
मैत्रेय उवाच
भगवन्सम्यगाख्यातं यत्पृष्टोसि मया किल ।
भूसमुद्रादिसरितां संस्थानं ग्रहसं स्थितिः ॥ 2.13.1 ॥
विष्ण्वाधारं यथा चैतत्त्रैलोक्यं समवस्थितम् ।
परमार्थस्तु ते प्रोक्तो यथाज्ञानं प्रधानतः ॥ 2.13.2॥
यत्त्वेतद्भगवानाह भरतस्य महीपतेः ।
श्रोतुमिच्छमि चरितं तन्ममाख्यातुमर्हसि ॥ 2.13.3 ॥
भरतः स महीपालः सालग्रामेऽवसत्किल ।
योगयुक्तः समाधाय वासुदेवे सदा मनः ॥ 2.13.4 ॥
पुण्येदेशप्रभावेन ध्यायतश्च सदा हरिम् ।
कथं तु नाभवन्मुक्तिर्यदभूत्स द्विजः पुनः ॥ 2.13.5॥
विप्रत्वे च कृतं तेन यद्भूयः सुमहात्मना ।
भरतेन मुनिश्रेष्ठ तत्सर्वं वक्तुमर्हसि ॥ 2.13.6॥
श्रीपराशर उवाच [Sage Parasara said]
सालग्रामे महाभागो भगवन्न्यस्तमानसः ।
स उवास चिरं कालं मैत्रेय पृतिवीपतिः ॥ 2.13.7॥
अहिंसादिष्वशेषेषु गुणेषु गुणिनां वरः ।
अवाप परमां काष्ठां मनसश्चापि संयमे ॥ 2.13.8॥
यज्ञेशाच्युत गोविन्द माधवानन्त केशव ।
कृष्ण विष्णो हृषीकेश वासुदेव नमोस्तु ते ॥ 2.13.8 ॥
इति राजाह भरतो हरेर्नामानि केवलम् ।
नान्यज्जगाद मैत्रेय किञ्चित्स्वप्रान्तरेपि च ।
एतत्पदन्तदर्थं च विना नान्यदचिन्तयत् ॥ 2.13.10 ॥
समित्पुष्पकुशादानं चक्रे देवक्रियाकृते ।
नान्यानि चक्रे कर्माणि निःसङ्गो योगतापसः ॥ 2.13.11 ॥
जगाम सोभिषेकार्थमेकदा तु महानदीम् ।
सस्नौ तत्र तदा चक्रे स्नानस्यानन्तरक्रियाः ॥ 2.13.12 ॥
अथाजगाम तत्तीरं जलं पातुं पिपासिता ।
आसन्नप्रसवा ब्रह्मन्नेकैव हरिणी वनात् ॥ 2.13.13 ॥
ततः समभवत्तत्र पीतप्राये जले तथा ।
सिंहस्य नादः सुमहान्सर्वप्राणिभयङ्करः ॥ 2.13.14॥
ततः सा सहसा त्रासादाप्लुता निम्नगातटम् ।
अत्युच्चारोहणेनास्या नद्यां गर्भः पपात ह ॥ 2.13.15॥
तमूह्यमानं वेगेन वीचिमालापरिप्लुतम् ।
जग्राह स नृपो गर्भात्पतितं मृगपोतकम् ॥ 2.13.16॥
गर्भप्रच्युतिदोषेण प्रोत्तुङ्गाक्रमणेन च ।
मैत्रेय सापि हरिणी पपात च ममार च ॥ 2.13.17॥
हरिणीं तां विलोक्याथ विपन्नां तृपतापसः ।
मृगपोतं समादाय निजमाश्रममागतः ॥ 2.13.18 ॥
चकारानुदिनं चासौ मृगपोतस्य वै नृपः ।
पोषणं पुष्यमाणश्च स तेन ववृधे मुने ॥ 2.13.19॥
चचाराश्रमपर्यन्ते तृणानि गहनेषु सः ।
द्वरं गत्वा च शार्दुलत्रासादभ्याययौ पुनः ॥ 2.13.20 ॥
प्रातर्गत्वातिदूरं च सायमायात्यथाश्रमम् ।
पुनश्च भरतस्यभूदाश्रमस्योटजाजिरे ॥ 2.13.21 ॥
तस्य तस्मिन्मृगे दूरसमीपपरिवर्तिनि ।
आसीच्चेतः समासक्तं न ययावन्यतो द्विज ॥ 2.13.22 ॥
विमुक्तराज्यतनयः प्रोज्झिताशेषबान्धवः ।
ममत्वं स चकारोच्चैस्तस्मिन्हरिणबालके ॥ 2.13.23 ॥
किं वृकैर्भक्षितो व्यघ्रैः किं सिंहेन निपातितः ।
चिरायमाणे निष्क्रान्ते तस्यासीदिति मानसम् ॥ 2.13.24॥
एषा वसुमती तस्य खुराग्रक्षतकर्बुरा ॥ 2.13.25॥
प्रीतये मम जातोसौ क्व ममैणकबालकः ।
विषामाग्रोण मद्बाहुं कण्डूयनपरो हि सः ।
क्षेमेणाभ्यागतोरण्यादपि मां सुखयिष्यति ॥ 2.13.26॥
एते लूनशिखास्तस्य दशनैरचिरोद्गतैः ।
कुशाः काशा विराजन्ते बटवः सामागा इव ॥ 2.13.27॥
इत्थं चिरगते तस्मिन्स चक्रे मानसं मुनिः ।
प्रीतिप्रसन्नवदनः पार्श्वस्थे चाभवन्मृगे ॥ 2.13.28 ॥
समाधिभङ्गस्तस्यासीत्तन्मयत्वादृतात्मनः ।
सन्त्यक्तराज्यभोगर्धिस्वजनस्यापि भूपतेः ॥ 2.13.29॥
चपलं चपले तस्मिन्दूरगं दूरगामिनि ।
मृगपोतेऽभवच्चित्तं स्तैर्यवत्तस्य भूपतेः ॥ 2.13.30 ॥
कालेन गच्छता सोऽथ कालं चक्रे महीपतिः ।
पितेव सास्त्रं पुत्रेण मृगपोतेन वीक्षितः ॥ 2.13.31 ॥
मृगमेव तदाद्राक्षीत्त्यजन्प्राणानसावपि ।
तन्मयत्वेन मैत्रेय नान्यत्किञ्चिदचिन्तयत् ॥ 2.13.32 ॥
ततश्च तत्कालकृतां भावनां प्राप्य तादृशीम् ।
जम्बूमार्गे महारण्ये जातो जातिस्मरोमृगः ॥ 2.13.33 ॥
जातिस्मरत्वदुद्विग्नः संसारस्य द्विजोत्तम ।
विहाय मातरं भूयः सालग्राममुपाययो ॥ 2.13.34॥
शुष्कैस्तृणैस्तथा पर्णैः स कुर्वन्नात्मपोषणम् ।
मृगत्वहेतुभूतस्य कर्मणो निष्कृतिं ययौ ॥ 2.13.35॥
तत्र चोत्सृष्टदेहोऽसौ जज्ञे जातिस्मरो द्विजः ।
सदाचारवतांशुद्धे योगिनां प्रवरे कुले ॥ 2.13.36॥
सर्वविज्ञानसंपन्नः सर्वशास्त्रर्थतत्त्ववित् ।
अपश्यत्य च मैत्रेय आत्मानं प्रकृतेः परम् ॥ 2.13.37॥
आत्मनोऽधिगतज्ञानो देवादीनि महामुने ।
सर्वभूतान्यभेदेन स ददर्श तदात्मनः ॥ 2.13.38 ॥
न पपाठ गुरुप्रोक्तं कृतोपनयनः श्रुतिम् ।
न ददर्श च कर्माणि शास्त्राणि जगृहे न च ॥ 2.13.39॥
उक्तोपि बहुशः किञ्चिज्जडवाक्यमभाषत ।
तदप्यसंस्कारगुणं ग्राम्यवाक्योक्तिसंश्रितम् ॥ 2.13.40 ॥
अपध्वस्तवपुः सोऽपि मलिनाम्बरग्द्विजः ।
क्लिन्नदन्तान्तरः सर्वैः परिभूतः स नागरैः ॥ 2.13.41 ॥
संमाननापरां हानिं योगर्धः कुरुते यतः ।
जनेनावमतो योगी योगसिद्धं च विन्दति ॥ 2.13.42 ॥
तस्माच्चरेत वै योगी सतां धर्ममदूषयन् ।
जना यथा वमन्येरन्गच्छेयुर्नैव सङ्गतिम् ॥ 2.13.43 ॥
हिरण्यगर्भवचनं विचिन्त्येत्थं महामतिः ।
आत्मानं दर्शयामास जडोन्मत्ताकृतिं जने ॥ 2.13.44॥
भुक्ते कुल्माषवाट्यादिशाकं वन्यं फलं कणान् ।
यद्यदाप्नोति सुबहु तदत्ते कालसंयमम् ॥ 2.13.45॥
पितर्युपरते सोऽथ भ्रातृभ्रातृव्यबान्धवैः ।
कारितः क्षेत्रकर्मादिकदन्नाहारपोषितः ॥ 2.13.46॥
समाक्षपीनावयवो जडकारी च कर्मणि ।
सर्वलोकोपकरणं बभूवाहारचेतनः ॥ 2.13.47॥
तं तादृशमसंस्कारं विप्राकृतिविचेष्टितम् ।
क्षत्तासौवीरराजस्य काल्यै पशुमकल्पयत् ॥ 2.13.48 ॥
रात्रौ तं समलङ्कृत्य वैशसस्य विधानतः ।
अधिष्ठितं महाकाली ज्ञात्वा योगेश्वरं तथा ॥ 2.13.49॥
ततः खङ्गं समादाय निशितं निशि सा तथा ।
क्षत्तारं क्रूरकर्माणमच्छिनत्कण्ठमूलतः ।
स्वपार्षदयुता देवी पपौ रुधिरमुल्बणम् ॥ 2.13.50 ॥
ततःसौवीरराजस्य प्रयातस्य महात्मनः ।
विष्टकर्ताथ मन्येत विष्टियोग्योयमित्यपि ॥ 2.13.51 ॥
तं तादृशं महात्मानं भस्मच्छन्नमिवानलम् ।
क्षत्ता सौवीरराजस्य विष्टियोग्यममन्यत ॥ 2.13.52 ॥
स राजा शिबिकारूढो गन्तुं कृतमतिर्द्विज ।
बभूवेक्षुमतीतीरे कपिलर्षेर्वराश्रमम् ॥ 2.13.53 ॥
श्रेयः किमत्र संसारे दुःखप्राये नृणामिति ।
प्रष्टुं तं मोक्षधर्मज्ञं कपिलाख्यं महामुनिम् ॥ 2.13.54॥
उवाह शिबिकां तस्य क्षत्तुर्वचनचोदितः ।
नृणां विष्टिगृहीतानामन्येषां सोऽपि मध्यगः ॥ 2.13.55॥
गृहीतो विष्टिना विप्रः सर्वज्ञानैकभाजनम् ।
जातिस्मरोसौ पपास्य क्षयकाम उवाह ताम् ॥ 2.13.56॥
ययौ जडमतिः सोथ मृगमात्रावलोकनम् ।
कुर्वन्मतिमतां श्रष्ठस्तदन्ये त्वरितं ययुः ॥ 2.13.57॥
विलोक्य नृपतिः सोथ विषमां शिबिकागतिम् ।
किमेतदित्याह समं गम्यतां शिबिकावहाः ॥ 2.13.58 ॥
पुनस्तथैव शिबिकं विलोक्य विषमां हि सः ।
नृपः किमेतदित्याह भवद्भिर्गम्यतेन्यथा ॥ 2.13.59॥
भूपतेर्वदतस्तस्य श्रुत्वेत्थंबहुशो वचः ।
शिबिकावाहकाः प्रोजुरयं यातीत्यसत्वरम् ॥ 2.13.60 ॥
राजोवाच
किं श्रिन्तोस्यल्पमध्वानं त्वयोढा शिबिका मम ।
किमाया ससहो न त्वं पीवानसि निरीक्ष्यसे ॥ 2.13.61 ॥
ब्राह्मण उवाच
नाहं पीवा न चैवोढा शिबिका भवतो मया ।
न श्रान्तोस्मि न चायासो सोढव्योस्ति महीपते ॥ 2.13.62 ॥
राजोवाच
प्रत्यक्षं दृश्यसे पीवानद्यापि शिबिका त्वयि ।
श्रमश्च भारोद्वहने भवत्येव हि देहिनाम् ॥ 2.13.63 ॥
ब्रह्मण उवाच
प्रत्यक्षं भवता भूप यद्दृष्टं मम तद्वद ।
बलवानबलश्चेति वाच्यं पश्चाद्विशेषणम् ॥ 2.13.64॥
त्वयोढा शिबिका चेति त्वय्यद्यापि च संस्थिता ।
मिथ्यैतदत्र तु भवाञ्छृणोतु वचनं मम ॥ 2.13.65॥
भूमौ पादयुगं त्वास्ते जङ्घे पादद्वये स्थिते ।
ऊर्वोर्जङ्घाद्वयावस्थौ तदाधारं तथोदरम् ॥ 2.13.66॥
वक्षस्थलं तथा बाहू स्कन्धौ चोदरसंस्थितौ ।
स्कन्धाश्रितेयं शिबिका मम भारोत्र किं कृतः ॥ 2.13.67॥
शिबिकायां स्थितं चेदं वपुस्त्वदुपलक्षितम् ।
तत्र त्वमहमप्यत्र प्रोज्यते चेदमन्यथा ॥ 2.13.68 ॥
अहं त्वं च तथान्ये च भूतैरुह्याम पर्थिव ।
गुणप्रवाहपतितो भूतवर्गौपि यात्ययम् ॥ 2.13.69॥
कर्मवश्या गुणश्चैते सत्त्वाद्याः पृथिवीपते ।
अविद्यासंचितं कर्म तच्चासेषेषु जन्तुषु ॥ 2.13.70 ॥
आत्मा शुद्धोक्षरः शान्तो निर्गुणः प्रकृतेः परः ।
प्रवृद्ध्यपचयौ नास्य एकस्याखिलजन्तुषु ॥ 2.13.71 ॥
यदा नोपचयस्तस्य न चैवापचयो नृप ।
तदा पीवानसीतीत्थं कया युक्त्या त्वयेरितम् ॥ 2.13.72 ॥
भूपादजङ्घाकट्यूरुजठरादिषु संस्थिते ।
शिबिकेयं यथा स्कन्धे तथा भारः समस्त्वया ॥ 2.13.73 ॥
तथान्यैर्जन्तुभिर्भूप शिबिकोढा न केवलम् ।
शैलद्रुमगृहोत्थोपि पृथिवी संभवोपि वा ॥ 2.13.74॥
यदा पुंसः सृथग्भावः प्राकृतैः कारणेर्नृप ।
सोढव्यस्तु तदायासः कथं वा नृपते मया ॥ 2.13.75॥
यद्द्रव्या शिबिका चेयं तद्द्रव्यो भूतसंग्रहः ।
भवतो मेऽकिलस्यास्य ममत्वेनोपबृंहितः ॥ 2.13.76॥
श्रीपारशर उवाच
एवमुक्त्वाभवन्मौनी स वहञ्छिबिकां द्विज ।
सोऽपि राजावतीर्योव्यां तत्पादौ जगृहे त्वरन् ॥ 2.13.77॥
राजोवाच
भोभोविसृज्य शिबिकां प्रसादं कुरु मे द्विजः ।
कथ्यतां को भवानत्र जाल्मरूपधरः स्थितः ॥ 2.13.78 ॥
यो भवान्यन्निमित्तं वा यदागमनकारणम् ।
तत्सर्वं कथ्यतां विद्वन्मह्यं शुश्रूषवे त्वया ॥ 2.13.79॥
ब्रह्मण उवाच
श्रूयतां सोहमित्येतद्वक्तुं भूप न शक्यते ।
उपभोगनिमित्तं च सर्वत्रागमनक्रिया ॥ 2.13.80 ॥
सुखदुःखोपभोगौ तु तौ देहाद्युपपादकौ ।
धर्माधर्मोद्भवौ भोक्तुं जन्तुर्देहादिमृच्छति ॥ 2.13.81 ॥
सर्वस्यैव हि भूपाल जन्तोः सर्वत्र कारणम् ।
धर्माधर्मौ यतः कस्मात्कारणं पृच्छते त्वया ॥ 2.13.82 ॥
राजोवाच
धर्माधर्मौ न सन्देहःसर्वकार्येषु कारणम् ।
उपभोगनिमित्तं च देहाद्देहान्तरागमः ॥ 2.13.83 ॥
यस्त्वेतद्भवता प्रोक्तं सोहमित्येतदात्मनः ।
वक्तुं न सक्यते श्रोतुं तन्ममेच्छा प्रवर्तते ॥ 2.13.84॥
योस्ति सोहमिति ब्रह्मन्कथं वक्तुं न शक्यते ।
आत्मन्येष न दोषाय शब्दोहमिति यो द्विज ॥ 2.13.85॥
ब्राह्मण उवाच
शब्दोहमिति दोषाय नात्मन्येष तथैव तत् ।
अनात्मन्यात्मविज्ञानं शब्दो वा भ्रान्तिलक्षणः ॥ 2.13.86॥
जिह्वा ब्रवीत्यहमिति दन्तोष्ठौ तालुके नृप ।
एतेनाहं यतः सर्वे वाङ्निष्पादनहेतवः ॥ 2.13.87॥
किं हेतुभिर्वदत्येषा वागेवाहमिति स्वयम् ।
अतः पीवानसीत्येतद्वक्तुमित्थं न युज्यते ॥ 2.13.88 ॥
पिण्डः पृथग्यतः पुंसः शिरः पाण्यादिलक्षणः ।
ततोहमिति कुत्रैतां संज्ञां राजन्करोम्यहम् ॥ 2.13.89॥
यद्यन्योस्ति परः कोपि मत्तः पार्थिवसत्तम ।
तदैषोहमयं चान्यो वक्तुमेवमपीष्यते ॥ 2.13.90 ॥
यदा समस्तदेहेषु पुमानेको व्यवस्थितः ।
तदा हि को भवान्सोहमित्येतद्विफलं वचः ॥ 2.13.91 ॥
त्वं राजा शिबिका चेयमिमे वाहाः पुरः सराः ।
अयं च भवतो लोको न सदेतन्नृपोच्यते ॥ 2.13.92 ॥
वृक्षाद्दारु ततश्चेयं शिबिका त्वदधिष्ठिता ।
किं वृक्षसंज्ञा वास्याः स्याद्दारुसंज्ञाथ वा नृप ॥ 2.13.93 ॥
वृक्षारूढो महाराजो नायं वदति ते जनः ।
न च दारुणि सर्वस्त्वां ब्रवीतिशिबिकागतम् ॥ 2.13.94॥
शिबिकादारुसंघातो रचनास्थितिसंस्थितः ।
अन्विष्यतां नृपश्रेष्ठ तद्भेदे शिबिका त्वया ॥ 2.13.95॥
एवं छत्रशलाकानां पृथग्भावे विमृश्यताम् ।
क्व यातं छत्रमित्येतन्न्यायस्त्वयि तथा मयि ॥ 2.13.96॥
पुमांस्त्रीगौरजो वाजी कुञ्जरो विहगस्तरुः ।
देहेषुलोकसंज्ञेयं विज्ञेया कर्महेतुषु ॥ 2.13.97॥
पुमान्न देवो न नरो न पशुर्न च पादपः ।
शरीराकृतिभेदास्तु भूपैते कर्मयोनयः ॥ 2.13.98 ॥
वस्तु राजेति यल्लोके यच्च राजभटात्मकम् ।
तथान्यच्च नृपेत्थं तन्न सत्संकल्पनामयम् ॥ 2.13.99॥
यत्तु कालान्तेरेणापि नान्यां संज्ञामुपैति वै ।
परिणामादिसंभूतां तद्वस्तु नृप तच्च किम् ॥ 2.13.100 ॥
त्वं राजा सर्वलोकस्य पितुः पुत्रो रिपो रिपुः ।
पत्न्याः पतिः पिता सूनोः किं त्वं भूपवदाम्यहम् ॥ 2.13.101 ॥
त्वं किमेतच्छिरः किं नु ग्रीवा तव तथोदरम् ।
किमु पादादिकं त्वं वा तवैतत्किं महीपते ॥ 2.13.102 ॥
समस्तावयवेभ्यस्त्वं पृथग्भूय व्यवस्थितः ।
कोऽहमित्यत्र निपुणो भूत्वा चिन्तय पर्थिव ॥ 2.13.103 ॥
एवं व्यवस्थिते तत्त्वे मयाहमिति भाषितुम् ।
पृथक्करणनिष्पाद्यं शक्यते नृपते कथम् ॥ 2.13.104॥
इति श्रीविष्णुमहापुराणे द्वितीयेंसे त्रयोदशोऽध्यायः (13)
श्रीपराशर उवाच [Sage Parasara said]
निशम्य तस्येति वचः परमार्थसमन्वितम् ।
प्रश्रयावनतो भूत्वा तमाह नृपतिर्द्विजम् ॥ 2.14.1 ॥
राजोवाच
भगवन्यत्त्वया प्रोक्तं परमार्थमयं वचः ।
श्रुते तस्मिन्भ्रमन्तीव मनसो मम वृत्तयः ॥ 2.14.2॥
एतद्विवेकविज्ञानं यदशेषेषु जन्तुषु ।
भवता दर्शितं विप्रतत्परं प्रकृतेर्महत् ॥ 2.14.3 ॥
नाहं वहामि शिबिकां शिविका न मयि स्थिता ।
शरीरमन्यदस्मत्तौ योनेयं शिबिका धृता ॥ 2.14.4 ॥
गुणप्रवृत्त्या भूतानां प्रवृत्तिः कर्मचोदिता ।
प्रवर्तन्ते गुणा ह्येते किं ममेति त्वयोदितम् ॥ 2.14.5॥
एतस्मिन्परमार्थज्ञ मम श्रोत्रपथं गते ।
मनो विह्वलतामेति परमार्थार्थितां गतम् ॥ 2.14.6॥
पूर्वमेव महाभागं कपिलर्षिमहं द्विज ।
प्रष्टुमभ्युद्यतो गत्वा श्रेयः किं त्वत्र शंस मे ॥ 2.14.7॥
तदन्तरे च भवता यदेत द्वाक्यमीरितम् ।
तेनैव परमार्थार्थं त्वयि चेतः प्रधावति ॥ 2.14.8॥
कपिलर्षिर्बागवतः सर्वभूतस्य वै द्विज ।
विष्णोरंशो जगन्मोहनाशायोर्वीमुपागतः ॥ 2.14.8 ॥
स एव भगवान्नूनमस्माकं हितकाम्यया ।
प्रत्यक्षतामत्र गतो यथैतद्भावतोच्यते ॥ 2.14.10 ॥
तन्मह्यं प्रणताय त्वं यच्छ्रेयः परमं द्विजः ।
तद्वदाखिल विज्ञानजलवीच्युदधिर्भवान् ॥ 2.14.11 ॥
ब्राह्मण उवाच
भूप पृच्छसि किं श्रेयः परमार्थं नु पृच्छसि ।
श्रेयांस्यपरमार्थानि अशेषाणि च भूपते ॥ 2.14.12 ॥
देवताराधनं कृत्वा धनसम्पदमिच्छति ।
पुत्रानिच्छति राज्यं च श्रेयस्तस्यैव तन्नृप ॥ 2.14.13 ॥
कर्म यज्ञात्मकं श्रेयः फलं तत्प्राप्तिलक्षणम् ।
श्रेयः प्रधानं च फले तदेवानभिसंहिते ॥ 2.14.14॥
आत्मा ध्येयः सदा भुप योगयुक्तैस्तथा परम् ।
श्रेयस्तस्यैव संयोगः श्रेयो यः परमात्मनः ॥ 2.14.15॥
श्रेयांस्येवमनेकानि शतशोय सहस्रसः ।
सन्त्यत्र परमार्थस्तु न त्वेते श्रूयतां च मे ॥ 2.14.16॥
धर्माय त्यज्यते किन्तु परमार्थो धनं यदि ।
व्ययश्च क्रियते कस्मात्कामप्राप्त्युपलक्षणः ॥ 2.14.17॥
पुत्रश्चेत्परमार्थः स्यात्सोऽप्यन्यस्य नरेश्वर ।
परमार्थभूतः सोन्यस्य परमार्थो हि तत्पिता ॥ 2.14.18 ॥
एवं न परमार्थोस्ति जगत्यस्मिञ्चराचरे ।
परमार्थो हि कार्याणि कारणानामशेषतः ॥ 2.14.19॥
राज्यादिप्राप्तिरत्रोक्ता परमार्थतया यदि ।
परमार्था भवन्त्यत्र न भवन्ति च वै ततः ॥ 2.14.20 ॥
ऋग्यजुःसामनिष्पाद्यं यज्ञकर्म मतं तव ।
परमार्थभूतं तत्रापि श्रुयतां गदतो मम ॥ 2.14.21 ॥
यत्तु निष्पाद्यते कार्यं मृदा कारणभूतया ।
तत्कारणानुगमनाज्ज्ञायते नृप मृण्मयम् ॥ 2.14.22 ॥
एवं विनाशिभिर्द्रव्यैः समिदाज्यकुशादिभिः ।
निष्पाद्यते क्रिया या तु सा भवित्री विनाशिनी ॥ 2.14.23 ॥
अनाशो परमार्थश्च प्राज्ञौरभ्युपगम्यते ।
तत्तु नाशि न सन्देहो नाशिद्रव्योपपादितम् ॥ 2.14.24॥
तदेवाफलदं कर्म परमार्थो मतस्तव ।
मुक्तिसाधनभूतत्वात्परमार्थो न साधनम् ॥ 2.14.25॥
ध्यानं चैवात्मनो भूपु परमार्थार्थशब्दितम् ।
भेदकारि परेभ्यस्तु परमार्थो न भेदवान् ॥ 2.14.26॥
परमात्मात्मनोर्योगः परमार्थ इतीष्यते ।
मिथ्यैतदन्यद्रव्यं हि नैति तद्द्रव्यतां यतः ॥ 2.14.27॥
तस्माच्छ्रेयांस्यशेषाणि नृवैतानि न संशयः ।
परमार्थस्तु भूपाल संक्षेपाच्छ्रूयतां मम ॥ 2.14.28 ॥
एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः ।
जन्मवृद्ध्यादिरहित आत्मा सर्वगतोव्ययः ॥ 2.14.29॥
परज्ञानमयो सद्भिर्नामजात्यादिभिर्विभुः ।
न योगवान्न युक्तोभून्नैव पार्थिव योक्ष्यते ॥ 2.14.30 ॥
तस्यात्मपरदेहेषु सतोप्येकमयं हि यत् ।
विज्ञानं परमार्थोऽसौ द्वैतिनोऽतथ्यर्शिनः ॥ 2.14.31 ॥
वेणुरन्ध्रप्रभेदेन भेदः षङ्जादिसंज्ञितः ।
अभेदव्यापिनोवायोस्तथास्य परमात्मनः ॥ 2.14.32 ॥
एकस्वरूपभेदश्च ब्राह्मकर्मावृतिप्रजः ।
देवादिभेदेऽपध्वस्तें नास्त्येवावरणे हि सः ॥ 2.14.33 ॥
इति श्रीविष्णुमहापुराणे द्वितीयेऽंशे चतुर्दशोऽध्यायः (14)
श्रीपराशर उवाच [Sage Parasara said]
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्ते मौनिनं भूयश्चिन्तयानं महीपतिम् ।
प्रत्युवाचाथ विप्रोसावद्वैतान्तर्गतां कथाम् ॥ 2.15.1 ॥
ब्राह्मण उवाच
श्रूयतां नृपशार्दूल यद्गीतमृभुणा पुरा ।
अवबोधं जनयता निदाघस्य महात्मनः ॥ 2.15.2॥
ऋभुनामाभवत्पुत्रो ब्रह्मणः परमेष्ठिनः ।
विज्ञाततत्त्वसद्भावो निसर्गादेव भूपते ॥ 2.15.3 ॥
तस्य शिष्यो निदाघोभूत्पुलस्त्यतनयः पुरा ।
प्रादादशेषविज्ञानं स तस्मै परया मुदा ॥ 2.15.4 ॥
अपाप्तज्ञानतन्त्रस्य न तस्याद्वैतवासना ।
स ऋभुस्तर्कयामास निदाघस्य नरेश्वर ॥ 2.15.5॥
देविकायास्तटे वीरनगरं नाम वै पुरम् ।
समृद्दमतिरम्यं च पुलस्त्येन विवेशित्म ॥ 2.15.6॥
रम्योपवनपर्यन्ते स तस्मिन्पार्थिवोत्तम ।
निदाघो नाम योगज्ञ ऋभुशिष्योऽवसत्पुरा ॥ 2.15.7॥
दिव्ये वर्षसहस्रे तु समतीतेस्य तत्पुरम् ।
जगाम स ऋभुः शिष्यं निदाघमवलोककः ॥ 2.15.8॥
स तस्य वैश्वदेवान्ते द्वारालोकनगोचरे ।
स्थितस्तेन गृहीतार्घ्यो निजवेश्म प्रवेशितः ॥ 2.15.8 ॥
प्रक्षालिताङ्घ्रिपाणिं च कृता सनपरिग्रह्म ।
उवाच स द्विजाश्रेष्ठो भुज्यतामिति सादरम् ॥ 2.15.10 ॥
ऋभुरुवाच
भो विप्रवर्य भोक्तव्यं यदन्नं भवतो गुहे ।
तत्कथ्यतां कदन्नेषु न प्रीतिः सततं मम ॥ 2.15.11 ॥
निदाघ उवाच
सक्तुयावकवाट्यानामपूपानां च मे गृहे ।
यद्रोचते द्विजश्रेष्ठ तत्त्वं भुक्ष्व यथेच्छया ॥ 2.15.12 ॥
ऋभुरुवाच
कदन्नानि द्विजौतानि मृष्टमन्नं प्रयच्छ मे ।
संयावपायसादीनि द्रप्सफाणितवन्ति च ॥ 2.15.13 ॥
निदाघ उवाच
हेहे शालिनि मद्गेहे यत्किञ्चिदतिशोभनम् ।
भक्ष्योपसाधनं मृष्टं तेनास्यान्नं प्रसाधय ॥ 2.15.14॥
ब्राह्मण उवाच
इत्युक्ता तेन सा पत्नीमृष्टमन्नं द्विजस्य यत् ।
प्रसादितवती तद्वै भर्तुर्वचनगौरवात् ॥ 2.15.15॥
तं भुक्तवन्तमिच्छातो मृष्टमन्नं महामुनिम् ।
निदाधः प्राह भूपाल प्रश्रयावनतः स्थितः ॥ 2.15.16॥
निदाघ उवाच
अपिते परमा तृप्तिरुत्पन्ना तुष्टिरेव च ।
अपि ते मानसंस्वस्थमाहारेण कृतं द्विज ॥ 2.15.17॥
क्वनिवासो भवान्विप्र क्व च गन्तुंसमुद्यतः ।
आगम्यते च भवता यतस्तच्च द्विजोच्यताम् ॥ 2.15.18 ॥
ऋमुरुवाच
क्षुद्यस्य तस्य भुक्तेन्ने तृप्तिर्ब्राह्मण जायते ।
न मे क्षुन्नाभवत्तृप्तिः कस्मान्मां परिपृच्छसि ॥ 2.15.19॥
वह्निना पार्थिवे धातौ क्षपिते क्षुत्समुद्भवः ।
भवत्यम्भसि च क्षीणे नृणां तृडपि जायते ॥ 2.15.20 ॥
क्षुत्तुष्णे देहधर्माख्ये न ममैते यतो द्विज ।
ततः क्षुत्सम्भवाभावात्तृप्तिरस्त्येव मे सदा ॥ 2.15.21 ॥
मनसः स्वस्थता तुष्टिश्चित्तधर्माविमौ द्विज ।
चेतसो यस्य तत्पृच्छ पुमानेभिर्न युज्यते ॥ 2.15.22 ॥
क्व निवासस्तवेत्युक्तं क्व गन्तासि च यत्त्वाया ।
कुताश्चागम्यते तत्र त्रितयेपि निबोध मेः ॥ 2.15.23 ॥
पुमान्सर्वगतो व्यापी आकाशवदयं यतः ।
कुतः कुत्र क्व गन्तासीत्ये तदप्यर्थवत्कथम् ॥ 2.15.24॥
सोऽहं गन्ता न चागन्ता नैकदेशनिकेतनः ।
त्वं चान्ये च न च त्वं च नान्ये नैवाहमप्यहम् ॥ 2.15.25॥
मृष्टं न मृष्टमप्येषा जिज्ञासा मे कृता तव ।
किं वक्ष्यसीति तत्रापि श्रूयतां द्विजसत्तम ॥ 2.15.26॥
किमस्वाद्वथ वा मृष्टं भुञ्जतोस्ति द्विजोत्तम ।
मृष्टमेव यथा मृष्टं तदेवोद्वेगकारकम् ॥ 2.15.27॥
अमृष्टं जायते मृष्टं मृष्टादुद्विजते जनः ।
आदिमध्यावसानेषु किमन्नं रुचिकारकम् ॥ 2.15.28 ॥
मृण्मयं हि गृहं यद्वन्मृदा लिप्तं स्थिरं भवेत् ।
पर्थिवोयं तथा देहः पार्थिवैः परमाणुभिः ॥ 2.15.29॥
यवगोधूममुद्गादि घृतं तैलं पयो दधि ।
गुडंफलादीनि तथा पार्थिवाः परमाणवः ॥ 2.15.30 ॥
तदेतद्भवता ज्ञात्वा मृष्टामृष्टविचारि यत् ।
तन्मनःसमतालम्बि कार्यं साम्यं हि मुक्तये ॥ 2.15.31 ॥
ब्राह्मण उवाच
इत्याकर्ण्य वचस्तस्य परमार्थश्रितं नृप ।
प्रणिपत्य महाभागो निदाघो वाक्यमब्रवीत् ॥ 2.15.32 ॥
प्रसीद मद्धितार्थाय कथ्यतां यत्त्वमागतः ।
नष्टो मोहस्तवाकर्ण्य वचांस्येतानि मे द्वीज ॥ 2.15.33 ॥
ऋभुरुवाच
ऋमुरस्मि तवाचार्यः प्रज्ञादानाय ते द्विज ।
इहाग तोहं यास्यामि परमार्थस्तवोदितः ॥ 2.15.34॥
एवमेकमिदं विद्धि न भेदि सकलं जगत् ।
वासुदेवाभिधेयस्य स्वरूपं परमात्मनः ॥ 2.15.35॥
ब्राह्मण उवाच
तथत्युक्त्वा निदाघेन प्रणिपातपुरःसरम् ।
पूजतः परया भक्त्या इच्छातः प्रययावृभुः ॥ 2.15.36॥
इति श्रीविष्णुमहापुराणे द्वितीयेऽंशे पञ्चदशोऽध्यायः (15)
ब्राह्मण उवाच
ऋभुर्वर्षसहस्रे तु समतीते नरेश्वर ।
निदाघज्ञानदानाय तदेव नगरं ययौ ॥ 2.16.1 ॥
नगरस्य बहिः सोथ निदाघं ददृशे मुनिः ।
महीबलपरीवारे पुरं विशति पार्थिवे ॥ 2.16.2॥
दूरे स्थितं महाभागं नजसंमर्दवर्जकम् ।
क्षुत्क्षामकण्ठमायान्तमरण्यात्ससमित्कुशम् ॥ 2.16.3 ॥
दृष्ट्वा निदाघं स ऋभुरुपगम्याभिवाद्य च ।
उवाच कस्मादेकान्ते स्थीयते भवता द्विज ॥ 2.16.4 ॥
निदाघ उवाच
भो विप्र जनसंमर्दे महानेष नरेश्वरः ।
प्रविविक्षुः पुरं रम्यं तेनात्र स्थीयते मया ॥ 2.16.5॥
ऋभुरुवाच
नराधिपोत्र कतमः कतमश्चेतरोजनः ।
कथ्यतां मे द्विज श्रेष्ठ त्वमभिज्ञो मतो मम ॥ 2.16.6॥
निदाघ उवाच
योयं गजेन्द्रमुन्मत्तमद्रिशृङ्गसमुच्छ्रितम् ।
अधिरूढो नरेद्रोऽयं परिलो कस्तथेतरः ॥ 2.16.7॥
ऋभुरुवाच
एतौ हि गजराजानौ युगपद्दर्शितौ मम ।
भवता न विशेषेण पृथक्चिह्नोपलक्षणौ ॥ 2.16.8॥
तत्कथ्यतां महाभाग विशेषो भवतानयोः ।
ज्ञातुमिच्छाम्यहं कोत्र गजः को वा नराधिपः ॥ 2.16.8 ॥
निदाघ उवाच
गजो योयमथो ब्रह्मन्नुपर्यस्यैष भूपतिः ।
वाह्यवा हकसम्बन्धं को न जानानि वै द्विज ॥ 2.16.10 ॥
ऋभुरुवाच
जानाम्यहं यथा ब्रह्यंस्तथा मामवबोधय ।
अधःशब्दनिगद्यं हि किं चोर्ध्वमभिधियते ॥ 2.16.11 ॥
ब्राह्मण उवाच
इत्युक्तः सहसारुह्य निदाघः प्राह तमृभुम् ।
श्रूयतां कथयाम्येष यन्मां त्वं परिपृच्छसि ॥ 2.16.12 ॥
उपर्यहं यथा राजा त्वमधः कुञ्जरो यथा ।
अवबोधाय ते ब्रह्मन्दृष्टान्तो दर्शितो मया ॥ 2.16.13 ॥
ऋभुरुवाच
त्वं राजेन द्विजश्रेष्ठ स्थितोहं गजवद्यदि ।
तदेतत्त्वं समाचक्ष्व कतमस्त्वमहं तथा ॥ 2.16.14॥
ब्राह्मम उवाच
इत्युक्तः सत्वरं तस्य प्रगृह्य चरमाबुभौ ।
निदाघस्त्वाह भगवानाचार्यस्त्वमृभुर्ध्रुवम् ॥ 2.16.15॥
नान्यस्याद्वैतसंस्कारसंस्कृतं मानसं तथा ।
यथाचार्यस्य तेन त्वां मन्ये प्राप्तमहं गुरुम् ॥ 2.16.16॥
ऋबुरुवाच
तवोपदेशदानाय पूर्वशुश्रुषणादृतः ।
गुरुस्नेहादृभुर्नाम निदाघ समुपागतः ॥ 2.16.17॥
तदेतदुपदिष्टं ते संक्षेपेण महामते ।
परमार्थसारभूतं यदद्वैतमशेषतः ॥ 2.16.18 ॥
ब्राह्म उवाच
एवमुक्त्वा ययौ विद्वान्निदाघं स ऋभुर्गुरुः ।
निदाघोप्युपदेशेन तेनाद्वैतपरोभवत् ॥ 2.16.19॥
सर्वभूतान्यभेदेन ददृशे स तदात्मनः ।
यथा ब्रह्मपरो मुक्तिमवाप परमां द्विजः ॥ 2.16.20 ॥
तथा त्वमपि धर्मज्ञ तुल्योत्मरीपुबान्धवः ।
भव सर्गगतं जानन्नत्मानमवनीपते ॥ 2.16.21 ॥
सितनीला दिभेदेन यथैकं दृश्यते नभः ।
भ्रान्तदृष्टिभिरात्मापि तथैकः सन्पृथक्पृथक् ॥ 2.16.22 ॥
एकः समस्तं यदिहास्ति किञ्चित्तदच्युतो नास्ति परं ततोन्यत् ।
सोऽहं स च त्वं च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् ॥ 2.16.23 ॥
श्रीपराशर उवाच [Sage Parasara said]
इतीरितस्तेन स राजवर्स्तत्याज भेदं परमार्थदृष्टिः ।
स चापि जातिस्मरणाप्तबोधस्तत्रैव जन्मन्यपवर्गमाप ॥ 2.16.24॥
इति भरतनरेन्द्रसारवृत्तं कथयति यश्च शृणोति भक्तियुक्तः ।
स विमलमतिरेति नात्म मोहं भवति च संसरणेणु मुक्तियोग्यः ॥ 2.16.25॥
इति श्रीविष्णुमदृद्विदृषोडशोऽध्यायः (16)
इति श्रिविष्णुमहापुराणे द्वितीयोंशः समाप्तः
मैत्रेय उवाच
कथिता गुरूणासम्यग्भूसमुद्रादिसंस्थितिः ।
सूर्यादिनां च संस्थानं ज्योतिषां चातिविस्तरात् ॥ 3.1.1 ॥
देवादीनां तथा सृष्टिरृषीणां चापि वर्णिता ।
चातुर्वर्ण्यस्य चोत्पत्तिस्तिर्यग्योनिगतस्य च ॥ 3.1.2॥
ध्रुवप्रह्लादचरितं विस्तराच्च त्वयोदितम् ।
मन्वन्तराण्यशेषाणि श्रोतुमिच्छाम्यनुक्रमात् ॥ 3.1.3 ॥
मन्वन्तराधिपांश्चैव शक3 एवपुरोगमान् ।
भवता कथितानेताञ्छ्रोतुमिच्छाम्यहं गुरो ॥ 3.1.4 ॥
श्रीपराशर उवाच [Sage Parasara said]
अतीतानागतानीह यानि मन्वन्तराणि वै ।
तान्यहं भवतः सम्यक्लथयामि यथा क्रमम् ॥ 3.1.5॥
स्वायंभुवो मनुः पूर्वं परः स्वारोचिषस्तथा ।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ 3.1.6॥
षडेते मनवोतीताःसांप्रतं तु रवेःसुतः ।
वैवस्वतेयं यस्त्वेतत्मप्तमं वर्ततेन्तरम् ॥ 3.1.7॥
स्वायंभुवं तु कथितं कल्पादावन्तरं मया ।
देवाः सप्तर्षयश्चैव यथावत्कथिता मया ॥ 3.1.8॥
अत ऊर्ध्वं प्रवक्ष्यामि मनोःस्वारोचिषस्य तु ।
मन्वन्तराधिपान्सम्यग्देवर्षिंस्तत्सुतांस्तथा ॥ 3.1.8 ॥
पारावताः सतुषिता देवाः स्वारोचिषेऽन्तरे ।
विपश्चत्तत्र देवेन्द्रो मैत्रेयासीन्महाबलः ॥ 3.1.10 ॥
ऊर्जस्तंभस्तथा प्राणोवातोर्थ पृषभस्तथा ।
निरयश्च परीवांश्च तत्र सप्तर्षयोऽभवन् ॥ 3.1.11 ॥
चैत्रकिंपुरुषाद्याश्च सुताःस्वारोचिषस्य तु ।
द्वितीयमेतद्व्याख्यातमन्तरं शृणु चोत्तमम् ॥ 3.1.12 ॥
तृतीयेप्यन्तरे ब्रह्मन्नुत्तमो नाम यो मनुः ।
सुशान्तिर्नाम देवेन्द्रो मैत्रेयासीत्सुताञ्छृणु ॥ 3.1.13 ॥
सुधामानस्तथा सत्या जपाश्चाथ प्रतर्दनाः ।
वशवर्तिश्च पञ्चैते गणा द्वादशकाःस्मृताः ॥ 3.1.14॥
वसिष्ठतनया ह्योते सप्त सप्तर्षयोभवन् ।
अजः परशुदीप्ताद्यास्तथोत्तममनोःसुताः ॥ 3.1.15॥
तामसस्यान्तरे देवाःसुपारा हरयस्तथा ।
सत्याश्च सुधियश्चैव सप्तविंशतिका गणाः ॥ 3.1.16॥
शिविरिन्द्रस्तथा चासीच्छतयज्ञोपलक्षमः ।
सप्तर्ष यश्च ये तेषां तेषां नामानि मे शृणु ॥ 3.1.17॥
ज्योतिर्धामा पुथुः कात्यश्चैत्रोग्निर्धनकस्तथा ।
पीवरश्चर्षयो ह्येते सप्त तत्रापि चान्तरे ॥ 3.1.18 ॥
नरः ख्यातिः केतुरूपो जानुजङ्घादयस्तथा ।
पुत्रास्तु तामसस्यासन्नाजानःसुमहाबलाः ॥ 3.1.19॥
पञ्चमे वापि मैत्रेय रैवतो नाम नामतः ।
मनुर्विभुश्च तत्रेन्द्रो देवांश्चात्रान्तरे शृणु ॥ 3.1.20 ॥
अमिताभा भूतरया वैकुण्ठाःसुसमेधसः ।
एते देवगणास्तत्र चतुर्दश चतुर्दश ॥ 3.1.21 ॥
हिरण्यरोमा वेदाश्रिरूर्ध्वबाहुस्तथावरः ।
वेदबाहुःसुधामा च पर्जन्यश्च महामुनिः ।
एते सप्तर्षयो विप्र तत्रासन्रैवतेन्तरे ॥ 3.1.22 ॥
बलबन्धुश्च संभाव्यःसत्यकाद्याश्च तत्सुताः ।
नरेन्द्राश्च महावीर्या बभूवुर्मुनिसत्तम ॥ 3.1.23 ॥
स्वारोचिषश्चौत्तमश्च तामसो रैवतस्तथा ।
प्रियव्रतान्वया ह्येते चत्वारो मनवःस्मृताः ॥ 3.1.24॥
विष्णुमाराध्य तपसा स राजर्षिः प्रियव्रतः ।
मन्वन्तराधिपानेताल्लंब्धवानात्मवंशजान् ॥ 3.1.25॥
षष्ठे मन्वंरते चासीच्चाक्षुषाख्यस्तथा मनुः ।
मनोजवस्तथैवेन्द्रो देवानपि निबोध मे ॥ 3.1.26॥
आप्याः प्रसूता भव्याश्च पृथुकाश्चा दिवौकसः ।
महानुभावा लखाश्च पञ्चैते ह्यष्टका गणाः ॥ 3.1.27॥
सुमेधा विरजाश्चैव हविष्मानुत्तमो मधुः ।
अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः ॥ 3.1.28 ॥
ऊरुः पूरुः शतध्युम्नप्रमुखाः सुमहाबलाः ।
चाक्षुषस्य मनोः पुत्राः पृथिवीपतयोऽभवन् ॥ 3.1.29॥
विवस्वतःसुतो विप्र श्राद्धदेवो महाद्युतिः ।
मनुःसंवर्तते धीमान् सांप्रतं सप्तमेन्तरे ॥ 3.1.30 ॥
आदित्यवसुरुद्राद्या देवाश्चात्र महामुने ।
पुरन्दरस्तथैवात्र मैत्रेय त्रिदशेश्वरः ॥ 3.1.31 ॥
वशिष्ठः काश्यपोथात्रिर्जमदग्निःसगौतमः ।
विश्वामित्रभरद्वाजौ सप्त सप्तर्षयोऽभवन् ॥ 3.1.32 ॥
इक्ष्वाकुश्च नृगश्चैव धृष्टः शर्यातिरेव च ।
नरिष्यन्तश्च विख्यातो नाभागोरिष्ट एव च ॥ 3.1.33 ॥
करूषश्च पृषध्रश्च सुमहांल्लोकविश्रुतः ।
मनोर्वैवस्वतस्यैते नव पुत्राः सुधार्मिकाः ॥ 3.1.34॥
विष्णुशक्तिरनौपम्या सत्त्वोद्रिक्ता स्थितौ स्थिता ।
मन्वन्तरेष्वशेषेषु देवत्वेनाधितिष्ठति ॥ 3.1.35॥
अंशेन तस्या जज्ञेऽसौ यज्ञःस्वायंभुवेन्तरे ।
आकूत्यां मानसो देव उत्पन्नः प्रथमेन्तरे ॥ 3.1.36॥
ततः पुनः स वै देवः प्राप्ते स्वारोचिषेन्तरे ।
तुषितायां समुत्पन्नो ह्याजिषस्तुषितैः सह ॥ 3.1.37॥
औत्तमप्यन्तरे देवस्तुषितस्तु पुनःस वै ।
सत्यायामभवत्सत्यः सत्यैः सह सुरोत्तमैः ॥ 3.1.38 ॥
तामसस्यान्तरे चैव संप्राप्तो पुनरेव हि ।
हर्यायां हरिभिः सार्ध हरिरेव बभूव ह ॥ 3.1.39॥
रैवतेप्यन्तरे देवःसंभूत्यां मानसो हरिः ।
संभूतो रैवतैः सार्ध देवैर्देववरो हरिः ॥ 3.1.40 ॥
चाक्षुषे चान्तरे देवो वैकुण्ठः पुरुषोत्तमः ।
विकुण्ठायामसौ जज्ञे वैकुण्ठैर्दैवतैः सह ॥ 3.1.41 ॥
मन्वन्तरेत्र संप्राप्ते तथा वैवस्वतेद्विज ।
वामनः काश्यपाद्विष्णुरदित्यां संबभूव ह ॥ 3.1.42 ॥
त्रिभिः क्रमैरिमांल्लोकाञ्जित्वा येन महात्मना ।
पुरन्दराय त्रैलोक्यं दत्तं निहतकण्टकम् ॥ 3.1.43 ॥
इत्येतास्तनवस्तस्य सप्तमन्वन्तरेषु वै ।
सप्तस्वेवाभवन्विप्र याभिः संवर्धिताः प्रजाः ॥ 3.1.44॥
यस्माद्विष्टमिदं विश्वं यस्य शक्त्या महात्मनः ।
तस्मात्स प्रोच्यते विष्णुर्विशोर्धातोः प्रवेशनात् ॥ 3.1.45॥
सर्वे च देवा मनवःसमस्ताःसप्तर्षयो ये मनुसूनवश्च ।
इन्द्रश्चयोऽयं त्रिदशेशभूतो विष्णोरशोषास्तु विभूतयस्ताः ॥ 3.1.46॥
इति श्रीविष्णुमहापुराणे तृतीयांशे प्रथमोऽध्यायः (1)
मैत्रेय उवाच
प्रोक्तान्येतानि भवता सप्त मन्वन्तराणि वै ।
भविष्याण्यपि विप्रर्ष ममाख्यातुं त्वमर्हसि ॥ 3.2.1 ॥
श्रीपराशर उवाच [Sage Parasara said]
सूर्यस्य पत्नी संज्ञाभूत्तनया विश्वकर्मणः ।
मनुर्यमो यमी चैव तदपत्यानि वै मुने ॥ 3.2.2॥
असहन्ती तु सा भर्तुस्तेजश्छायां युयोज वै ।
भर्तृशुश्रूषणेऽरण्यंस्वयं च तपसे ययौ ॥ 3.2.3 ॥
संज्ञेयमित्यथार्कश्च छायायामात्मजत्रयम् ।
शनैश्चरं मनुं चान्यं तपतीं चाप्यजाजनत् ॥ 3.2.4 ॥
छायासंज्ञा ददौ शापं यमाय कुपिता यदा ।
तदान्येयमसौ बुद्धिरित्यासीद्यमसूर्ययोः ॥ 3.2.5॥
ततो विवस्वानाख्यातां तयैवारण्यसंस्थिताम् ।
समाधिदृष्ट्याददृशे तामश्वां तपसि स्थिताम् ॥ 3.2.6॥
वाजिरूपधरः सोथ तस्यां देवावथाश्विनौ ।
जनयामास रेवन्तं रेतसोंते च भास्करः ॥ 3.2.7॥
आनिन्ये च पुनः संज्ञां स्वस्थानं भगवान् रविः ।
तेजसः शमनं चास्य विश्वकर्मा चकार ह ॥ 3.2.8॥
भ्रममारोप्य सूर्यं तु तस्य तेजोनिशातनम् ।
कृतवानष्टमं भागं स व्यशातयदव्ययम् ॥ 3.2.8 ॥
यत्तस्माद्वैष्णवं तेजस्शातितं विश्वकर्मणा ।
जाज्वल्यमानमपतत्तद्भूमौ मुनिसत्तम ॥ 3.2.10 ॥
त्वष्टैव तेजसा तेन विष्णोश्चक्रमकल्पयत् ।
त्रिशूलं चैव शर्वस्य शिबिकां धनदस्य च ॥ 3.2.11 ॥
शक्तिं गुहस्य देवानामन्येषां च यदायुधम् ।
तत्सर्वं तेजसा तेन विश्वकर्मा व्यवर्धयत् ॥ 3.2.12 ॥
छायासंज्ञासुतो योसौ द्वितीयः कथितो मनुः ।
पूर्वजस्यासवर्णोसौ सावर्णिस्तेन कथ्यते ॥ 3.2.13 ॥
तस्य मन्वन्तरं ह्योतत्सावर्णिकमथाष्टमम् ।
तच्छृणुष्व महाभाग भविष्यत्कथयामि ते ॥ 3.2.14॥
सावर्णिस्तु मनुर्योसौ मैत्रेय भविता ततः ।
सुतपाश्चामिताभाश्च मुख्याश्चापि तथा सुराः ॥ 3.2.15॥
तेषां गणाश्च देवानामेकैको विंशकः स्मृतः ।
सप्तर्षिनपि वक्ष्यामि भविष्यान्मुनिसत्तम ॥ 3.2.16॥
दीप्तिमान् गालवो रामः कृपो द्रोणिस्तथा परः ।
मत्पुत्रश्च तथा व्यास ऋष्यशृङ्गश्च सप्तमः ॥ 3.2.17॥
विष्णु प्रसादादनघः पातालान्तरगोचरः ।
विरोचनसुतस्तेषां बलिरिन्द्रो भविष्यति ॥ 3.2.18 ॥
विरजाश्चोर्वरीवांश्च निर्मोकाद्यास्तथापरे ।
सावर्णेस्तु मनोः पुत्रा भविष्यन्ति नरेश्वराः ॥ 3.2.19॥
नवमो दक्षसावर्णिर्भविष्यति मुने मनुः ॥ 3.2.20 ॥
पारा मरीचिगर्भाश्च सुधर्माणस्तथा त्रिधा ।
भविष्यन्ति तथा देवा ह्योकैको द्वादशो गणः ॥ 3.2.21 ॥
तेषामिद्रो महावीर्यो भविष्यत्यद्भुतो द्विज ॥ 3.2.22 ॥
सवनो द्युतिमान् भव्यो वसुर्मेधातिथिस्तथा ।
ज्योतिष्मान् सप्तमः सत्यस्तत्रैते च महर्षयः ॥ 3.2.23 ॥
धृतकेतुर्दीप्तिकेतुः पञ्चहस्तनिरामयौ ।
पृथुश्रवाद्याश्च तथा दक्षमावर्णिकात्मजाः ॥ 3.2.24॥
दसमो ब्रह्मसावर्मिर्भविष्यति मुने मनुः ।
सूधामानो विशुद्धाश्च शतसंख्यास्तथा सुराः ॥ 3.2.25॥
तेषामिन्द्रश्च भविता शान्तिर्नाम महाबलः ।
सप्तर्षयो भविष्यन्ति ये तथा ताञ्छृणुष्व ह ॥ 3.2.26॥
हविष्मान्सुकृतःसत्यस्तपोमूर्तिस्तथापरः ।
नाभागोऽप्रतिमौजाश्चसत्यकेतुस्तथैव च ॥ 3.2.27॥
सुक्षेत्रश्चोत्तमौजाश्चभूरिषेणादयो दश ।
ब्रह्मसावर्णिपुत्रास्तु रक्षिष्यन्ति वसुंधराम् ॥ 3.2.28 ॥
एकादशश्च भविता धर्मसावर्णिको मनुः ॥ 3.2.29॥
विहङ्गमाः कामागमा निर्वाणा ऋषयस्तथा ।
गणास्त्वेते तदा मुख्या देवानां च भविष्यताम् ।
ऐकैकस्त्रिंशकस्तेषां गणश्चेन्द्रश्च वै पृषा ॥ 3.2.30 ॥
निः स्वरश्चाग्नितेजाश्च वपुष्मान्घणिरारुणिः ।
हविष्माननघश्चैव भाव्याः सप्तर्षयस्तथा ॥ 3.2.31 ॥
सर्वत्रगस्शुधर्मा च देवानीकादयस्तथा ।
भविष्यन्ति मनोस्तस्य तनयाः पृतिविश्वराः ॥ 3.2.32 ॥
रुद्रपुत्रस्तु सावर्णिर्भविता द्वादशो मनुः ।
ऋकुधामा च तत्रेद्रो भविता शृणु मे सुरान् ॥ 3.2.33 ॥
हरिता रोहिता देवास्तथा मुमनसो द्विज ।
सुकर्माणः सुरापाश्च दशकाः पञ्च वै गणाः ॥ 3.2.34॥
तपस्वी सुतपाश्चैव तपोमूर्तिस्तपोरतिः ।
तपोधृतिर्द्युतिश्चान्यः सप्तमस्तु तपोधनः ।
सप्तर्षयस्त्विमे तस्य पुत्रानपि निबोध मे ॥ 3.2.35॥
देववानुपदेवश्च देवश्रेष्ठादयस्तथा ।
मनोस्तस्य महावीर्या भविष्यन्ति महानृपाः ॥ 3.2.36॥
त्रयोदशो रुचिर्नामा भविष्यति मुने मनः ॥ 3.2.37॥
सुत्रामाणः सुकर्माणः सुधर्माणस्तथामराः ।
त्रयस्त्रिंशद्विभेदास्त देवानां यत्र वै गणाः ॥ 3.2.38 ॥
दिवस्पतिर्महावीर्यस्तेषामिन्द्रोभिविष्यति ॥ 3.2.39॥
निर्मोहस्तत्त्वदर्शि च निष्प्रकंप्यो निरुत्सुकः ।
धृतिमानव्ययश्चान्यःसप्तमःसुतपा मुनिः ।
सप्तर्षयस्त्वमी तस्य पुत्रानपि निबोधे मे ॥ 3.2.40 ॥
चित्रसेनविचित्राद्या भविष्यन्ति महीक्षिकः ॥ 3.2.41 ॥
भौमश्चतुर्दशश्चात्र मैत्रेय भविता मनः ।
शुचिरिन्द्रः सुरगणस्तत्र पञ्च शृणुष्व तान् ॥ 3.2.42 ॥
चाक्षुषाश्च पवित्राश्च कनिष्ठा भ्राजिकास्तथा ।
वाचवृद्धश्च वै देवाःसप्तर्षीनपि मे शृणु ॥ 3.2.43 ॥
अग्निबाहुः शुचिः शुक्रो मागधोग्नीध्र एव च ।
युक्तस्तथा जितश्चान्यो मनुपुत्रानतः शृणु ॥ 3.2.44॥
ऊरुगंभीरबुद्ध्याद्या मनोस्तस्य सुता नृपाः ।
कथिता मुनिशार्दुल पालयिष्यन्ति ये महीम् ॥ 3.2.45॥
चतुर्युगान्ते वेदानां जायते किल विप्लवः ।
प्रवर्तयन्ति तानेत्य भुवं सप्तर्षयो दिवः ॥ 3.2.46॥
कृतेकृते स्मृतेर्विप्र प्रणेता जायते मनुः ।
देवा यज्ञभुजस्ते तु यावन्मन्वन्तरं तु तत् ॥ 3.2.47॥
भवन्ति ये मनोः पुत्रा यावन्मन्वंरतं तु तैः ।
तदन्वयोद्भवैश्चैव तावद्भूः परीपाल्यते ॥ 3.2.48 ॥
मनुःसप्तर्षयो देवा भूपालाश्च मनोः सुताः ।
मन्वन्तरे भवन्त्येते शक्रश्चैवाधिकारिमः ॥ 3.2.49॥
चतुर्दशभिरेतैस्तु गतैर्मन्वन्तरैर्द्विज ।
सहस्रयुगपर्यतः कल्पो निःशेष उच्यते ॥ 3.2.50 ॥
तावत्प्रमाणा च निशा ततो भवति सत्तम ।
ब्रह्मरूपधरः शेते शेषाहावंबुसंप्लवे ॥ 3.2.51 ॥
त्रैलोक्यमखिलं ग्रस्त्वा भगवानादिकृद्विभुः ।
स्वमायासंस्तितो विप्र सर्वभूतो जनार्दनः ॥ 3.2.52 ॥
ततः प्रबुद्धो भगवान् यथा पूर्वं तथा पुनः ।
सृष्टिं करोत्यव्ययात्मा कल्पेकल्पे रजोगुमः ॥ 3.2.53 ॥
मनवो भूभुजःसेंद्रा देवाःसप्तर्षयस्तथा ।
सात्त्विकोंशः स्थितिकरो जगतो द्विजसत्तम ॥ 3.2.54॥
चदुर्युगोप्यसौ विष्णुः स्थितिव्यापारलक्षमः ।
युगव्यवस्थां कुरुते तथा मैत्रेय तच्छृणु ॥ 3.2.55॥
कृते युगे परं ज्ञानं कपिलादिस्वरूपधृक् ।
ददाति सर्वभूतात्मा सर्वभूतहिते रतः ॥ 3.2.56॥
चक्रवर्तिस्वरूपेण त्रेतायामपि स प्रभूः ।
दुष्टानां निग्रह कुर्वन्परिपाति जगत्त्रयम् ॥ 3.2.57॥
वेदमेकं चतुर्भेदं कृत्वा शाखाशतैर्विभुः ।
करोति बहुलं भूयो वेदव्यासस्वरूपधृक् ॥ 3.2.58 ॥
वेदांस्तु द्वापरे व्यस्य कलेरन्ते पुनर्हरिः ।
कल्किस्वरूपी दुर्वृत्तन्मार्गे स्थापयति प्रभुः ॥ 3.2.59॥
एवमेतज्जगत्सर्वं शश्वत्पाति करोति च ।
हन्ति चान्तेष्वनन्तात्मा नास्त्यस्मव्द्यतिरेकि यत् ॥ 3.2.60 ॥
भूतं भव्यं भविष्यं च सर्वभूतान्महात्मनः ।
तदत्रान्यत्र वा विप्र सद्भावः कथितस्तव ॥ 3.2.61 ॥
मन्वन्तराण्यशेषाणि कथितानि मया तवा ।
मन्वन्तराधिपांश्चैव किमन्यत्कथयामि ते ॥ 3.2.62 ॥
इति श्रिविष्णुमहापुराणे तृतीयांशे द्वितीयोऽध्यायः (2)
मैत्रेय उवाच
ज्ञातमेतन्मया त्वत्तो यथा सर्वमिदं जगत् ।
विष्णुर्विष्णो विष्णुतश्च न परं विद्यते ततः ॥ 3.3.1 ॥
एतत्तु श्रोतुमिच्छामि व्यस्ता वेदा महात्मना ।
वेदव्यासस्वरूपेण यथा तेन युगेयुगे ॥ 3.3.2॥
यस्मिन्यस्मिन्युगे व्यासो यो य आसीन्महामुने ।
तन्तमाचक्ष्व भगवञ्छाशाभेदांश्च मे वद ॥ 3.3.3 ॥
श्रीपराशर उवाच [Sage Parasara said]
वेदद्रुमस्य मैत्रेय शाखाभेदाःसहस्रशः ।
न शक्तो विस्तराद्वक्तुं सेक्षेपेण शृणुष्व तम् ॥ 3.3.4 ॥
द्वापरेद्वापरे विष्णुर्व्यासरूपी महामुने ।
वेदमेकं सुबहुधा कुरुते जगतो हितः ॥ 3.3.5॥
वीर्यं तेजो बलं चाल्पं मनुष्याणामवेक्ष्य च ।
हिताय सर्वभूतानां वेदभेदान्करोति सः ॥ 3.3.6॥
ययासौ कुरुते तन्वा वेदमेकं पृथक्प्रभुः ।
वेदव्यासाभिधाना तु सा च मूर्तिर्मध्रुद्विषः ॥ 3.3.7॥
यस्मिन्मन्वंरते व्यासा येये स्युस्तान्निबोध मे ।
यथा च भेदः शाखानां व्यासेन क्रियते मुने ॥ 3.3.8॥
अष्टविंशतिकृत्वो वै वेदो व्यस्तो सहर्षिभिः ।
वैवस्वतेन्तरे तस्मिन्द्वापरेषु पुनः पुनः ॥ 3.3.8 ॥
वेदव्यासा व्यतीता ये ह्यष्टर्विशति सत्तम ।
चतुर्धा यैः कृतो वेदो द्वापरेषु पुनः पुनः ॥ 3.3.10 ॥
द्वापरे प्रथमे व्यस्तःस्वयं वेदः स्वयंभुवा ।
द्वितीये द्वापरे चैव वेदव्यासः प्रजापति ॥ 3.3.11 ॥
तृतीये चोशना व्यासश्चतुर्थे च बृहस्पतिः ।
सविता पञ्चमे व्यासः षष्ठे मृत्युः स्मृतः प्रभुः ॥ 3.3.12 ॥
सप्तमे च तथैवेन्द्रो वसिष्ठश्चाष्टमे स्मृतः ।
सारस्वतश्च नवमे त्रिधामा दशमे स्मृतः ॥ 3.3.13 ॥
एकादशे तु त्रिशिखो भरद्वाजस्ततः परः ।
त्रयोदशे चान्तरिक्षो वर्णी चापि चतुर्दशे ॥ 3.3.14॥
त्रय्यारुणः पञ्चदशे षोडशे तु धनञ्जयः ।
क्रतुञ्जयः सप्तदशे तदूर्ध्वं च जयःस्मृतः ॥ 3.3.15॥
ततो व्यासो भरद्वाजो भरद्वाजाच्च गौतमः ।
गौतमादुत्तरो व्यासो हर्यात्मा योभिधीयते ॥ 3.3.16॥
अथ हर्यात्मनोन्ते च स्मृतो वाजश्रवामुनिः ।
सोमशुष्कायणस्तस्मात्तृणबिन्दुरिति स्मृतः ॥ 3.3.17॥
ऋक्षोभूद्भार्गवस्तस्माद्वाल्मीकिर्योभिधीयते ।
तस्मादस्मत्पिता शक्तिर्व्यासस्तस्मादहं मुने ॥ 3.3.18 ॥
जातुकर्णोभवन्मत्तः कृष्णद्वैपायनस्ततः ।
अष्टविंशतिरित्येते वेदव्यासाः पुरातनाः ॥ 3.3.19॥
एको वेदश्चतुर्धा तु तैः कृतो द्वापरादिषु ॥ 3.3.20 ॥
भविष्ये द्वापरे चापि द्रौणिर्व्यासो भविष्यति ।
व्यतीते मम पुत्रेस्मिन् कृष्णद्वैपायने मुने ॥ 3.3.21 ॥
ध्रुवमेकाक्षरं ब्रह्म ओमित्येव व्यवस्थितम् ।
बृहत्वाद्बृंहणत्वाच्च तद्ब्रह्योत्यभिधीयते ॥ 3.3.22 ॥
प्रणवावस्थितं नित्यं भूर्भुवःस्वरितीर्यते ।
ऋग्यजुःसामाथर्वाणो यत्तस्मै ब्रह्मणे नमः ॥ 3.3.23 ॥
जगतः प्रलयोत्पत्त्योर्यत्तत्कारणसंज्ञितम् ।
महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः ॥ 3.3.24॥
अगाधापारमक्षय्यं जगत्संमोहनालयम् ।
स्वप्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम् ॥ 3.3.25॥
संख्यज्ञानवतां निष्ठा गतिः शमदमात्मनाम् ।
यत्तदव्यक्तममृतं प्रवृत्तिर्ब्रह्म शाश्वतम् ॥ 3.3.26॥
प्रधानमात्मयोनिश्च गुहासंस्थं च शब्द्यते ।
अविभागं तथा शुक्रमक्षयं बहुधात्मकम् ॥ 3.3.27॥
परमब्रह्मणे तस्मै नित्यमेव नमोनमः ।
यद्रूपं वासुदेवस्य परमात्मस्वरूपिणः ॥ 3.3.28 ॥
एतद्ब्रह्म त्रिधा भेदमभेदमपि स प्रभुः ।
सर्वभेदेष्वभेदोसौभिद्यते भिन्नबुद्धिभिः ॥ 3.3.29॥
स ऋङ्मयःसाममयः सर्वात्मा स यजुर्मयः ।
ऋग्यजुःसामसारात्मा स एवात्मा शरीरिणाम् ॥ 3.3.30 ॥
स भिद्यते वेदमयःस्ववेदं करोति भेदैर्बहुभिः सशाखम् ।
शाखाप्रणेता स समस्तशाखाज्ञानस्वरूपो भगवानसंगः ॥ 3.3.31 ॥
इति क्षिविष्णुमहापुराणे तृतीयांशे तृतीयोऽध्यायः (3)
श्रीपराशर उवाच [Sage Parasara said]
आद्यो वेदश्चतुष्पादः कृतः साहस्रसंमितः ।
ततो दशगुमः कृत्स्नो यज्ञोयं सर्वकामधुक् ॥ 3.4.1 ॥
ततोत्र मत्सुतो व्यासो अष्टविंशतिमेन्तरे ।
वेदमेकं चतुष्पादं चतुर्धा व्यभजत्प्रभुः ॥ 3.4.2॥
यथा च तेन वै व्यस्ता वेदब्यासेन धीमता ।
वेदास्तथा समस्तैस्तैर्व्यस्ता व्यस्तैस्तथा मया ॥ 3.4.3 ॥
तदनेनैव वेदानां शाखाभेदान्द्विजोत्तम ।
चतुर्युगेषु पठितान्समस्तेष्ववधारय ॥ 3.4.4 ॥
कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् ।
को ह्यन्यो भुवि मैत्रेय महाभारतकृद्भवेत् ॥ 3.4.5॥
तेन व्यस्ता यथा वेदा मत्पुत्रेण महात्मना ।
द्वापरे ह्यत्र मैत्रेय तस्मिञ्शृणु यथातथम् ॥ 3.4.6॥
ब्रह्मणा चोदितो व्यासो वेदान्व्यस्तुं प्रचक्रमे ।
अथ शिष्यान्प्रजग्राह चतुरो वेदपारगान् ॥ 3.4.7॥
ऋग्वेदपाठकं पैलं जग्राह स महामुनिः ।
वैशंपायननामानं यजुर्वेदस्य चाग्रहीत् ॥ 3.4.8॥
जैमिनिं सामवेदस्य तथैवाथर्ववेदवित् ।
सुमन्तुस्तस्य शिष्योभूद्वेदव्यासस्य धीमतः ॥ 3.4.8 ॥
रोमहर्षणनामानं महाबुद्धिं महामुनिः ।
सूतं जग्राह शिष्यं स इतिहासपुराणयोः ॥ 3.4.10 ॥
एक आसीद्यजुर्वेदस्तं चतुर्धा व्यकल्पयत् ।
चातुर्हेत्रमभूत्तस्मिंस्तेन यज्ञमथाकरोत् ॥ 3.4.11 ॥
आध्वर्यवं यजुर्भिस्तु ऋग्भिर्होत्रं तथा मुनिः ।
औद्गात्रं सामाभिश्चक्रे ब्रह्मत्वं चाप्यथर्वभिः ॥ 3.4.12 ॥
ततःस ऋच उद्धृत्य ऋग्वेदं कृतवान्मुनिः ।
यजृंषि च यजुर्वेदं सामवेदं च सामाभः ॥ 3.4.13 ॥
राज्ञां चाथर्ववेदेन सर्वकर्माणि च प्रभुः ।
कारयामास मैत्रेय ब्रह्मत्वं च यथास्थिति ॥ 3.4.14॥
सोयमेको यथा वेदस्तरुस्तेन पृथक्कृतः ।
चतुर्धाथ ततो जातं वेदपादपकाननम् ॥ 3.4.15॥
बिभेद प्रथमं विप्र पैलो ऋग्वेदपादपम् ।
इन्द्रप्रमितये प्रादाद्बाष्कलाय च संहिते ॥ 3.4.16॥
चतुर्धा स विभेदाथ बाष्कलोपि च संहिताम् ।
बोधादिभ्यो ददौ ताश्च शिष्येभ्यः समहामुनिः ॥ 3.4.17॥
बोध्याग्निमाढकौ तदूद्याज्ञवल्क्यपराशरौ ।
प्रतिशाखास्तु शाखायास्तस्यास्ते जगृहुर्मुने ॥ 3.4.18 ॥
इन्द्रप्रमितिरेकां तु संहितां स्वसूतं ततः ।
माण्डुकेयं महात्मानं मैत्रेयाध्यापयत्तदा ॥ 3.4.19॥
तस्य शिष्यप्रशिष्येभ्यः पुत्रशिष्यक्रमाद्ययौ ॥ 3.4.20 ॥
वेदमित्रस्तु शाकल्यः संहितां तामधीतवान् ।
चकार संहिताः पञ्च शिष्येभ्यः प्रददौ च ताः ॥ 3.4.21 ॥
तस्य शिष्यास्तु ये पञ्च तेषां नामानि मे शृणु ।
मुद्गलो गोमखश्चैव वात्स्यः शालीय एव च ।
शरीरः पञ्चमश्चासीन्मैत्रेय सुमहामतिः ॥ 3.4.22 ॥
संहितात्रितयं चक्रे शाकपूर्णस्तथेतरः ।
निरुक्तमकरोत्तदूच्चतुर्थं मुनिसत्तम ॥ 3.4.23 ॥
क्रैञ्चो वैतालिकस्तद्वद्बलाकश्च महामुनिः ।
निरुक्तश्च चतुर्थोभूद्वेदवेदाङ्गपारगः ॥ 3.4.24॥
इत्येताः प्रतिशाखाभ्यो ह्यनुशाखा द्विजोत्तम ।
बाष्कलश्चापरास्तिस्त्रःसंहिताः कृतवान्द्विज ।
शिष्यः कालायनिर्गार्ग्यस्तृतीयश्च कथाजपः ॥ 3.4.25॥
इत्येता बह्वृचाः प्रोक्ताः संहिता यैः प्रवर्तिताः ॥ 3.4.26॥
इति श्रीविष्णुमहापुराणे तृतीयांशेचतुर्थोऽध्यायः (4)
श्रीपराशर उवाच [Sage Parasara said]
यजुर्वेतदरोस्शाखाःसप्तविंशन्महामुनिः ।
वैशंपायननामासो व्यासशिष्यश्चकार वै ॥ 3.5.1 ॥
शिष्येभ्यः प्रददौ ताश्च जगृहुस्तेप्यनुक्रमात् ॥ 3.5.2॥
याज्ञवल्क्यस्तु तत्राभूद्बाह्यरातसुतो द्विज ।
शिष्यः परमधर्मज्ञो गुरुवृत्तिपरःसदा ॥ 3.5.3 ॥
ऋषिर्योद्य महामेरोः समाजे नागमिष्यति ।
तस्य वै सप्तरात्रात्तु ब्रह्महत्त्या भविष्यति ॥ 3.5.4 ॥
पूर्वमेवं मुनिगणैः समयो यः कृतो द्विज ।
वैशंपायन एकस्तु तं व्यतिक्रान्तवांस्तदा ॥ 3.5.5॥
स्वस्त्रीयं बालकं सोथ पदा स्पृष्टमताडयत् ॥ 3.5.6॥
शिष्यानाह स भोः शिष्या ब्रह्महत्त्यापहं व्रतम् ।
चरध्वं मत्कृते सर्वे न विचार्यमिदं तथा ॥ 3.5.7॥
अथाह याज्ञवल्क्यस्तु किमेभिर्भगवन् द्विजैः ।
क्लेशितैरल्पतेजोभिश्चारिष्येहमिदं व्रतम् ॥ 3.5.8॥
ततः क्रुद्धो गुरुः प्राह याज्ञवल्क्यं महामुनिम् ।
मुच्यतां यत्त्वयाधीतं मत्तो विप्रावमानक ॥ 3.5.8 ॥
निस्तेजसो वदस्येनान्यत्त्वं ब्राह्मणंपुङ्गवान् ।
तेन शिष्येण नार्थोस्ति ममाज्ञाभङ्गकारिणा ॥ 3.5.10 ॥
याज्ञवल्क्यस्ततः प्राह भक्त्यैतत्ते मयोदितम् ।
ममाप्यलं त्वयाधीतं यन्मया तदिदं द्विज ॥ 3.5.11 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्तो रुधिराक्तानि सरूपाणि यजूंषिसः ।
छर्दयित्वा ददौ तस्मै ययौ स स्वेच्छया मुनि ॥ 3.5.12 ॥
यजूंष्यथ विसृष्टानि याज्ञवल्क्येन वै द्विज ।
जगृहुस्तित्तिरा भूत्वा तैत्तिरीयास्तु ते ततः ॥ 3.5.13 ॥
ब्रह्महत्त्याव्रतं चीर्णं गुरुणा चोदितैस्तु तैः ।
चाक्रुराध्वर्यवं ते तु चरणान्मुनिसत्तम ॥ 3.5.14॥
याज्ञवल्क्योपि मैत्रेय प्राणायामपरायणः ।
तृष्टाव प्रयतःसूर्यं यजूंष्यभिलषंस्ततः ॥ 3.5.15॥
याज्ञवल्क्य उवाच
नमः सवित्रे द्वाराय मुक्तेरमिततेजसे ।
ऋग्यजुःसामभूताय त्रयीधाम्ने च ते नमः ॥ 3.5.16॥
नमोग्नीषोमभूताय जगतः कारणात्मने ।
भास्कराय परं तेजःसौषुम्णरुचिबिभ्रते ॥ 3.5.17॥
कलाकाष्ठानिमेषादिकालज्ञानात्मरूपिणे ।
ध्येयाय विष्णुरूपाय परमाक्षररूपिणे ॥ 3.5.18 ॥
बिभर्ति यःसुरगणानाप्यायेन्दुं स्वरश्मिभिः ।
स्वधामृतेन च पितॄंस्तस्मै तृप्त्यात्मने नमः ॥ 3.5.19॥
हिमांबुघर्मवृष्टीनां कर्ता भर्ता च यः प्रभुः ।
तस्मै त्रिकालरूपाय नमःसूर्यायवेधसे ॥ 3.5.20 ॥
अपहन्ति तभो यश्च जगतोस्य जगत्पतिः ।
तस्य धामधरो देवो नमस्तस्मै विवस्वते ॥ 3.5.21 ॥
सत्कर्मयोग्यो न जनो नैवापः शुद्धिकारणम् ।
यस्मिन्ननुदिते तस्मै नमो देवाय भास्वते ॥ 3.5.22 ॥
स्पृष्टो यदंशुभिर्लोकः क्रियायोग्यो हि जायते ।
पवित्रकारणात्माय तस्मै शुद्धात्मने नमः ॥ 3.5.23 ॥
नमः सवित्रे सूर्याय भास्कराय विवस्वते ।
आदित्यायादिभूताय देवादीनां नमो नमः ॥ 3.5.24॥
हिरण्मयं रथं यस्य केतवोमृतवाजिनः ।
वहन्ति भुवनालोकचक्षुषं तं नमाम्यहम् ॥ 3.5.25॥
श्रीपराशर उवाच [Sage Parasara said]
इत्येवमादिभिस्तेन स्तूयमानःस वै रविः ।
वाजिरूपधरः प्राह व्रीयतामिति वाञ्छितम् ॥ 3.5.26॥
याज्ञवल्क्यस्तदा प्राह प्रणिपत्य दिवाकरम् ।
यजूंषि तानि मे देहि यानि संति न मे गुरौ ॥ 3.5.27॥
श्रीपराशर उवाच [Sage Parasara said]
एवमुक्तो ददौ तस्मै यजूंषि भगवान्रविः ।
अयातयामसंज्ञानि यानि वेत्ति न तद्गुरुः ॥ 3.5.28 ॥
यजूंषि यैरधीतानि तानि विप्रैर्धिजोत्तम ।
वाजिनस्ते समाख्याताः सूर्योप्यश्वोभवद्यतः ॥ 3.5.29॥
शाखाभेदास्तु तेषां वै दश पञ्च च वाजिनाम् ।
काण्वाद्याःसुमहाभागा याज्ञवल्क्याः प्रकीर्तिताः ॥ 3.5.30 ॥
इति श्रीविष्णुमहापुराणे तृतीयांशे पञ्चमोऽध्यायः (5)
श्रीपराशर उवाच [Sage Parasara said]
सामवेदतरोः शाखा व्यासशिष्यस्य जौमिनिः ।
क्रमेण येन मैत्रेय विभेदशृणु तन्मम ॥ 3.6.1 ॥
सुसंतुस्तस्य पुत्रोभूत्सूत्वानश्चाभवत्सुतः ।
अधीतवन्तौ चैकैकां संहितां तौ माहमती ॥ 3.6.2॥
सहस्रसंहिताभेदं सुकर्मातत्सुतस्ततः ।
चकार तं च तच्छिष्यौ जगृहाते महाव्रतौ ॥ 3.6.3 ॥
हिरण्यनाभः कौसल्यः पौष्पिंजिश्च द्विजोत्तम ।
उदीच्याःसामगाः शिष्यास्तस्य पञ्चशतं स्मृताः ॥ 3.6.4 ॥
हिरण्यनाभात्तावत्यःसंहिता यैर्द्विजोत्तमैः ।
गृहीतास्तेपि चोच्यन्ते पण्डितैः प्राच्यसामगाः ॥ 3.6.5॥
लोकाक्षिर्नैधमिश्चैव कक्षिवांल्लाङ्गलिस्तथा ।
पौष्पिजिशिष्यास्तद्भेदैः संहिता बहुलीकृताः ॥ 3.6.6॥
हिरण्यनाभशिष्यस्तु चतुर्विशतिसंहिताः ।
प्रोवाच कृतनामासौ शिष्येभ्यश्च महामुनिः ॥ 3.6.7॥
तैश्चापि सामवेदोऽसौ शाखाभिर्बहुलीकृतः ।
अथर्वणामथो वक्ष्ये संहितानां समुच्चयम् ।
अथर्ववेदं स मुनिःसुसंतुरमितद्युतिः ॥ 3.6.8॥
शिष्यमध्यापयामास कबन्धं सोऽपि तं द्विधा ।
कृत्वा तुदेवदर्साय तथा पथ्याय दत्तवान् ॥ 3.6.8 ॥
देवदर्शस्य शिष्यास्तु मेधोब्रह्मबलिस्तथा ।
शौल्कायनिः पिप्पलादस्तथान्यो द्विजसत्तम ॥ 3.6.10 ॥
पथ्यस्यापि त्रयः शिष्याः कृता यैर्द्विज संहिताः ।
जाबालिः कुमुदादिश्च तृतीयः शौनको द्विज ॥ 3.6.11 ॥
शौनकस्तु द्विधा कृत्वा ददावेकां तु बभ्रवे ।
द्वितीयां संहितां प्रादात्सैन्धवाय य संज्ञिने ॥ 3.6.12 ॥
सैन्धवान्मुजिकेशश्च द्वेधभिन्नास्त्रिधा पुनः ।
नक्षत्रकल्पो वेदानां संहितानां तथैव च ॥ 3.6.13 ॥
चतुर्थःस्यादाङ्गिरसः शान्तिकल्पश्चपञ्चमः ।
श्रेष्ठास्त्वथर्वणामेते संहितानां विकल्पकाः ॥ 3.6.14॥
आख्यानैश्चाप्युपाख्यानैर्गाथाभिः कल्पशुद्धिभिः ।
पुराणसंहितां चक्रेपुराणार्थविशारदः ॥ 3.6.15॥
प्रख्यातो व्यासशिष्योभूत्सूतो वै रोमहर्षणः ।
पुरामसंहितां तस्मै ददौ व्यासो महामतिः ॥ 3.6.16॥
सुमतिश्चाग्निवर्चाश्च मित्रायुःशांसपायनः ।
अकृतव्रणसावर्णिष्पट्शिष्यास्तस्य चाभवन् ॥ 3.6.17॥
काश्यपः संहिताकर्ता सावर्णिः शांसपायनः ।
रोमहर्षाणिकाचान्या तिसॄणां मूलसंहिता ॥ 3.6.18 ॥
चतुष्टयेन भेदेन संहितानामिदं मुने ॥ 3.6.19॥
आद्यं सर्वपुराणानां पुराणं ब्राह्ममुच्यते ।
अष्टादशपुराणानि पुराणज्ञाः प्रचक्षते ॥ 3.6.20 ॥
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ।
तथान्यं नारदीयं च मार्कण्डेयं च सप्तमम् ॥ 3.6.21 ॥
आग्नेयमष्टमं चैव भविष्यन्नवमं स्मृतम् ।
दशमं ब्रह्मवैवर्तं लैङ्गमेकादशं स्मृतम् ॥ 3.6.22 ॥
वाराहं द्वादशं चैव स्कान्दं चात्र त्रयोदशम् ।
चतुर्दशंवामनं च कौर्मं पञ्चदशं तथा ।
मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् ।
महापुराणान्येतानि ह्यष्टादश महामुने ॥ 3.6.23 ॥
तथा चोप पुराणानि मुनिभिः कथितानि च ।
सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च ।
सर्वेष्वेतेषु कथ्यन्ते वंशानुचारीतं च यत् ॥ 3.6.24॥
यदेतत्तव मैत्रेय पुराणं कथ्यते मया ।
एतद्वैष्णवसंज्ञं वै पाद्मस्यसमनन्तरम् ॥ 3.6.25॥
सर्गे च प्रतिसर्गे च वंशमन्वन्तरादिषु ।
कथ्यते भगवान् विष्णुरशेषेष्विव सत्तम ॥ 3.6.26॥
अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ 3.6.27॥
आयुर्वेदोधनुर्वेदो गान्धर्वश्चैव ते त्रयः ।
अर्थशास्त्रं चतुर्थं तु विद्य ह्यष्टादशैव ताः ॥ 3.6.28 ॥
ज्ञेया ब्रह्मर्षयः पूर्वं तेभ्यो देवर्षयः पुनः ।
राजर्षयः पुनस्तेभ्य ऋषिप्रकृतयस्त्रयः ॥ 3.6.29॥
इति शाखाःसमाख्यातः शाखाभेदास्तथैव च ।
कर्तारश्चैव शाखानां भेदहेतुस्तथोदितः ॥ 3.6.30 ॥
सर्वमन्वन्तरेष्वेवं शाखाभेदाःसमाः स्मृताः ॥ 3.6.31 ॥
प्राजापत्या श्रुतिर्नित्या तद्विकल्पास्त्विमे द्विज ॥ 3.6.32 ॥
एतत्ते कथितं सर्वं यत्पृष्टोहमिहत्वया ।
मैत्रेय वेदसंबन्धः किमन्यत्कथयामि ते ॥ 3.6.33 ॥
इति श्रीविष्णुमहापुराणे तृतीयांशेःष्ठोध्यायः (6)
मैत्रेय उवाच
यथा वत्कथितं सर्वं यत्पृष्टोसिं मया गुरो ।
श्रोतुमिच्छाम्यहं त्वेकं तद्भवान्प्रब्रवीतु मे ॥ 3.7.1 ॥
सप्तद्वीपानि पातालविधयश्च महामुने ।
स्पतलोकाश्च येन्तस्था ब्रह्माण्डस्यास्य सर्वतः ॥ 3.7.2॥
स्थूलैः सूक्ष्मैस्तथा सूक्ष्मसूक्ष्मासूक्ष्मतरैः स्मृता ।
स्थूलात्स्थूलतरैश्चैव सर्वं प्राणिभिरावृतम् ॥ 3.7.3 ॥
अङ्गुलस्याष्टभागोपि न सोस्ति मुनिसत्तम ।
वसंति प्राणिनो यत्र कर्मबन्धनिबन्धनाः ॥ 3.7.4 ॥
सर्वे चैते वशं यान्ति यमस्य भगवन् किल ।
आयुषोन्ते तथा यान्ति यातनास्तत्प्रचोदिताः ॥ 3.7.5॥
यातनाभ्यः परिभ्रष्टा देवाद्यास्वथ योनिषु ।
जन्तवः परिवर्तन्ते शास्त्राणामेष निर्णयः ॥ 3.7.6॥
सोहमिच्छामि तच्छ्रोतुं यमस्य वशवर्तिनः ।
न भवन्तिनरा येन तत्कर्म कथयस्व मे ॥ 3.7.7॥
श्रीपराशर उवाच [Sage Parasara said]
अयमेव मुने प्रश्रो नकुलेन महात्मना ।
पृष्टः पितामहः प्राह भीष्मो यत्तच्छृणुष्व मे ॥ 3.7.8॥
भीष्ण उवाच
पुरा ममागतो वत्स सखा कालिङ्गको द्विजः ।
स मामुवाच प्रष्टो वै मया जातिस्मरो मुनिः ॥ 3.7.8 ॥
तेनाख्यातमिदं सर्वमित्थं चैतद्भविष्यति ।
तथा च तदभूद्वत्स यथोक्तं तेन धीमता ॥ 3.7.10 ॥
स पृष्टश्च मया भूयः श्रद्दधानेन वै द्विजः ।
यद्यदाह न तद्दृष्टमन्यथा हि मया क्वचित् ॥ 3.7.11 ॥
एकदा तु मया पृष्टमेतद्यद्भवतोदितम् ।
प्राह कालिङ्गको विप्रःस्मृत्वा तस्य मुनेर्वचः ॥ 3.7.12 ॥
जातिस्मरेण कथितो रहस्यः परमो मम ।
यमकिङ्करयोर्योभूत्संवादस्तं ब्रवीमि ते ॥ 3.7.13 ॥
कालिङ्ग उवाच
स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले ।
परिहर मधुसूदनप्रपन्नान्प्रभुरहमन्यनृणामवैष्णवानाम् ॥ 3.7.14॥
अहममरवरार्चितेन धात्रा यम इति लोकहिताहिते नियुक्तः ।
हरिगुरुवशगोस्मि न स्वतन्त्रः प्रभवति संयमने ममापि विष्णुः ॥ 3.7.15॥
कण्ट कमुकुटकर्णिकादिभेदैः कनकमभेदमपीष्यते यथैकम् ।
सुरपशुमनुजादिकल्पनाभिर्हरिर् अखिलाभिरुदीर्यते तथैकः ॥ 3.7.16॥
क्षितितलपरमाणवोनिलान्ते पुनरुपयान्ति यथैकतां धरित्र्याः ।
सुरपशुमनुजादयस्तथान्ते गुणकलषेण सनातनेन तेन ॥ 3.7.17॥
हरिममरवरार्चिताङ्घ्रिपद्मंप्रणमति यः परमार्थतो हि मर्त्यः ।
तमपगतसमस्तपापबन्धं व्रज परिहृत्य यथाग्निमाज्यसिक्तम् ॥ 3.7.18 ॥
इति यमवचनं निशम्य पाशी यम पुरुषस्तमुवाच धर्मराजम् ।
कथय मम विभो समस्तधातुर्भवति हरेः खलु यादृशोस्य भक्तः ॥ 3.7.19॥
यम उवाच
न चलति निजवर्मधर्मतो यःसममतिरात्मसुहृद्विपक्षपक्षे ।
न हरति न च हन्ति किञ्चिदुच्छैः स्थितमनसं तमवेहि विष्णुभक्तम् ॥ 3.7.20 ॥
कलिकलुपमलेन यस्य नाऽत्मा विमलमतेमलिनीकृतस्तमेनम् ।
मनसि कृतजनार्दनं मनष्यं सततमवेहि हरेरतीव भक्तम् ॥ 3.7.21 ॥
कनकमपि रहस्यवेक्ष्य बुद्ध्या तृणमिव यःसमवैति वै परस्वम् ।
भवति च भगवत्यनन्यचेताः पुरुषवरं तमवेहि विष्णुभक्तम् ॥ 3.7.22 ॥
स्फटिकगिरिशिलामलः क्व विष्णुर्मनसि नृणां क्व च मत्सरादिदोषः ।
न हि तुहिनमयूखरश्मिपुञ्जे भवति हुताशनदीप्तिजः प्रतापः ॥ 3.7.23 ॥
विमलमतिरमत्सरः प्रशान्तः शुचिचरितोखिलसत्त्वमित्रभूतः ।
प्रियहितवचनोऽस्तमानमायो वसति सदा हृदि तस्य वासुदेवः ॥ 3.7.24॥
वसति हृदिसनातने च तस्मिन्भवति पुमाञ्जगतोस्य सौम्यरूपः ।
क्षितिरसमतिरम्यमात्मनोन्तः कथयति चारुतयैव सालपोतः ॥ 3.7.25॥
यमनियमविधूत कल्पषाणामनुदिनमच्युतसक्तमानसानाम् ।
अपगतमदमानमत्सराणां त्यज भट दूरतरेण मानवानाम् ॥ 3.7.26॥
हृदि यदि भगवाननादिरास्ते हरिररिशङ्खगदाधरोव्यात्मा ।
तदघविघातकर्तृभिन्नं भवति कथं सति चान्धकारमर्के ॥ 3.7.27॥
हरति परधनं निहन्ति जन्तून्वदति तथा नृतनिष्टुराणि यश्च ।
अशुभजनितदुरमदस्य पुंसः कलुषमतेर्हृदि तस्य नास्त्यनन्तः ॥ 3.7.28 ॥
न सहति परसंपदं विनिन्दां कलुषमतिः कुरुते सतामसाधुः ।
नयजति न ददाति यश्च संतं मनसि न तस्य जनार्दनोऽधमस्य ॥ 3.7.29॥
परमसुहृदिबान्धवे कलत्रे मुततनयापितृमातृभृत्यवर्गे ।
शठमतिरुपयाति योर्थतृष्णां तमधमचेष्टमवेहि नास्य भक्तम् ॥ 3.7.30 ॥
अशुभमतिरसत्प्रवृत्ति सक्तःसततमनार्यकुशीलसंगमत्तः ।
अनुदिनकृतपापबन्धयुक्तः परुषपशुर्न हि वासुदेवभक्तः ॥ 3.7.31 ॥
सकलमिदमहं च वासुदेवः परमपुमान्परमेश्वरःस एकः ।
इति मतिरचलाभवत्यनन्ते हृदयगते व्रजतान्विहाय दूरात् ॥ 3.7.32 ॥
कमलनयन वासुदेव विष्णो धरणिधराच्युत शङ्खचक्रपाणे ।
भवशरणमितिरयन्ति ये वै त्यज भट दूरतरेण तानपापान् ॥ 3.7.33 ॥
वसति मनसि यस्य सोव्ययात्मा पुरुषवरस्य न तस्य दृष्टिपाते ।
तव गतिरथ वा ममास्ति चक्रप्रतिहतवीर्यबलस्य सोन्यलोक्यः ॥ 3.7.34॥
कालिङ्ग उवाच
इति निजभटशासनाय देवो रवित नयस्य किलाह धर्मराजः ।
मम कथितमिदं च तेन तुभ्यं कुरुवर सम्यगिदं मयापि चोक्तम् ॥ 3.7.35॥
श्रीभीष्म उवाच
नकुलैतन्ममाख्यातं पूर्वं तेन द्विजन्मना ।
कलिङ्गदेशादेश्येत्य प्रीतेन सुमहात्मना ॥ 3.7.36॥
मयाप्येतद्यथान्यायं सम्यग्वत्स तवोदितम् ।
यथा विष्णुमृतेनान्यत्त्राणां संसारसागरे ॥ 3.7.37॥
किङ्कराः पाशदण्डाश्च न यमो न च यातनाः ।
समर्थास्तस्य यस्यात्मा केशवालंबनःसदा ॥ 3.7.38 ॥
श्रीपराशर उवाच [Sage Parasara said]
एतन्मुने समाख्यातं गीतं वैवस्वतेन यत् ।
त्वत्प्रश्नानुगतं सम्यक्किमन्यच्छ्रोतुमिच्छसि ॥ 3.7.39॥
इति श्रीविष्णुमहापुराणे तृतीयांशे सप्तमोऽध्यायः (7)
मैत्रेय उवाच
भगवन्भगवान्देवः संसारविजिगीषुभिः ।
समाख्याहि जगन्नाथो विष्णुराराध्यते यथा ॥ 3.8.1 ॥
आराधिताच्च गोविन्दादाराधनपरैर्नरैः ।
यत्प्राप्यते फलं श्रोतुं तच्चेच्छामि महामुने ॥ 3.8.2॥
श्रीपराशर उवाच [Sage Parasara said]
यत्पृच्छति भवानेतत्सगरेण महात्मना ।
और्वः प्राह यथा पृष्टस्तन्मे निगदतः शृणु ॥ 3.8.3 ॥
सगरः प्रणिपत्त्यैनमौर्वं पप्रच्छभार्गवम् ।
विष्णोराराधनोपायसंबन्धं मुनिसत्तम ॥ 3.8.4 ॥
फलं चाराधिते विष्णो यत्पुंसामभिजायते ।
स चाह पृष्टो यत्नेन तस्मै तन्मेखिलं शृणु ॥ 3.8.5॥
और्व उवाच
भौमं मनोरथं स्वर्गं स्वर्गे रम्यं च यत्पदम् ।
प्राप्नोत्याराधिते विष्णौ निर्वाणमपि चोत्तमम् ॥ 3.8.6॥
यद्यदिच्छति यावच्च फलमाराधितेऽच्युते ।
तत्तदाप्नोति राजेन्द्र भूरि स्वल्पमथापि वा ॥ 3.8.7॥
यत्तु पृच्छसि भूपाल कथामाराध्यते हरिः ।
तदहं सकलं तुभ्यं कथयामि निबोध मे ॥ 3.8.8॥
वर्णाश्रमाचारवता पुरुषेणपरः पुमान् ।
विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥ 3.8.8 ॥
यजन्यज्ञान्यजत्येनं जपन्त्येनं जपन्नृप ।
निघ्नन्नन्यान्हिनस्त्येनं सर्वभूतो यतो हरिः ॥ 3.8.10 ॥
तस्मात्सदाचारवता पुरुषेण जनार्दनः ।
आराध्यस्तु स्ववर्णोक्तधर्मानुष्ठानकारिमा ॥ 3.8.11 ॥
ब्राह्मणः क्षत्रियो वैश्यः शुद्रश्च पृथिवीपते ।
स्वधर्मतत्परो विष्णुमाराधयति नान्यथा ॥ 3.8.12 ॥
परापवादं पैशुन्यमनृतं च न भाषते ।
अन्योद्वेगकरं वापि तोष्यते तेनकेशवः ॥ 3.8.13 ॥
परदारपरद्रव्यपरहिंसासु यो रतिम् ।
न करोति पुमान्भूप तोष्यते तेन केशवः ॥ 3.8.14॥
न ताडयति नो हन्ति प्राणिनो न च हिंसकः ।
यो मनुष्यो मनुष्येन्द्र तोष्यते तेन केशवः ॥ 3.8.15॥
देवाद्विजगुरूणां च शुश्रूषासु सदोद्यतः ।
तोष्यते तेन गोविन्दः पुरुषेणनरेश्वर ॥ 3.8.16॥
यथात्मनि च पुत्रे च सर्वभूतेषु यत्तथा ।
हितकामो हरिस्तेन सर्वदा तोष्यते सुखम् ॥ 3.8.17॥
यस्य रागादिदोषेण न दुष्टं नृप मानसम् ।
विशुद्धचेतसा विष्णुस्तोष्यते तेन सर्वदा ॥ 3.8.18 ॥
वर्णाश्रमेषु ये धर्माः शास्त्रोक्ता मुनिसत्तम ।
तेषु तिष्ठन्नरो विष्णुमादुष्टं नृप मानसम् ॥ 3.8.19॥
सगर उवाच
तदहं श्रोतुमिच्छमि वर्णधर्मानशेषतः ।
तथैवाश्रमधर्मंश्च द्विजवर्य ब्रवीहि तान् ॥ 3.8.20 ॥
और्व उवाच
ब्राह्मणक्षत्रियविशां शुद्राणां च यथाकमम् ।
त्वमेकाग्रमतिर्भूत्वा शृणु धर्मान्मयोदितान् ॥ 3.8.21 ॥
दानं दद्याद्यजेद्देवान् यज्ञिः स्वाध्यायतत्परः ।
नित्योदकी भवेद्विप्रः कुर्याच्चाग्निपरिग्रहम् ॥ 3.8.22 ॥
वृत्त्यर्थं याजयेच्चान्यानन्यानध्यापयेत्तथा ।
कुर्यात्प्रतिग्रहादानंशुक्लार्थान्न्यायतो द्विजः ॥ 3.8.23 ॥
सर्वभूतहितं कुर्यान्नाहितं कस्याचिद्द्विजः ।
मैत्री समस्तभूतेषु ब्राह्मणस्योत्तमं धनम् ॥ 3.8.24॥
ग्राव्णिरत्ने च पारक्ये समबुद्धिर्भवेद्द्विजः ।
ऋतावभिगमः पत्न्यां शस्तते चास्य पार्थिव ॥ 3.8.25॥
दानानि दद्यादिच्छातो द्विजेभ्यः क्षत्रियोपि वा ।
यजेच्च विविधैर्यज्ञैरधीयीत च पार्थिवः ॥ 3.8.26॥
शस्त्राजीवो महीरक्षा प्रवरा तस्य जीविका ।
तत्रापि प्रथमः कल्पः पृथिवीपरिपारनम् ॥ 3.8.27॥
धरित्रीपालनेनैव कृतकृत्या नराधिपाः ।
भवन्ति तृपतेरंशा यतो यज्ञादिकर्मणाम् ॥ 3.8.28 ॥
दुष्टानां शासनाद्राजा शिष्टानां परिपालनात् ।
प्राप्नोत्यभिमतांल्लोकान्वर्णसंस्थां करोति यः ॥ 3.8.29॥
पाशुपाल्यं च वाणिज्यं कृषिं च मनुजेश्वर ।
वैश्याय जीविकां ब्रह्मा ददौ लोकपितामहः ॥ 3.8.30 ॥
तस्याप्यध्ययनं यज्ञो दानं धर्मश्च शस्यते ।
नित्यनैमित्तिकादीनामनुष्ठानं च कर्मणाम् ॥ 3.8.31 ॥
द्विजातिसंश्रितं कर्म तादर्थ्यं तेन पोषणम् ।
क्रयविक्रयजैर्वापि धनैः कारूद्भवेन वा ॥ 3.8.32 ॥
शुद्रस्य सन्नतिः शौचं सेवा स्वामिन्यमायया ।
अमन्त्रयज्ञो ह्यस्तेयं तत्संगो विप्ररक्षणम् ॥ 3.8.33 ॥
दानं च दद्याच्छूद्रोपि पाकयज्ञैर्यजेत च ।
पित्र्यादिकं च तत्सर्वं शुद्रः कुर्वीत तेन वै ॥ 3.8.34॥
भृत्यादिभरणार्थाय सर्वेषां च परिग्रहः ।
ऋतुकालेभिगमनं स्वदारेषु महीपते ॥ 3.8.35॥
दया समस्तभूतेषु तितिक्षा नातिमानिता ।
सत्यं शौचमनायासो मङ्गलं प्रियवादिता ॥ 3.8.36॥
मैत्र्यस्पृहा तथा तद्वदकार्पण्यंनरेश्वर ।
अनुसूया च सामान्यवर्णानां कथिता गुणाः ॥ 3.8.37॥
आश्रमाणां च सर्वेषामेते सामान्यलक्षणाः ।
गुणांस्तथावद्धर्मांश्च विप्रादीनामिमाञ्छृणु ॥ 3.8.38 ॥
क्षात्त्रं कर्म द्विजस्योक्तं वैश्यं कर्म तथा पदि ।
राजन्यस्य च वैश्योक्तं शूद्रकर्म न चैतयोः ॥ 3.8.39॥
सामर्थ्ये सति तत्त्याज्यमुभाभ्यामपि पार्थिव ।
तदेवापदि कर्तव्यं न कुर्यात्कर्मसंकरम् ॥ 3.8.40 ॥
इत्येते कथिता राजन्वर्णधर्मा मया तव ।
धर्मानाश्रमिणां सम्यग्ब्रुवतो मे निशामय ॥ 3.8.41 ॥
इति श्रिविष्णुमहापुराणे तृतीयांशेऽष्टमोध्यायः (7)
और्व उवाच
बालः कृतोपनयनो वेदाहरणतत्परः ।
गुरुगेहे वसेद्भूप ब्रह्मचारी समाहितः ॥ 3.8.1 ॥
शौचा चारव्रतं तत्र कार्यं शुश्रूषणं गुरोः ।
व्रतानि चरता ग्राह्यो वेदश्च कृतबुद्धिना ॥ 3.8.2॥
उभे संध्ये रविं भूप तथैवाग्निं समाहितः ।
उपतिष्ठेत्तदा कुर्याद्गुरोरप्यभिवादनम् ॥ 3.8.3 ॥
स्थिते तिष्ठेद्वाजेद्याते नीचैरासीत चासति ।
शिष्यो गुरोर्नृपश्रेष्ठ प्रतिकूलं न संचरेत् ॥ 3.8.4 ॥
तेनै वोक्तं पठेद्वेदं नान्यचित्तः पुरःस्थितः ।
अनुज्ञातश्च भिक्षान्नमश्नीयाद्गुरुणा ततः ॥ 3.8.5॥
अवगाहेदपः पूर्वमाचार्येणावगाहितः ।
समिज्जलादिकं चास्य काल्यं काल्यमुपानयेत् ॥ 3.8.6॥
गृहीतग्राह्यवेदश्च ततोऽनुज्ञामवाप्य च ।
गार्हस्थ्यमाविशेत्प्राज्ञो निष्पन्नगुरुणिष्कृतिः ॥ 3.8.7॥
विधिनावाप्तदारस्तु धनं प्राप्य स्वकर्मणा ।
गृहस्थकार्यमखिलं कुर्याद्भूपाल शक्तितः ॥ 3.8.8॥
निवापेन पितॄनर्चन् यज्ञैर्देवांस्तथातिथीन् ।
अन्नैर्मुनींश्च स्वाध्यायैरपत्येन प्रजापतिम् ॥ 3.8.8 ॥
भूतानि बलिभिश्चैव वात्सल्येनाखिलं जगत् ।
प्राप्नोति लोकान्पुरुषो निजकर्मसमार्जितान् ॥ 3.8.10 ॥
बिक्षाभुजश्च ये केचित्परिव्रड्ब्रह्मचारिणः ।
तेप्यत्रैव प्रतिष्ठन्ते गार्हस्थ्यं तेन वै परम् ॥ 3.8.11 ॥
वेदाहरणकार्याय तीर्थस्नानाय च प्रभो ।
अटन्ति वसुधां विप्राः पृथिवीदर्शनाय च ॥ 3.8.12 ॥
अनिकेता ह्यनाहारा यत्र सायङ्गृहाश्च ये ।
तेषां गृहस्थः सर्वेषां प्रतिष्ठा योनिरेव च ॥ 3.8.13 ॥
तेषां स्वागतदानादिवक्तव्यं मधुरं नृप ।
गृहागतानां दद्याच्च शयनासनभोजनम् ॥ 3.8.14॥
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥ 3.8.15॥
अवज्ञानमहङ्कारो दंभश्चैव गृह सतः ।
परितापोपघातौ च पारुष्यं च न शस्यते ॥ 3.8.16॥
यस्तु सम्यक्करोत्येवं गृहस्थः परमं विधिम् ।
सर्वबन्धविनिर्मुक्तो लोकानाप्नोत्यनुत्तमान् ॥ 3.8.17॥
वयःपरीणतो राजन्कृतकृत्यो गृहाश्रमी ।
पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा ॥ 3.8.18 ॥
पर्णमूलफलाहारः केशश्मश्रुजटाधरः ।
भूमिशायी भवेत्तत्र मुनिःसर्वातिथिर्नृप ॥ 3.8.19॥
चर्मकाशकुशैः कुर्यात्परिधानोत्तरीयके ।
तद्वत्त्रिषवणं स्नानं शस्तमस्य नरेश्वरः ॥ 3.8.20 ॥
देवताभ्यर्चनं होमःसर्वाभ्यागतपूजनम् ।
भिक्षाबलिप्रदानं च शस्तमस्य नरेश्वर ॥ 3.8.21 ॥
वन्यस्त्रेहेन गात्राणामभ्यङ्गश्चास्य शस्यते ।
तपश्च तस्य राजेन्द्र शीतोष्णादिसहिष्णुता ॥ 3.8.22 ॥
यस्त्वेतां नियतश्चर्यां वानप्रस्थश्चरेन्मुनिः ।
स दहत्यग्निवद्दोषाञ्जयेल्लोकांश्च शाश्वतान् ॥ 3.8.23 ॥
चतुर्थश्चाश्रमो भिक्षोः प्रोज्यते यो मनीषिभिः ।
तस्य स्वरूपं गदतो मम श्रोतुं नृपार्हसि ॥ 3.8.24॥
पुत्रद्रव्यकलत्रेषु त्यक्तस्त्रेहो नराधिप ।
चतुर्थमाश्रमस्थानं गच्छेन्निर्धूतमत्सरः ॥ 3.8.25॥
त्रैवर्गिकांस्त्यजेत्सर्वानारंभानवनीपते ।
मित्रादिषु समो मैत्रःसमस्तेष्वेव जन्तुषु ॥ 3.8.26॥
जरायुजाण्डजादीनां वाड्मनःकायकर्मभिः ।
युक्तः कुर्वीत न द्रोहं सर्वसंगांश्चवर्जयेत् ॥ 3.8.27॥
एकारात्रस्थितिर्ग्रामे पञ्चरात्रस्थितिः पुरे ।
तथा तिष्ठेद्यथाप्रीतिर्द्वेषो वा नास्य जायते ॥ 3.8.28 ॥
प्राणयात्रानिमित्तं च व्यङ्गारे भुक्तवज्जने ।
काले प्रशस्तवर्णानां भिक्षार्थं पर्यटेद्गृहान् ॥ 3.8.29॥
कामः क्रोधस्तथा दर्पमोहलोभादयश्च ये ।
तांस्तु सर्वान्परित्यज्यपरिव्राण्निर्ममो भवेत् ॥ 3.8.30 ॥
अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः ।
तस्यापि सर्वभूतेभ्यो न भयं विद्यते क्वचित् ॥ 3.8.31 ॥
कृत्वाग्निहोत्रंस्वशरीरसंस्थं शारीरमग्निं स्वमुखे जुहोति ।
विप्रस्तु भैक्ष्योपहितैर्हविर्भिश्चिताग्निकानां व्रहति स्म लोकान् ॥ 3.8.32 ॥
मोक्षोश्रमं यश्चरते यथोक्तं शुचिःसुखं कल्पितबुद्धियुक्तः ।
अनिन्धनं ज्योतिरिव प्रशान्तःस ब्रह्मलोकं श्रयते द्विजातिः ॥ 3.8.33 ॥
इतिश्रीविष्णुमहापुराणे तृतीयांशे नवमोऽध्यायः (8)
सगर उवाच
कथितं चातुराश्रम्यं चातुर्वर्ण्यक्रियास्तथा ।
पुंसः क्रियामहं श्रोतुमिच्छामि द्विजसत्तम ॥ 3.10.1 ॥
नित्यनैमित्तिकाः काम्याः क्रियाः पुंसामशेषतः ।
समाख्याहि भृगुश्रेष्ठ सर्वज्ञो ह्यसि मे मतः ॥ 3.10.2॥
और्व उवाच
यदेतदुक्तं भवता नित्यनैमित्तिकाश्रयम् ।
तदहं कथयिष्यांमि शृणुष्वैकमना मम ॥ 3.10.3 ॥
जातस्य जातकर्मादिक्रियाकाण्डमशेषतः ।
पुत्रस्य कुर्वीत पिता श्राद्धं चाभ्युदयात्मकम् ॥ 3.10.4 ॥
युग्मांस्तु प्राड्मुखान्विप्रान्भोजयेन्मनुभेश्वर ।
यथा तृप्तिस्तथा कुर्याद्दैवं पित्र्यं द्विजन्मनाम् ॥ 3.10.5॥
दध्ना युक्तैः सबदरैर्मिश्रान् पिडान्मुदा युतः ।
नान्दीमुखेभ्यस्तीर्थेन दद्याद्दैवेन पार्थिव ॥ 3.10.6॥
प्राजापत्येन वा सर्वमुपचारं प्रदक्षिणम् ।
कुर्वीत तत्तथाशेषवृद्धिकालेषु भूपते ॥ 3.10.7॥
ततश्च नाम कुर्वीत पितैव दशमेहनि ।
देवपूर्वं नराख्यं हि शर्मवर्मादिसंयुतम् ॥ 3.10.8॥
शर्मेति ब्राह्यणस्योक्तं वर्मेति क्षत्रसंश्रयम् ।
गुप्तदासात्मकं नाम प्रशस्तं वैश्यशुद्रयोः ॥ 3.10.8 ॥
नार्थहीनं न चाशस्तं नापशब्दयुतं तथा ।
नामङ्गल्यं जुगुप्साकं नाम कुर्यात्समाक्षरम् ॥ 3.10.10 ॥
नातिदीर्घंनातिह्रस्वं नातिगुर्वक्षरान्वितम् ।
सुखोच्चार्यं तु तन्नाम कुर्याद्यत्प्रणवाक्षरम् ॥ 3.10.11 ॥
ततोऽनन्तरसंस्कारसंस्कृतो गुरुवेश्मनि ।
यथोक्तविधिमाश्रित्य कुर्याद्विद्यापरिग्रहम् ॥ 3.10.12 ॥
गृहीतविद्यो गुरवे दत्त्वा च गुरुदक्षिणाम् ।
गार्हस्थ्यमिच्छन्भूपाल कुर्याद्दारपरिग्रहम् ॥ 3.10.13 ॥
ब्रह्मचर्येण वा कालं कुर्यात्संकल्पपूर्वकम् ।
गुगोः शुश्रुषणं कुर्यात्तत्पुत्रादेरथापि वा ॥ 3.10.14॥
वैखानसो वापि भवेत्परिव्राडथ वेच्छया ।
पूर्वसंकल्पितं यादृक्तादृक्कुर्यान्नराधिप ॥ 3.10.15॥
वर्षैरेकगुणां भार्यामुद्वहेत्त्रिगुमःस्वयम् ।
नाति केशामकेशां वा नातिकृष्णां न पिङ्गलाम् ॥ 3.10.16॥
निसर्गतोधिकाङ्गां वा न्यूनाङ्गामपि नोद्वहेत् ।
नाविशुद्धां सरोमां वाकुलजां वापि रोगिणीम् ॥ 3.10.17॥
न दुष्टां दुष्टवाक्यां वा व्यङ्गिनीं पुतृमातृतः ।
न श्मश्रुव्यञ्जनवतीं न चैव पुरुषाकृतिम् ॥ 3.10.18 ॥
न घर्वरस्वरां क्षामां तथा काकस्वरां न च ।
नानिबन्धेक्षणां तद्वद्वृत्ताक्षीं नोद्वहेद्बुधः ॥ 3.10.19॥
यस्याश्च रोमशे जङ्घे गुल्फौ यस्यास्तथोन्नतौ ।
गण्डयोः कूपरौ यस्या हसंत्यास्तां न चोद्वहेत् ॥ 3.10.20 ॥
नातिरूक्षच्छविं पाडुकरजामरुणेक्षणाम् ।
आपीन हस्तपादां च नकन्यामुद्वहेद्बुधः ॥ 3.10.21 ॥
न वामनां नातिदीर्घां नोद्वहेत्संहतभ्रुवम् ।
न चाति च्छिद्रदशनां न करालमुखीं नरः ॥ 3.10.22 ॥
पञ्चमीं मातृपक्षाच्च पितृपक्षाच्च सप्तमीम् ।
गृहस्थश्चोद्वहेत्कन्यां न्यायेन विधिना नृप ॥ 3.10.23 ॥
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ।
गान्धर्वराक्षयौ चान्यौ पैशाचश्चाष्टमो मतः ॥ 3.10.24॥
एतेषां यस्य यो धर्मो वर्मस्योक्तो महर्षिभिः ।
कुर्वीत दारग्रहणं तेनान्यं परिवर्जयेत् ॥ 3.10.25॥
सधर्मचारिणीं प्राप्य गार्हस्थ्यं सहितस्तया ।
समुद्वहेद्ददात्येतत्सम्यगूढं महाफलम् ॥ 3.10.26॥
इति श्रीविष्णुमहापुराणे तृतीयांशे दशमोऽध्यायः (10)
सगर उवाच
गृहस्थस्य सदाचारं श्रोतुमिच्छाम्यहं मुने ।
लोकादस्मात्परस्माच्च यमातिष्ठन्न हीयते ॥ 3.11.1 ॥
और्व उवाच
श्रूयतां पृथिवीपाल सदाचारस्य लक्षणम् ।
सदाचारवता पुंसा जितौ लोकावुभावपि ॥ 3.11.2॥
साधवः क्षीणदेषास्तु सच्चब्दः साधुवाचकः ।
तेषामाचरणं यस्तु सदाचारःस उच्यते ॥ 3.11.3 ॥
सप्तर्षयोथ मनवः प्रजानां पतयस्तथा ।
सदाचारस्य वक्तारः कर्तारश्च महीपते ॥ 3.11.4 ॥
ब्राह्मो मुहूर्ते चोत्थाय मनसा मतिमात्रृप ।
प्रबुद्धश्चिन्तयेद्धर्ममर्थं चाप्यविरोधिनम् ॥ 3.11.5॥
अपीडया तयोः काममुभयोरपि चिन्तयेत् ।
दृष्टादृष्टविनाशाय त्रिवर्गे समदर्शिना ॥ 3.11.6॥
परित्यजेदर्थकामौ धर्मपीडाकरौ नृप ।
धर्ममप्यसुखोदर्कं लोकविद्वेष्टमेव च ॥ 3.11.7॥
ततः काल्यं समुत्थाय कुर्यान्मूत्रं नरेश्वर ॥ 3.11.8॥
नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः ।
द्वरादावसथान्मूत्र पुरीषं च विसर्जयेत् ॥ 3.11.8 ॥
पादावनेजनोच्छिष्टे प्रक्षिपेन्न गृहाङ्गणे ॥ 3.11.10 ॥
आत्मच्छायां तरुच्छायां गोसूर्याग्न्यनिलांस्तथा ।
गुरुद्विजादींस्तु बुधो नाधिमेहेत्कदाचन ॥ 3.11.11 ॥
न कृष्टे सस्यमध्ये वा गौव्रजे जनसंसदि ।
न वर्त्मनि न नद्यादितीर्थेषु पुरुषर्षभ ॥ 3.11.12 ॥
नाप्सु नैवांभसस्तीरे श्मशाने न समाचरेत् ।
उत्सर्गं वै पुरीषस्य मूत्रस्य च विसर्जनम् ॥ 3.11.13 ॥
उदङ्मुखो दिवामूत्रं विपरीतमुखो निशि ।
कुर्वितानापदि प्राज्ञो मूत्रोत्सर्गं च पार्थिव ॥ 3.11.14॥
तृणैरास्तीर्य वसुधां वस्त्रप्रावृतमस्तकः ।
तिष्ठेन्नातिचिरं तत्र नैव किञ्चिदुदीरयेत् ॥ 3.11.15॥
वल्मीकमूषिकोद्भूतां मृदं नान्तर्जलां तथा ।
शौचावशिष्टां गेहाच्चनादद्याल्लेपसंभवाम् ॥ 3.11.16॥
अणुप्राण्युपपन्नां च हलोत्खातां च पार्थिव ।
परित्यजेन्मृदो ह्येताःसकलाः शौचकर्मणि ॥ 3.11.17॥
एका लिङ्गे गुदे तिस्त्रो दस वामकरे नृप ।
हस्तद्वये च स्पत स्युर्मृदः शौचोपपादिकाः ॥ 3.11.18 ॥
अच्छेनागन्धलेपेन जलेनाबुद्बुदेन च ।
आचामेच्चमृदंभूयस्तथा दद्यात्समाहितः ॥ 3.11.19॥
निष्पादिताङ्घ्रिशौचस्तु पादावभ्युक्ष्य तैः पुनः ।
त्रिः पिबेत्सलिलं तेन तथा द्विः परिमार्जयेत् ॥ 3.11.20 ॥
शिर्षण्यानि ततः खानि मूर्धानं च समालभेत् ।
बाहू नाभिं च तोयेन हृदयं चापि संस्पृशेत् ॥ 3.11.21 ॥
स्वाचान्तस्तु ततः कुर्यात्पुमान्केशप्रसाधनम् ।
आदर्शाञ्जनमाङ्गल्यं दूर्वाद्यालंभनानि च ॥ 3.11.22 ॥
ततःस्ववर्णधर्मेण वृत्त्यर्थं च धनार्जनम् ।
कुर्वीत श्रद्धासंपन्नो यजेच्च पृथिवीपते ॥ 3.11.23 ॥
सोमसंस्था हविःसंस्थाः पाकसंस्थास्तु संस्थिताः ।
धने यतो मनुष्याणां यतेतातो धनार्जने ॥ 3.11.24॥
नदीनदतटाकेषु देवखातजलेषु च ।
नित्यक्रियार्थं स्नायीत गीरिप्रस्त्रवणेषु च ॥ 3.11.25॥
कूपेषूद्धृततोयेन स्नानं कुर्वीत वा भुवि ।
गृहेषूद्धृततोयेन ह्यथवा भुव्यसंभवे ॥ 3.11.26॥
शुचिवस्त्रधरः स्नातो देवर्षिपितृतर्पणम् ।
तेषामेव हि तीर्थेनकुर्वीत सुसमाहितः ॥ 3.11.27॥
त्रिरपः प्रीणनार्थाय देवानामपवर्जयेत् ।
ऋषीणां च यथान्यायं सकृच्चापि प्रजापतेः ॥ 3.11.28 ॥
पितॄणां प्रीणनार्थाय तदपः पृतिवीपते ।
पितामहेभ्यश्च तथा प्रीमयेत्प्रपितामहान् ॥ 3.11.29॥
मातामहाय तत्पित्रे तत्पित्रे च समाहितः ।
दद्यात्पैत्रेणतीर्थेन काम्यं चान्यच्छृणुष्व मे ॥ 3.11.30 ॥
मात्रे स्वमात्रे तन्मात्रे गुरुपत्न्यै तथा नृप ।
गुरूणां मातुलानां च स्निग्धमित्राय भूभूजे ॥ 3.11.31 ॥
इदं चापि जपेदंबु दद्यादात्मेच्छयानृप ।
उपकाराय भूतानां कृतदेवादितर्पणम् ॥ 3.11.32 ॥
देवासुरास्तथा यक्षा नागगन्धर्वराक्षसाः ।
पिशाचा गुह्यकाःसिद्धाः कूष्माडाः पशवः खगाः ॥ 3.11.33 ॥
जलेचरा भूलेचरा भूनिलया वाय्वाहाराश्च जतवः ।
तृप्तिमेतेन यान्त्याशु मद्दत्तेनांबुनाखिलाः ॥ 3.11.34॥
नरकेषु समस्तेषु यातनासु च संस्थिताः ।
तेषामाप्यायनायौतद्दीयते सलिलं मया ॥ 3.11.35॥
ये बान्धवाबान्धवा ये येन्यजन्मनि बान्धवाः ।
ते तृप्तिमखिला यान्तु ये चास्मत्तोभिवाञ्छति ॥ 3.11.36॥
यत्र क्वचनसंस्थानां क्षुत्तृष्णोपहतात्मनाम् ।
इदमाप्यायनायास्तु मया दत्तं तिलोदकम् ॥ 3.11.37॥
काम्योदकप्रदानं ते मयैतत्कथितं नृप ।
यद्दत्त्वा प्रीणयत्येतन्मनुष्यःसकलं जगत् ।
जगदाप्यायनोद्भूतं पुण्यमाप्नोति चानध ॥ 3.11.38 ॥
दत्त्वा काम्योदकं सम्यगेतेभ्यः श्राद्धयान्वितः ।
आचम्य च ततो दद्यात्सूर्याय सलिलाञ्जलिम् ॥ 3.11.39॥
नमो विवस्वते ब्रह्मभास्वते विष्णुतेजसे ।
जगत्सवित्रे शुचये सवित्रे कर्मसाक्षिणे ॥ 3.11.40 ॥
ततो गृहार्ऽचनं कुर्यादभीष्टसुरपूजनम् ।
जलाभिषेकैः पुष्पैश्च धूपाद्यैश्च निवेदनम् ॥ 3.11.41 ॥
अपूर्वमाग्निहोन्त्र च कुर्यात्प्राग्ब्रह्मणे नृप ॥ 3.11.42 ॥
प्रजापतिं समुद्दिश्य दद्यादाहुतिमादरात् ।
गृहेभ्यः काश्य पायाथ ततोनुमतये क्रमात् ॥ 3.11.43 ॥
तच्छेषं मणिके पृथ्वीर्पजन्येभ्यः क्षिपेत्ततः ।
द्वारे धातुर्विधातुश्च मध्ये च ब्रह्मणे क्षिपेत् ॥ 3.11.44॥
गृहस्य पुरषब्याघ्र दिग्देवानपि मे शृणु ॥ 3.11.45॥
इन्द्राय धर्मराजाय वरुणाय तथेन्दवे ।
प्राच्यादिषु बुधो दद्याद्धुतशेषात्मकं बलिम् ॥ 3.11.46॥
प्रागुत्तरे च दिग्भागे धन्वन्तारिबलिं बुधः ।
निर्वपैद्वैश्वदेवं च कर्म कुर्यादतः परम् ॥ 3.11.47॥
वायव्यां वायवे दिक्षु समस्तासु यथादिशम् ।
ब्रह्मणे चान्तारीक्षाय भानवे च क्षिपेद्बलिम् ॥ 3.11.48 ॥
विश्वेदवान्विश्वभूतानष्टौ विश्वपतीन्पितॄन् ।
यक्षाणां च समुद्दिश्य बलिं दद्यान्नरेश्वर ॥ 3.11.49॥
ततोन्यदन्नमादाय भूमि भागे शुचौ बुधः ।
दद्यादशेषभूतेभ्यः स्वेच्चया सुसमाहितः ॥ 3.11.50 ॥
देवा मनुष्याः पशवो वयांसि सिद्धाःसयक्षोरगदैत्यसंघाः ।
प्रतोः पिशाचास्तरवःस मस्ता ये चान्नमिच्छन्ति मयात्र दत्तम् ॥ 3.11.51 ॥
पिपीलिकाः कीटपतङ्गकाद्या बुभुक्षिताः कर्मनिबन्धबद्धाः ।
प्रयान्ति ते तृप्तिमिदं मयान्नन्तेभ्यो विसृष्टं सुखिनो भवन्तु ॥ 3.11.52 ॥
येषां न माता न पिता न बन्धुर्नैवान्नसिद्धिर्न नथान्नमस्ति ।
तत्तृप्येऽन्नं भुवि दत्तमेव ते यान्तु तृप्तिं मुदिता भवन्तु ॥ 3.11.53 ॥
भूतानि सर्वाणि तथान्नमेतदहं च विष्णुर्न यतोन्यदस्ति ।
तस्मादहं भूतनिकायभूतमन्नं प्रयच्छामि भवाय तेषाम् ॥ 3.11.54॥
चतुर्दशो भूतगणो य एष तत्र स्थिता येऽखिलभूतसंघाः ।
तृप्त्यर्थमन्नं हि मया निसृष्टं तेषामिदं ते मुदिता भवन्तु ॥ 3.11.55॥
इत्युच्चार्य नरो दद्यादन्नं श्रद्धासमन्वितः ।
भुवि सर्वोपकाराय गृही सर्वाश्रयो यतः ॥ 3.11.56॥
श्वचण्डालविहङ्गानां भुवि दद्यान्नरेश्वर ।
ये चान्ये पतिताः केचिदपुत्राः संतिमानवाः ॥ 3.11.57॥
ततो गोदोहमात्रं वै कालं तिष्ठेद्गृहाङ्गणे ।
अतिथिग्रहणार्थाय तदूर्ध्वं तु तथैच्छाया ॥ 3.11.58 ॥
अतिथिं तत्र संप्राप्तं पूजयेत्स्वागदादिना ।
तथासनप्रदानेन पादप्रक्षालनेन च ॥ 3.11.59॥
श्रद्धया चान्नदानेन प्रियप्रश्नोत्तरेण च ।
गच्छतश्चानुयानेन प्रीतिमुत्पादयेद्गृही ॥ 3.11.60 ॥
अज्ञातकुलनामानमन्यदेशादुपागतम् ।
पूजयेदतिथिं सम्यङ्नैकग्रामनिवासिनम् ॥ 3.11.61 ॥
अकिञ्चनमसंबन्धमज्ञातकुलशीलिनम् ।
असंपूज्यातिथिं भुक्त्वा भोक्तुकामं व्रजत्यधः ॥ 3.11.62 ॥
स्वाध्यायगोत्राचरणमपृष्ट्वा च तथा कुलम् ।
हिरण्यगर्भबुद्ध्या तं मन्येताभ्यागतं गृही ॥ 3.11.63 ॥
पित्रर्थं चापरं विप्रमेकमप्याशयेन्नृप ।
तद्देश्यं विदिताचारसंभूतिं पाञ्चयज्ञिकम् ॥ 3.11.64॥
अन्नाग्रञ्च समुद्धृत्य हन्तकारोपकल्पितम् ।
निर्वापभूतं भूपाल श्रोत्रियायोपपादयेत् ॥ 3.11.65॥
दद्याच्च भिक्षात्रितयं परिव्राड्ब्रह्मचारीणाम् ।
इच्छया च बुधो दद्याद्विभवे सत्यवारितम् ॥ 3.11.66॥
इत्येतेतिथयः प्रोक्ता प्रागुक्ता भिक्षवश्च ये ।
चतुरः पूजायित्वैतान्नृप पापात्प्रमुच्यते ॥ 3.11.67॥
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति ॥ 3.11.68 ॥
धाता प्रजापतिः शक्रो वह्निर्वसुगणोर्ऽयया ।
प्रविश्यातिथिमेते वै भुञ्जन्तेन्नं नरेश्वर ॥ 3.11.69॥
तस्मादतिथिपूजायां यतेत सततंनरः ।
स केवलमघं भुङ्क्ते यो भुङ्क्ते ह्यतिथिं विना ॥ 3.11.70 ॥
ततः स्ववासिनीं दुःखीं गुर्विणीं वृद्धबालकान् ।
भोजयेत्संस्कृतान्नेन प्रथमं चरमं गृही ॥ 3.11.71 ॥
अभुक्तवत्सु चैतेषु भुञ्जन्भुङ्क्ते स दुष्कृतम् ।
मृतश्च गत्वा नरकं श्लोष्मभुग्जायते नरः ॥ 3.11.72 ॥
अस्त्राताशी मलं भुक्ते ह्यजपी पूयशोणितम् ।
असंस्कृतान्नभुङ्मूत्रं बालादिप्रथमं शकृत् ॥ 3.11.73 ॥
अहोमी च कृमीन्भुङ्क्ते अदत्त्वा विषमाश्नुते ॥ 3.11.74॥
तस्माच्छृणुष्व राजन्द्र यथा भुञ्जीत वै गृही ।
भुञ्जतश्च यथा पुंसः पापबन्धो न जायते ॥ 3.11.75॥
इह चारोग्यविपुलं बलबुद्धिस्तथा नृप ।
भवत्यरिष्टशान्तिश्च वैरिपक्षाभिचारिणः ॥ 3.11.76॥
स्नातो तथावत्कृत्वा च देवर्षिपितृतर्पणम् ।
प्रशस्तरत्नपाणिस्तु भुञ्जीत प्रयतो गृही ॥ 3.11.77॥
कृते जपे हुते वह्नौ शुद्धवस्त्रधरो नृप ।
दत्त्वातिथिभ्यो विप्रेभ्यो गुरुभ्यः संश्रिताय च ।
पुम्यगन्धश्सस्तमाल्यधारी चैव नरेश्वर ॥ 3.11.78 ॥
नैकवस्त्रधरो नार्द्रपाणिपादो महीपते ।
वुशुद्धवदनः प्रीतो भुञ्जीत न विदिङ्मुखः ॥ 3.11.79॥
प्राङ्मुखोदङ्मुखो वापि न चैवान्यमना नरः ।
अन्नं प्रशस्तं पथ्यं च प्रोक्षितं प्रोक्षणोदकैः ॥ 3.11.80 ॥
न कुत्सिताहृतं नैव जुगुप्सापदसंस्कृतम् ।
दत्त्वा तु भक्तं शिष्येभ्यः क्षुधितेभ्यस्तथा गृही ॥ 3.11.81 ॥
प्रशस्तशुद्धपात्रे तु भुञ्जीताकुपितो द्विजः ॥ 3.11.82 ॥
नासंदिसंस्थिते पात्रे नादेशे च नरेश्वर ।
नाकाले नातिसंकीर्णे दत्त्वाग्रं च नरोग्नये ॥ 3.11.83 ॥
मन्त्राभिमन्त्रितं शस्तं न च पर्युषितं नृप ।
अन्यत्र फलमूलेभ्यः शुष्कशाखादिकात्तथा ॥ 3.11.84॥
तद्वद्धारीतकेभ्यश्च गुडभक्ष्येभ्य एव च ।
भुञ्जीतोद्धृतसाराणि न कदापि नरेश्वर ॥ 3.11.85॥
न शेषं पुरुषोश्नीय्यादन्यत्र जगतीपते ।
मध्वंबुदधिसर्पिभ्यः सक्तुभ्यश्च विवेकवान् ॥ 3.11.86॥
अश्नीयात्तन्मयो भूत्वा पुर्वं तु मधुरं रसम् ।
लबणाम्लो तथा मध्ये कटुतिक्तादिकांस्ततः ॥ 3.11.87॥
प्राग्द्रवं पुरुषोश्नीयान्मध्ये कठिनभोजनः ।
अन्ते पुनर्द्रवाशी तु बलारोग्ये न मुञ्चति ॥ 3.11.88 ॥
अनिन्द्यं भक्षयेदित्थं वाग्यतोन्नमकुत्सयन् ।
पञ्चग्रासं महामौनं प्राणाद्याप्यायनं हि तत् ॥ 3.11.89॥
भुक्त्वा सम्यगथाचम्य प्राङ्मुखोदङ्मुखोऽपि वा ।
यथावत्पुनराचामेत्पाणी प्रक्षाल्य मूलतः ॥ 3.11.90 ॥
स्वस्थः प्रशान्तचित्तस्तु कृतासनपरिग्रहः ।
अभीष्टदेवतानां तु कुर्वीत स्मरणं नरः ॥ 3.11.91 ॥
अग्निराप्याययेद्धातुं पार्थिवं पवनेरितः ।
दत्तावकाशंनभसा जरयत्यस्तु मे सुखम् ॥ 3.11.92 ॥
अन्नं बलाय मे भूमेरपामग्न्यनिलस्य च ।
भवत्येतत्परीणतं ममास्त्यव्याहतं सुखम् ॥ 3.11.93 ॥
प्रामापानसमानानामुदानव्यानयोस्तथा ।
अन्नं पुष्टिकरं चास्तु ममाप्यव्याहतं सुखम् ॥ 3.11.94॥
अगस्तिरग्निर्वडवानलश्च भुक्तं मयान्नं जरयत्वशेषम् ।
सुखं च मे त्परिणामसंभवं यच्छन्त्वरोगं मम चास्तु देहे ॥ 3.11.95॥
विष्णुःसमस्तेन्द्रियदेहदेही वृथा न भूतो भगवान्यथैकः ।
सत्येन तेनात्तमशेषमन्नमारोग्यतां मे परिणाममेतु ॥ 3.11.96॥
विष्णुरत्ता तथैवान्नं परिमामश्च वै तथा ।
सत्येन तेन मद्भुक्तं जीर्यत्यन्नमिदं तथा ॥ 3.11.97॥
इत्युच्चार्य स्वहस्तेन परिमृज्य तथोदरम् ।
अनायासप3 आयीनि कुर्यात्कर्मण्यतन्द्रितः ॥ 3.11.98 ॥
सच्छास्त्रादिविनोदेन सन्मार्गादविरोधिना ।
दिनं नयेत्ततःसंध्यामुपतिष्ठेत्समाहितः ॥ 3.11.99॥
दिनान्तसंध्यां सूर्येण पूर्वामृक्षैर्युतां बुधः ।
उपतिष्ठेध्यथान्याय्यं सम्यगाचम्य पार्थिव ॥ 3.11.100 ॥
सर्येणाभ्युदितो यश्च त्यक्तः सूर्येण वा स्वपन् ।
अन्यत्रातुरभावात्तु प्रायश्चित्ती भवेन्नरः ॥ 3.11.102 ॥
तस्मादनुदिते सूर्ये समुत्थाय महीपते ।
उपतिष्ठेन्नरःसंध्यामस्वपंश्च दिनान्तजाम् ॥ 3.11.103 ॥
उपतिष्ठन्ति वै संध्यां ये न पूर्वं न पश्चिमाम् ।
व्रजन्ति ते दुरात्मानस्तमिस्त्रं नरकं नृप ॥ 3.11.104॥
पुनः पाकमुपादाय सायमप्यवनीपते ।
वैश्वदेवनिमित्तं वै पत्न्या सार्धं बलिं हरेत् ॥ 3.11.105॥
तत्रापि श्वपचादिब्यस्तथैवान्नविसर्जनम् ॥ 3.11.106॥
अतिथिं चागतं तत्र स्वशक्त्या पूजयेद्बुधः ।
पादशौचासनप्रह्वस्वागतोक्त्या च पूजनम् ।
ततश्चान्नप्रदानेन शयनेन च पर्थिव ॥ 3.11.107॥
दिवातिथौ तु विमुखे गते यत्पातकं नृप ।
तदेवाष्टगुणंपुंसःसूर्योढे विमुखे गते ॥ 3.11.108 ॥
तस्मात्स्वशक्त्या राजेन्द्र सूर्योढमतिथिं नरः ।
पूजयेत्पूजिते तस्मिन्पूजिताःसर्वदेवता ॥ 3.11.109॥
अन्नशाकांबुदानेन स्वशक्त्या पूजयेत्पुमान् ।
शयनप्रस्तरमहीप्रदानैरथवापि तम् ॥ 3.11.110 ॥
सृतपादादिशौचस्तु भुक्त्वा सायं ततो गुही ।
गच्छेच्छय्यामंस्फुटितामपि दारुमयीं नृप ॥ 3.11.111 ॥
नाविशालं न वै भुग्नां नासमां मलिनां न च ।
नच जन्तुमयींशय्यामधितिष्ठेदनास्तृताम् ॥ 3.11.112 ॥
प्राच्यां दिशि शिरः शस्तं याम्यायामथ वा नृप ।
सदैव स्वपतः पुंसो विपरीतं तु रोगदम् ॥ 3.11.113 ॥
ऋतावुपगमः शस्तःस्वपत्न्यामवनीपते ।
पुन्नामर्क्षे शुभे काले ज्येष्ठायुग्मासु रात्रिषु ॥ 3.11.114॥
नाद्युनां तु स्त्रियं गच्छेन्नातुरां न रजस्वलाम् ।
नानिष्टां न प्रकुपितां न त्रस्तां न च गार्भिणीम् ॥ 3.11.115॥
नादक्षिणां नान्यकामां नाकामां नान्ययोषितम् ।
क्षुत्क्षामां नातिभुक्तां वा स्वयं चैभिर्गुर्णैर्युतः ॥ 3.11.116॥
स्नातःस्रग्गन्धधृक्प्रीतो नाध्मातः क्षुधितोपि वा ।
सकामःसानुरागश्च व्यवायं पुरुषो व्रजेत् ॥ 3.11.117॥
चतुर्दश्यष्टमी चैव तथा माचाथ पूर्णिमा ।
पर्वाण्येतानि राजन्द्र रवीसंक्रान्तिरेव च ॥ 3.11.118 ॥
तैलस्त्रीमाससंभोगी सर्वैंष्वेतेषु वै पुमान् ।
विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः ॥ 3.11.119॥
अशेषपर्वस्वेतेषु तस्मात्संयमिभिर्बुधैः ।
भाव्यं सच्छास्त्रदेवेज्याध्यानजप्यपरैर्नरैः ॥ 3.11.120 ॥
नान्ययोनावयोनौ वा नोपयुक्तौषधस्तथा ।
द्विजदेवगुरूणां च व्यवायी नाश्रमे भवेत् ॥ 3.11.121 ॥
चैत्यचत्वरतीरेषु नैव गोष्ठे चतुष्पथे ।
नैव श्मशानोपवने सलिलेषु महीपते ॥ 3.11.122 ॥
प्रोक्तपर्वस्वशेषेषु नैव भूपाल संध्ययोः ।
गच्छेव्द्यवायं मनसा न मूत्रोच्चारपीडितः ॥ 3.11.123 ॥
पर्वस्वभिगमोनिन्द्यो दिवा पापप्रदो नृप ।
भुवि रोगावहो नॄणामप्रशस्तो जलाशये ॥ 3.11.124॥
परदारान्न गच्छेत मनसापि पथञ्चन ।
किमु वाचास्थिबन्धोपि नास्ति तेषु व्यवायिनाम् ॥ 3.11.125॥
मृतो नरकमभ्येति हीयते त्रापि चायुषः ।
परदाररतिः पुंसामिह चामुत्र भीतिदा ॥ 3.11.126॥
इति मत्वा स्वदारेषु ऋतुमत्सु बुधो व्रजेत् ।
यथोक्तदोषहीनेषु सकामेष्वनृतावपि ॥ 3.11.127॥
इति श्रीविष्णुमहापुराणे तृतीयांश एकादशोऽध्यायः (11)
और्व उवाच
देवगोब्राह्मणान्त्सिद्धान्वृद्धाचार्यं स्तथार्चयेत् ।
द्विकालं च नमेत्संध्यामग्नीनुपचरेत्तथा ॥ 3.12.1 ॥
सदानुपहते वस्त्रे प्रशस्ताश्च महोषधीः ।
गारुडानि च रत्नानि बिभृयात्प्रयतो नरः ॥ 3.12.2॥
प्रस्निग्धामलकेशश्च सुगन्धश्चारुवेषधृक् ।
सिताः सुमनसो हृद्या विभृयाच्च नरः सदा ॥ 3.12.3 ॥
किञ्चित्परस्वं न हरेन्नल्पमप्यप्रियं वदेत् ।
प्रियं च नानृतं ब्रूयान्नान्यदोषानुदीरयेत् ॥ 3.12.4 ॥
नान्यस्त्रियं तथा वैरं रोचयेत्पुरुषर्षभ ।
न दुष्टं यानमारोहेत्कूलच्छायां न संश्रयेत् ॥ 3.12.5॥
विद्विष्टपतितोन्मत्तबहुवैरादिकीटकैः ।
वर्धकीबन्धकीभर्तुः क्षुद्रानृतकथैः सह ॥ 3.12.6॥
तथातिव्ययशीलैश्च परिवादरतैः शठैः ।
बुधो मैत्रीं न कुर्वात नैकः पन्थानमाश्रयेत् ॥ 3.12.7॥
नावगाहेज्जलोघस्य वेगमग्रे नपेश्वर ।
प्रदीप्तंवेश्म न विशेन्नारोहेच्छिखरं तरोः ॥ 3.12.8॥
न कुर्याद्दन्तसंघर्षं कुष्णियाच्च न नासिकाम् ।
नासंवृतमुखो जृंभेच्छ्वासकासो विसर्जयेत् ॥ 3.12.8 ॥
नोच्चैर्हसेत्स शब्दं च न मुञ्चेत्पवनं बुधः ।
नखान्न खादयेच्छिन्द्यान्न तृमं न महीं लिखेत् ॥ 3.12.10 ॥
न श्मश्रु भक्षयेल्लोष्टं न मृद्रीयाद्विचक्षणः ।
ज्योतींष्यमेध्यशस्तानि नाभिवीक्षेत च प्रभो ॥ 3.12.11 ॥
नग्नां परस्त्रियं चैव सूर्यं चास्तमयोदये ।
न हुङ्कुर्याच्छवं गन्धं शवागन्धोहि सोमज ॥ 3.12.12 ॥
चतुष्पथं चैत्यतरुं श्मशानोपवनानि च ।
दुष्टस्त्रीसन्निकर्षं च वर्जयेन्नशि सर्वदा ॥ 3.12.13 ॥
पूज्यदेवद्विजज्योतिश्छायां नातिक्रमेद्बुधः ।
नैकः शून्याटवीं गच्छेत्तथा शून्यगृहे वसेत् ॥ 3.12.14॥
केशास्थिकण्टकामेध्यबलिभस्मतुषांस्तथा ।
स्नानार्द्रधरणीं चैव दूरतः परिवर्जयेत् ॥ 3.12.15॥
नानार्यानाश्रयेत्काश्चिन्न जिह्यं रोचयेद्बुधः ।
उपसर्पेन्न वै व्यालं चिरं तिष्ठेन्न वोत्थितः ॥ 3.12.16॥
अतीव जागरस्वप्ने तद्वत्स्थानासने बुधः ।
न सेवेत तथा शय्यां व्यायामं च नरेश्वर ॥ 3.12.17॥
दंष्ट्रिणः शृङ्गिणश्चैव प्राज्ञो दूरेण वर्जयेत् ।
अवश्यायं च राजेन्द्र पुरोवातातपौ तथा ॥ 3.12.18 ॥
न स्नायान्न स्वपेन्नग्नो न चैवोपस्पृशेद्बुधः ।
मुक्तकेशश्च नाचामेद्देवाद्यर्चां च वर्जयेत् ॥ 3.12.19॥
होमदेवार्चनाद्यासु क्रियास्वाचमने तथा ।
नैकवस्त्रः प्रवर्तेत द्विजपादावनेजने ॥ 3.12.20 ॥
नासमञ्जसशीलैस्तु सहासीत कथञ्चन ।
सद्बुत्तसन्निकर्षो हि क्षणार्धमपि शस्यते ॥ 3.12.21 ॥
विरोधं नोत्तमैर्गच्छेन्नाधमैश्च सदा बुधः ।
विवाहश्च विवादश्च तुल्यशीलैर्नृपेष्यते ॥ 3.12.22 ॥
नारभेत कलं प्राज्ञः शुष्कवैरं च वर्जयेत् ।
अप्यल्पहानिःसोढव्या वैरेणार्थागमन्त्यजेत् ॥ 3.12.23 ॥
स्नातो नाङ्गानि संमार्जेत्स्नानशाट्या न पाणिना ।
न च निर्धूतयेत्केशान्नाचामेच्चैव चोत्थितः ॥ 3.12.24॥
पादेन नाक्रमेत्पादं न पूज्याबिमुखं नयेत् ।
नोच्चासनं गुरोरग्रे भजेताविनयान्वितः ॥ 3.12.25॥
अपसव्यं न गच्छेच्च देवागारचतुष्पथान् ।
माङ्गल्यपूज्यांश्च तथा विपरीतान्न दक्षिणम् ॥ 3.12.26॥
सोमार्काग्न्यंबुवायूनां पूज्यानां च न संमुखम् ।
कुर्यान्निष्ठीवविण्मुत्रसमुत्सर्गं च पण्डितः ॥ 3.12.27॥
तिष्ठन्न मूत्रयेत्तद्वत्पथिष्वपि न मूत्रयेत् ।
श्लेष्मविण्मूत्ररक्तानि सर्वदैव न लङ्घयेत् ॥ 3.12.28 ॥
श्लेष्मशिङ्घाणिकोत्सर्गौ नान्नकाले प्रशस्यते ।
बलिमङ्गलजप्यादौ न होमे न महाजने ॥ 3.12.29॥
योपितो नावमन्येत न चासां विश्वसेद्बुधः ।
न चैवेर्ष्या भवेत्तासु न धिक्कुर्यात्कदाचन ॥ 3.12.30 ॥
मङ्गल्यपूर्वरत्नाज्यपूज्याननभिवाद्य च ।
न निष्क्रमेद्गृहात्प्राज्ञःसदाचारपरो नरः ॥ 3.12.31 ॥
चतुष्पथान्नमस्कुर्यात्काले होमपरो भवेत् ।
दीनानभ्युद्धरेत्साधूनुपासीत बहुश्रुतान् ॥ 3.12.32 ॥
देवर्षिपूजकःसम्यक्पितृपिण्डोजकप्रदः ।
सत्कर्ता चातिथीनां यः स लोकानुत्तमान्व्रजेत् ॥ 3.12.33 ॥
हितं मितं प्रियं काले वश्यात्मा योभिभाषते ।
स याति लोकानाह्लादहेतुभूतान्नृपाक्षयान् ॥ 3.12.34॥
धीमान्ह्रीपान्क्षमायुक्तो ह्यास्तिको विनयान्वितः ।
विद्याभिजनवृद्धानां याति लोकाननुत्तमान् ॥ 3.12.35॥
अकालगार्जितादौ च पर्वस्वाशौचकादिषु ।
अनध्यायं बुधः कुर्यादुपरागादिके तथा ॥ 3.12.36॥
समं नयति यः क्रुद्वान्सर्वबन्धुरमत्सरी ।
भीताश्वासनकृत्साधुःस्वर्गस्तस्याल्पकं फलम् ॥ 3.12.37॥
वर्षातपादिषु च्छत्री दण्डी रात्र्यटवीषु च ।
शरीरत्राणकामो वै सोपानत्कःसदा व्रजेत् ॥ 3.12.38 ॥
नोर्ध्वं न तिर्यग्दूरं वा न पश्यन्पर्यटेद्बुधः ।
युगमात्रं महीष्टष्ठं नरो गच्छेद्विलोकयन् ॥ 3.12.39॥
दोषहेतूनशेषांश्च वश्यात्मा यो निरस्यति ।
तस्य धर्मार्थकामानां हानिर्नाल्पापि जायते ॥ 3.12.40 ॥
सदाचाररतः प्राज्ञो विद्याविनयशिक्षितः ।
पापेप्यपापः परुषे ह्यभिधत्ते प्रियाणि यः ।
मैत्रीद्रवान्तः करणस्तस्य मुक्तिः करे स्थिता ॥ 3.12.41 ॥
ये कामक्रोधलोभानां वीतरागा न गोचरे ।
सदाचारस्थितास्तेषामनुभावैर्धृता मही ॥ 3.12.42 ॥
तस्मात्सत्यं वदेत्प्राज्ञो यत्परप्रीतिकारणम् ।
सत्यं यत्परदुःखाय तदा मौनपरो भवेत् ॥ 3.12.43 ॥
प्रियमुक्तं हितं नैतदिति मत्वा न तद्वदेत् ।
श्रेयस्तत्र हितं वाच्यं यद्यप्यत्यन्तमप्रियम् ॥ 3.12.44॥
प्राणीनामुपकाराय यथैवेह परत्र च ।
कर्मणा मनसा वाचा तदेव मतीमान्वदेत् ॥ 3.12.44॥
इति श्रीविष्णुमहापुराणे तृतीयांशे द्वादशोऽध्यायः (12)
और्व उवाच
सचैलस्य पितुः स्नानं जाते पुत्रे विधीयते ।
जातकर्म तदा कुर्याच्छ्राद्धमभ्युदये च यत् ॥ 3.13.1 ॥
युग्मान्देवांश्च वित्र्यांश्च सम्यक्सव्यक्रमाद्द्विजान् ।
पूजायेद्भोजयेच्चैव तन्मना नान्यमानसः ॥ 3.13.2॥
दध्यक्षतैः सबदरैः प्राङ्मुखोदङ्मुखोऽपि वा ।
देवतीर्थेन वै पिण्डान्दद्यात्कायेन वा नृप ॥ 3.13.3 ॥
नान्दीमुखः पितृगणस्तेन श्राद्धेन पार्थिव ।
प्रीयते तत्तु कर्तव्यं पुरुषैः सर्ववृद्धिषु ॥ 3.13.4 ॥
कन्यापुत्रविवाहेषु प्रवेशेषु च वेश्मनः ।
नामकर्मणि बालानां चूडाकर्मादिके तथा ॥ 3.13.5॥
सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने ।
नान्दीमुखं पितृगणं पूजयेत्प्रयतो गृही ॥ 3.13.6॥
पितृपूजाक्रमः प्रोक्तो वृद्धावेष सनातनः ।
श्रूयतामवनीपाल प्रेत कर्म क्रियाविधिः ॥ 3.13.7॥
प्रेतदेहं शभैः स्नानैः स्नापितं स्रग्विभूषितम् ।
दग्ध्वा ग्रामाद्बहिः स्नात्वा सचैलःसलिलाशये ॥ 3.13.8॥
यत्र तत्र स्थितायैतदमुकायेति वादिनः ।
दक्षिणाभिमुखा दद्युर्बान्धवाःसलिलाञ्जलीन् ॥ 3.13.8 ॥
प्रविष्टाश्च समं गोभिर्ग्रामं नक्षत्रदर्शने ।
कटकर्म ततः कुर्याद्भूमौ प्रस्तरशायिनः ॥ 3.13.10 ॥
दातव्योनदिनं पिडः प्रेताय भुवि पार्थिव ।
दिवा च भक्तं भोक्तव्यममांसं मनुजर्षभ ॥ 3.13.11 ॥
दिनानि तानि चेच्छातः कर्तव्य विप्रभोजनम् ।
प्रेता यान्ति तथा तृप्तिं बन्धुवर्गेण भुञ्जता ॥ 3.13.12 ॥
प्रथमेह्नि तृतीये च सप्तमे नवमे तथा ।
वस्त्रत्यागबहिःस्नाने कृत्वा दद्यात्तिलोदकम् ॥ 3.13.13 ॥
चतुर्थेह्निच कर्तव्यं तस्यास्थिचयनं नृप ।
तदूर्ध्वमङ्गसंस्पर्शःसपिण्डानामपीष्यते ॥ 3.13.14॥
योग्याःसर्वक्रियाणां तु समनसलिलास्तथा ।
अनुलेपनपुष्पादिभोगादन्यत्र पार्थिव ॥ 3.13.15॥
शय्यासनोपभोगश्च सपिण्डानामपीष्यते ।
भस्मास्थिचयनादूर्ध्वं संयोगो न तु योषिताम् ॥ 3.13.16॥
बाले देशान्तरस्थे च पतिते च मुनौ मृते ।
सद्यः शौचं तथेच्छातो जलाग्न्युद्बन्धनादिषु ॥ 3.13.17॥
मृतबन्धोर्दशाहानि कुलस्यान्नं न भुज्यते ।
दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते ॥ 3.13.18 ॥
विप्रस्यैतद्द्वादशाहं राजन्यस्याप्यशौचकम् ।
अर्धमासं तु वैश्यस्य मासं शूद्रस्य शुद्धये ॥ 3.13.19॥
अयुजो भोजयेत्कामं द्विजानन्ते ततो दिने ।
दद्याद्दर्भषु पिण्डं च प्रेतायोच्छिष्टसन्निधौ ॥ 3.13.20 ॥
वार्यायुधप्रतोदास्तु दण्डश्च द्विजभोजनात् ।
स्प्रष्टव्योनन्तरं वर्णैः शुद्धेरते ततः क्रमात् ॥ 3.13.21 ॥
ततःसर्वणधर्मा ये विप्रादिनासुदाहृताः ।
तान्कुर्वीत पुमाञ्जीवेन्निजधर्मार्जनैस्तथा ॥ 3.13.22 ॥
मृताहति च कर्तव्यमेकोद्दिष्टमतः परम् ।
आह्वानादिक्रिया दैवनियोगरहितेन यत् ॥ 3.13.23 ॥
एकोर्ध्यस्तत्र दातव्यस्तथैवैकपवित्रकम् ।
प्रेताय पिण्डो दातव्यो भुक्तवत्सु द्विजातिषु ॥ 3.13.24॥
प्रश्नश्च तत्राभिरतिर्यजमानद्विजन्मनाम् ।
अक्षय्यममुकस्येति वक्तव्यं विरतौ तथा ॥ 3.13.25॥
एकोद्दिष्टमयो धर्म इत्थमावत्सरात्स्मृतः ।
सपिण्डीकरणं तस्मिन्काले राजेन्द्र चत्छृणु ॥ 3.13.26॥
एकोद्दिष्टविधानेन कार्यं तदपि पार्थिव ।
संवत्सरेथ षष्ठे वा मासे वा द्वादशेह्नि तत् ॥ 3.13.27॥
तिलगन्धोदकैर्युक्तं तत्र पात्रचतुष्टयम् ॥ 3.13.28 ॥
पात्रं प्रेतस्य तत्रैकं पैत्रं पात्रत्रयं तथा ।
सेचयेत्पितृपात्रेषु प्रेतपात्रं ततस्त्रिषु ॥ 3.13.29॥
ततः पितृत्वमापन्ने तस्मिन्प्रेते महीपते ।
श्राद्धधर्मैरशषस्तु तत्पूर्वानर्चयेत्पितॄन् ॥ 3.13.30 ॥
पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा भ्रातृसंततिः ।
सपिण्ड संततिर्वापि क्रियार्हे नृप जायते ॥ 3.13.31 ॥
तेषामभावे सवैषां समानोदकसततिः ।
मातृपक्षमपिण्डेन संबन्धा ये जलेन वा ॥ 3.13.32 ॥
कुलद्वयेपि चोच्छिन्ने स्त्रीभिः कार्याः क्रिया नृप ।
पितृमातृसपिण्डैस्तु समानसलिलैस्तथा ॥ 3.13.33 ॥
संघातान्तर्गतैर्वापि कार्याः प्रेतस्य च क्रियाः ।
उत्सन्नबन्धुरिक्थाद्वा कारयेदवनीपतिः ॥ 3.13.34॥
पूर्वाः क्रिया मध्यमाश्च तथा चैवोत्तराः क्रियाः ।
त्रिःप्रकाराः क्रियाःसर्वास्तासांभेदं शृणुष्व मे ॥ 3.13.35॥
आदाहाद्यादशाहाश्च स्पर्शाद्यन्तास्तु याः क्रियाः ।
ताः पूर्वा मध्यमा मासि मास्येकोद्दिष्टसंज्ञिताः ॥ 3.13.36॥
प्रेते पितृत्वमापन्ने सपिण्डिकरणादनु ।
क्रियन्ते याः क्रियाः पित्र्याः प्रोच्यन्ते ता नृपोत्तराः ॥ 3.13.37॥
पितृमातृसपिण्डैस्तु समानासलिलैस्तथा ।
संघातान्तर्गतैर्वापि राज्ञा तद्धनहारिणा ॥ 3.13.38 ॥
पूर्वाः क्रियाश्च कर्तव्याः पुत्राद्यैरेव चोत्तराः ।
दौहित्रैर्वा नृपश्रेष्ठ कार्यास्तत्तनयैस्तथा ॥ 3.13.39॥
मृताहनि च कर्तव्यास्त्रीणामप्युत्तराः क्रिया ।
प्रतिसंवत्सरं राजन्नेकोद्दिष्टविधानतः ॥ 3.13.40 ॥
तस्मादुत्तरसंज्ञायाः क्रियास्ताः शृणु पार्थिव ।
य थायथा च कर्तव्या विधिना येन चानघ ॥ 3.13.41 ॥
इति श्रिविष्णुमहापुराणे तृतीयांशे त्रयोदशोध्यायः (13)
और्व उवाच
ब्रह्मेन्द्ररुद्रनासत्यसूर्याग्निवसुमारुतान् ।
विश्वेदेवान्पितृगणान्वयांसि मनुजान्पशुन् ॥ 3.14.1 ॥
सरीसृपानृषिगणान्यच्चान्यद्भूत संज्ञितम् ।
श्राद्धं श्रद्धान्वितः कुर्वन्प्रीणयत्यखिलं जगत् ॥ 3.14.2॥
मासिमास्यसिते पक्षे पञ्चदश्यां नरेश्वर ।
दथाष्टकासु कुर्वीत काम्यान्कालाञ्छृणुष्व मे ॥ 3.14.3 ॥
श्राद्धार्हमागतं द्रव्यं विशिष्टमथ वा द्विजम् ।
श्राद्धं कुर्वीत विज्ञाय व्यतीपातेऽयते तथा ॥ 3.14.4 ॥
विषुवे चापि संप्राप्ते ग्रहणे शशि सूर्ययोः ।
समस्तेष्वेव भूपाल राशिष्वर्के च गच्छति ॥ 3.14.5॥
नक्षत्रग्रहपीडासु दुष्टस्वप्नावलोकने ।
इच्छाश्राद्धानि कुर्वीत नवसस्यागमे तथा ॥ 3.14.6॥
अमावास्या यदा मैत्रविशाखास्वातियोगिनी ।
श्रीद्धैः पितृगणस्तृप्तिं तथाप्नोत्यष्टवार्षिकीम् ॥ 3.14.7॥
अमवास्या यदा पुष्ये रौद्रेथर्क्षे पुनर्वसौ ।
द्वादशाब्दं तदा तृप्तिं प्रयान्ति पिरतोर्चिताः ॥ 3.14.8॥
वासवाजैकपादर्क्षे पितणां तृप्तिमिच्छताम् ।
वारुणे वाप्यमावास्या देवानामपि दुर्लभा ॥ 3.14.8 ॥
नवस्वृक्षेष्वमावास्या यदैतेष्ववनीपते ।
तदा हि तृप्तिदं श्राद्धं पितॄणां शृणु चापरम् ॥ 3.14.10 ॥
गीतं सनत्कुमारेण यथैलान महात्मने ।
पृच्छते पितृभक्ताय प्रश्रयावनाताय च ॥ 3.14.11 ॥
सनत्कुमार उवाच
वैशाखमासस्य च या तृतीया नवम्यसौ कर्तिकशुक्लपक्षे ।
नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे ॥ 3.14.12 ॥
एता युगाद्याः कथिताः पुराणेष्वनन्तपुण्यास्तिथ यश्चतस्त्रः ।
उपप्लवे चन्द्रमसो रवेश्च त्रिष्वष्टकास्वप्ययनद्वये च ॥ 3.14.13 ॥
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः ।
श्राद्धं कृते तेन समासहस्रं रहस्यमेतत्पितरो वदन्ति ॥ 3.14.14॥
माघेऽसिति पञ्चदशी कदाचिदुपैति योगं यदि वारुणेन ।
ऋक्षेण कालःस परः पितॄणां न ह्यल्पपुण्यैर्नृप लभ्यतेसौ ॥ 3.14.15॥
काले धनिष्ठा यदि नाम तस्मिन्भवेत्तु भूपाल तदा पितृभ्यः ।
दत्तं जलान्नं प्रददाति तृप्तिं वर्षायुतं तत्कुलजैर्मनुष्यैः ॥ 3.14.16॥
तत्रैव चेद्भाद्रपदानुपूर्वाः काले यथावत्क्रियते पितृभ्यः ।
श्राद्धं परां तृप्तिमुपैति तेन युगं सहस्रं पितरःस्वपन्ति ॥ 3.14.17॥
गङ्गां शतद्रूं यमुनां विपाशां सरस्वतीं नैमिशगोमतीं वा ।
तत्रावगाह्यर्चनमादरेण कृत्वा पितॄणां दुरितानि हन्ति ॥ 3.14.18 ॥
गायन्ति चैतत्पितरः कदानु हर्षादमी तृप्तिमवाप्य भूयः ।
माघासितान्ते शुभतीर्थतोयैर्यास्याम तृप्तिं तनयादिदत्तैः ॥ 3.14.19॥
चित्तं च वित्तं च नृणां विशुद्धं शस्तं च कालः कथितो विधिश्च ।
पात्रं यथोक्तं परमा च भक्तिर्नृणां प्रयच्छन्त्यभिवाञ्छितानि ॥ 3.14.20 ॥
पितृगीतान्ततैवात्र श्लोकांस्तञ्छृणु पार्थिव ।
श्रुत्वा तथैव भवता भाव्यं तत्रादृतात्मना ॥ 3.14.21 ॥
अपि धन्यः कुले जायादस्माकं मतिमान्नरः ।
अकुर्वन्वित्तशाठ्यं यः पिण्डान्नो निर्वपिष्यति ॥ 3.14.22 ॥
रत्नं वस्त्रं महायानं सर्वभोगादिकंवसु ।
विभवे सति विप्रेभ्यो योस्मानुद्दिश्य दास्यति ॥ 3.14.23 ॥
अन्नेन वा यथाशक्त्या कालेस्मिन्भक्तिनम्रधीः ।
भोजयिष्यति विप्राग्र्यांस्तन्मात्रविभवो नरः ॥ 3.14.24॥
असमर्थोन्नदानस्य धान्यमामं स्वशक्तितः ।
प्रदास्यति द्विजाग्रेभ्यः स्वल्पाल्पां वापि दक्षिणाम् ॥ 3.14.25॥
तत्राप्यसामर्थ्ययुतः कराग्राग्रस्थितांस्तिलान् ।
प्रणम्य द्विजमुख्याय कस्मैचिद्भूप दास्यति ॥ 3.14.26॥
तिलैः सप्ताष्टभिर्वापि समवेतं जलाञ्जलिम् ।
भक्तिनम्रः समुद्दिश्य भुव्यस्माकं प्रदास्यति ॥ 3.14.27॥
यतः कुताश्चित्संप्राप्य गोभ्यो वापि गवाह्निकम् ।
अभावे प्रीणयन्नस्माञ्च्छ्रद्धायुक्तः प्रदास्यति ॥ 3.14.28 ॥
सर्वाभावे वनं गत्वा कक्षमूलप्रदर्शकः ।
सूर्यादिलोकपालानामिदमुच्चेर्वदिष्यति ॥ 3.14.29॥
न मेऽस्ति वित्तं न धनं च नान्यच्छ्राद्धोपयोग्यं स्वपितॄन्नतोस्मि ।
तृप्यन्तु भक्तया पितरो मयैतौ कृतौ भुजौ वर्त्मनि मारुतस्य ॥ 3.14.30 ॥
और्व उवाच
इत्येतत्पितृभिर्गीतं भावाभावप्रयोजनम् ।
यः करोति कृतं तेन श्राद्धं भवति पार्थिव ॥ 3.14.31 ॥
इति श्रीविष्णुमहापुराणे तृतीयांशे चतुर्दशोऽध्यायः (14)
औरेव उवाच
ब्राह्मणान्भोजयेच्छ्रद्धे यद्गुणांस्तान्निभोध मे ॥ 3.15.1 ॥
त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्मःषजङ्गवित् ।
वेदविच्छ्रोत्रियो योगी तथा वै ज्येष्ठसामगः ॥ 3.15.2॥
ऋत्विक्स्वस्त्रेयदौहित्रजामातृश्वशुरास्तथा ।
मातुलोथ तपोनिष्ठः पञ्चाग्न्यभिरतस्तथा ।
शिष्याःसंबन्धिनश्चैव मातापितृरतश्च यः ॥ 3.15.3 ॥
एतान्नियोजयेच्छ्राद्धे पूर्वोक्तान्प्रथमे नृप ।
ब्राह्मणान् पितृतुष्ट्यर्थमनुकल्पेष्वनन्तरान् ॥ 3.15.4 ॥
मित्रध्रुक्कुनखी क्लीबः श्यावदन्तस्तथा द्विजः ।
कन्या दूषयितावह्निवेदोज्झःसोमविक्रयी ॥ 3.15.5॥
अभिशस्तस्तथा स्तेनः पुशुनो ग्रामयाजकः ।
भृतकाध्यापकस्तद्वद्भृतकाध्यापितश्च यः ॥ 3.15.6॥
परपूर्वापतिश्चैव मातापित्रोस्तथोज्झकः ।
वृषलीसूतिपोष्टा च वृषलीपतिरेव च ॥ 3.15.7॥
तथा देवलकश्चैव श्राद्धे नार्हति केतनम् ॥ 3.15.8॥
प्रथमेह्नि बुधः शस्ताञ्छ्रोत्रियादीन्निमन्त्रयेत् ।
कथयेच्च तथैवैषां नियोगान्पितृदैविकान् ॥ 3.15.8 ॥
ततः क्रोधव्यवायादीनायासं तैर्धिजैः सह ।
यजमानो न कुर्वीत दोषस्तत्र महानयम् ॥ 3.15.10 ॥
श्राद्धे नियुक्तो भुक्त्वा वा भोजयित्वा नियुज्य च ।
व्यवायी रेतसो गर्ते मज्जयत्यात्मनः पितॄन् ॥ 3.15.11 ॥
तस्मात्प्रथममत्रोक्तं द्विजाग्र्याणां निमन्त्रणम् ।
अनिमन्त्र्य द्विजानेवमागतान्भो जयेद्यतीन् ॥ 3.15.12 ॥
पादशौचादिना गेहमागतान्पूजयेद्द्धिजान् ॥ 3.15.13 ॥
पवित्रपाणिराचान्तानासनेषूपवेशयेत् ।
पितॄणामयुजो युग्मान्देवाना मिच्छया द्विजान् ॥ 3.15.14॥
देवानामेकमेकं वा पितॄणां च नियोजयेत् ॥ 3.15.15॥
तथा मातामहश्राद्धं वैश्वदेवसमन्वितम् ।
कुर्वीत भक्तीसंपन्नस्तत्र वा वैश्वदैविकम् ॥ 3.15.16॥
प्राङ्मुखान्भोजयेद्विप्रान्देवानामुभयात्मकान् ।
पितॄन् पितामहानां च भोजयेच्चाप्युदङ्मुखान् ॥ 3.15.17॥
पृथक्तयोः केचिदाहुः श्राद्धस्य करणं नृप ।
एकत्रैकेन पाकेन वदन्त्यन्ये महर्षयः ॥ 3.15.18 ॥
विष्टरार्थं कुशं दत्त्वा संपूज्यार्घ्यं विधानतः ।
कुर्यादावाहनं प्राज्ञो देवानां तदनुज्ञया ॥ 3.15.19॥
यवांबुना च देवानां दद्यादर्घ्यं विधानवित् ।
स्रग्गन्धधूपदीपांश्च तेभ्यो दद्याद्यथाविधि ॥ 3.15.20 ॥
पितॄणामपसव्यं तत्सर्वमेवोपकल्पयेत् ।
अनुज्ञां च ततः प्राप्य दत्त्वा दर्भन्द्विधाकृतान् ॥ 3.15.21 ॥
मन्त्रपूर्वं पितॄणां तु कुर्याच्चावाहनं बुधः ।
तिलांबुना चापसव्य दद्यादर्घ्यादिकं नृप ॥ 3.15.22 ॥
काले तत्रातिथिं प्राप्तमन्नकामं नृपाध्वगम् ।
ब्रह्मणैरभ्यनुज्ञातः कामं तमपि भोजयेत् ॥ 3.15.23 ॥
योगिनो विविधै रूपैर्नरामामुपकारीणः ।
भ्रमन्ति पृथिवीमेतामविज्ञातस्वरूपिमः ॥ 3.15.24॥
तस्मादभ्यर्चयेत्प्राप्तं श्राद्धकालेऽतिथिं बुधः ।
श्राद्धक्रियाफलं हॄन्ति नरेद्रापूजितोऽतिथिः ॥ 3.15.25॥
जुहुयाद्व्यञ्जनक्षारवर्जमन्नं ततोऽनले ।
अनुज्ञातो द्विजैस्तैस्तु त्रिकृत्वः पुरुषर्षभ ॥ 3.15.26॥
अग्नये कव्यवाहाय स्वधेत्यादौ नृपाहुतिः ।
सोमाय वै पितृमते दातव्या तदनन्तरम् ॥ 3.15.27॥
वैवस्वताय चैवान्या तृतीया दीयते ततः ।
हुतावशिष्टमल्पान्नं विप्रपात्रेषु निर्वेपेत् ॥ 3.15.28 ॥
ततोन्नं मृष्टमत्यर्थमभीष्टमतिसंस्कृतम् ।
दत्त्वा जुषध्वमिच्छातो वाच्यमेतदनिष्ठुरम् ॥ 3.15.29॥
भोक्तव्यं तैश्च तच्चित्तैर्मौनिभिः सुमुखैः सुखम् ।
अक्रुद्व्यता चात्वरता देयं तेनापि भक्तितः ॥ 3.15.30 ॥
रक्षोघ्रमन्त्रपठनं भूमेरास्तरणं तिलैः ।
कृत्वाध्येयाःस्वपितरस्त एव द्विजसत्तमाः ॥ 3.15.31 ॥
पिता पितामहश्चैव तथैव प्रपितामहः ।
मम तृप्तिं प्रयान्त्वद्य विप्रदेहेषु संस्थिताः ॥ 3.15.32 ॥
पिता पितामहश्चैव तथैव प्रपितामहः ।
मम तृप्तिं प्रयान्त्वद्य होमाप्यायितमूर्तयः ॥ 3.15.33 ॥
पिता पितामहश्चैव तथैव प्रपितामहः ।
तृप्तिं प्रयातु पिण्डेन मया दत्तेन भूतले ॥ 3.15.34॥
पिता पितामहश्चैव तथैव प्रपितामहः ।
तृप्तिं प्रयान्तु मे भक्त्या मयैतत्समुदाहृतम् ॥ 3.15.35॥
मातामहस्तृप्तिमुपैतु तस्य तथा पिता तस्य पिता ततोऽन्यः ।
विश्वे च देवाः परमां प्रयान्तु तृप्तिं प्रणश्यन्तु च यातुधानाः ॥ 3.15.36॥
यज्ञेश्वरो हव्यसमस्तकव्यो भोक्ताव्ययात्मा हरिरीश्वरोऽत्र ।
तत्संनिधानादपयान्तु सद्यो रक्षांस्यशेषण्यसुराश्च सर्वे ॥ 3.15.37॥
तृप्तेष्वेतेषु विकिरेदन्नं विप्रेषु भूतले ।
दद्यादाचमनार्थाय तेभ्यो वारी सकृत्सकृत् ॥ 3.15.38 ॥
सुतृप्तैस्तैरनुज्ञातःसर्वेणान्नेन भूतले ।
सतिलोन ततः पिण्डान्सम्यग्दद्यात्समाहितः ॥ 3.15.39॥
पिरृतीर्थेन सलिलं तथैव सलिलाञ्जलिम् ।
मातामहेभ्यस्तेनैव पिण्डांस्तीर्थेन निर्वपेत् ॥ 3.15.40 ॥
दक्षिणाग्रेषु दर्भेषु पुष्पधूपादिपूजितम् ।
स्वपित्रे प्रथमं पिण्डं दद्यादुच्छिष्टसन्निधौ ॥ 3.15.41 ॥
पितामहाय चैवान्यं तत्पित्रे च तथापरम् ।
दर्भमूले लेपभुजः प्रीणयेल्लेपघर्षणैः ॥ 3.15.42 ॥
पिण्डैर्मातामहांस्तद्वद्गन्धमाल्यादिसंयुतैः ।
पूजायित्वा द्विजाग्र्याणां दद्याच्चाचमनं ततः ॥ 3.15.43 ॥
पितृभ्यः प्रथमं भक्त्यातन्मनस्कोनरेश्वर ।
सुस्वधेत्याशिषा युक्तां दद्याच्छक्त्या च दक्षिणाम् ॥ 3.15.44॥
दत्त्वा च दक्षिणां तेभ्यो वाचयेद्वैश्वदेविकान् ।
प्रीयन्तामिहये विश्वेदेवास्तेन इतीरयेत् ॥ 3.15.45॥
तथेति चोक्ते तैर्विप्रैः प्रार्थनीयास्तथासिषः ।
पश्चाद्विसर्जयेद्देवान्पूर्वं पै3 र्यान्महीपते ॥ 3.15.46॥
मातामहानामप्येवं सह देवैः क्रमः स्मृतः ।
भोजयेच्च स्वशक्त्या च दाने तद्वद्विसर्जने ॥ 3.15.47॥
आपादशौचनात्पूर्वं कुर्याद्देवद्विजन्मसु ।
विसर्जनं तु प्रथमं पैत्रं मातामहेषु वै ॥ 3.15.48 ॥
विसर्जयेत्प्रीतिवचःसंमान्याभ्यर्थितास्ततः ।
निवर्तेताभ्यनुज्ञात आद्वारं ताननुव्रजेत् ॥ 3.15.49॥
ततस्तु वैश्वदेवाख्यं कुर्यान्नित्यक्रियं बुधः ।
भुञ्जीयाच्च समं पूज्य भृत्यबन्धुभिरात्मनः ॥ 3.15.50 ॥
एवं श्राद्धं बुधः कुर्यात्पैत्र्यं मातामहं तथा ।
श्राद्धैराप्यायिता दद्युःसर्वान्कामन्पितामहाः ॥ 3.15.51 ॥
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ।
रजतस्य कथा दानं तथा संकीर्तनादिकम् ॥ 3.15.52 ॥
जर्ज्यानि कुर्वता श्राद्धं क्रोधोध्वगमनं त्वारा ।
भोक्तुरप्यत्र राजेन्द्र त्रयमेतन्न शस्यते ॥ 3.15.53 ॥
विश्वेदेवाःसपितरस्तथा मातामहा नृप ।
कुलं चाप्यायते पुंसां सर्वं श्राद्धं प्रकुर्वताम् ॥ 3.15.54॥
सोमाधारः पितृगणो योगाधारश्च चन्द्रमाः ।
श्राद्धे योगिनियोगस्तु तस्माद्भुपालशस्यते ॥ 3.15.55॥
सहस्रस्यापि विप्राणां योगी चेत्पुरतःस्थितः ।
सर्वान् भोक्तॄंस्तारयति यजमानं तथा नृप ॥ 3.15.56॥
इति श्रीविष्णुमहापुराणे तृतीयांसे पञ्चदशोऽध्यायः (15)
और्व उवाच
हविष्यमत्स्यमासैस्तु शशस्य नकुलस्य च ।
सोकरच्छाकलैणेयरौरवैर्गवयेन च ॥ 3.16.1 ॥
औरभ्रगव्यैश्च तथा मासवृद्ध्या पितामहाः ।
प्रयान्ति तृप्तिं मांसैस्तु नित्यं वार्ध्रोणसामिषैः ॥ 3.16.2॥
खड्गमांसमतीवात्र कालशाकं तथा मधु ।
शस्तानि कर्मण्यत्यन्ततृप्तिदानि नरेश्वर ॥ 3.16.3 ॥
गयामुपेत्य यः श्राद्धं करोति पृथिवीपते ।
सफलं तस्य तज्जन्म जायते पितृतीष्टिदम् ॥ 3.16.4 ॥
प्रशान्तिकाःसमीवाराः श्यामाका द्विविधास्तथा ।
वन्यैषधीप्रधानास्तु श्राद्धार्हाः पुरुषर्षभ ॥ 3.16.5॥
यवाः प्रियङ्गवो मुद्गा गोधूमा व्रीहयस्तिलाः ।
निष्पावाः कोविदाराश्च सर्षपाश्चात्र सोभनाः ॥ 3.16.6॥
अकृताग्रयणं यच्च धान्यजातं नरेश्वर ।
राजमाषानणुंश्चैव मसूरांश्च विसर्जयेत् ॥ 3.16.7॥
अलाबुं गृञ्जनं चैव पलाण्डुं पिण्डमूलकम् ।
गान्धारककरंवादिलवाणान्यौषराणि च ॥ 3.16.8॥
आरक्ताश्चैव निर्यासाः प्रत्यक्षलवणानि च ।
वर्ज्यान्येतानि वै श्राद्धे यच्च वाचा न शस्यते ॥ 3.16.8 ॥
नक्ताहृतमनुच्छिन्नं तृप्यते न च यत्र गौः ।
दुर्घधिफेनिलं चांबु श्राद्धयोग्यं न पार्थिव ॥ 3.16.10 ॥
क्षिरमेकसफानां यदौष्ट्रमाविकमेव च ।
मार्गं च माहिषं चैव वर्जयेच्छ्राद्धकमेणि ॥ 3.16.11 ॥
षण्डापविद्धचण्डालपापिपाषण्डरोगिभिः ।
कृकवाकुश्वाननग्नवानरग्रामसूकरैः ॥ 3.16.12 ॥
उदक्यासूतिकाशौचमृतहारैश्च वीक्षिते ।
श्राद्धे सुरा न पितरो भुञ्जन्ते पुरुषर्षभ ॥ 3.16.13 ॥
तस्मात्परीश्रिते कुर्याच्छ्राद्धं श्रद्धासमन्वितः ।
उर्व्यां च तिलविक्षेपाद्यातुधानान्निवारयेत् ॥ 3.16.14॥
नखादिना चोपपन्नं केशकीटादिभिर्नृप ।
न चैवाभिषवैर्मिश्रमन्नं पर्युषितं तथा ॥ 3.16.15॥
श्रद्धासमन्वितैर्दत्तं पितृभ्यो नामगोत्रतः ।
यदाहारास्तु ते जातास्तदाहारत्वमेति तत् ॥ 3.16.16॥
श्रूयते चापि पितृर्भिगीता गाथा महीपते ।
इक्ष्वाकोर्मनुपुत्रस्य कलापोपवने पुरा ॥ 3.16.17॥
अपि नस्ते भविष्यन्ति कुले सन्मार्गशीलिनः ।
गयामुपेत्य ये पिण्डान्दास्यन्त्यस्माकमादरात् ॥ 3.16.18 ॥
अपि नःस कुले जायाद्यो नो दद्यात्त्रयोदशीम् ।
पायसं मधुसर्पिर्भ्यां वर्षासु च मघासु च ॥ 3.16.19॥
गौरीं वाप्युद्वहेत्कन्यां नीलं वा वृषमुत्सृजेत् ।
यजेत वाश्वमेधेन विधिवद्दक्षिणावता ॥ 3.16.20 ॥
इति श्रीविष्णुमहापुराणे तृतीयांशे पोडशोऽध्यायः (16)
श्रीपराशर उवाच [Sage Parasara said]
इत्याह भगवानौर्वःसगराय महात्मने ।
सदाचारं पुरा सम्यङ्मैत्रेय परिपृच्छते ॥ 3.17.1 ॥
मयाप्येतदशेषेण तथितं भवतो द्विज ।
समुल्लङ्घ्य सदाचारं कश्चिन्नाप्नोति शोभनम् ॥ 3.17.2॥
श्रीमैत्रेय उवाच
षण्डापविद्धप्रमुखा विदिता भगवन्मया ।
उदक्याद्याश्च मे सम्यङ्नग्नमिच्छामि वेदितुम् ॥ 3.17.3 ॥
कोनग्नः किं समाचारो नग्नसंज्ञां नरो लभेत् ।
नग्नस्वरूपमिच्छामि यथावत्कथितं त्वाय ।
श्रोतुं धर्मभृतां श्रेष्ठ न ह्यस्त्यविदितं तव ॥ 3.17.4 ॥
श्रीपराशर उवाच [Sage Parasara said]
ऋग्यजुःसामसंज्ञेयं त्रयी वर्णावृत्तिर्द्विज ।
एतामुज्झति यो मोहात्स नग्नः पातकी द्वजः ॥ 3.17.5॥
त्रयी समस्तवर्णानां द्विजसंवारणं यतः ।
नग्नो भवत्युज्झितायां यतस्तस्यां न संशयः ॥ 3.17.6॥
इदं च श्रुयतामन्यद्यद्भीष्माय महात्मने ।
कथयामास धर्मज्ञो वसिष्ठोऽस्मत्पितामहः ॥ 3.17.7॥
मयापि तस्य गदतः श्रुतमेतन्महात्मनः ।
नग्नसंबन्धि मैत्रेय यत्पृष्टोहमिह त्वाया ॥ 3.17.8॥
देवासुरमभूद्युद्धं द्विव्यमब्दशतं पुरा ।
तस्मिन्परजिता देवा दैत्यैर्ह्रादपुरोगमैः ॥ 3.17.8 ॥
क्षीरोदस्योत्तरं कूलं गत्वा तप्यन्त वै तपः ।
विष्णोराराधनार्थाय जगुश्चेमं स्तवं तदा ॥ 3.17.10 ॥
देवा ऊचुः
आराधनाय लोकानां विष्णोरीशस्य यां गिरम् ।
वक्ष्यामो भगवानद्य तया विष्णुः प्रसीदतु ॥ 3.17.11 ॥
यतो भूतान्यशेषाणि प्रसूतानि महात्मनः ।
यस्मिश्च लयमेष्यन्ति कस्तं स्तोतुमिहेश्वरः ॥ 3.17.12 ॥
तथाप्यरातिविध्वंसध्वस्तवीर्या भयार्थिनः ।
त्वां स्तोष्यामस्तवोक्तीनां याथार्थ्यं नैव गोचरे ॥ 3.17.13 ॥
त्वमुर्वी सलिलं वह्निर्वायुराकाशमेव च ।
समस्तमन्तःकरणं प्रधानं तत्परः पुमान् ॥ 3.17.14॥
एकं तवैतद्भूतात्मन्मूर्तमूर्तमयं वपुः ।
आब्रह्मस्तंबपर्यन्तं स्थानकालविभेदवत् ॥ 3.17.15॥
तत्रैशं तव यत्पूर्वं त्वन्नाभिकमलोद्भवम् ।
रूपं विश्वोपकाराय तस्मै ब्रह्मात्मने नमः ॥ 3.17.16॥
शक्रार्करुद्रवस्वश्विमरुत्सोमादिभेदवत् ।
वयमेकं स्वरूपं ते तस्मै देवात्मने नमः ॥ 3.17.17॥
दंभप्रायमसंबोधि तितिश्रादमवर्जितम् ।
यद्रूपं तव गोविन्द तस्मै दैत्यात्मने नमः ॥ 3.17.18 ॥
नातिज्ञानवहा यस्मिन्नाड्यस्तिमिततेजसि ।
शब्दादिलोभि यस्तस्मै तुभ्यं यत्रात्मने नमः ॥ 3.17.19॥
क्रौर्यं मायामयं घोरं यच्च रूपं तवासितम् ।
निशाचरात्मने तस्मै नमस्ते पुरुषोत्तम ॥ 3.17.20 ॥
स्वर्गस्थधर्मिसद्धर्मफलोपकरणं तव ।
धर्माख्यं च तथा रूपं नमस्तस्मै जनार्दन ॥ 3.17.21 ॥
हर्षप्रायमसंसर्गि गतिमद्गमनादिषु ।
सिद्धाख्यं तव यद्रूपं तस्मै सिद्धात्मने नमः ॥ 3.17.22 ॥
अतितिक्षायनं क्रूरमुपभोगसहं हरे ।
द्विजीह्वन्तव यद्रूपं तस्मै नागात्मने नमः ॥ 3.17.23 ॥
अवबोधि च यच्छान्तमदोषमपकल्पषम् ।
ऋषिरूपात्मने तस्मै विश्वरूपाय ते नमः ॥ 3.17.24॥
भक्षयत्यथ कल्पान्ते भूतानि यदवारितम् ।
त्वद्रूपं पुण्ढरीकाक्ष तस्मै कालात्मने नमः ॥ 3.17.25॥
संभक्ष्य सर्वभूतानि देवादीन्यविशेषतः ।
नृत्यत्यन्ते च यद्रूपं तस्मै रुद्रात्मने नमः ॥ 3.17.26॥
प्रवृत्त्या रजसो यच्च कर्मणां करणात्मकम् ।
जनर्दन नमस्तस्मै त्वद्रूपाय नरात्मने ॥ 3.17.27॥
अष्टाविशद्वधोपेतं यद्रूपं तामसं तव ।
उन्मार्गगामि सर्वात्मंस्तस्मै वश्यात्मने नमः ॥ 3.17.28 ॥
यज्ञाङ्गभूतं यद्रूपं जगतः स्थितिसाधनम् ।
वृक्षादिभेदैः षड्भेदि तस्मै मुक्यात्मने नमः ॥ 3.17.29॥
तिर्यङ्मनुष्यदेवादिव्योमशब्दादिकं च यत् ।
रूपं तवादेः सर्वस्य तस्मै सर्वात्मने नमः ॥ 3.17.30 ॥
प्रधानबुद्ध्यादिमयादशेषाद्यदन्यदस्मात्परमं परात्मन् ।
रूपं तवाद्यं यदनन्यतुल्यं तस्मै नमः कारणकारणाय ॥ 3.17.31 ॥
शुक्लादिदीर्घादिघनादिहीनमगोचरं यच्च विशेषणानाम् ।
सुद्धातिशुद्धं परमर्षिदृश्यं रूपाय तस्मै भगवन्नताः स्मः ॥ 3.17.32 ॥
यन्नः शरीरेषु यदन्यदेहेष्वशेषवस्तुष्वजमक्षयं यत् ।
तस्माच्च नान्यव्द्यतिरिक्तमस्ति ब्रह्मस्वरूपाय नताः स्म तस्मै ॥ 3.17.33 ॥
सकलमिदमजस्य यस्य रूपं परमपदात्मवतःसनातनस्य ।
तमनिधनसशेषबीजभूतं प्रभुममलं प्रणताःस्म वासुदेवम् ॥ 3.17.34॥
श्रीपराशर उवाच [Sage Parasara said]
स्तोत्रस्य चावसाने ते ददृशुः परमेश्वरम् ।
शङ्खचक्रगदापाणिं गरुडस्थं सुरा हरिम् ॥ 3.17.35॥
तमुचुःसकला देवाः प्रणिपातपुरःसुरम् ।
प्रसीद नाथ दैत्येभ्यस्त्राहि नः शरणार्थिनः ॥ 3.17.36॥
त्रेलोक्ययज्ञभागाश्च दैत्यैर्ह्लादपुरोगमैः ।
हृता नो ब्रह्मणोप्ययाज्ञामुल्लङ्घ्य परम्श्वर ॥ 3.17.37॥
यद्यप्यशेषभू तस्य वयं ते च तावंशजाः ।
तथाप्यविद्याभेदेन भिन्नं पश्यामहे जगत् ॥ 3.17.38 ॥
स्ववर्णधर्माभिरता वेदमार्गानुसारिणः ।
न शक्यास्तेरयो हन्तुमस्माभिस्तपसावृताः ॥ 3.17.39॥
तमुपायमशेषात्मन्नस्माकं दातुमर्हसि ।
येन तानसुरान्हन्तुं भवेम भगवन्क्षमाः ॥ 3.17.40 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्तो भगवांस्तेभ्यो मायामोहं शरीरतः ।
समुत्पाद्य ददौ विष्णुः प्राह चेदं सुरोत्तमान् ॥ 3.17.41 ॥
मायामोहोयमखिलान्दैत्यां स्तान्मोहयिष्यति ।
ततो वध्या भविष्यन्ति वेदमार्गबहिष्कृताः ॥ 3.17.42 ॥
स्थितौ स्थितस्य मे वध्या यावन्त्रः परिपन्थिनः ।
ब्रह्मणो ह्यधिकारस्य देवा दैत्यादिकाः सुराः ॥ 3.17.43 ॥
तद्गच्छत नभीः कार्या मायामोहोयमग्रतः ।
गच्छन्नद्योपकाराय भवतां भविता सुराः ॥ 3.17.44॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्ताः प्रणिपत्यैनं ययुर्देवा यथागतम् ।
मायामोहोऽपि तैः सार्ध ययौ यत्र महासुराः ॥ 3.17.45॥
इति श्रीविष्णुमहापुराणे तृतीयांशे सप्तदशोऽध्यायः (17)
श्रीपारशर उवाच
तपस्यभिरतान् सोऽथ मायामोहो महासुरान् ।
मैत्रेय ददृशे गत्वानर्मदातीरसंश्रितान् ॥ 3.18.1 ॥
ततो दिगंबरो मुण्डो बर्हिपिच्छधरो द्विज ।
मायामोहोऽसुरान् श्लक्ष्णमिदं वचनमब्रवीत् ॥ 3.18.2॥
मायामोह उवाच
हे दैत्यपतयो ब्रूत यदर्थ तप्यते तपः ।
ऐहिकार्थश्च पारत्र्यं तपसः फलमिच्चथ ॥ 3.18.3 ॥
असुरा ऊचुः
पारत्र्यफललाभाय तपश्चर्या महामते ।
अस्माभिरियमारब्धा किं वा तेऽत्र विवक्षितम् ॥ 3.18.4 ॥
मायामोह उवाच
कुरुध्वं मम वाक्यानि यदि मुक्तिमभीप्सथ ।
अर्हध्वं धर्ममेतं च सर्वे यूयं महाबलाः ॥ 3.18.5॥
धर्मो विमुक्तेरर्हेयं नैतस्मादपरो वरः ।
अत्रैव संस्थिताः स्वर्गं विमुक्तिं वा गमिष्यथ ॥ 3.18.6॥
अर्हध्वं धर्ममेतं च सर्वे यूयं महाबलाः ॥ 3.18.7॥
श्रीपराशर उवाच [Sage Parasara said]
एवंप्रकारैर्बहुभिर्युक्तिदर्शनचर्चितैः ।
मायामोहेन ते दैत्या वेदमार्गादपा कृताः ॥ 3.18.8॥
धर्मायैतदधर्माय सदेतन्न सदित्यपि ।
विमुक्तये त्विदं नैतद्विमुक्तिं संप्रयच्छति ॥ 3.18.8 ॥
परमार्थोयमत्यर्थं परमार्थो न चाप्ययम् ।
कार्यमेतदकार्यं च नैतदेवं स्फुटं त्विदम् ॥ 3.18.10 ॥
दिग्वाससामयं धर्मो
धर्मोयं बहुवाससाम् ॥ 3.18.11 ॥
इत्यनेकान्तवादं च मायामोहेन नैकधा ।
तेन दर्शयता दैत्याःस्वधर्मं त्याजिता द्विज ॥ 3.18.12 ॥
अर्हतैतं महाधर्मं मायामोहेन ते यतः ।
प्रोक्तास्तमाश्रिता धर्ममर्हतास्तेन तेऽभवन् ॥ 3.18.13 ॥
त्रयीधर्मसमुत्सर्गं मायामोहेन तेऽसुराः ।
कारीतास्तन्मया ह्यासंस्ततोन्ये तत्प्रचोदिताः ॥ 3.18.14॥
तैरप्यन्ये परे तैश्च तैरप्यन्ये परे च तैः ।
अल्पैरहोभिः संत्यक्ता तैर्दैत्यैः प्रायशस्त्रयी ॥ 3.18.15॥
पुनश्च रक्तांबरधृङ्मायामोहो जितेन्द्रियः ।
अन्यानाहासुरान् गत्वामृद्धल्पमधुराक्षरम् ॥ 3.18.16॥
स्वर्गार्थं यदि वो वाञ्छा निर्वाणार्थमथासुराः ।
तदलं पशुघातादिदुष्चधर्मैर्निबोधत ॥ 3.18.17॥
विज्ञानमयमेवैतदशेषमवगच्छत ।
बुध्यध्वं मे वचः सम्यग्बुधैरेवमिहोदितम् ॥ 3.18.18 ॥
जगदेतदनाधारं भ्रान्तिज्ञानार्थतत्परम् ।
रागादिदुष्टमत्यर्थं भ्राम्यते भवसंकटे ॥ 3.18.19॥
एवं बुध्यत बुध्यध्वं बुध्यतैवमितीरयन् ।
मायामोहः स दैत्येयान्धर्ममत्याञ्जयन्निजम् ॥ 3.18.20 ॥
नानाप्रकारवचनं स तेषां युक्तियोजनम् ।
तथातथा त्रयीधर्मं तत्यजुस्ते यथायथा ॥ 3.18.21 ॥
तेप्यन्येषां तथैवोचुरन्यैरन्ये तथोदिता ।
मैत्रेय तत्यजुर्धर्मं वेदेस्मृत्युदितं परम् ॥ 3.18.22 ॥
अन्यानप्यन्यपाषण्डप्रकारैर्बहुबिर्द्विज ।
दैतेयान्मोहयामास मायामोहोदिमोहकृत् ॥ 3.18.23 ॥
स्वल्पेनैव हि कालेन मायामोहेन तेऽसुराः ।
मोहितास्तत्यजुःसर्वां त्रयीमार्गाश्रितां कथाम् ॥ 3.18.24॥
केचिद्विनिन्दां वेदानां देवानामपरे द्विज ।
यज्ञकर्मकलापस्य तथान्ते च द्विजन्मनाम् ॥ 3.18.25॥
नैनद्युक्तिसहं वाक्यं हिंसाधर्माय चेष्यते ।
हवींष्यनलदघ्धानि फलायेत्यर्थकोदितम् ॥ 3.18.26॥
यज्ञैरनेकैर्देवत्वमवाप्येन्द्रेण भुज्यते ।
शम्यादि यदि चेत्काष्ठं तद्वरं पत्रभुक्पशु ॥ 3.18.27॥
निहतस्य पशोर्जज्ञे स्वर्गप्राप्तिर्यदीष्यते ।
स्वपिता यजमानेन किन्नु तस्मान्न हन्यते ॥ 3.18.28 ॥
तृप्तये जायते पुंसो भुक्तमन्येन चेत्ततः ।
कुर्याच्छ्राद्धं श्रमायान्नं न वहेयुः प्रवासिनः ॥ 3.18.29॥
जनश्रद्धेयमित्येतदवगम्य ततोत्र वः ।
उपेक्षा श्रेयसे वाक्यं रोचतां यन्मयेरितम् ॥ 3.18.30 ॥
न ह्यप्तवादा नभसो निपतन्ति महीं सुराः ।
युक्तिमद्वचनं ग्राह्यं मयान्यैश्च भवद्विधैः ॥ 3.18.31 ॥
श्रीपराशर उवाच [Sage Parasara said]
मयामोहेन ते दैत्याः प्रकारैर्बहुभिस्तथा ।
वृथापिता यथा नैषां त्रयी कश्चिदरोचयत् ॥ 3.18.32 ॥
इत्थमुन्मार्गयातेषु तेषु दैत्येषु तेऽमराः ।
उद्योगं परमं कृत्वा युद्धाय समुपस्थिताः ॥ 3.18.33 ॥
ततो दैवासुरं युद्धं पुनरेवाभवद्द्विज ।
हताश्चतेऽसुरा दैवैः सन्मार्गपरिपन्थिनः ॥ 3.18.34॥
स्वधर्मकवचं तेषामभूद्यत्प्रथमं द्विज ।
तेन रक्षाभवत्पूर्वं नेशुर्नष्टे च तत्र ते ॥ 3.18.35॥
ततो मैत्रेय तन्मार्गवर्तिनो येभवञ्जनाः ।
नग्नास्ते तैर्यतस्त्यक्त त्रयीसंवरणं तथा ।
कृताश्च तेऽसुरा देवैर्नाना वेदविनिन्दकाः ॥ 3.18.36॥
ब्रह्मचारीगृहस्थश्च वानप्रस्थस्तथाश्रमी ।
परिव्राड्वा चतुर्थोत्र पञ्चमो नोपपद्यते ॥ 3.18.37॥
वस्तु संत्यज्य गार्हस्थ्यं वानप्रस्थो न जायते ।
परिव्राट्चापि मैत्रेय स नग्नः पापकृन्नरः ॥ 3.18.38 ॥
नित्यानां कर्मणां विप्र यस्य हानिरहर्निशम् ।
अकुर्वन्विहितं कर्म शक्तः पतति तद्दिने ॥ 3.18.39॥
प्रायश्चित्तेन महाता शुद्धिमाप्नोत्यनापदि ।
पक्षं नित्यक्रियाहानेः कर्ता मैत्रेय मानवः ॥ 3.18.40 ॥
संवत्सरं क्रियाहानिर्यस्य पुंसोभिजायते ।
तस्यावलोकनात्सूर्यो निरीक्ष्यःसाधुभिः सदा ॥ 3.18.41 ॥
स्पृष्टे स्नानं सचेलस्य शुद्धेर्हेतुर्महामते ।
पुंसो भवति तस्योक्ता न शुद्धिः पापकर्मणः ॥ 3.18.42 ॥
देवर्षिपितृभीतानि यस्य विप्रस्य वेश्मनि ।
प्रयान्त्यनर्चितान्यत्र लोके तस्मान्न पापकृत् ॥ 3.18.43 ॥
संभाषणानुप्रश्नादि सहास्यां चैव कुर्वतः ।
जायते तुल्यता तस्य तेनैव द्विज वत्सरात् ॥ 3.18.44॥
देवादिनिस्वासहतं शरीरं यस्य वेश्म च ।
न तेन संकरं कुर्याद्गृहासनपरिच्छदैः ॥ 3.18.45॥
अथ भुक्तं गृहे तस्य करोत्यास्यां तथासने ।
शेते चाप्येकशयने स सद्यस्तत्समो भवेत् ॥ 3.18.46॥
देवतापितृभूतानि तथानभ्यर्च्य योऽतिथीन् ।
भुक्ते स पातकं भुङ्क्ते निष्कृतिस्तस्य नेष्यते ॥ 3.18.47॥
ब्राह्मणाद्यास्तु ये वर्णाःस्वधर्मादन्यतोमुखाः ।
यान्ति ते नग्नसंज्ञां तु हीनकर्मस्ववस्थितः ॥ 3.18.48 ॥
चतुर्णां यत्र वर्णानां मैत्रेयात्यन्तसंकरः ।
तत्रास्या साधुवृत्तिनामुपघाताय जायते ॥ 3.18.49॥
अनभ्यर्च्य ऋषीन्देवान्पितृभूतातिथीस्तथा ।
यो भुङ्क्ते तस्य संल्लापात्पतन्तिनरके नराः ॥ 3.18.50 ॥
तस्मादेतान्नरो नग्नांस्त्रयीसंत्यागदूषितान् ।
सर्वदा वर्जयेत्प्राज्ञ आलापस्पर्शनादिषु ॥ 3.18.51 ॥
श्रद्धावद्भिः कृतं यत्ना द्देवान्पितृपितामहान् ।
न प्रीणयति तच्छ्राद्धं यद्येभिरवलोकितम् ॥ 3.18.52 ॥
श्रूयते च पुराख्यातो राजा शतधनुर्भुवि ।
पत्नी च शैव्यातस्याभूदतिधर्मपरायणा ॥ 3.18.53 ॥
पतिव्रता महाभागा सत्यशौचदयान्विता ।
सर्वलक्षणसंपन्ना विनयेन यनेन च ॥ 3.18.54॥
स तु राजा तया सार्धं देवदेवं जनार्दनम् ।
आराधयामास विभुं परमेण समाधिना ॥ 3.18.55॥
होमैर्जपैस्तथा दानैरुपवासैश्च भक्तितः ।
पुजाभिश्चानुदिवसं तन्मना नान्यमानसः ॥ 3.18.56॥
एकदा तु समं स्नातौ तौ तु भार्यापती जले ।
भागीरथ्याःसमुत्तीर्णौ कार्त्तिक्यां समुपोषितौ ।
पाषण्डिनमपश्येतामायान्तं संमुखं द्विज ॥ 3.18.57॥
चापाचार्यस्य तस्यासौ सखा राज्ञो महात्मनः ।
अतस्तद्गौरवात्तेन सखाभावमथाकरोत् ॥ 3.18.58 ॥
न तु सा वाग्यता देवी तस्य पत्नी पतिव्रता ।
उपोषितास्मीति रविं तस्मिन्दृष्टे ददर्श च ॥ 3.18.59॥
समागम्य यथान्यायं दंपती तौ यथाविधि ।
विष्णोः पूजादिकं सर्वं कृतंवतौ द्विजोत्तम ॥ 3.18.60 ॥
कालेन गच्छता राजा ममारासौ सपत्नजित् ।
अन्वारुरोह तं देवी चितास्थं भूपतिं पतिम् ॥ 3.18.61 ॥
स तु तेनापचारेण श्वा जज्ञे वसुधाधिपः ।
उपोषितेन पाषण्डसंल्लापो यत्कृतोऽभवत् ॥ 3.18.62 ॥
सा तु जाति स्मरा जज्ञे काशीराजसुता शुभा ।
सर्वविज्ञानसंपूर्णा सर्वलक्षणपूजिता ॥ 3.18.63 ॥
तां पिता दातुकामोभूद्वराय विनिवारितः ।
तयैव तन्व्या विरतो विवाहारंभतो नृपः ॥ 3.18.64॥
ततःसा दिव्यया दृष्ट्या दृष्ट्वा श्वानं निजं पतिम् ।
विदिशाख्यं पुरं गत्वा तदवस्थं ददर्श तम् ॥ 3.18.65॥
तं दृष्ट्वैव महाभागं श्वभूतं तु पतिं तदा ।
ददौ तस्मै वराहारं सत्कारप्रवणं शुभा ॥ 3.18.66॥
भुञ्जन् दत्तं तया सोऽन्नमतिमृष्टमभीप्सितम् ।
स्वजाति ललितं कुर्वन्बहु चाटु चकार वै ॥ 3.18.67॥
अतीव व्रीडिता बला कुर्वता चाटु तेन सा ।
प्रणामपूर्वमाहेदं दयितं तं कुयोनिजम् ॥ 3.18.68 ॥
स्मर्यतां तन्महाराज दाक्षिण्यललितं त्वया ।
येन श्वयोनिमापन्नो मम चाटुकरो भवान् ॥ 3.18.69॥
पाषण्डिनं समाभाष्य तीर्थस्नानादनन्तरम् ।
प्राप्तोसि कुत्सितां योनिं किन्न स्मरसि तत्प्रभो ॥ 3.18.70 ॥
श्रीपराशर उवाच [Sage Parasara said]
तयैवं स्मारीति तस्मिन्पूर्वजातिकृते तदा ।
दध्यौ चिरमथा वार निर्वेदमतिदुर्लभम् ॥ 3.18.71 ॥
निर्विण्णचित्तःस ततो निर्गम्य नगराद्वहिः ।
मरुत्प्रपतनं कृत्वा सार्गाली योनिमागतः ॥ 3.18.72 ॥
सापि द्वितीये संप्राप्ते वीक्ष्य दिव्येन चक्षुषा ।
ज्ञात्वा सृगालं तं द्रष्टुं ययौ कोलाहलं गिरिम् ॥ 3.18.73 ॥
तत्रापि दृष्ट्वा तं प्राह सार्गालीं योनिमागतम् ।
भर्तारमपि चार्वङ्गी तनया पृथिवीक्षितः ॥ 3.18.74॥
अपि स्मरसि राजेन्द्र श्वयोनिस्थस्य यन्मया ।
प्रोक्तं ते पूर्वचरितं पाषण्डालापसंश्रयम् ॥ 3.18.75॥
पुनस्त योक्तं स ज्ञात्वा सत्यं सत्यवतां वरः ।
कानने स निराहारस्तत्याज स्वं कलेवरम् ॥ 3.18.76॥
बूयस्ततो वृको जज्ञे गत्वा तं निर्जने वने ।
स्मारयामास भर्तारं पूर्ववृत्तमनिन्दिता ॥ 3.18.77॥
न त्वं वृको महाभाग राजा शतधनुर्भवान् ।
श्वा भूत्वा त्वं सृगालोऽभूर्वृकत्वं सांप्रतं गतः ॥ 3.18.78 ॥
स्मारितेन यथा व्यक्तस्तेनात्मा गृध्रतां गतः ।
अपापा सा पुनश्चैनं बोधयामास भामिति ॥ 3.18.79॥
नरेद्र स्मर्यतामात्मा ह्यलं ते गृध्रचेष्टया ।
पाषण्डालापजातोऽयं दोषो यद्गृध्रतां गतः ॥ 3.18.80 ॥
ततः काकत्वमापन्नं समनन्तरजन्मनि ।
उवाच तन्वी भर्तारमुपलभ्यात्मयोगतः ॥ 3.18.81 ॥
अशेषभूभृतः पूर्वं वश्या यस्मै बलिं ददुः ।
स त्वं काकत्वमापन्नो जातोद्य बलिभुक्प्रभो ॥ 3.18.82 ॥
एवमेव बकत्वेपि स्मारितः स पुरातनम् ।
तत्त्याज भूपतिः प्राणान्मयूरत्वमवाप च ॥ 3.18.83 ॥
मयूरत्वे ततःसा वै चकारानुगतिं शुभा ।
दत्तैः प्रतिक्षणं भोज्यैर्बाला तज्जतिभोजनैः ॥ 3.18.84॥
ततस्तु जनको राजा वाजिमेधं महाक्रतुम् ।
चकार तस्यावभृथे स्नापयामास तं तदा ॥ 3.18.85॥
सस्नौ स्वयं च तन्वङ्गी स्मारयामास चापि तम् ।
यथासौ श्वसृगालादियोनिं जग्राह पार्थिवः ॥ 3.18.86॥
स्मृतजन्मक्रमःसोथ तत्त्याज स्वकलेवरम् ।
जज्ञे स जनकस्यैव पुत्रोसौ सुमहात्मनः ॥ 3.18.87॥
ततःसा पितरं तन्वी विवाहार्थमचोदयत् ।
स चापि कार यामास तस्या राजा स्वयंवरम् ॥ 3.18.88 ॥
स्वयंवरे कृते सा तं संप्राप्तं पतिमात्मनः ।
वरयामास भूयोऽपि भर्तृभावेन भामिनी ॥ 3.18.89॥
बुभुजे च तया सार्धं संभोगान्नृपनन्दनः ।
पितर्युपरते राज्यं विदेहेषु चकार सः ॥ 3.18.90 ॥
इयाज जज्ञान्सुबहून्ददौ दानानि चार्थिनाम् ।
पुत्रानुत्पादयामास युयुधे च सहारिभिः ॥ 3.18.91 ॥
राज्यं भुक्त्वा यथान्यायं पालयित्वा वसुंधराम् ।
तत्त्याज स प्रियान्प्राणान्संग्रामे धर्मतोनृपः ॥ 3.18.92 ॥
ततश्चितास्थं तं भूयो भर्तारं सा शुभेक्षणा ।
अन्वारुरोह विधिवद्यथापूर्वं मुदान्विता ॥ 3.18.93 ॥
ततोऽवाप तया सार्धं राजपुत्र्या स पार्थिवः ।
ऐन्द्रानतीत्य वै लोकांल्लोकान्प्राप तदाक्षयान् ॥ 3.18.94॥
स्वर्गाक्षयत्वमतुलं दांपत्यमतिदुर्लभम् ।
प्राप्तं पुण्यफलं प्राप्य संशुद्धिं तां द्विजोत्तम ॥ 3.18.95॥
एष पाषण्टसंभाषाद्दोषः प्रोक्तो मया द्विज ।
तथाश्वमेधावभृथस्नानमाहात्म्यमेव च ॥ 3.18.96॥
तस्मात्पाषण्डिभिः पापैरालापस्पर्शनं त्यजेत् ।
विशेषतः क्रियाकाले यज्ञादौ चापि दीक्षितः ॥ 3.18.97॥
क्रियाहानिर्गृहे यस्य मासमेकं प्रजायते ।
तस्यावलोकनात्सूर्यं पश्येत मतिमान्नरः ॥ 3.18.98 ॥
किं पुनर्यैस्तु संत्यक्ता त्रयी सर्ंवात्मना द्विज ।
पाषण्डभोजिभिः पापौर्वेदवादविरोधिभिः ॥ 3.18.99॥
सहालापस्तु संसर्गः सहास्या चातिपापिनी ।
पाषण्डिभिर्दुराचारैस्तस्मात्तां परिवर्जयेत् ॥ 3.18.100 ॥
पाषण्डिनो विकर्मस्थान्बैडालव्रतिकाञ्छठान् ।
हैतुकान्बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् ॥ 3.18.101 ॥
द्वरतस्तैस्तु संपर्कस्त्याज्यश्चाप्यतिपापिभिः ।
पाषण्डिभिर्दुराजारैस्तस्मात्तान् परिवर्जयेत् ॥ 3.18.102 ॥
एते नग्नास्तवाख्याता दृष्टा श्राद्धो पघातकाः ।
येषां संभाषणात्पुंसां दिनपुण्यं प्रणश्यति ॥ 3.18.103 ॥
एते पाषण्डिनः पापा न ह्येतानालपेद्बुधः ।
पुण्यं नश्यति संभाषादेतेषां तद्दिनोद्भवम् ॥ 3.18.104॥
पुंसां जटाधरणमैण्ड्यवतां वृथैव मोघाशिनामखिलशौचनिराकृतानाम् ।
तोयप्रदानपितृपिण्डबहिष्कृतानां संभाषणादपि नरा नरकं प्रयान्ति ॥ 3.18.105॥
इति श्रीविष्णुमहापुराणे तृतीयांशेऽष्टादशोऽध्यायः (18)
श्रीविष्णुमहापुराणे तृतीयांशःसमाप्तः
इति श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्य श्रीधरीयव्याख्याद्वयोपेते तृतीयांशः समाप्तः ।
अथ श्रीविष्णुमहापुराणे विष्णुचित्त्यात्मप्रकाशाख्य श्रीधरीयव्याख्याद्वयोपेते चतुर्थंशः प्रारभ्यते ।
श्रीमते रामानुजाय नामः
मैत्रेय उवाच
भगवन्यन्नरैः कार्यं साधुकर्मण्यवस्थितैः ।
तन्मह्यं गुरुणाख्यातं नित्यनैमित्तिकात्मकम् ॥ 4.1.1 ॥
वर्मधर्मास्तथाख्याता धर्मा ये चाश्रमेषु च ।
श्रोतुमिच्छाम्यहं वंशं राज्ञां तद्ब्रूहि मे गुरो ॥ 4.1.2॥
श्रीपराशर वाच
मैत्रेय श्रूयतामयमनेकयज्शुरवीरधीरभूपालालङ्कृतो ब्रह्मादिर्मानवो वंशः ॥ 4.1.3 ॥
तदस्य वंशस्यनुपूर्वीमशेषवंशपापप्रणाशनाय मैत्रेयैतां कथं शृणु ॥ 4.1.4 ॥
तद्यथा सकलजगतामादिरनादिभूतःस ऋग्यजुःसामादिमयो भगवान् विष्णुस्तस्य ब्रह्मणो मर्तं रूपं हिरण्यगर्भो ब्रह्माण्डभूतो ब्रह्मा भगवान् प्राग्बभूव ॥ 4.1.5॥
ब्रह्मणश्च दक्षिणाङ्गुष्ठजन्मा दक्षप्रजापतिः दक्षस्याप्यदितिरदितेर्विवस्वान् विवस्वतो मनुः ॥ 4.1.6॥
मनोरिक्ष्वाकुनृगधृष्टशर्यातिनरिष्यन्तप्रांशुनाभगदिष्टकरूषपृषध्राख्या दश पुत्रा बभूवुः ॥ 4.1.7॥
इष्ठटिं च मित्रावरुणयोर्मनुः पुत्रकामश्चकार ॥ 4.1.8॥
तत्र तावदह्नुते होतुरपचारादिला नाम कन्या बभूव ॥ 4.1.8 ॥
सैव च मित्रावरुणयोः प्रसादात्सुद्युम्नो नाम मनोः पुत्रो मैत्रेय आसीत् ॥ 4.1.10 ॥
पुनश्चेश्वरकोपात्स्त्री सती सा तु सोममूनोर्बुधस्याश्रमसमीपे बभ्राम ॥ 4.1.11 ॥
सानुरागाच्च तस्यां बुधः पुरूरवसमात्मजमुत्पादयामास ॥ 4.1.12 ॥
जातेपि तस्मिन्नमिततेजोभिः परमर्षिभिरिष्टिमय ऋङ्मयो यजुर्मयःसाममयोथर्वणमयःसर्ववेदमयो मनोमयो ज्ञानमयो न किञ्चिन्मयोन्नमयो भगवान् यज्ञपुरुषस्वरूपी सुद्युम्नस्य पुंस्त्वमभिलषद्भिर्यथाव दिष्टस्तत्प्रसादादिला पुनरपु सुद्युम्नोऽभवत् ॥ 4.1.13 ॥
तस्याप्युतकलगयविनतास्त्रयः पुत्रा बभूवुः ॥ 4.1.14॥
सुद्युम्नस्तु स्त्रीपूर्वकत्वाद्राज्यभागं न लेभे ॥ 4.1.15॥
तत्पित्रा तु वसिष्ठवचनात्प्रतिष्ठान नाम नगरं सुद्युम्नाय दत्तं तच्चासौ पुरूरवसे प्रादात् ॥ 4.1.16॥
तदन्वयाश्चक्षत्रियाःसर्वै दिक्ष्वभवन् ।
पृषध्रस्तु मनुपुत्रो गुरुगोवधाच्छूद्रत्वमगमत् ॥ 4.1.17॥
मनोः पुत्रः करूषः करूषात्कारूषाः क्षत्रिया महाबलपराक्रमबभूवः ॥ 4.1.18 ॥
दिष्टपुत्रस्तु नाभागो वैश्यतामगमत्तस्माद्बलन्धनः पुत्रोभवत् ॥ 4.1.19॥
बलन्धनाद्वत्सप्रीतिरुदारकीर्तिः ॥ 4.1.20 ॥
वत्सप्रीतेः प्रांशुरभवत् ॥ 4.1.21 ॥
प्रजापतिश्च प्रांशोरेकोऽभवत् ॥ 4.1.22 ॥
ततश्च खनित्रः ॥ 4.1.23 ॥
तस्माच्चक्षुषः ॥ 4.1.24॥
चक्षुषाच्चतिबलपराक्रमोविंशुरभवत् ॥ 4.1.25॥
ततो विविंशकः ॥ 4.1.26॥
तस्माच्च खनिनेत्रः ॥ 4.1.27॥
ततश्चातिविभूतिः ॥ 4.1.28 ॥
अतिविभूतेरतिबलपराक्रमः करन्धमः पुत्रोभवत् ॥ 4.1.29॥
तस्मादप्यविक्षित् ॥ 4.1.30 ॥
अविक्षितोप्यतिबलपराक्रमः पुत्रो मरुत्तो नामाभवत् ।
यस्येमावद्यापि श्लोकौ गीयेत् ॥ 4.1.31 ॥
मरुत्तस्य यथा यज्ञस्तथा कस्याभवद्भुवि ।
सर्वं हिरण्मयं यस्य यज्ञवस्त्वतिशोभनम् ॥ 4.1.32 ॥
अमाद्यदिद्रःसोमेन दक्षिणाभिर्द्विजातयः ।
मरुतः परिवेष्टारःसदस्याश्च दिवौकसः ॥ 4.1.33 ॥
स मरुत्तश्चक्रवर्ति नरिष्यन्तनामानं पुत्रमवाप ॥ 4.1.34॥
तस्माच्च दमः ॥ 4.1.35॥
दमस्य पुत्रो राजवर्धनो जज्ञे ॥ 4.1.36॥
राजवर्धनात्सुवृद्धिः ॥ 4.1.37॥
सुवृद्धेः केवलः ॥ 4.1.38 ॥
केवलात्सुधृतिरभूत् ॥ 4.1.39॥
ततश्च नरः ॥ 4.1.40 ॥
तस्माच्चन्द्रः ॥ 4.1.41 ॥
ततः केवलोभूत् ॥ 4.1.42 ॥
ततः केवलोभूत् ॥ 4.1.43 ॥
बन्धुमतो गृवेगवान् ॥ 4.1.44॥
वेगवतो बुधः ॥ 4.1.45॥
ततश्च तृणबिन्दुः ॥ 4.1.46॥
तस्याप्येका कन्या इलविलानाम ॥ 4.1.47॥
ततश्चालंबुसानाम वराप्सरास्तृटणबिन्दुं भेजे ॥ 4.1.48 ॥
तस्यामप्यस्य विशालो जज्ञे यः पुरीं विशालं निर्ममे ॥ 4.1.49॥
हेमचन्द्रश्च विशालस्य पुत्रोभवत् ॥ 4.1.50 ॥
ततश्चन्द्रः ॥ 4.1.51 ॥
तत्तनयो धूम्राक्षः ॥ 4.1.52 ॥
तस्यापि सृंजयोऽभूत् ॥ 4.1.53 ॥
सृंजयात्सहदेवः ॥ 4.1.54॥
ततश्च कृशाश्वो नाम पुत्रोभवत् ॥ 4.1.55॥
सोमदत्तः कृशाश्वाज्जज्ञे योश्वमेधानां शतमाजहार ॥ 4.1.56॥
तत्पुत्रो जनमेजयः ॥ 4.1.57॥
जनमेजयात्सुमतिः ॥ 4.1.58 ॥
एते वैशालिका भूभृतः ॥ 4.1.59॥
श्लोकोप्यत्र गीयते ॥ 4.1.60 ॥
तृणबिन्दोः प्रसादेन सर्वे वैशालिका नृपाः ।
दीर्घायुषो महात्मानो वीर्यवन्तोतिधर्मिकाः ॥ 4.1.61 ॥
शर्यातेः कन्या सुकन्यानामाभवत्यामुपयेमेच्यवन् ॥ 4.1.62 ॥
आनर्तनामा परमधार्मिकः शर्यातिपुत्रोभवत् ॥ 4.1.63 ॥
आनर्तस्यापि रेवतनामा पुत्रो जज्ञे योऽसावानर्त्तविषयं बुभुजे पुरीं च कुशस्थलीमध्युवास ॥ 4.1.64॥
रेवतास्यापि रैवतः पुत्रः ककुद्मिनामा धर्मात्मा भ्रातृशतस्य ज्योष्ठोऽभवत् ॥ 4.1.65॥
तस्य रेवतीनामकन्याभवत् ॥ 4.1.66॥
स तामादाय कस्योयमर्हतीति भगवन्तमब्जयोनिं प्रष्टुं ब्रह्मलोकं जगाम् ॥ 4.1.67॥
तावच्च ब्रह्मणोन्तिके हाहाहूहूसंज्ञाभ्यां गन्धर्वाभ्यामतितानं नाम दिव्यं गान्धर्वमगीयत ॥ 4.1.68 ॥
तच्च त्रिमार्गपरिवृत्तैरनेकयुगपरिवृत्तिं तिष्ठन्नपि रैवतः शृण्वन्मुहूर्त्तमिव मेने ॥ 4.1.69॥
गीतावसाने चज भगवन्तमब्जयोनिं प्रणम्य रैवतः कन्यायोग्यं वरमपृच्छत् ॥ 4.1.70 ॥
ततश्चासौ भगवानकथयत्कथय योभिमतस्ते वर इति ॥ 4.1.71 ॥
पुनश्च प्रणम्य भगवते तस्मै यथाभिमतानात्मनःस वरान् कथयामास ।
क एषां भगवतोभिमत इति यस्मै कन्यामिमां प्रयच्छामीति ॥ 4.1.72 ॥
ततः किञ्चिदवनतशिराःसस्मितं भगवानब्जयोनिह ॥ 4.1.73 ॥
य एते भवतोभिमता नैतेषां सांप्रतं पुत्रपौत्रापत्यापत्यसंततिरस्त्यवनीतले ॥ 4.1.74॥
बहूनि तवात्रैव गान्धर्वं शृण्वतश्चतुर्यगान्यतीतानि ॥ 4.1.75॥
य एते भवतोभिमता महीतलेष्टाविंशतितममनोश्चतुर्युगमतीतप्रायञ्च वर्तते ॥ 4.1.76॥
आसन्नो हि कलिः ॥ 4.1.77॥
अन्यस्मै कन्यारत्नमिदं भवतैकाकिनाभिमताय देयम् ॥ 4.1.78 ॥
भवतोपि पुत्रमित्त्रकलत्रमन्त्रिभृत्यबन्धुबलकोशादयःसमस्ताः कालेनैतेनात्यन्तमतीताः ॥ 4.1.79॥
ततः पुनरप्युत्पन्नसाध्वसो राजा भगवन्तं प्रणम्य पप्रच्छ ॥ 4.1.80 ॥
भगवन्नेवमवस्थिते म येयं कस्मै देयेति ॥ 4.1.81 ॥
ततःस भगवान् किञ्चिदवनम्रकन्धरः कृताञ्जलिर्भूत्वा सर्वलोकगुरुरंभोजयोनिराह ॥ 4.1.82 ॥
ब्रह्मोवाच
न ह्यादिमध्यान्तमजस्य यस्य विद्मो वयं सर्वमयस्य धातुः ।
न च स्वरूपं न परं स्वभावं न चैव सारं परमेश्वरस्य ॥ 4.1.83 ॥
कलामुहूर्त्तादिमयश्च कालो न यद्विभूतेः परिणामहेतुः ।
अज्मनाशस्य सदैकमुर्त्तेरनामरूपस्य सनातनस्य ॥ 4.1.84॥
यस्य प्रसादादहमच्युतस्य मूर्तिः प्रजासृष्टिकरोऽन्तकारी ।
क्रोधाच्च रुद्रः स्थितिहेतुभूतो यस्माच्मध्ये पुरुषः परस्मात् ॥ 4.1.85॥
तद्रूपमास्थाय सृजत्यजो यः स्थितौ च योऽसौ पुरुषस्वरूपी ।
रुद्रस्वरूपेण च योत्ति विश्वं धत्ते तथानन्तवपुःसमस्तम् ॥ 4.1.86॥
पाकाय योग्नित्वमुपैति लोकान्बिभर्त्ति पृथ्वीवपुख्यायात्मा ।
शक्रादिरूपी परिपाति विश्वमर्केन्दुरूपश्च तमो हिनस्ति ॥ 4.1.87॥
करोति चेष्टाः श्वसनस्वरूपी लोकस्य तृप्तिं च जलान्नरूपी ।
ददाति विश्वस्थितिसंस्थितस्तु सर्वावकाशं च नभःस्वरूपी ॥ 4.1.88 ॥
यःसृज्यते सर्गकृदात्मनैव यः पाल्यते पालयिता च देवः ।
विश्वत्मकःसंहृयतेन्तकारी पृथक्त्रयस्यास्य च योव्ययात्मा ॥ 4.1.89॥
यस्मिञ्जगद्यो जगदेतदाद्यो यं चाश्रितोस्मिञ्जगति स्वयंभूः ।
स सर्वभूतप्रभवो धरित्र्यां स्वांशेन पुष्णुर्नृप तेऽवतीर्णः ॥ 4.1.90 ॥
कुशस्थली या तव भूप रम्या पुरी पुराभूदमरावतीव ।
सा द्वारका संप्रति तत्र चास्ते स केशवांशो बलदेवनामा ॥ 4.1.91 ॥
तस्मै त्वमेनां तनयां नरेद्र प्रायच्छ मायामनुजाय जायाम् ।
श्लोघ्यो वेरेसौ तनया तवेयं स्त्रीरत्नभूता सदृशो हि योगः ॥ 4.1.92 ॥
श्रीपराशर उवाच [Sage Parasara said]
इतीरितोसौ कमलोद्भवेन भुवं समासाद्य पतिः प्रजानाम् ।
ददर्श ह्रस्वान् पुरुषान् विरूपानल्पौजसःस्वल्पविवेकविर्यान् ॥ 4.1.93 ॥
कुशस्थलों तां च पुवरीमुपेत्य दृष्ट्वान्यरूपां प्रददौ स कन्याम् ।
सीरायुधाय स्फटिकाचलाभवक्षस्थलायातुलधीर्नरेद्रः ॥ 4.1.94॥
उच्चप्रमाणामिति तामवेक्ष्य स्वलाङ्गलाग्रेण च तालकेतुः ।
विनम्रयामास ततश्च सापि बभूव सद्यो वनिता यथान्या ॥ 4.1.95॥
तां रेवतींरैवतभूपकन्यां सीरायुधोऽसौ विधिनोपयेमे ।
दत्त्वाथ स नृपो जगाम हेमालयं वै तपसे धृतात्मा ॥ 4.1.96॥
इति श्रीविष्णुमहापुराणे चतुर्थाशे प्रथमोध्यायः (1)
श्रीपराशर उवाच [Sage Parasara said]
यावच्च ब्रह्मलोकात्स ककुद्मी रैवतो नाभ्येति तावत्पुण्यजनसंज्ञा राक्षसास्तामस्य पुरीं कुशस्थलीं नजघ्नुः ॥ 4.2.1 ॥
तच्चास्य भ्रातृशतं पुण्यजनत्रासाद्दिशो भेजे ॥ 4.2.2॥
तदन्वयाश्चक्षत्रियाःसर्वदिक्ष्वभवन् ॥ 4.2.3 ॥
वृष्टस्यापि वार्ष्टकं क्षत्रमभवत् ॥ 4.2.4 ॥
नाभागस्यात्मजो नाभागसंत्रोभवत् ॥ 4.2.5॥
तस्याप्यंबरीषः ॥ 4.2.6॥
अंबरीषस्यापि विरूपोभवत् ॥ 4.2.7॥
विरूपात्पृषदश्वो जज्ञे ॥ 4.2.8॥
ततश्च रथीतरः ॥ 4.2.8 ॥
आत्रायं श्लोकः
एते क्षत्रप्रसूता वै पुनश्चाङ्गिरसाः स्मृता ।
रथीतराणां प्रवराः क्षत्रोपेता द्विजातयः ॥ 4.2.10 ॥
क्षुतवतश्च मनोरिक्ष्वाकुः पुत्रो जज्ञे घ्राणतः ॥ 4.2.11 ॥
तस्य पुत्रशतप्रधाना विकुक्षिनिमिदण्डाख्यास्त्रयः पुत्रा बभूवुः ॥ 4.2.12 ॥
पञ्चाशत्पुत्राः उत्तराथरक्षितारो बभूवुः ॥ 4.2.13 ॥
चत्वारिंशदष्टौ च दक्षिणापथभूपालाः ॥ 4.2.14॥
स चेक्ष्वाकुरष्टकायाः श्राद्धमुत्पाद्य श्राद्धार्हं मांसमानयेति विकुक्षिमाज्ञापयामास ॥ 4.2.15॥
स तथे ति गृहीताज्ञो विधृतशारासनो वनमभ्येत्यानेकशो मृगान् हत्वा श्रान्तोतिक्षुत्परीतो विकुक्षिरेकं शशमभक्षयत् ।
शेषं च मांसमानीय पित्रेनिवेदयामास ॥ 4.2.16॥
इक्ष्वाकुकुलाचार्यो वशिष्ठस्तत्प्रोक्षणाय चोदितः प्राह ।
अलमनेनामेध्येनामिषेण दुरात्मना तव पुत्रेणैतन्मांसमुपहतं यतोऽनेन शशो भक्षितः ॥ 4.2.17॥
ततश्चासौ विकुक्षिर्गुरूणैवमुक्तः शशादसंज्ञामवाप पित्रा च परित्यक्तः ॥ 4.2.18 ॥
पितर्युपरते चासावखिलामेतां पृथ्वीं धर्मतः शाशास ॥ 4.2.19॥
शशादस्य तस्य पुरञ्जयोनाम पुत्रोभवत् ॥ 4.2.20 ॥
तस्येदं चान्यत् ॥ 4.2.21 ॥
पुरा हि त्रेतायां देवासुरयुद्धमतिभीषणमभवत् ॥ 4.2.22 ॥
तत्र चातिबलिभिरसुरैरमराः पराजितास्ते भगवन्तं विष्णुमाराधयाञ्चक्रुः ॥ 4.2.23 ॥
प्रसन्नश्च देवानामनादिनिधनोखिलजमत्परायणो नारायणः प्राह ॥ 4.2.24॥
ज्ञातमेतन्मया युष्माभिर्यदभिलषितं तदर्थमिदं श्रूयताम् ॥ 4.2.25॥
पुरञ्जयो नाम राजर्षेः शशादस्य तनयः क्षत्रियवरो यस्तस्य शरीरेहमंशेन स्वयमेवावतीर्य तानशेषनसुरान्निहनिष्यामि तद्भवद्भिः पुरञ्जयोऽसुरवधार्थमुद्योगं कार्यतामिति ॥ 4.2.26॥
एतच्च श्रुत्वा प्रणम्य भगवन्तं विष्णुममराः पुरञ्जयसकाशमाजग्मुरूचुश्चैनम् ॥ 4.2.27॥
भोभोः क्षत्रियवर्यास्माभिरभ्यर्थितेन भवतास्माकमरातिवधोद्यतानां कर्तव्यं साहाय्यमिच्छामः तद्भवतास्माकमभ्यागतानां प्रणयभङ्गो न कार्य इत्युक्तः पुंरजयः प्राह ॥ 4.2.28 ॥
त्रैलोक्यनाथो योयं युष्माकमिद्रः शतक्रतुरस्य यद्यहं स्कन्धाधिरूढो युष्माकमरातिभःसह योत्स्ये तदहं भवतां सहायः स्याम् ॥ 4.2.29॥
इत्याकर्ण्य समस्तदेवैरिन्द्रेण च बाढमित्येवं समन्विच्छितम् ॥ 4.2.30 ॥
ततश्च शतक्रतोर्वृषरूपधारीमः ककुदि स्थितोऽतिरोषसमन्वितो भगवतश्चरागुरोरच्युतस्य तेजसाप्यायितो देवासुरसंग्रामे समस्तानेवासुरान्निजघान ॥ 4.2.31 ॥
यतश्च वृषभककुदि स्थितेन राज्ञा दैतेयबलं निषूदितमतश्चासौ ककुत्स्थसंज्ञामवाप ॥ 4.2.32 ॥
ककुत्स्थस्याप्यनेनाः पुत्रोऽभवत् ॥ 4.2.33 ॥
पुथुनेनसः ॥ 4.2.34॥
पुथोर्विष्टराश्वः ॥ 4.2.35॥
तस्यापि चान्द्रो युवनाश्वः ॥ 4.2.36॥
चान्द्रस्य तस्य युवनाश्वस्य शावस्तः यः पुरीं शावस्तीं निवेशयामास ॥ 4.2.37॥
शावस्तस्य वृहदश्वः ॥ 4.2.38 ॥
तस्यापि कुवालायाश्वः ॥ 4.2.39॥
योसावुदकस्य महर्षेरपकारिणं दुन्दुनामानमसुरं वैष्णवेन तेजसाप्यायितः पुत्रसहस्रैरेकविंशद्भिः परिवृतो जवान दुन्दुमारसंज्ञामवाप ॥ 4.2.40 ॥
तस्य च तनयास्प्तमस्ता एव दुन्दुमुखनिस्वासाग्निना विप्लुष्टा विनेशुः ॥ 4.2.41 ॥
दृढाश्वचन्द्राश्वकपिलाश्वाश्च त्रयः केवलं शेषिताः ॥ 4.2.42 ॥
वृढाश्वाद्धर्यश्वः ॥ 4.2.43 ॥
तस्माच्च निकुंभः ॥ 4.2.44॥
निकुंभस्यामिताश्वः ॥ 4.2.45॥
ततश्च कृशाश्वः ॥ 4.2.46॥
तस्माच्च प्रसेनजित् ॥ 4.2.47॥
प्रसेनजितो युवनाश्वोभवत् ॥ 4.2.48 ॥
तस्य चापुत्रस्यातिनिर्वेदामुनीनामाश्रममण्डले निवसतो दयालुभिर्मुनिभिरपत्योत्पादनायेष्टः कृता ॥ 4.2.49॥
तस्यां च मध्यारात्रौ निवृत्तायां मन्त्रपूतजलपूर्णं कलशं वेदिमध्ये निवेस्य ते मुनयः सुषुपुः ॥ 4.2.50 ॥
सुप्तेषु तेषु अतीव तृट्परीतःस भूपालस्तमाश्रमं विवेश ॥ 4.2.51 ॥
तानृषीन्नैवोत्थापयामास ॥ 4.2.52 ॥
तच्च कलशमपरिमेयमाहत्मयमन्त्रपूतं पपौ ॥ 4.2.53 ॥
प्रबुद्धाश्च ऋषयः पप्रछुः केनैतं मन्त्रपूतं वारि पीतम् ॥ 4.2.54॥
अत्र हि राज्ञो युवनास्वस्य पत्नी महाबलपराक्रमं पुत्रं जनयिष्यति ।
इत्याकर्ण्य स राजा अजानता मया पीतमित्याह ॥ 4.2.55॥
गर्भश्च युवनाश्वस्योदरे अभवत्क्रमेण च ववृधे ॥ 4.2.56॥
प्राप्तसमयश्च दक्षिणाङ्गुष्ठेन कुक्षिमवनिपतेर्निर्भिद्य निश्चक्राम ॥ 4.2.57॥
स चासौ राजा ममार ॥ 4.2.58 ॥
जातो नामैष कं धास्यतीति ते मुनयः प्रोचुः ॥ 4.2.59॥
अथागत्य देवराजोब्रजीत्मामयं धास्यतीति ॥ 4.2.60 ॥
ततो माधातृनामा सोभवत् ।
वक्रे चास्य प्रदेशिनी न्यस्ता देवेन्द्रेण न्यस्तातां पपौ ॥ 4.2.61 ॥
तां चामृतस्त्राविणीमास्वाद्याह्नैव स व्यवर्धत ॥ 4.2.62 ॥
ततस्तु मान्धाता चक्रवर्ती सप्तद्वीपां महीं वुभुजे ॥ 4.2.63 ॥
तत्रायं श्वोकः ॥ 4.2.64॥
यावत्सूर्य उदेत्यस्तं यावच्च प्रतितिष्ठति ।
सर्वं तद्यौवनाश्वस्य मान्धातुपः क्षेत्रमुच्यते ॥ 4.2.65॥
मान्धाता शतबिन्दोर्दुहितरं बुन्दुमतीमुपयेम् ॥ 4.2.66॥
पुरुकुत्समंबरीषं मुचुकुन्दं च तस्यां पुत्रत्रयमुत्पादयामास ॥ 4.2.67॥
पञ्चाशद्दुहितरस्तस्यामेव तस्य नृपतेर्बभूवुः ॥ 4.2.68 ॥
एकस्मिन्नन्तरे बहूवृचश्चज सौभरिर्नाम महर्षिरन्तर्जले द्वादशाब्दं कालमुवास ॥ 4.2.69॥तत्र चान्तर्जले संमदो नामातिबबहु प्रजोतिमात्रप्रमाणो मीनाधिपतिरासीत् ॥ 70 ॥
तस्य च पुत्रपौत्रदौहित्राः पृष्ठतोऽग्रतः पार्श्वयोः पक्षपुच्छशिरसां चोपरि भ्रमन्तस्तेनैव सदाहर्निशमतिनिर्वृत्ता रेमिरे ॥ 4.2.71 ॥
स चापत्यस्पर्शोपचीयमानप्रहर्षप्रकर्षो बहुप्रकारं तस्य ऋषेः पश्यतस्तैरात्मजपुत्रपौत्रदौहित्रादिभिः सहानुदिनं सुरां रेमे ॥ 4.2.72 ॥
अथान्तर्जलावस्थितःसौभरिरेकाग्रतःसमाधिमपहायानुदिनं तस्य सत्स्यस्यात्मजपुत्रपौत्रदौहित्रा दिभिः सहातिरमणीयतामवेक्ष्याचिन्तयत् ॥ 4.2.73 ॥
अहो धन्योयमीदृशमनभिमतं योन्यन्तरमवाप्यैभिरात्मजपुत्रपौत्रदौहित्रादिभिः सह रममाणोदीवास्माकं स्पृहामुत्पादयति ॥ 4.2.74॥
वयमप्येवं पुत्रादिभिः सह ललितं रमिष्याम इत्येवमभिकाङ्क्षन् स तस्मादन्तर्जलान्निष्क्रम्य संतानाय निवेष्टुकामः कन्यार्थं मान्धातारं राजानमगच्छत् ॥ 4.2.75॥
आगमनश्रवणसमनन्तरं चोत्थाय तेन राज्ञा सम्यगर्घ्यादिना संपूजितः कृतासनपरिग्रहः सौभरिरुवाच राजानम् ॥ 4.2.76॥
अन्येपि संत्येव नृपाः पृथिव्यां मान्धातरेषां प्रयच्छ मे मा प्रणयं विभाङ्क्षिः ।
न ह्यर्थिनः कार्यवशादुपेताः ककुत्स्थवंशे विमुखाः प्रयान्ति ॥ 4.2.77॥
अन्येपि संत्येव नृपाः पृतिव्यां मान्धातरेषां तनयाः प्रसूताः ।
किं त्वर्थिनामर्थितदानदीक्षाकृतव्रतश्लाघ्यमिदं कुलं ते ॥ 4.2.78 ॥
शतार्धसंख्या स्तव संति कन्यास्तासां ममैकां नृपते प्रयच्छ ।
यत्प्रार्थनाभङ्गभयाद्बिभेमि तस्मादहं राजवरादिदुःखात् ॥ 4.2.79॥
श्रीपराशर उवाच [Sage Parasara said]
इति ऋषिवचनमाकर्ण्य स राजा जरार्जरितदेहमृषिमालोक्य प्रत्याख्यानकातरस्तस्माच्चच शापभीतो बिभ्यत्किञ्चिदधोमुखश्चिरं दध्यौ च ॥ 4.2.80 ॥
सौभरिरुवाच
नरेद्रकस्मात्सुमुपैषि चीन्तामह्यमुक्तं न मयात्र किञ्चित् ।
यावश्यदेया तनया तयैव कृतार्थता नो यदि किं न लब्धा ॥ 4.2.81 ॥
श्रीपराशर उवाच [Sage Parasara said]
अथ तस्य भगवतः शापभीतःसप्रश्रयस्तमुवाचासौ राजा ॥ 4.2.82 ॥
राजोवाच
भगवनस्मत्कुलस्थितिरियं य एव कन्याभिरुचितोऽभिजवान्वरस्तस्मै कन्या प्रदीयते भगवद्याच्ञा चास्मन्मनोरथानामप्यतिगोचजरवर्तिनी कथमप्येषा संजाता तदेवमुपस्थिते न विद्मः किं कुर्म इत्येतन्मयाचिन्त्यत इत्यभिहिते च तेन भूभुजा मुनिरचिन्तयत् ॥ 4.2.83 ॥
अयमन्योऽस्मत्प्रत्याख्यानोपायो वृद्धोयमनभिमतः स्त्रीणां किमत कन्याकानामित्यमुना संचिन्त्यैतदभिहितमेवमस्तु तथा करिष्यामीति संचिन्त्य मान्धातारमुवाच ॥ 4.2.84॥
यद्येवं तदादिश्यतामस्माकं प्रवेशाय ।
कंन्यान्तःपुरं वर्षवरो यदि कन्यैव काचिन्मामभिलषति तदाहं दारसंग्रहं करिष्यामि अन्यथा चेत्तदलमस्माकमेतेनातीतकालारंभणेनेत्युक्त्वा विरराम ॥ 4.2.85॥
ततश्च मान्धात्रा मुनिशापशं कितेन कन्यान्तःपुरवर्षधरःसमाज्ञप्तः ॥ 4.2.86॥
तेन सह कन्यान्तःपुरं प्रविशान्नेव भगवानखिलसिद्धगन्धर्वेभ्योतिशयेन कमनीयं रूपमकरोत् ॥ 4.2.87॥
प्रवेश्य च तमृषिमन्तःपुरे वर्षधरस्ताः कन्याः प्राह ॥ 4.2.88 ॥
भवतीनां जनयिता महाराजःसमाज्ञापयति ॥ 4.2.89॥
अयमस्मान् ब्रह्मर्षिः कन्यार्थं समभ्यागतः ॥ 4.2.90 ॥
मया चास्य प्रतिज्ञातं यद्यस्मत्कन्या या काचिद्भगवन्तं वरयति तत्कन्याच्छन्दे नाहं परिपंषथानं करिष्यामीत्याकर्म्य सर्वा एव ताः कन्याः सानुरागाः सप्रमदाः केणव इव मृगयूथपतिं तमृषिमहमहमिकया वरयांबभूवुरूचुश्च ॥ 4.2.91 ॥
अलं भगिन्योहमिमं वृणोमि वृणोम्यहं नैष तवानुरूपः ।
ममैष भर्ता विधिनैव सृष्टःसृष्टाहमस्योपशमं प्रयाहि ॥ 4.2.92 ॥
वृतो मयायं प्रथमं मयायं गृहं विशन्नेव विहन्यसे किम् ।
मया मयोतिक्षितिपात्मजानां तदर्थमत्यर्थकलिर्बभूव ॥ 4.2.93 ॥
यदा मुनिस्ताभिरतीवहार्दाद्धृतःस कन्याभिरनिन्द्यकीर्तिः ।
तदा स कन्याधिकृतो नृपाय यथावजाचष्ट विनम्रमूर्तिः ॥ 4.2.94॥
श्रीपराशर उवाच [Sage Parasara said]
तदवगमात्किङ्किभेतत्कथधमेतत्किं किं करोमि किं मयाभिहितमित्याकुलमतिरनिच्छन्नपि कथमपि राजानुमेने ॥ 4.2.95॥
कृतानुरूपविवाहश्च महर्षिःसकला एव ताः कन्याःस्वमाश्रममनयत् ॥ 4.2.96॥
तत्र चासेषशिल्पकल्पप्रणेतारं धातारमिवान्यं विश्वकर्माणमाहूय सकलकन्यानामेकैकस्याः प्रोत्फुल्लपङ्कजाः कूजत्कलहंसकारण्डवादिविहङ्गमाभिरामजलाशयाःसोपधानाः ।
सावकासाःसाधुशय्यापरिच्छदाः प्रासादाः क्रियन्तामित्यादिदेश ॥ 4.2.97॥
तच्च तथैवानुष्ठितमशेषशिल्पविसेषाचार्यस्त्वष्टा दर्शितवान् ॥ 4.2.98 ॥
ततः परमर्षिणा सौभरिणाज्ञप्तस्तेषु गृहेष्वनिवार्यानन्दकुन्दमहानिधिरासांचक्रे ॥ 4.2.99॥
ततोऽनवलतेन भक्ष्यभोज्यलेह्याद्युपभोगौरागतानुगतभृत्यादीनहर्निशमशेषगृहेषु ताः क्षितिशदुहिरतो भोजयामामुः ॥ 4.2.100 ॥
एकदातु दुहितृस्नेहाकृष्टहृदयःस महीपतिरतिदुःखितास्ता उत सुखिता वा इति विचिन्त्य तस्य महर्षेराश्रमसमीपमुपेत्य स्फुरदंशुमालाललामां स्फटिकमयप्रासादमालामतिरम्योपवनजलाशयां ददर्श ॥ 4.2.101 ॥
प्रविश्य चैकं प्रासादमात्मजां परिष्वज्य कृतासनपरिग्रहः प्रवृद्धस्नेहनयनांबुगर्भनयनोब्रवीत् ॥ 4.2.102 ॥
अप्यत्र वत्से भवत्याःसुखमुन किञ्चिदमुखमपि ते महर्षिःस्नेहवानुत न स्मर्यतेस्मद्गुहवास इत्युक्ता तं तनया पितरमाह ॥ 4.2.103 ॥
तातातिरमणीयः प्रासादोत्रातिमनोज्ञमुपवनमेते कलवाक्यविहङ्गमाभिरुताः प्रोत्फुल्लपद्माकरजलाशयाः मनोनुरूलभक्ष्यभोज्यानुलेपनवस्त्रभूषणादिभोगो मृदूनि शयनासनानि सर्वसंपत्समेतं मे गार्हस्थ्यम् ॥ 4.2.104॥
तथापि केन वा जन्मभूमिर्न स्मर्यते ॥ 4.2.105॥
त्वत्प्रसादादिदमशेषमतिशोभनम् ॥ 4.2.106॥
किं त्वेकं ममैतद्दुःखकारणं यदस्मद्गृहान्महर्षिरयंमद्भर्ता न विष्क्रामति ममैव केवलमतिप्रीत्या समीपपरिवर्तिनीनामन्यासामस्मद्भगिनीनाम् ॥ 4.2.107॥
एवं च मम सोदर्योतिदुःखिता इत्येवमतिदुःखकारणमित्युक्तस्तया द्वितीयं प्रासादमुपेत्य स्वतनयां परिष्वज्योपिष्टस्तथैव वृष्टवान् ॥ 4.2.108 ॥
तयापि च सर्वमेतत्तत्प्रासादाद्युपभोगसुखं भृशमाख्यातं ममैव केवलमतिप्रीत्या पार्श्वपरिवर्तिनीनामन्यासामस्मद्भगिनीनामित्येवमादिश्रुत्वा समस्तप्रासादेषु राजा प्रविवेश तनयां तनयां तथैवावृच्छत् ॥ 4.2.109॥
सर्वाभिश्च ताभिस्तथैवाभिहितः परितोषविस्मयनिर्भवविवशहृदयो भगवन्तं सौभरिकेकान्तावस्थितमुपेत्य कृतपृजोब्रवीत् ॥ 4.2.110 ॥
दृष्टस्ते भगवन् सुमहानेष सिद्धिप्रभावो नैवंविधमन्यस्य कस्यचिदस्माभिर्विभूतिभिर्विलासितमुपलक्षितं यदेतद्भगवतस्तपसः फलमित्यभिपूज्य तमृषिं तत्रैव तेन ऋषिवर्येण चसह किञ्चित्कालमभिमतोपभोगान् बुभुजे स्वपुरं च जगाम् ॥ 4.2.111 ॥
कालेन गच्छता तस्य तासु राजतनयासु पुत्रशतं सार्धमभवत् ॥ 4.2.112 ॥
अनुदिनानुरूढस्नेहप्रसाश्च स तत्रातीवममताकृष्टहृदयोऽभवत् ॥ 4.2.113 ॥
अप्येतेऽस्मत्पुत्राः कलभाषिणः पभ्द्यां गच्छेयुः अप्येते यौवनिनो भवेयुः अपि कृतदारानेतान् पश्येयमप्येषां पुत्रा भवेयुः अप्येतत्पुत्रान्पुत्रसमन्वितान्पस्यामीत्यादिमनोरथाननुदिनं कालसंपत्तिप्रवृद्धानुपेक्ष्यैतच्चिन्तयामास ॥ 4.2.114॥
अहो मे मोहस्यातिविस्तारः ॥ 4.2.115॥
मनोरथानां न समाप्तिरस्ति वर्षायुतेनाप्यथ वापि लक्षैः ।
पूर्णेषुपूर्णेषु मनोरथानामुत्पत्तयःसंति पुनर्नवानाम् ॥ 4.2.116॥
पद्भ्यां गता यौवनिनश्च जाता दारैश्च संयोगमिताः प्रसूताः ।
दृष्टाः सुतास्तत्तनयप्रसूतिन्द्रष्टुं पुनर्वाञ्च्छति मेंऽतरात्मा ॥ 4.2.117॥
द्रक्ष्यामि तेषामिति चेत्प्रसूतिं मनोरथो मे भविता ततोन्यः ।
पुर्णोपि तत्राप्यपरस्य जन्म निवर्यते केन मनोरथस्य ॥ 4.2.118 ॥
आमृत्युतो नैव मनोरथानामन्तोस्ति विज्ञातमिदं मयाद्य ।
मनोर्थासक्तिपरस्य चित्तं न जायते वै परमार्थसंगि ॥ 4.2.119॥
स मे समाधिर्जलवासमित्रमत्स्यस्य संगात्स हसैव नष्टः ।
परिग्रहःसंगकृतो मयायं परिग्रहोत्था च ममातिलिप्सा ॥ 4.2.120 ॥
दुःखं यदैवैकशरीरजन्म शतार्धसंख्याकमिदं प्रसूतम् ।
परिग्रहेण क्षितिपात्मजानां सुतैरनेकैर्बहुलीकृतं तत ॥ 4.2.121 ॥
मुतात्मजैस्तत्तनयैश्च भूयो भूयश्च तेषां परिग्रहेण ।
विस्तारमेष्यत्यदिदुःखहेतुः परिग्रहो वै ममताभिधानः ॥ 4.2.122 ॥
चीर्णं तपो यत्तु जलाश्रयेण तस्यार्धिरेषा तपसोंतरायः ।
मत्स्यस्य संगादभवच्च यो मे सुतादिरागो मुषितोस्मि नेन ॥ 4.2.123 ॥
निःसंगता मुक्तिपदं यतीनां संगादशेषाः प्रभवन्ति दोषाः ।
आरूढयोगो विनिपात्यतेधःसंगेन योगी किमुताल्पबुद्धिः ॥ 4.2.124॥
अहं चरिष्यामि तदात्मनोर्थे परिप्रहग्राहगृहीतबुद्धिः ।
यदा हि भूयः परिहिनदोषो जनस्य दुःखैर्भविता न दुःखी ॥ 4.2.125॥
सर्वस्य धातारम चिन्त्यरूपमणोरणीयांसमतिप्रमाणम् ।
सितासितं चेश्वरमीश्वराणामाराधयिष्ये तपसैव विष्णुम् ॥ 4.2.126॥
तस्मिन्नशेषौजसि सर्वरूपण्यव्यक्तविस्पष्टतनावनन्ते ।
ममाचलं चित्तमपेतदोषं सदास्तु विष्णावमवाय भूयः ॥ 4.2.127॥
समस्तभूतादमलादनन्तात्सर्वेश्वरादन्यदनादिमध्यात् ।
यस्मान्न किञ्चित्तमहं गुरूणां परं गुरुं संश्रयमेमि विष्णुमा ॥ 4.2.128 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्यात्मानिमात्मनैवाबिदायासौ सौभरिरपहाय पुत्रगृहासनपरिग्रहादिकमशेषमर्थजातं सकलभार्यासमन्वितों वनं प्रविवेश ॥ 4.2.129॥
तत्राप्यनुदिनं वैखानसनिष्पाद्यमशेषक्रियाकलापं निष्पाद्य क्षपितसकलपापः परिपक्वमनोवृत्तिरात्मन्यग्नीन्समारोप्य भिक्षुरभवत् ॥ 4.2.103 ॥
भगवत्यासज्याखिलं कर्मकलापं हित्वानं तमजमनादिनिधनमविकारमरणादिधर्ममवाप परमनन्तं परवतत्मच्युतं पदम् ॥ 4.2.131 ॥
इत्येतन्मान्धातृदुहितृसंबन्धादाख्यातम् ॥ 4.2.132 ॥
यश्चैतत्सौभरिचरितमनुस्मरति पठति पाठयति शृणोति श्रावयति धरत्यवधारयति लिखति लेखयति शिक्षयत्यध्यापयत्युपदिशति वा तस्य षट्जन्मानि दुःसंततिरसद्धर्मो वाड्मनसोरसन्मार्गाचरणसशेषहेतुषु वा ममत्वं न भवति ॥ 4.2.133 ॥
इति श्रिविष्णुमहापुराणे चतुर्थाशे द्वितीयोऽध्यायः (2)
अतश्च माधातुः पुत्रसंततिरभिधीयते ॥ 4.3.1 ॥
अंबरीषस्य मान्धातृतनयस्य युवनाश्वः पुत्रोऽभूत् ॥ 4.3.2॥
तस्माद्धारीतः यतोङ्गिरसो हारीता ॥ 4.3.3 ॥
रसातले मौनेया नाम गन्धर्वा बभूवुःषट्कोटिसंख्यातास्तैरशेषाणि नागकुलान्यपहृतप्रधानरत्नाधिपत्यान्यक्रियन्त ॥ 4.3.4 ॥
तैश्च गन्धर्ववीर्यावबूतैरुरगेश्वरैः स्तूयमानो भगवानशेषदेवेश आस्ते तच्छ्रवणोन्मीलिलोन्निद्रपुण्डरीकनयनो जलशयनो निद्रावसानप्रवृद्धः प्रणिपत्याभिहितः । भगवन्नस्माकमेतेभ्यो गन्धर्वेभ्यो भयमुत्पन्नं कथमुपशममेष्यतीति ॥ 4.3.5॥
आह च भगवाननादिनिधनपुरुषोत्तमो योसौ यौवनाश्वस्य मान्धातुः पुरुकुत्सनामा पुत्रस्तमहामनुप्रविश्य तानशेषान् दुष्टगन्धर्वानुपशमं नयिष्यामीति ॥ 4.3.6॥
तदाकर्ण्य भगवते जलशायिने कृतप्रणामाः पुनर्नागलोकमागताः पन्नगाधिपतयो नर्मदाञ्च पुरुकुत्सानयनाय चोदयामासुः ॥ 4.3.7॥
सा चैनं रसातलं नीतवती ॥ 4.3.8॥
रसातलगतश्चासौ यभगवत्तेजसाप्यायितात्मवीर्यःसकलगन्धर्वान्निजघान ॥ 4.3.8 ॥
पुनश्च स्वपुरमाजगाम ॥ 4.3.10 ॥
सकलपन्नगाधिपतयश्च नर्मदायै वरं ददुः ।
यत्तेनुस्मरणसमवेतं नामग्रहणं करिष्यति न तस्य सर्पविषभयं भविष्यतीति ॥ 4.3.11 ॥
अत्र च श्लोकः ॥ 4.3.12 ॥
नर्मदायै नमः प्रातर्नर्मदायै नमो निशि ।
नमोस्तु नर्मदे तुभ्यं त्राहि मां विषसर्पतः ॥ 4.3.13 ॥
इत्युच्चार्याहर्निशमन्धकारप्रवेशे वा सर्पैर्न दश्यते न चापि कृतानुस्मरणभुजो विषमपि भुक्तमुपघाताय भवति ॥ 4.3.14॥
पुरुकुत्साय संततिविच्छेदो न भविष्यतीत्युरगपतयो परं ददुः ॥ 4.3.15॥
पुरुकुत्सो नर्मदायां त्रसद्दस्युमजीजनत् ॥ 4.3.16॥
त्रसद्दस्युतःसंभूतोऽनरण्यः यं रावणोदिग्विजये जघान् ॥ 4.3.17॥
अनरण्यस्य पृषटश्वः पृषदश्वस्य हर्यश्वः पुत्रोऽभवत् ॥ 4.3.18 ॥
तस्य च हस्तः पुत्रोऽभवत् ॥ 4.3.19॥
ततश्च सुमनास्तस्यापि त्रिधन्वा त्रिधन्वनस्त्रय्यारुणिः ॥ 4.3.20 ॥
त्रय्यारुणेःसत्यव्रतः योऽसौ त्रिशङ्कुसंज्ञामवाप ॥ 4.3.21 ॥
स चण्डालतामुपगतश्च ॥ 4.3.22 ॥
द्वादशवर्षिक्यामनावृष्ट्यां विश्वामित्रकलत्रापत्यपोषणार्थं चण्डालप्रतिग्रहरणाय च जाह्नवीतीरन्यग्रोधे मृगमांसमनुदिनं बबन्ध ॥ 4.3.23 ॥
स तु परितुष्टेन विश्वामित्रेण सशरीरःस्वर्गमारोपितः ॥ 4.3.24॥
त्रिशङ्कोर्हरिश्चन्द्रस्तस्माच्च रोहिताश्वस्ततश्च हरितो हरितस्य चञ्चुश्चञ्चोर्विजयवसुदेवौ रुरुको विजयाद्रुकस्य वृकः ॥ 4.3.25॥
ततो वृकस्य बाहुः योऽसौ हैहयतालजङ्घादिभिः पराजितोन्तर्वत्न्या महिष्या सह वनं प्रविवेश ॥ 4.3.26॥
तस्याश्चा सपत्न्या गर्भस्तंभनाय गरो दत्तः ॥ 4.3.27॥
तेनास्य गर्भःसप्तवर्षाणि जठर एव तस्थौ ॥ 4.3.28 ॥
स च बाहुर्वृद्धभावादौर्वाश्रमममीपे ममार ॥ 4.3.29॥
सा तस्य भार्या चितां कृत्वा तमारोप्यानुपरणकृतनिश्चयाभूत् ॥ 4.3.30 ॥
अथैतामतीतानागतवर्तमानकालत्रयवेदी भगवानौर्वचःस्वाश्रमान्निर्गत्याब्रवीत् ॥ 4.3.31 ॥
अलमलमनेनासद्ग्राहेणाखिलभूमं डलपतिरतिवीर्यपराक्रमो नैकयज्ञकृदरातिपक्षक्षयकर्ता तवोदरे चक्रवर्ती तिष्ठति ॥ 4.3.32 ॥
नैवमतिसाहसाध्यवसायिनी भवती तेन त्युक्ता सा तस्मादनुमरणनिर्बन्धाद्विरराम ॥ 4.3.33 ॥
तेनैव च भगवता स्वाश्रममानीता ॥ 4.3.34॥
तत्र कतिवयदिनाभ्यन्तरे च सहैव तेन गरेणातितेजस्वी बालको जज्ञे ॥ 4.3.35॥
तस्यौर्वो जातकर्मादिक्रिया निष्पाद्य सगर इति नाम चकार ॥ 4.3.36॥
कृतोपनयनं चैनमौर्वो वेदशास्त्राण्यस्त्रं चाग्नेयं भार्गवाख्यमध्यापयामास ॥ 4.3.37॥ुत्पन्नबुद्धिश्च मातरमब्रवीत् ॥ 38 ॥
अंब कथयात्र वयं क्व तातोस्माकमित्ये वमादिपृच्छन्तं माता सर्वमेवावोचत् ॥ 4.3.39॥
ततश्च पितृराज्यपहरणादमर्षितो हैहयतालजङ्घादिवधाय प्रतिज्ञामकरोत् ॥ 4.3.40 ॥
प्रायशश्च हैहयतालजङ्घाञ्जघान ॥ 4.3.41 ॥
शकयवनकांभो0 अपारदपप्लवाः हन्यमानास्तत्कुलगुरुं वसिष्ठं शरणं जग्मुः ॥ 4.3.42 ॥
अथैनान्वसिष्ठो जीवनमृतकान् कृत्वा सगरमाह ॥ 4.3.43 ॥
वत्सालमेभिर्जीवन्मृतकैरनुमृतैः ॥ 4.3.44॥
एते च मयैव त्वत्प्रतिज्ञापारिपालनाय निजधर्मद्विजसंगपरित्यागं कारिताः ॥ 4.3.45॥
तथेति तद्गुरुवचनभिनन्द्य तेषां वेषान्यत्वमकारयत् ॥ 4.3.46॥
यवनान्मुण्डितशिरसोर्धमुण्डिताञ्च्छकान् प्रलंबकेशान् पारदान् पप्लवाञ्श्मश्रुधरान्निःस्वाध्यायवषट्कारानेतानन्यांश्च क्षत्रियांश्चकार ॥ 4.3.47॥
एते चात्मधर्मपरित्यागाद्बाह्यणैः परित्यक्ता म्लेच्छतां ययुः ॥ 4.3.48 ॥
सगरोपि स्मधिष्ठानमागम्य अस्खलितचक्रःसप्तद्वीपवतीमिमामुर्वीं प्रशशास ॥ 4.3.49॥
इति श्रीविष्णुमहापुराणेचतुर्थांशे तृतीयोऽध्यायः (3)
श्रीपराशर उवाच [Sage Parasara said]
काश्यपदुहिता मुमतिर्विदर्भराजतनया केशिनी च द्वे भार्ये सगरस्यास्ताम् ॥ 4.4.1 ॥
ताभ्यां चापत्यार्थमौर्वः परमेण समाधिनाराधितो वरमदात् ॥ 4.4.2॥
एका वंशकरमेकं पुत्रमपरा षष्टिं पुत्रसहस्राणां जनयिष्यतीति यस्या यदभिमतं तदिच्छया गृह्यतामित्युक्ते केशिन्येकं वरयामास ॥ 4.4.3 ॥
सुमतिः पुत्रसहस्राणि षष्टिं वव्रे ॥ 4.4.4 ॥
तथेत्युक्ते अल्पैरहोभिः केशिनी पुत्रमेकमसमञ्जसनामानं वंशकरमसूत ॥ 4.4.5॥
काश्यपतनयायास्तु सुमत्याः षष्टिं पुत्रसहस्राण्यभवन् ॥ 4.4.6॥
तस्मादसमञ्जसादंशुमान्नाम कुमारो जज्ञे ॥ 4.4.7॥
स त्वससंजसो बालो बाल्यादेवासद्वृत्तोभूत् ॥ 4.4.8॥
पिता चास्याचिन्तयदयमतीतबाल्यः सुबुद्धिमान् भविष्यतीति ॥ 4.4.8 ॥
अथ तत्रापि च वयस्यतीते असच्चारीतमेनं पिता तत्याज ॥ 4.4.10 ॥
तान्यपि षष्टिः पुत्रसहस्राण्यसमञ्जसचारितमेवानुचक्रुः ॥ 4.4.11 ॥
ततश्चाससमजसचरितानुकारिभिः सागरैरपध्वस्तयज्ञैः सन्मार्गे जगति देवाःसकलविद्यामयमसंस्पृष्टमशेषदोषैर्भगवतः पुरुषोत्तमस्यांशभूत कपिलं प्रणम्य तदर्थमूचुः ॥ 4.4.12 ॥
भगवन्नेभिः सगरतनयैरसमञ्जसचरितमनुगम्यते ॥ 4.4.13 ॥
कथमेभिर् असद्वृत्तमनुसरद्भिर्जगद्भविष्यतीति ॥ 4.4.14॥
अत्यार्त जगत्परित्राणाय च भगवतोत्र शरीरग्रहणमित्याकर्ण्य भगवानाहाल्पैरेव दिनैर्विनङ्क्ष्यन्तीति ॥ 4.4.15॥
अत्रान्तरे च सगरो हयमेधमारभत ॥ 4.4.16॥
तस्य च पुत्रैरधिष्ठितमस्याश्वं कोप्यपहृत्य भुवो बिलं प्रविवेश ॥ 4.4.17॥
ततस्तत्तनयाश्चाश्वखुरगतिनिर्वन्धेनावनीमेकैको योजनं चख्नुः ॥ 4.4.18 ॥
पाताले चाश्वं परिभ्रमन्तं तमवनीपतितनयास्ते ददृशुः ॥ 4.4.19॥
नातिदूरेऽवस्थितं च भगवन्तमपघने शरत्कालेर्कमिव तेजोभिरवनतमूर्धमधश्चाशेषदिशश्चोद्भासयमानं हयहर्तारं कपिलर्षिमपश्यन् ॥ 4.4.20 ॥
ततश्चोद्यतायुधा दुरात्मानोऽयमस्मदपकारी यज्ञविध्नकारी हन्यतां हयहर्ता हन्यतामीत्यवोच्न्नभ्यधावंश्च ॥ 4.4.21 ॥
ततस्तेनापि भगवता किञ्चिदीषत्परिवर्तितलोचनेनावलोकिताःस्वशरीरसमुत्थेनाग्निनादह्यमाना विनेशुः ॥ 4.4.22 ॥
सगरोप्यवगम्याश्वानुसारि तत्पुत्रबलमशेषं परमर्षिणा कपिलेन तेजसा दग्धं ततोंशुमन्तमसमञ्जसपुत्रमश्वानयनाययुयोज ॥ 4.4.23 ॥
स तु सगरकतयखातमार्गेण कपिलमुपगम्य भक्तिनम्रस्तदा तृष्टाव ॥ 4.4.24॥
अथैनं भगवानाह ॥ 4.4.25॥
गच्छैनं पितामहायाश्वं प्रापय वरं वृणीष्व च पुत्रक पौत्राश्च चते स्वर्गाद्गङ्गां भुवमानेष्यन्त इति ॥ 4.4.26॥
अथांशुमानपि स्वर्यातानां ब्रह्मदण्डहतानामस्मत्पितॄणामस्वर्गयोग्यानां स्वर्गप्राप्तिकरं वरमस्माकं प्रयच्छेति प्रत्याह ॥ 4.4.27॥
तदाकर्ण्य तं च भगवानाह उक्तमेवैतन्मयाद्य पौत्रस्ते त्रिदिवाद्गङ्गांभुवमानयिष्यतीति ॥ 4.4.28 ॥
तदंभसा च संस्पृष्टेष्वस्थिभस्मासु एते च स्वर्गमारोक्ष्यन्ति ॥ 4.4.29॥
भगवद्विष्णुपादाङ्गुष्ठनिर्गतस्य हि जलस्यैतन्माहात्म्यम् ॥ 4.4.30 ॥
यन्न केवलमभिसंधिपूर्वकं स्नानाद्युपभोगेषूपकारकमनभिसांधितमप्यस्यां प्रेतप्राणस्यास्थिचर्मस्नायुकेशाद्युपस्पृष्टं शरीरजमपि पतितं सद्यः शरीरिणं स्वर्गं नयतीत्युक्तः प्रणम्य भवगतेऽश्वमादाय पितामहायज्ञमाजगाम् ॥ 4.4.31 ॥
सगरोप्यश्वमासाद्य तं यज्ञं समापयामास ॥ 4.4.32 ॥
सागरं चात्मजप्रीत्या पुत्रत्वे कल्पितवान् ॥ 4.4.33 ॥
तस्यांशुमतो दिलीपः पुत्रोभवत् ॥ 4.4.34॥
दिलीपस्य भगीरथः योऽसौ गङ्गां स्वर्गादिहानीय भगीरथीसंज्ञां चकार ॥ 4.4.35॥
भगीरथात्सुहोत्रःसुहोत्राच्छुतः तस्यापि नाभागः ततोंबरीषः तत्पुत्रःसिंधुद्वीपः सिंधुद्वीपादयुतायुः ॥ 4.4.36॥
तत्पुत्रश्च ऋतुपर्णः योऽसौ नलसहायोक्षहृदयज्ञोभूत् ॥ 4.4.37॥
ऋतुपर्णपुत्रःसर्वकामः ॥ 4.4.38 ॥
तत्तनयःसुदासः ॥ 4.4.39॥
सुदासात्सौदासो मित्र सहनामा ॥ 4.4.40 ॥
स चाटव्यां मृगयार्थो पर्यटन् व्याग्रद्वयमपश्यत् ॥ 4.4.41 ॥
ताभ्यां तद्वनमपमृगं कृतं मत्वैकं तयोर्बाणेन जघान ॥ 4.4.42 ॥
म्रियमाणश्चासावतिभीषणाकृतिरतिकरालवदनो राक्षसोऽभूत् ॥ 4.4.43 ॥
द्वितीयोपि प्रतिक्रियां ते करिष्यामीत्युक्त्वान्तर्धानं जगाम ॥ 4.4.44॥
कालेन गच्छता सौदासो यज्ञमयजत् ॥ 4.4.45॥
परिनिष्ठितयज्ञे आचार्ये वसिष्ठे निष्क्रान्ते तद्रक्षो वसिष्ठरूपमास्थाय यज्ञावसाने मम नरमांसभोजनं देयमिति तत्संस्क्रियतां क्षणादागमिष्यामीत्युक्त्वा निष्क्रान्तः ॥ 4.4.46॥
भूयश्च सूदवेषं कृत्वा राजाज्ञया मानुषं मांसं संस्कृत्य राज्ञे न्यवेदयत् ॥ 4.4.47॥सावपि हिरण्यपात्रे मांसमादाय वसिष्ठागमनप्रतीक्षकोऽभवत् ॥ 48 ॥
आगताय वसिष्ठाय निवेदितवान् ॥ 4.4.49॥
स चाप्यचिन्तयदहोस्य राज्ञो दौःशील्यं येनैतन्मांसमस्माकं प्रयच्छति किमेतद्द्रव्यजातमिति ध्यानपरोभवत् ॥ 4.4.50 ॥
अपश्यच्च तन्मांसंमानुषम् ॥ 4.4.51 ॥
अतः क्रोधकलुषीकृतचेता राजनि सापमुत्ससर्ज ॥ 4.4.52 ॥
यस्मादभोज्यमेतदस्मद्विधानां तपस्विनामवगच्छन्नपि वान्मह्यं ददाति तस्मात्तवैवात्र लोलुपता भविष्यतीति ॥ 4.4.53 ॥
अनन्तरं च तेनापि भगवतैवाभिहितोस्मीत्युक्ते किं मयाभहितमिति मुनिः पुनरपि समाधौ तस्थौ ॥ 4.4.54॥
समाधिविज्ञानविगतार्थश्चानुग्रहं तस्मै चकार नात्यन्तिकमेतद्द्वादशाब्दं तव भोजनं भविष्यतीति ॥ 4.4.55॥
असावपि प्रतिगृह्योदकाञ्जलिं मुनिशापप्रदानायोद्यतो भगवन्नयमस्मद्गुरुर्नार्हस्येनं कुलदेवताभूतमाचार्यं शप्तुमिति मदयन्त्या स्वपत्न्या प्रसादितःसस्यांबुदरक्षणार्थं तच्छापांवु नोर्व्यां न चाकासे चिक्षेप किं तु तेनैव स्वपदौ सिषेच ॥ 4.4.56॥
तेन च क्वोधाश्रितेनां चबुना दग्धच्छायौ तत्पादौ कल्माषतामुपगतौ ततःस कल्माषपादसंज्ञामवाप ॥ 4.4.57॥
वसिष्ठशापाच्च षष्ठेषष्ठे काले राक्षसस्वभावमेत्या टव्यां पर्यटन्ननेकशो मानुषानभक्षयत् ॥ 4.4.58 ॥
एकदा तु कञ्चिन्मुनिमृतुकाले भार्यासंगतं ददर्श ॥ 4.4.59॥
तयोश्च तमतिभीषणं राक्षसस्वरूपमवलोक्य त्रासाद्दंपत्योः प्रधावितयोर्ब्रह्मणं जग्रह ॥ 4.4.60 ॥
ततःसा ब्रह्मणी बहुशस्तमभियाचितवती ॥ 4.4.61 ॥
प्रसीदेक्ष्वाकुकुलतिलकभूतस्त्वं महाराजो मियत्रसहो न राक्षसः ॥ 4.4.62 ॥
नार्हसि स्त्रीधर्मसुखाभिज्ञो मय्यकृतार्थायामस्मद्भर्तारं हन्तुमित्येवं बहुप्रकारं विलपन्त्यां व्याघ्रः पशुमिवारण्येऽभिमतं तं ब्राह्मणमभक्षयत् ॥ 4.4.63 ॥
ततश्चातिकोपसमन्विता ब्राह्मणी तं राजानं शशाप ॥ 4.4.64॥
यस्मादेवं मय्यतृषप्तायां त्वयायं मत्पतिर्भक्षितः तस्मात्त्वमपि कामोपभोगप्रवृत्तोन्तं प्राप्स्यसीति ॥ 4.4.65॥
शप्त्वा चैव साग्निं प्रविवेश ॥ 4.4.66॥
ततस्तस्य द्वादशाब्दपर्यये विमुक्तशापस्य स्त्रीविषयाभिलाषिणो मदयन्ती तं स्मारयामास ॥ 4.4.67॥
ततः परमसौ स्त्रीभोगं तत्याज ॥ 4.4.68 ॥
वसिष्ठश्चापुत्रेण राज्ञा पुत्रार्थमभ्यर्थितो मदयन्त्यां गर्भाधानं चकार ॥ 4.4.69॥
यदा च सप्तवर्षाण्यसौ गर्भेण जज्ञे ततस्तं गर्भमश्मना सा देवी जघान ॥ 4.4.70 ॥
पुत्रश्चाजायत ॥ 4.4.71 ॥
तस्य चाश्मक इत्येव नामाभवत् ॥ 4.4.72 ॥
अश्मस्य मूलको नाम पुत्रोऽभवत् ॥ 4.4.73 ॥
योसौ निःक्षत्रे क्ष्मातलेस्मिन् क्रियमाणे स्त्रीभिर्विवस्त्रभिः परिवार्य रक्षितः ततस्तं नारीकवचमुदाहरन्ति ॥ 4.4.74॥
मूलकाद्दशरथस्तस्मादिलिविलस्ततश्च विश्वसहः ॥ 4.4.75॥
तस्माच्च खट्वाङ्गः योसौ देवासुरसंग्रामे देवैरभ्यर्थितोऽसुराञ्जघान ॥ 4.4.76॥
स्वर्गे च कृतप्रियैर्देवैर्वरग्रहणाय चोदितः प्राह ॥ 4.4.77॥
यद्यवश्यं वरो ग्राह्यः तन्ममायुः कथ्यतामिति ॥ 4.4.78 ॥
अनन्तरं च तैरुक्तं मुहूर्तमेकं प्रमाणं तवायुरित्युक्तोथाःस्वलितगतिना विमानेन लघिमादिगुणो मर्त्यलोकमागम्येदमाह ॥ 4.4.79॥
यथा न ब्राह्मणेभ्यः सकाशादात्मापि मे प्रियतरः न च स्व धर्मोल्लङ्घनं मया कदटचिदप्यनुष्ठितं न च सकलदेवमानुषपशुपक्षिवृक्षादिकेष्वच्युतव्यतिरेकवती दृष्टिर्ममाभूत्तथा तमेवं मुनिजनानुस्मृतं भगवन्तमस्खलितगतिः प्रापयेयमित्यशेषदेवगुरौ भगवत्यनिर्देश्यवपुषि सत्तामात्रात्मन्यात्मानं परमात्मनि वासुदेवाख्ये युयोज तत्रैव च लयमवाप ॥ 4.4.80 ॥
अत्रापि श्रूयते श्लोको गीतःसप्तर्षिभिः पुरा ।
खट्वाङ्गेन समो नान्यः कश्चिदुर्व्यां भविष्यति ॥ 4.4.81 ॥
येन स्वर्गादिहागम्य मुहूर्तं प्राप्य जीवितम् ।
त्रयोतिसंधिता लोका बुद्ध्या सत्येन चैव हि ॥ 4.4.82 ॥
खट्वाङ्गाद्दीर्घबाहुः पुत्रोऽभवत् ॥ 4.4.83 ॥
ततो रघुरभवत् ॥ 4.4.84॥
तस्मादप्यजः ॥ 4.4.85॥
अजाद्दशरथः ॥ 4.4.86॥
तस्यापि भगवानब्जनाभो जगतः स्थित्यर्थमात्मांशेन रामलक्ष्मणभरतशत्रुघ्नरूपेण चतुर्धा पुत्रत्वमायासीत् ॥ 4.4.87॥
रामोपि बाल एव विश्वमित्रयागरक्षणाय गच्छंस्ताटकां जघान ॥ 4.4.88 ॥
यज्ञे च मारीचमिषुवाताहतं समुद्रे चिक्षेप ॥ 4.4.89॥
सुबाहुप्रमुखांश्च क्षयमनयत् ॥ 4.4.90 ॥
दर्शनमात्रेणाहल्यामपापां चकार ॥ 4.4.91 ॥
जनकगृहे च माहेश्वरं चापमनायासेन बभञ्ज ॥ 4.4.92 ॥
सीतामयोनिजां जनकराजतनयां वीर्यशुल्कां लेभे ॥ 4.4.93 ॥
सकलक्षत्रियक्षयकारिणमशेषहैहयकुलधूमकेतुभूतं च परशुराममपास्तवीर्यबलावलेपं चकार ॥ 4.4.94॥
पितृवचनाच्चागणितराज्याभिलाषो भ्रातृभार्यासमेतो वनं प्रविवेश ॥ 4.4.95॥
विराधखरदूषणादीन् कबन्धवालिनौ च निजघान ॥ 4.4.96॥
बद्धा चांभोनिधिमशेषराक्षसकुलक्षयं कृत्वा दशाननापहृतां भार्यं तद्वधादपहृतकलङ्कामप्यनलप्रवेशशुद्धामशेषदेवसङ्घैः स्तूयमानशीलां जनकराजकन्यामयोध्यामानिन्ये ॥ 4.4.97॥
ततश्चाभिषेकमङ्गलं मैत्रेय वर्षशतेनापि वक्तुं न शक्यते संक्षेपेण श्रूयताम् ॥ 4.4.98 ॥
लक्ष्मणभरतशत्रुघ्नविभीषणसुग्रीवाङ्गदजाम्बवद्धनुमत्प्रभृतिभिः समुत्फुल्लवदनैश्छत्रचामरादियुतैः सेव्यमानो दशरथिर्ब्रह्मेन्द्राग्निजरृतिवरुणवायुकुबेरेशानप्रभृतिभिः सर्वामरैर्वसिष्ठवामदेववाल्मीकिमार्कण्डेयविश्वामित्रभरद्वाजागस्तयप्रभृतिभिर्मुनिवरैः ऋग्यजुसामाथर्वैः संस्तूयमानो नृत्यगीतवाद्याद्यखिललोकमङ्गलवाद्यौर्वीणावेशुमृदङ्गभेरीपटहशङ्खकाहलगोमुखप्रभृतिभिः सुनादैः समस्तभूभटतां मध्ये सकललोकरक्षार्थं यथोचितमभिषिक्तो दाशरथिः कोसलेन्द्रो रघुकुलतिलको जानकीप्रियो भ्रातृत्रयप्रियःसिंहासनगत एकादसाब्दसहस्रं राज्यमकरोत् ॥ 4.4.99॥
भरतोपि गन्धर्वविषयसाधनाय गच्छन् संग्रामे गन्धर्वकोटीस्तिस्त्रो जघान ॥ 4.4.100 ॥
शत्रुघ्नेनाप्यमितबलपराक्रमो मधुपुत्रो लवणो नाम राभसो निहातो मथुरा च निवेशिता ॥ 4.4.101 ॥
इत्येवमाद्यतिबलपराक्रमविक्रमणेरदितुष्टसंहारिणोशेषस्य जगतो निष्पादितस्थितयो रामलक्षमण भरतशत्रुघ्नाः पुनरपि दिवमारूढाः ॥ 4.4.102 ॥
येऽपि तेषु भगवदंशेष्वनुरागिणः कोसलनगरजानपदास्तेपि तन्मनसस्तत्सालोक्यता मवापुः ॥ 4.4.103 ॥
अतिदुष्टसंहारिणो रामस्य कुशलवो द्वौ पुत्रौ लक्ष्मणस्याङ्गदचन्द्रकेतू तक्षपुष्कलौ भरतस्य सुबाहुशुरसेनौ शत्रुघ्नस्य ॥ 4.4.104॥
कुशस्यातिथिरतिथेरपि निषधः पुत्रोऽभूत् ॥ 4.4.105॥
निषधस्याप्यनलस्तस्मादपि नभः नभसः पुण्डरीकस्तत्तनयः क्षेमधन्वा तस्य च देवानीकस्तस्याप्यहीनकोऽहीनकस्यापि रुरुस्तस्य च पारियात्रकः पारियात्राद्देवलो देवलाद्वच्चलः तस्याप्युत्कः उत्काच्च वज्रनाभस्त स्माच्छङ्खणस्तमाद्युषितास्वस्ततश्च विश्वसहो जज्ञे ॥ 4.4.106॥
तस्माद्धिरण्यनाभः यो महायोगीस्वराज्जैमिनेः शष्याद्याज्ञवःक्याद्योगमवाय ॥ 4.4.107॥
हिरण्यनाभस्य पुत्रः पुष्यस्तस्माद्ध्रुवसंधिस्ततःसुदर्शनस्तस्मादग्निवर्मस्ततः शीघ्रगस्तस्मादपि मरुः पुत्रोऽभवत् ॥ 4.4.108 ॥
योसौ योगमास्थायाद्यापि कलापग्राममश्रित्य तिष्ठति ॥ 4.4.109॥
आगामियुगे सूर्यशक्षत्रव्रत आवर्तयिता भविष्यति ॥ 4.4.110 ॥
तस्यात्मजः प्रशुश्रुकस्तस्यपि सुसंधिस्ततश्चाप्यमर्षस्तस्य च सहस्वांस्ततश्च विश्वभवः ॥ 4.4.111 ॥
तस्य बृहद्बलः योर्जुनतनयेनाभिमन्युनाभारतयुद्धे क्षयमनीयत ॥ 4.4.112 ॥
एते इक्ष्वाकुभूपालाः प्राधान्येन मयेरिताः ।
एतेषां चरितं शृण्वन् सर्वपापैः प्रमुच्यते ॥ 4.4.113 ॥
इति श्रीविष्णुमहापुराणे चतुर्थंशे चतुरथोऽध्यायः (4)
श्रीपराशर उवाच [Sage Parasara said]
इक्ष्वाकुतिनयो योसौ निमिर्नाम्ना सहस्रं वत्सरं सत्रमारेभे ॥ 4.5.1 ॥
वसिष्ठिं च होतारं वरयामास ॥ 4.5.2॥
तमाह वसिष्ठोहमिन्द्रेण पञ्चवर्षशतयागार्थं प्रथमं वृतः ॥ 4.5.3 ॥
तदनन्तरं प्रतिपाल्यतामागतस्तवापि ऋत्विक्भविष्यमीत्युक्ते स पृथिवीपतिर्न किञ्चिदुक्तवान् ॥ 4.5.4 ॥
वसिष्ठोप्यनेन समन्विच्छितमित्यमारपतेर्यागमकरोत् ॥ 4.5.5॥
सोऽपि तत्काल एवान्यैर्गौतमादिभिर्यागमकरोत् ॥ 4.5.6॥
समाप्ते चामरपतेर्यागे त्वरया वसिष्ठोनिमियज्ञं करिष्यामीत्याजगाम् ॥ 4.5.7॥
तत्कर्मकर्तृत्वं च गौतमस्य दृष्ट्वा स्वपते तस्मै राज्ञे मां प्रत्याख्यायैव तदनेन गौतमाय कर्मान्तरं समर्पितं यस्मात्तस्मादयं विदेहो भविष्यतीति शापं ददौ ॥ 4.5.8॥
प्रबुद्धश्चासाववनिपतिरपि प्रह ॥ 4.5.8 ॥
यस्मान्मामसंभाष्याज्ञानत एव शयानस्य शापोत्सर्गमसौ दुष्टगुरुश्चकार तस्मात्तस्यापि देहः पतिष्यतीति शापं दत्त्वा देहमत्यजत् ॥ 4.5.10 ॥
तच्छापाच्च मित्रावरुणयोस्तेजसि वसिष्ठस्य चेतः प्रविष्टम् ॥ 4.5.11 ॥
रुशीदर्शनादुद्भुतबीजप्रपातयोस्तयोःसकाशाद्वसिष्ठो देहमपरं लेभे ॥ 4.5.12 ॥
निमेरपि तच्छरीरमतिमनोहरगन्धतैलादिभिरुपसंस्क्रियमाणं नैव क्लेदादिकं दोषमवाप सद्यो मृत इव तस्थौ ॥ 4.5.13 ॥
यज्ञसमाप्तौ भागग्रहणाय देवानागतानृत्विज ऊचुः ।
यजमानाय वरो दीयतामिति ॥ 4.5.14॥
देवैश्च छन्दितोसौ निमिराह ॥ 4.5.15॥
भगवन्तोखिलससारदुःखहन्तारः ॥ 4.5.16॥
न ह्येतादृगन्यद्दुःखमस्ति यच्छरीरात्मनोर्वियोगे भवति ॥ 4.5.17॥
तदहमिच्छामि सकललोकलोचनेषु वस्तुं न पुनः शरीरग्रहणं कर्तुमित्येवमुक्तैर्देवैरसावशेषभूतानां नेत्रेष्ववतारितः ॥ 4.5.18 ॥
ततो भूतान्युन्मेषनिमेषं चक्रुः ॥ 4.5.19॥
अपुत्रस्य च तस्य भूभुजः शरीरमराजकभीरवो मुनयोऽरण्या ममन्थुः ॥ 4.5.20 ॥
तत्र च कुमारो जज्ञे ॥ 4.5.21 ॥
जननाज्जनकसंज्ञां चावाप ॥ 4.5.22 ॥
अभूद्विदेहोस्य पितेति वैदेहः मथनान्मिथिरिति ॥ 4.5.23 ॥
तस्योदावसुः पुत्रोऽभवत् ॥ 4.5.24॥
उदावसोर्नदिवर्धनस्ततःसुकेतुः तस्माद्देवरातस्ततश्च बृहदुक्थः तस्य चे महावीर्यस्तस्यापि सुधृति ॥ 4.5.25॥
ततश्चधृष्टकेतुरजायत ॥ 4.5.26॥
धृष्टकेतोर्हर्यश्वस्तस्य च मनुः मनोः पतिकः तस्मात्कृतरथस्तस्य देवमीढः तस्य च विबुधः विबुधस्य महाधृतिस्ततश्च कृतरातः ततो महारोमा तस्य स्वर्णरोमा तत्पुत्रो ह्रस्वरोणा ह्रस्वरोम्णःसीरध्वजोऽभवत् ॥ 4.5.27॥
तस्य पुत्रर्थं यजनभुवं कृषतः सीरे सीता दुहिता समुत्पन्ना ॥ 4.5.28 ॥
सीरध्वजस्य भ्राता संकाश्यधिपतिः कुशध्वजनामासीत् ॥ 4.5.29॥
सीरध्वजस्यापत्यं भानुमान् भानुमतः शतद्युम्नः तस्य तु शुचिः तस्माच्चोर्जनामा पुत्रो जज्ञे ॥ 4.5.30 ॥
तस्यापि शतध्वजः ततः कृतिः कृतेरञ्जनः तत्पुत्रः कुरुजित्ततोऽरिष्टनेमिः तस्माच्छुतायुः श्रुतायुषः सुपार्श्वाः तस्मात्सृंजयः ततः क्षेमावी क्षेमाविनोऽनेनाः तस्माद्भौमरथः तस्य सत्यरथः तस्मादुपगुः उपगोरुपगुप्तः तत्पुत्रः स्वागतस्तस्य च स्वानन्दः तस्माच्च सुवर्चाः तस्य सुपार्श्वः तस्यापिसुभाषः सुश्रुतः तस्मासुश्रुताज्जयः तस्य पुत्रो विजयः विजयस्य ऋतः ऋतात्सुनयः सुनयाद्वीतहव्यः तस्माद्धूतिः धृतेर्वबहुलास्वः तस्य पुत्रः कृतिः ॥ 4.5.31 ॥
कृतौ संतिष्ठत्ययं जनकवंशः ॥ 4.5.32 ॥
इत्येते मैथिलाः ॥ 4.5.33 ॥
प्रायेणैते आत्मविद्याश्रयिणो भूपाला भवन्ति ॥ 4.5.34॥
इति श्रीविष्णुमहापुराणे चतुर्थांसे पञ्चमोऽध्यायः (5)
मैत्रेय उवाच
सूर्यस्य वंश्या भगवन्कथिता भवता मम ।
सोमस्याप्यखिलान्वश्याञ्छ्रोतुमिच्छामि पार्थिवान् ॥ 4.6.1 ॥
कीर्त्यते स्थिरकीर्तीनां येषामद्यापि संततिः ।
प्रसादसुमुखस्तान्मे ब्रह्मन्नाख्यातुमर्हसि ॥ 4.6.2॥
श्रीपराशर उवाच [Sage Parasara said]
श्रूयतां मुनिशार्दूल वंशः प्रतिथतेजसः ।
सोमस्यानुक्रमात्ख्याता यत्रोर्वीपतयोऽभवन् ॥ 4.6.3 ॥
अयं हि वंशोतिबलपराक्रमद्युतिशीलचेष्टवद्भिरतिगुणान्वितैर्नहुषययातिकार्तवीर्यार्जुनादिभिर्भूपालैरलङ्कृतः तमहं कथयामि श्रूयताम् ॥ 4.6.4 ॥
अखिलजगत्स्त्रष्टुर्भगवतो नारायणस्य नाभिकलोजसमुद्भवाब्जयोनेर्ब्रह्मणः पुत्रोऽत्रिः ॥ 4.6.5॥
अत्रेःसोमः ॥ 4.6.6॥
तं च भगवानब्जयोनिः अशेषौषधीद्विजनक्षत्राणामाधिपत्येऽभ्यषेचयत् ॥ 4.6.7॥
स च राजसूयमकरोत् ॥ 4.6.8॥
तत्प्रभावादत्युत्कृष्टाधिपत्याधिष्ठातृत्वाच्चैनं मद आविवेश ॥ 4.6.8 ॥
मदावलेपाच्च सकलदेवगुरोर्बृस्पतेस्तारां नाम पत्नीं जहार ॥ 4.6.10 ॥
बहुशश्च बृहस्पतिचोदितेन भगवता ब्रह्मणा चोद्यमानसकलैश्च देवर्षिभिर्याचमानोऽपि न मुमोच ॥ 4.6.11 ॥
तस्य चन्द्रस्य च बृहस्पतेर्द्वषादुशाना पार्ष्णिग्राहोभूत् ॥ 4.6.12 ॥
अङ्गीरसश्च सकाशादुपलब्धविद्यो भगवान्रुद्रो बृहस्पतेः सहाय्यमकरोत् ॥ 4.6.13 ॥
यतश्चोशना ततो जंभकुंभाद्याः समस्ता एव दैत्यदानवनिकाया महान्तमुद्यमं चक्रुः ॥ 4.6.14॥
बृहस्पतेरपि सकलदेवसैन्ययुतः सहायः शक्रोऽऽभवत् ॥ 4.6.15॥
एवं च तयोरतीवोग्रसंग्रामस्तारानिमित्तस्तारकामयो नामाभूत् ॥ 4.6.16॥
ततश्च समस्तशस्त्रण्यमुरेषु रुद्रपुरोगमा देवा देवेषु चाशेष्दानवा मुमुचुः ॥ 4.6.17॥ेवं देवासुराहवसंक्षोभक्षुब्धदृदयमशेषमेव जगद्ब्रह्मणं शरणं जगाम् ॥ 18 ॥
ततश्च भगवानब्जयोनिरप्युशनसं संकरमसुरान्देवांश्च निवार्य बृहस्पतये तारामदापयत् ॥ 4.6.19॥
तां चान्तःप्रसवामवलोक्य बृहस्पतिरप्याह ॥ 4.6.20 ॥
नैष मम क्षेत्रे भवत्यान्यस्य सुतो धार्यःसमुत्सृजैनमलमलमतिधाष्टर्येनेति ॥ 4.6.21 ॥
स च तेनैवमुक्तातिपतिव्रता भर्तृवचनानन्तरं तमिषीकास्तंबे गर्भमुत्ससर्ज ॥ 4.6.22 ॥
स चोत्सृष्टमात्र एवातितेजसा देवानां तेजांस्याचिक्षेप ॥ 4.6.23 ॥
बृहस्पतिमिन्दुं च तस्य कुमारस्यातिचारुतया साभलाषौ दृष्ट्वा देविःसमुत्पन्नसंदेहास्तारां पप्रच्छुः ॥ 4.6.24॥
सत्यं कथयास्माकमिति सुभगे सोमस्याथ वा बृहस्पतेरयं पुत्र इति ॥ 4.6.25॥
एवं तैरुक्ता सा तारा ह्रिया किञ्चिन्नोवाच ॥ 4.6.26॥
बहुशोप्यभिहिता यदासौ देवेभ्यो नाच्चक्षे ततःस कुमारस्तां शप्तुमुद्यतः प्राह ॥ 4.6.27॥
दुष्टेंब कस्मान्मम तातं नाख्यासि ॥ 4.6.28 ॥
अद्यैव ते व्यलीकलज्जावत्यास्तथा शास्तिमहं करोमि ॥ 4.6.29॥
यथा च नैवमद्याप्यतिमन्थरवचनाभविष्यसीति ॥ 4.6.30 ॥
अथाह भगवान् पितामहः तं कुमारं सन्निवार्य स्वयमपृच्छत्तां ताराम् ॥ 4.6.31 ॥
वत्से कस्यायमात्मजः सोमस्य वा बृहस्पतेर्वा इत्युक्ता लज्जमानाह सोमस्येति ॥ 4.6.32 ॥
ततः प्रस्फुरदुच्ध्वासितामलकपोलकान्तिर्भगवानुडुपतिः कुमारमालिङ्ग्य साधु साधु वत्स प्राज्ञोसीतिबुध इति तस्य च नाम चक्रे ॥ 4.6.33 ॥
तदाख्यातमेवैतत्स च यथेलायामात्मजं पुरूरवममुत्पादयामास ॥ 4.6.34॥
पुरूरवास्त्वतिदानशीलोऽतियज्वातितेजस्वी यं सत्यवादिनमतिरूपस्वितं मनस्विनं मित्रावरुणशापान्मानुषे लोके मया वस्तव्यमिति कृतमतिरुर्वशी ददर्श ॥ 4.6.35॥
दृष्टमात्रे च तस्मिन्नपहाय मानमशेषमपास्य स्वर्गसुखाभिलाषं तन्मनस्का भूत्वा तमेवोपतस्थे ॥ 4.6.36॥
सोऽपि च तामतिशयितसकललोकस्त्रीकान्तिसौकुमार्यलावण्यगतिविलासहासादिगुमामवलोक्य तदायत्तचित्तवृत्तिर्बभूव ॥ 4.6.37॥
उभयमपि तन्मनस्कमनन्यदृष्टि परित्यक्तस मस्तान्यप्रयोजनमभूत् ॥ 4.6.38 ॥
राजा तु प्रागल्भ्यात्तामाह ॥ 4.6.39॥
सुभ्रु त्वामहमभिकामोऽस्मि प्रसीदानुरागमुद्वहेत्युक्ता लज्जावखण्डितमुर्वशी तं प्राह ॥ 4.6.40 ॥
भवत्वेवं यदि मे समयपरिपालनं भवान् करोतीत्याख्याते पुनपि तामाह ॥ 4.6.41 ॥
आख्याहि मे समयमिति ॥ 4.6.42 ॥
अथ पृष्टा पुनरप्यब्रवीत् ॥ 4.6.43 ॥
शयनसमीपे ममोरणकद्वयं पुत्रभूतं नापनेयम् ॥ 4.6.44॥
भवांश्च मया न नग्नोद्रष्टव्यः ॥ 4.6.45॥
घृतमात्रं च ममाहार इति ॥ 4.6.46॥
एवमेवेति भूपातिरप्याह ॥ 4.6.47॥
तया सह स चावनिपतिरलाकयां चैत्ररथादिवनेष्वमलपद्मखण्डेषु मानसादिसरःस्वतिरमणीयेषु रममाण एकषष्टिवर्षाण्यनुदिनप्रवर्दधमानप्रमोदोऽनयत् ॥ 4.6.48 ॥
उर्वशी च तदुपभोगात्प्रतिदिनप्रवर्धमानानु रागा अमरलोकवासेऽपि न स्पृहां चकार ॥ 4.6.49॥
विना चोर्वश्या सुरलोकोऽप्सरसां सिद्धगन्धर्वाणां च नातिरमणीयोऽभवत् ॥ 4.6.50 ॥
ततश्चोर्वशी पुरूरवसोःसमयविद्विश्वासुर्गन्धर्वसमवेतो निशि शयनाभ्याशादेकमुरणकं जहार ॥ 4.6.51 ॥
तस्याकाशे नीयमानस्योर्वशी शब्दमशृणोत् ॥ 4.6.52 ॥
एवमुवाच च ममानाथायाः पुत्रः केनापह्रियते कं शरणमुपयामीति ॥ 4.6.53 ॥
तदाकर्ण्य राजा मां देवी वीक्ष्यतीति न ययौ ॥ 4.6.54॥
अथान्यमप्युरणकमादाय गन्धर्वा ययुः ॥ 4.6.55॥
तस्याप्यपह्रियमाणस्याकर्ण्य शब्दमाकाशे पुनरप्यनाथास्म्यहमभर्तृका कापुरुषा श्रयेत्यार्तराविणी बभूव ॥ 4.6.56॥
राजाप्यमर्षवशादन्धकारमेतदिति खड्गमादाय दुष्टदुष्ट हतोसीति व्याहरन्नभ्यधावत् ॥ 4.6.57॥
तावच्च गन्धर्वै रप्यतीवोज्ज्वला विद्युज्जनिता ॥ 4.6.58 ॥
तत्प्रभया चोर्वशी राजानमपगतांबरं दृष्ट्वापवृत्तसमया तत्क्षणादेवापक्रान्ता ॥ 4.6.59॥
परित्यज्य तावप्युरणकौ गन्दर्वाःसुरलोकमुपगताः ॥ 4.6.60 ॥
राजापि च तौ मेषावादायातिहृष्टमनाः स्वशयनमायातो नोर्वशीं ददर्श ॥ 4.6.61 ॥
तां चापश्यन् व्यपगतांबर एवोन्मत्तरूपो बभ्राम ॥ 4.6.62 ॥
कुरुक्षेत्रे चांभोजसरस्यन्याभिश्चतसृभिरप्सरोभिः समवेतामुर्वशीं ददर्श ॥ 4.6.63 ॥
ततश्चोन्मत्तरूपो जाये हे तिष्ठ मनसि धोरे तिष्ठ वचसि कपटिके तिष्ठेत्येवमनेकप्रकारं सूक्तमवोचत् ॥ 4.6.64॥
आह चोर्वशी ॥ 4.6.65॥
महाराजालमनेनाविवेकचेष्टितेन ॥ 4.6.66॥
अन्तर्वत्न्यहमब्दान्ते भवतात्रागन्तव्यं कुमारस्ते भबिष्यति एकां च निशामहं त्वया सह वत्स्यामीत्युक्तः प्रहृष्टःस्वपुरं जगाम ॥ 4.6.67॥
तासां चाप्सरसामूर्वशी कथयामास ॥ 4.6.68 ॥
अयं स पुरुषोत्कृष्टो येनाहमेतावन्तं कालमनुरागाकृष्टमानसा सहोषितेति ॥ 4.6.69॥
एवमुक्तास्ताश्चाप्सरस ऊचुः ॥ 4.6.70 ॥
साधुसाध्वस्य रूपमप्यनेन सहास्माकमपि सर्वकालमास्या भवेदिति ॥ 4.6.71 ॥
अब्दे च पूर्णे स राजा तत्राजगाम ॥ 4.6.72 ॥
कुमारं चायुषमस्मै चोर्वशी ददौ ॥ 4.6.73 ॥
दत्त्वा चैकां निशां तेन राज्ञा सहोषित्वा पञ्च पुत्रोत्पत्तये गर्भमवाप ॥ 4.6.74॥
उवाच चैनं राजानमस्मत्प्रीत्या महाराजाय सर्व एव गन्धर्वा वरदाःसंवृत्ताः व्रियतां च वर इति ॥ 4.6.75॥
आह च राजा ॥ 4.6.76॥
विजितसकलारातिरविहतेन्द्रियसामर्थ्यो बन्धुमानमितबलकोशोऽस्मि नान्यदस्माकमुर्वशीसालोक्यात्प्राप्तव्यमस्तितदहमनया सहोर्वश्या कालं नेतुमभिलषामीत्युक्ते गन्धर्वा राज्ञेऽग्निस्थालीं ददुः ॥ 4.6.77॥
ऊचुश्चैनमग्निमाम्नायानुसारी भूत्वा त्रिधा कृत्वेर्वशी सलोकतामनोरथमुद्दिश्य सम्यग्यजेथाः ततोऽवस्यमभिलषितमवाप्स्यतीत्युक्तस्तामग्निस्तालीमादाय जगाम ॥ 4.6.78 ॥
अन्तरटव्यामचितयतहो मेऽतीव मुढता किमहमकरवम् ॥ 4.6.79॥
वह्निस्थाली मयैषानीता नोर्वशीति ॥ 4.6.80 ॥
अथैनामटव्यामेवाग्निस्थालीं तत्याज स्वपुरं च जगाम् ॥ 4.6.81 ॥
व्यतीतेर्ऽद्धरात्रे विनिद्रश्चाचिन्तयत् ॥ 4.6.82 ॥
ममोर्वशीसालोक्यप्राप्तयर्थमग्निस्थाली गन्धर्वैर्दत्ता सा च मयाटव्यां परित्यक्ता ॥ 4.6.83 ॥
तदहं तत्र तदाहरणाय यास्यामीत्युत्थाय तत्राप्युपगतो नाग्निस्थालीमपश्यत् ॥ 4.6.84॥
शमीगर्भं चाश्वात्थमग्निस्थालीस्थाने दृष्ट्वाचिन्तयत् ॥ 4.6.85॥
मयात्राग्निस्थाली निक्षिप्ता सा चाश्वत्थः शमीगर्भोऽभूत् ॥ 4.6.86॥
तदेनमेवाहमग्निरूपमादाय स्वपुरमभिगम्यारणीं कृत्वा तदुत्पन्नाग्नेरुपास्तिं करिष्यामीति ॥ 4.6.87॥
एवमेव स्वपुरमभिगम्यारणिं चकार ॥ 4.6.88 ॥
तत्प्रमाणं चाङ्गुलैः कुर्वन् गायत्रीमपठत् ॥ 4.6.89॥
पठतश्चाक्षरसंख्यान्येवाङ्गुलान्यरण्यभवत् ॥ 4.6.90 ॥
तत्राग्निं निर्मथ्याग्नित्रयमाम्नायानुसारी भूत्वा जुहाव ॥ 4.6.91 ॥
उर्वशीसालोक्यं फलमभिसंधितवान् ॥ 4.6.92 ॥
तेनैव चाग्निविधिना बहुविधान् यज्ञानिष्ट्वा गान्धर्वलोकान वाप्योर्वश्या सहावियोगमवाप ॥ 4.6.93 ॥
एकोऽग्निरादावभवतेकेन त्वत्र मन्वन्तरे त्रेधा प्रवर्तिताः ॥ 4.6.94॥
इति श्रिविष्णुमहापुराणे चतुर्थांशे षष्ठोऽध्यायः (6)
श्रीपराशर उवाच [Sage Parasara said]
तस्याप्यायुर्धीमानमावसुर्वनिश्वावसुःश्रुतायुः शयुरयुतायुरितिसंज्ञाः षट्पुत्रा अभवन् ॥ 4.7.1 ॥
तथामावसोर्भीमनामा पुत्रोऽभवत् ॥ 4.7.2॥
भीमस्य काञ्चनः काञ्चनात्सुहोत्रः तस्यापि जह्नुः ॥ 4.7.3 ॥
योऽसौ यज्ञवाटमखिलं गङ्गांभसा प्लावितमवलोक्य क्रोधसंरक्तलोचनो भगवन्तं यज्ञपुरुषमात्मनि परमेण समाधिना समारोप्याखिलमेव गङ्गामपिबत् ॥ 4.7.4 ॥
अथैनं देवर्षयः प्रसादयामासुः ॥ 4.7.5॥
दुहितृत्वे चास्य गङ्गामनयन् ॥ 4.7.6॥
जह्नोश्च सुमन्दुर्नाम पुत्रोऽभवत् ॥ 4.7.7॥
तस्याप्यजकस्ततो बलाकाश्वस्तस्मात्कुशस्तस्यापि कुशांबुकुशनाभाधूर्तरजसो वसुश्चेति चत्वारः पुत्रा बभूवुः ॥ 4.7.8॥
तेषां कुशांबः शक्रतुल्यो मुत्रो भवेदितितपश्चकार ॥ 4.7.8 ॥
तं चोग्रतपसमवलोक्य मा भवत्वनयोऽमत्तुल्यो वीर्य इत्यात्मनैवास्येन्द्रः पुत्रत्वमगच्छत् ॥ 4.7.10 ॥
स गाधिर्नाम पुत्रः कौशिकोऽभवत् ॥ 4.7.11 ॥
गाधिश्च सत्यवतीं कन्यामजनयत् ॥ 4.7.12 ॥
तां च भार्गवः ऋचीको वव्रे ॥ 4.7.13 ॥
गाधिरप्यतिरोषणायातिवृद्धाय ब्राह्मणाय दातुमनिच्छन्नेकतः श्यामकर्मानामिन्दुवर्चसामनिलरंहसामश्वानां सहस्रं कन्याशुल्कमयाचत ॥ 4.7.14॥
तेनाप्यृषिणा वरुमसकाशादु पलभ्याश्वतीर्थोत्पन्नं तादृशमश्वसहस्रं दत्तम् ॥ 4.7.15॥
ततस्तामृचीकः कन्यामुपयेमे ॥ 4.7.16॥
ऋचीकश्च तस्याश्चरुमपत्यार्तं चकार ॥ 4.7.17॥
तत्प्रसादितश्च तन्मात्रे क्षत्रवरपुत्रोत्पत्तये चरमपरं साधयामास ॥ 4.7.18 ॥
एष चरुर्भवत्या अयमपरश्चरुस्त्वन्मात्रा सम्य गुपयोज्य इत्युक्त्वा वनं जगाम ॥ 4.7.19॥
उपयोगकाले चतां माता सत्यवतीमाह ॥ 4.7.20 ॥
पुत्रि सर्व एवात्मपुत्रमतिगुणमभिलषति नात्मजायाभ्रातृगुणेष्वतीवादृतो भवतीति ॥ 4.7.21 ॥
तोर्हसि ममात्मीयं चरुं मदीयं चरुमात्मनोपयोक्तुम् ॥ 4.7.22 ॥
मत्पुत्रेण हि सकलभूमण्डलपरिपालनं कार्यं कियद्वा ब्राह्मणस्य बलवीर्यसंपदेत्युक्ता सा स्वचरुं मात्रे दत्तवती ॥ 4.7.23 ॥
अथ वनादागत्य सत्यवतीमृषिरपश्यत् ॥ 4.7.24॥
आह चैनामतिपापे किमिदमकार्यं भवत्या कृतमतिरौद्रंम ते वपुर्लक्ष्यते ॥ 4.7.25॥
नीनं त्वाया त्वन्मातृसात्कृतश्चारुरूपयुक्तो न युक्तामेतत् ॥ 4.7.26॥
मया हि तत्र चरौ सकलैश्वर्यवीर्यसौर्यबलसंपदारोपिता त्वदीयचरावप्यखिलशान्तिज्ञानतितिक्षादिब्राह्ममगुणसंपत् ॥ 4.7.27॥
तच्च विपरीतं कुर्वन्त्यास्तवातिरौद्रास्त्रधारणपालननिष्ठः क्षत्रियाचारः पुत्रो भविष्यति तस्याश्चोपशमरुचिर्ब्राह्मणाचार इत्याकर्ण्यैव सा तस्य पादौ जग्राह ॥ 4.7.28 ॥
प्रणिपत्य चैनमाह ॥ 4.7.29॥
भगवन्मयैतदज्ञानादनुष्ठितं प्रसादं मे कुरु मैवंविधः पुत्रो भवतु काममेवंविधः पौत्रो भवत्वित्युक्ते मुनिरप्याह ॥ 4.7.30 ॥
एवमस्त्विति ॥ 4.7.31 ॥
अनन्तरं च सा जमदग्निमजीजनत् ॥ 4.7.32 ॥
तन्माता च विश्वामित्रं जनयामास ॥ 4.7.33 ॥
सत्यवत्यपि कौशिकी नाम नद्यभवत् ॥ 4.7.34॥
जमदग्निरिक्ष्वाकुवंशोद्भवस्य रेणोस्तनयां रेणुकामुपयेमे ॥ 4.7.35॥
तस्यां चाशेषक्षत्रहन्तारं परशुरामसंज्ञं भगवतःसकललोकगुरोर्नारायणस्यांशं जमदग्निरजीजनत् ॥ 4.7.36॥
विश्वामीत्रपुत्रस्तु भार्गव एव शुनःशेपो दैवैर्दत्तः ततश्च देवरातनामाभवत् ॥ 4.7.37॥
ततश्चान्ये मधुश्छन्दोधनञ्जयकृतदेवाष्टककच्छपहरिराख्या विश्वामित्रपुत्रा बभूवुः ॥ 4.7.38 ॥
तेषां च बहूनि कौशिकगोत्राणि ऋष्यन्तरेषु विवाह्यान्यभवत् ॥ 4.7.39॥
इति श्रीविष्णुमहापुराणे चतुर्थंशे सप्तमोऽध्यायः (7)
श्रीपराशर उवाच [Sage Parasara said]
पुरूरवसो ज्येष्ठः पुत्रो यस्त्वायुर्नामा स राहोर्दुहितरमुपयेमे ॥ 4.8.1 ॥
तस्यां च पञ्च पुत्रानुत्पादयामास ॥ 4.8.2॥
नहुषक्षत्रवृद्धरंभरजिसंज्ञास्तथैवानेनाः पञ्चमः पुत्रोऽभूत् ॥ 4.8.3 ॥
क्षत्रवृद्धात्सुहोत्रः पुत्रोऽभवत् ॥ 4.8.4 ॥
काश्यपकाशगृत्समदास्त्रयस्तस्य पुत्रा बभूवुः ॥ 4.8.5॥
गृत्समदस्य शोनकश्चातुर्वर्म्यप्रवर्तयिताभूत् ॥ 4.8.6॥
काश्यस्य काशेयः काशीराजः तस्माद्राष्ट्रः राष्ट्रस्य दीर्घतपाः पुत्रोऽभवत् ॥ 4.8.7॥
धन्वन्तरिस्तु दीर्घतपसः पुत्रोऽभवत् ॥ 4.8.8॥
स हि संसिद्धकार्यकरमःसकलसंभूतिष्वशेषज्ञानविदा भगवता नारायणेन चातीत संभूतौ तस्मै वरो दत्तः ॥ 4.8.8 ॥
काशीराजगोत्रेऽवतीर्य त्वमष्टधा सम्यगायुर्वेदं करिष्यसि यज्ञभागभुग्भविष्यसीति ॥ 4.8.10 ॥
तस्य च धन्वन्तरेः पत्रः केतुमान् केतुमतो भीमरथः तस्यापि दिवोदासः तस्यापि प्रतर्दनः ॥ 4.8.11 ॥
स च भद्रश्रेण्यवंशविनाशनादशेषशत्रवोनेनजिता इति शत्रुजिदभवत् ॥ 4.8.12 ॥
तेन च प्रीतिमतात्मपुत्रो वत्सवत्सेत्यभिहितो वत्सोऽभवत् ॥ 4.8.13 ॥
सत्यपरतया ऋतध्वजसंज्ञामवाप ॥ 4.8.14॥
ततश्च कुवलयनामानमश्वं लेभे ततः कुवलयाश्व इत्यस्यां पृथिव्यां प्रथितः ॥ 4.8.15॥
तस्यच च वत्सस्य पुत्रोऽलर्कनामाभवत्यस्यायमद्यापिश्लोको गीयते ॥ 4.8.16॥
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।
अलर्कादपरो नान्यो बुभुजे मेदिनीं युवा ॥ 4.8.17॥
तस्याप्यलर्कस्य सन्नतिनामाभवदात्मज ॥ 4.8.18 ॥
सन्नतेः सुनीथः तस्यापि सुकेतुः तस्माच्च धर्मकेतुर्जज्ञे ॥ 4.8.19॥
ततश्च सत्यकेतुः तस्माद्विभुः तत्तयःसुविभुः ततश्च सुकुमारस्तस्यापि दृष्टकेतुः ततश्च वीतिहोत्रः तस्माद्भार्गः भार्गस्य भार्गभूमिः ततश्चातुर्वर्ण्यंप्रवृत्तिरित्येते काश्यपभूभृतः कथिताः ॥ 4.8.20 ॥
रजेस्तु संततिः श्रुयताम् ॥ 4.8.21 ॥
इति श्रीविष्णुमाहापुराणे चतुर्थांशेऽष्टमोऽध्याय (8)
श्रीपराशर उवाच [Sage Parasara said]
रजोस्तु पञ्च पुत्रशतान्यतुलबलपराक्रमसारामायसन् ॥ 4.8.1 ॥
देवासुरसंग्रामारंभे च परस्परवधेप्सवो देवाश्चासुराश्च ब्रह्मणामुपेत्य पप्रच्छुः ॥ 4.8.2॥
भगवन्नस्माकमत्र विरोधे कतमः पक्षो जेता भविष्यतीति ॥ 4.8.3 ॥
अथाह भगवान् ॥ 4.8.4 ॥
येषामर्थे रजिरात्मात्तायुधो योत्स्यति तत्पक्षोजेतेति ॥ 4.8.5॥
अथ दैत्यैरुपेत्य रजिरात्मसाहाय्यदानायाभ्यर्थितः प्राह ॥ 4.8.6॥
योत्स्योऽहं भवतामर्थे यद्यहममरजयाद्भवतामिन्द्रो भविष्यामीत्याकर्ण्यैतत्तैरभिहितम् ॥ 4.8.7॥
न वयमन्यथा वदिष्यामोऽन्यथा करिष्यामोऽस्माकमिन्द्रः प्रह्लादस्तदर्थमेवायमुद्यम इत्युक्त्वा गतेष्वसुरेषु देवैरप्यसाववनिपतिरेवमेवोक्तस्तेनापि च तथैवोक्ते देवैरिन्द्रस्त्वं भविष्यसीति समन्विच्छितम् ॥ 4.8.8॥
रजिनापि देवसैन्यसहायेनानेकैर्महास्त्रैस्तदशेषमहासुरबलं निषूदितम् ॥ 4.8.8 ॥
अथ जितारिपक्षश्च देवेन्द्रो रजिचरमयुगलमात्मनः शिरसा निपीड्याह ॥ 4.8.10 ॥
भयत्राणादन्नदानाद्भवानस्मत्पितासेषलोकानामुत्तमोत्तमो भवान् यस्याहं पुत्रस्त्रिलोकेन्द्रः ॥ 4.8.11 ॥
स चापि राजा प्रहस्याह ॥ 4.8.12 ॥
एवमस्त्वेवमस्त्वनतिक्रमणीयाहि वैरिक्षादप्यनेकविधचाटुवाक्यगार्भा प्रणतिरित्युक्त्वा स्वपुरं जगाम ॥ 4.8.13 ॥
शतक्रतुरपीन्द्रत्वं चकार ॥ 4.8.14॥
स्वर्याते तु रजौ नारदर्षिचोदिता रजिपुत्राः शतक्रतुमात्मपितृपुत्रं समाचाराद्राज्यं याचितवन्तः ॥ 4.8.15॥
अप्रदानेन च विजित्येन्द्रमतिबलिनः स्वयमिन्द्रत्वं चक्रुः ॥ 4.8.16॥
ततश्च बहुतिथे काले ह्यतीते बृहस्पतिमेकान्ते दृष्ट्वा अपहृतत्रैलोक्ययज्ञभागः शतक्रतुरुवाच ॥ 4.8.17॥
बदरीफलमात्रमप्यर्हसि ममाप्यायनाय पुरोडाशखण्डं दातुमित्युक्तो बृहस्पतिरुवाच ॥ 4.8.18 ॥
यद्येवन्त्वयाहं पूर्वमेव चोदितःस्यां तन्मया त्वदर्थं किमकर्तव्यमत्यिल्पैरेवाहोभिस्त्वां निजं पदं प्रपयिष्यामीत्यभिधाय तेषामनुदिनमाभिचारकं बुद्धिमोहाय शक्रस्य तेजोभिवृद्धये जुहाव ॥ 4.8.19॥
ते चापि तेन बुद्धिमोहेनाभिभूयमाना ब्रह्मद्विषो धर्मत्यागिनो वेदवादपराङ्मुखाबभुवूः ॥ 4.8.20 ॥
ततस्तानपेतधर्माचारनिन्द्रो जघान ॥ 4.8.21 ॥
पुरोहिताप्यायिततेजाश्च शक्रो दिवमाक्रमत् ॥ 4.8.22 ॥
एतदिन्द्रस्य स्वपदच्यवनादारोहणं श्रुत्वा पुरुषः स्वपदभ्रंशं दौरात्मयं च नाप्नोति ॥ 4.8.23 ॥
रंभस्त्वपत्त्योऽभवत् ॥ 4.8.24॥
क्षत्रवृद्धसुतः प्रतिक्षत्रोऽभवत् ॥ 4.8.25॥
तत्पुत्रः संजयः तस्यापि जयः तस्यापि विजयः तस्माच्च जज्ञे कृतः ॥ 4.8.26॥
तस्य च हर्यधनः हर्यधनसुतःसहदेवः तस्माददीनस्तस्य जयत्सेय जयत्सेनः ततश्च संकृतिः तत्पुत्रः क्षत्रधर्मा इत्येते क्षत्रवृद्धस्य वंश्याः ॥ 4.8.27॥
ततो नहुषवंशं प्रवक्ष्यामि ॥ 4.8.28 ॥
इति श्रीविष्णुमाहापुराणे चतुर्थांशे नवमोऽध्यायः (8)
श्रीपराशर उवाच [Sage Parasara said]
यतिययातिसंयात्यायातिवियातिकृतिसंज्ञा नहुषस्य षट्पुत्रा महाबलपराक्रमा बभूवुः ॥ 4.10.1 ॥
यतिस्तु राज्यं नैच्छत् ॥ 4.10.2॥
ययातिस्तु भूभृदभवत् ॥ 4.10.3 ॥
उशनसश्च दुहितरं देवयानीं वार्षपर्वणीं शर्मिष्ठामुपयेमे ॥ 4.10.4 ॥
अत्रानुवंशश्लोको भवति ॥ 4.10.5॥
यदुं च दुर्वसुं चैव देवयानी व्यजायत ।
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ 4.10.6॥
काव्यशापाच्च कालेनैव ययातिर्जरामवाप ॥ 4.10.7॥
प्रसन्नशुक्रवचनाच्च स्वजरां संक्रामयितुं ज्येष्ठं पुत्रं यदुमुवाच ॥ 4.10.8॥
वत्स त्वन्मातामहशापादियमकालेनैव जरा ममोपस्थिता तामहं तस्यै वानुग्रहाद्भवतःसंचारयामि ॥ 4.10.8 ॥
एकं वर्षसहस्रमतृप्तोऽस्मि विषयेषु त्वद्वयसा विषयानहं भोक्तुमिच्छमि ॥ 4.10.10 ॥
नात्र भवता प्रत्याख्यानं कर्तव्यमित्युक्तःस यदुर्नैच्छत्तां जरामादातुम् ॥ 4.10.11 ॥
तं च पिता शशाप त्वत्प्रसूतिर्न राज्यार्हा भविष्यतीति ॥ 4.10.12 ॥
अनन्तरं च दुर्वसुं द्रुह्यमनुं च पृतिवीपतिर्जराग्रहणार्थं स्वयौवनप्रदानाय चाभ्यर्थयामास ॥ 4.10.13 ॥
तैरप्येकैकेन प्रत्याख्यातस्ताञ्छशाप ॥ 4.10.14॥
अथ शर्मिष्ठातनयमशेषकनीयांसं पुरुं तथैवाह ॥ 4.10.15॥
स चातिप्रवणमतिः सबहुमानं पितरं प्रणम्य महाप्रसादोयमस्माकमित्युदारमभिधायजरां जग्राह ॥ 4.10.16॥
स्वकीयं च यौवनं स्वपित्रे ददौ ॥ 4.10.17॥
सोऽपि पौरवं यौवनमासाद्य धर्माविरोधेन यथाकामं यथाकालोपपन्नं यथोत्साहं विषयांश्चचार ॥ 4.10.18 ॥
सम्यक्च प्रजापालनमकरोत् ॥ 4.10.19॥
विश्वाच्या देवयान्या च सहोपभोगं भुक्त्वा कामानामन्तं प्राप्स्यामीत्यनुदिनं तन्मनस्को बभूव ॥ 4.10.20 ॥
अनुदिनं चोपभोगतः कामानतिरम्यान्मेने ॥ 4.10.21 ॥
ततश्चैनमगायत ॥ 4.10.22 ॥
श्लो
न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ 4.10.23 ॥
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
एकस्यापि न पर्याप्तं तस्मात्तृष्णां परित्यजेत् ॥ 4.10.24॥
यदा न कुरुते भावं सर्वभूतेषु पापकम् ।
समदृष्टोस्तदा पुंसः सर्वाःसुखमया दिशः ॥ 4.10.25॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
तां तृष्णां संत्यजेत्प्राज्ञःसुखेनैवाभिपूर्यते ॥ 4.10.26॥
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
धनाशा जीविताशा च जीर्यतोऽपि न जीर्यतः ॥ 4.10.27॥
पूर्णं वर्षसहस्रं मे विषयासक्तचेतसः ।
तथा प्यनुदिनं तृष्णा मम देषूपजायते ॥ 4.10.28 ॥
तस्मादेतामहं त्यक्त्वा ब्रह्मण्याधाय मानसम् ।
निर्द्वन्द्वो निर्ममो भूत्वा चरिष्यामि मृगैः सह ॥ 4.10.29॥
श्रीपराशर उवाच [Sage Parasara said]
पुरोःसकाशादादाय जरां दत्त्वा च योवनम् ।
राज्येभिषिच्च पूरुं च प्रययौ तपसे वनम् ॥ 4.10.30 ॥
दिशिदक्षिणपूर्वस्यां दुर्वसुं च समादिशत् ।
प्रतीच्यां च तथा द्रुह्युं दक्षिणायां ततो यदुम् ॥ 4.10.31 ॥
उदीच्यां च तथैवानुं कृत्वा मण्डलिनो नृपान् ।
सर्वपृथ्वीपतिं पुरुं सोभिषिच्य वनं ययौ ॥ 4.10.32 ॥
इति श्रीविष्णुमहापुराणे चतुर्थांशे दशमोऽध्यायः (10)
श्रीपराशर उवाच [Sage Parasara said]
अतः परं ययातेः प्रथमपुत्रस्य यदोर्वंशमहं कथयामि ॥ 4.11.1 ॥
यत्राशेषलोकनिवासो मनुष्यसिद्धगन्धर्वयक्षराक्षसगुह्यककिंपुरुषाप्सरोरगविहगदैत्यदानवादित्यरुद्रवस्वश्विमरुद्देवर्षिभिर्मुमुक्षुभिर्धर्मार्थकाममोक्षार्थिभिश्च तत्तत्फललाभाय सदाभिष्टुतोऽपरिच्छेद्यमाहात्म्यांशेन भगवाननादिनिधनो विष्णुरवततार ॥ 4.11.2॥
अत्र श्लोकः ॥ 4.11.3 ॥
यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते ।
यत्रावतीर्णं कृष्णाख्यंपरं ब्रह्मनराकृति ॥ 4.11.4 ॥
सहस्रजित्क्रोष्टुनलनहुषसंज्ञाश्चात्वारो यदुपुत्रा वभुवुः ॥ 4.11.5॥
सहस्रजित्पुः शतजित् ॥ 4.11.6॥
तस्य हैहयहेहयवेणुहयास्त्रयः पुत्रा बभूवुः ॥ 4.11.7॥
हैहयपुत्रो धर्मः तस्यापि धर्मनेत्रः ततः कुन्तिः कुन्तेः सहजित् ॥ 4.11.8॥
तत्तनयो महिष्मान् योऽसौ माहिष्मतों पुरीं निर्वापयामास ॥ 4.11.8 ॥
तस्माद्भद्रश्रेण्यस्ततो दुर्दमस्तस्माद्धनकः धनकस्य कृतवीर्यकृताग्निकृतधर्मकृतौजसश्चत्वारः पुत्रा बभूवुः ॥ 4.11.10 ॥
कृतवीर्यादर्जुःसप्तद्वीपाधिपतिर्बाहुसहस्रो जज्ञे ॥ 4.11.11 ॥
योऽसौ भगवदंशमत्रिकुलप्रसूतं दत्तात्रेयाख्यमाराध्य बाहुसहस्रमधर्मसेवानिवारणं स्वधर्मसेवित्वं रणे पृथिवीजयं धर्मतश्चानुपालनमारातिभ्योऽपराजयमखिलजगत्प्रख्यातपुरुषाच्च मृत्युमित्येतान्वरानभिलषितवांल्लेभे च ॥ 4.11.12 ॥
तेनेयमशेषद्वीपवती पृथिवी सम्यक्परीपालिता ॥ 4.11.13 ॥
दशयज्ञसहस्राण्यसावयजत् ॥ 4.11.14॥
तस्य च श्लोकोऽद्यापि गीयते ॥ 4.11.15॥
न नूनं कार्तवीर्यस्य गातिं यास्यन्ति पार्थिवाः ।
यज्ञैर्दानैस्तपोभिर्वा प्रश्रयेण श्रुतेन च ॥ 4.11.16॥
अनष्टद्रव्यता च तस्य राज्येऽभवत् ॥ 4.11.17॥
एवं च पञ्चाशीतिवर्षसहस्रण्यव्याहतेरोग्यश्रीबलपराक्रमो राज्यमकरोत् ॥ 4.11.18 ॥
माहिष्मत्यां दिग्विजयाभ्यागतो स्थापितः ॥ 4.11.19॥
यश्च पञ्चाशीतिवर्शसहस्रोपलक्षणकालावसाने भगवन्नारायणांशेन परशुरामेणोपसंहृतः ॥ 4.11.20 ॥
तस्य च पुत्रशतप्रधानाः पञ्चपुत्रा बभूवुः शुरशूरसेनवृषसेनमधुजयध्वजसंज्ञाः ॥ 4.11.21 ॥जयध्वजात्तालजङ्घः पुत्रोभवत् ॥ 22 ॥
तालजङ्घस्य तालजङ्घाख्यं पुत्रशतमासीत् ॥ 4.11.23 ॥
एषां ज्येष्ठे वीतिहोत्रस्तथान्यो भरतः ॥ 4.11.24॥
भरताद्वृषः ॥ 4.11.25॥
वषस्य पुत्रो मधुरभवत् ॥ 4.11.26॥
तस्यापि वृष्णिप्रमुखंपुत्रशतमासीत् ॥ 4.11.27॥
यतो वृष्णिसंज्ञामेतद्गोत्रमवाप ॥ 4.11.28 ॥
मधुसंज्ञाहेतुश्च मधुरभवत् ॥ 4.11.29॥
यादवाश्च यदुनामोपलक्षणादिति ॥ 4.11.30 ॥
इति श्रीविष्णुमहापुराणे चतुर्थांश एकादशोऽध्यायः (11)
श्रीपराशर उवाच [Sage Parasara said]
क्रोष्टोस्तु यदुपुत्रस्यात्मजो ध्वजिनीवान् ॥ 4.12.1 ॥
ततश्च स्वातिः ततो रुशङ्कुः रुशङ्कोश्चित्ररथः ॥ 4.12.2॥
तत्तनयः शशिबिन्दुः चतुर्दशमहारत्नेशश्चक्रवर्त्यभवत् ॥ 4.12.3 ॥
तस्य च शतसहस्रं पत्नी नामभवत् ॥ 4.12.4 ॥
दशलक्षसंख्याश्च पुत्राः ॥ 4.12.5॥
तेषां च पृथुश्रवाः पृथुकर्मा पृथुकीर्तिः पृथुयशाः पृथुजयः पृथुदानः षट्पुत्राः प्रधानाः ॥ 4.12.6॥
पृथुश्रवसश्च पुत्रः पृथुतमः ॥ 4.12.7॥
तस्मादुशना यो वाजिमेधानां शतमाजहार ॥ 4.12.8॥
तस्य च शितपुर्नाम पुत्रोऽभवत् ॥ 4.12.8 ॥
तस्यापि रुक्मकवचस्ततः परवृत् ॥ 4.12.10 ॥
तस्य परावृतो रुक्मेषुपृथुज्यामघवलितहरितसंज्ञास्तस्य पञ्चात्मजा बभूवुः ॥ 4.12.11 ॥
तस्माद्यापि ज्यामघस्य श्लोको गीयते ॥ 4.12.12 ॥
भार्यावश्यास्तु ये केचिद्भविष्यन्त्यथ वा मृताः ।
तेषां तु ज्यामघः श्रेष्ठः शैव्यापतिरभून्नृपः ॥ 4.12.13 ॥
अपुत्रा तस्य सा पत्नी शैव्या नाम तथाप्यसौ ।
अपत्यकामोऽपि भयान्नान्यां भार्यामविन्दत ॥ 4.12.14॥
स त्वेकदा प्रभूतरथतुरगगजसंमर्दातिदारुणे महाहवे युद्ध्यमानःच सकलमेवारिचक्रमजयत् ॥ 4.12.15॥
तच्चारिचक्रमपास्तपुत्रकलत्रबन्धुबलकोशं स्वमधिष्ठानं परित्यज्य दिशः प्रतिविद्रुतम् ॥ 4.12.16॥
तस्मिंश्च विद्रुतेतित्रासलोलायतलोचनयुगलं त्राहित्राहि मां तातांब भ्रतरित्याकुलविलापविधुरं स राजकन्यारत्नमद्राक्षीत् ॥ 4.12.17॥
तद्दर्शनाच्च तस्यामनुरागनुगतान्तरात्मा स नृपोऽचिन्तयत् ॥ 4.12.18 ॥
साध्विदं ममापत्यरहितस्य वन्ध्याभर्तुः सांप्रतं विधिनापत्यकारणं कन्यारत्नमुपपादितम् ॥ 4.12.19॥
तदेतत्समुद्वहामीति ॥ 4.12.20 ॥
अथ वैनां स्यन्दनमारोप्य स्वमधिष्ठानं नयामि ॥ 4.12.21 ॥
तयैव देव्याशैव्ययाहमनुज्ञातःसमुद्वहामीति ॥ 4.12.22 ॥
अथैनां रथमारोप्य स्वनगरमगच्छत् ॥ 4.12.23 ॥
विजयिनं च राजानमशेषपौरभृत्वयरिजनामात्यसमेता शैव्या द्रष्टुमधिष्ठनद्वारमागता ॥ 4.12.24॥
सा चावलोक्य राज्ञः सव्यपार्शववर्त्तिनीं कन्यामीषदुद्भूतामर्षस्फुरदधरपल्लवा राजानमवोचत् ॥ 4.12.25॥
अतिचपलचित्तात्र स्यन्दने केयमारोपितेति ॥ 4.12.26॥
असावप्यनालोचितोत्तरवचनोतिभयात्तामाह स्नुषा ममेयमिति ॥ 4.12.27॥
अथैनं शैव्योवाच ॥ 4.12.28 ॥
नाहं प्रसूता पुत्रेण नान्या पत्न्यभवत्तव ।
स्नुषासंबन्धता ह्योषा कतमेन सुतेन ते ॥ 4.12.29॥
श्रीपराशर उवाच [Sage Parasara said]
इत्यात्मेर्ष्याकोपकलुषितवचनमुषितविवेको भयाद्दुरुक्तापरिहारार्थमिदमवनीपतिराह ॥ 4.12.30 ॥
यस्ते जनिष्यत्यात्मजस्तस्येयमनागतस्यैव भार्या निरूपितेत्याकर्ण्योद्भूतमृदुहासा तथेत्याह ॥ 4.12.31 ॥
प्रविवेश च राज्ञा सहाधिष्ठानम् ॥ 4.12.32 ॥
अनन्तरं चातिशुद्धलग्नहोरांशकावयवोक्तकृतपुत्रजन्मलाभगुणाद्वयसः परिणाममुपगतापि शैव्या स्वल्पैरेवाहोभिर्गर्भमवाप ॥ 4.12.33 ॥
कालेन च कुमारमजीजनत् ॥ 4.12.34॥
तस्य च विदर्भ इति पिता नाम चक्रे ॥ 4.12.35॥
स च तां स्नुषामुपयेमे ॥ 4.12.36॥
तस्यां चासौक्रथकैशिकसंज्ञौ पुत्रावजनयत् ॥ 4.12.37॥
पुनश्च तृतीयं रोमपादसंज्ञं पुत्रमजीजनद्यो नारदादवाप्तज्ञानवान्भविष्यतीति ॥ 4.12.38 ॥
रोमपादाद्बभ्रुः बभ्रोर्धृतिर्ः धृतेः कैशिकः कैशिकस्यापि चेदिः पुत्रोऽभवत्यस्य संततौ चैद्या भूपालाः ॥ 4.12.39॥
क्रथस्य स्नषापुत्रस्यकुन्तिरभवत् ॥ 4.12.40 ॥
कुन्तेर्धृष्टिः धृष्टेर्निधृतिः निधृतेर्दशार्हस्ततश्च व्योमः तस्यापि जीमूतः ततश्च विकृतिः ततश्च भीभरथः तस्मान्नवरथः तस्यापि दशरथः ततश्च शकुनिः तत्तनयः करंभिः करंभेर्देवरातोऽभवत् ॥ 4.12.41 ॥
तस्माद्देवक्षत्रः तस्यापि मधुः मधोः कुमारवंशः कुमारवंशादनुः अनोः पुरुमित्रः पृथिवीपतिरभवत् ॥ 4.12.42 ॥
ततश्चांशुस्तस्माच्च सत्वतः ॥ 4.12.43 ॥
सत्वतादेते सात्वताः ॥ 4.12.44॥
इत्येतां ज्यामघस्य संततिं सम्यक्छ्रद्धासमन्वितः श्रुत्वा पुमान्मैत्रेय स्वपापैः प्रमुच्यते ॥ 4.12.45॥
इति श्रीविष्णुमाहापुराणे चतुर्थांशे द्वादशोऽध्यायः (12)
श्रीपराशर उवाच [Sage Parasara said]
भजनभजमानदिव्यान्धकदेवावृधमहाभोजवृष्णिसंज्ञाःसत्वतस्य पुत्रा बभूवुः ॥ 4.13.1 ॥
भजमानस्य निमिकृकणवृष्मयस्तथान्ये द्वैमात्राः शतजित्सहस्रजिदयुतजित्संज्ञास्त्रयः ॥ 4.13.2॥
देवावृधस्यापि बभ्रुः पुत्रोऽभवत् ॥ 4.13.3 ॥
तयो श्चायं श्लोको गीयते ॥ 4.13.4 ॥
यथैव शृणुमो दू6 आत्संपश्यामस्तथान्तिकात् ।
बभ्रुः श्रोष्ठो मनुष्याणां देवैर्देवावृधःसमः ॥ 4.13.5॥
पुरुषाः षट्च षष्टिश्च सहस्राणि तथाष्ट ये ।
तेऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि ॥ 4.13.6॥
महाभोजस्त्वतिधर्मात्मा तस्यान्वये भोजाः मृत्ति कावरपुरनिवासिनो मार्तिकावरा बभूवुः ॥ 4.13.7॥
वृष्णे सुमित्रो युधाजिच्च पुत्रावभूताम् ॥ 4.13.8॥
ततश्चानमित्रः तथानमित्रान्निघ्नः ॥ 4.13.8 ॥
निघ्नस्य प्रसेन सत्राजितौ ॥ 4.13.10 ॥
तस्य च सत्राजितो भगवानादित्यः सखाभवत् ॥ 4.13.11 ॥
एकदा त्वंभोनिधितीरसंश्रयः सूर्यं सत्राजित्तुष्टाव तन्मनस्कतया च भास्वानभिष्टूयमानोऽग्रतस्तस्थौ ॥ 4.13.12 ॥
ततस्त्वस्पष्टमूर्तिरं चैनमानोक्य सत्राजित्सूर्यमाह ॥ 4.13.13 ॥
यथैव व्योम्नि बह्निपिण्डोपमन्त्वामहमपश्यं तथैवाद्याग्रतो गतमप्यत्र भगवता किञ्चिन्न प्रसादीकृतं विशेषमुपलक्षयामीत्येवमुक्ते भगवता सूर्येण निजकण्ठादुन्मुच्य स्यमन्तकं नाम महामणिवरमवतार्यैकान्ते न्यस्तम् ॥ 4.13.14॥
ततस्तमाताम्रोज्ज्वलं ह्रस्ववपुषमीषदापिङ्गलनयनमादित्यमद्राक्षीत् ॥ 4.13.15॥
कृतप्रणिपातस्तवादिकं च सत्राजितमाह भगवानादित्यःसहस्रदीधितिः वरमस्मत्तोभिमतं वृणीष्वेति ॥ 4.13.16॥
स च तदेव मणिरत्नमयाचत ॥ 4.13.17॥
स चापि तस्मै तद्दत्त्वा दीधितिपतिर्वियति स्वधिष्म्यमारुरोह ॥ 4.13.18 ॥
सत्राजितोऽप्यमलमणिरत्नसनाथकण्ठतया सूर्य इव तेजोभिरशेषदिगन्तराण्युद्भासयन् द्वारकां विवेश ॥ 4.13.19॥
द्वारकावासी जनस्तु तमायान्तमवेक्ष्य भगवन्तमादिपुरुषं पुरुषोत्तममवनिभारावतरणायांशेन मानुषरूपधारिमं प्रणिपत्याह ॥ 4.13.20 ॥
भगवन् भवन्तं द्रष्ट्रं नूनमयमादित्य आयातीत्युक्तो भगवानुवाच ॥ 4.13.21 ॥
भगवान्नायमादित्यः सत्राजितोऽयमादित्यदत्तस्यमन्तकाख्यं महामणिरत्नं बिभ्रदत्रोपयाति ॥ 4.13.22 ॥
तदेनं विस्त्रब्धाः पश्यतेत्युक्तास्ते तथैव ददृशुः ॥ 4.13.23 ॥
स च तं स्यमन्तकमणिमात्मनिवेशने चक्रे ॥ 4.13.24॥
प्रतिदिनं तन्मणिरत्नमष्टौ कनकभारान्स्त्रवति ॥ 4.13.25॥
तत्प्रभावाच्च सकलस्यैव राष्ट्रस्योपसर्गानावृष्टिव्यालाग्नितो यद्दुर्भिक्षादिभयं न भवति ॥ 4.13.26॥
अच्युतोऽपि तद्दिव्यं रत्नमुग्रसेनस्य भूपतेर्योग्यमेतदिति लिप्सां चक्रे ॥ 4.13.27॥गोत्रभेदभयाच्छक्तोपि न जहार ॥ 28 ॥
सत्राजिदप्यच्युतो मामेतद्याचयिष्यतीत्यवगम्य रत्नलोभाद्भ्रात्रे प्रसेनाय तद्रत्नमदात् ॥ 4.13.29॥
तच्च शुचिना ध्रियमाणमशेषमेव सुवर्णस्त्रवादिकं गुणजातमुत्पादयति अन्यथा धारयन्तमेव हन्तीत्यजानन्नसावपि प्रसेनस्तेन कण्ठसक्तेन स्यमन्तकेनाश्वमारुह्याटव्यां मृगयामगच्छत् ॥ 4.13.30 ॥
तत्र च सिंहाद्वधमवाप ॥ 4.13.31 ॥
साश्वं च तं निहत्य सिंहोप्यमलमणिरत्नमास्याग्रेणादांय गन्तुमभ्युद्यतः ऋक्षाधिपतिना जांबवता दृष्टो घातितश्च ॥ 4.13.32 ॥
जांबवानप्यमलमणिरत्नमादाय स्वबिलं प्रविवेश ॥ 4.13.33 ॥
सुकुमारसंज्ञाय बालकाय च क्रीडनकमकरोत् ॥ 4.13.34॥
अनागच्छति तस्मिन्प्रसेने कृष्णो मणिरत्नमभिलषितवान्स च प्राप्तनान्नूनमेतदस्य कर्मेत्यखिल एव यदुलोकः परस्परं कर्माकर्ण्याकथयत् ॥ 4.13.35॥
विदितलोकापवादवृत्तान्तश्च भगवान् सर्वयदुसैन्यपरिवारपरिवृतः प्रसेनाश्वपदवीमनुससार ॥ 4.13.36॥
ददर्श चाश्वसमवेतं प्रसेनं सिंहेन विनिहतम् ॥ 4.13.37॥
अखिलजनमध्ये सिंहपददर्शनकृतपरिशुद्धः सिंहपदमनुससार ॥ 4.13.38 ॥
ऋक्षपतिनिहतं च सिंहमप्यल्पे भूमिभागे दृष्ट्वा ततश्चतद्रत्नगौरवादृक्षस्यापि पदान्यनुययौ ॥ 4.13.39॥
गिरितटे च सकलमेव तद्यदुसैन्यमवस्थाप्य तत्पदानुसारी ऋक्षबिलं प्रविवेश ॥ 4.13.40 ॥
अन्तः प्रविष्टश्च धात्र्याः सुकुमारकमुल्लालयन्त्या वाणीं शुश्राव ॥ 4.13.41 ॥
सिंहः प्रसेनमवधीत्सिंहो जाम्बवता हतः ।
सुकुमारकमा रोदीस्तव ह्येष स्यमन्तकः ॥ 4.13.42 ॥
इत्याकर्ण्योपलब्धस्यमन्तकोन्तःप्रविष्टः कुमारक्रीडनकीकृतं च धात्र्या हस्ते तेजोभिर्जाज्वचल्यमानंस्यमन्तकं ददर्श ॥ 4.13.43 ॥
तं च स्यमन्तकाभिलषितचक्षुषमपूर्वपुरुषमागतं समवेक्ष्य धात्री त्राहित्राहीति व्याजहार ॥ 4.13.44॥
तदार्तरवश्रवणानन्तरं चामर्षूर्णहृदयः स जांबवानाजगाम ॥ 4.13.45॥
तयोश्च परस्परमुद्धतामर्षयोर्युद्धमकविंशतिदिनान्यभवत् ॥ 4.13.46॥
ते च यदुसैनिकास्तत्र मप्ताष्टादिनानि तन्निष्क्रान्तिमुदिक्षमाणास्तस्थुः ॥ 4.13.47॥
अनिष्क्रमणे च मधुरिपुरसाववश्यमत्र बिलेऽत्यन्तं नाशमवाप्तो भविष्यत्यन्यथा तस्य जीवतः कथमेतावन्ति दिनानि शत्रुजये व्याक्षेपो भविष्यतीति कृताध्यवसाया द्वारकामागम्य हतः कृष्ण इति कथयामासुः ॥ 4.13.48 ॥
तद्वान्धवाश्च तत्कालोचितमखिलमुत्तरक्रियाकलापं चक्रुः ॥ 4.13.49॥
ततश्चास्य युद्ध्यमानस्यातिश्रद्धादत्तविशिष्टोपपात्रयुक्तान्नतोयादिना श्रीकृष्णस्य बलप्राणपुष्टचिरभूत् ॥ 4.13.50 ॥
इतरस्यानुदिनमतिगुरुपुरुषभेद्यमानस्य अतिनिष्ठुरप्रहारपातपीजिताखिलावयवस्य निराहारतया बलहानिरभूत् ॥ 4.13.51 ॥
निर्जितश्च भगवता जांबवानप्रणिपत्य व्याजहार ॥ 4.13.52 ॥
सुरासुरगन्धर्वयक्षराक्षलसादिभिरप्यखिलैर्भवान्न जेतुं शक्यः किमुतावनिगोचरैरल्पवीर्यैर्नरेर्नरावयवभूतैश्च तिर्यग्योन्यनुसृतिभिः किं पुनरस्मद्विधैरवश्यं भवतास्मत्स्वामिना रामेणेन नारायणस्य सकलजगत्परायणस्यांशेन भगवता भवितव्यमित्युक्तस्तस्मै भगवानखिलावनिभारावतरणार्थमवतरणमाचचक्षे ॥ 4.13.53 ॥
प्रीत्यभिव्यञ्जितकरतलस्पर्शनेन चैनमपगतयुद्धखेदं चकार ॥ 4.13.54॥
स च प्रणिपत्य पुनरप्येनं प्रसाद्य जांबवतीं नाम कन्यां गृहागतायार्घ्यभूतां ग्राहयामास ॥ 4.13.55॥
स्यमन्तकमणिरत्नमपि प्रणिपत्य तस्मै प्रददौ ॥ 4.13.56॥
अच्युतोप्यतिप्रणतात्तस्मादग्राह्यमपि तन्मणिरत्नमात्मसंशोधनायजग्राह ॥ 4.13.57॥
सह जांबवत्या स द्वारकामाजगाम ॥ 4.13.58 ॥
भगवदागमनोद्भूतहर्षोत्कर्षस्य द्वारकावासिजनस्य कृष्णवलोकनात्तत्क्षणमेवातिपरिणतवयसोऽपि नवयौवनमिवाभवत् ॥ 4.13.59॥
दिष्ट्यादिष्ट्येति सकलयादवाः स्त्रियश्च सभाजयामासुः ॥ 4.13.60 ॥
भगवानपि यथानुभूतमशेषंयादवसमाजे यथावदाच्चक्षे ॥ 4.13.61 ॥
स्यमन्तकं च सत्राजिताय दत्त्वा मिथ्याभिशस्तिपरिशुद्धिमवाप ॥ 4.13.62 ॥
जांबवतीं चान्तःपुरं निवेशयामास ॥ 4.13.63 ॥
सत्राजितोपि मयास्याभूतमलिनमारोपितमिति जातसंत्रासात्स्वसुतां सत्यभामां भगवते भार्यार्थं ददौ ॥ 4.13.64॥
तां चाक्रूरकृतवर्मशतधन्वप्रमुखा यादवाः प्राग्वरयाम्बभूवुः ॥ 4.13.65॥
ततस्तत्प्रदानादवज्ञातमेवात्मानं मन्यमानाः सत्राजिते वैरानुबन्धं चक्रुः ॥ 4.13.66॥
अक्रूरकृतवर्मप्रमुखाश्च शतधन्वानमूचुः ॥ 4.13.67॥
अयमतीव दुरात्मा सत्राजितो योऽस्माभिर्भवता च प्रार्थितोऽप्यात्मजामस्मान् भवन्तं चाविगणय्य कृष्णाय दत्तवान् ॥ 4.13.68 ॥
तदलमनेन जीवता घातयित्वैनं तन्महारत्नं स्यमन्तकाख्यं त्वया किं न गृह्यते वयमभ्युपपत्स्यामो यद्यच्युतस्तवोपरि वैरानुबन्धं करिष्यतीत्येवमुक्तस्तथेत्यसावप्याह ॥ 4.13.69॥
जतुगृहदग्धानां पाण्डुतनयानां विदितपरमार्थोऽपि भगवान् दुर्योधनप्रयत्नशौथिल्यकरणार्थ पार्थानुकूल्यकरणाय वारणावतं गतः ॥ 4.13.70 ॥
गते च तस्मिन् सुप्तमेव सत्राजितं शतधन्वा जघान मणिरत्नं चाददात् ॥ 4.13.71 ॥
पितृवधामर्षपूर्णा च सत्यभामा शीघ्रं स्यन्दनमारूढा वारणावतं गत्वा भगवतेऽहं प्रतिपादितेत्यक्षान्तिमता शतधन्वनास्मत्पिता व्यापादितः तच्च स्यंमन्तकमणिरत्नमपहृतं यस्यावभासनेनापहृततिमिरं त्रैलोक्यं भविष्यति ॥ 4.13.72 ॥
तदीयं त्वदीयापहासना तदालोच्य यदत्र युक्तं तत्क्रियतामिति कृष्णमाह ॥ 4.13.73 ॥
तया चैवमुक्ताः परीतुष्टान्तः करणोऽपि कृष्णः सत्यभामाममर्षताम्रनयनः प्राह ॥ 4.13.74॥
सत्ये ममैवैषापहासना नाहमेतां तस्य दुरात्मनःसहिष्ये ॥ 4.13.75॥
न ह्यनुल्लङ्घ्य परपादपं तत्कृतनीडाश्रयिणो विहङ्गमा वध्यन्ते तदलममुनास्मत्पुरतः सौकप्रोरितवाक्यपरिकरेणेत्युक्त्वा द्वारकामभ्येत्यै कान्ते बलदेवं वासुदेवः प्राह ॥ 4.13.76॥
मृगयागतं प्रसेनमटव्यां मृगपतिर्जघान ॥ 4.13.77॥
सत्राजितोऽप्यधुना शतधन्वना निधनं प्रापितः ॥ 4.13.78 ॥
तदुभयविनाशात्तन्मणिरत्नमावाभ्यां सामान्यं भविष्यति ॥ 4.13.79॥
तदुत्तिष्ठारुह्यतां रथः शतधन्वनिधनायोद्यमं कुर्वित्यभिहितस्तथेति समन्विच्छितवान् ॥ 4.13.80 ॥
कृतोद्यमौ च तावुभावुपलभ्य शतधन्वा कृतवर्माणमुपेत्य पार्ष्णिपूरमकर्मनिमित्तमचोदयत् ॥ 4.13.81 ॥
आह चैनं कृतवर्मा ॥ 4.13.82 ॥
नाहं बलदेववासुदेवाभ्यां सह विरोधायालमित्युक्तश्चाक्रूरमचोदयत् ॥ 4.13.83 ॥
असावप्याह ॥ 4.13.84॥
न हि कश्चिद्भगवता पादप्रहारपरिकंपितजगत्त्रयेण सुररिषुवनितावैधव्यकारिणा प्रबलरिपुचक्राप्रतिहतचक्रेण चक्रिणा मदमुदितनयनावलोकनाखिलनिशातनेनातिगुरुवैरिवारणापकर्षणाविकृतमहिमोरुसीरेण सीरिणा च सह सकलजगद्वन्द्यानाममरवराणामपि योद्धुं समर्थः ॥ 4.13.85॥
किमुताहं तदन्यः शरणमभिलष्यतामित्युक्तः शतधनुराह ॥ 4.13.86॥
यद्यस्मत्परित्राणासमर्थं भवानात्मनमधिगच्छति तदयमस्मत्तस्तावन्मणिः संगृह्य रक्ष्यतामिति ॥ 4.13.87॥
एकमुक्तः सोऽप्याह ॥ 4.13.88 ॥
यद्यन्त्ययामप्यवस्थायां न कस्मैचिद्भवान् कथयिष्यति तदहमेतं ग्रहीष्यामीति ॥ 4.13.89॥
तथेत्युक्ते चाक्रूरस्तन्मणिरत्नं जग्राह ॥ 4.13.90 ॥
शतधनुरप्य तुलवेगां शतयोजनवाहिनींवडवामारुह्यपक्रान्तः ॥ 4.13.91 ॥
शैव्यसुग्रीवम्घपुष्पबलाहकाश्वचतुष्टययुक्तरथस्थितौ बलदेववासुदेवै तमनुप्रयातौ ॥ 4.13.92 ॥
सा च वडवा शतयोजनप्रमाणमार्गमतीता पुनरपि वाह्यमाना मिथिलावनोद्देशे प्राणानुत्ससर्ज ॥ 4.13.93 ॥
शतधनुरपि तां परित्यज्य पदातिरेवाद्रवत् ॥ 4.13.94॥
कृष्णोपि बलभद्रमाह ॥ 4.13.95॥
तावदत्र स्यन्दने भवता स्थेयमहमेनमधमाचारं पदातिरेव पदातिमनुगम्य यावद्धातयामि अत्र हि भूभागे दृष्टदोषाःसभया अतो नैतेश्वा भवतेमं भूमिभागमुल्लङ्घनीयाः ॥ 4.13.96॥
तथेत्युक्त्व बलदेवो रथ एव तस्थौ ॥ 4.13.97॥
कृष्णोपि द्विक्रोशमात्रं भूमिभागमनुसृत्य दूरस्थितस्यैव चक्रं क्षिप्त्वा शतधनुषः शिरश्चिच्छेद ॥ 4.13.98 ॥
तच्छरीरांबरादिषु च बहुप्रकारमन्विच्छन्नपि स्यमन्तकमणिं नावाप पदा तदोपगम्य बलभद्रमाह ॥ 4.13.99॥
वृथैवास्माभिः शतधनुर्घातितः न प्राप्तमशिलजगत्सारभूतं तन्महारत्नं स्यमन्तकाख्यमित्याकर्ण्योद्भूतकोपो बलदेवो वासुदेवमाह ॥ 4.13.100 ॥
धिक्त्वां यस्त्वमेवमर्थलिप्सुरेतच्च ते भ्रातृत्वान्मया क्षान्तं तदयं पन्थाःस्वेच्छया गम्यतां न मे द्वारकया न त्वया न चाशेषबन्धुभिः कार्यमलमलमेभिर्ममाग्रतोऽलीकशपथैरित्याक्षिप्य तत्कथां कथञ्चित्प्रसाद्यमानोपि न तस्थौ ॥ 4.13.101 ॥
स विदेहपुरीं प्रविवेश ॥ 4.13.102 ॥
जनकराजश्चार्घ्यपूर्वकमेनं गृहं प्रवेशयामास ॥ 4.13.103 ॥
स तत्रैव च तस्थौ ॥ 4.13.104॥
वासुदेवोऽपि द्वारकामाजगाम ॥ 4.13.105॥
यावच्च जनकराजगृहे बलभद्रोऽवतस्थे तावद्धार्तराष्ट्रो दुर्योधनस्तत्सकाशाद्गदाशिक्षामशिक्षयत् ॥ 4.13.106॥
वर्षत्रयान्ते च बभ्रूग्रसेनप्रभृतिभिर्यादवैर्न तद्रत्नं कृष्णेनापहृतमिति कृतावगतिभिर्विदेहनगरीं गत्वा बलदेवःसंप्रत्याय्य द्वारकामानीतः ॥ 4.13.107॥
अक्रूरोप्युत्तममणिसमुद्भुतसुवर्णेन भगवद्ध्यानपरोऽनवरतं यज्ञानियाज ॥ 4.13.108 ॥
सवनगतौ हि क्षत्रियवैश्यौ निघ्नन्ब्रह्याहा भवतीत्येवंप्रकारं दीक्षाकवचं प्रविष्टड एव तस्थौ ॥ 4.13.109॥
द्विषष्टिवर्षाण्येव तन्मणिप्रभावात्तत्रोपसर्गदुर्भिक्षमारिकामरणादिकं नाभूत् ॥ 4.13.110 ॥
अथाक्रूरपक्षीयैर्भोजैः शत्रुघ्ने सात्वतस्य प्रपौत्रे व्यापादिते भोजैः सहाक्रूरो द्वारकामपहायापक्रान्तः ॥ 4.13.111 ॥
तदपक्रान्तिदिनादारभ्य तत्रोपसर्गदुर्भिक्षव्यालानावृष्टिमारिकाद्युपद्रवा बभूवुः ॥ 4.13.112 ॥
अथ यादवा बलभद्रोग्रसेनसमवेता मन्त्रममन्त्रयन् ॥ 4.13.113 ॥
भगवानुरगारिकेतनः किमिदमेकदैव प्रचुरोपद्रवागमनमेतदालोच्यतामित्युक्तेन्धकनामा यदुवृद्धः प्राह ॥ 4.13.114॥
अस्याक्रूरस्य पितृश्वफल्को यत्र यत्राभूत्तत्रतत्र दुर्भिक्षमारिकानावृष्ट्यादिकं नाभूत् ॥ 4.13.115॥
काशीराजस्य विषये त्वनावृष्ट्या च श्वफल्को नीतः ततश्च तत्क्षणाद्देवो ववर्ष ॥ 4.13.116॥
काशीराजपत्न्याश्च गर्भे कन्यारत्नं पूर्वमासीत् ॥ 4.13.117॥
सा च कन्या पूर्णेपि प्रसूतिकाले नैव निश्चक्राम ॥ 4.13.118 ॥
एवं च तस्य गर्भस्य द्वादशवर्शण्यनिष्क्रामतो ययुः ॥ 4.13.119॥
काशीराजश्च तामात्मजां गर्भस्थामाह ॥ 4.13.120 ॥
पुत्रि कस्मान्न जायसे निष्क्रम्य तामास्यं ते द्रष्टुमिच्छामि एतां च मातरं किमितिचिरं क्लेशयिष्यसीत्युक्ता गर्भस्थैव व्याजहार ॥ 4.13.121 ॥
तात यद्येकैकां गां दिनेदिने ब्राह्मणाय प्रयच्छसि तदहमन्यैस्त्रिभिर्वर्षैरस्माद्गर्भात्ततोऽवश्यं निष्क्रमिष्यामीत्येद्वचनमाकर्ण्य राजा दिनेदिने ब्राह्मणाय गां प्रादात् ॥ 4.13.122 ॥
सापि तावता कालेन जाता ॥ 4.13.123 ॥
ततस्तस्याः पिता गान्दिनीति नाम चकार ॥ 4.13.124॥
तां च गान्दिनीं कन्यां श्फलकायोपकारिणे गृहमागतायार्घ्य भूतां प्रादात् ॥ 4.13.125॥
तस्यामयमक्रूरः श्वफलकाज्जज्ञे ॥ 4.13.126॥
तस्यैवङ्गुणमिथुनादुत्पत्तिः ॥ 4.13.127॥
तत्कथमस्मिन्नपक्रान्ते अत्र दुर्भिक्षमारिकाद्युपद्रवा न भविष्यन्ति ॥ 4.13.128 ॥
तदयमात्रानीयतामलमतिगुणवत्यपराधान्वेषणेनेति यदुवृद्धस्यान्धकस्यैतद्वचनमाकर्म्य केशवोग्रसेनबलभद्रपुरोगमैर्यदुभिः कृतापराधतितिक्षुभिरभयं दत्त्वा श्वफलकपुत्रःश्वपुमानीतः ॥ 4.13.129॥
तत्र चागतमात्र एव तस्य स्यमन्तकमणेः प्रभावादनावृष्टिमारिकादुर्भिक्षव्यालाद्युपद्रवोपशमा बभूवुः ॥ 4.13.130 ॥
कृष्णश्चिन्तयामास ॥ 4.13.131 ॥
स्वल्पमेतत्कारणं यदयं गान्दिन्यां श्वफलकेनाक्रूरो जनितः ॥ 4.13.132 ॥
सुमहांश्चायमनावृष्टिदुर्भिक्षमारिकाद्युपद्रवाप्रतिषेधकारी प्रभावः ॥ 4.13.133 ॥
तन्नृन मस्य सराशे स महामणिः स्यमन्तकाख्यस्तिष्ठति ॥ 4.13.134॥
तस्य ह्योवंविधाः प्रभावाः श्रुयन्ते ॥ 4.13.135॥
अयमपि च यज्ञादनन्तरमन्यत्क्रत्वन्तरं तस्यानन्तरमन्यद्यज्ञान्तरं चाजस्त्रमविच्छिन्नं यजतीति ॥ 4.13.136॥
अनल्पोपादानं चास्यासंशयमत्रऽसौ मणिवरस्तिष्ठितीति कृताध्यवसायोऽन्यत्प्रयोजनमुद्दिश्य सकलयादवसमाजमात्मगृह एवाचीकरत् ॥ 4.13.137॥
तत्र चोपविष्टोष्वखिलेषु यदुषु पूर्वं प्रयोजनमुपन्यस्य पर्यवसिते च तस्मिन् प्रसंगान्तरपरिहासकथामक्रूरेण कृत्वा जनार्दनस्तमक्रूरमाह ॥ 4.13.138 ॥
दानपते जानीम एव वय यथा शतधन्वना तदिदमखिलजगत्सारभूतं स्यमन्तकं रत्नं भवतः तदशेषराष्ट्रोपकरकं भवत्सकाशे तिष्ठति तिष्ठतु सर्व एव वयं तत्प्रभावफलभुजः किं त्वेष बलभद्रोऽस्मानाशङ्कितवांश्तदस्मत्प्रीतये दर्शयस्वेत्यभिदाय जोषं स्थिते भगवति वासुदेवे सरत्नःसोचिन्तयत् ॥ 4.13.139॥
किमत्रानुष्ठेयमन्यथा चेद्ब्रवीम्यहं तत्केवलांबरतिरोधानमन्विष्यन्तो रत्नमेते द्रक्ष्यन्ति अतिविरोधो न क्षम इति संचिन्त्य तमखिलजगत्कारणभूतं नारायणमाहक्रूरः ॥ 4.13.140 ॥
भगवन्ममैतत्स्यमन्तकरत्नं सतधनुषा समर्पितमपगते च तस्मिन्नद्य श्वः परश्वो वा भगवान् याचयिष्यतीति कृतमतिरतिकृच्छ्रेणैतावन्तं कालमधारयम् ॥ 4.13.141 ॥
तस्य च धारणशेक्लेनाहमशेषोपभोगेष्वसंगिमानसो न वेद्भिस्वसुखकलामपि ॥ 4.13.142 ॥
एतावन्मात्रमप्यशेषराष्ट्रोपकारी धारयितुं न शक्नोति भवान्मन्यत इत्यात्मना न चोदितवान् ॥ 4.13.143 ॥
तदीदं स्यमन्तकरत्नं गृह्यतामिच्छया यस्याभिमतं तस्य समर्प्यताम् ॥ 4.13.144॥
ततः स्वोदरवस्त्रनिगोपितमतिसघुकनकसमुद्गकगतं प्रकटीकृतवान् ॥ 4.13.145॥
ततश्च निष्क्राम्य स्यमन्तकमणिं तस्मिन्यदुकुलसमाजे मुमोच ॥ 4.13.146॥
मुक्तमात्रे च तस्मिन्नतिकान्त्या तदखिलमास्थानमुद्योतितम् ॥ 4.13.147॥
अथाहाक्रुरः स एष मणिः शतधन्वनास्माकं समर्पितः यस्यायं स एनं गृह्णातु इति ॥ 4.13.148 ॥
तमालोक्यसर्वयादवानां साधुसाध्विति विस्मितमनसां वाचोऽश्रूयन्त ॥ 4.13.149॥
तमालोक्यातीव बलभद्रो ममायमच्युतेनैव सामान्यःसमन्विच्छित इति कृतस्पृहोऽभूत् ॥ 4.13.150 ॥
ममैवायं पितृधनमित्यतीव च सत्यभामापि स्पृहयाञ्चकार ॥ 4.13.151 ॥
बलसत्यावलोकनात्कृष्णोप्यात्मानं गोचक्रान्तरावस्थितमिवमेने ॥ 4.13.152 ॥
सकलयादवसमक्षं चाक्रूरमाह ॥ 4.13.153 ॥
एतद्धि मणिरत्नमात्मसंसोधनाय एतेषां यदूनां मया दर्शितमेतच्च मम बलभद्रस्य च सामान्यं पितृधनं चैतत्सत्यभामाया नान्यस्यैतत् ॥ 4.13.154॥
एतच्च सर्वकालं शुचिना ब्रह्मचर्यादिगुणवता ध्रियमाममशेषराष्ट्रस्योपकारकमशुचिना ध्रयमाणमाधारमेव हन्ति ॥ 4.13.155॥
अतोहमस्य षोडशस्त्रीसहस्रपरिग्रहादसमर्थो धारणे कथमेतत्सत्यबामा स्वीकरोति ॥ 4.13.156॥
आर्बलभद्रेणापि मदिरापानाद्यशेषोपभोगपरित्यागः कर्यः ॥ 4.13.157॥
तदलं यदुलोकोयं बलभद्रः अहं च सत्या च त्वां दानपते प्रार्थयामः ॥ 4.13.158 ॥
तद्भवानेव धारयितुं समर्थः ॥ 4.13.159॥
त्वद्धृतं चास्य राष्ट्रस्योपकारकं तद्भवानशेषराष्ट्रनिमित्तमेतत्पूर्ववद्धारयत्वन्यन्न वक्तव्यमित्युक्तो दानपतिस्तथेत्याह जग्राह च तन्महारत्नम् ॥ 4.13.160 ॥
ततःप्रभृत्यक्रूरः प्रकटेनैव तेनातिजाज्ज्वल्यम्नेनात्मकण्ठावसक्तेनादित्य इवांशुमाली चचार ॥ 4.13.161 ॥
इत्येतद्भगवतो मिथ्याभिशस्तिक्षालनं यः स्मरति न तस्य कदाचिदल्पापि मिथ्याभिशस्तिर्भवति अव्याहताशिलेन्द्रियश्चाखिलपापमोक्षमवाप्नोति ॥ 4.13.162 ॥
इति श्रीविष्णुमहापुराणे चतुर्थांशे त्रयोदशोऽध्यायः (13)
श्रीपराशर उवाच [Sage Parasara said]
अनमित्रस्य पुत्रः शिनिर्नामाभवत् ॥ 4.14.1 ॥
तस्यापि सत्यकः सत्यकात्सात्यकिर्युयुधानापरनामा ॥ 4.14.2॥
तस्मादपि संजयः तत्पुत्रश्च कुणिः कुणेर्युगन्धरः ॥ 4.14.3 ॥
इत्येते शैनेयाः ॥ 4.14.4 ॥
अनमित्रस्यान्वये वृष्णिः तस्मात्श्चफल्कः तत्प्रभावः काथेन एव ॥ 4.14.5॥
श्वफल्कस्यान्यः कनीयांश्चित्रकोनाम भ्राता ॥ 4.14.6॥
श्वफल्कादक्रूरो गान्दिन्यामभवत् ॥ 4.14.7॥
तथोपमद्गः ॥ 4.14.8॥
उपमद्गोर्मृदामृदविश्वारिमेजयगिरिक्षत्रोपक्षत्रशतघ्नारिमर्दनधर्मदृग्दृष्टधर्मगन्धमोजवाहप्रतिवाहाख्याः पुत्राःसुताराख्या कन्या च ॥ 4.14.8 ॥
देववानुपदेवश्चाक्रूरपुत्रौ ॥ 4.14.10 ॥
पृथुविवृथुप्रमुखाश्चित्रकस्य पुत्रा बहवो बभूवुः ॥ 4.14.11 ॥
कुकुरभजमानशुचिकंबलबर्हिषाख्यास्तथान्धकस्य चत्वारः पुत्राः ॥ 4.14.12 ॥
कुकुराद्धृष्टः तस्माच्च कपोतरोमा ततश्च विलोमा तस्मादपि तुंबुरसखोऽभवदनुसंज्ञश्च ॥ 4.14.13 ॥
अनोरानकदुन्दभिः ततश्चा भिजितभिजितः पुनर्वसुः ॥ 4.14.14॥
तस्याप्याहुकः आहुकी च कन्या ॥ 4.14.15॥
आहुकस्य देवकोग्रसेनौ द्वौ पुत्रौ ॥ 4.14.16॥
देववानुपदेवः सहदेवो देवरक्षिता च देवकस्य चत्वारः पुत्राः ॥ 4.14.17॥
तेषां वृकदेवोपदेवा देवरक्षिता श्रीदेवा शान्तिदेवा सहदेवा देवकी च सप्तभगिन्यः ॥ 4.14.18 ॥
ताश्च सर्वा वसुदेव उपयेमे ॥ 4.14.19॥
उग्रसेनस्यापि कंसन्यग्रोधसुनामानकाह्वशङ्कुसुभूमिराष्ट्रपालयुद्धतुष्टिसुतुष्टिंमत्संज्ञाः पुत्रा बभूवुः ॥ 4.14.20 ॥
कंसाकंसवतीसुतनूराष्ट्रपलिकाह्वाश्चोग्रसेनस्य तनूजाः कन्याः ॥ 4.14.21 ॥
भजमानाच्च विदूरथः पुत्रोऽभवत् ॥ 4.14.22 ॥
विदूरथाच्छूरः शुराच्छमी शमिनः प्रतिक्षत्रः तस्मात्स्वयंभोजः ततश्च हृदिकः ॥ 4.14.23 ॥
तस्यापि कृतवर्मशतधनुर्दवार्हदेवगर्भाद्याः पुत्रा बभूवुः ॥ 4.14.24॥
देवगर्भस्यापि शुरः ॥ 4.14.25॥
शुरस्यापि मारीषा नाम पत्न्यभवत् ॥ 4.14.26॥
तस्यां चासौ दशपुत्रानजनयद्वसुदेवरूर्वान् ॥ 4.14.27॥
वसुदेवस्य जातमात्रस्यैव तद्गृहे भगवदंशावतारमव्याहतदृष्ट्या पश्यद्भिर्देवैर्दिव्यानकदुन्दुभयो वादिताः ॥ 4.14.28 ॥
ततश्चसावानकदुन्दुभिसंज्ञामवाप ॥ 4.14.29॥
तस्य च देवभागदेवश्रवाष्टकककुच्चक्रवत्सधारकसृंजयश्यामशमिकगञ्जूषसंज्ञा नव भ्रतरोऽभवन् ॥ 4.14.30 ॥
पृथा श्रुतदेवा श्रुत कीर्तिः श्रुतश्रवा राजाधिदेवी च वसुदेदादीनां पञ्च भगिन्योऽभवन् ॥ 4.14.31 ॥
शुरस्य कुन्तिर्नाम सखाभवत् ॥ 4.14.32 ॥
तस्मै चापुत्राय पृथामात्मजां विधिना शुरो दत्तवान् ॥ 4.14.33 ॥
तां च पाण्डुरुवाह ॥ 4.14.34॥
तस्यां च धर्मानिलेन्द्रैर्युधिष्ठरभीमसेनार्जुनाख्यास्त्रयः पुत्राःसमुत्पादिताः ॥ 4.14.35॥
पूर्वमेवानूढायाश्च भगवता भास्वता कानीनः कर्णो नाम पुत्रोऽजन्यत ॥ 4.14.36॥
तस्याश्च सपत्नी माद्री नामाभूत् ॥ 4.14.37॥
तस्यां च नासत्यदस्त्राभ्यां नकुलसहदेवौ पाण्डोः पुत्रौ जनितौ ॥ 4.14.38 ॥
श्रुतदेवां तु वृद्धधर्मा नाम कारूश उवयेमे ॥ 4.14.39॥
तस्याञ्च च दन्तवक्रो नाम महासुरो जज्ञे ॥ 4.14.40 ॥
श्रुतकीर्तिमपि केकयराजा उपयेमे ॥ 4.14.41 ॥
तस्यां च संतर्दनादयः कैकेयाः पञ्च पुत्रा बभूवुः ॥ 4.14.42 ॥
राजाधिदेव्यमावन्त्यौ विन्दानुविन्दौ जज्ञाते ॥ 4.14.43 ॥
श्रुतश्रवसमपि चेदिराजो दमघोषनामोपयेमे ॥ 4.14.44॥
तस्यां च शिशुपालमुत्पादयामास ॥ 4.14.45॥
स वा पूर्वमप्युदारविक्रमो दैत्यानामादिपुरुषो हिरण्यकशिपुरभवत् ॥ 4.14.46॥
यश्च भगवता सकललोकगुरुणा नारसिंहेन घातितः ॥ 4.14.47॥
पुनरपि अक्षयवीर्यशौर्यसंपत्पराक्रमगुणःसमाक्रान्तसकलत्रैलोकेश्वरप्रभावो दशाननो नामाभूत् ॥ 4.14.48 ॥
बहुकालोपभुक्तभगवत्सकाशावाप्तशरीरपातोद्भवपुण्यफलो भगवता राघवरूपिणा सोऽपि निधनमुपपादितः ॥ 4.14.49॥
पुनश्चेदिराजस्य दमघोषस्यात्मजः शिशु पालनामाभवत् ॥ 4.14.50 ॥
शिशुपालत्वेपि भगवतो भूभारावतारणायावतीर्णांशस्य पुण्डरीकनयनाख्यस्योपरि द्वेषानुबन्धमतितराञ्चकार ॥ 4.14.51 ॥
भगवता च स निधनमुपानीतस्तत्रैव परमात्मभूते मनस एकाग्रतया सायुज्यमवाप ॥ 4.14.52 ॥
भगवान् यदि प्रसन्नो यथाभिलषितं ददाति तथा अग्रसन्नोपि निघ्नन् दिव्यमनुपमं स्थानं प्रयच्छति ॥ 4.14.53 ॥
इति श्रिविष्णुमहापुराणे चतुर्थांशे चतुर्दशोऽध्यायः (14)
मैत्रेय उवाच
हिरण्यकशिपुत्वे च रावणत्वे च विष्णुना ।
अवाप निहतो भोगानप्राप्यानमरैरपि ॥ 4.15.1 ॥
न लयं तत्र तेनैव निहतः स कथं पुनः ।
संप्राप्तः शिशुपालत्वे सायुज्यं शाश्वते हरौ ॥ 4.15.2॥
एतदिच्छाम्यहं श्रोतुं सर्वधर्मभृत्तां वर ।
कौतूहलपरेणैतत्पृष्टो मे वक्तुमर्हसि ॥ 4.15.3 ॥
श्रीपराशर उवाच [Sage Parasara said]
दैत्येश्वरस्य वधायाशिललोकोत्पत्तिस्थितिविनाशकारिणा पूर्वं तनुग्रहणं कुर्वता नृसिंह रूपमाविष्कृतम् ॥ 4.15.4 ॥
तत्र च हिरण्यकशिपोर्विष्णुरयमित्येतन्न मनस्यभूत् ॥ 4.15.5॥
निरतिशयपुण्यसमुद्भूतमेतत्सत्त्वाजातमिति ॥ 4.15.6॥
रजोद्रेकप्रेरितैकाग्रमतिस्तद्भावनायोगात्ततोवाप्तवधहैतुकीं निरतिशयामेवाखिलत्रैलोक्यकारीणीं दशाननत्वे भोगसंपदमवाप ॥ 4.15.7॥
न तु स तस्मिन्ननादिनिधने परब्रह्मभूते भगवत्यनालंबिनि कृते मनसस्तल्लयमवाप ॥ 4.15.8॥
एवं दशाननत्वेप्यनङ्गपराधीनतया जानकीसमासक्तचेतसा भगवता दाशरथि रूपधारिणा हतस्य तद्रूपदर्शनमेवासीत्नायमच्युत इत्यासक्तिर्विपद्यतोन्तःकरणे मानुषबुद्धिरेव केवलमस्याभूत् ॥ 4.15.8 ॥
पुनरप्यच्युतविनिपातमात्रफलमखिलभूमण्डलश्लाघ्यचेदिराजकुले जन्म अव्याहतैश्वर्यं शिशुपालत्वेप्यवाप ॥ 4.15.10 ॥
तत्र त्वखिलानामेव स भगवन्नाम्नां त्वङ्कारकारणमभवत् ॥ 4.15.11 ॥
ततश्च तत्कालकृतानां तेषामशेषणामेवाच्युतनाम्नामनवरतमनेकजन्मसु वर्धितविद्वेषानुबन्धिचित्तो विनिन्दनसंतर्जनादिषूच्चारणमकरोत् ॥ 4.15.12 ॥
तच्च रूपमुत्फुल्लपद्मदलामलाक्षिमत्युज्ज्वलपीतवस्त्रधार्यमलकिरिटकेयूरहारकटकादिशोभितमुदारचतुर्बाहुशङ्खचक्रगदाधरमतिप्ररूढवैरानुभावादटनभोजनस्नानासनशयनादिष्वशेषावस्थान्तरेषु नान्यत्रोपययावस्य चेतसः ॥ 4.15.13 ॥
ततस्तमेवाक्रोशेषूच्चारयंस्तमेव हृदयेन धारयन्नात्मवधाय यावद्भगवद्धस्तचक्रांशुमालोज्ज्वालमक्षयतेजःस्वरूपं ब्रह्मभूतमपगतद्वेषादिदोषं भगवन्तमद्राक्षीत् ॥ 4.15.14॥
तावच्च भगवच्चक्रेणाशु व्यापादितस्तत्स्मरणदग्धाखिलाघसंचयो भगवतान्तमुपनीतस्ततस्मिन्नेव लयमुपययौ ॥ 4.15.15॥
एतत्तवाखिलंमयाभिहितम् ॥ 4.15.16॥
अयं हि भगवान् कीर्तितश्च संस्मृतश्च द्वेषानुबन्धेनापि अखिलमुरासुरादिर्दुल्लभं फलं प्रयच्छति किमुत सम्यग्भक्तिमत्मिति ॥ 4.15.17॥
वसुदेवस्य त्वानकदुन्दुभेः पौरवीरोहिणीमदिराभद्रादेवकीप्रमुखा बह्व्यः पत्न्योऽभवन् ॥ 4.15.18 ॥
बलभद्रशठसारणदुर्मदादीन्पुत्रार्त्नोहिण्यानकदुन्दुभिरुत्पादयामास ॥ 4.15.19॥
बलदेवोपि रेवत्यां विशठोल्मुकौ पुत्रावजनयत् ॥ 4.15.20 ॥
सार्ष्टिमार्ष्टिशिशुसत्यसत्यधृतिप्रमुखाः सारणात्मजाः ॥ 4.15.21 ॥
भद्राश्वभद्रबाहुदुर्दमभूताद्याः रोहिण्याः कुलजाः ॥ 4.15.22 ॥
नन्दोपनन्दकृतकाद्य मदिरायास्तनयाः ॥ 4.15.23 ॥
भद्रायाश्चोपनिधिगदाद्याः ॥ 4.15.24॥
वैशाल्यां च कौशिकमेकमेवाजनयत् ॥ 4.15.25॥
आनकदुन्दुभेर्दवक्यामपि कीर्तिमत्सुषेणोदायुभद्रसेनऋजदासभद्रदेवाख्याः षट्पुत्रा जज्ञिरे ॥ 4.15.26॥
तांश्च सर्वानेव कंसोघातितवान् ॥ 4.15.27॥
अनन्तरं च सप्तमं गर्भमर्धरात्रे भगवत्प्रहितायोगनिद्रा रोहिण्या जठरमाकृष्य नीतवती ॥ 4.15.28 ॥
कर्षणाच्चासावपि संकर्षणाख्यामगमत् ॥ 4.15.29॥
ततश्च सकलजगन्महातरुमूलभूतोभूतभविष्यदादिसकलमुरासुरमुनिजनमनसामप्यगोचरोऽब्जभवप्रमुखैरनलमुखैः प्रणम्यावनिभारहरणाय प्रसादितो भगवाननादिमध्यनिधनोदेवकीगर्भमवततार वासुदेवः ॥ 4.15.30 ॥
तत्प्रसादविवद्धमानोरुमहिमा च योगनिद्रा नन्दगोपपत्न्या यशोदाया गर्भमधितिष्ठितवती ॥ 4.15.31 ॥
सुप्रसन्नादित्यचन्द्रादिग्रहमव्यालादिभयं स्वस्थमानसमखिलमेवैतज्जगदपास्ताधर्ममभवत्त्स्मिश्च पुण्डरीकनयने जायमाने ॥ 4.15.32 ॥
जातेन च तेनाखिलमेवैतत्सन्मार्गवर्ति जगदक्रियत ॥ 4.15.33 ॥
भगवतोप्यत्र मर्त्यलोकेऽवतीर्णस्य षोडशसहस्राण्येकोत्तरशताधिकानि भार्याणाम भवन् ॥ 4.15.34॥
तासां च रुक्मिणी सत्यभामा जांबवती चारुहासिनीप्रमुखा ह्यष्टौ पत्न्यः प्रधाना बभूचवुः ॥ 4.15.35॥
तासु चाष्टावयुतानिलक्षं च पुत्राणां भगवानखिलमूर्तिरनादिमानजनयत् ॥ 4.15.36॥
तेषां च प्रद्युम्नचारुदेष्ण्यसांबादयः त्रयोदश प्रधानाः ॥ 4.15.37॥
प्रद्युम्नोपि रुक्मिणस्तनयां रुक्मवतीं नामोपयेमे ॥ 4.15.38 ॥
तस्यामनिरुद्धो जज्ञे ॥ 4.15.39॥
अनिरुद्धोऽपि रुक्मिणा एव पौत्रीं सुभद्रां नामो पयेमे ॥ 4.15.40 ॥
तस्यामस्य वज्रो जज्ञे ॥ 4.15.41 ॥
वज्रस्य प्रतिबाहुः तस्यापि सुचारुः ॥ 4.15.42 ॥
एवमनेकशतसहस्6 उषसंख्यस्य यदुकुलस्य पुत्रसंख्या वर्षशतैरपि वक्तुं न शक्यते ॥ 4.15.43 ॥
यतो हि श्लोकाविमावत्र चरितार्थौ ॥ 4.15.44॥
तिस्त्रः कोट्यःसहस्राणामष्टाशीति शतानि च ।
कुमाराणां कृहाचार्याश्चापयोगेषु ये रताः ॥ 4.15.45॥
संख्यानं यादवानां कः करिष्यति महात्मनाम् ।
यत्रायुतानामयुतलक्षेणास्ते सदाहुकः ॥ 4.15.46॥
देवासुरे हता ये तु दैतेयाःसुमहाबलाः ।
उत्पन्नास्ते मनुष्येषु प्रमाणे च प्रभुत्वे च व्यवस्थितः ।
निदेशस्थायिनस्तस्य ववृधुःसर्वयादवाः ॥ 4.15.49॥
इति प्रसूतिं वृष्णीनां यश्र्शृणोति नरः सदा ।
स सर्वैः पातकैर्मुक्तो विष्णुलोकं प्रपद्यते ॥ 4.15.50 ॥
इति श्रीविष्णुमहापुराणे चतुर्थांशे पञ्चदशोऽध्यायः (15)
श्रीपराशर उवाच [Sage Parasara said]
इत्येष समासतस्ते यदोर्वंशः कथितः ॥ 4.16.1 ॥
अथ दुर्वसोर्वशमवधारय ॥ 4.16.2॥
दुर्वसोर्वह्निरात्मजः बह्नेर्भार्गः भार्गाद्भानुः ततश्च त्रयीसानुः तस्माच्च करन्दमः तस्यापि मरुत्तः ॥ 4.16.3 ॥
सोनपत्योभवत् ॥ 4.16.4 ॥
ततश्च पौरवं दुष्यन्तं पुत्रमकल्पयत् ॥ 4.16.5॥
एवं ययातिशापात्तद्वंशः पौरवमेव वंशं समाश्रितवान् ॥ 4.16.6॥
इति श्रीविष्णुमहापुरामे चुतुर्थांशे षोडशोऽध्यायः (16)
श्रीपराशर उवाच [Sage Parasara said]
द्रुह्योस्तु तनयो बभ्रुः ॥ 4.17.1 ॥
बभ्रोःसेतुः ॥ 4.17.2॥
सेतुपुत्र आरब्धनामा ॥ 4.17.3 ॥
आरब्धस्यात्मजो गान्धारः गान्धारस्य धर्मः धर्मात्घृतः घृतात्दुर्दमः ततः प्रचेताः ॥ 4.17.4 ॥
प्रचेतसः पुत्रः शतधर्मः बहुलानां म्लेछानामुदीच्यानामाधिपत्यमकरोत् ॥ 4.17.5॥
इति विष्णुमहापुराणे चतुर्थांशे सप्तदशोऽध्यायः (17)
श्रीपराशर उवाच [Sage Parasara said]
ययालेश्चातुर्थपुत्रस्यानोःसभानलचक्षुः परमेषुसंज्ञास्त्रयः पुत्रा बभूवुः ॥ 4.18.1 ॥सभानलपुत्रः कालानलः ॥ 2॥
कालानलात्सृंजयः ॥ 4.18.3 ॥
सृंजयात्पुरञ्जयः ॥ 4.18.4 ॥
पुरञ्जयाज्जनमेजयः ॥ 4.18.5॥
तस्मान्महाशालः ॥ 4.18.6॥
तस्माच्च महामनाः ॥ 4.18.7॥
तस्मादुशीनरतितीक्षू द्वौ पुत्रावुत्पन्नौ ॥ 4.18.8॥
उशीनरस्यापि शिबिनृगनवकृमि वर्माख्याः पञ्च पुत्रा बभूवुः ॥ 4.18.8 ॥
पृषदर्भसुवीरकेकयमद्रकाश्चत्वारशिशबिपुत्राः ॥ 4.18.10 ॥
तितीक्षोरपि रुशद्रथः पुत्रोऽभूत् ॥ 4.18.11 ॥
तस्यापि हेमः हेमस्यापि सुतपाः सुतपसश्च बलिः ॥ 4.18.12 ॥
यस्य क्षेत्रे दीर्घतमसांगवङ्गकलिङ्गसुह्यपैण्ड्राख्यं वालेयं क्षत्रमजन्यत ॥ 4.18.13 ॥
तन्नामसंतसतिसंज्ञाश्च पञ्चविषयाः बभूवुः ॥ 4.18.14॥
अङ्गादनपानस्ततो दिविरथस्तस्माद्धर्मरथः ॥ 4.18.15॥
ततश्चित्ररथः रोमपादसंज्ञः ॥ 4.18.16॥
यस्य दशरथो मित्रं जज्ञे ॥ 4.18.17॥
यस्याजपुत्रो दशरथः शान्तां नाम कन्यामनपत्यस्यदुहितृत्वे युयोज ॥ 4.18.18 ॥
रोमपादाच्चतुरङ्गः तस्मात्पृथुलाक्षः ॥ 4.18.19॥
ततश्चंपः यश्चंपां निवेशायामास ॥ 4.18.20 ॥
चंपस्य हर्यङ्गो नामात्मजोऽभूत् ॥ 4.18.21 ॥
हर्यङ्गाद्भद्ररथः भद्ररथाद्बृहद्रथः बृहद्रथाद्बृहत्कर्मा बृहत्कर्मणश्च वृहद्भानुस्तस्माच्च बृहन्मनाः बृहन्मनसो जयद्रथः ॥ 4.18.22 ॥
जयद्रथो ब्रहमक्षत्रान्तरालसंभूत्यां पत्न्यां विजयं नाम पुत्रमजीजनत् ॥ 4.18.23 ॥
विजयश्च धृतिं पुत्रमवाप ॥ 4.18.24॥
तस्यापि धृतव्रतः पुत्रोऽभूत् ॥ 4.18.25॥
धृतव्रतात्सत्यकर्मा ॥ 4.18.26॥
सत्यकर्मणस्त्वतिरथः ॥ 4.18.27॥
यो गङ्गाङ्गतो मञ्जूषागतं पृथापविद्धं कर्णं पुत्रमवाप ॥ 4.18.28 ॥
कर्णाद्वृषसेनः इत्येतदन्ता अङ्गवंश्याः ॥ 4.18.29॥
अतश्च पुरुवंशं श्रोतुमर्हसि ॥ 4.18.30 ॥
इति श्रीविष्णुमहापुराणे चतुर्थांशेऽष्टादशोऽध्यायः (18)
श्रीपराशर उवाच [Sage Parasara said]
पूरोर्जनमेजयस्तस्यापि प्रचिन्वान् प्रचिन्वतः प्रवीरः प्रवीरान्मनस्युर्मनस्योश्चाभयदः तस्यापि सुद्युःसुद्योर्बहुगतः तस्यापि संयातिःसंयातेरहंयातिः ततो रौद्राश्वः ॥ 4.19.1 ॥
ऋतेषुकक्षेषुस्थण्डिलेषुकृतेषुजलेषुधर्मेधृतेषुस्थलेषुसन्नतेषुनामानो रौद्राश्वस्य दश पुत्रा बभूवुः ॥ 4.19.2॥
ऋतेषोरन्तिनारः पुत्रोऽभूत् ॥ 4.19.3 ॥
सुमतिमप्रतिरथं ध्रुवं चाप्यन्तिनारः पुत्रानवाप ॥ 4.19.4 ॥
अप्रतिरषस्य कण्वः पुत्रोऽभूत् ॥ 4.19.5॥
तस्यापि मेधातिथिः ॥ 4.19.6॥
यतः कण्वायना द्विजा बभूवुः ॥ 4.19.7॥
अप्रतिरथस्यापरः पुत्रोऽभूदैलीनः ॥ 4.19.8॥
एलीनस्य दुष्यन्ताद्याश्चत्वारः पुत्रा बभूवुः ॥ 4.19.8 ॥
दुष्यन्ताच्चक्रवर्ती भरतोऽभूत् ॥ 4.19.10 ॥
यन्नामहेतुर्देवैः श्लेको गीयते ॥ 4.19.11 ॥
माता भस्त्र पितुः पुत्रो येन जातः स एव सः ।
भरस्व पुत्रं दुष्यन्तमावमंस्थाः शकुन्तलाम् ॥ 4.19.12 ॥
रेतोधाः पुत्रो नयति नरदेव यमक्षयात् ।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ 4.19.13 ॥
भरतस्य पत्नित्रये नव पुत्रा बभूवुः ॥ 4.19.14॥
नैते ममानुरूपा इत्यभिहितास्तन्मातरः परित्यागभयात्तत्पुत्राञ्जघ्नुः ॥ 4.19.15॥
ततोस्य वितथे पुत्रजन्मनि पुत्रार्थिनो मरुत्सोमयाजिनो दीर्घतमसः पार्ष्ण्यपास्तद्वृहस्पतिवीर्यादुतथ्यपत्न्यां ममतायां समुत्पन्नो भरद्वाजाख्यः पुत्रो मरुद्भिर्दत्तः ॥ 4.19.16॥
तस्यापि नामनिर्वचनश्लोकः पठ्यते ॥ 4.19.17॥
मूढे भर द्वाजमिमं भरद्वाजं बृहस्पते । यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् ॥ 4.19.17॥
भरद्वाजःस तस्य वितथे पुत्रजन्मनि मरुद्भिर्दत्तः ततो वितथसंज्ञामवाप ॥ 4.19.19॥
वितथस्यापि मन्युः पुत्रोऽभवत् ॥ 4.19.20 ॥
बृहत्क्षत्रमहावीर्यनगरगर्गा अभवन्मन्युपुत्राः ॥ 4.19.21 ॥
नगरस्य संकृतिःसंकृतेर्गुरुप्रीतिरन्तिदेवौ ॥ 4.19.22 ॥
गर्गाच्छिनिः ततश्च गार्ग्याः शैन्याः क्षत्रोपेता द्विजातयो बभूवु ॥ 4.19.23 ॥
महावीर्याच्च दुरुक्षयो नाम पुत्रोऽभवत् ॥ 4.19.24॥
तस्य त्रय्यारुणिः पुष्करिणः कपिश्च पुत्रक्षयमभूत् ॥ 4.19.25॥
तच्च पुत्रत्रितयमपि पश्चाद्विप्रतामुपजगाम् ॥ 4.19.26॥
बृहत्क्ष6य सुहोत्रः ॥ 4.19.27॥
सुहोत्रद्धस्ती य इदं हस्तिनपुरमावासयामास ॥ 4.19.28 ॥
अजमीढद्विजमीढास्त्रयो ॥ 4.19.29॥
अजमीढात्कण्वः ॥ 4.19.30 ॥
कण्वान्मेधातिथिः ॥ 4.19.31 ॥
यतः कण्वायना द्विजाः ॥ 4.19.32 ॥
अजमीढस्यान्यः पुत्रो बृहदिषुः ॥ 4.19.33 ॥
बृहदिषोर्बृहद्धनुर्बृहद्धनुषश्च बृहत्कर्मा ततश्च जयद्रथस्तस्मादपिविश्वजित् ॥ 4.19.34॥
ततश्च सेनजित् ॥ 4.19.35॥
रुचिराश्वकाश्यदृढहनुवत्सनुसंज्ञाःसेनजितः पुत्राः ॥ 4.19.36॥
रुचिराश्वपुत्रः पृथुसेनः पृथुसेनात्पारः ॥ 4.19.37॥
पारान्नीलः ॥ 4.19.38 ॥
तस्यैकशतं पुत्राणाम् ॥ 4.19.39॥
तेषां प्रधानः कांपिल्याधिपतिःसमरः ॥ 4.19.40 ॥
समरस्यापि पारसुपारसदश्वास्त्रयःच पुत्राः ॥ 4.19.41 ॥
सुपारात्पृथुः पृथोःसुकृतेर्विभ्राजः ॥ 4.19.42 ॥
तस्माच्चाणुहः ॥ 4.19.43 ॥
यः शुकदुहितरङ्कीर्ति नामोपयेमे ॥ 4.19.44॥
अणुहाद्ब्रह्यदत्तः ॥ 4.19.45॥
ततश्च विष्वक्सेनस्तस्मादुदक्सेनः ॥ 4.19.46॥
भल्लाभस्तस्य चात्मजः ॥ 4.19.47॥
द्विजमीढस्य तु यवीनरसंज्ञः पुत्रः ॥ 4.19.48 ॥
तस्यापि धृतिमांस्तस्माच्च सत्यधृतिस्ततश्च दृढनेमिस्तस्माच्च सुपार्श्वस्ततःसुमतिस्ततश्च सन्नतिमान् ॥ 4.19.49॥
सन्नतिमतः कृतः पुत्रोऽभूत् ॥ 4.19.50 ॥
यं हिरण्यनाभो योगमध्यापयामास ॥ 4.19.51 ॥
यश्चतुर्विंशतिप्राच्यसामागानां संहिताश्चकार ॥ 4.19.52 ॥
कृताच्चोग्रायुधः ॥ 4.19.53 ॥
येन प्राचुर्येण नीपक्षयः कृतः ॥ 4.19.54॥
उग्रायुघात्क्षेम्यः क्षेम्यात्सुधीरस्तस्माद्रिपुञ्जयः तस्माच्च बहुरथैत्येते पौरवाः ॥ 4.19.55॥
अजमीढस्य नलिनी नाम पत्नी तस्यां नीलसंज्ञः पुत्रोऽभवत् ॥ 4.19.56॥
तस्मादपि शान्तिः शान्तेःसुशान्तिःसुशान्तेः पुरञ्जयः तस्माच्च ऋक्षः ॥ 4.19.57॥
ततश्च हर्यश्वः ॥ 4.19.58 ॥
तस्मान्मुद्गलसृंजयबृहदिषुयवीनरकांपिल्यसंज्ञाः पञ्चानामैव तेषां विषयाणां रक्षणायालमेते मत्पुत्रा इति पित्राभिहिताः पाञ्चालाः ॥ 4.19.59॥
मुद्रलाच्च मौद्गल्याः क्षत्रोपेता द्विजातयो बभूवुः ॥ 4.19.60 ॥
मुद्गलाद्धर्यश्वः ॥ 4.19.61 ॥
हर्यश्वाद्दिवोदासोऽहल्या च मिथुनमभूत् ॥ 4.19.62 ॥
शरद्वतश्चाहल्यायां शतानन्दोऽभवत् ॥ 4.19.63 ॥
शतानन्दात्सत्यधृतिर्धनुर्वेदान्तगो जज्ञे ॥ 4.19.64॥
सत्यधृतेर्वराप्सरसमुर्वशीं दृष्ट्वा रेतस्कन्नं शरस्तंबे पपात ॥ 4.19.65॥
तच्च द्विधागतमपत्यद्वयं कुमारः कन्या चाभवत् ॥ 4.19.66॥
तौ च मृगयामुपयातः शन्तनुर्दृष्ट्वा कृपया जग्राह ॥ 4.19.67॥
ततः कुन्या चाश्वत्थाम्नो जननी कृपी द्रोणाचार्यस्य पत्न्य भवत् ॥ 4.19.68 ॥
दिवोदासस्य पुत्रो मित्रायुः ॥ 4.19.69॥
मित्रायोश्चयवनो नाम राजा ॥ 4.19.70 ॥
च्यवनात्सुदासः सुदासात्सौदासः सौदासात्सहदेवस्तस्यापि सोमकः ॥ 4.19.71 ॥
सोमकाज्जन्तुः पुत्रशतज्येष्ठोऽभवत् ॥ 4.19.72 ॥
तेषां यवीयान् पृषतः पृषताद्द्रुपदस्तस्माच्च धृष्टद्युम्नस्ततोधृष्टकेतुः ॥ 4.19.73 ॥जमीढस्यान्यो ऋक्षनामा पुत्रोऽभवत् ॥ 74॥
तस्य संवरणः ॥ 4.19.75॥
संवरणात्सुरः ॥ 4.19.76॥
य इदं धर्मक्षेत्रं कुरुक्षेत्रं चकार ॥ 4.19.77॥
सुधनुर्जह्नुपरीक्षित्प्रमुखाः कुरोः बभूवुः ॥ 4.19.78 ॥
सुधनुषः पुत्रःसुहो6 तस्माच्च्यवनः च्
यवनात्कृतकः ॥ 4.19.79॥
ततश्चोपरिचरो वसुः ॥ 4.19.80 ॥
बृहद्रथप्रत्यग्रकुशांबकुचेलमात्स्यप्रमुखाः वसोः पुत्राःसप्ताजायन्त ॥ 4.19.81 ॥
वृहद्रथात्कुशाग्रः कुशाग्राद्वृषभः वृषभात्पुष्पवान् तस्मात्सत्यहितः तस्मात्सुधन्वा तस्य च जतुः ॥ 4.19.82 ॥
बृंहद्रथाच्चान्यः शकलद्वयजन्मा जरया संधितो जरासंधनामा ॥ 4.19.83 ॥
तस्मात्सहदेवःसहदेवात्सोमपस्ततश्च श्रुतिश्रवाः ॥ 4.19.84॥
इत्येते मया मागधा भूपालाः कथिताः ॥ 4.19.85॥
इति श्रीविष्णुमहापुराणे चतुर्थांश एकोनविंशोऽध्यायः (19)
श्रीपराशर उवाच [Sage Parasara said]
परीक्षितश्च जनमेजयश्रुतसेनोग्रसेनभीमसेनाश्चात्वारः पुत्राः ॥ 4.20.1 ॥
जह्नोस्तु सुरथोनामात्मजो बभूव ॥ 4.20.2॥
तस्यापि विदूरथः ॥ 4.20.3 ॥
तस्मात्सार्वभोमःसार्वभौमाज्जयत्सेनस्तस्मादाराधितस्ततश्चायुतायुरयुतायोरक्रोधनः ॥ 4.20.4 ॥
तस्माद्देवातिथिः ॥ 4.20.5॥
ततश्च ऋक्षोऽन्योभवत् ॥ 4.20.6॥
ऋक्षाद्भीमसेनस्ततश्च दिलीपः ॥ 4.20.7॥
दिलीपात्प्रतीपः ॥ 4.20.8॥
तस्यापि देवापिशन्तनुबाह्लीकसंज्ञास्त्रयः पुत्रा बभूवुः ॥ 4.20.8 ॥
देवापिर्बाल एवारण्यं विवेश ॥ 4.20.10 ॥
शन्तनुस्तु महीपालोऽभूत् ॥ 4.20.11 ॥
अयं च तस्य श्लोकः पृथिव्यां गीयते ॥ 4.20.12 ॥
यंयं कराभ्यां स्पृशति वीर्णं यौवनमेति सः ।
शान्तिं चाप्नोति येनाग्र्यां कर्मणा तेन शन्तनुः ॥ 4.20.13 ॥
तस्य च शन्तनो हाष्ट्रे द्वादशवर्षाणि देवो न ववर्ष ॥ 4.20.14॥
ततश्चाशेषराष्ट्रविनाशमवेक्ष्यासौ राजा ब्राह्मणानपृच्छत्कस्मादस्माकं राष्ट्रे देवो न वर्षति को ममापराध इति ॥ 4.20.15॥
ततश्च तमूचुर्ब्राह्मणाः ॥ 4.20.16॥
अग्रजस्य ते हीयमवनिस्त्वया संभुज्यते अतः परिवेत्ता त्वमित्युक्तःस राजा पुनस्तानपृच्छत् ॥ 4.20.17॥
किं मयात्र विधेयमिति ॥ 4.20.18 ॥
ततस्ते पुनरप्यूचुः ॥ 4.20.19॥
यावद्देवापिर्न पतनादिभिर्देषैरभिभूयते तावदेतत्तस्यार्हं राज्यम् ॥ 4.20.20 ॥
तदलमेतेन तु तस्मैदीयतामित्युक्ते तस्यं मन्त्रिप्रवरेणाश्मराविणा तत्रारण्ये तपस्विनो वेदवादविरोधवक्तारः प्रयुक्ताः ॥ 4.20.21 ॥
तैरस्याप्यतिऋजुमतेर्महीपतिपुत्रस्य बुद्धिर्वेदवादविरोधमार्गानुसारिण्यक्रियत ॥ 4.20.22 ॥
राजा च शन्तनुर्द्विजवचनोत्पन्नपरिदेवनशोकस्तान् ब्राह्मणानग्रतः कृत्वाग्रजस्य प्रदानायारण्यं जगाम ॥ 4.20.23 ॥
तदाश्रममुपगताश्च तमवनतमवनीपतिपुत्रं देवापिमुपतस्थुः ॥ 4.20.24॥
ते ब्राह्मणा वेदवादानुबन्धीनि वचांसि राज्यमग्रजेन कर्तव्यमित्यर्थवन्ति तमूचुः ॥ 4.20.25॥
असावपि देवापिर्वेदवादविरोधयुक्तिदूषितमनेकप्रकारं तानाह ॥ 4.20.26॥
ततस्ते ब्राह्मणाः शन्तनुमूचुः ॥ 4.20.27॥
आगच्छ हे राजन्नलमत्रातिनिर्बधेन प्रशान्त एवासावना वृष्टिदोषः पतितोयमनादिकालमभिहितवेदवचनदूषणोच्चरणात् ॥ 4.20.28 ॥
पतिते चाग्रजे नैव ते परिवेतृत्वं भवतीत्युक्तः शन्तनुःस्वपुरमागम्य राज्यमकरोत् ॥ 4.20.29॥
वेदवादविरोधवचनोच्चारणदूषिते च तस्मिन्देवापौ तिष्ठत्यपि ज्येष्ठभ्रातर्यखिलसस्यनिष्पत्तये ववर्ष भगवान्पर्जन्यः ॥ 4.20.30 ॥
बाह्लीकात्सोमदत्तः पुत्रोऽभूत् ॥ 4.20.31 ॥
सोमदत्तस्यापि भूरिभूरिश्रवशल्यसंज्ञास्त्रयः पुत्रा बभूवुः ॥ 4.20.32 ॥
शन्तनोरप्यमरनद्यां जाह्नव्यामुदारकीर्तिरशेषशास्त्रर्थविद्भीष्मः पुत्रोऽभूत् ॥ 4.20.33 ॥
सत्यवत्यां च चित्राङ्गदविचित्रवीर्यौ द्वौ पुत्रावुत्पादयामास शन्तनुः ॥ 4.20.34॥
चित्राङ्गदस्तु बाल एव चित्राङ्गदेनैव गन्धर्वोणाहवे निहतः ॥ 4.20.35॥
विचित्रवीर्योऽपि काशीराजतनये अंबांवालिके उपयेमे ॥ 4.20.36॥
तदुपभोगातिखेदाच्च यक्ष्मणा गृहीतः स पञ्चत्वमगमत् ॥ 4.20.37॥
सत्यवतीनियोगाच्च मत्पुत्रः कृष्णद्वैपायनो मातुर्वचनमनतिक्रमणीयमिति कृत्वा विचित्रवीर्यक्षेत्रे धृतराष्ट्रपाण्डुतत्प्रहितभुजिष्यायां विदुरं चोत्पादयामास ॥ 4.20.38 ॥
धतराष्ट्रोपि गान्धार्यां दुर्योधनदुः शासनप्रधानं पुत्रशतमुत्पादयामास ॥ 4.20.39॥
पाण्ढोरप्यरण्ये मृगयायामृषिशापोपहतप्रजाजननसामर्थ्यस्य धर्मवायुशक्रैर्युधिष्ठिरभीमसेनार्जुनाः कुन्त्यां नकुलसहदेवौ चाश्विभ्यां माद्रयां पञ्चपुत्राःसमुत्पादिताः ॥ 4.20.40 ॥
तेषां च द्रौपद्यां पञ्चैव बभूवुः ॥ 4.20.41 ॥
युधिष्ठिरात्प्रतिविन्ध्यः भीमसेनाच्छुतसेनः श्रुतकीर्तिरर्जुनाच्छुतानीको नकुलाच्छुतकर्मा सहदेवात् ॥ 4.20.42 ॥
काशी च भीमसेनादेव सर्वगं सुतमवाप ॥ 4.20.43 ॥
यौधेयी युधिष्छिराद्देवकं पुत्रमवाप ॥ 4.20.44॥
हिडिंबा घटोत्कचं भीमसेनात्पुत्रं लेभे ॥ 4.20.45॥
काशी च भीमसेनादेव सर्वगं सुतमवाप ॥ 4.20.46॥
सहदेवाच्च विजयी कुहोत्रं पुत्रमवाप ॥ 4.20.47॥
रेणुमत्यां च नकुलोपि निरमित्रमजीजनत् ॥ 4.20.48 ॥
अर्जुनस्याप्युलूप्यां नागकन्यायामिरावान्नाम पुत्रोऽभवत् ॥ 4.20.49॥
मणीपुरपतिपुत्र्यां पुत्रिकाधर्मेण बब्रुवाहनं नाम पुत्रमर्जुनोऽजनयत् ॥ 4.20.50 ॥
सुभद्रायां चार्भकत्वेपि योसावतिबलपराक्रमःसमस्तारातिरथजेता सोऽभिमन्युरजायत ॥ 4.20.51 ॥
अभिमन्योरुत्तरायां परिक्षीणेषु कुरुष्वश्वत्थामप्रयुक्तब्रह्मस्त्रेण गर्भ एव भस्मीकृतो भगवतःसकलसुरासुरवन्दितचरणयुगलस्यात्मेच्छया कारममानुषरूपधारीणोनुभावात्पुनर्जीवितमवाप्य परीक्षिज्जज्ञे ॥ 4.20.52 ॥
योऽयं सांप्रतमेदद्भूमण्डलमखण्डितायतिधर्मेण पालयतीति ॥ 4.20.53 ॥
इति श्रीविष्णुमहापुराणे चतुर्थांशे विंशोऽध्यायः (20 )
श्रीपराशर उवाच [Sage Parasara said]
अतः परं भविष्यानहं भूपालान्कीर्तयिष्यामि ॥ 4.21.1 ॥
योऽयं सांप्रतमवनीपतिः परीक्षित्तस्यापि जनमेजयश्रुतसेनोग्रसेनभीमसेनाश्चत्वारः पुत्रा भविष्यन्ति ॥ 4.21.2॥
जनमेजयस्यापि शतानीको भविष्यति ॥ 4.21.3 ॥
योऽसौ याज्ञवल्क्याद्वेदमधीत्य कृपादस्त्राम्यवाप्य विषमविषयविरक्तचित्तवृत्तिश्च शौनकोपदेशादात्मज्ञानप्रवीणः परं निर्वाणमवाप्स्यति ॥ 4.21.4 ॥
शतानीकादश्वमेधदत्तो भविता ॥ 4.21.5॥
तस्मादप्यचधिसीमकृष्णः ॥ 4.21.6॥
अधिसीमकृष्णान्निचक्नुः ॥ 4.21.7॥
यो गङ्गयापहृते हस्तिनपुरे कौशांब्यां निवत्स्यति ॥ 4.21.8॥
तस्या प्युष्मः पुत्रो भविता ॥ 4.21.8 ॥
उष्णाद्विचित्ररथः ॥ 4.21.10 ॥
ततः शुचिरथः ॥ 4.21.11 ॥
तस्माद्वृष्णिमांस्ततःसुषेणस्तस्यापि सुनीथःसुनीथान्नृपचक्षुस्तस्मादपि सुखिबलस्तस्य च पारिप्लवस्ततश्च सुनयस्तस्यापि मेधावी ॥ 4.21.12 ॥
मेधाविनो रिपुञ्जयस्ततोर्वस्तस्माच्च तिग्मस्तस्माद्बृहद्रथः बृहद्रथाद्वसुदासः ॥ 4.21.13 ॥
ततोऽपरः शतनीकः ॥ 4.21.14॥
तस्माच्चोदयन उदयनाद्विहीनरस्ततश्चदण्डपाणिस्ततो निमित्तः ॥ 4.21.15॥
तस्माच्च क्षेमकः ॥ 4.21.16॥
अत्रायं श्लोकः ॥ 4.21.17॥
ब्रह्मक्षत्रस्य यो यो निर्वंशो देवर्षिसत्कृतः ।
क्षेमकं प्राप्य राजानं संस्थानं प्राप्यते कलौ ॥ 4.21.18 ॥
इति श्रीविष्णुमहापुराणे चतुर्थांश एवविंशोऽध्यायः (21)
श्रीपराशर उवाच [Sage Parasara said]
अतश्चेक्ष्वाकवो भविष्याः पार्थिवाः कथ्यन्ते ॥ 4.22.1 ॥
बृहद्बलस्य पुत्रो बृहत्क्षणः ॥ 4.22.2॥
तस्मादुरुक्षयस्तस्माच्च वत्सव्यूहस्ततश्च प्रतिव्योमस्तस्मादपि दिवारकः ॥ 4.22.3 ॥
तस्मात्सहदेवः सहदेवाद्बृहदश्वस्तत्सूनुर्भानुरथस्तस्य चज प्रतीताश्वस्तस्यापि सुप्रतीकस्ततश्च मरुदेवस्ततः सुनक्षत्रस्तमात्किन्नरः ॥ 4.22.4 ॥
किन्नरादन्तरिक्षस्तस्मात्सुपर्णस्ततश्चामित्रजित् ॥ 4.22.5॥
ततश्च बृहद्भाजस्तस्यापि धर्मी धर्मीणः कृतञ्जयः ॥ 4.22.6॥
कृतञ्जयाद्रणञ्जयः ॥ 4.22.7॥
रणञ्जयात्संजयस्तस्माच्छाक्यश्छाक्याच्छुद्धोदनस्तस्माद्राहुलस्ततः प्रसेनजित् ॥ 4.22.8॥
ततश्च क्षुद्रकस्ततश्चज कुण्डकस्तस्मादपि सुरथः ॥ 4.22.8 ॥
तत्पुत्रश्च सुमित्रः ॥ 4.22.10 ॥
इत्येते चेक्ष्वाकवो बृहद्बलान्वयाः ॥ 4.22.11 ॥
अत्रानुवंशश्लोकः ॥ 4.22.12 ॥
इक्ष्वाकूणामयं वंशःसुमित्रान्तो भविष्यति ।
यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥ 4.22.13 ॥
इति श्रीमहाविष्णुपुराणे चुतुर्थांशे द्वाविंशोऽध्यायः (22)
श्रीपराशर उवाच [Sage Parasara said]
मागधानां बार्हद्रथानां भाविनामनुक्रमं कथयिष्यामि ॥ 4.23.1 ॥
अत्र हि वंशे महाबलपराक्रमा जरांसंधप्रधाना बभूवुः ॥ 4.23.2॥
जरासंधस्य पुत्रः सहदेवः ॥ 4.23.3 ॥
सहदेवात्सोमापिस्तस्यानुश्रुतश्रवास्तस्याप्ययुतायुस्ततश्च निरमित्रस्तत्तनयःसुनेत्रस्तस्मादपि बृहत्कर्मा ॥ 4.23.4 ॥
ततश्च सेनजित्ततश्च श्रुतञ्जयस्ततो विप्रस्तस्य च पुत्रः शुचिनामा भविष्यति ॥ 4.23.5॥
तस्यापि क्षेम्यस्ततश्च सुव्रतःसुव्रताद्धर्मस्ततःसुश्रवा ॥ 4.23.6॥
ततो दृढसेनः ॥ 4.23.7॥
तस्मात्सुबलः ॥ 4.23.8॥
सुबलात्सुनीतो भविता ॥ 4.23.8 ॥
ततःसत्यजित् ॥ 4.23.10 ॥
तस्माद्विश्वजित् ॥ 4.23.11 ॥
तस्यापि रिपुञ्जयः ॥ 4.23.12 ॥
इत्येते बार्हद्रथा भूपतयो वर्षसहस्रमेकं भविष्यन्ति ॥ 4.23.13 ॥
इति श्रीविष्णुमहापुराणे चतुर्थांशे त्रयोविंशोऽध्यायः (23)
श्रीपराशर उवाच [Sage Parasara said]
योऽयं रिपुञ्जयो नाम बार्हद्रथोन्त्यः तस्यामात्यो मुनिको नाम भविष्यति ॥ 4.24.1 ॥
स चैनं स्वामिनं हत्वा स्वुपुत्रं प्रद्योतनामानमभिषेक्ष्यति ॥ 4.24.2॥
तस्यापि बलाकनामा पुत्रो भविता ॥ 4.24.3 ॥
ततश्च विशाखुयूपः ॥ 4.24.4 ॥
तत्पुत्रो जनकः ॥ 4.24.5॥
तस्य च नन्दिवर्धनः ॥ 4.24.6॥
ततो नन्दी ॥ 4.24.7॥
इत्येतेष्टित्रिंशदुत्तरमष्टशतं पञ्च प्रद्योताः पृथिवीं भोक्ष्यन्ति ॥ 4.24.8॥
ततश्च शिशुनाभः ॥ 4.24.8 ॥
तत्पुत्रः काकवर्णो भविता ॥ 4.24.10 ॥
तस्य च पुत्रः क्षेमधर्मा ॥ 4.24.11 ॥
तस्यापि क्षतौजाः ॥ 4.24.12 ॥
तत्पुत्रो विधिसारः ॥ 4.24.13 ॥
ततश्चाजातशत्रुः ॥ 4.24.14॥
तस्मादर्भकः ॥ 4.24.15॥
तस्माच्चोदयनः ॥ 4.24.16॥
तस्मादपिनन्दिवर्धनः ॥ 4.24.17॥
ततो महानन्दी ॥ 4.24.18 ॥
इत्येते शैशनाभा भूपालास्त्रीणि वर्षशतानि द्विषष्ट्यधिकानि भविष्यन्ति ॥ 4.24.19॥
महानन्दि नस्ततः शूद्रगर्भोद्भवोतिलुब्धोतिबलो महापद्मनामा नन्दः परशुराम इवारपोऽखिलक्षत्रान्तकरी भविष्यति ॥ 4.24.20 ॥
ततः प्रभृति शुद्रा भूपाला भविष्यन्ति ॥ 4.24.21 ॥
स चैकच्छत्रामनुल्लङ्घितशासनो महापद्मः पृथिवीं भोक्ष्यते ॥ 4.24.22 ॥
तस्याप्यष्टौ सुताःसुमाल्याद्य भवितारः ॥ 4.24.23 ॥
तस्य महापद्मस्यानुपृथिवीं भोक्ष्यन्ति ॥ 4.24.24॥
महापद्मपुत्राश्चकं वर्षशतमवनीपतयो भविष्यन्ति ॥ 4.24.25॥
ततश्च नवचैतान्नन्दान् कौटिल्यो ब्राह्मणःसमुद्धरिष्यति ॥ 4.24.26॥
तेषामभावे मौर्व्याः पृथिवीं भोक्ष्यन्ति ॥ 4.24.27॥
कौटिल्य एव चन्द्रगुप्तसुत्पन्नं राज्येऽभिषेक्ष्यति ॥ 4.24.28 ॥
तस्यापि पुत्रो बिन्दुसारो भविष्यति ॥ 4.24.29॥
तस्याप्यशोकवर्धनस्ततःसुयशास्ततश्च दशरथस्ततश्च संयुतस्ततः शलिशुकस्तस्मात्सोमशर्मा तस्यापि सोमशर्ममः शतधन्वा ॥ 4.24.30 ॥
तस्यानुबृहद्रथनामा भविता ॥ 4.24.31 ॥
एवमेते मौर्या दश भूप तयो भविष्यन्ति अब्दशतं सप्तत्रिंशदुत्तरम् ॥ 4.24.32 ॥
तेषामन्ते पृथिवीं दश शुङ्गा भोक्ष्यन्ति ॥ 4.24.33 ॥
पुषयमीत्रःसेनापतिःस्वामिनं हत्वा राज्यं करिष्यति तस्यात्मजोऽग्निमित्रः ॥ 4.24.34॥
तस्मात्सुज्योष्ठस्ततो वसुमित्रस्तस्मादप्युदङ्कस्ततः पुलिन्दकस्ततो घोषवसुस्कस्मादपि बज्रमित्रस्ततो भगवतः ॥ 4.24.35॥
तस्माद्देवभूतिः ॥ 4.24.36॥
इत्येते शुङ्गा द्वादशोत्तरं वर्षशतं पृथिवीं भोक्ष्यन्ति ॥ 4.24.37॥
ततः कण्वानेषाभूर्यास्यति ॥ 4.24.38 ॥
देवभूतिं तु शुङ्गराजानं व्यसनिनं तस्यैवामात्यः कण्वो वसुदेवनामा तं निहत्य स्वयमवनीं भोक्ष्यति ॥ 4.24.39॥
तस्य पुत्रो भूमित्रस्तस्यापि नारायणः ॥ 4.24.40 ॥
नारायणात्मजःसुशर्मा ॥ 4.24.41 ॥
एते काम्वायनाश्चत्वारः पञ्चचत्वारीशदूर्षाणि भूपतयो भविष्यन्ति ॥ 4.24.42 ॥
सुशर्माणं तु काण्वं तद्भूत्यो बलिपुच्छकनामा हत्वान्द्रजातीयो वसुधां भोक्ष्यति ॥ 4.24.43 ॥
ततश्च कृष्णनामा तद्भ्राता पृथिवीपतिर्भविष्यति ॥ 4.24.44॥
तस्यापि पुत्रः शान्तकर्णिस्तस्यापि पूर्मोत्संगस्तत्पुत्रः शतकर्मिस्तस्माच्च लम्बोदरस्तस्माच्च पिलकस्ततो मेघस्वाति स्ततः पटुमान् ॥ 4.24.45॥
ततश्चारिष्टकर्मा ततो हालाहलः ॥ 4.24.46॥
हालाहलात्पललकस्ततः पुलिन्दसेनस्ततः सुंदरस्ततःसातकर्णिः शिवस्वातिस्ततश्च गोमतिपुत्रस्तत्पुत्रोऽलिमान् ॥ 4.24.47॥
तस्यापि शान्तकर्णिस्ततः शिविश्रितस्तश्च शिवस्कन्धस्तस्मादपि यज्ञश्रीस्ततो द्विय5तस्माच्चन्द्रश्रीः ॥ 4.24.48 ॥
तस्मात्पुलोमापिहि ॥ 4.24.49॥
एवमेवे त्रिंशच्चत्वार्यब्दशतानि षट्पञ्चाशदधिकानि पृथिवीं भोक्ष्यन्ति ॥ 4.24.50 ॥
आन्ध्रभृत्यास्तप्ताभीरप्रभृतयो दशगर्दभिनश्च भूभुजो भविष्यन्ति ॥ 4.24.51 ॥
ततःषोडश भूपतयो भवितारः ॥ 4.24.52 ॥
ततश्चाष्टौ यवनाश्चतुर्दश तुरुष्कारा मुण्डाश्च 6 ओदश येकादश मौना एते वै पृथुवीपतयः पृथिवर्षशातानि नवत्यधिकानि भोक्ष्यन्ति ॥ 4.24.53 ॥
ततश्च मौना एकादश भूपतयोऽब्दशातानि त्रीणि पृथिवीं भोभ्यन्ति ॥ 4.24.54॥
तेषूत्सन्नोषु कैंकिला यवना बूपतयो भविष्यन्त्यमूर्धाभिषिक्ताः ॥ 4.24.55॥
तेषामपत्यं विन्ध्यशक्तिस्ततः पुंरजयस्तस्माद्रामचन्द्रस्तस्मार्मवर्मा ततो वङ्गस्ततोभून्नन्दनस्ततःसुनन्दी तद्भाता नन्दीयशाः शुक्रः प्रवीर एते वर्षशतं षड्वर्षाणि भूपतयो विष्यन्ति ॥ 4.24.56॥
ततस्तत्पुत्रास्त्रयोदशौते बाह्लिकाश्च त्रयः ॥ 4.24.57॥
ततः पुष्पमित्राः पटुमियत्रास्त्रयोदसैकलाश्च सप्तान्ध्राः ॥ 4.24.58 ॥
ततश्च कोसलायां तु नव चैव भूपतयो भविष्यन्ति ॥ 4.24.59॥
नैषधास्तु त एव ॥ 4.24.60 ॥
मगधायां तु विश्वस्फटिक संज्ञोऽन्यान्वर्णान्करिष्यति ॥ 4.24.61 ॥
कैवर्तबटुपुलिन्दब्राह्मणान्राज्ये स्थपयिष्यति ॥ 4.24.62 ॥
उत्साद्याखिलक्षत्रजातिं नव नागाः पद्मवत्यां नाम पुर्यामनुगङ्गाप्रयागं गया द्गुप्तांश्च मागधा भोक्ष्यन्ति ॥ 4.24.63 ॥
कोशलान्ध्रपुण्ड्रताम्रलिप्तसमतटपुरीं च देवरक्षितो रक्षिता ॥ 4.24.64॥
कलिङ्गमाहिषमहेन्द्रभौमान् गुहा भोक्ष्यन्ति ॥ 4.24.65॥
नैषनैमिषककालकोशकाञ्जनपदान्मणिधान्यकवंशा भोक्ष्यन्ति ॥ 4.24.66॥
त्रैराज्यमुषिकजनपदान्कनकाह्वयचो भोक्ष्यति ॥ 4.24.67॥
सौराष्ट्रावन्त्यशुद्राभीरान्नर्मदामरुभूविषयांश्च व्रात्यद्विजाभीरशूद्राद्या भोक्ष्यन्ति ॥ 4.24.68 ॥
सिंधुतटदाविकोर्वीचन्द्र भागाकाश्मीरविषयांश्चव्रात्याधर्मरुचयः स्त्रीबालगोवधकर्तारः परस्वादानरुचयोल्पसारास्तमिस्त्रप्राया उदितास्तमितप्राया अल्पायुषो महेच्छा ह्यल्पधर्मा लुब्धाश्च भविष्यन्ति ॥ 4.24.69॥
एते च तुल्यकालाःसर्वे पृथिव्यां भूभुजो भविष्यन्ति ॥ 4.24.70 ॥
अल्पप्रसादा बृहत्कोपाःसार्वकाल मनृताधर्मरुचयः स्त्रीबालगोवधकर्तारः परस्वादानरुचयोल्पसारास्तमिस्त्रप्राया उदितास्तमितप्राया अल्पायुषो महेच्छा ह्यल्पधर्मा लुब्धाश्च भविष्यन्ति ॥ 4.24.71 ॥
तैश्च विमिश्रा नजपदास्तच्छीलानुवर्तिनो राजाश्रयशुष्मिणो म्लेच्छाचाराश्च विपर्ययेण वर्तमानाः प्रजाः क्षपयिष्यन्ति ॥ 4.24.72 ॥
ततश्चानुदिनमल्पाल्पह्रासव्यवच्छेदाद्धर्मार्थयोर्जगतःसंक्षयो भविष्यति ॥ 4.24.73 ॥
ततश्चार्थ एवाभिजनहेतुः ॥ 4.24.74॥
बलमेवाशेषधर्महेतुः ॥ 4.24.75॥
अभिरुचिरेव दांपत्यसंबन्धहेतुः ॥ 4.24.76॥
स्त्रीत्वमेवोपभोगहेतुः ॥ 4.24.77॥
अनृतमेव व्यवहारजयहेतुः ॥ 4.24.78 ॥
उन्नतांबुतैव पृथिवीहेतु ॥ 4.24.79॥
ब्रह्मसूत्रमेव विप्रत्वहेतुः ॥ 4.24.80 ॥
रत्नधातुतैव श्लाघ्यताहेतुः ॥ 4.24.81 ॥
लिङ्गधाराणमेवाश्रमहेतुः ॥ 4.24.82 ॥
अन्यायमेव वृत्तिहेतुः ॥ 4.24.83 ॥
दौर्बल्यमेवावृत्तिहेतुः ॥ 4.24.84॥
अभयप्रगल्भोच्चारणमेव पाण्डित्यहेतुः ॥ 4.24.85॥
अनाढ्यतैव साधुत्वहेतुः ॥ 4.24.86॥
स्त्रानमेव प्रसाधनहेतुः ॥ 4.24.87॥
दानमेव धर्महेतुः ॥ 4.24.88 ॥
स्वीकरणमेव विवाहहेतुः ॥ 4.24.89॥
सद्वेषधार्येव पात्रम् ॥ 4.24.90 ॥
दूरायतननोदकमेव तीर्थहेतुः ॥ 4.24.91 ॥
कपटवेषधारणमेव महत्त्वहेतुः ॥ 4.24.92 ॥
इत्येवमनेकदोषोत्तरे तु भूमण्डले सर्वावर्णेष्वेव योयो बलवान्सस भूपतिर्भविष्यति ॥ 4.24.93 ॥
एवं चातिलुब्धकराजासहाः शोलानामन्तरद्रोणीः प्रजाःसंश्रयिष्यन्ति ॥ 4.24.94॥
मधुशाकमूलफलपत्रपुष्पाद्याहाराश्च भविष्यन्ति ॥ 4.24.95॥
तरुवल्कलपर्णचीरप्रावरणाश्चातिबहुप्रजाः शीतवातातपवर्षसहाश्च भविष्यन्ति ॥ 4.24.96॥
न च कश्चित्त्रयोविंशतिवर्षाणि जीविष्यति अनवरतं चात्र कलियुगे भयमायात्यखिल एवैष जनः ॥ 4.24.97॥
श्रौतस्मार्ते च धर्मे विप्लवमत्यन्तमुपगते क्षीणप्राये च कलावशेषजगत्स्त्रष्टुश्चराचरगुरोरादिमध्यान्तरहितस्य ब्रह्ममयस्यात्मरूपिणो भगवतो वासुदेवस्यांशः शंबलग्रामप्रधानब्राह्मणस्य विष्णुयशसो गहेष्टगुणर्धिसमन्वितः कल्किरूपीजगत्यत्रावतीर्य सकलम्लेच्छदस्युदुष्टाचरमचेतसामशेषाणामपरिच्छिन्नशक्तिमाहात्म्यः क्षयं करिष्यति स्वधर्मेषु चा खिलमेव संस्थापयिष्यति ॥ 4.24.98 ॥
अनन्तरं चाशेषकलेरवसाने निशावसाने विबुद्धानामिव तेषामेव जनपदानाममलस्फटितदलशुद्धा मतयो भविष्यन्ति ॥ 4.24.99॥
तेषां च बीजभूतानामशेषमनुष्याणां परिणतानामपि तत्कालकृतापत्यप्रसूतिर्भविष्यति ॥ 4.24.100 ॥
तानि च तदपत्यानि कृतयुगानुसारीण्येव भविष्यन्ति ॥ 4.24.101 ॥
अत्रोच्यते
यथा चन्द्रश्च सूर्यश्च तथा तिष्यो बृहस्पतिः ।
एकराशौ समेष्यन्ति तदा भवति वै कृतम् ॥ 4.24.102 ॥
अतीता वर्तमानाश्च तथैवानागताश्च ये ।
एते वंशेषु भूपालाः कथिता मुनिसत्तम ॥ 4.24.103 ॥
यावत्परीक्षितो जन्म यावन्नन्दाभिषेचनम् ।
एतद्वर्षसहस्रं तु ज्ञेयं पञ्चाशदुत्तरम् ॥ 4.24.104॥
सप्तर्षीणां तु यौ पूर्वौ दृश्येते ह्युदितौ दिवि ।
तयोस्तु मध्ये नक्षत्रं दृश्यते यत्समं निशि ॥ 4.24.105॥
तेन सप्तर्षयो युक्तास्तिष्ठन्त्यब्दशतं नृणाम् ।
ते तु पारीक्षिते काले मघास्वासन्द्विजोत्तम ॥ 4.24.106॥
तदा प्रवृत्तश्च कलिर्द्वादशाब्दशतात्मकः ॥ 4.24.107॥
यदैव भगवान्विष्णोरंशो यातो दिवं द्विज ।
वसुदेवकुलोद्भूतस्तदैवात्रागतः कलिः ॥ 4.24.108 ॥
यावत्सपादपद्माभ्यां पस्पर्शेमां वसुंधराम् ।
तावत्पुथ्वीपरिष्वङ्गे समर्थो नाभवत्कलिः ॥ 4.24.109॥
गते सनातनस्यांशे विष्णोस्तत्र भुवो दिवम् ।
तत्याज सानुजो राज्यं धर्म पुत्रो युधिष्ठिरः ॥ 4.24.110 ॥
विपरीतानि दृष्ट्वा च निमित्तानि हि पाण्डवः ।
याते कृष्णे चकाराथ सोऽभिषेकं परीक्षितः ॥ 4.24.111 ॥
प्रयास्यन्ति यदा चैते पूर्वाषाढां महर्षयः ।
तदा नन्दात्प्रभृत्येष गतिवृद्धिं गमिष्यति ॥ 4.24.112 ॥
यस्मिन् कृष्णो दिवं यातस्तस्मिन्नेव तदा हनि ।
प्रतिपन्नं कलियुगं तस्य संख्यां निबोध मे ॥ 4.24.113 ॥
त्रीणि लक्षाणि वर्षाणां द्विज मानुष्यसंख्यया ।
षष्टिश्चैव सहस्राणि भविष्यत्येष वै कलिः ॥ 4.24.114॥
शातानि तानि दिव्यानां सप्त पञ्च च संख्यया ।
निःशेषेण गते तस्मिन्भविष्यति पुनः कृतम् ॥ 4.24.115॥
ब्राह्मणाः क्षित्त्रिया वैश्याः शुद्राश्च द्विजसत्तम ।
युगेयुगे महात्मानः समतीताःसहस्रशः ॥ 4.24.116॥
बहुत्वान्नामधेयानां परिसंख्या कुलेकुले ।
पौनरुक्त्याद्धि साम्याच्च न मया परिकीर्तिता ॥ 4.24.117॥
देवापिः पोरवो राजा पुरुश्चेक्षाकुवंशजः ।
महायोगबलोपेतौ कलापग्रमसंश्रितौ ॥ 4.24.118 ॥
कृते युगे त्विहागम्य क्षत्रप्रावर्तकौ हि तौ ।
भविष्यतो मनोर्वशबीजभूतौ व्यवस्थितौ ॥ 4.24.119॥
एतेन क्रमयोगेन मनुपुत्रौर्वसुंधरा ।
कृतत्रेताद्वापराणि युगानि त्रीणि भुज्यते ॥ 4.24.120 ॥
कलौ ते बीजभूता वै केचित्तिष्ठन्ति वै मुने ।
यथैव देवापिपुरू सांप्रतं समधिष्ठितौ ॥ 4.24.121 ॥
एष तूद्देशतो वंशस्तवोक्तो भूभुजां मया ।
निखिलो गदितुं शक्यो नैष वर्षशतैरपि ॥ 4.24.122 ॥
एते चान्ये च भूपाला यैरत्र क्षितिमण्डले ।
कृतं ममत्वं मोहान्धैर्नित्यं हेयकलेवरे ॥ 4.24.123 ॥
कथं ममेयमचला मत्पुत्रस्य कथं मही ।
मद्वंशस्येतिचिन्तार्ता जग्मुरन्तमिमे नृपाः ॥ 4.24.124॥
तेभ्यः पूर्वतराश्चान्ये तेभ्यस्तेभ्यस्तथा परे ।
भविष्याश्चैव यास्यन्ति तेषामन्ये च येऽप्यनु ॥ 4.24.125॥
विलोक्यात्मजयोद्योगं यात्राव्यग्रान्नराधिपान् ।
पुष्पप्रहासैः शरदि हसंतीव वसुंधरा ॥ 4.24.126॥
मैत्रेय पृथिवीगीताञ्छ्लोकांश्चात्र निबोध मे ।
यानाह धर्मध्वजिने नजकायासितो मुनिः ॥ 4.24.127॥
पृथिव्युवाच
कथमेष नरेद्राणां मोहो बुद्धिमतामपि ।
येन केन सधर्माणोप्यतिविश्वस्तचेतसः ॥ 4.24.128 ॥
पूर्वमात्मजयं कृत्वा जेतुमिच्छन्ति मन्त्रिणः ।
ततो भृत्यांश्च पौरांश्च जिगीषन्ते तथा रिपून् ॥ 4.24.129॥
क्रमेणानेन जेष्यामो वयं पृथ्वीं ससागराम् ।
इत्यासक्तधियो मृत्युं न पश्यन्त्यविद्वरगम् ॥ 4.24.130 ॥
समुद्रावरणं याति भूमण्डलमथो वशम् ।
कियदात्मजयस्यैतन्मुक्तिरात्मजयेफलम् ॥ 4.24.131 ॥
उत्सृज्य पूर्वजा याता यां नादाय गतः पिता ।
तां मामतीव मूढत्वाज्जेतुमिच्छन्ति पार्थिवाः ॥ 4.24.132 ॥
मत्कृते पितृ पुत्राणां भ्रातॄणां चापि विग्रहः ।
जायतेत्यन्तमोहेन ममत्वादृतचेतसाम् ॥ 4.24.133 ॥
पृथ्वी ममेयं सकला ममैषा मदन्वयस्यापि च शाश्वतीयम् ।
योयो मृतेऽन्यत्र बभूव राजा कुबुद्धिरा सीदिति तस्यतस्य ॥ 4.24.134॥
दृष्ट्वा ममत्वादृतचित्तमेकं विहाय मां मृत्युवशं व्रजन्तम् ।
तस्यानुयस्तस्य कथं ममत्वं हृद्यास्पदं मत्प्रभवं करोति ॥ 4.24.135॥
पृथ्वी ममैषाऽशु परित्यजैनां वदन्ति ये दूतमुखैः स्वशत्रून् ।
नराधिपास्तेषु ममातिहासः पुनश्च मूढेषु दयाभ्युपैति ॥ 4.24.136॥
श्रीपराशर उवाच [Sage Parasara said]
इत्येते धरणीगीतः श्लोका मैत्रेय यैः श्रुताः ।
ममत्वं विलयं याति तपत्यर्के यथा हिमम् ॥ 4.24.137॥
इत्येष कथितः सम्यङ्मनोर्वशो मया तव ।
यत्र स्थितिप्रवृत्तस्य विष्णोरंशांशका नृपाः ॥ 4.24.138 ॥
शृणोति य इमं भक्त्या मनोर्वशमनुक्रमात् ।
तस्य पापमशेषं वै प्रणश्यत्यमलात्मनः ॥ 4.24.139॥
धनधान्यर्धिमतुलां प्राप्नोत्यव्याहतेन्द्रियः ।
श्रुत्वैवमखिलं वंशं प्रशस्तं शशीसूर्ययोः ॥ 4.24.140 ॥
इक्ष्वाकुजह्नुमान्धातृसगराविक्षितान्रघून् ।
ययातिनहुषाद्यांश्च ज्ञात्वा निष्ठामुपागतान् ॥ 4.24.141 ॥
महाबलान्महावीर्याननन्तधनसंचयान् ।
कृतान्कालेन बलिना कथाशेषान्नराधिपान् ॥ 4.24.142 ॥
श्रुत्वा न पुत्रदारादौ गृहक्षेत्रादिके तथा ।
द्रव्यादौ वा कृतप्रज्ञो ममत्वं कुरुते नरः ॥ 4.24.143 ॥
तप्तं तपो यैः पुरुषप्रवीरैरुद्वाहुभिर्वर्षगणाननेकान् ।
इष्ट्वा सुयज्ञैर्बलिनोतिवीर्याः कृतानुकालेन कथावशेषाः ॥ 4.24.144॥
पृथुःसमस्तान्विचचार लोकानव्याहतो योविजितारिचक्रः ।
स कालवाताभिहतः प्रणष्टः क्षिप्तं यथा शाल्मलितूलमग्नौ ॥ 4.24.145॥
यः कार्तवीर्यो बुभुजे समस्तान्द्वीपान्समाक्रम्यहतारिचक्रः ।
कथाप्रसंगेष्वभिधीयमानःस एव संकल्पविकल्पहेतुः ॥ 4.24.146॥
दशाननाविक्षतराघवाणामैश्वर्यमुद्भासितदिङ्मुखानाम् ।
भस्मापि शिष्टं न कथं क्षणेन भ्रूभङ्गपातेन धिगन्तकस्य ॥ 4.24.147॥
कथाशरीरत्वमवाप यद्वै मान्धातृनामा भुवि चक्रवर्ती ।
श्रुत्वापि तत्कोहि करोति साधुर्ममत्वमान्मन्यपि मन्दचेताः ॥ 4.24.148 ॥
भगीरथाद्याःसगरं ककुत्स्थो दशननो राघवलक्ष्मणौ च ।
युधिष्ठिराद्याश्च बभूवुरेते सत्यं न मिथ्या क्व नु ते न विद्मः ॥ 4.24.149॥
ये सांप्रतं ये च नृपा भविष्याः प्रोक्ता मया विप्रवरोग्रवीयाः ।
एते तथान्ये च तथाभिधेयाः सर्वे भविष्यन्ति यथैव पूर्वे ॥ 4.24.150 ॥
एत द्विदित्वा न नरेण कार्यं ममत्वमात्मन्यपि पण्डितेन ।
तिष्ठन्तु तावत्तनयात्मजायाः क्षेत्रादयो ये च शरीरिणोऽन्ये ॥ 4.24.151 ॥
इति श्रीविष्णुमाहपुराणे चतुर्थांशे चतुर्विंशोध्यायः (24)
श्रीविष्णुमाहपुराणे चतुथासः समाप्तः
मैत्रेय उवाच
नृपाणां कथितःसर्वो भवता वंशविस्तरः ।
वंशानुचरितं चैव यथावदनुवर्णितम् ।
अंशावतारो ब्रह्मर्षे योऽयं यदुकुलोद्भवः ।
विष्णोस्तं विस्तरेणाहं श्रोतुमिच्छामि तत्त्वतः ॥ 5.1.2॥
चकार यानि कर्माणि भगवान् पुरुषोत्तमः ।
अंशांशेनावतीर्योर्व्यां तत्र तानि मुने वद ॥ 5.1.3 ॥
श्रीपारशर उवाच
मैत्रेय श्रूयतामेतद्यत्पृष्टोऽहमिह त्वया ।
विष्णोरंशांशसंभूतिचरितं जगतो हितम् ॥ 5.1.4 ॥
देवकस्य सुतां पूर्वं वसुदेवो महामुने ।
उपयेमे महाभागां देवकीं देवतोपमाम् ॥ 5.1.5॥
कंसस्तयोर्वररथं चोदयामास सारथिः ।
वसुदेवस्य देवक्या संयोगे भोजनन्दनः ॥ 5.1.6॥
आथान्तरिक्षे वागुच्चैः कंसमाभाष्य सादरम् ।
मेघगंभीरनिर्घोषं समाभाष्येदमब्रवीत् ॥ 5.1.7॥
यामेतां वहसे मूढ सह भर्त्रा रथे स्थिताम् ।
अस्यास्तवाष्टमो गर्भः प्राणानपहरिष्यति ॥ 5.1.8॥
श्रीपराशर उवाच [Sage Parasara said]
इत्याकर्ण्यं समुत्पाट्य खड्गं कंसो महाबलः ।
देवकीं हन्तुमारब्धो वसुदेवोऽब्रवीदिदम् ॥ 5.1.8 ॥
न हन्तव्या महाभाग देवकी भवतानघ ।
समर्पयिष्ये सकलान्गर्भानस्योदरोद्भवान् ॥ 5.1.10 ॥
श्रीपराशर उवाच [Sage Parasara said]
तथेत्याह ततः कंसो वसुदेवं द्विजोत्तम ।
न घातयामास च तां देवकींसत्यगौरवात् ॥ 5.1.11 ॥
एतस्मिन्नेवकाले तु भूरिभारावपीडिता ।
जगाम धरणी मेरौ समाजं त्रिदिवौकसाम् ॥ 5.1.12 ॥
स ब्रह्मकान्सुरान्सर्वान्प्रणिपत्याथ मेदिनि ।
कथयामास तत्सर्वं खेदात्करुणभाषिणी ॥ 5.1.13 ॥
भूमिरुवाच
अग्निःसुवर्णस्य गुरुर्गवां सूर्यः परो गुरुः ।
ममाप्यखिललो कानां कुरुर्नारायणो गरुः ॥ 5.1.14॥
प्रजापतिपतिर्ब्रह्म पूर्वेषामपि पूर्वजः ।
कलाकाष्ठानिमेषात्मा कालश्चाव्यक्तमूर्तिमान् ॥ 5.1.15॥
तदंशभूतःसर्वैषां समूहो वःसुरोत्तमाः ॥ 5.1.16॥
आदित्या सरुतःसाध्या रुद्रा वस्वश्विवह्नयः ।
पितरो ये च लोकानां स्रष्टारोऽत्रिपुरोगमाः ॥ 5.1.17॥
एते तस्याप्रमेयस्य विष्णो रूपं महात्मनः ॥ 5.1.18 ॥
यक्षराक्षसदैतेयपिशाचोरगदानवाः ।
गन्धर्वाप्सरसश्चैवरूपं विष्णोर्महात्मनः ॥ 5.1.19॥
ग्रहर्क्षतारकाचित्रगगनाग्निजलानिलाः ।
अहं च विषयाश्चैव सर्व विष्णुमयं जगत् ॥ 5.1.20 ॥
तथा चानेकरूपस्य यस्य रूपाण्य हर्निशम् ।
बाध्यबाधकतां यान्ति कल्लोला इव सागरे ॥ 5.1.21 ॥
तत्सांप्रतममी दैत्याः कालनेमिपुरोगमाः ।
मर्त्यलोकं समाक्रम्य बाधन्तेऽहर्निशं प्रजाः ॥ 5.1.22 ॥
कालनेमिर्हतो योऽसौ विष्णुना प्रभविष्णुना ।
उग्रसेनसुतः कंसःसंभूतःस महासुरः ॥ 5.1.23 ॥
आरिष्टो धेनुकः केशी प्रलंबो नरकस्तथा ।
सुंदोऽसुरस्तथात्युग्रो बाणश्चापि बलेःसुतः ॥ 5.1.24॥
तथान्ये च महावीर्या नृपाणां भवनेषु ये ।
समुत्पन्ना दुरात्मानस्तान्न संख्यातुमुत्सहे ॥ 5.1.25॥
अक्षोहिण्योत्र बहुला दिव्यमूर्तिधराःसुराः ।
महाबलानां दृप्तानां दैत्येन्द्रणां ममोपरि ॥ 5.1.26॥
तद्भूरिभार पीडार्ता न शक्नोम्यमरेश्वराः ।
बिभर्तुमात्मानमहमिति विज्ञापयामि वः ॥ 5.1.27॥
क्रियतां तन्महाभागा मम भारावतारणम् ।
यथा रसातलं नाहं गच्छेयमतिविह्वला ॥ 5.1.28 ॥
इत्याकर्ण्य धरावाक्यमशेषैस्त्रिदशेश्वरैः ।
भुवो भारावतारार्थं ब्रह्मा प्राह प्रचोदितः ॥ 5.1.29॥
ब्रह्मोवाच
यथाह वसुधा सर्वं सत्यमेव दिवौकसः ।
अहं भवो भवन्तश्च सर्वे नारायणात्मकाः ॥ 5.1.30 ॥
विभूतयश्च यास्तस्य तासामेव परस्परम् ।
आधिक्यन्यू6 अताबाध्यबाधकत्वेन वर्तते ॥ 5.1.31 ॥
तदागच्छत गच्छामः क्षीराब्धेस्तटमुत्तमम् ।
तत्राराध्य हरिं तस्मै सर्वं विज्ञापयाम वै ॥ 5.1.32 ॥
सर्वथैव जगत्यर्थे स सर्वात्मा जगन्मयः ।
सत्त्वांशेनावतीर्योर्व्यां धर्मस्य कुरुते स्थितिम् ॥ 5.1.33 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्त्वा प्रययो तत्र सह देवैः पितामहः ।
समाहितमनाश्चैवं तुष्टाव गरुडध्वजम् ॥ 5.1.34॥
ब्रह्मोवाच
द्वे विद्ये त्वमनाम्नायपरा चैवापरा तथा ।
त एव भवतो रूपे मूर्तामूर्तात्मिके प्रभो ॥ 5.1.35॥
द्वे ब्रह्मणी त्वणीयोतिस्थूलात्मन्सर्व सर्ववित् ।
शब्दब्रह्मपरं चैव ब्रह्म ब्रह्ममयस्य यत् ॥ 5.1.36॥
ऋग्वेदस्त्वं यजुर्वेदःसामवेदस्त्वथर्वणः ।
शिक्षाकल्पो निरुक्तं च च्छन्दो ज्योतिषमेव च ॥ 5.1.37॥
इतिहासपुराणे च तथा व्याकरणं प्रभो ।
मीमांसा न्यायशास्त्रं च धर्मशास्त्राण्यधोक्षज ॥ 5.1.38 ॥
आत्माऽत्मदेहगुणवद्विचाराचारि यद्वच ।
तदप्याद्यपते नान्यदध्यात्मात्मस्वरूपवत् ॥ 5.1.39॥
त्वमव्यक्तमनिर्देश्यमचिन्त्यानामवर्मवत् ।
अपाणिपादरूपं च शुद्धं नित्यं परात्परम् ॥ 5.1.40 ॥
शृणोष्यकर्णः परिपश्यसि त्वमचक्षुरूपो बहुरूपरूपः ।
अपादहस्तो जवनो ग्रहीता त्वं वेत्सि सर्वं च सर्ववेद्यः ॥ 5.1.41 ॥
अणोरणीयां समसत्स्वरूपं त्वां पश्यतो ज्ञाननिवृत्तिरग्र्या ।
धीरस्य धीरस्य बिभर्ति नान्यद्वरेण्यरूपात्परतः परात्मन् ॥ 5.1.42 ॥
त्वं विश्वनाभिर्भुवनस्य गोप्ता सर्वाणि भूतानि तवान्तराणि ।
यद्भूतभव्यं यदणोरणीयः पुमांस्त्वमेकः प्रकृतेः परस्तात् ॥ 5.1.43 ॥
एकश्चतुर्धा भगवान्हुताशो वर्चोविभूतं जगतो ददासि ।
त्वं विश्वतश्चक्षुरनन्तमूर्ते त्रेधा पदं त्वं निदधासि धातः ॥ 5.1.44॥
यथाग्निरेको बहुधा समिध्यते विकारभेदैरविकाररूपः ।
तथा भवान्सर्वगतैकरूपी रूपाण्यशेषाण्यनुपुष्यतीश ॥ 5.1.45॥
एकं तवाग्र्यं परमं पदं यत्पश्यन्ति त्वां सूरयो ज्ञानदृश्यम् ।
त्वत्तो नान्यत्किञ्चिदस्ति स्वरूपं यद्वा भूतं यच्च भव्यं परात्मन् ॥ 5.1.46॥
व्यक्ताव्यक्तस्वरूपस्त्वं समष्टिव्यष्टिरूपवान् ।
सर्वज्ञःसर्वनित्सर्वशक्तिज्ञानबलर्धिमान् ॥ 5.1.47॥
अन्यूनश्चाप्यवृद्धिश्च स्वाधीनो नादिमान्वशी ।
क्लमतन्द्री भयक्रोधकामादिभिरसंयुतः ॥ 5.1.48 ॥
निरवद्यः परः प्राप्तेर्निरधिष्ठोऽक्षरः क्रमः ।
सर्वेश्वरः पराधारो धाम्नां धामात्मकोऽक्षयः ॥ 5.1.49॥
सकलावरणानीतनिरालंबनभावन ।
महाविभूतिसंस्थान नमस्ते पुरुषोत्तम ॥ 5.1.50 ॥
नाकारणात्कारणाद्वा कारणाकारणान्न च ।
शरीरग्रहणं वापि धर्मत्राणाय केवलम् ॥ 5.1.51 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्येवं संस्तवं श्रुत्वा मनसा भगवानजः ।
ब्रह्माणमाह प्रीतेन विश्वरूपं प्रकाशयन् ॥ 5.1.52 ॥
श्रीभगवानुवाच
भोभो ब्रह्मंस्त्वया मत्तःसह देवैर्यदिष्यते ।
तदुच्यतामशेषं च सिद्धमेवावधार्यताम् ॥ 5.1.53 ॥
श्रीपराशर उवाच [Sage Parasara said]
ततो ब्रह्मा हरेर्दिव्य विश्विरूपमवेक्ष्य तत् ।
तुष्टाव भूयो देवेषु साध्वसावनतात्मसु ॥ 5.1.54॥
ब्रह्मोवाच
नमो नमस्तेस्तु सहस्रकृत्वःसहस्रबाहो बहुवक्त्रपाद ।
नमोनमस्ते जगतः प्रवृत्तिविनाशसंस्थानकराप्रमेय ॥ 5.1.55॥
सूक्ष्मातिसूक्ष्मातिबृहत्प्रमाम गरीयसामप्यतिगौरवात्मन् ।
प्रधानबुद्धीन्द्रियवत्प्रधानमूलात्परात्मन्भगवन्प्रसीद ॥ 5.1.56॥
एषा मही देव महीप्रसूतैर्महासुरैः पीडितशैलबन्धा ।
परायणं त्वां जगतामुपैति भारावतारार्थमपारसार ॥ 5.1.57॥
एते वयं वृत्ररिपुस्तथायं नासत्यदस्त्रौ वरुणस्तथैव ।
इमे च रुद्रा वसवःससूर्याःसमीरणाग्निप्रसुखास्तथान्ये ॥ 5.1.58 ॥
सुराःसमस्ताःसुरनाथकार्यमेभिर्मया यच्च तदीश सर्वाम् ।
आज्ञापयाज्ञां परिपालयन्तस्तवैव तिष्ठाम सदास्तदोषाः ॥ 5.1.59॥
श्रीपराशर उवाच [Sage Parasara said]
एवं संस्तूयमानस्तु भगवान्परमेश्वरः ।
उज्जहारात्मनः केशौ सितकृष्णौ महामुने ॥ 5.1.60 ॥
उवाच च सुरानेतौ मत्केशौ वसुधातले ।
अवतीर्य भुवो भारक्लेशहानिं करिष्यतः ॥ 5.1.61 ॥
सुराश्च सकलाःस्वांशैरवतीर्य महीतले ।
कुर्वन्तु युद्धमुन्मत्तैः पूर्वोत्पन्नैर्महासुरैः ॥ 5.1.62 ॥
ततः क्षयमशेषास्ते दैतेया धरमीतले ।
प्रयास्यन्ति न संदेहो मद्दृपातविचूर्णिताः ॥ 5.1.63 ॥
वसुदेवस्य या पत्नी देवकी देवतोपमा ।
तत्रायमष्टमो गर्भो मत्केशो भविता सुराः ॥ 5.1.64॥
अवतीर्य च तत्रायं कंसं घातयिता भुवि ।
कालनेमीं समुद्भूतमित्युक्त्वान्तर्दधे हरिः ॥ 5.1.65॥
अदृश्याय ततस्तस्मै प्रणिपत्य महामुने ।
मेरुपृष्ठं सुरा जग्मुरवतेरुश्च भूतले ॥ 5.1.66॥
कंसाय चाष्टमो गर्भो देवक्या धरणीधरः ।
भविष्यतीत्याच चक्षे भगवान्नारदो मुनिः ॥ 5.1.67॥
कंसोऽपि तदुपश्रुत्य नारदात्कुपितस्ततः ।
देवकीं वसुदेवं च गृहे गुप्तावधारयत् ॥ 5.1.68 ॥
वसुदेवेन कंसाय तेनैवोक्तं यथा पुरा ।
तथैव वसुदेवोऽपि पुत्रमर्पितवान् द्विज ॥ 5.1.69॥
हिरण्यकशिपोः पुत्राःषड्गर्भा इति विश्रुताः ।
विष्णुप्रयुक्ता स्तान्निद्राक्रमाद्गर्भानयोजयत् ॥ 5.1.70 ॥
योगनिद्रा महामाया वैष्णवी मोहितं यया ।
अविद्यया जगत्सर्वं तामाह भगवान्हरिः ॥ 5.1.71 ॥
श्रीभगवानुवाच
निद्रे गच्छ ममादेशात्पातालातलसंश्रयान् ।
एकैकत्वेन षड्गर्भान्देवकीजठरं नय ॥ 5.1.72 ॥
हतेषु तेषु कंसेन शेषाख्योंशस्ततो मम ।
अंशांशोनादरे तस्याःसप्तमः संभविष्यति ॥ 5.1.73 ॥
गोकुले वसुदेवस्य भार्यान्या रोहिणी स्थिता ।
तस्याःस संभूतिसमं देवि नेयस्त्वयोदरम् ॥ 5.1.74॥
सप्तमो भोजरा जस्य भयाद्रोधोपरोधतः ।
देवक्याः पितितो गर्भ इति लोको वदिष्यति ॥ 5.1.75॥
गर्भसंकर्षणात्सोऽथ लोके संकर्षणेति वै ।
संज्ञामवाप्स्यते वीरः श्वेताद्रिशिखरोपमः ॥ 5.1.76॥
ततोऽहं संभविष्यामि देवकीजठरे शुभे ।
भर्गं त्वया यशोदाया गन्तव्यमविलंबितम् ॥ 5.1.77॥
प्रावृट्काले च नभसि कृष्णाष्टम्यामहं निशि ।
उत्पत्स्यामि नवम्यां तु प्रसूतिं त्वमवाप्स्यसि ॥ 5.1.78 ॥
यशोदाशयने मां तु देवक्यास्त्वामनिन्दिते ।
मच्छक्तिप्रोरितमतिर्वसुदेवो नयिष्यति ॥ 5.1.79॥
कंसश्च त्वामुपादाय देवि शैलशिलातले ।
प्रक्षेप्स्यत्यन्तारिक्षे च संस्थानं त्वमवाप्स्यसि ॥ 5.1.80 ॥
ततस्त्वां शतदृक्छक्रः प्रणम्य मम गौरवात् ।
प्रणिपातानतशिरा भगिनीत्वे ग्रहीष्यति ॥ 5.1.81 ॥
त्वं च शुंभनिशुंभादीन्हत्वा दैत्यान्सहस्रशः ।
स्थानैरनेकैः पृथिवीमशेषां मण्डयिष्यसि ॥ 5.1.82 ॥
त्वं भूतिः सन्नतिः क्षान्तिः कान्तिर्द्यौः पृथिवी धृतिः ।
लज्जापुष्टी रुषा या तु काचिदन्या त्वमेव सा ॥ 5.1.83 ॥
ये त्वामार्येति दुर्गेति वेदगर्भांबिकेति च ।
भद्रेति भद्रकालीति क्षेमदा भग्यदेति च ॥ 5.1.84॥
प्रातश्चैवापराह्ने च स्तोष्यन्त्यानम्रमूर्तयः ।
तेषां हि प्रार्थितं सर्वं मत्प्रसादाद्भविष्यति ॥ 5.1.85॥
सुरामांसोपहरैश्च भक्ष्यभोज्यैश्च पूजिता ।
नॄणामशेषसामांस्त्वं प्रसन्ना संप्रदास्यसि ॥ 5.1.86॥
ते सर्वे सर्वदा भद्रे मत्प्रसादादसंशयम् ।
असंदिग्धा भविष्यन्ति गच्छ देवि यथोदितम् ।
इति विष्णुमहापुराणे पञ्चमांशे प्रथमोऽध्यायः (1)
श्रीपराशर उवाच [Sage Parasara said]
यथोक्तं सा जगद्धात्रा देवदेवेन वै तथा ।
षड्गर्भगर्बविन्यासं चक्रे चान्यस्य कर्षणम् ॥ 5.2.1 ॥
सप्तमे रोहिणीं गर्भे प्राप्ते गर्भं ततो हरिः ।
लोकत्र योपकाराय देवक्याः प्रविवेश ह ॥ 5.2.2॥
योगनिद्रा यशोदायास्तस्मिन्नेव तथा दिने ।
संभूता जठरे तद्वद्यथोक्तं परमेष्ठिना ॥ 5.2.3 ॥
ततो ग्रहगणःसम्यक्प्रचचार दिवि द्विज ।
विष्णोरंशे भुवं याते ऋतवश्चाबभुः शुभाः ॥ 5.2.4 ॥
न सेहे देवकीं द्रष्टं कश्तिदप्यतितेजसा ।
जाज्वल्यमानां तां दृष्ट्वा मनांसि क्षोभमाययुः ॥ 5.2.5॥
अदृष्टाः पुरुषैः स्त्रीभिर्देवकीं देवतागणाः ।
बिभ्राणां वपुषा विष्णुं तुष्टुवुस्तामहर्निशम् ॥ 5.2.6॥
देवता ऊचुः
प्रकृतिस्त्वं परा सूक्ष्मा ब्रह्मगर्भाभवत्पुरा ।
ततो वाणी जगद्धातुर्वेदगर्भासि शोभने ॥ 5.2.7॥
सृज्यस्वरूपगर्भासि सृष्टिभूता सनातने ।
बीजभूता तु सर्वस्य यज्ञभूता भवस्त्रयी ॥ 5.2.8॥
फलगर्भा त्वमेवेज्या वह्निगर्भा तथारणिः ।
अदितिर्देवगर्भा त्वं दैत्यगर्भा तथा दितिः ॥ 5.2.8 ॥
ज्योत्स्ना वासरगर्भा त्वं ज्ञानगर्भासि सन्नतिः ।
नयगर्भा परा नीतिर्लज्जा त्वं प्रश्रयोद्वहा ॥ 5.2.10 ॥
कामगर्भा तथेच्छा त्वं तुष्टिः संतोषगर्भिणी ।
मेधा च बोधगर्भसि धैर्यगर्भोद्वहा धृतिः ॥ 5.2.11 ॥
ग्रहर्क्षतारकागर्भा द्यौरस्याखिलहैतुकी ।
एता विभूतयो देवि तथान्याश्च सहस्रशः ॥ 5.2.12 ॥
तथा संख्या जगद्धात्री सांप्रतं जठरे तव ।
समुद्राद्रिनदीद्वीपवनपत्तनभूषणा ।
ग्रामखर्वटखेटाढ्या समस्ता पृतिवी शुभे ॥ 5.2.13 ॥
समस्तवह्नयोंऽभांसि सकलाश्च समीरणाः ।
महोरगास्तथा यक्षा राक्षसाः प्रेतगुद्यकाः ॥ 5.2.14॥
ग्रहर्क्षतारकाचित्रविमानशतसंकुतम् ।
अवकाशमशेषस्य यद्ददाति नभस्थलम् ॥ 5.2.15॥
भूलोकश्च भुवर्लोकःस्वर्लोकोऽथ महर्जनः ।
तपश्च ब्रह्मलोकश्च ब्रह्माण्डमखिलं शुभे ॥ 5.2.16॥
तदन्तरे स्थिता देवा दैत्यगन्धर्वचारणाः ।
महोरगास्तथा यक्षा राक्षसाः प्रेतगुह्यकाः ॥ 5.2.17॥
मनुष्याः पशवश्चान्ये ये च जीवा यशस्विनि ।
तैरन्तस्थैरनन्तोऽसौ सर्वगः सर्वभावनः ॥ 5.2.18 ॥
रूपकर्मस्वरूपाणि न परिच्छेदगोचरे ।
यस्याखिलप्रमाणानि स विष्णुर्गर्भगस्तव ॥ 5.2.19॥
त्वं स्वाहा त्वं स्वधा विद्या स्वधा त्वं ज्योतिरंबरे ।
त्वं सर्वलोकरक्षार्थमवतीर्णा महीतले ॥ 5.2.20 ॥
प्रसीद देवि सर्वस्य जगतः शं शुभे कुरु ।
प्रीत्या तं धारयेशानं धृतं येनाखिलं जगत् ॥ 5.2.21 ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे द्वितीयोऽध्यायः (2)
श्रीपराशर उवाच [Sage Parasara said]
एवं संस्तूयमाना सा देवैर्देवमधारयत् ।
गर्भेण पुण्डरीकाक्षं जगतस्त्राणकारणम् ॥ 5.3.1 ॥
ततोऽखिलजगत्पद्मबोधायाच्युतभानुना ।
देवकीपूर्वसंध्यायामाविर्भूतं महात्मना ॥ 5.3.2॥
तज्जन्मदिनमत्यर्थमाह्लाद्यमलदिङ्मुखम् ।
बभूव कर्वलोकस्य कौमुदी शशिनो यथा ॥ 5.3.3 ॥
संतःसंतोषमधकं प्रशमं चञ्जमारुताः ।
प्रसादं निम्नगा याता जायमाने जनार्दने ॥ 5.3.4 ॥
सिंधवो निजशब्देन वाद्यं चक्रुर्मनोहरम् ।
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ 5.3.5॥
ससृजुः पुष्पवर्षाणि देवा भुव्यन्तरिक्षगाः ।
जज्वलुश्चाग्नयः शान्ता जायमाने जनार्दने ॥ 5.3.6॥
मदं जगुर्जुर्जलदाः पुष्पवृष्टिमुचो द्विज ।
अर्धरात्रेऽखिलाधारे जायमाने जनार्दने ॥ 5.3.7॥
फुल्लेन्दीवरपत्राभं चतुर्बाहुमुदीक्ष्य तम् ।
श्रीवत्सवक्षसं जातं तुष्टावानकदुन्दुभिः ॥ 5.3.8॥
अभिष्ट्रय च तं वाग्भिः प्रसन्नाभिर्महामतिः ।
विज्ञापयामास तदा कंसाद्भीतो द्विजोत्तम ॥ 5.3.8 ॥
वसुदेव उवाच
जातोसि देवदेवेश शङ्खचक्रगदाधरम् ।
दिव्यरूपमिदं देव प्रसादेनोपसंहर ॥ 5.3.10 ॥
अद्यैव देव कंसोयं कुरुते मम घातनम् ।
अवतीर्म इति ज्ञात्वा त्वमस्मिन्मममन्दिरे ॥ 5.3.11 ॥
देवक्युवाच
योऽनन्तरूपोऽखिलविश्वरूपो गर्भेपि लोकान्वपुषा बिभर्ति ।
प्रसीतदामेष स देवदेवो यो माययाविष्कृतबालरूपः ॥ 5.3.12 ॥
उपसंहर सर्वात्मन्रूपमेतच्चतुर्भुजम् ।
जानातु मावतारं ते कंसोयं दितिजन्मजः ॥ 5.3.13 ॥
श्रीभगवानुवाच
स्तुतोऽहं य त्त्वया पूर्वं पुत्रार्थिन्या तदद्य ते ।
सफलं देवि संजातं जातोऽहं यत्तवोदरात् ॥ 5.3.14॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्त्वा भगवांस्तूष्णीं बभूव मुनिसत्तम ।
वसुदेवोपि तं रात्रावादाय प्रययौ बहिः ॥ 5.3.15॥
मोहिताश्चाभवेस्तत्र रक्षिणो योगनिद्रया ।
मथुराद्वारपालाश्च व्रजत्यानकदुन्दुभौ ॥ 5.3.16॥
वर्षतां जलदानां च तोयमात्युल्बणं निशि ।
संवृत्यानुययौ शेषः फणैरानकदुन्दुभिम् ॥ 5.3.17॥
यमुनां चातिगंभीरां नानावर्तशताकुलाम् ।
वसुदेवो वहन्विष्णुं जानुमात्रवहां ययौ ॥ 5.3.18 ॥
कंसस्य करदानाय तत्रैवाब्यागतास्तटे ।
नन्दादीन्गोपवुद्धांश्च यमुनाया ददर्श सः ॥ 5.3.19॥
तस्मिन्काले यशोदापि मोहिता योगनिद्रया ।
तामेव कन्यां मैत्रेय प्रसूता मोहिते जने ॥ 5.3.20 ॥
वसुदेवोपि विन्यस्य बालमादाय दारिकाम् ।
यशोदाशयनात्तूर्णमाजगामामितद्युतिः ॥ 5.3.21 ॥
ददृशे च प्रबुद्धा सा यशोदा जातमात्मजम् ।
नीलोत्पलदलश्यामं ततोत्यर्थं मुदं ययौ ॥ 5.3.22 ॥
आदाय वसुदेवोऽपि दारिकां निजमन्दिरे ।
देवकीशयने न्यस्य यथापूर्वमतिष्ठत ॥ 5.3.23 ॥
ततो बालध्वनिं श्रुत्वा रक्षिणः सहसोत्थिताः ।
कंसायावेदयामासुर्देवकीप्रसवन्द्विज ॥ 5.3.24॥
कंसस्तूर्णमुपेत्यैनां ततो जग्रह बालिकाम् ।
मुञ्चमुञ्चेति देवक्या सन्नकण्ठ्या निवारितः ॥ 5.3.25॥
चिक्षेप च शिलापृष्ठे सा क्षिप्ता वियति स्थिता ।
अवाप रूपं सुमहत्सायुधाष्टमहाभुजम् ॥ 5.3.26॥
प्रजहास तथैवोच्चैः कंसं च रुषिताब्रवीत् ।
किं मया क्षिप्तया कंस जाता यस्त्वां वधिष्यति ॥ 5.3.27॥
सर्वस्वभूतो देवानामासीन्मृत्युः पुरा स ते ।
तदेतत्संप्रधार्याशु क्रियतां हितमात्मनः ॥ 5.3.28 ॥
इत्युक्त्वा प्रययौ देवी दिव्यस्रग्गन्धभूषणा ।
पश्यतो भोजराजस्य स्तुता सिद्धैर्विहायसा ॥ 5.3.29॥
इति श्रिविष्णुमहापुराणे पञ्चमांशे तृतीयोऽध्यायः (3)
श्रीपराशर उवाच [Sage Parasara said]
कंसस्ततोद्विग्नमनाः प्राह सर्वान्महासुरान् ।
प्रलंबकेशिप्रमुखानाहूयासुरपुङ्गवान् ॥ 5.4.1 ॥
कंस उवाच
हे प्रलंब महाबाहो केशिन् धेनुक पूतने ।
अरिष्टाद्यास्तथैवान्ये श्रूयतां वचनं मम ॥ 5.4.2॥
मां हन्तुममरैर्यत्नः कृतः किल दुरात्मभिः ।
मद्वीर्यतापितान्वीरो न त्वेतान्गणयाम्यहम् ॥ 5.4.3 ॥
किमिन्द्रेणाल्पवीर्येण किं हरेणैकचारिणा ।
हरिणा वापि किं साध्यं छिद्रेष्वसुरघातिना ॥ 5.4.4 ॥
किमादित्यैः किं वसुभिरल्पवीर्यैः किमग्निभिः ।
किंवान्यैरमरैः सर्वैर्मद्बाहुबलनिर्जितैः ॥ 5.4.5॥
किं न दृष्टोमरपतिर्मया संयुगमेत्य सः ।
पृष्ठेनैव वहन्बाणानपगच्छन्नवक्षसा ॥ 5.4.6॥
मद्राष्ट्रे वारिता वृष्टिर्यदा शक्रेण किं तदा ।
मद्बाणभिन्नैर्जलदैरापो मुक्तायथेप्सिताः ॥ 5.4.7॥
किमुर्व्यामवनीपाला मद्बाहुबलभीरवः ।
ते सर्वे सन्नतिं याता जरासंधमृते गुरम् ॥ 5.4.8॥
अमरेषु ममावज्ञा जायते दैत्यपुङ्गवाः ।
हास्यं मे जायते वीरास्तेषु यत्नपरेष्वपि ॥ 5.4.8 ॥
तथापि खलु दुष्टानां तेषामप्यधिकं मया ।
अपकाराय दैत्येन्द्रा यतनीयं दुरात्मनाम् ॥ 5.4.10 ॥
तद्ये यशस्विनः केचित्पृथिव्यां ये च यज्वनः ।
कार्यो देवापकाराय तेषां सर्वात्मना वधः ॥ 5.4.11 ॥
उत्पन्नश्चापि मे मृत्युर्भूतपूर्वःस वै किल ।
इत्येतद्दारिका प्राह देवकीगर्भसंभवा ॥ 5.4.12 ॥
तस्माद्बालेषु च परो यत्नः कार्यो महीतले ।
यत्रोद्रिक्तं बलं बाले स हन्तव्यः प्रयत्नतः ॥ 5.4.13 ॥
इत्याज्ञाप्यासुरान्कसः प्रविश्याशु गृहं ततः ।
मुमोच वसुदेवं च देवकीं च निरोदतः ॥ 5.4.14॥
कंस उवाच
युवयोर्घातिता गर्भा वृथैवैते मयाधुना ।
कोप्यन्य एव नाशाय मम गर्भःसमुद्यतः ॥ 5.4.15॥
तदलं परितापेन नुनं तद्भाविनो हि ते ।
अर्भका युवयोर्देषाच्चायुषो यद्वियोजिताः ॥ 5.4.16॥
श्रीपराशर उवाच [Sage Parasara said]
इत्याश्वास्य विमुक्त्वा च कंसस्तौ परिशङ्कितः ।
अन्तर्गृहं द्विजश्रेष्ठ प्रविवेश ततः स्वकम् ॥ 5.4.17॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे चतुर्थोऽध्यायः (4)
श्रीपराशर उवाच [Sage Parasara said]
विमुक्तो वसुदेवोऽपि नन्दस्य शकटं गतः ।
प्रहृष्टं दृष्टवान्नन्दं पुत्रो जातो ममेति वै ॥ 5.5.1 ॥
वसुदेवोपि तं प्राह दिष्ट्यादिष्ट्येति सादरम् ।
वार्धकेऽपि समुत्पन्नस्तनयोऽयं तवाधुना ॥ 5.5.2॥
दत्तो हि वार्षिकःसर्वो भवद्भिर्नृपतेः करः ।
यदर्थमागतास्तस्मान्नात्र स्थेयं महाधनैः ॥ 5.5.3 ॥
यदर्थमागताः कार्यं तन्निष्पन्नं किमस्यते ।
भवद्भिर्गम्यतां नन्द तच्छीघ्रं निजगोकुलम् ॥ 5.5.4 ॥
ममापि बालकस्तत्र रोहिणी प्रभवो हि यः ।
स रक्षणीयो भवता यथायं तनयो निजः ॥ 5.5.5॥
इत्युक्ताः प्रययुर्गोपा नन्दगोपपुरोगमाः ।
शकटारोपितैर्भाडैः करं दत्त्वा महाबलाः ॥ 5.5.6॥
वसतां गोकुले तेषां पूतना बालघातिनी ।
सुप्तं कृष्णमुपादाय रात्रौ तस्मै स्तनं ददौ ॥ 5.5.7॥
यस्मै यस्मै स्तनं रात्रौ पूतना संप्रयच्छति ।
तस्यतस्य क्षणेनाङ्गं बालकस्योपहन्यते ॥ 5.5.8॥
कृष्णस्तु तत्स्तनं गाढं कराभ्यामतिपीडितम् ।
गृहीत्वा प्राणसहितं पपौक्रोधसमन्वितः ॥ 5.5.8 ॥
सातिमुक्तमहारावा विच्छिन्नस्त्रायुबन्धना ।
पपात पूतना भूमौ म्रियमाणातिभीषणा ॥ 5.5.10 ॥
तन्नादश्रुतिसंत्रस्ताः प्रवुद्धास्ते व्रजौकसः ।
ददृशुः पूतनोत्संगे कृष्णं तां च निपातिताम् ॥ 5.5.11 ॥
आदाय कृष्णं संत्रस्ता यशोदापि द्विजोत्तम ।
गोपुच्छभ्रामणेनाथ बालदोषमपाकरोत् ॥ 5.5.12 ॥
गोकरीषमुपादाय नन्दगोपोपि मस्तके ।
कृष्णस्य प्रददो रक्षां कुर्वश्चैतदुदीरयन् ॥ 5.5.13 ॥
नन्दगोप उवाच
रक्षतु त्वामशेषाणां भूतानां प्रभवो हरिः ।
यस्य नाभिसमुद्भूतपङ्कजादभवज्जगत् ॥ 5.5.14॥
येन दंष्ट्राग्रविधृता धारयत्यवनिर्जगत् ।
वराहरूपधृग्देवःस त्वां रक्षतु केशवः ॥ 5.5.15॥
नखाङ्कुरविनिर्भिन्नवैरिवक्षस्थलो विभुः ।
नृसिंहरूपी सर्वत्र रक्षतु त्वां जनार्दनः ॥ 5.5.16॥
वामनो रक्षतु सदा भवन्तं यः क्षणादभूत् ।
त्रिविक्रमः क्रमाक्रान्तत्रैलोक्यः स्फुरदायुधः ॥ 5.5.17॥
शिरस्ते पातु गोविन्दः कण्ठं रक्षतु केशवः ।
गुह्यं च जठरं विष्णुर्जघे पादौ जनार्दनः ॥ 5.5.18 ॥
मुखं बाहू प्रबाहू च मनः सर्वेद्रियाणि च ।
रक्षत्वव्याहतैश्वर्यस्तव नारायणोऽव्ययः ॥ 5.5.19॥
शार्ङ्गचक्रगदापाणेः शङ्खनादहताः क्षयम् ।
गच्छन्तु प्रेतकूष्माण्डराक्षसा ये तवाहिताः ॥ 5.5.20 ॥
त्वां पातु दिक्षु वैकुण्ठो विदिक्षु मधुसूदनः ।
हृषीकेशोंऽबरे भूमौ रक्षतु त्वां महीधरः ॥ 5.5.21 ॥
श्रीपराशर उवाच [Sage Parasara said]
एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः ।
शायितः शकटस्याधो बालपर्यङ्किकातले ॥ 5.5.22 ॥
ते च गोपा महद्दृष्ट्वा पूतनायाः कलेवरम् ।
मृतायाः परमं त्रासं विस्मयं च तदा ययुः ॥ 5.5.23 ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे पञ्चमोऽध्यायः (5)
श्रीपराशर उवाच [Sage Parasara said]
कदाचिच्छकटस्याधः शयानो मधुसूदनः ।
चिक्षेप चरणावूर्ध्वं स्तन्यार्थी प्ररुरोद ह ॥ 5.6.1 ॥
तस्य पादप्रहारेण शकटं परिवर्तितम् ।
विध्वस्तकुंभभाण्डं तद्विपरीतं पपात वै ॥ 5.6.2॥
ततो हाहाकृतः सर्वो गोपरोपीजनो द्विज ।
आजगामाथ ददृशे बालमुतानशायिनम् ॥ 5.6.3 ॥
गोपाः केनेति केनेदं शकटं परिवर्तितम् ।
तत्रैव बालकाः प्रोचुर्बालेनानेन पातितम् ॥ 5.6.4 ॥
रुदता दृष्टमस्माभिः पादविक्षेपपातितम् ।
शकटं परिवृत्तं वै नैतदन्यस्य चेष्टितम् ॥ 5.6.5॥
ततः पुनरतीवासन्गोपा विस्मयचेतसः ।
नन्दगोपोपि जग्राह बालमत्यन्तविस्मितः ॥ 5.6.6॥
यशोदा शकटारूढभग्नभाण्डकपालिका ।
शकटं चार्चयामास दधिपुष्पफलाक्षतैः ॥ 5.6.7॥
गर्गश्च गोकुले तत्र वसुदेवप्रचोदितः ।
प्रच्छन्न एव गोपानां संस्कारान करोत्तयोः ॥ 5.6.8॥
ज्येष्ठं च राममित्याह कृष्णं चैव तथावरम् ।
गर्गो मतिमतां श्रेष्ठो नाम कुर्वन्महामतिः ॥ 5.6.8 ॥
स्वल्पेनैव तु कालेन रङ्गिणौ तौ तदा व्रहे ।
घृष्टजानुकरौ विप्र बभूवतुरुभावपि ॥ 5.6.10 ॥
करीषभस्मदिग्धाङ्गौ भ्रममाणावितस्ततः ।
न निवारयितुं सेहे यशोदा तौ न रोहिणी ॥ 5.6.11 ॥
गोवाटमध्ये क्रीडन्तौ वत्सवाटं गतौ पुनः ।
तदहर्जातगोवत्सपुच्छाकर्षणतत्परौ ॥ 5.6.12 ॥
यदा यशोदा तौ बालावेकस्थानचरावुभौ ।
शशाक नो वारयितुं क्रीडन्तावतिचञ्चलौ ॥ 5.6.13 ॥
दाम्ना मध्ये ततो बद्धा बबन्ध तमुलूखले ।
कृष्णमक्लिष्टकर्माणमाह चेदममर्षिता ॥ 5.6.14॥
यदि शक्नोषि गच्छ त्वमतिचञ्चलचेष्टित ।
इत्युक्त्वाथ निजं कर्म सा चकार कुटुंबिनी ॥ 5.6.15॥
व्याग्रायामथ तस्यां स कर्षमाम उलूखलम् ।
यमलार्जुनमध्येन जगाम कमलेक्षणः ॥ 5.6.16॥
कर्षता वृक्षयोर्मध्ये तिर्यग्गतमुलूखलम् ।
भग्नावुत्तुङ्गशाखाग्रौ तेन तौ यमलार्जुनौ ॥ 5.6.17॥
ततः कटकटशब्दसमाकर्मनतत्परः ।
आजगाम व्रजजनो ददर्श च महाद्रुमौ ॥ 5.6.18 ॥
नवोद्गताल्पदन्तांशुसितहासं च बालकम् ।
तयोर्मध्यगतं दाम्ना बद्धं गाढं तथोदरे ॥ 5.6.19॥
ततश्च तामोदरतां स ययौ दामबन्धनात् ॥ 5.6.20 ॥
गोपवृद्धास्ततः सर्वे नन्दगोपपुरोगमाः ।
मन्त्रयामासुरुद्विग्ना महोत्पातातिभीरवः ॥ 5.6.21 ॥
स्थानेनेह न नः कार्यं व्रजामोन्यन्महावनम् ।
उत्पाता बहवो ह्यत्र दृश्यन्ते नाशहेतवः ॥ 5.6.22 ॥
पूतनाया विनाशश्च शकटस्य विपर्ययः ।
विना वातादिदोषेण द्रुमयोः पतनन्तथा ॥ 5.6.23 ॥
वृन्दावनमितःस्थानात्तस्माद्गच्छाम मा चिरम् ।
यावद्भौममहोत्पातदोषो नाभिभवेव्द्रजम् ॥ 5.6.24॥
इति कृत्वा मतिं सर्वे गमने ते व्रजौकसः ।
ऊचुः स्वं स्वं कुलं शीघ्रं गम्यतां मा विलंबथ ॥ 5.6.25॥
ततः क्षणेन प्रययुः शकटैर्गोधनैस्तथा ।
यूथशो वत्सपालाश्च कालयन्तो व्रजौकसः ॥ 5.6.26॥
द्रव्यावयवनिर्धूतं क्षणमात्रेण तत्तथा ।
काकभाससमाकीर्णं व्रजस्थानमभूद्दूज ॥ 5.6.27॥
वृन्दावनं भगवता कृष्णेना क्लिष्टकर्मणा ।
शुभेन मनसा ध्यातं गवं सिद्धिमभीप्सता ॥ 5.6.28 ॥
ततस्तत्रातिरूक्षेऽपि घर्मकाले द्विजोत्तम ।
प्रावृट्काल इवोद्भूतं नवशष्पं समन्ततः ॥ 5.6.29॥
स समावासितः सर्वो व्रजो वृन्दावने ततः ।
शकटावाटपर्यन्तश्चन्द्रार्धाकारसंस्थितः ॥ 5.6.30 ॥
वत्सपालौ च संवृत्तौ रामदामोदरौ ततः ।
एक स्थनस्थितौ गोष्ठे चेरतुर्बाललीलया ॥ 5.6.31 ॥
बर्हिपत्रकृतापीडौ वन्यपुष्पावतंसकौ ।
गोपवेणुकृतातोद्यपत्रवाद्यकृतस्वनौ ॥ 5.6.32 ॥
काकपक्षधरौ बालौ कुमाराविव पावकी ।
हसंतौ च रमन्तौ च चेरतुः स्म महावनम् ॥ 5.6.33 ॥
क्वचिद्वहन्तावन्योन्यं क्रीडमानौ तथा परैः ।
गोपपुत्रैः समं वत्सांश्चारयन्तौ विचेरतुः ॥ 5.6.34॥
कालेन गच्छता तौ तु सप्तवर्षौ महाव्रजे ।
सर्वस्य जगतः पालौ वत्सपालौ बभूवतुः ॥ 5.6.35॥
प्रावृट्कालस्ततोतीव मेघौघस्थगितांबरः ।
बभूव वारिधाराभिरैक्यं कुर्वन्दिशामिव ॥ 5.6.36॥
प्ररूढनवशष्पाढ्या शक्रगोपाचिता मही ।
तथा मारकतीवासीत्पद्मरागविभूषिता ॥ 5.6.37॥
ऊहुरुन्मार्गवाहीनि निम्नगांभांसि सर्वतः ।
मनांसि दुर्विनीतानां प्राप्य लक्ष्मीं नवामिव ॥ 5.6.38 ॥
न रेजेन्तरितश्चन्द्रो निर्मलो मलिनैर्घनैः ।
सद्वादिवादो मूर्खणां प्रगल्भाभिरिवोक्तिभिः ॥ 5.6.39॥
निर्गुणेनापि चापेन शक्रस्य गगने पदम् ।
अवाप्यताविवेकस्य नृपस्यैव परिग्रहे ॥ 5.6.40 ॥
मेघपृष्ठे बलाकानां रराज विमला ततिः ।
दुर्वत्ते वृत्तचेष्टेव कुलीनस्यातिशौभना ॥ 5.6.41 ॥
न ब बन्धांबरे स्थैर्यं विद्युदत्यन्तचञ्चला ।
मैत्रीव प्रवरे पुंसि दुर्जनेन प्रयोजिता ॥ 5.6.42 ॥
मार्गा बभूवुरस्पष्टास्तृणशष्पचयावृताः ।
अर्थान्तरमनुप्राप्ताः प्रजडानामिवोक्तयः ॥ 5.6.43 ॥
उन्मत्तशिखिसारङ्गे तस्मिन्काले महावने ।
कृष्णरामौ मुदायुक्तौ गोपालैश्चेरतुः सह ॥ 5.6.44॥
क्विचिद्गोभिः समं रम्यं गोयतानरतावुभौ ।
चेरतुः क्वचिदत्यर्थं शीतवृक्षतलाश्रितौ ॥ 5.6.45॥
क्वचित्कदंबस्रक्चित्रौ मयूरस्रग्विराजितौ ।
विलिप्तौ क्वचिदासातां विविधैर्गिरिधातुभिः ॥ 5.6.46॥
पर्णशय्यासु संसुप्तौ क्वचिन्निद्रान्तरैषिणौ ।
क्वचिद्गर्जति जीमूते हाहाकाररवाकुलौ ॥ 5.6.47॥
गायतामन्य गोपानां प्रशंसापरमौ क्वचित् ।
मयूरकेकानुगतौ गोपवेणुप्रवादकौ ॥ 5.6.48 ॥
इति नानाविधैर्भावैरुत्तमप्रीतिसंयुतौ ।
क्रीडन्तौ तौ वने तस्मिञ्चेरतुस्तुष्टमानसौ ॥ 5.6.49॥
विकाले च समं गोभिर्गोपवृन्दसमन्वितौ ।
विहृत्याथ यथायोगं व्रजमेत्य महाबलौ ॥ 5.6.50 ॥
गोपैः समानैः सहितौ क्रीडन्तावमराविव ।
एवं तावूषतुस्तत्र रामकृष्णौ महाद्युती ॥ 5.6.51 ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे षष्ठोध्यायः (6)
श्रीपराशर उवाच [Sage Parasara said]
एकदा तु विना रामं कृष्णो वृन्दावनं ययौ ।
विचचार वृतो गोपैर्वन्यपुष्पस्रगुज्ज्वलः ॥ 5.7.1 ॥
स जगामाथ कालिन्दीं लोल कल्लोलशालिनीम् ।
तीरसंलग्नफेनौघैर्हसन्तीमिव सर्वतः ॥ 5.7.2॥
तस्याश्चतिमहाभीमं विषाग्निश्रितवारिणम् ।
ह्रदं कालीयनागस्य ददर्शतिविभीषणम् ॥ 5.7.3 ॥
विषाग्निना प्रसरता दग्धतीरंमहीरुहम् ।
वाताहतांबुविक्षेपस्पर्शदग्धविहङ्गमम् ॥ 5.7.4 ॥
तमतीव महा रौद्रं मृत्युवक्रमिवापरम् ।
विलोक्य चिन्तयामास भगवान्मधुसूदनः ॥ 5.7.5॥
अस्मिन्वसति दुष्टात्मा कालीयोऽसौ विषायुधः ।
यो मया निर्जितस्त्यक्त्वा दुष्टो गच्छेत्पयोनिधिम् ॥ 5.7.6॥
तेनेयं दूषिता सर्वा यमुना सागरङ्गमा ।
न नरैगोधनैश्चापि तृषार्तैरुपभुज्यते ॥ 5.7.7॥
तदस्य नागराजस्य कर्तव्यो निग्रहो मया ।
निस्त्रासास्तु सुखं येन चरेयुर्व्रजवासिनः ॥ 5.7.8॥
एतदर्थं तु लोकेस्मिन्नवतारः कृतो मया ।
यदेषामुत्पथस्थानां कार्या शान्तिर्दुरात्मनाम् ॥ 5.7.8 ॥
तदेतं नातिदूरस्थं कदंबमुरुशाखिनम् ।
अदिरुद्य पतिष्यामि ह्रदेऽस्मिन्ननिलाशिनः ॥ 5.7.10 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्थं विचिन्त्य बद्धा च गाढं परिकरं ततः ।
निपपात ह्रदे तत्र नागराजस्य वेगतः ॥ 5.7.11 ॥
तेनातिपतता तत्र क्षोभितःस महाह्रदः ।
अत्यर्थं दूरजातांस्तु समसिंचन्महीरुहान् ॥ 5.7.12 ॥
ते हि दुष्टविषज्वालातप्तांबुपवनोक्षिताः ।
जज्वलुः पादापाःसद्यो ज्वालाव्याप्तदिगन्तराः ॥ 5.7.13 ॥
आस्फोटयामास तदा कृष्णो नागह्रने भुजम् ।
तच्छब्दश्रवणाच्चाशु नागराजोऽभ्युपागमत् ॥ 5.7.14॥
आताम्रनयनः कोपाद्विषज्वालाकुलैर्मुखैः ।
वृतो महाविषैश्चान्यैरुरगैरनिलाशनैः ॥ 5.7.15॥
नागपत्न्यश्च शतशो हारिहारोपशोभिताः ।
प्रकंपिततनुक्षेपचलत्कुन्तसकान्तयः ॥ 5.7.16॥
ततः प्रवेष्टितःसर्पैः स कृष्णे भोगबन्धनैः ।
ददंशुस्तेऽपि तं कृष्णं विषज्वालाकुलैर्मुखैः ॥ 5.7.17॥
तं तत्र पतितं दृष्ट्वा सर्पभोगौर्निपीडितम् ।
गोपा व्रजमुपागम्य चुक्रुशुः शोकलालसाः ॥ 5.7.18 ॥
गोपा ऊचुः
एष मोहं गतः कृष्णो मग्नौ वै कालियह्रदे ।
भक्ष्यते नागराजेन तमागच्छत पश्यत ॥ 5.7.19॥
तच्छुत्वा तत्र ते गोपा वज्रपा तोपमं वचः ।
गोप्यश्च त्वरीता जग्मुर्यशोदाप्रमुखा ह्रदम् ॥ 5.7.20 ॥
हाहा क्वासाविति जनो गोपीनामतिविह्वलः ।
यशोदया समं भ्रान्तो द्रुतप्रस्खलितं ययौ ॥ 5.7.21 ॥
नन्दगोपश्च गोपाश्च रामश्चाद्भुतविक्रमः ।
त्वरितं यमुनां जग्मुः कृष्णदर्शनलालासाः ॥ 5.7.22 ॥
ददृशुश्चापि ते तत्र सर्पराजवशङ्गतम् ।
निष्प्रयत्नीकृतं कृष्णं सर्पभोगविवेष्टितम् ॥ 5.7.23 ॥
नन्दगोपोपि निश्चेष्टो न्यस्य पुत्रमुखे दृशम् ।
यशोदा च महाभागा बभूव मुनिसत्तम ॥ 5.7.24॥
गोप्यस्त्वन्या रुदन्त्यश्च ददृशुः शोककातराः ।
प्रोचुश्च केशवं प्रीत्या भयकातर्यगद्गदम् ॥ 5.7.25॥
गोप्य ऊचुः
सर्वा यशोदया सार्ध विशामोत्र महाह्रदम् ।
सर्पराजस्य नो गन्तुमस्माभिर्युज्यते व्रजम् ॥ 5.7.26॥
दिवसः सो विना सूर्यं विना चन्द्रेण का निशा ।
विना वृषेण का गावो विना कृष्णेन को व्रजः ॥ 5.7.27॥
विनाकृता न यास्यामः कृष्णेनानेन गोकुलम् ।
अरम्यं नातिसेव्यं च वारिहीनं यथा सरः ॥ 5.7.28 ॥
यत्र नेन्दीवरश्यामकायकान्तिरयं हरिः ।
तेनापि पातुर्वासेन रतिरस्तीति विस्मयः ॥ 5.7.29॥
उत्फुल्लपङ्कजदलस्पष्टकान्तिविलोचनम् ।
अपश्यन्तो हरिं दीनाः कथं गोष्ठे भविष्यथ ॥ 5.7.30 ॥
अत्यन्त मधुरालापहृताशेषमनोरथम् ।
न विना पुण्डरीकाक्षं यास्यामो नन्दगोकुलम् ॥ 5.7.31 ॥
भोगेनाविष्टितस्यापि सर्पराजस्य पश्यत ।
स्मितशोभिमुखं गोप्यः कृष्णस्यास्मद्विलोकने ॥ 5.7.32 ॥
श्रीपराशर उवाच [Sage Parasara said]
इति गोपीवचः श्रुत्वा रौहिणेयो महाबलः ।
गोपांश्च त्रासविधुरान्वि लोक्य स्तिमितेक्षणान् ॥ 5.7.33 ॥
नन्दं च दीनमत्यर्थं न्यस्तदृष्टिं सुतानने ।
मूर्छाकुलां यशोदं च कृष्णमाहात्मसंज्ञया ॥ 5.7.34॥
किमिदं देवदेवेश भावोऽयं मानुषस्त्वया ।
व्यज्यतेत्यन्तमात्मानं किमनन्तं न वोत्सि यत् ॥ 5.7.35॥
त्वमेव जगतो नाभिरराणामिव संश्रयः ।
कर्तापहर्ता पाता च त्रौलोक्यं त्वं त्रयीमयः ॥ 5.7.36॥
सेन्द्रै रुद्राग्निवसुभिरादित्यैर्मरुदश्विभिः ।
चिन्त्यसे त्वमचिन्त्यात्मन् समस्तैश्चैव योगिभिः ॥ 5.7.37॥
जगत्यर्थं जगन्नाथ भारावतरणेच्छया ।
अवतीर्णोऽसि मर्त्येषु तवांशश्चाहमग्रजः ॥ 5.7.38 ॥
मनुष्यलीलां भगवन् भजता भवता सुराः ।
विडम्बयन्तस्त्वल्लीलां सर्व एव सहा सते ॥ 5.7.39॥
अवतार्य भवान्पूर्वं गोकुले तु सुराङ्गनाः ।
क्रीडार्थमात्मनः पश्चादवर्तीर्णोऽसि शाश्वत ॥ 5.7.40 ॥
अत्रावतीर्णयोः कृष्ण गोपा एव हि बान्धवाः ।
गोप्यश्च सीदतः कस्मादेतान्बन्धूनुपेक्षसे ॥ 5.7.41 ॥
दर्शितो मानुषो भावो दर्शितं बालचापलम् ।
तदयं दम्यतां कृष्ण दुष्टत्मा दशनायुधः ॥ 5.7.42 ॥
श्रीपराशर उवाच [Sage Parasara said]
इति संस्मारितः कृष्णः स्मितभिन्नोष्ठसंपुटः ।
आस्फोट्य मोचयामास स्वदेहं भोगिबन्धनात् ॥ 5.7.43 ॥
आनम्य चापि हस्ताभ्यामुभाभ्यां मध्यमं शिरः ।
आरुह्याभुग्नशिरसः प्रणनर्तोरुविक्रमः ॥ 5.7.44॥
प्राणाः फणेऽभवंश्चास्य कृष्णस्याङ्घ्रिनिकुट्टनैः ।
यत्रोन्नतिं च कुरुते ननामास्य ततः शिरः ॥ 5.7.45॥
मूर्छामुपाययौ भ्रान्त्या नागः कृष्णस्य रेचकैः ।
दण्डपातनिपातेन ववाम रुधिरं बहु ॥ 5.7.46॥
तं विभिग्रशिरोग्रीवमास्येभ्यस्मुतशोणितम् ।
विलोक्य करुणं जग्मुस्तत्पत्न्यो मधुसूदनम् ॥ 5.7.47॥
नागपत्न्य ऊचुः
ज्ञातोऽसि देवदेवेश सर्वज्ञस्त्वमनुत्तमः ।
परं ज्योतिरचिन्त्यं यत्तदंशः परमेश्वरः ॥ 5.7.48 ॥
न समर्थाः सुराःस्तोतुं यमनन्यभवं विभुम् ।
स्वरूपवर्णनं तस्य कथं योषित्करिष्यति ॥ 5.7.49॥
यस्याखिलमहीर्व्योमजलाग्निपवनात्मकम् ।
ब्रह्माण्डमल्पकाल्पांशः स्तोष्यामस्तं कथं वयम् ॥ 5.7.50 ॥
यमतो न विदुर्नित्यं यत्स्वरूपं हि योगिनः ।
परमार्थमणोरल्पं स्थूलात्स्थूलं नताः स्म तम् ॥ 5.7.51 ॥
न यस्य जन्मने धाता यस्य चान्ताय नान्तकः ।
स्थितिकर्ता न चान्योस्ति यस्य तस्मै नमःसदा ॥ 5.7.52 ॥
कोपः स्वल्पोऽपि ते नास्ति स्थितिपालनमेव ते ।
कारणं कालिय स्यास्य दमने श्रुयतां वचः ॥ 5.7.53 ॥
स्त्रियोनुकंप्याःसाधूनां मूढा दीनाश्च जन्तवः ।
यतस्ततोस्य दीनस्य क्षम्यतां क्षमतांवर ॥ 5.7.54॥
समस्त जगदावारो भवानल्पबलः फणी ।
त्वत्पादपीडितो जह्यान्मुहूर्तार्धन जीवितम् ॥ 5.7.55॥
क्व पन्नगोऽ ल्पवीर्योऽयं क्व भवान्भुवनाश्रयः ।
प्रीतिद्वेषौ समोत्कृष्टगोचरौ भवतोऽव्यय ॥ 5.7.56॥
ततः कुरु जगत्स्वामिन्प्रसादमवसीदतः ।
प्राणांस्त्यजति नागोऽयं भर्तृभिक्षा प्रदीयताम् ॥ 5.7.57॥
भुवनेश जगन्नाथ महापुरुषपूर्वज ।
प्राणांस्त्यजति नागोऽयं भर्तृभिक्षां प्रयच्छ नः ॥ 5.7.58 ॥
वेदान्तवेद्य देवेश दुष्टदैत्यनिबर्हम ।
प्राणांस्त्यजति नागोऽयं भर्तभिक्षा प्रदीयताम् ॥ 5.7.59॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्ते ताभिराश्वस्य क्लान्तदेहोपि पन्नगः ।
प्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः ॥ 5.7.60 ॥
कालिय उवाच
तवाष्टगुणमैश्वर्यं नाथ स्वाभाविकं परम् ।
निरस्तातिशयं यस्य तस्य स्तोष्यामि कित्र्वहम् ॥ 5.7.61 ॥
त्वं परस्त्वं परस्याद्यः परं त्वत्तः परात्मक ।
परस्मात्परमो यस्त्वं तस्य स्तोष्यामि किन्न्वहम् ॥ 5.7.62 ॥
यस्माद्बह्माच रुद्रश्च चन्द्रेद्रमरुदश्विनः ।
वसवश्च सहादित्यैस्तस्य स्तोष्यामि कित्र्वहम् ॥ 5.7.63 ॥
एकावयवसूक्ष्मांशो यस्यैतदखिलं जगत् ।
कल्पनावयवस्यांशस्तस्य स्तोष्यामि कित्र्वहम् ॥ 5.7.64॥
सदसद्रूपिणो यस्य ब्रह्माद्यास्त्रिदशेश्वराः ।
परमार्थं न जानन्ति तस्य स्तोष्यामि कित्र्वहम् ॥ 5.7.65॥
ब्रह्माद्यौरर्चिते यस्तु गन्धपुष्पानुलेपनैः ।
नन्दनादिसमुद्भूतैः सोर्च्यते वा कथं मया ॥ 5.7.66॥
यस्यावताररूपाणि देवराजःसदार्चति ।
न वेत्ति परमं रूपं सोर्ऽच्यते वा कथं मया ॥ 5.7.67॥
विषयेभ्यः समावृत्त्य सर्वाक्षाणि च योगिनः ।
यमर्चयन्ति ध्यानेन सोर्ऽच्यते वा कथं मया ॥ 5.7.68 ॥
हृदि संकल्प्य यद्रूपं ध्यानेनार्चन्ति योगिनः ।
भावपुष्पादिना नाथः सोर्च्यते वा कथं मया ॥ 5.7.69॥
सोऽहं ते देवदेवेश नार्चनादौ स्तुतौ न च ।
सामर्थ्यवान् कृपामात्रमनोवृत्तिः प्रसीद मे ॥ 5.7.70 ॥
सर्पजातिरियं क्रुरा यस्यां जातोस्मि केशव ।
तत्स्वभावोऽयमत्रास्ति नापराधो ममाच्युत ॥ 5.7.71 ॥
सृज्यते भवता सर्वं तथा संह्रीयते जगत् ।
जातिरूपस्वभावाश्च सृज्यन्ते सृजता त्वया ॥ 5.7.72 ॥
यथाहं भवता सृष्टो जात्या रूपेण चेश्वर ।
स्वभावेन च साधुत्वं तथेदं चेष्टितं मया ॥ 5.7.73 ॥
यद्यन्यथा प्रवर्तेयं देवदेव ततो मयि ।
न्यायो दण्डनिपातो वै तवैववचनं यथा ॥ 5.7.74॥
तथाप्यज्ञे जगत्स्वामिन्दण्डं पातितवान्मयि ।
स श्लाघ्योऽयं परो दण्डस्त्वत्तो मे नान्यतो वरः ॥ 5.7.75॥
हतवीर्यो हतविषो दमितोऽहं त्वयाच्युत ।
जीवितं दीयतामेकमाज्ञापय करोमि किम् ॥ 5.7.76॥
श्रीभगवानुवाच
नात्र स्थेयन्त्वया सर्प कदाचिद्यमुनाजले ।
सपुत्रपरिवारस्त्वं समुद्रसलिलं व्रज ॥ 5.7.77॥
मत्पदानि च ते सर्प दृष्ट्वा मूर्धनि सागरे ।
गरुडः पन्नगरिपुस्त्वयि न प्रहरिष्यति ॥ 5.7.78 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्त्वा सर्पराजं तं मुमोच भगवान्हरिः ।
प्रणम्य सोऽपि कृष्णाय जगाम पयसां निधिम् ॥ 5.7.79॥
पश्यतां सर्वभूतानां सभृत्यसुतबान्धवः ।
समस्तभार्यासहितः परित्यज्य स्वकं ह्रदम् ॥ 5.7.80 ॥
गते सर्पे परिष्वज्य मृतं पुनरिवागतम् ।
गोपा मूर्धनि हार्देन सिषिचुर्नेत्रजैर्जलैः ॥ 5.7.81 ॥
कृष्णामाक्लिष्टकर्माणमन्ये विस्मितचेतसः ।
तुष्टुवुर्मुदिता गोपा दृष्ट्वा शिवजलां नदीम् ॥ 5.7.82 ॥
गीयमानः स गोपीभिश्चारितैः साधुचेष्टितैः ।
संस्तूयमानो गोपैश्च कृष्णो व्रजमुपागमत् ॥ 5.7.83 ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे सप्तमोऽध्यायः (7)
श्रीपराशर उवाच [Sage Parasara said]
गाः पालयन्तौ च पुनः सहितौ बलकेशवौ ।
भ्रममाणौ वने तस्मिन्रम्यं तालवनं गतौ ॥ 5.8.1 ॥
तत्तु तालवनं दिव्यं धेनुको नाम दानवः ।
मृगमांसकृताहारः सदाध्यास्ते खराकृतिः ॥ 5.8.2॥
तत्तु तालवनं पक्वफलसंपत्समन्वितम् ।
दृष्ट्वा स्पृहान्विता गोपा फलादानेऽब्रुवन्वचः ॥ 5.8.3 ॥
गोपा ऊचुः
हे राम हे कृष्ण सदा धेनुकेनैष रक्ष्यते ।
भूप्रदेशो यतस्तस्मात्पक्वानीमानि संति वै ॥ 5.8.4 ॥
फलानि पश्य तालानां गन्धामोदितदिंशि वै ।
वयमेतान्यभीप्सामः पात्यन्तां यदि रोचते ॥ 5.8.5॥
श्रीपराशर उवाच [Sage Parasara said]
इति गोपकुमाराणां श्रुत्वा संकर्षणो वचः ।
एतत्कर्तव्यमित्युक्त्वा पातयामास तानि वै ।
कृष्णश्च पातयामास भुवितानि फलानि वै ॥ 5.8.6॥
फलानां पततां शब्दमाकर्ण्य सुदुरासदः ।
आजगाम स दुष्टात्मा कोपाद्दैतेयगर्दभः ॥ 5.8.7॥
पद्भ्यामुभाभ्यां स तदा पश्चिमाभ्यां बलं बली ।
जघानोरसि ताभ्यां च स च तेनाभ्यगृह्यत ॥ 5.8.8॥
गृहीत्वा भ्रामयामास सोंऽबरे गतजीवितम् ।
तस्मिन्नेव स चिक्षेप वेगेन तृणराजनि ॥ 5.8.8 ॥
ततः फलान्यनेकानि तालाग्रान्निपतन्खरः ।
पृथिव्यां पातयामास महावातो घनानिव ॥ 5.8.10 ॥
अन्या नथ सजातीयानागतान्दैत्यगर्दभान् ।
कृष्णश्चिक्षेप तालाग्रे बलभद्रश्च लीलया ॥ 5.8.11 ॥
क्षणेनालङ्कृता पृथ्वी पक्वैस्तलफलैस्तदा ।
दैत्य गर्दभदेहैश्च मैत्रेय शुशुभेऽधिकम् ॥ 5.8.12 ॥
ततो गावो निराबाधास्तस्मिंस्तलवने द्विज ।
नवशष्वं सुखं चेरुर्यन्न भुक्तमभूत्पुरा ॥ 5.8.13 ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशेऽष्टमोऽध्यायः (8)
श्रीपराशर उवाच [Sage Parasara said]
तस्मिन्रासभदैतेये सानुगे विनिपातिते ।
सौम्यं तद्गोपगोपीनां रम्यं तालवनं बभौ ॥ 5.8.1 ॥
ततस्तौ जातहर्षौ तु वसुदेवसुतावुभौ ।
हत्वा धेनुकदैतेयं भाण्डीरवटमागतौ ॥ 5.8.2॥
क्ष्वेलमानौ प्रगायन्तौ विचिन्वन्तौ च पादपान् ।
चारयन्तौ च गा दूरे व्याहरन्तौ च नामभिः ॥ 5.8.3 ॥
निर्योगपाशस्कन्धौ तौ वनमालाविभूषितौ ।
शुशुभाते महात्मानौ बलाशृङ्गाविवर्षभौ ॥ 5.8.4 ॥
सुवर्णाञ्जनचूर्णाभ्यां तौ तदा रूषितांबरौ ।
महेन्द्रायुधसंयुक्तौ श्वेतकृष्णाविवांबुदौ ॥ 5.8.5॥
चेरतुर्लौकसिद्धाभिः क्रीडाभिरितरेतरम् ।
समस्तलोकनाथानां नाथभूतौ भुवं गतौ ॥ 5.8.6॥
मनुष्यधर्माभिरतौ मानयन्तौ मनुष्यताम् ।
तज्जातिगुणयुक्ताभिः क्रिडाभिश्चेरतुर्वनम् ॥ 5.8.7॥
ततस्त्वान्दोलिकाभिश्च नियुद्धैश्च महाबलौ ।
व्यायामं चक्रतुस्तत्र क्षेपणीयैस्तथाश्मभिः ॥ 5.8.8॥
तल्लिप्सुरसुरस्तत्र ह्युभयो रममाणयोः ।
आजगाम प्रलंबाख्यो गोपवेषतिरोहितः ॥ 5.8.8 ॥
सोऽवगाहत निःशङ्कस्तेषां मध्यममानुषः ।
मानुषं वपुरास्थाय प्रलंबो दानवोत्तमः ॥ 5.8.10 ॥
तयोशिछ्द्रान्तरप्रेप्सुरविषह्यममन्यत ।
कृष्णं ततो रौहिणेयं हन्तुं चक्रे मनोरथम् ॥ 5.8.11 ॥
हरिणाक्रीडनं नाम बालक्रीडनकं ततः ।
प्रकुर्वन्तो हि ते सर्वे द्वौद्वौ युगपदुत्थितौ ॥ 5.8.12 ॥
श्रीदाम्ना सह गोविन्दः प्रलंबेन तथा बलः ।
गोपालौरपरैश्चान्ये गोपालाः पुप्लुवुस्ततः ॥ 5.8.13 ॥
श्रीदामानं ततः कृष्णः प्रलंबं रोहिणीसुतः ।
जितवान्कृष्णपक्षीयैर्गोपैरन्ये पराजिताः ॥ 5.8.14॥
ते वाहयन्तस्त्वन्योन्यं भाण्डीरं वटमेत्य वै ।
पुनर्निववृतुःसर्वे येये तत्र परिजिताः ॥ 5.8.15॥
संकर्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्यदानवः ।
नभःस्थलं जगामाशु सचन्द्र इव वारिदः ॥ 5.8.16॥
असहन्रौहिणेयस्य स भारं दानवोत्तमः ।
ववृधे स महाकायः प्रावृषीव बलाहकः ॥ 5.8.17॥
संकर्षणस्तु तं दृष्ट्वा दग्धशैलोपमाकृतिम् ।
स्रग्दामलंबाभरणं मकुटाटोपमस्तकम् ॥ 5.8.18 ॥
रौद्रं शकटचक्राक्षं पादन्यास चलत्क्षितिम् ।
अभीतमनसा तेन रक्षसा रोहिणीसुतः ।
ह्रियमामस्ततः कृष्णमिदं वचनमब्रवीत् ॥ 5.8.19॥
कृष्णाकृष्ण ह्रियाम्येष पर्वतोदग्रमूर्तिना ।
केनापि पश्य दैत्येन गोपालच्छद्मरूपिणा ॥ 5.8.20 ॥
यदत्र सांप्रतं कार्यं मया मधुनिषूदन ।
तत्कथ्यतां प्रयात्येष दुरात्मातित्वरान्वितः ॥ 5.8.21 ॥
श्रीपराशर उवाच [Sage Parasara said]
तमाह रामं गोविन्दःस्मितभिन्नोष्ठसंपुटः ।
महात्मा रौहिणेयस्य बलवीर्यप्रमामावित् ॥ 5.8.22 ॥
श्रीकृष्ण उवाच
किमयं मानुषो भावो व्यक्तमेवावलंब्यते ।
सर्वात्मन् सर्वगुह्यानां गुह्यगुह्यात्मना त्वया ॥ 5.8.23 ॥
स्मराशेषजगद्बीजकारणं कारणाग्रज ।
आत्मानमेकं तद्वच्च जगत्येकार्णवे च यत् ॥ 5.8.24॥
किं न वेत्सि यथाहं च त्वं चैकं कारणं भुवः ।
भारावतारणार्थाय मर्त्यलोकमुपागतौ ॥ 5.8.25॥
नभशिश्रस्तेंबुवहाश्च केशाः पादौ क्षितिर्वत्र्क्रमनन्तवह्नि ।
सोमो मनस्ते श्वसितं समीरणो दिशश्चतस्रोऽव्यय बाहवस्ते ॥ 5.8.26॥
सहस्रबत्र्क्रो भगवान्महात्मा सहस्रहस्ताङ्घ्रिशरीरभेदः ।
सहस्रपद्मोद्भवयोनिराद्यःसहस्रशस्त्वां मुनयो गृणन्ति ॥ 5.8.27॥
दिव्यं हि रूपं तव वेत्ति नान्यो देवैरशेषैरवताररूपम् ।
तदर्च्यते वेत्सि न किं यदन्ते त्वय्येव विश्वं लयमभ्युपैति ॥ 5.8.28 ॥
त्वया धृतेयं धरणी बिभर्ति चराचरं विश्वमनन्तमूर्ते ।
कृतादिभेदैरज कालरूपो निमेषपूर्वो जगदेतदत्सि ॥ 5.8.29॥
अत्तं यथा वडाववह्निनांबु हिमस्वरूपं परिगृह्य कास्तम् ।
हिमाचले भानुमतोंशुसंगाज्जलत्वमभ्येति पुनस्तदेव ॥ 5.8.30 ॥
एवं त्वया संहरणेऽत्तमेतज्जगत्समस्तं त्वदधीनकं पुनः ।
तवैव सर्गाय समुद्यतस्य जगत्त्वमभ्येत्यसुकल्पमीश ॥ 5.8.31 ॥
भवानहं च विश्वात्मन्नेकमेव च कारणम् ।
जगतोस्य जगत्यर्थे भेदेनावां व्यवस्थितौ ॥ 5.8.32 ॥
तत्स्मर्यताममेयात्मस्त्वयात्मा जहि दानवम् ।
मानुष्यमेवावलंब्य बन्धूनां क्रियतां हितम् ॥ 5.8.33 ॥
श्री पराशर उवाच
इति संस्मारितो विप्र कृष्णेन सुमहात्मना ।
विहस्य पीडयामास प्रलंबं बलवान्बलः ॥ 5.8.34॥
मुष्टिना सोहनन्मूर्ध्नि कोपसंरक्तलोचनः ।
तेन चास्य प्रहारेण बहिर्याते विलोचने ॥ 5.8.35॥
स निष्कासितमस्तिष्को मुखाच्छोणितमुद्वमन् ।
निपपात महीपृष्ठे दत्य वर्यो ममार च ॥ 5.8.36॥
प्रलंबं निहतं दृष्ट्वा बलेनाद्भुतकर्मणा ।
प्रहृष्टास्तुष्टुवुर्गौपाःसाधुसाध्विति चाब्रुवन् ॥ 5.8.37॥
संस्तूयमानो गोपैस्तु रामो दैत्ये निपातिते ।
प्रलंबं सह कृष्णेन पुनर्गोकुलमाययौ ॥ 5.8.38 ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे नवमोऽध्यायः (8)
श्रीपराशर उवाच [Sage Parasara said]
तयोर्विहरतोरेवं रामकेशवयोर्व्रजे ।
प्रावृड्व्यतीता विकसत्सरोजा चाभवच्छरत् ॥ 5.10.1 ॥
अवापुस्तापमत्यर्थं शफर्यः पल्वलोदके ।
पुत्रक्षेत्रादिसक्तेन ममत्वेन यथा गृही ॥ 5.10.2॥
मयुरा मौनमातस्थुः परित्यक्तमदा वने ।
असारतां परिज्ञाय संसारस्येव योगिनः ॥ 5.10.3 ॥
उत्सृज्य जलसर्वस्वं विमलाःसितमूर्तयः ।
तत्यजुश्चांबरं मेघा गृहं विज्ञानिनो यथा ॥ 5.10.4 ॥
शरत्सूर्यांशुतप्तानि ययुः शोषं सरांसि च ।
बह्वालंबममत्वेन हृदयानीव देहिनाम् ॥ 5.10.5॥
कुमुदैः शरदंभांसि योग्यतालक्षणं ययुः ।
अवबोधैर्मनांसीव समत्वममलात्मनाम् ॥ 5.10.6॥
तारकाविमले व्योम्नि रराजाखण्डमण्डलः ।
चन्द्रश्चरमदेहात्मा योगी साधुकुले यथा ॥ 5.10.7॥
शनकैः शनकैस्तीरं तत्यजुश्च जलाशयाः ।
ममत्वं क्षेत्रपुत्रादिरूढमुच्चैर्यथा बुधाः ॥ 5.10.8॥
पूर्वं त्यक्तैः सरोंभोभिर्हंसा योगं पुनर्ययुः ।
क्लेशैः कुयोगिनो शेषैरन्तरायहता इव ॥ 5.10.8 ॥
निभृतो भवदत्यर्थं समुद्रःस्तिमितोदकः ।
क्रमावाप्तमहायोगो विश्चलात्मा यथा यतिः ॥ 5.10.10 ॥
सर्वत्रातिप्रसन्नानि सलिलानि तथाभवन् ।
ज्ञाते सर्वगते विष्णौ मनांसीव सुमेधसाम् ॥ 5.10.11 ॥
बभूव निर्मलं व्योम शरदा ध्वस्ततोयदम् ।
योगाग्निदग्धक्लेशौघं योगिनामिव मानसम् ॥ 5.10.12 ॥
सूर्यांशुजनितं तापं नित्ये तारापतिः शमम् ।
अहंमानोद्भवं दुःखं विवेकः सुमहानिव ॥ 5.10.13 ॥
नभसोब्दं भुवः पङ्कं कालुष्यं चांभसः शरत् ।
इन्द्रियाणीन्द्रियार्थेभ्यः प्रत्याहार इवाहरत् ॥ 5.10.14॥
प्राणायाम इवांभोभिः सरसां कृतपूरकैः ।
अभ्यस्यतेऽनुदिवसं रेचकाकुंभकादिभिः ॥ 5.10.15॥
विमलांबरनक्षत्रे काले चाभ्यागते व्रजे ।
ददर्शेद्रो महारंभायोद्यतांस्तान्व्रजौकसः ॥ 5.10.16॥
कृष्णस्तानुत्सुकान्दृष्ट्वा गोपानुत्सवलालसान् ।
कौतूहलादिदं वाक्यं प्राह वृद्धान्महामतिः ॥ 5.10.17॥
कोऽयं शक्रमहो नाम येन वो हर्ष आगतः ।
प्राह तं नन्दगोपश्च पृच्छन्तमतिसादरम् ॥ 5.10.18 ॥
नन्दगोप उवाच
मेघानां पयसां चेशो देवराजः शतक्रतुः ।
तेन संचोदिता मेघा वर्षत्यंहुमयं रसम् ॥ 5.10.19॥
तद्वृष्टिजनितं सस्यं वयमन्ये च देहिनः ।
वर्तयामोपयुञ्जानास्तर्पयामश्च देवताः ॥ 5.10.20 ॥
क्षीरवत्य इमा गावो वत्सवत्यश्च निर्वृताः ।
तेन संवर्धितैः सस्यैस्तुष्टाः पुष्टाः भवन्ति वै ॥ 5.10.21 ॥
नासस्या नातृणा भूमिर्न बुभुक्षार्दितो जनः ।
दृश्यते यत्र दृस्यन्ते वृष्टिमन्तो बलाहकाः ॥ 5.10.22 ॥
भौममे तत्पयो दुग्धं गोभिः सूर्यस्य वारिदैः ।
पर्जन्यःसर्वलोकस्योद्भवाय भुवि वर्षति ॥ 5.10.23 ॥
तस्मात्प्रावृषि राजानःसर्वे शक्रं मुदा युताः ।
मखैः सुरेशमर्चन्ति वयमन्ये च मानवाः ॥ 5.10.24॥
श्रीपराशर उवाच [Sage Parasara said]
नन्दगोपस्य वचनं श्रुत्वेत्थं शक्रपूजने ।
रोषाय त्रिदशेन्द्रस्य प्राहदामोदरस्तदा ॥ 5.10.25॥
न वयं कृषिकर्तारो वाणिज्याजीविनो न च ।
गावोस्मद्दैवतं तात वयं वनचरा यतः ॥ 5.10.26॥
आन्विक्षिकी त्रयी वार्ता दण्डनितिस्तथा परा ।
विद्या चतुष्टयं चैतद्वार्तमात्रं शृणुष्व मे ॥ 5.10.27॥
कृषिर्वणिज्या तद्वच्च तृतीयं पशुपालनम् ।
विद्या ह्येका महाभाग वार्ता वृत्तित्रयाश्रया ॥ 5.10.28 ॥
कर्षकाणां कृषिर्वृत्तिः पण्यं विपणीजीविनाम् ।
अस्माकं गौः परावृत्तिर्वार्ताभेदैरियं त्रिभिः ॥ 5.10.29॥
विद्यया यो यया युक्तस्तस्य सा दैवतं महत् ।
सैव पूज्यार्च नीया च सैव तस्योपकारिका ॥ 5.10.30 ॥
यो यस्य फलमश्रन्वै पूजयत्यपरं नरः ।
इह च प्रेत्य चैवासौ न तदाप्नोति शोभनम् ॥ 5.10.31 ॥
कृष्यान्ता प्रथिता सीमा मीमान्तं च पुनर्वनम् ।
वनान्ता गिरयःसर्वे ते चास्माकं परा गतिः ॥ 5.10.32 ॥
न द्वारबन्धावरणा न गृहक्षेत्रिणस्तथा ।
सुखिनस्त्वखिले लोके यथा वै चक्रचारिणः ॥ 5.10.33 ॥
श्रूयन्ते गिरयश्चैव वनेस्मिन्कामरूपिणः ।
तत्तद्रूपं समास्थाय रमन्ते स्वेषु सानुषु ॥ 5.10.34॥
यदा चैते प्रबाध्यन्ते तेषां ये काननौकसः ।
तदा सिंहादिरूपैस्तान्घातयन्ति महीधराः ॥ 5.10.35॥
गिरीयज्ञस्त्वयं तस्माद्गोयज्ञश्च प्रवर्त्यताम् ।
किमस्माकं महेन्द्रेण गावः शैलाश्च देवताः ॥ 5.10.36॥
मन्त्रयज्ञपरा विप्राःसीरयज्ञाश्च कर्षकाः ।
गिरिगोयज्ञशीलाश्च वयमद्रिवनाश्रयाः ॥ 5.10.37॥
तस्माद्गोवर्धनः शैलो भवद्भिर्विविधार्हणैः ।
अर्च्यतां पूज्यतां मेध्यान्पशुन्हत्वा विधानतः ॥ 5.10.38 ॥
सर्वघोषस्य संदोहो गृह्यतां मा विचार्यताम् ।
भोज्यन्तां तेन वै विप्रास्तथा ये चाभिवाञ्छकाः ॥ 5.10.39॥
तत्रार्चिते कृते होमे भोजितेषु द्विजातिषु ।
शरत्पुष्पकृतापीडाः परिगच्छन्तु गोगणाः ॥ 5.10.40 ॥
एतन्मम मतं गोपाःसंप्रीत्या क्रियते यदि ।
ततः कृता भवेत्प्रीतिर्गवामद्रेस्तथा मम ॥ 5.10.41 ॥
श्रीपराशर उवाच [Sage Parasara said]
इति तस्य वचः श्रुत्वा वन्दाद्यास्ते व्रजौकसः ।
प्रीत्युत्फुल्लमुखा गोपाःसाधुसाध्वित्यथाब्रुवन् ॥ 5.10.42 ॥
शोभनं ते मतं वत्स यदेतद्भवतोदितम् ।
तत्करिष्यामहे सर्वं गिरियज्ञः प्रवर्त्यताम् ॥ 5.10.43 ॥
तथा च कृतवन्तस्ते गिरियज्ञ व्रजौकसः ।
दधिपायसमांसाद्यैर्ददुः शैलबलिं ततः ॥ 5.10.44॥
द्विजांश्च भोजयामासुस्शातशौऽथ सहस्रशः ॥ 5.10.45॥
गावः शैलं ततश्चकुरर्चितास्ताः प्रदक्षिणम् ।
वृषभाश्चातिनर्दन्तःसतोया जलदा इव ॥ 5.10.46॥
गिरिमूर्धनि कृष्णोऽपि शैलोहमिति मूर्तिमान् ।
बुभुजेन्नं बहुतरं गोपवर्याहृतं द्विज ॥ 5.10.47॥
स्वेनैव कृष्णो रूपेण गोपैः सह गिरेः शिरः ।
अधिरुह्यार्चयामास द्वितीयामात्मनस्तनुम् ॥ 5.10.48 ॥
अन्तर्धानं गते तस्मिन्गोपा लब्ध्वा ततो वरान् ।
कृत्वा गिरीमखं गोष्ठं निजमब्याययुः पुनः ॥ 5.10.49॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे दशमोऽध्यायः (10)
श्रीपराशर उवाच [Sage Parasara said]
मखे प्रतिहते शक्रो मैत्रेयातिरुषान्वितः ।
संवर्तकं नाम गणं तोयदानामथाब्रत्रीत् ॥ 5.11.1 ॥
भोभो मेधा निशम्यैतद्वचनं गदतो मम ।
आज्ञानन्तरमेवाशु क्रियतामविचारितम् ॥ 5.11.2॥
नन्दगोपःसुदुर्बुद्धिर्गोपैरन्यैः सहायवान् ।
कृष्णाश्रयं बलाध्मातो मखभङ्गमचीकरत् ॥ 5.11.3 ॥
आजीवो याः परस्तेषां गावस्तस्य च कारणम् ।
तागावो वृष्टिपातेन पीड्यन्तां वचनान्मम ॥ 5.11.4 ॥
अहमप्यद्रिशृङ्गाभं तुङ्गमारुह्य वारणम् ।
साहाय्यं वः करिष्यामि वाय्वम्बूत्सर्गयोजितम् ॥ 5.11.5॥
श्रीपराशर उवाच [Sage Parasara said]
इत्याज्ञप्तास्ततस्तेन मुमुचुस्ते बलाहकाः ।
वातवर्षं महाभीममभावाय गवां द्विज ॥ 5.11.6॥
ततः क्षणेन पृथिवी ककुभोंबरमेव च ।
एकं धारामहासारपूरेणनाभवन्मुने ॥ 5.11.7॥
विद्युल्लताकषाघातत्रस्तैरिव घनैर्घनम् ।
नादापूरितदिक्चक्रैर्धारासारमपात्यत ॥ 5.11.8॥
अन्धकारीकृते लोके वर्षद्भिरनिशं घनैः ।
अधश्चोर्ध्वं च तिर्यक्च जगदाप्यमिवाभवत् ॥ 5.11.8 ॥
गावस्तु तेन पतता वर्षवातेन वागिना ।
धूताः प्राणाञ्जहुः सन्नत्रिकसक्थिसिरोधराः ॥ 5.11.10 ॥
क्रोडेन वत्सानाक्रम्य तस्थुरन्या महामुने ।
गावो विवत्साश्च कृता वारिपूरेण चापराः ॥ 5.11.11 ॥
वत्साश्च दीनवदना वातकंपितकन्धराः ।
त्राहित्राहीत्यल्पसब्दाः कृष्णमूचुरिवातुराः ॥ 5.11.12 ॥
ततस्तद्गोकुलं सर्वं गोगोपीगोपसंकुलम् ।
अतीवार्तं हरिर्दष्ट्वा मैत्रेयाचिन्तयत्तदा ॥ 5.11.13 ॥
एतत्कृतं महेन्द्रेण सखभङ्गविरोधिना ।
तदेतदखिलं गोष्ठं त्रातव्यमधुना माय ॥ 5.11.14॥
इममद्रिमहं धैर्यादुत्पाट्योरुशिखाघनम् ।
धारयिष्यामि गोष्ठस्य पृथुच्छत्रमिवोपरि ॥ 5.11.15॥
श्रीपराशर उवाच [Sage Parasara said]
इति कृत्वामतिं कृष्णो गोवर्धनमहीधरम् ।
उत्पाट्यैककरेणेव धारयामास लीलया ॥ 5.11.16॥
गोपांश्चह हसञ्छौरिःसमुत्पाटितभूधरः ।
विशध्वमत्रत्वरिताः कृतं वर्षनिवारणम् ॥ 5.11.17॥
सुनिवातेषु देशेषु यथा जोषमिहास्यताम् ।
प्रविश्यतां न भेतव्यं गिरीपाताच्च निर्भयैः ॥ 5.11.18 ॥
इत्युक्तास्तेन ते गोपा विविशुर्गोधनैः सह ।
शकटारोपितैर्भाडैर्गोप्यश्चासारपीडिताः ॥ 5.11.19॥
कृष्णोपि तं दधारैव शैलमत्यन्तनिश्चलम् ।
व्रजौकवासिभिर्हर्षविस्मिताक्षैर्निरिक्षितः ॥ 5.11.20 ॥
गोपगोपीजनैर्हृष्टैः प्रीतिविस्तारितेक्षणैः ।
संस्तूयमानचरितः कृष्णः शैलमधारयत् ॥ 5.11.21 ॥
सप्तरात्रं महामेधा ववर्षुर्नन्दगोकुले ।
इन्द्रेण चोदिता विप्र गोपानां नाशकारिणा ॥ 5.11.22 ॥
ततो धृते महाशैले परित्राते च गोकुले ।
मिथ्याप्रतिज्ञो बलभिद्वारयामास तान्घनान् ॥ 5.11.23 ॥
व्यभ्रे नभसि देवेन्द्रे वितथात्मवचस्यथ ।
निष्क्रम्य गोकुलं हृष्टं स्वस्थानं पुनरागमत् ॥ 5.11.24॥
मुमोच कृष्णोपि तदा गोवर्धनमहाचलम् ।
स्वस्थाने विस्मितमुखैर्दृष्टस्तैस्तु व्रजौकसैः ॥ 5.11.25॥
इति श्रीविष्णुमहापुराणे पञ्चमांश एकादशोऽध्यायः (11)
श्रीपराशर उवाच [Sage Parasara said]
धृते गोवर्धने शैले परित्राते च गोकुले ।
रोजयामास कृष्णस्यदर्शनं पाकशासनः ॥ 5.12.1 ॥
सोऽधिरुह्य महानागमैरावतममित्रजित् ।
गोवर्धनगिरौ कृष्णं ददर्श त्रिदशेश्वरः ॥ 5.12.2॥
चारयन्तं महावीर्यं गास्तु गोपवपुर्धरम् ।
कृत्स्नस्य जगतो गोपं वृतं गोपकुमारकैः ॥ 5.12.3 ॥
गरुडं च ददर्शोच्चैरन्तर्धानगतं द्विज ।
कृतच्छायं हरेर्मूर्ध्नि पक्षाभ्यां पक्षिपुङ्गवम् ॥ 5.12.4 ॥
अवरुह्य स नागेन्द्रादेकान्ते मधुसूदनम् ।
शक्रःसस्मितमाहेदं प्रीतिविस्तारितेक्षणः ॥ 5.12.5॥
इन्द्र उवाच
कृष्णकृष्ण शृणुष्वेदं यदर्थ महामागतः ।
त्वत्समीपं महाबाहो नैतच्चिन्त्यं त्वायान्यथा ॥ 5.12.6॥
भारावतारणार्थाय पृथिव्याः पृथिवीतले ।
अवतीर्णोऽखिलाधार त्वमेव परमेश्वर ॥ 5.12.7॥
मखभङ्गविरोधेन मया गोकुलानाशकाः ।
समादिष्टा महामेघास्तैश्चेदं कदनं कृतम् ॥ 5.12.8॥
त्रातास्ताश्च त्वाया गावःसमुत्पाट्य महीधरम् ।
तेनाहं तोषितो वीरकर्मणात्यद्भुतेन ते ॥ 5.12.8 ॥
साधिनं कृष्ण देवानामहं मन्ये प्रयोजनम् ।
त्वयायमद्रिप्रवरः करेणैकेनयद्धृतः ॥ 5.12.10 ॥
गोभिश्च चोदितः कृष्ण त्वत्सकाशमिहागतः ।
त्वया त्राताभिरत्यर्थं युष्मत्सत्कारकारणात् ॥ 5.12.11 ॥
स त्वां कृष्णाभिषेक्ष्यामि गावं वाक्यप्रचोदितः ।
उपेन्द्रत्वे गवमिद्रो गोविन्दस्त्वं भविष्यसि ॥ 5.12.12 ॥
श्रीपराशर उवाच [Sage Parasara said]
अथोपवाह्यादादाय घण्टामैरावताद्गजात् ।
अभिषेकं तया चक्रे पवित्रजलपूर्णया ॥ 5.12.13 ॥
क्रियमाणेऽभिषेके तु गावः कृष्णस्य तत्क्षणात् ।
प्रस्नवोद्भूतदुग्धार्द्रां सद्यश्चक्रुर्वसुन्धराम् ॥ 5.12.14॥
अभिषिच्य गवां वाक्यादुपेन्द्रं वै जनार्दनम् ।
प्रीत्या सप्रश्रयं वाक्यं पुनराह शचीपतिः ॥ 5.12.15॥
गवामेतत्कृतं वाक्यं तथान्यदपि मे शृणु ।
यद्बवीमि महाभाग भारावतरणेच्छया ॥ 5.12.16॥
ममांशः पुरुषव्याघ्र पृथिव्यां पृथिवीधर ।
अवतीर्णोर्ऽजुनोनाम संरक्ष्यो भवता सदा ॥ 5.12.17॥
भारावतरणे साह्यं स ते वीरः करिष्यति ।
संरक्षणीयो भवता यथात्मा मधुसूदन ॥ 5.12.18 ॥
श्रीभगवानुवाच
जानामि भारते वंशे जातं पार्थं तवांशतः ।
तमहं पालयिष्यामि यावत्स्थास्यमि भूतले ॥ 5.12.19॥
यावन्महीतले शक्र स्थास्याम्यहमरिन्दम ।
न तावदर्जुनं कश्चिद्देवेन्द्र युधि जेष्यति ॥ 5.12.20 ॥
कंसो नाम महाबाहुर्दैत्योऽरिष्टस्तथासुरः ।
केशी कुवलयापीडो नरकाद्यास्तथा परे ॥ 5.12.21 ॥
हतेषु तेषु देवेन्द्र भविष्यति महाहवः ।
तत्र विद्धि सहस्राक्ष भारावतरणं कृतम् ॥ 5.12.22 ॥
स त्वं गच्छ न संतापं पुत्रार्थे कर्तुमर्हसि ।
नार्जुनस्य रिपुः कश्चिन्ममाग्रे प्रभविष्यति ॥ 5.12.23 ॥
अर्जुनार्थे त्वहं सर्वान्युधिष्ठिरपुरोगमान् ।
निवृत्ते भारते युद्धे कुन्त्यै दास्याम्यविक्षताम् ॥ 5.12.24॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्तः संपरिष्वज्य देवाराजो जनार्दनम् ।
आरुह्यौरावतं नागं पुनरेव दिवं ययौ ॥ 5.12.25॥
कृष्णो हि सहितो गोभिर्गोपालैश्च पुनर्व्रजम् ।
आजगामाथ गोपीनां दृष्टिपूतेन वर्त्मना ॥ 5.12.26॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे द्वादशोऽध्यायः (12)
श्रीपराशर उवाच [Sage Parasara said]
गते शक्रे तु गोपालाः कृष्णमक्लिष्टकारिणम् ।
ऊचुः प्रीत्या धृतं दृष्ट्वा तेन गोवर्धनाचलम् ॥ 5.13.1 ॥
वयमस्मान्महाभाग भगवन्महतो भयात् ।
गावश्च भवता त्राता गिरिधारणकर्मणा ॥ 5.13.2॥
बालक्रीडेयमतुला गोपालत्वं जुगुप्सितम् ।
दिव्यं च भवतः कर्म किमेतत्तात कथ्यताम् ॥ 5.13.3 ॥
कालीयो दमितस्तोये धेनुको विनिपातितः ।
धृतो गोवर्धनश्चायं शङ्कितानि मनांसि नः ॥ 5.13.4 ॥
सत्यं सत्यं हरेः पादौ शपामोऽमित विक्रम ।
यथावद्वीर्यमालोक्य न त्वां मन्यामहे नरम् ॥ 5.13.5॥
प्रीतिःसस्त्रीकुमारस्य व्रजस्य त्वयि केशव ।
कर्म चेदमशक्यं यत्समस्तैस्त्रिदशेरपि ॥ 5.13.6॥
बालत्वं चातिवीर्यत्वं जन्म चास्मासु शोभनम् ।
चिन्त्यमानममेयात्मञ्छङ्कां कृष्ण प्रयच्छति ॥ 5.13.7॥
देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा ।
किमस्माकं विचारेण बान्धवोऽसि नमोस्तु ते ॥ 5.13.8॥
श्रीपराशर उवाच [Sage Parasara said]
क्षणं भूत्वा त्वसौ तूष्णीं किञ्चित्प्रणयकोपवान् ।
इत्येवमुक्तस्तैर्गोपैः कृष्णोऽप्याह महामतिः ॥ 5.13.8 ॥
श्रीभगवानुवाच
मत्संबन्धेन वो गोपा यदि लज्जा न जायते ।
श्लाघ्यो वाहं ततः किं वो विचारेण प्रयोजनम् ॥ 5.13.10 ॥
यदि वोऽस्ति मयि प्रीतिः श्लाघ्योऽहं भवतां यदि ।
तदात्मबन्धुसदृशी बुद्धिर्वः क्रियातां मयि ॥ 5.13.11 ॥
नाहं देवो न गान्धर्वो न यक्षो न च दानवः ।
अहं वो बान्धवो जातो नैतच्चिन्त्यमितोऽन्यथा ॥ 5.13.12 ॥
श्रीपराशर उवाच [Sage Parasara said]
इति श्रुत्वा हरेर्वाक्यं बद्धमौनास्ततो वनम् ।
ययुर्गोपा महाभाग तस्मन्प्रणयकोपिनि ॥ 5.13.13 ॥
कृष्णस्तु विमलं व्योम शरच्चन्द्रस्य चन्द्रिकाम् ।
तदा कुमुदिनीं फुल्लामामोदितदिगन्तराम् ॥ 5.13.14॥
वनराजीं तथा कूजन्द्भृङ्गमालामनोहराम् ।
विलोक्य सह गोपीभिर्मनश्चक्रे रतिं प्रति ॥ 5.13.15॥
विना रामेण मधुरमतीव वनिताप्रियम् ।
जगौ कलपदं शौरिस्तारमन्द्रकृतक्रमम् ॥ 5.13.16॥
रम्यं गीतध्वनिं श्रुत्वा संत्यज्यावसथांस्तदा ।
आजग्मुस्त्वरिता गोप्यो यत्रास्ते मधुसूदनः ॥ 5.13.17॥
शनैः शनैर्जगौ गोपी काचित्तस्य लयानुगम् ।
दत्तावधाना काचिच्च तमेव मनसास्मरत् ॥ 5.13.18 ॥
काचित्कृष्णेतिकृष्णेति प्रोक्त्वा लज्जामुपाययौ ।
ययौ च काचित्प्रेमान्धा तत्पार्श्वमविलंबितम् ॥ 5.13.19॥
काचिच्चावसथस्यान्ते स्थित्वा दृष्ट्वा बहिर्गुरुम् ।
तन्मयत्वेन गोविन्दं दध्यौ मीलितलोचना ॥ 5.13.20 ॥
तच्चित्तविमलाह्लादक्षीणपुण्यचया तथा ।
तदप्राप्तिमहादुःखविलीनाशेषपातका ॥ 5.13.21 ॥
चिन्तयती जगत्सूतिं परब्रह्मस्वरूपिणम् ।
निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका ॥ 5.13.22 ॥
गोपीपरिवृतो रात्रिं शरच्चन्द्रमनोरमाम् ।
मानयामास गोविन्दो रासारंभरसोत्सुकः ॥ 5.13.23 ॥
गोप्यश्च वृन्दशः कृष्णचेष्टास्वायत्तमूर्तयः ।
अन्यदेशं गते कृष्णे चेरुर्वृन्दावनान्तरम् ॥ 5.13.24॥
कृष्णे निबद्धहृदया इदमूचुः परस्परम् ॥ 5.13.25॥
कृष्णोऽहमेष ललितं व्रजाम्यालोक्यतां गतिः ।
अन्या ब्रवीन्ति कृष्णस्य मम गीतिर्निशम्यताम् ॥ 5.13.26॥
दुष्टकालिय तिष्ठात्र कृष्णोहमिति चापरा ।
बाहुमास्फोट्य कृष्णस्य लीलया सर्वमाददे ॥ 5.13.27॥
अन्या ब्रवीति भो गोपा निःशङ्कैः स्थीयतामिति ।
अलं वृष्टिभयेनात्र धृतो गोवर्धनो मया ॥ 5.13.28 ॥
धेनुकोऽयं मयाक्षिप्तो विचरन्तु यथेच्छया ।
गावो ब्रवीति चैवान्या कृष्णलीलानुसारिणी ॥ 5.13.29॥
एवं नानाप्रकारासु कृष्णचेष्ट सु तास्तदा ।
गोप्यो व्यग्राःसमं चेरू रम्यं वृन्दावनान्तरम् ॥ 5.13.30 ॥
विलोक्यैका भुवं प्राह गोपी गोपवराङ्गना ।
पुलकाञ्चितसर्वाङ्गी विकासिनयनोत्पला ॥ 5.13.31 ॥
ध्वजबज्राङ्कुशाब्जाङ्करेखावन्त्यालि पश्यत ।
पदान्येतानि कृष्णस्य लीलाललितगामिनः ॥ 5.13.32 ॥
कापि तेन समायाता कृतपुण्या मदालसा ।
पदानि तस्याश्चैतानि घनान्यल्पतनूनि च ॥ 5.13.33 ॥
पुष्पापचयमत्रोच्चैश्चक्रे दामोदरे ध्रुवम् ।
येनाग्राक्रान्तमात्राणि पदान्यत्र महात्मनः ॥ 5.13.34॥
अत्रोपविश्य वै तेन काचित्पुष्पैरलङ्कृता ।
अन्यजन्मनि सर्वात्मा विष्णुरभ्यर्चितस्तया ॥ 5.13.35॥
पुष्पबन्धनसंमानकृतमानामपास्य ताम् ।
नन्दगोपसुतो यातो मार्गेणानेन पश्यत ॥ 5.13.36॥
अनुयातैनमत्रान्या नितंबभरमन्थरा ।
या गन्तव्ये द्रुतं याति निम्नपादाग्रसंस्थितिः ॥ 5.13.37॥
हस्तन्यस्ताग्रहस्तेयं तेन याति तथा सखी ।
अनायत्तपदन्यासा लक्ष्यते पदपद्धतिः ॥ 5.13.38 ॥
हस्तसंस्पर्शमात्रेण धूर्तेनैषा विमानिता ।
नैराश्यान्मन्दगामिन्या निवृत्तं लक्ष्यते पदम् ॥ 5.13.39॥
नूनमुक्ता त्वरामीति पुनरेष्यामितेन्तिकम् ।
तेन कृष्णेन येनैषा त्वरिता पदपद्धतिः ॥ 5.13.40 ॥
प्रविष्टो गहनं कृष्णः पदमत्र न लक्ष्यते ।
निवर्तध्वं शशाङ्कस्य नैतद्दी धितिगोचरे ॥ 5.13.41 ॥
निवृत्तास्तास्तदा गोप्यो निराशाः कृष्णदर्शने ।
यमुनातीरमासाद्य जगुस्तच्चरितं तथा ॥ 5.13.42 ॥
ततो ददृशुरायान्तं विकासिमुखपङ्कजम् ।
गोप्यस्त्रैलोक्यगोप्तारं कृष्णमक्लिष्टचेष्टितम् ॥ 5.13.43 ॥
काचिदालोक्य गोविन्दमायान्तमतिहर्षिता ।
कृष्णाकृष्णेति कृष्णेति प्राह नान्यदुदीरयत् ॥ 5.13.44॥
काचिद्भ्रूभङ्गुरं कृत्वा ललाटफलकं हरिम् ।
विलोक्य नेत्रभृङ्गाभ्यां पपौ तन्मुखपङ्कजम् ॥ 5.13.45॥
काचिदालोक्य गोविन्दं निमीलितविलोचना ।
तस्यैव रूपं ध्यायन्ती योगारूढेव सा बभौ ॥ 5.13.46॥
ततः काञ्चित्प्रियालापैः काञ्चिद्भ्रूभङ्गवीक्षितैः ।
निन्येऽनुनयमन्यां च करस्पर्शेन माधवः ॥ 5.13.47॥
ताभिः प्रसन्नचित्ताभिर्गोपीभिः सह सादरम् ।
ररास रासगोष्ठीभिरुदारचरितो हरिः ॥ 5.13.48 ॥
रासमण्डलबन्धोपि कृष्णपार्श्वमनुज्झता ।
गोपीजनेन नैवाभूदेकस्थानस्थिरात्मना ॥ 5.13.49॥
हस्तेन गृह्य चैकैकां गोपीनां रासमण्डले ।
चकार तत्करस्पर्शनिमीलितदृशं हरिः ॥ 5.13.50 ॥
ततः प्रववृते रासश्चलद्वलयनिस्वनः ।
अनुयातशरत्काव्यगोयगीतिरनुक्रमात् ॥ 5.13.51 ॥
कृष्णः शरच्चन्द्रमसं कौमुदीं कुमुदाकरम् ।
जगौ गोपीजनस्त्वेक कृष्णनाम पुनःपुनः ॥ 5.13.52 ॥
परिवृत्तिश्रमेणैका चलद्वलयलापिनीम् ।
ददौ बाहुलतां स्कन्धे गोपी मधुनिघातिनः ॥ 5.13.53 ॥
काचित्प्रविलसद्बाहुं परिरभ्य चुचुंब तम् ।
गोपीगीतस्तुतिव्याजान्निपुणा मधुसूदनम् ॥ 5.13.54॥
गोपीकपोलसंश्लेषमभिगम्य हरेर्भुजौ ।
पुलकोद्गमसस्याय स्वेदांबुघनतां गतौ ॥ 5.13.55॥
रासगेयं जगौ कृष्णो यावत्तारतरध्वनिः ।
साधु कृष्णेति कृष्णेति तावत्ता द्विगुणं जगुः ॥ 5.13.56॥
गतेनुगमनं चक्रुर्वलनं संमुखं ययुः ।
प्रतिलोमानुलोमाभ्यां भेजुर्गौपाङ्गना हरिम् ॥ 5.13.57॥
स तथा सह गोपीभी ररास मधुरूदनः ।
यथाब्दकोटिप्रतिमः श्रणस्तेन विनाभवत् ॥ 5.13.58 ॥
ता वार्यमाणाः पतिभिः पितृभिर्भ्रातृभिस्तथा ।
कृष्णं गोपाङ्गना रात्रौ रमयन्ति रतिप्रियाः ॥ 5.13.59॥
सोऽपि कैशोरकवयो मानयन्मधुसूदनः ।
रेमे ताभिरमेयात्मा क्षपासुक्षपिताहितः ॥ 5.13.60 ॥
तद्भर्तृषु तथा तासु सर्वभूतेषु चेश्वरः ।
आत्मस्वरूपरूपोऽसौ व्यापी वायुरिव स्थितः ॥ 5.13.61 ॥
यथा समस्तभूतेषु नभोग्निः पृथिवी जलम् ।
वायुश्चात्मा तथैवासौ व्याप्य सर्वमवस्थितः ॥ 5.13.62 ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे त्रयोदशोध्यायः (13)
श्रीपराशर वाच
प्रदोषाग्रो कदाचित्तु रासासक्ते जनार्दने ।
त्रासयन्समदो गौष्ठमरिष्टसमुपागमत् ॥ 5.14.1 ॥
स तोयतोयदच्छायस्तीक्ष्णशृङ्गोर्कलोचनः ।
खुराग्रपातैरत्यर्थं दारयन्धारणीतलम् ॥ 5.14.2॥
लेलिहानःसनिष्पेषं जिह्वयोष्ठौ पुनःपुनः ।
संरंभाविद्धलाङ्गूलः कठिनस्कन्धबन्धनः ॥ 5.14.3 ॥
उदग्रककुदाभोगप्रमाणो दुरतिक्रमः ।
विण्मू6 रलिप्तपृष्ठाङ्गो गवमुद्वेगकारकः ॥ 5.14.4 ॥
प्रलंबकण्ठोऽतिमुखस्तरुखाताङ्किताननः ।
पातयन्स गावं गर्भन्दैत्यो वृषभरूपधृक् ॥ 5.14.5॥
सूदयंस्तापसानुग्रो वनानटति यःसदा ॥ 5.14.6॥
ततस्तमतिघोराक्षमवेक्ष्यातिभयातुराः ।
गोपा गोपस्त्रियश्चैव कृष्णकृष्णेति चुक्रुशुः ॥ 5.14.7॥
सिंहनादं ततश्चक्रे तलशब्दं च केशवः ।
तच्छब्द श्रवणाच्चासौ दामोदरमुपाययौ ॥ 5.14.8॥
अग्रन्यस्तविषाणाग्रः कृष्णकुक्षिकृतेक्षणः ।
अभ्यधावत दुष्टात्मा कृष्णं वृषभदानवः ॥ 5.14.8 ॥
आयान्तं दैत्यवृषभं दृष्ट्वा कृष्णो महाबलः ।
न चचाल तदास्थानादवज्ञास्मितलीलया ॥ 5.14.10 ॥
आसन्नं चैव जग्राह ग्राहवन्मधुसूदनः ।
जघान जानुना कुक्षौ विषाणग्रहणाचलम् ॥ 5.14.11 ॥
तस्य दर्पबलं भङ्क्त्वा गृहीतस्य विषाणयोः ।
अपीडयदरिष्टस्य कण्ठं क्लिन्नमिवांबरम् ॥ 5.14.12 ॥
उत्पाट्य शृङ्गमेकं तु तेनैवाताडयत्ततः ।
ममार स महादैत्यौ मुखाच्छोणितमुद्वमन् ॥ 5.14.13 ॥
तुष्टुवुर्निहते तस्मिन् दैत्ये गोपा जनार्दनम् ।
जंभे हते सहस्राक्षं पुरा देवगणा यथा ॥ 5.14.14॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे चतुर्दशोध्यायः (14)
श्रीपराशर उवाच [Sage Parasara said]
ककुद्मति हतेऽरिष्टे धेनुके विनिपातिते ।
प्रलंबे निधनं नीते धृते गोवर्धनाचले ॥ 5.15.1 ॥
दमिते कालिये नागे भग्नेतुङ्गद्रुमद्वये ।
हतायां पूतनायां च शकटे परिवर्तिते ॥ 5.15.2॥
कंसाय नारदः प्राह यथावृत्तमनुक्रमात् ।
यशोदादेवकीगर्बपरिवृत्तद्यशेषतः ॥ 5.15.3 ॥
श्रुत्वा तत्सकलं कंसो नारदाद्देवदर्शनात् ।
वसुदेवं प्रति तदा कोपं चक्रे सुदुर्मतिः ॥ 5.15.4 ॥
सोतिकोपादुपालभ्य सर्वयादवसंसदि ।
जगर्ज यादवांश्चैव कार्यं चैतदचिन्तयत् ॥ 5.15.5॥
यावन्न बलमारूढौ रामकृष्णौ सुबालकौ ।
तावदेव मया वध्यावसाध्यौ रूढयौवनौ ॥ 5.15.6॥
चाणूरोत्र महावीर्यो मुष्टिकश्च महाबलः ।
एताभ्यां मल्लयुद्धेन मारयिष्याम दुर्मती ॥ 5.15.7॥
धनुर्महमहायोगव्याजेनानीय तौ व्रजात् ।
तथा तथा यतिष्यामि यास्येते संक्षयं यथा ॥ 5.15.8॥
श्वफल्पतनयं शूरमक्रूरं यदुपुङ्गवम् ।
तयोरानयनार्थाय प्रेषयिष्यामि गोकुलम् ॥ 5.15.8 ॥
वृन्दा वनचरं घोरमादेक्ष्यामि च केशिनम् ।
तत्रैवासावतिबलस्तावुभौ घातयिष्यति ॥ 5.15.10 ॥
गजः कुवलायापीडो मत्सकाशमिहागतौ ।
घातयिष्यति वा गोषौ वसुदेवसुतावुभौ ॥ 5.15.11 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्यालोच्य स दुष्टात्मा कंसो रामजनार्दनौ ।
हन्तुं कृतमर्तिवीरावक्रूरं वाक्यमवृब्रवीत् ॥ 5.15.12 ॥
कंस उवाच
भो भो दानपते वाक्यं क्रियतां प्रीतये मम ।
इतः स्यन्दनमारुह्य गम्यतां नन्दगोकुलम् ॥ 5.15.13 ॥
वसुदेवसुतौ तत्र विष्णोरंशसमुद्भवौ ।
नाशाय किल संभूतौ मम दुष्टौ प्रवर्धतः ॥ 5.15.14॥
धनुर्महो ममाप्यत्र चतुर्दश्यां भविष्यति ।
आनेयौ भवता गत्वा मल्लयुद्धाय तत्र तौ ॥ 5.15.15॥
चाणूरमुष्टिकौ मल्लौ नियुद्धकुशलौ मम ।
ताभ्यां सहानयोर्युद्धं सर्वलोकोऽत्र पश्यतु ॥ 5.15.16॥
गजः कुवलयापीडो महामात्रप्रचोदितः ।
स वा हनिष्यते पापौ वसुदेवात्मजौ शिशु ॥ 5.15.17॥
तौ हत्वा वसुदेवं च नन्दगोपं च दुर्मतिम् ।
हनिष्ये पितरं चैनमुग्रसेनं सुदुर्मतिम् ॥ 5.15.18 ॥
ततःसमस्तगोपानां गोधनान्यखिलान्यहम् ।
वित्तं चापहरिष्यामि दुष्टानां मद्वधैषिणाम् ॥ 5.15.19॥
त्वामृते यादवाश्चैते द्विषो दानपते मम ।
एतेषां च वधायाहं यतिष्येऽनुक्रमात्ततः ॥ 5.15.20 ॥
तदा निष्कण्टकं सर्वं राज्यमेतदयादवम् ।
प्रसाधिष्ये त्वया तस्मान्मत्प्रीत्यै वीर गम्यताम् ॥ 5.15.21 ॥
यथा च माहिषं सर्पिर्दधिचाप्युपहार्य वै ।
गोपाःसमानयन्त्वाशु तथा वाच्यास्त्वया च ते ॥ 5.15.22 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्याज्ञप्तस्तदाक्रूरोमहाभागवतो द्वज ।
प्रीतिमानभवत्कृष्णं श्वोद्रक्ष्यामीति सत्वरः ॥ 5.15.23 ॥
तथेत्यक्त्वा च राजानं रथमारुह्य शोभनम् ।
निश्चक्राम ततः पुर्या मथुराया मधुप्रियः ॥ 5.15.24॥
इति श्रीविष्णुमहापुराणे पञ्चमासे पञ्चदशोऽध्यायः (15)
श्रीपराशर उवाच [Sage Parasara said]
केशी चापि बलोदग्रः कंसदूतः प्रचोदितः ।
कृष्णस्य निधनाकाङ्क्षी वृन्दावनमुपागमत् ॥ 5.16.1 ॥
स खुरक्षतभूपृष्ठःसटाक्षेपधुतांबुदः ।
द्रुतविक्रान्तचन्द्रार्कमार्गो गोपानुपाद्रवत् ॥ 5.16.2॥
तस्य देषितशब्देन गोपाला दैत्यवाजिनः ।
गोप्यश्च भयसंविग्ना गोविन्दं शरणं ययुः ॥ 5.16.3 ॥
त्राहित्राहिति गोविन्दःश्रुत्वातेषां ततो वचः ।
सतोयजलदध्वानगंभीरमिदमुक्तवान् ॥ 5.16.4 ॥
अलं त्रासेन गोपालाः केशिनः किं भयातुरैः ।
भविद्भिर्गोपजाती यैर्वीरवीर्यं विलोप्यते ॥ 5.16.5॥
किमनोनाल्पसारेण हषिताटोपकारिणा ।
दैतेयबलवाह्येन वल्गता दुष्टवाजिना ॥ 5.16.6॥
एह्येहि दुष्ट कृष्णोऽहं पूष्णस्त्विव पिनाकधृत् ।
पातयिष्यामि दशनान्वदनादखिलांस्तव ॥ 5.16.7॥
इत्युक्त्वास्फोट्य गोविन्दः केशिनःसंमुखं ययौ ।
विवृतास्यश्च सोऽप्येनं दैतेयाश्व उपाद्रवत् ॥ 5.16.8॥
बाहुमाभोगितं कृत्वा मखे तस्य जनार्दनः ।
प्रवेशयामास तदा केशिनो दुष्टवाजिनः ॥ 5.16.8 ॥
केशिनो वदनं तेन विशता कृष्णबाहुना ।
शातिता दशनाः पेतुः सिताब्ब्रावयवा इव ॥ 5.16.10 ॥
कृष्णस्य ववृधे बाहुः केशिदेहगतो द्विज ।
विनाशाय यथा व्याधिरासंभूतेरुपेक्षितः ॥ 5.16.11 ॥
विपाटितोष्ठो बहुलं सफेनं रुधिरं वमन् ।
सोक्षिणी विवृते चक्रे विशिष्टे मुक्तबन्धने ॥ 5.16.12 ॥
जधान धरणीं पादैः शकृन्मूत्रं समुत्सृजन् ।
स्वेदार्द्रगात्रस्शान्तश्च निर्यत्नःसोऽभवत्तदा ॥ 5.16.13 ॥
व्यादितास्यमहांरन्ध्रःसोऽसुरः कृष्णबाहुना ।
निपातितो द्विधा भूमौ वैद्युतेन यथा द्रुमः ॥ 5.16.14॥
द्विपादे पृष्ठपुच्छार्ध श्रवणैकाक्षिनासिके ।
केशिनस्ते द्विधा भूते शकले द्वे विरेजतुः ॥ 5.16.15॥
हत्वा तु केशिनं कृष्णो गोपालैर्मुदितैर्वृतः ।
अनायस्ततनुःस्वस्थो हसंस्तत्रैव तस्थिवान् ॥ 5.16.16॥
ततो गोप्यश्च गोपाश्च हते केशिनि विस्मिताः ।
तुष्टुवुः पुण्डरीकाक्षमनुरागमनोरमम् ॥ 5.16.17॥
अथाहान्तर्हितो विप्र नारदो जलदे स्थितः ।
केशिनं निहतं दृष्ट्वा हर्षनिर्भरमानसः ॥ 5.16.18 ॥
साधुसाधु जगन्नाथ लीलयैव यदच्युत ।
निहतोऽयं त्वया केशी क्लेशदस्त्रिदिवौकासाम् ॥ 5.16.19॥
युद्धोत्सुकोहमत्यर्थं नरवाजिमहाहवम् ।
अभूतपूर्वमन्यत्र द्रष्टुं स्वर्गादिहागतः ॥ 5.16.20 ॥
कर्माण्यऽत्रावतारे ते कृतानि मधुसूदन ।
यानि तैर्विस्मितं चेतस्तोषमेतेन मे गतम् ॥ 5.16.21 ॥
तुरङ्गस्यास्य शक्रोपि कृष्ण देवाश्च बिभ्यति ।
धुतकेसारजालस्य ह्रेषतोऽभ्रावलोकिनः ॥ 5.16.22 ॥
यस्मात्त्वयैष दुष्टात्मा हतः केशी जनार्दन ।
तस्मात्केशवनाम्ना त्वं लोके ख्यातो भविष्यसि ॥ 5.16.23 ॥
स्वस्त्यस्तु ते गमिष्यामि कंसयुद्धेऽधुना पुनः ।
परश्वोऽह समेष्यामि त्वया केशिनिषूदन ॥ 5.16.24॥
उग्रसेनसुते कंसे सानुगे विनिपातिते ।
भारावतारकर्ता त्वं पृथिव्या पृथिवीधर ॥ 5.16.25॥
तत्रानेक प्रकाराणि युद्धानि पृथिवीक्षिताम् ।
द्रष्टव्यानि मया युष्मत्प्रणीतानि जनार्दन ॥ 5.16.26॥
सोऽहं यास्यामि गोविन्द देवकार्यं महत्कृतम् ।
त्वयैव विदितं सर्वं स्वस्ति तेऽस्तु व्रजाम्यहम् ॥ 5.16.27॥
नारदे तु गते कृष्णः सह गोपैः सभाजितः ।
विवेश गोकुलं गोपीनेत्रपानैकभाजनम् ॥ 5.16.28 ॥
इति श्रीविष्णुमाहपुराणे पञ्चमांशे षोटशोऽध्यायः (16)
श्रीपराशर उवाच [Sage Parasara said]
अक्रूरोऽपि विनिष्क्रम्य स्यन्दनेनाशुगामिना ।
कृष्णसंदर्शनाकाङ्क्षी प्रययौ नन्दगोकुलम् ॥ 5.17.1 ॥
चिन्तयामास चाक्रूरो नास्ति धन्यतरो मया ।
योऽहमंशावतीर्णस्य मुखं द्रक्ष्यामि चक्रिणः ॥ 5.17.2॥
अद्य मे सफलं जन्म सुप्रभाताभवन्निशा ।
यदुन्निद्राभपत्राक्षं विष्णोर्द्रक्ष्याम्यहं मुखम् ॥ 5.17.3 ॥
पापं हरति यत्पुंसां स्मृतं संकल्पनामयम् ।
तत्पुण्डरीकनयनं विष्णोर्द्रक्ष्याम्यहं मुखम् ॥ 5.17.4 ॥
विनिर्जग्मुर्यतो वेदा वेदाङ्गान्यखिलानि च ।
द्रक्ष्यामि तत्परं धाम धाम्रां भगवतो मुखम् ॥ 5.17.5॥
यज्ञेषु यज्ञपुरुषः पुरुषैः पुरुषोत्तमः ।
इज्यते योऽखिलाधारस्तं द्रक्ष्यामि जगत्पतिम् ॥ 5.17.6॥
इष्ट्वा यमिन्द्रो यज्ञानां शतेनामरराजताम् ।
अवाप तमनन्तादिमहं द्रक्ष्यामि केशवम् ॥ 5.17.7॥
न ब्रह्म नेन्द्ररुद्राश्विवस्वादित्यमरुद्गणाः ।
यस्य स्वरूपं जानन्ति प्रत्यक्षं याति मे हरिः ॥ 5.17.8॥
सर्वात्मा सर्ववित्सर्वः सर्वभूतेष्ववस्थितः ।
योह्यऽचिन्त्योऽव्ययो व्यापी स वक्ष्यति मया सह ॥ 5.17.8 ॥
मत्स्य कूर्मवराहाश्वसिंहरूपादिभिः स्थितिम् ।
चकार जगतो योऽजः जगतो योऽजः सोऽद्य मां प्रलपिष्यति ॥ 5.17.10 ॥
सांप्रतं च जगत्स्वामी कार्यमात्महृदि स्थितम् ।
कर्तुं मनुष्यतां प्राप्तःस्वेच्छादेहधृदव्ययः ॥ 5.17.11 ॥
योनन्तः पृथिवीं धत्ते शेखरस्थितिसंस्थिताम् ।
सोऽवतीर्णो जगत्यर्थे माम क्रूरेति वक्ष्यति ॥ 5.17.12 ॥
पितृपुत्रसुहृद्भ्रातृमातृबन्धुमयीमिमाम् ।
यन्मायां नालमुत्तर्तुं जगत्तस्मै नमोनमः ॥ 5.17.13 ॥
तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते ।
योगमायाममेयाय तस्मै विद्यात्मने नमः ॥ 5.17.14॥
यज्वभिर्यज्ञपुरुषो वासुदेवश्च सात्त्वतैः ।
वेदान्तवेदिभिर्विष्णुः प्रोच्यते यो नतोस्मि तम् ॥ 5.17.15॥
यथा यत्र जगद्धाम्नि धातर्येतत्प्रतिष्ठितम् ।
सदसत्तेन सत्येन मय्यसौ यातु सौम्याताम् ॥ 5.17.16॥
स्मृते सकलकल्याणभाजनं यत्र जायते ।
पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम् ॥ 5.17.17॥
श्रीपराशर उवाच [Sage Parasara said]
इत्थं संचिन्तयन्विष्णुं भक्तिनम्रात्ममानसः ।
अक्रूरो गोकुलं प्राप्तः किञ्चित्सूर्ये विराजति ॥ 5.17.18 ॥
स ददर्श तदा कृष्णमादावादोहने गवाम् ।
वत्समध्यागतं फुल्लनी लोत्पलदलच्छविम् ॥ 5.17.19॥
प्रफुल्लपद्मपत्राक्षं श्रीवत्सांकितवक्षसम् ।
प्रलंबबाहुमायामतुङ्गोरस्थलमुन्नसम् ॥ 5.17.20 ॥
सविलासस्मिताधारं बिभ्राणं मुखपङ्कजम् ।
जुङ्गरक्तनखं पद्य्भां धरण्यां सुप्रतिःषितम् ॥ 5.17.21 ॥
बिभ्राणं वाससी पीते वन्यपुष्पविभूषितम् ।
सेंदुनीलाचलाभं तं सितांभोजावतंसकम् ॥ 5.17.22 ॥
हंसकुन्देन्दुधवलं नीलांबरधरं द्विज ।
तस्यानु बलभद्रं च ददर्श यदुनन्दनम् ॥ 5.17.23 ॥
प्रांशुमुत्तुङ्गबाह्वंसं विकासि मुखपङ्कजम् ।
मेघमालापरिवृतं कैलासाद्रिमिवापरम् ॥ 5.17.24॥
तौ दृष्ट्वा विकसद्वक्त्रसरोजः स महामतिः ।
पुलकाञ्चितसर्वाङ्गस्तदाक्रूरोऽजगद्धातरि भवन्मुने ॥ 5.17.25॥
तदेतत्परमं धाम तदेतत्परमं पदम् ।
भगवद्वासुदेवांशो द्विधा योऽयं व्यवस्थितः ॥ 5.17.26॥
साफल्यमक्ष्णोर्युगमेतदत्र दृष्टे जगद्धातरि यातमुच्चैः ।
अप्यङ्गमेतद्भगवत्प्रसादात्तदङ्गसंगे फलवन्मम स्यात् ॥ 5.17.27॥
अप्येष पृष्ठे मम हस्तपद्मं करिष्यति श्रीमदनन्तमूर्तिः ।
यस्याङ्गुलिस्पर्शहताखिलाघैरवाप्यते सिद्धिरपास्तदोषा ॥ 5.17.28 ॥
येनाग्निविद्युद्रविरश्मिमालाकरालमत्युग्रमपेत चक्त्रम् ।
चक्रं घ्नता दैत्यपतेर्हृतानि दैत्याङ्गनानां नयनाञ्जनानि ॥ 5.17.29॥
यत्रांबु विन्यस्य बलिर्मनोज्ञानवाप भोगान्वसुधातवलस्थः ।
तथामरत्वं त्रिदशाधिपत्वं मन्वन्तरं पूर्णमपेतशत्रुम् ॥ 5.17.30 ॥
अप्येष मां कंसपरिग्रहेण दोषास्पदीभूतमदोषदुष्टम् ।
कर्तामानोपहतं धिगस्तु तज्जन्म यत्साधुबहिष्कृतस्य ॥ 5.17.31 ॥
ज्ञानात्मकस्यामलसत्त्वराशेरपेतदोषस्य सदा स्फुटस्य ।
किं वा जगत्यत्र समस्तपुंसामज्ञातमस्यास्ति हृदि स्थितस्य ॥ 5.17.32 ॥
तस्मादहं भक्तिविनम्रचेता व्रजामि सर्वेश्वमीश्वराणाम् ।
अंशावतारं पुरुषोत्तमस्य ह्यनादिमध्यान्तमजस्य विष्णोः ॥ 5.17.33 ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे सप्तशोऽध्यायः (17)
श्रीपराशर उवाच [Sage Parasara said]
चिन्तयन्नितिगोविन्दमुपगम्य स यादवः ।
अक्रुरोस्मीति चरणौ ननाम शिरसा हरेः ॥ 5.18.1 ॥
सोऽप्येनं ध्वजवज्राब्जकृतचिह्नेन पाणिना ।
संस्पृश्याकृष्य च प्रीत्य सुगाढं परिषस्वजे ॥ 5.18.2॥
कृतसंवन्दनौ तेन यथावद्बलकेशवौ ।
ततः प्रवीष्टौ संहृष्टौ तमादायात्ममन्दिरम् ॥ 5.18.3 ॥
सह ताभ्यां तदाक्रूरः कृतसंवन्दनादिकः ।
भुक्तभोज्यो यथान्याय्यमाचचक्षे ततस्तयोः ॥ 5.18.4 ॥
यथा निर्भत्सितस्तेन कंसेनानकदुन्दुभिः ।
यथा च देवकी देवी दानवेन दुरात्मना ॥ 5.18.5॥
उग्रसेने यथा कंसःस दुरात्मा च वर्तते ।
यं चैवार्थं समुद्दिश्य कंसेन तु विसर्जितः ॥ 5.18.6॥
तत्सर्वं विस्तराच्छुत्वा भगवान्देवकीसुतः ।
उवाचाखिलमप्येतज्ज्ञातं दानपते मया ॥ 5.18.7॥
करिष्ये तन्माहभाग यदत्रौपयिकं मतम् ।
विचिन्त्यं नान्यथैतत्ते विद्धि कंसं हतं मया ॥ 5.18.8॥
अहं रामश्च मथुरां श्वो यास्यावःसह त्वया ।
गोपवृद्धाश्च यास्यन्ति ह्यादायोपायनं बहु ॥ 5.18.8 ॥
निशेयं नीयतां वीर न चिन्तां कर्तुमर्हसि ।
त्रिरात्राभ्यन्तरे कंसं निहनष्यामि सानुगम् ॥ 5.18.10 ॥
श्रीपराशर उवाच [Sage Parasara said]
समादिश्य ततो गोपानक्रूरोऽपि च केशवः ।
सुष्वाप बलभद्रश्च नन्दगोपगृहे ततः ॥ 5.18.11 ॥
ततः प्रभाते विमले कृष्णरामौ महाद्युती ।
अक्रूरेण समं गन्तुमुद्यतौ मथुरां पुरीम् ॥ 5.18.12 ॥
दृष्ट्वा गोपीजनःसास्रः श्लथद्वलयबाहुकः ।
निशश्वसातिदुःखार्तः प्राह परस्परम् ॥ 5.18.13 ॥
मथुरां प्राप्य गोविन्दः कथं गोकुलमेष्यति ।
नगरस्त्रीकलालापमधु श्रोत्रेण पास्यति ॥ 5.18.14॥
विलासिवाक्यपानेषु नागरीणां कृतास्पदम् ।
चित्तमस्य कथं भूयो ग्राम्यगोपीषु यास्यति ॥ 5.18.15॥
सारं समस्तगोष्ठस्य विधिना हरता हरिम् ।
प्रहृतं गोपयोषित्सु निर्घृणेन दुरात्मना ॥ 5.18.16॥
भावर्गभस्मितं वाक्यं विलासललिता गतिः ।
नागरीणामतीवैतत्कटाक्षेक्षितमेव च ॥ 5.18.17॥
ग्राम्यो हरिरयं तासां विलासनिगडैर्युतः ।
भवतीनांपुनः पार्श्वं कया युक्त्या समेष्यति ॥ 5.18.18 ॥
एषैष रथमारुह्य मथुरां याति केशवः ।
क्रूरेणाक्रूरकेणात्र निर्घृणेन प्रतारितः ॥ 5.18.19॥
किं न वेत्ति नृशंसोयमनुरागपरं जनम् ।
येनैवमक्ष्णोराह्लादं नयत्यन्यत्र नो हरिम् ॥ 5.18.20 ॥
एष रामेण सहितः प्रयात्यत्यन्तनिर्घृणः ।
रथमारुह्य गोविन्दस्त्वर्यतामस्य वारणे ॥ 5.18.21 ॥
गुरूणामग्रतो वक्तुं विं ब्रवीथ न नः क्षमम् ।
गुरवःकिं करिष्यन्ति दग्धानां विरहाग्निना ॥ 5.18.22 ॥
नदङ्गोपमिखा गोपा गन्तुमेते समुद्यताः ।
नोद्यमं कुरुते कश्चिद्गोविन्दविनिवर्तने ॥ 5.18.23 ॥
सुप्रभाताद्य रजनी मथुरावासयोषिताम् ।
पास्यन्त्यच्युतवक्त्राब्जं यासां नेत्रालिपङ्क्तयः ॥ 5.18.24॥
धन्यास्ते पथि ये कृष्णमितो यान्त्यनिवारिताः ।
उद्वहिष्यन्ति पश्यन्तः स्वदेहं पुलकाञ्चितम् ॥ 5.18.25॥
मथुरानगरीपौरनयनानां महोत्सवः ।
गोविन्दावयवैर्दृष्टैरतीवाद्य भविष्यति ॥ 5.18.26॥
को नु स्वप्रःसभाग्याभिर्दृष्टस्ताभिरधोक्षजम् ।
विस्तारिकां तिनयना या द्रक्ष्यन्त्यनिवारिताः ॥ 5.18.27॥
अहो गोपीजनस्यास्य दर्शयित्वा महानिधिम् ।
उत्कृत्तान्यत्र नेत्राणि विधिना करुणात्मना ॥ 5.18.28 ॥
अनुरागेण शैथिल्यमस्मासु व्रजिते हरौः ।
शैथिल्यमुपयान्त्याशु करेषु वलयान्यपि ॥ 5.18.29॥
अक्रूरः क्रूरहृदयः शीव्रं प्रेरयते हयान् ।
एव मार्तासु योषित्सु कृपा कस्य न जायते ॥ 5.18.30 ॥
एष कृष्णरथस्योच्चैश्चक्ररेणुर्निरीक्ष्यताम् ।
दूरीभूतो हरिर्येन सोऽपि रेणुर्नलक्ष्यते ॥ 5.18.31 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्येवमतिहार्देन गोपीजननिरीक्षितः ।
तत्याज व्रजभूभागं सह रामेण केशवः ॥ 5.18.32 ॥
गच्छन्तो जवनाश्वेन रथेन यमुनातटम् ।
प्रप्तमध्याह्नसमये रामाक्रूरजनार्दनाः ॥ 5.18.33 ॥
अथाह कुष्ममक्रूरो भवद्य्भां तावदास्यताम् ।
यावत्करोमि कालिन्द्या आह्निकार्हणमंभसि ॥ 5.18.34॥
श्रीपराशर उवाच [Sage Parasara said]
तथेत्युक्तस्ततस्नातःस्वाचान्तःस महामतिः ।
दध्यौ ब्रह्म परं विप्र ग्रविष्टो यमुनाजले ॥ 5.18.35॥
फणासहस्रमालाढ्यं बलभद्रं ददर्श सः ।
कुन्दमालाङ्गमुन्निद्रपद्मपत्रायतेक्षणम् ॥ 5.18.36॥
वृतं वासुकिरंभाद्यैर्महद्भिः पवना शिभिः ।
संस्तूयमानमुद्गन्धिवनमालाविभूषितम् ॥ 5.18.37॥
दधानमसिते वस्त्रे चारुरूपावतंसकम् ।
चारुकुण्डलिनं भान्तमन्तर्जलतले स्थितम् ॥ 5.18.38 ॥
तस्योत्संगे घनश्याममाताम्रायतलोचनम् ।
चतुर्बाहुमुदाराङ्गं चक्राद्यायुधभूषणम् ॥ 5.18.39॥
पीते वसानं वसने चित्रमाल्योपशोभितम् ।
शक्रचापतडिन्मालाविचित्रमिव तोयदम् ॥ 5.18.40 ॥
श्रीवत्सवक्षसं चारु स्फुरन्मकरकुण्डलम् ।
ददर्श कृष्णमक्लिष्टं पुण्डरीकावतंसकम् ॥ 5.18.41 ॥
सनन्दनाद्यैर्मुनिभिः सद्धयोगैरकल्मषैः ।
संचिन्त्यमानं तत्रस्थैर्नासाग्रन्यस्तलोचनैः ॥ 5.18.42 ॥
बलकृष्णौ तथाक्रूरः प्रत्यभिज्ञाय विस्मितः ।
अचिन्तयद्रथाच्छीघ्रं कथमत्रागताविति ॥ 5.18.43 ॥
विवक्षोस्तंभयामास वाचं तस्य जनार्दनः ।
ततो निष्क्रम्य सलिलाद्रथमभ्यागतः पुनः ॥ 5.18.44॥
ददर्श तत्र चैवोभौ रथस्योपरि निष्ठितौ ।
रामकृष्णौ यथापूर्वं मनुष्यवपुषान्वितौ ॥ 5.18.45॥
निमग्नश्च पुनस्तोये ददर्श च तथैव तौ ।
संस्तूयमानौ गन्धर्वैर्मुनिसिद्धमहोरगैः ॥ 5.18.46॥
ततो विज्ञातसद्भावःस तु दानपतिस्तदा ।
तुष्टाव सर्व विज्ञानमयमच्युतमीश्वरम् ॥ 5.18.47॥
अक्रूर उवाच
सन्मात्ररूपिणेतिन्त्यमहिम्रे परमात्मने ।
व्यापिने नैकरूपैकस्वरूपाय नमो नमः ॥ 5.18.48 ॥
सर्वरूपाय तेऽचिन्त्यहविर्भूताय ते नमः ।
नमो विज्ञानपाराय पराय प्रकृतेः प्रभोः ॥ 5.18.49॥
भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् ।
आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः ॥ 5.18.50 ॥
प्रसीद सर्व सर्वात्म्न क्षराक्षरमयेश्वर ।
ब्रह्मविष्णुशिवाख्याभिः कल्पनाभिरुदीरितः ॥ 5.18.51 ॥
अनाख्येयस्वरूपात्मन्ननाख्येयप्रयोजन ।
अनाख्येन भिधानं त्वां नतोस्मि परमेश्वर ॥ 5.18.52 ॥
न यत्र नाथ विद्यन्ते नामजात्यादिकल्पनाः ।
तद्ब्रह्म परमं नित्यमविकारि भवानजः ॥ 5.18.53 ॥
न कल्पनामृतेर्थस्य सर्वस्याधिगमो यतः ।
ततः कृष्णच्युतानन्तविष्णुसंज्ञाभिरिड्यते ॥ 5.18.54॥
सर्वार्थस्त्वमज विकल्पनाभिरेतैर्वाद्यैर्भवति हि यैरनन्तविश्वम् ।
विश्वात्मा त्वमिति विकारहीनमेतत्सर्वस्मिन्न हि भवतोस्ति किञ्चिदन्यत् ॥ 5.18.55॥
त्वं ब्रह्मा पशुपतिर्यमा विधाता धाता त्वं त्रिदशपतिःसमीरणोऽग्निः ।
तोयेशो धनपतिंरतकस्त्वमेको भिन्नार्थैर्जगदभिपासिशक्तिभेदैः ॥ 5.18.56॥
विश्वं भवान्सृजति सूर्यगभस्तिरूपो विश्वेश ते गुणमयोयमतः प्रपञ्चः ।
रूपं परं सदिति वाचकमक्षरं यज्ज्ञानात्मने सदसते प्रणतोऽस्मि तस्मै ॥ 5.18.57॥
ओं [OM] नमो वासुदेवाय नमःसंकर्षणाय च ।
प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥ 5.18.58 ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशेऽष्टाशोऽध्यायः (18)
श्रीपराशर उवाच [Sage Parasara said]
एवमन्तर्जले विष्णुमभिष्टूय स यादवः ।
अर्चयामास सर्वेशं धूपपुष्पैर्मनोमयैः ॥ 5.19.1 ॥
परित्यक्तान्यविषयो मनस्तत्र निवेश्य सः ।
ब्रह्मभूते चिरं स्थित्वा विरराम समाधिनः ॥ 5.19.2॥
कृतकृत्यमिवात्मानं मन्यमामौ महामतिः ।
आजगाम रथं भूयो निर्गम्य यमुनांभसः ॥ 5.19.3 ॥
ददर्श रामकृष्णौ च यथापुर्वमवस्थितौ ।
विस्मिताक्षस्तदाक्रूरस्तं च कृष्णोऽभ्यभाषत ॥ 5.19.4 ॥
श्रीकृष्ण उवाच
नूनं ते दृष्टमाश्चर्यमक्रूर यमुनाजले ।
विस्मयोत्फुल्लनयनो भवान्संलक्ष्यते यतः ॥ 5.19.5॥
अक्रूर उवाच
अन्तर्जले यदाश्चर्यं दृष्टं तत्र मयाच्युत ।
तदत्रापि हि पश्यामि मूर्तिमत्पुरतः स्थितम् ॥ 5.19.6॥
जगदेतन्महाश्चर्यरूपं यस्य महात्मनः ।
तेनाश्चर्यपरेणाहं भवता कृष्ण संगतः ॥ 5.19.7॥
तत्किमेतेन मथुरां यास्यामो मधुसूदन ।
बिभेमि कंसाद्धिग्जन्म परिपिण्डोपजीविनाम् ॥ 5.19.8॥
इत्युक्त्वा चोदयामास स हयान् वातरंहसः ।
संप्राप्तश्चापि सायाह्ने सोऽक्रूरो मथुरां पुरीम् ॥ 5.19.8 ॥
विलोक्य मथुरां कृष्णं रामं चाह स यादवः ।
पद्य्भां यातं महावीरौ रथेनैको विशाम्यहम् ॥ 5.19.10 ॥
गन्तव्यं वसुदेवस्य नो भवद्य्भां तथा गृहम् ।
युवयोर्हि कृते वृद्धःस कंसेन निरस्यते ॥ 5.19.11 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्त्वा प्रविवेशाथ सोऽक्रूरो मथुरां पुरीम् ।
प्रविष्टौ रामकृष्णौ च राजमार्गमुपागतौ ॥ 5.19.12 ॥
स्त्रीभिर्नरैश्च सानन्दं लोतनैरभिवीक्षितौ ।
जग्मतुर्लीलया वीरौ मत्तौ बालगजाविव ॥ 5.19.13 ॥
भ्रममाणौ ततो दृष्ट्वा रजकं रङ्गकारकम् ।
अयोचेतां सूरूपाणि वासांसि रुचिराणि तौ ॥ 5.19.14॥
कंसस्य रजकः सोऽथ प्रसादारूढविस्मयः ।
बहून्याक्षेपवाक्यानि प्राहोच्चै रामकेशवौ ॥ 5.19.15॥
ततस्तलप्रहारेण कृष्णस्तस्य दुरात्मनः ।
पातयामास रोषेण रजकस्य शिरो भुवि ॥ 5.19.16॥
हत्वाऽदाय च वस्त्राणि पीतनीलांबरौ ततः ।
कृष्णरामौ मुदा युक्तौ मालाकारगृहं गतौ ॥ 5.19.17॥
विकासिनेत्रयुगलो मालाकारोतिविस्मितः ।
एतौ कस्य सुतौ यातौ मैत्रेयाचिन्तयत्तदा ॥ 5.19.18 ॥
पीतनीलांबरधरौ तौ दृष्ट्वातिमनोहरौ ।
स तर्कयामास तदा भुवं देवावुपागतौ ॥ 5.19.19॥
विकासिमुखपद्माभ्यां ताभ्यां पुष्पाणि याचितः ।
भिवं विष्टभ्य हस्ताभ्यां पस्पर्श शिरसा महीम् ॥ 5.19.20 ॥
प्रसादपरमौ नाथौ मम गेहमुपागतौ ।
धन्योऽहमर्चयिष्यामीत्याह तौ माल्यजीवनः ॥ 5.19.21 ॥
ततः प्रहृष्टवदनस्तयोः पुष्पणि कामतः ।
चारूण्येतान्यथैतानि प्रददौ स प्रलोभयन् ॥ 5.19.22 ॥
पुनःपुनः प्रणम्योभौ मालाकारो नरोत्तमौ ।
ददौ पुष्पाणि चारूणि गन्धवन्त्यमलानि च ॥ 5.19.23 ॥
मालाकाराय कृष्णो पि प्रसन्नः प्रददौ वरान् ।
श्रीस्त्वां मत्संश्रया भद्र न कदाचित्त्यजिष्यति ॥ 5.19.24॥
बलहानिर्न ते सौम्य धनहानिरथापि वा ।
यावद्दिनानि तावच्च न नशिष्यति संततिः ॥ 5.19.25॥
भुक्त्वा च विपुलान्भोगांस्त्वमन्ते मत्प्रसादतः ।
ममानुस्मरणं प्राप्यदिव्यं लोकमवाप्स्यसि ॥ 5.19.26॥
धर्मे मनश्च ते भद्र सार्वकालं भविष्यति ।
युष्मत्संततिजातानां धीर्घमायुर्भविष्यति ॥ 5.19.27॥
नोपसर्गादिकं दोषं युष्मत्संततिसंभवः ।
अवाप्स्यति महाभागा यावत्सूर्यो भविष्यति ॥ 5.19.28 ॥
श्रीपराशर उवाच [Sage Parasara said]
अत्युक्त्वा तद्गृहात्कृष्णो बलदेवसहायवान् ।
निर्जगाम मुनिश्रेष्ठ मालाकारेण पूजितः ॥ 5.19.29॥
इति श्रीविष्णुमहापुराणे पञ्चमांश एकोनविशोध्यायः (19)
श्रीपराशर उवाच [Sage Parasara said]
राजमार्गे ततः कृष्णःसानुलेपनभाजनाम् ।
ददर्श कुब्जामायान्तीं नवयोवनगोचराम् ॥ 5.20.1 ॥
तामाह ललितं कृष्णः कस्येदमनुलेपनम् ।
भवत्या नीयते सत्यं वदेन्दीवरलोचने ॥ 5.20.2॥
सकामेनेव सा प्रोक्ता सानुरागा हरिं प्रति ।
प्राह सा ललितं कुब्जा तद्दर्शनबलात्कृता ॥ 5.20.3 ॥
कान्त कस्मान्न जानासि कंसेन विनियोजिताम् ।
नैकवक्रेति विख्यातामनुलेपनकर्मणि ॥ 5.20.4 ॥
नान्यपिष्टं हि कंसस्य प्रीतये ह्यनुलेपनम् ।
भवाम्यहमतीवास्य प्रसादधनभाजनम् ॥ 5.20.5॥
श्रीकृष्ण उवाच
सुगन्धमेतद्राजार्हं रुचिरं रुचिरानने ।
आवयोर्गात्र सदृशं दीयतामनुलेपनम् ॥ 5.20.6॥
श्रीपराशर उवाच [Sage Parasara said]
श्रुत्वैतदाह सा कुब्जा गृह्यतामिति सादरम् ।
अनुलेपनं च प्रददौ गात्रयोग्यमथोभयोः ॥ 5.20.7॥
भक्तिच्छेदानुलिप्ताङ्गौ ततस्तौ पुरुषर्षभौ ।
सेंद्रचापौ व्यराजेतां सितकृष्णाविवांबुदौ ॥ 5.20.8॥
ततस्तां चुबुके शौरिरुल्लापन विधानवित् ।
उत्पाट्य तोलयामास व्द्यङ्गुलेनाग्रपाणिना ॥ 5.20.8 ॥
चकर्ष पद्य्भां च तदा ऋजुत्वं केशवोऽनयत् ।
ततःसा ऋजुतां प्राप्तायोषितमभवद्वरा ॥ 5.20.10 ॥
विलासलिलितं प्राह प्रेमगर्भभरालसम् ।
वस्त्रे प्रगृह्य गोविन्दं मम गेहं व्रजेति वै ॥ 5.20.11 ॥
एवमुक्तस्तया शौरी रामस्यालोक्य चाननम् ।
प्रहस्य कुब्जां तामाह नैकवक्रामनिन्दिताम् ॥ 5.20.12 ॥
आयास्ये भवतीगेहमिति तां प्रहसन्हरिः ।
विससर्ज जहासोच्चै रामस्यालोक्य चाननम् ॥ 5.20.13 ॥
भक्तिभेदानुनिप्ताङ्गौ नीलपीतांबरौ तु तौ ।
धनुःशालां ततो यातौ चित्रमाल्योपसोभितौ ॥ 5.20.14॥
आयागं तद्धनूरत्नं ताभ्यां पृष्टैस्तु रक्षिभिः ।
आख्याते सहसा कृष्णो गृहीत्वा पूरयद्धनुः ॥ 5.20.15॥
ततः पूरयता तेन भज्यमानं बलाद्धनुः ।
चकार सुमहच्छब्दं मथुरा येन पूरिता ॥ 5.20.16॥
अनुयुक्तौ ततस्तौ तु भग्रे धनुषि रक्षिभिः ।
रक्षिसैन्यं निहत्योभौ निष्क्रान्तौ कार्मुकालयात् ॥ 5.20.17॥
अक्रूरागमवृत्तान्तमुपलभ्य महद्धनुः ।
भग्नं श्रुत्वा च कंसोऽपि प्राह चाणूरमुष्टिकौ ॥ 5.20.18 ॥
कंस उवाच
गोपालदारकौ प्राप्तौ भवद्य्भां तु ममाग्रतः ।
मल्लयुद्धेन हन्तव्यौ मम प्राणहरौ दि तौ ॥ 5.20.19॥
नियुद्धे तद्विनाशेन भवद्भ्यां तोषितो ह्यहम् ।
दास्याम्यभिमतान्कामान्नान्यथैतौ महाबलौ ॥ 5.20.20 ॥
न्यायतोन्यायतो वापि भवद्य्भां तौ ममाहितौ ।
हन्ताव्यौ तद्वधाद्राज्यं सामान्यं वां भविष्यति ॥ 5.20.21 ॥
इत्यादिश्य स तौ मल्लौ ततश्चाहूय हस्तिपम् ।
प्रोवाचोच्चैस्त्वया मल्लसमाजद्वारि कुञ्जरः ॥ 5.20.22 ॥
स्थाप्यः कुवलयापीडस्तेन तौ गोपदारकौ ।
घातनीयौ नियुद्धाय रङ्गद्वारमुपागतौ ॥ 5.20.23 ॥
तमप्याज्ञाप्य दृष्ट्वा च सर्वान्मञ्चानुपाकृतान् ।
आसन्नमरणः कंसः सूर्योदयमुदैक्षत ॥ 5.20.24॥
ततः समस्तमञ्चेषु नागरःस तदा जनः ।
राजमञ्चेषु चारूढाःसह भृत्यैर्नराधिपाः ॥ 5.20.25॥
मल्लप्राश्रिकवर्गश्च रङ्गमध्यसमीपगः ।
कृतः कंसेन कंसोऽपि तुङ्गमञ्चे व्यवस्थितः ॥ 5.20.26॥
अन्तःपुराणां मञ्चाश्च तथान्ये परिकल्पिताः ।
अन्ये च वारमुख्यानामन्ये नागरयोषिताम् ॥ 5.20.27॥
नन्दगोपादयो गोपा मञ्चेष्वन्येष्ववस्थिताः ।
अक्रूरवसुदेवौ च मञ्चप्रान्ते व्यवस्थितौ ॥ 5.20.28 ॥
नागरीयोषितां मध्ये देवकीपुत्रगर्धिनी ।
अन्तकालेऽपि पुत्रस्य द्रक्ष्यामीति मुखं स्थिता ॥ 5.20.29॥
वाद्यमानेषु तुर्येषु चाणूरे चातिवल्गति ।
हाहाकारपरे लोके ह्यास्फोटयति मुष्टिके ॥ 5.20.30 ॥
ईषद्धसंतौ तौ वीरौ बलभद्रजनार्दनौ ।
गोपवेषधारौ वालौ रङ्गद्वारमुपागतौ ॥ 5.20.31 ॥
ततः कुवलयापीडो महामात्रप्रचोदितः ।
अभ्यधावत वेगेन हन्तुं गोपकुमारकौ ॥ 5.20.32 ॥
हाहाकारो महाञ्जज्ञे रङ्गमध्ये द्विजोत्तम ।
बलदेवोऽनुजं दृष्ट्वा वचनं चेदमब्रवीत् ॥ 5.20.33 ॥
हन्तव्यो हि महाभाग नागोऽयं शत्रुचोदितः ॥ 5.20.34॥
इत्युक्तःसोऽग्रजेनाथ बलदेवेन वै द्विज ।
सिंहनादं ततश्चक्रे माधवः परवीरहा ॥ 5.20.35॥
करेण करमकृष्य तस्य केशिनिषूदनः ।
भ्रमयामास तं शैरिरैरावतसमं बले ॥ 5.20.36॥
ईशोपि सर्वजगतां बाललीलानुसारतः ।
क्रीडित्वा सुचिरं कृष्णः कदिरन्तपदान्तरे ॥ 5.20.37॥
उत्पाट्य वामदन्तं तु दक्षिणेनैव पाणिना ।
ताडयामास यन्तारं तस्यासीच्छतधा शिरः ॥ 5.20.38 ॥
दक्षिण दन्तमुत्पाट्य बलभद्रोऽपि तत्क्षणात् ।
स रोषस्तेन पार्श्वस्थान् गजपालानपोथयत् ॥ 5.20.39॥
ततस्तूत्प्लुत्य वेगेन रौहिणेयो महाबलः ।
जघान वामपादेन मस्तके हस्तिनं रुषा ॥ 5.20.40 ॥
स पपात हतस्तेन बलभद्रेण लीलया ।
सहस्राक्षेण वज्रेण ताडितः पर्वतो यथा ॥ 5.20.41 ॥
हत्वा कुवलयापीडं हस्त्यारोहप्रचोदितम् ।
मदासृगनुलिप्ताङ्गौ हस्तिदन्तवरायुधौ ॥ 5.20.42 ॥
मृगमध्ये यथा सिंहौ गर्वलीलावलोकिनौ ।
प्रविष्टौ सुमहारङ्गं बलभद्रजनार्दनौ ॥ 5.20.43 ॥
हाहाकारो महाञ्जज्ञे महारङ्गे त्वनन्तरम् ।
कृष्णोऽयं बलभद्भोयमिति लोकस्य विस्मयः ॥ 5.20.44॥
सोऽयं येन हता घोरा पूतना बालघातिनी ।
क्षिप्तं तु शकटं येन भग्नौ तु यमलार्जुनौ ॥ 5.20.45॥
सोयं यः कालियं नागं ममर्दारुह्य वालकः ।
धृतो गोवर्धनो येन सप्तरात्रं महागिरिः ॥ 5.20.46॥
अरिष्टो धेनुकः केशी लीलयैव महात्मना ।
निहता येन दुर्वृत्ता दृश्यतामेष सोऽच्युतः ॥ 5.20.47॥
अयं चास्य महाबाहुर्बलभद्रोऽग्रतोऽग्रजः ।
प्रयाति लीलया योषिन्मनोनयननन्दनः ॥ 5.20.48 ॥
अयं स कथ्यते प्राज्ञैः पुराणार्थविशारदैः ।
गोपालो यादवं वंशं मग्नमभ्यद्धरिष्यति ॥ 5.20.49॥
अयं हि सर्वलोकस्य विष्णोरखिलजन्मनः ।
अवतीर्णो महीमंशो नूनं भारहरो भुवः ॥ 5.20.50 ॥
इत्येवं वर्णिते पौरै रामे कृष्णे च तत्क्षणात् ।
उरस्तताप देवक्याः स्नेहस्नुतपयोधरम् ॥ 5.20.51 ॥
महोत्सवमिवासाद्य पुत्राननविलोकनात् ।
युववे वसुदेवोऽभूद्विहायाभ्यागतां जराम् ॥ 5.20.52 ॥
विस्तारिताक्षियुगलो राजान्तःपुरयोषिताम् ।
नागारस्त्रीसमूहश्च द्रष्टुं न विरराम तम् ॥ 5.20.53 ॥
सख्यः पश्यत कृष्णस्य मुखमत्यरुणेक्षणम् ।
गजयुद्धकृतायासस्वेदांबुकणिकचितम् ॥ 5.20.54॥
विकासिशरदंभोजमपश्यामजलोक्षितम् ।
परिभूयं स्थितं जन्म सफलं क्रियतां दृशः ॥ 5.20.55॥
श्रीवत्सांकं महद्धाम बालस्यैतद्विलोक्यताम् ।
विपक्षक्षपणं वक्षो भुजयुग्यं च भामीनि ॥ 5.20.56॥
किं न पश्यसि दुग्धेन्दुमृणालधवलाकृतिम् ।
बलभद्रमिमं नीलपरिधानमुपगतम् ॥ 5.20.57॥
वल्गतामुष्टिकेनैव चाणूरेण तथा सखि ।
क्रीडतोबलभद्रस्य हरेर्हास्यं विलोक्यताम् ॥ 5.20.58 ॥
सख्यः पश्यत चाणूरं नियुद्धार्थमयं हरिः ।
समुपैति न संत्यत्र किं वृद्धा मुक्तकारिमः ॥ 5.20.59॥
क्व यौवनोन्मुखीभूतमुकुमारतनुर्हरिः ।
क्व वज्रकठिनाभोगशरीरोऽयं महासुरः ॥ 5.20.60 ॥
इमौ सुललितैरङ्गैर्वर्तेते नवयौवनौ ।
दैतेयमल्लाश्चाणूरप्रमुखास्त्वतिदारुणाः ॥ 5.20.61 ॥
नियुद्धप्राश्निकानां तु महानेष व्यतिक्रमः ।
यद्बालबलिनोर्युद्धं मध्यस्थैः समुपेक्ष्यते ॥ 5.20.62 ॥
श्रीपारशर उवाच
इत्थं पुरस्त्रीलोकस्व वदतश्चालयन्भुवम् ।
ववल्ग बद्धकक्ष्योन्तर्जनस्य भगवान्हरिः ॥ 5.20.63 ॥
बलभद्रोऽपि चास्फोट्य ववल्गललितं तथा ।
पदेपदे तथा भूमिर्यन्न शीर्णा तदद्भुतम् ॥ 5.20.64॥
चाणूरेण ततः कृष्णो ययुधेऽमितविक्रमः ।
नियुद्धकुशलो दैत्यौ बलभद्रेण मुष्टिकः ॥ 5.20.65॥
सन्निपातावधूतैस्तु चाणूरेण समं हरिः ।
प्रक्षेपणैर्मुष्टिभिश्च कीलवज्रनिपातनैः ॥ 5.20.66॥
पादोद्धूतैः प्रमृष्टैश्च तयोर्युद्धमभून्महत् ॥ 5.20.67॥
अशस्त्रमतिघोरं तत्तयोर्युद्धं सुदारुणम् ।
बलप्राणविनिष्पाद्यं समाजोत्सवसन्निधौ ॥ 5.20.68 ॥
यावद्यावच्च चाणूरो युयुधे हरिणा सह ।
प्रामहानिमवापाग्र्यां तावत्तवल्लवाल्लवम् ॥ 5.20.69॥
कृष्णोपि युयुधे तेन लीलयैव जगन्मयः ।
खेदाच्चालयता कोपान्निजकेसरशेखरम् ॥ 5.20.70 ॥
बलक्षयं विवृद्धिं च दृष्ट्वा चाणूरकृष्णयोः ।
वारयामास तूर्याणि कंसः कोपपरायणः ॥ 5.20.71 ॥
मृदङ्गादिषु तूर्येषु प्रतिषिद्धेषु तत्क्षणात् ।
खे संगतान्यवाद्यन्त देवतूर्याण्यनेकशः ॥ 5.20.72 ॥
जय गोविन्द चाणूरं जहि केशव दानवम् ।
अन्तर्धानगता देवास्तमूचुरतिहर्षिताः ॥ 5.20.73 ॥
चाणूरेण चिरं कालं पीडित्वा मधुसूदनः ।
उत्पाट्य भ्रमयामास तद्वधाय कृतो द्यमः ॥ 5.20.74॥
भ्रामयित्वा शतगुणं दैत्यमल्लममित्रजित् ।
भूभावात्फोटयामास गगने गतजीवितम् ॥ 5.20.75॥
भूमावास्फोटितस्तेनचाणूरः शतधाभवत् ।
रक्तस्रावमहापङ्कां चकार च तदा भवम् ॥ 5.20.76॥
बलदेवोऽपि तत्कालं मुष्टिकेन महाबलः ।
ययुधे दैत्यमल्लेन चाणूरेण यथा हरिः ॥ 5.20.77॥
सोऽप्येनं मुष्टिना मूर्ध्नि वक्षस्याहत्य जानुना ।
पातयित्वा धरापृष्ठे निष्पिपेष गतायुषम् ॥ 5.20.78 ॥
कृष्ण स्तोशलकं भूयो मल्लराजं महाबलम् ।
वाममुष्टिप्रहारेण पातयामास भूतले ॥ 5.20.79॥
चाणूरे नहते मल्ले मुष्टेके विनिपातिते ।
नीते क्षयं तोशलके सर्वे मल्लाः प्रदुद्रुवुः ॥ 5.20.80 ॥
ववल्गतुस्ततो रङ्गे कृष्णसंकर्षणावुभौ ।
समानवयसो गोपान्बलादाकृष्यहर्षितौ ॥ 5.20.81 ॥
कंसोऽपि कोपरक्ताक्षः प्राहोच्चैर्व्यायतान्नरान् ।
गोपावेतौ समाजौघान्निष्क्राम्येतां बलादितः ॥ 5.20.82 ॥
नन्दोऽपि गृह्यतां पापो निर्गलैरायसैरिह ।
अवृद्धार्हैम दण्डेन वसुदेवोऽपि बध्यताम् ॥ 5.20.83 ॥
वल्गन्ति गोपाः कृष्णेन ये चेमे सहिताः पुराः ।
गावो निगृह्य तामेषां यच्चास्ति वसु किञ्चन ॥ 5.20.84॥
एवमाज्ञापयानं तु प्रहस्य मधुसूदनः ।
उत्प्लुत्यारुह्य तं मञ्चं कंसं जग्राह वेगतः ॥ 5.20.85॥
केशेष्वा कृष्य विगलत्किरीटमवनीतले ।
सं कंसं पातयामास तस्योपरि पपात च ॥ 5.20.86॥
अशेषजगदाधारगुरुणा पततोपरि ।
कृष्णेन त्याजितः प्राणानुग्रसेनात्मजो नृपः ॥ 5.20.87॥
मृतस्य केशेषु तदा गृहीत्वा मधुसूदनः ।
चकर्ष देहं कंसस्य रङ्गमध्ये महाबलः ॥ 5.20.88 ॥
गौरवेमातिपतता परिघातेन कृष्यता ।
कृता कंसस्य देहेन वेगेनेव महांभसः ॥ 5.20.89॥
कंसे गृहीते कृष्णेन तद्भ्राताभ्यागतो रुषा ।
सुनामा बल भद्रेण लीलयैव निपातितः ॥ 5.20.90 ॥
ततो हाहाकृतं सर्वमासीत्तद्रङ्गमण्डलम् ।
अवज्ञया हतं दृष्ट्वा कृष्णेन मथुरेश्वरम् ॥ 5.20.91 ॥
कृष्णेऽपि वसुदेवस्य पादौ जग्राह सत्वरः ।
देवक्याश्च महाबाहुर्बलदेवसहायवान् ॥ 5.20.92 ॥
उत्थाप्य वसुदेवस्तं देवकी च जनार्दनम् ।
स्मृतजन्मोक्तवचनौ ता
वे व प्रणतौ स्थितौ ॥ 5.20.93 ॥
श्रीवसुदेव उवाच
प्रसीद सीदतां दत्तो देवानां यो वरः प्रभो ।
तथावयोः प्रसादेन कृतोद्धारःस केशव ॥ 5.20.94॥
आराधितो यद्भगवानवतीर्णो गृहे मम ।
दुर्वृत्तनिधनार्थाय तेन नः पावितं कुलम् ॥ 5.20.95॥
त्वमन्तः सर्वभूतानां सर्वभूतमयस्थितः ।
प्रवर्तेते समस्तात्मंस्त्वत्तो भूतभविष्यति ॥ 5.20.96॥
यज्ञैस्त्वमिज्यसेऽचिन्त्य सर्वदेवमयाच्युत ।
त्वमेव यज्ञो यष्टा च यज्वनां परमेश्वरः ॥ 5.20.97॥
समुद्भवःसमस्तस्य जगतस्त्वं जनार्दन ॥ 5.20.98 ॥
सापह्नवं मम मनो यदेतत्त्वयि जायते ।
देवक्याश्चात्मजप्रीत्या तदत्यन्तविडंबना ॥ 5.20.99॥
त्वं कर्ता सर्वभूतानामनादिनिधनो भवान् ।
त्वं मनुष्यस्य कस्यैषा जिह्वा पुत्रेते वक्ष्यति ॥ 5.20.100 ॥
जगदेतज्जगन्नाथ संभूतमखिलं यतः ।
कया युक्त्या विना मायां सोऽस्मत्तः संभविष्यति ॥ 5.20.101 ॥
यस्मिन्प्रतिष्ठितं सर्वं जगत्स्थावरजङ्गमम् ।
स कोष्ठोत्संगशयने मानुषो जाय ते कथम् ॥ 5.20.102 ॥
स त्वं प्रसीद परम्श्वर पाहि विश्वमंशावतारकरणैर्न ममासि पुत्रः ।
आब्रह्यपादपमिदं जगदेतदीश त्वत्तो विमोहयसि किं पुरुषोत्तमास्मान् ॥ 5.20.103 ॥
मायाविमोहितदृशा तनयो ममेति कंसाद्भायं कृतमपास्तभयोऽतितीव्रम् ।
नितोऽसि गोकुलमरातिभया कुलेन वृद्धिं गतोऽसि मम नास्ति ममत्वमीश ॥ 5.20.104॥
कर्माणि रुद्रमरुदश्विशतक्रतूनां साध्यानि यस्य न भवन्ति निरीक्षितानि ।
त्वं विष्णुरीश जगतामुपकारहेतोः प्राप्तोसि नः परिगतो विगतो हि मोहः ॥ 5.20.105॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे विंशोध्यायः (20)
श्रीपराशर उवाच [Sage Parasara said]
तौ समुत्पन्नविज्ञानौ भगवत्कर्मदर्शनात् ।
देवकी वसुदेवौ कुदृष्ट्वा मायां पुनर्हरिः ।
मोहाय यदुचक्रस्य विततान स वैष्णवीम् ॥ 5.21.1 ॥
उवाच चांब हे तात चिरादुत्कण्ठितेन मे ।
भवन्तौ कंसभीतेन दृष्टौ संकर्षणेन च ॥ 5.21.2॥
कुर्वतां याति यः कालो मातापित्रोरपूजनम् ।
तत्खण्डमायुषो व्यर्थमसाधूनां हि जायते ॥ 5.21.3 ॥
गुरुदेवद्विजातीनां मातापित्रोश्च पूजनम् ।
कुर्वतां सफलः कालो देहिनां तात जायते ॥ 5.21.4 ॥
तत्क्षन्तव्यमिदं सर्वमतिक्रमकृतं पितः ।
कंसवीर्यप्रतापाभ्यामावयोः परवश्ययोः ॥ 5.21.5॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्त्वाथ प्रणम्योभौ यदुवृद्धाननुक्रमात् ।
यथावदभिपूज्याथ चक्रतुः पौरमाननम् ॥ 5.21.6॥
कंसपत्न्यस्ततः कंसं परिवार्य हतं भुवि ।
विलेपुर्मातरश्चास्य दुःखशोकपरिप्लुताः ॥ 5.21.7॥
बहुप्रकारमस्वस्थाः पश्चात्तापातुरो हरिः ।
ताःसमाश्वासयामास स्वयमस्राविलेक्षमः ॥ 5.21.8॥
उग्रसेनं ततो बन्धामुमोच मधुसूदनः ।
अभ्यसिंचत्तदैवैनं निजराज्ये हतात्मजम् ॥ 5.21.8 ॥
राज्योभिषिक्तः कृष्णेन यदुसिंहःसुतस्य सः ।
चकार प्रेतकार्याणि ये चान्ये तत्र घातिताः ॥ 5.21.10 ॥
कृतौर्धदैहिकं चैनं सिंहासनगतं हरिः ।
उवाचाज्ञापय विभो यत्कार्यमविशङ्कितः ॥ 5.21.11 ॥
ययातिशापाद्वंशोयमराज्यार्हेपि सांप्रतम् ।
मयि भृत्ये स्थिते देवनाज्ञापयतु किं नृपैः ॥ 5.21.12 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्त्वा सोऽस्मरद्वायुमाजगाम च तत्क्षणात् ।
उवाच चैनं भगवान्केशवः कार्यमानुषः ॥ 5.21.13 ॥
गच्छेदं ब्रूहि वायो त्वमलं गर्वोण वासव ।
दीयतामुग्रसेनाय सुधर्मा भवता सभा ॥ 5.21.14॥
कृष्णो ब्रवीति राजार्हमेतद्रत्नमनुत्तमम् ।
सूधर्माख्यसभायुक्तमस्यां यदुभिरासितुम् ॥ 5.21.15॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्तः पवनो गत्वा सर्वमाह शचीपतिम् ।
ददौ सोऽपि सुधर्माख्यां सभां वायोः पुरन्दरः ॥ 5.21.16॥
वायुना चाहृतां दिव्यां सभां ते यदुपुङ्गवाः ।
बुभुजुःसर्वरत्नाढ्यां गोविन्दभुजसंश्रयाः ॥ 5.21.17॥
विदिताखिलविज्ञानौ सर्वज्ञानमयावपि ।
शिष्याचार्यक्रमं वीरौ ख्यापयन्तौ सदूत्तमौ ॥ 5.21.18 ॥
ततःसांदीपनिं काश्यमवन्तीपुरवासिनम् ।
विद्यार्थं जग्मतुर्बालौ कृतोपनयनक्रमौ ॥ 5.21.19॥
वेदाभ्यासकृतप्रीति संकर्षणजनार्दनौ ।
तस्य शिष्यत्वमभ्येत्य गुरुवृत्तिपुरौ हि तौ ।
दर्शयाञ्चक्रतुर्वीरा वाचारमखिले जने ॥ 5.21.20 ॥
सरहस्यं धनुर्वेदं ससंग्रहमधीयताम् ।
अहोरात्रचतुःषष्ट्या तदद्भुतमभूद्द्वूज ॥ 5.21.21 ॥
सांदीपनिरसंभाव्यं तयोः कर्मातिमानुषम् ।
विचिन्त्य तौ तदा मेने प्राप्तौ चन्द्रदिवाकरौ ॥ 5.21.22 ॥
सांगांश्च चतुरो वेदान्सर्वशास्त्राणि चैव हि ।
अस्त्रग्राममशेषं च प्रोक्तमात्रमवाप्य तौ ॥ 5.21.23 ॥
ऊचुतुर्व्रियतां या ते दातव्या गुरुदक्षिमा ॥ 5.21.24॥
सोऽप्यतीन्द्रियमालोक्य तयोः कर्म महामति ।
अयाचत सृतं पुत्रं प्रभासे लवणार्णवे ॥ 5.21.25॥
गृहीतास्त्रौ ततस्तौ तु सार्घ्यहस्तो महोदधिः ।
उवाच न मया पुत्रो हृतःसांदीपनेरिति ॥ 5.21.26॥
दैत्यः पञ्चजनो नाम शङ्खरूपः स बालकम् ।
जग्राह योस्ति सलिले ममैवा सुरसूदन ॥ 5.21.27॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्त्वोन्तर्जलं गत्वा हत्वा पञ्चजनं च तम् ।
कष्णो जग्राह तस्यास्थिप्रभवं शङ्खमुत्तमम् ॥ 5.21.28 ॥
यस्य नादेन दैत्यानां बलहानिरजायत ।
देवानां ववृधे तेजो यात्यधर्मश्च संक्षयम् ॥ 5.21.29॥
तं पाञ्चजन्यमापूर्य गत्वा यमपुरं हरिः ।
बलदेवश्च बलवाञ्जित्वा वैवस्वतं यमम् ॥ 5.21.30 ॥
तं बालं यातनासंस्थ यथापूर्वशरीरिणम् ।
पित्रे प्रदत्तवान्कृष्णो बलश्च बलिनां वरः ॥ 5.21.31 ॥
मथुरां च पुनः प्राप्ताबुग्रसेनेन पालिताम् ।
प्रहृष्टपुरुषस्त्रीकामुभौ रामजनार्दनौ ॥ 5.21.32 ॥
इति श्रीविष्णुमहापुराणे पञ्चमांश एवविंशोध्यायः (21)
श्रीपराशर उवाच [Sage Parasara said]
जरासंधमुते कस उपयेमे महाबलः ।
अस्तिं प्राप्तिं च मैत्रेय चयोर्भर्तृहणं हरिम् ॥ 5.22.1 ॥
महा बलपरीवारो मगधाधिपतिर्बली ।
हन्तुमभ्याययौ कोपाज्जरासंधःसयादवम् ॥ 5.22.2॥
उपेत्य मथुरां सोऽथ रुरोध मगधेश्वरः ।
अक्षौहिणीभिः सैन्यस्य त्रयोविंशतिभिर्वृतः ॥ 5.22.3 ॥
निष्क्रम्याल्पपरीवारावुभौ रामजनार्दनौ ।
युयुधाते समं तस्य बलिनौ बलिसैनिकैः ॥ 5.22.4 ॥
ततो रामश्च कृष्णश्च मतिं चक्रतुरञ्जसा ।
आयुधानां पुराणानामादाने मुनिसत्तम ॥ 5.22.5॥
अनन्तरं हरेः शार्ङ्गं तूणी चाक्षयसायकौ ।
आकाशादागतौ विप्र तथा कौमोदकी गदा ॥ 5.22.6॥
हलं च बलभद्रस्य गगनादागतं महत् ।
मनसोऽभिमतं विप्र सानन्दं मुसलं तथा ॥ 5.22.7॥
ततो युद्धे पराजित्य ससैन्यं सगधाधिपम् ।
पुरीं विविशतुर्वीरावुभौ रामजनार्दनौ ॥ 5.22.8॥
जिते तस्मिन्सुदुर्वृत्ते जरासंधे महा मुने ।
जीवमाने गते कृष्णस्तेनामन्यत नाजितम् ॥ 5.22.8 ॥
पुनरप्याजगामाथ जरासंधो बलान्वितः ।
जितश्च रामकृष्णाभ्यामपक्रान्तो द्विजोत्तम ॥ 5.22.10 ॥
दश चाष्टौ च संग्रमानेवमत्यन्तदुर्मदः ।
यदुभिर्मागधो राजा चक्रे कृष्णपुरोगमैः ॥ 5.22.11 ॥
सर्वेष्वेतेषु युद्धेषु यादवैः स पराजितः ।
अपक्राञ्चो जरासंधःस्वल्पसैन्यैर्बलाधिकः ॥ 5.22.12 ॥
न तद्बलं यादवानां विजितं यदनेकशः ।
तत्तु संनिधिमाहात्म्यं विष्णोरंशस्य चक्रिणः ॥ 5.22.13 ॥
मनुष्यधर्मशीलस्य लीला सा जगतीपतेः ।
अस्त्राण्यनेकरूपाणि यदरातिषु मुञ्चति ॥ 5.22.14॥
मनसैव जगत्सृष्टिं संहारं च करोति यः ।
तस्यापिपक्षक्षपणे कियानुद्यमविस्तरः ॥ 5.22.15॥
तथापि यो मनुष्याणां धर्मस्तमनुवर्तते ।
कुर्वन्बलवता संधिं हीनैर्युद्धं करोत्यसौ ॥ 5.22.16॥
साम चोपप्रदानं च तथा भेदं च दर्शयन् ।
करोति दण्डपातं च क्वचिदेव पलायनम् ॥ 5.22.17॥
मनुष्यदेहिनां चेष्टामित्येवमनुवर्तते ।
लीला जगत्पतेस्तस्य च्छन्दतः परिवर्तते ॥ 5.22.18 ॥
इति श्रीविष्णुमहापुराणे पञ्चमाशे द्वाविंशोऽध्यायः (22)
श्रीपराशर उवाच [Sage Parasara said]
गार्ग्यं गोष्ठ्यां द्विजं श्यालःषण्ड इत्युक्तवान्द्विज ।
यदूनां सन्निधौ सर्वे जहसुर्यादवास्तदा ॥ 5.23.1 ॥
ततः कोपपरीतात्मा दक्षिणापथमेत्य सः ।
सुतमिच्छंस्तपस्तेपे यदुचक्रभयावहम् ॥ 5.23.2॥
आराधयन्महादेवं लोहचूर्णमभक्षयत् ।
ददौ वरं च तुष्टोऽस्मै वर्षे तु द्वादशे हरः ॥ 5.23.3 ॥
संतोषयामास च तं यवनेशो ह्यनात्मजः ।
तद्योषित्संगमाच्चास्य पुत्रोऽभूदलिसन्निभः ॥ 5.23.4 ॥
तं कालयवनं नाम राये स्वे यवनेश्वरः ।
अभिषिच्य वनं यातो वज्रग्रकठिनोरसम् ॥ 5.23.5॥
स तु वीर्यमदोन्मत्तः पृथिव्यां बलिनो नृपान् ।
अपृच्छन्नारदस्तस्मै कथयामास यादवान् ॥ 5.23.6॥
म्लेच्छकोटिसहस्राणां सहस्रैः सोऽभिसंवृतः ।
गजाश्वरथसंपन्नैश्चकार परमोद्यमम् ॥ 5.23.7॥
प्रययौ स व्यवच्छिन्नं छिन्नयानो दिनेदिने ।
यादवान्प्रति सामर्षो मैत्रेय मथुरां पुरीम् ॥ 5.23.8॥
कृष्णोऽपि चिन्तयामास क्षपितं यादवं बलम् ।
यवनेन रणे गम्यं मागधस्य भविष्यति ॥ 5.23.8 ॥
मागधस्य बलं क्षीणं स कालयवनो बली ।
हन्तैतदेवमायातं यदूनां व्यसनं द्विधा ॥ 5.23.10 ॥
तस्माद्दुर्गं करिष्यामि यदूनामरिदुर्जयम् ।
स्त्रियोऽपि यत्र युद्धेयुः किं पुनर्वृष्णिपुङ्गवाः ॥ 5.23.11 ॥
मयि मत्ते प्रमत्ते वा सुप्ते प्रवसितेऽपि वा ।
यादवाभिभवं दुष्टा मा कुर्वंस्त्वरयोधिकाः ॥ 5.23.12 ॥
इति संचिन्त्य गोविन्दो योजनानां महोदधिम् ।
ययाचे द्वादशपुरीं द्वारकां तत्र निर्ममे ॥ 5.23.13 ॥
महोद्यानां महावप्रां तटाकशतशोभिताम् ।
प्रासादगृहसंबाधामिन्द्रस्येवामरावतीम् ॥ 5.23.14॥
मथुरावासिनं लोकं तत्रानीय जनार्दनः ।
आसन्ने कालयवने मथुरां च स्वयं ययौ ॥ 5.23.15॥
बहिरावासिते सैन्ये मथुराया निरायुधः ।
निर्जगाम च गोविन्दो ददर्श यवनश्च तम् ॥ 5.23.16॥
स ज्ञात्वा वासुदेवं तं बाहुप्रहरणं नृपः ।
अनुयातो महायोगी चेतोभिः प्राप्यते न यः ॥ 5.23.17॥
तेनानुयातः कृष्णोऽपि प्रविवेश महागुहाम् ।
यत्र शेते महावीर्यो मुचुकुन्दो नरेश्वरः ॥ 5.23.18 ॥
सोऽपि प्रविष्टो यवनो दृष्ट्वा शय्यागतं नृपम् ।
पादेन ताडयामास मत्वा कृष्णं सुदुर्मतिः ॥ 5.23.19॥
उत्थाय मुचुकुन्दोऽपि ददर्श यवनं नृपः ॥ 5.23.20 ॥
दृष्टमात्रश्च तेनासौ जज्वाल यवनोग्निना ।
तत्क्रोधजेन मैत्रेय भस्मीभूतश्च तत्क्षणात् ॥ 5.23.21 ॥
स हि देवासुरे युद्धे गतो हत्वा महासुरान् ।
निद्रार्तःसुमहाकालं निद्रां वव्रे वरं सुरान् ॥ 5.23.22 ॥
प्रोक्तश्च देवैः संसुप्तं यस्त्वामुत्थापयिष्यति ।
देहजेनाग्निना सद्यःस तु भस्मीभविष्यति ॥ 5.23.23 ॥
एवं दग्ध्वा स तं पापं दृष्ट्वा च मधुसूदनम् ।
कस्त्वमित्याह सोऽप्याह जातोहं शशिनः कुले ।
वसुदेवस्य तनयो यदोर्वंशसमुद्बवः ॥ 5.23.24॥
मुचुकुन्दोऽपि तत्रासौ वृद्धगर्ग्यावचोऽस्मरत् ॥ 5.23.25॥
संस्मृत्य प्रणिपत्यैनं सर्वं सर्वेश्वरं हरिम् ।
प्राह ज्ञातो भवान् विष्णोरंशस्त्वं परमेश्वर ॥ 5.23.26॥
पुरा गार्ग्येण कथितमष्टाविंशतिमे युगे ।
द्वापरान्ते हरेर्जन्म यदुवंशे भविष्यति ॥ 5.23.27॥
स त्वं प्राप्तो न संदेहो मर्त्यानामुपकारकृत् ॥ 5.23.28 ॥
तथाहि सुमहत्तेजो नालं सोढुमहं तव ।
तथाहि सजलांभोदनादधीरतरं तव ।
वाक्यं नमति चैवोर्वी युष्मत्पादप्रपीडिता ॥ 5.23.29॥
देवासुरमहायुद्धे दैत्यसैन्यमहाभटाः ।
न सेहुर्मम ते जस्ते त्वत्तेजो न सहाम्यहम् ॥ 5.23.30 ॥
संसारपतितस्यैको जन्तोस्त्वं शरणं परम् ।
प्रसीद त्वं प्रपन्नार्तिहर नाशय मेऽशुभम् ॥ 5.23.31 ॥
त्वं पयो निधयः शैलसरितस्त्वं वनानि च ।
मेदिनी गगनं वायुरापोग्निस्त्वं तथा मनः ॥ 5.23.32 ॥
बुद्धिरव्याकृतप्राणाः प्राणेशस्त्वं तथा पुमान् ।
पुंसः परतरं यच्च व्याप्य जन्म विकारवत् ॥ 5.23.33 ॥
शब्दादिहीनमजरममेयं क्षयवर्जितम् ।
अवृद्धिनाशं तद्ब्रह्म त्वमाद्यन्तविवर्जितम् ॥ 5.23.34॥
त्वत्तोऽमराःसपितरो यक्षगन्धर्वकिन्नराः ।
सिद्धाश्चाप्सरसस्त्वत्तो मनुष्याः पशवः खगाः ॥ 5.23.35॥
सरीसृपा मृगाःसर्वे त्वत्तःसर्वे महीरुहाः ।
यच्च भूतं भविष्यं च किञ्चिदत्र चराचरम् ॥ 5.23.36॥
मूर्तामूर्तं तथा चापि स्थूलं सूक्ष्मतरं तथा ।
तत्सर्वं त्वं जगत्कर्ता नास्ति किञ्चित्त्वा या विना ॥ 5.23.37॥
मया संसारचक्रेऽस्मिन्भ्रमता भगवंस्तदा ।
तापत्रयाभिभूतेन न प्राप्ता निर्वृतिः क्विचित् ॥ 5.23.38 ॥
दुःखान्येव सुखानीति मृगतृष्णाजलाशयाः ।
मया नाथ गृहीतानि तानि तापाय मेऽभवन् ॥ 5.23.39॥
राज्यमुर्वी बलं कोशो मित्रपक्षस्तथात्मजाः ।
भार्या भृत्य जनो ये च शब्दाद्य विषयाः प्रभो ॥ 5.23.40 ॥
सुखबुद्ध्या मया सर्वं गृहीतमिदमव्ययम् ।
परिणामे तदेवेश तापात्मकमभून्मम ॥ 5.23.41 ॥
देवलोकगतिं प्राप्तो नाथ देवगणोऽपि हि ।
मत्तःसाहाय्यकामोभूच्छाश्वती कुत्र निर्वृतिः ॥ 5.23.42 ॥
त्वामनाराध्य जगतां सर्वेषां प्रभवास्पदम् ।
शाश्वती प्राप्यते केन परमेश्वर निर्वृतिः ॥ 5.23.43 ॥
त्वन्मायामूढमनसो जन्ममृत्युजरादिकान् ।
अवाप्य तापान्पश्यन्ति प्रेतराजमनन्तरम् ॥ 5.23.44॥
ततो निजक्रियासूतिनरकेष्वतिदारुणम् ।
प्राप्नुवन्ति नरा दुःखमस्वरूपविदस्तव ॥ 5.23.45॥
अहमत्यन्तविषयी मोहितस्तव मायया ।
ममत्वगर्वगर्तान्तर्भ्रमामि परमेश्वर ॥ 5.23.46॥
सोऽहं त्वां शरणमपारमप्रमेयं संप्राप्तः परमपदं यतो न किञ्चित् ।
संसारभ्रमपरितापतप्तचेतानिर्वाणे परिणतधाम्नि साभिलाषः ॥ 5.23.47॥
इति श्रीविष्णुमहापुराणेच पञ्चमांशे त्रयोविंशोऽध्यायः (23)
श्रीपराशर उवाच [Sage Parasara said]
इत्थंस्तुतस्तदा तेन मुचुकुन्देन धीमता ।
प्राहेशः सर्वभूतानामनादिनिधनो हरिः ॥ 5.24.1 ॥
श्रीभगवानुवाच
यथाभिवाञ्छितान्दिव्यान्गच्छलोकान्नराधिप ।
अव्याहतपरैश्वर्यो मत्प्रसादोपबृंहितः ॥ 5.24.2॥
भुक्त्वा दिव्यन्महा भोगान्भविष्यसि महाकुले ।
जातिस्मरो मत्प्रसादात्ततोमोक्षमवाप्स्यसि ॥ 5.24.3 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्तः प्रणिपत्येशं जगतामच्युतं नृपः ।
गुहामुखाद्विनिष्क्रान्ततःस ददर्शाल्पकान्नरान् ॥ 5.24.4 ॥
ततः कलियुगं मत्वा प्राप्तं तप्तुं नृपस्तपः ।
नरनारायणस्थानं प्रययौ गन्धमादनम् ॥ 5.24.5॥
कृष्णोपि घातयित्वारिमुपायेन हि तद्वलम् ।
जग्राह मथुरामेत्य हस्त्यश्वस्यन्दनोज्ज्वलम् ॥ 5.24.6॥
आनीय चोग्रसेनाय द्वारवत्वां न्यवेदयत् ।
पराभिभवनिः शङ्कं बभूव च यदोः कुलम् ॥ 5.24.7॥
बलदेवोऽपि मैत्रेय प्रशान्ताखिलविग्रहः ।
ज्ञातिदर्शनसोत्कण्ठः प्रययौ नन्दगोकुलम् ॥ 5.24.8॥
ततो गोपाश्च गोप्यश्च यथा पूर्वममित्रजित् ।
तथैवाभ्यवदत्प्रम्णा बहुमानपुरःसरम् ॥ 5.24.8 ॥
स कैश्चित्संपरिष्वक्तः कांश्चिच्च परिषस्वजे ।
हास्यं चक्रे समं कैश्चिद्गोपैर्गोपीजनैस्तथा ॥ 5.24.10 ॥
प्रियाण्यनेकान्यवदन् गोपास्तत्र हलायुधम् ।
गोप्यश्च प्रेमकुपिताः प्रोचुःसेर्ष्यमथापराः ॥ 5.24.11 ॥
गोप्यः पप्रच्छुरपरा नागरीजनवल्लभम् ।
कच्चिदास्ते सुखं कृष्णश्चलप्रेमलवात्मकः ॥ 5.24.12 ॥
अस्मच्चेष्टामपहसन्न कच्चित्पुरयोषिताम् ।
सौभाग्यमान मधिकं करोति क्षणसौहृदः ॥ 5.24.13 ॥
कच्चित्स्मरति नः कृष्णो गीतानुगमनं कलम् ।
अप्यसौ मातरं द्रष्टु सकृदप्यागमिष्यति ॥ 5.24.14॥
अथ वा किं तदालापैः क्रियन्तामपराः कथाः ।
यस्यास्मभिर्विना तेन विनास्माकं भविष्यति ॥ 5.24.15॥
पिता माता तथा भ्राता भर्ता बन्धुजनश्च किम् ।
संत्यक्तस्तत्कृतेस्माभिरकृतज्ञध्वजो हि सः ॥ 5.24.16॥
तथापि कच्चिदालापमिहागमनसंश्रयम् ।
करोति कृष्णो वक्तव्यं भवता राम नानृतम् ॥ 5.24.17॥
दामोदरोऽसौ गोविन्दः पुरस्त्रीसक्तमानसः ।
अपेतप्रीतिरस्मासु दुर्दर्शः प्रतिभाति नः ॥ 5.24.18 ॥
आमन्त्रितश्च कृष्णेति पुनर्दामोदरेति च ।
जहसुःसस्वरं गोप्यो हरिणा हृतचेतसः ॥ 5.24.19॥
संदेशैः साममधुरैः प्रेमगर्भैरगर्वितैः ।
रामेणाश्वासिता गोप्यः कृष्णस्यातिमनोहरैः ॥ 5.24.20 ॥
गोपैश्च पूर्ववद्रामः परिहासमनोहराः ।
कथाश्चकार रेमे च सह तैर्व्रजभूमिषु ॥ 5.24.21 ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे चतुर्विंशोध्यायः (24)
श्रीपराशर उवाच [Sage Parasara said]
वने विचरतस्तस्य सह गोपैर्महात्मनः ।
मानुषच्छद्मरूपस्य शेषस्य धरणीधृतः ॥ 5.25.1 ॥
निष्पादितो रुकार्यस्य कार्योणोर्वीप्रचारिणः ।
उपभोगार्थमत्यर्थं वरुणः प्राह वारुणीम् ॥ 5.25.2॥
अभीष्टा सर्वदा यस्य मदिरे त्वं महौजसः ।
अनन्तस्योपभोगाय तस्य गच्छ मुदे शुभे ॥ 5.25.3 ॥
इत्युक्ता वारुणी तेन सन्निधानमथाकरेत् ।
वृन्दावनसमुत्पन्नकदं बतरुकोटरे ॥ 5.25.4 ॥
विचरन् बलदेवोऽपि मदिरागन्धमुत्तमम् ।
आघ्राय मदिरातर्षमवापाथ वराननः ॥ 5.25.5॥
ततः कदंबात्सहसामद्यधारां स लाङ्गली ।
पतन्तीं वीक्ष्य मैत्रेय प्रययौ परमां मुदम् ॥ 5.25.6॥
पपौ च गोपगोपीभिः समुपेतो मुदान्वितः ।
प्रगीयमानो ललीतं गीतवाद्यविशारदैः ॥ 5.25.7॥
स मत्तोत्यन्तघर्मांभःकणिकामौक्तिकोज्ज्वलः ।
आगच्छ यमुने स्नातुमिच्छामीत्याह विह्वलः ॥ 5.25.8॥
तस्य वाचं नदी सा तु मत्तोक्तामवमत्य वै ।
नाजगाम ततः क्त्रुद्धो हलं जग्राह लाङ्गली ॥ 5.25.8 ॥
गृहीत्वा तां हलान्तेन चकर्ष मदविह्वलः ।
पापे नायासि नायासि गम्यतामिच्छयान्यतः ॥ 5.25.10 ॥
साकृष्टा सहसा तेन मार्गं संत्यज्य निम्रगा ।
यत्रास्ते बलभद्रोऽसौ प्लावयामास तद्वनम् ॥ 5.25.11 ॥
शोरीरिणी तदाभ्येत्य त्रासविह्वललोचना ।
प्रसीदेत्यब्रवीद्रामं मुञ्च मां मुसलायुध ॥ 5.25.12 ॥
ततस्तस्याः सुवचनमाकर्ण्य स हला युधः ।
सोऽब्रवीदवजानासि मम शौर्यबले नदि ।
सोऽहं त्वां हलपातेन नयिष्यामि सहस्रधा ॥ 5.25.13 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्तयाति संत्रासात्तया नद्य प्रसादितः ।
भूभागे प्लाविते तस्मिन्मुमोच यमुनां बलः ॥ 5.25.14॥
ततः स्नातस्य वै कान्तिरजायत महात्मनः ॥ 5.25.15॥
अवतंसोत्पलं चारु गृहीत्वैकं च कुण्डलम् ।
वरुणप्रहितां चास्मै मालामम्लानपङ्कजाम् ।
समुद्राभे तथा वस्त्रे नीले लक्ष्मीरयच्छत ॥ 5.25.16॥
कृतावतंसः स तदा चारुकुंडलभूषितः ।
नीलांबरधरःस्रग्वी शुशुभे कान्तिसंयुतः ॥ 5.25.17॥
इत्थं विभूषितो रेमे तत्र रामस्तथा व्रजे ।
मासद्वयेन यातश्च स पुनर्द्वारकां पुरीम् ॥ 5.25.18 ॥
रेवतीं नाम तनयां रैवतस्य महीपतेः ।
उपयेमे बलस्तस्यां जज्ञाते निशितोल्मुकौ ॥ 5.25.19॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे पञ्चविंशोध्यायः (25)
श्रीपराशर उवाच [Sage Parasara said]
भीष्मकः कुण्डिने राजा विदर्भविषयेऽभवत् ।
रुक्मीतस्यभवत्पुत्रो रुक्मिणी च वरानना ॥ 5.26.1 ॥
रुक्मिणीं चकमे कृष्णःसा च तं चारुहीसिनि ।
न ददौ याचते चैनां रुक्मी द्वेषेण चक्रिणे ॥ 5.26.2॥
ददौ च शिशुपालाय जरासन्धप्रचोदितः ।
भीष्मको रुक्मिणा सार्ध रुक्मिणीमुरुविक्रमः ॥ 5.26.3 ॥
विवाहार्यं ततः सर्वे जरासंधमुखा नृपाः ।
भीष्मकस्य पुरं जग्मुः शिशुपालप्रियैषिणः ॥ 5.26.4 ॥
कृष्णोऽपि बलभद्राद्यैर्यदुभिः परिवारितः ।
प्रययौ कुण्डिनं द्रष्टुं विवाहं चैद्यभूभृतः ॥ 5.26.5॥
श्वो भाविनि विवाहे तु तां कन्यां हृतवान्हरिः ।
विपक्षभारमासज्य रामादिष्वथ बन्धुषु ॥ 5.26.6॥
ततश्च पैण्ड्रकश्र्श्रीमान्दन्तवक्रो विदूरथः ।
शिशुपालजरासंधशाल्वाद्याश्च महीभृतः ॥ 5.26.7॥
कुपितास्ते हरिं हन्तुं चक्रुरुद्योगमुत्तमम् ।
निर्जिताश्च समागम्य रामाद्योर्यदुपुङ्गवैः ॥ 5.26.8॥
कुण्डिनं न प्रवेक्ष्यामि ह्यहत्वा युधि केशवम् ।
कृत्वा प्रतिज्ञां रुक्मी च हन्तुं कृष्णमनुद्रुतः ॥ 5.26.8 ॥
हत्वा बलं सनागाश्वं पत्तिस्यन्दनसंकुलम् ।
निर्जितः पातितश्चोर्व्यां लीलयैव स चक्रिणा ॥ 5.26.10 ॥
निर्जित्य रुक्मिणं सम्यगुपयेमे च रुक्मिणीम् ।
राक्षसेन विवाहेन संप्राप्तां मधुसुदनः ॥ 5.26.11 ॥
तस्यां जज्ञे च प्रद्युम्नो मदनांशःसवीर्यवान् ।
जहार शंबरो यं वै यो जघान च शंबरम् ॥ 5.26.12 ॥
इति श्रिविष्णुमहापुराणे पञ्चमांशे षड्विशोध्यायः (26)
श्रीमैत्रेय उवाच
संबरेणहृतो वीरः प्रद्युम्नः स कथं मुने ।
शंबरः स महावीर्यः प्रद्युम्नेन कथं हतः ॥ 5.27.1 ॥
यस्तेनापहृतः पूर्वं स कथं विजघान तम् ।
एतद्विस्तरतः श्रोतुमिच्छामि सरलं गुरो ॥ 5.27.2॥
श्रीपराशर उवाच [Sage Parasara said]
षष्ठेह्नि जातमात्रं तु प्रद्युम्नं सूतिकागृहात् ।
ममैष हन्तेति मुने हृतवान्कालशंबरः ॥ 5.27.3 ॥
हृत्वा चिक्षेप चैवैनं ग्राहोग्रे लवणार्णवे ।
कल्लोलजनितावर्ते सुघोरे मकारालये ॥ 5.27.4 ॥
पातितं तत्र चैवैको मत्स्यो जग्राह बालकम् ।
न ममार च तस्यापि जठराग्निप्रदीपितः ॥ 5.27.5॥
मत्स्यबन्धैश्च मत्स्योऽसौ मत्स्यैरन्यैः सह द्वज ।
घातितोऽसूरवर्याय शंबराय निवेदितः ॥ 5.27.6॥
तस्य माया वती नाम पत्नी सर्वगृहेश्वरी ।
कारयामास सूदानामाधिपत्यमनिन्दिता ॥ 5.27.7॥
दारिते मत्स्यजठरे सा ददर्शातिशोभनम् ।
कुमारं मन्मथतरोर्दग्धस्य प्रथमाङ्कुरम् ॥ 5.27.8॥
कोऽयं कथमयं मत्स्यजठरे प्रविवेशितः ।
इत्येवं कौनुपाविष्टां नन्वीं प्राहाथ नारदः ॥ 5.27.8 ॥
अयं समस्तजगतः स्थितिसंहारकारिणः ।
शंबरेण हृतो विष्णोस्तनयः सूतिकागृहात् ॥ 5.27.10 ॥
क्षिप्तःसमुद्रे मत्स्येन निगीर्णस्ते गृहं गतः ।
नररत्नमिदं सुभ्रु विस्रब्धा परिपालय ॥ 5.27.11 ॥
श्रीपराशर उवाच [Sage Parasara said]
नारदेनैवमुक्ता सा पालयामास तं शिशुम् ।
बाल्यादेवातिरागेणरूपातिशयमोहिता ॥ 5.27.12 ॥
स यदा यौवनाभोगभूषितोऽभून्महामते ।
साभिलाषा तदा सापि बभूव गजगामिनि ॥ 5.27.13 ॥
मायावती ददौ तस्मै मायाः सर्वा महामुने ।
प्रद्युम्नायानुरागान्धा तत्र्यस्तहृदयेक्षणा ॥ 5.27.14॥
प्रसाज्जन्तीं तु तां प्राह स कार्ष्णिः कमलेभणाम् ।
मातृत्वमपहायाद्य किमेवं वर्तसेऽन्यथा ॥ 5.27.15॥
सा तस्मै कथयामासन पुत्रस्त्वं ममेति वै ।
तनयं त्वामयं विष्णोर्हृतवान्कालशंबरः ॥ 5.27.16॥
क्षिप्तः समुद्रे मत्स्यस्य संप्राप्तो जठरान्मया ।
सा हि रोदितिते माता कान्ताद्याप्यतिवत्सला ॥ 5.27.17॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्तः शंबरं युद्धे प्रद्युम्नः स समाह्वयत् ।
क्रोधाकुलीकृतमना युयुधे च महा बलः ॥ 5.27.18 ॥
हत्वा सैन्यमशेषं तु तस्य दैत्यस्य यादवः ।
सप्तमाया व्यतिक्रम्य मायां प्रयुयुजेऽष्टमीम् ॥ 5.27.19॥
तया जघान तं दैत्यं मायया कालशंबरम् ।
उत्पत्त्य च तया सार्धमाजगाम पितुः पुरम् ॥ 5.27.20 ॥
अन्तःपुरे निपतितं मायावत्या समन्वितम् ।
तं दृष्ट्वा कृष्ण संकल्पा बभूवुः कृष्णयोषितः ॥ 5.27.21 ॥
रुक्मिणी साभवत्प्रेम्णा सास्रदृष्टिरनिन्दिता ।
धन्याया खल्वयं पुत्रो वर्तते नवयौवने ॥ 5.27.22 ॥
अस्मिन्वयसि पुत्रो मे प्रद्युम्नो यदि जीवति ।
सभाग्या जननी वत्स सा त्वाया का विभीषिता ॥ 5.27.23 ॥
अथ वा यादृसः स्नेहो मम यादृग्वपुस्तव ।
हरेरपत्यं सुव्यक्तं भवान्वत्स भविष्यति ॥ 5.27.24॥
श्रीपराशर उवाच [Sage Parasara said]
एतस्मिन्नन्तरे प्राप्तःसह कृष्णेन नारदः ।
अन्तःपुरचरां देवीं रुक्मिणीं प्राह हर्षयन् ॥ 5.27.25॥
एष ते तनयः सुभ्रु हत्वा शंबरमागतः ।
हृतो येनाभवद्बालो भवत्याःसूतिकागृहात् ॥ 5.27.26॥
इयं मायावती भार्या तनयस्यास्य ते सती ।
शंबरस्य न भार्येयं श्रूयतामत्र कारणम् ॥ 5.27.27॥
मन्मथे तु गते नाशं तदुद्भवपरयणा ।
शंबरं मोहयामास मायारूपेण रूपिणी ॥ 5.27.28 ॥
विहाराद्युपभोगेषु रूपं मायामयं शुभम् ।
दर्शयामास दैत्यस्य तस्येयं मदिरेक्षणा ॥ 5.27.29॥
कामोऽवतीर्णः पुत्रस्ते तस्येयं दयिता रतिः ।
विशङ्का नात्र कर्तव्या स्नुषेयं तव शोभने ॥ 5.27.30 ॥
ततो हर्षसमाविष्टौ रुक्मिणी केशवौतदा ।
नगरी च समस्ता सा साधुसाध्वित्यभाषत ॥ 5.27.31 ॥
चिरं नष्टेन पुत्रेण संगतां प्रेक्ष्य रुक्मिणीम् ।
अवाप विस्मयं सर्वो द्वारवत्यां तदा जनः ॥ 5.27.32 ॥
इति श्रीविष्णुमहापुराणे पञ्चसांशे स्पतविंशोध्यायः (27)
श्रीपराशर उवाच [Sage Parasara said]
चारुदेष्णं सुदेष्णं च चारुदेहं च वीर्यवान् ।
सुषेणं चारुगुप्तं च भद्रचारुं तथा परम् ॥ 5.28.1 ॥
चारुविन्दं सुचारुं च चारुं चबलिनां वरम् ।
रुक्मिण्यजनयत्पुत्रान्कन्यां चारुमतीं तथा ॥ 5.28.2॥
अन्याश्च भार्याः कृष्णस्य बभूवुः सप्त शोभनाः ।
कालिदी मित्रविन्दा च सत्या चाग्नजिती तथा ॥ 5.28.3 ॥
देवी जाम्बवती चापि रोहिणी कामरूपिणी ।
मद्रराजसुता चान्या सुशीला शीलमण्डना ॥ 5.28.4 ॥
सत्राजिती सत्यभामा लक्ष्मणा चारुहासिनी ।
षोडशासन् सहस्राणि स्त्रीणामन्यानि चक्रिणः ॥ 5.28.5॥
प्रद्युम्नऽपि महावीर्यो रुक्मिणस्तनयां शुभाम् ।
स्वयंबरे तां जग्राह सा च तं तनयं हरेः ॥ 5.28.6॥
तस्यामस्याभक्तपुत्रो महाबलपराक्रमः ।
अनिरुद्धो रणे रुद्धवीर्योदधिररिन्दमः ॥ 5.28.7॥
तस्यापि रुक्मिणः पौत्रीं वरयामास केशवः ।
दौहित्राय ददौ रक्मी तां स्पर्धन्नपि चक्रिणा ॥ 5.28.8॥
तस्या विवाहे रामाद्या यादवा हरिणा सह ।
कल्याणार्थं ततःसर्वे ये चान्ये भूभृतस्तथा ।
रुक्मिणी नगरं जग्मुर्नाम्ना भोजकटं द्विज ॥ 5.28.8 ॥
विवाहे तत्र निर्वृत्ते प्रद्युम्नस्य महात्मनः ।
कलिङ्गराजप्रमुखा रुक्मिणं वाक्यमब्रुवन् ॥ 5.28.10 ॥
अनक्षज्ञो हली द्युते तथास्य व्यसनं महत् ।
तज्जयामो बलं कस्माद्द्युतेनैनं महाबलम् ॥ 5.28.11 ॥
श्रीपराशर उवाच [Sage Parasara said]
तथेति तानाह नृपान्रुक्मी बलमदान्वितः ।
सभायां सह रामेण चक्रे द्यूतं च वै तदा ॥ 5.28.12 ॥
सहस्रमेकं निष्काणां रुक्मिणा विजितो बलः ।
द्वितीयेऽपिपणे चान्यत्सहस्रं रुक्मिणा जितः ॥ 5.28.13 ॥
ततो दशसहस्राणि निष्काणां पणमाददे ।
बलभद्रोऽजयत्तानि रुक्मी द्युतविदां वरः ॥ 5.28.14॥
ततो जहास स्वनवत्कलिङ्गाधिपतिर्धिज ।
दन्तान् विदर्शयन्मूढो रुक्मी चाह मदोद्धतः ॥ 5.28.15॥
अविद्योऽयं मया द्यूते बलभद्रः पराजितः ।
भुधैवाक्षावलेपान्धो योऽवमेनेऽक्षकोविदान् ॥ 5.28.16॥
दृष्ट्वा कलिङ्गराजानं प्रकाशदशनाननम् ।
रिक्मिणं चापि दुर्वाक्यं कोपं चक्रे हलायुधः ॥ 5.28.17॥
ततः कोपपरीतात्मा निष्ककोटिं समाददे ।
ग्लहं जग्राह रुक्मी च तदर्थेक्षानपातयत् ॥ 5.28.18 ॥
अजयद्बलदेवस्तं प्राहोच्चैर्विजितं मया ।
मयेति रुक्मी प्राहोच्चैरलीकोक्तेरलं बल ॥ 5.28.19॥
त्वयोक्तोऽयं ग्लहःसत्यं न मयैषोनुमोदितः ।
एवं त्वया चेद्विजितं विजितं न मया कथम् ॥ 5.28.20 ॥
श्रीपराशर उवाच [Sage Parasara said]
अथान्तरिक्षे वागुच्चेः प्राह गंभीरनादिनी ।
बलदेवस्य तं कोपं वर्धयन्ती महात्मनः ॥ 5.28.21 ॥
जितं बलेन धर्मेण रुक्मिणा भाषितं मृषा ।
अनुक्त्वापि वचः किञ्चित्कृत भवति कर्मणा ॥ 5.28.22 ॥
ततो बलः समुत्थाय कोपसंरक्कलोचनः ।
जघानाष्टपदेनैव रिक्मिणं स महाबलः ॥ 5.28.23 ॥
कलिङ्गराजं चादाय विस्फुरन्तं बलाद्बलः ।
बभञ्ज दन्तान्कुपितो यैः प्रकाशैर्जहास सः ॥ 5.28.24॥
आकृष्य च महास्तंभं जातरूपमयं बलः ।
जघान तान्ये तत्पक्षे भूभृतः कुपितो भृशम् ॥ 5.28.25॥
ततो हाहाकृतं सर्वं पलायन परं द्विज ।
तद्राजमण्डलं भीतं बभूव कुपिते बले ॥ 5.28.26॥
बलेन निहतं दृष्ट्वा रुक्मिणं मधुसूदनः ।
नोवाच किञ्चिन्मैत्रेय रुक्मिणी बलयोर्भयात् ॥ 5.28.27॥
ततोनिरुद्धमादाय कृतदारं द्विजोत्तम ।
द्वारकामाजगामाथ यदुचक्रं च केशवः ॥ 5.28.28 ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशेऽष्टाविंशोध्यायः (28)
श्रीपराशर उवाच [Sage Parasara said]
द्वारवत्यां स्थिते कृष्णे शक्रस्त्रिभुवनेश्वरः ।
आजगामाथ मैत्रेय मत्तैरावतपृष्ठगः ॥ 5.29.1 ॥
प्रविश्य द्वारकां सोऽथ समेत्य हरिणा ततः ।
कथयामास दैत्यस्य नरकस्य विचोष्टितम् ॥ 5.29.2॥
त्वयानाथेन देवानां मनष्यत्वेपि तिष्ठता ।
प्रशमं सर्वदुःखानि नीतानि मधुसूदन ॥ 5.29.3 ॥
तपस्विव्यमनार्थाय सोरिष्टो धेनुकस्तथा ।
प्रवृत्तो यस्तथा केशीते सर्वे निहतास्त्वया ॥ 5.29.4 ॥
कंसः कुवलयापीडः पूतना बालघातिनी ।
नाशं नीतास्त्वया सर्वे येऽन्ये जगदुपद्रवाः ॥ 5.29.5॥
युष्मद्दोर्दडसंभूतिपरित्राते जगत्त्रये ।
यज्वयज्ञांशसंप्राप्त्या तृप्तिं यान्ति दिवौकसः ॥ 5.29.6॥
सोऽहं सांप्रतमायातो यन्निमित्तं जनार्दन ।
तच्छुत्वा तत्प्रतीकारप्रयत्नं कर्तुमर्हसि ॥ 5.29.7॥
भौमोऽयं नरको नाम प्राग्ज्योतिषपुरेश्वरः ।
करोति सर्वभूतानामुपघातमरिन्दम ॥ 5.29.8॥
देवसिद्दसुरादीनां नृपाणां च नजार्दन ।
हृत्वा तु सोऽसुरः कन्या रुरुधे निजमन्दिरे ॥ 5.29.8 ॥
छत्रं यत्सलिलस्रावि तज्जहार प्रचेतसः ।
मदंरस्य तथा शृङ्गं हृतवान्मणिपर्वतम् ॥ 5.29.10 ॥
अमृतस्त्राविणी दिव्ये मन्मातुः कृष्णकुञ्जले ।
जहार सोऽसुरो दित्या वाञ्छत्यैरावतं गजम् ॥ 5.29.11 ॥
दुर्नीतमेतद्गोविन्दमया तस्य निवेदितम् ।
यदत्र प्रतिकर्तव्यं तत्स्वयं परिमृश्यताम् ॥ 5.29.12 ॥
श्रीपराशस उवाच
इतिश्रुत्वा स्मितं कृत्वा भगवान्देवकीसुतः ।
गृहीत्वा वासवं हस्ते समुत्तस्थौ वरासनात् ॥ 5.29.13 ॥
संचिन्त्यागतमारुह्य गरुडं गगनेचरम् ।
सत्यभामां समारोप्य ययौ प्राग्ज्योतिषं पुरम् ॥ 5.29.14॥
आरुह्यौरावतं नागं शक्रोऽपि त्रिदिवं ययौ ।
ततौ जगाम कृष्णश्च पश्यतां द्वारकौकसाम् ॥ 5.29.15॥
प्राग्ज्योतिषपुरस्यापि समन्ताच्छतयोजनम् ।
आचिता मौरवैः पाशैः क्षुरान्तैर्भूर्द्विजोत्तम ॥ 5.29.16॥
ताञ्चिच्छेद हरिः पाशान्क्षिप्त्वा चक्रं सुदर्शनम् ।
ततो मुरःसमुत्तस्थौ तं जघान च केशवः ॥ 5.29.17॥
मुरस्य तनयान्सप्त सहस्रांस्तांस्ततो हरिः ।
चक्रधाराग्निनिर्दग्धांश्चकार शलभानिव ॥ 5.29.18 ॥
हत्वासुरं हयग्रीवं तथा पञ्चजनं द्विज ।
प्राग्ज्योतिषपुरं धीमांस्त्वारावान्समुपाद्रवत् ॥ 5.29.19॥
नरकेणास्य तत्राभून्महासैन्येन संयुगम् ।
कृष्णस्य यत्र गोविन्दो यत्र गोविन्दो जघ्ने दैत्यान्सहस्रशः ॥ 5.29.20 ॥
शस्त्रास्त्रवर्षं मुञ्चन्तं तं भौमं नरकं बली ।
क्षिप्त्वा चक्रं द्विधा चक्रे चक्री दैतेयचक्रहा ॥ 5.29.21 ॥
हते तु नरके भूमिर्गृहीत्वादितिकुण्डले ।
उपतस्थे जगन्नाथं वाक्यं चेदमथाब्रवीत् ॥ 5.29.22 ॥
पृथ्व्युवाच
यदाहमुद्धृता नाथ त्वया सूकरमूर्तिना ।
त्वत्स्पर्शसंभवः पुत्रस्तदायं मय्यजायत ॥ 5.29.23 ॥
सोऽयं त्वयैव दत्तो मे त्वयैब विनिपातितः ।
गृहाम कुण्डले चेमे पालयास्य च संततिम् ॥ 5.29.24॥
भारावतरणार्थाय ममैव भगवानिमम् ।
अंशेन लोकमायातः प्रसादसुमुखः प्रभो ॥ 5.29.25॥
त्वं कर्ता च विकर्ता च संहर्ता प्रभवोऽप्ययः ।
जगतान्त्वं जगद्रूपःस्तूयतेऽच्युत किं तव ॥ 5.29.26॥
व्याप्तिव्याप्यं क्रियाकर्ता कार्यं च भगवान्यथा ।
सर्वभूतात्मभूतस्य स्तूयते तव किं तथा ॥ 5.29.27॥
परमात्मा च भूतात्मा त्वमात्मा चाप्ययो भवान् ।
यथातथा स्तुतिर्नाथ किमर्थं ते प्रवर्तते ॥ 5.29.28 ॥
प्रसीद सर्वभूतात्मन्नरकेण तु यत्कृतम् ।
तत्क्षम्यतामदोषाय त्वत्सुतस्त्वन्निपातितः ॥ 5.29.29॥
श्रीपराशर उवाच [Sage Parasara said]
तथेति चोक्त्वा धरणीं भगवान् भूतभावनः ।
रत्नानि नरकावासाज्जग्राह मुनिसत्तम ॥ 5.29.30 ॥
कन्यापुरे स कन्यानां षोडःशातुलविक्रमः ।
शताधिकानि ददृशे सहस्राणि महामुने ॥ 5.29.31 ॥
चतुर्दंष्ट्रान्गजांश्चाग्र्यान् षट्सहस्रांश्च दृष्टवान् ।
कांभोजानां तथाश्वानां नियुतान्येकविंशतिम् ॥ 5.29.32 ॥
ताः कन्यास्तांस्तथा नागांस्तानश्वान् द्वारकां पुरीम् ।
प्रापयामास गोविन्दःसद्यो नरककिङ्करैः ॥ 5.29.33 ॥
ददृशे वारुणं च्छत्रं तथैव मणिपर्वतम् ।
आरोपयामास हरिर्गरुडेपतगेश्वरे ॥ 5.29.34॥
आरुह्य च स्वयं कृष्णः सत्यभामासहायवान् ।
अदित्याः कुण्डले दानुं जगाम त्रिदशालयम् ॥ 5.29.35॥
इति श्रीविष्णुमहापुराणे पञ्चमांश एकोनत्रिन्ध्यायः (29)
श्रीपराशर उवाच [Sage Parasara said]
गरुडो वारुणं छत्रं तथैव मणिपर्वतम् ।
सभार्यं च हृषीकेशं लीलयैव वहन्ययौ ॥ 5.30.1 ॥
ततः शखमुपाध्मासीत्स्वर्गद्वारगतो हरिः ।
उपतस्थुस्तथा देवाःसार्घ्यहस्ता जनर्जनम् ॥ 5.30.2॥
स देवैरर्चितः कृष्णो देवमातुर्निवेशनम् ।
सिताभ्रशिखराकारं प्रविश्य ददृशेऽदितिम् ॥ 5.30.3 ॥
स तां प्रणम्य शक्रेण सह ते कुण्डलोत्तमे ।
ददौ नरकनाशं च शशंसास्यै जनार्दनः ॥ 5.30.4 ॥
ततः प्रीताजगन्माता धातारं जगतां हरिम् ।
तुष्टवादितिरव्यग्रा कृत्वा तत्प्रवणं मनः ॥ 5.30.5॥
अदितिरुवाच
नमस्ते पुण्डरीकाक्ष भक्तानामभयङ्कर ।
सनातनात्मन् सर्वात्मन् भूतात्मन् भूतभावन ॥ 5.30.6॥
प्रणेतर्मनसो बुद्धेरिन्द्रियाणां गुणात्मक ।
त्रिगुणातीत निर्द्वद्व शुद्धसत्त्व हृदि स्थित ॥ 5.30.7॥
सितदीर्घादिनिः शेषकल्पनापरिवर्जित ।
जन्मादिभिरसंस्पृष्ट स्वप्नादिपरिवर्जित ॥ 5.30.8॥
संध्यारात्रिरहो भूमिर्गगनं वायुरंबु च ।
हुताशनो मनो बुद्धिर्भूतादिस्त्वं तथाच्युत ॥ 5.30.8 ॥
सर्गस्थितिविनाशानां कर्ता कर्तृपतिर्भवान् ।
ब्रह्मविष्णुशिवाख्याभिरात्ममूर्तिभिरीश्वर ॥ 5.30.10 ॥
देवा दैत्यास्तथा यक्षा राक्षसाः सिद्धपन्नगाः ।
कूष्माण्डाश्च पिसाचाश्च गन्धर्वा मनुजास्तथा ॥ 5.30.11 ॥
पशवश्च मृगाश्चैव पतङ्गाश्च सरीसृपाः ।
वृक्षगुल्मलताबह्व्यःसमस्तास्तृणजातयः ॥ 5.30.12 ॥
स्थूला मध्यास्तथा सूक्ष्माःसूक्ष्मात्सूक्ष्मतराश्च ये ।
देहभेदा भवान् सर्वे ये केचित्पुर्गलाश्रयाः ॥ 5.30.13 ॥
माया तवेयमज्ञातपरमार्थातिमोहिनी ।
अनात्मन्यात्मविज्ञानं यया मूढो निरुद्ध्यते ॥ 5.30.14॥
अस्वे स्वमिति भावोत्र यत्पुंसामुपजायते ।
अहं ममेति भावो यत्प्रायेणैवाभिजायते ।
संसारमातुर्मायायास्तवैतन्नाथ चेष्टितम् ॥ 5.30.15॥
यैः स्वधर्मपरैर्नाथ नरैराराधितो भवान् ।
ते तरन्त्यखिलामेतां मायामात्मविमुक्तये ॥ 5.30.16॥
ब्रह्माद्याःसकला देवा मनुष्याः पशवस्तथा ।
विष्णुमाया महावर्तमोहान्धतमसावृताः ॥ 5.30.17॥
आराध्य त्वामभीप्संते कामानात्मभवक्षयम् ।
यदेते पुरुषा माया सैवेयं भगवंस्तव ॥ 5.30.18 ॥
मया त्वं पुत्रकामिन्या वैरिपक्षजयाय च ।
आराधितो न मोक्षाय मायाविलसितं हि तत् ॥ 5.30.19॥
कौपीनाच्छादनप्राया वाञ्छा कल्पद्रुमादपि ।
जायते यदपुण्यानां सोपराधः स्वदोषजः ॥ 5.30.20 ॥
तत्प्रसीदाखिलजगन्मायामोहकराव्यय ।
अज्ञानं ज्ञानसद्भावभूतं भूतेश नाशय ॥ 5.30.21 ॥
नमस्ते चक्रहस्ताय शार्ङ्गहस्ताय ते नमः ।
नन्दहस्ताय ते विष्णो शङ्खहस्ताय ते नमः ॥ 5.30.22 ॥
एतत्पश्यामि ते रूपं स्थूलचिह्नोपलक्षितम् ।
न जानामि परं यत्ते प्रसीद परमेश्वर ॥ 5.30.23 ॥
श्रीपराशर उवाच [Sage Parasara said]
अदित्यैवं स्तुतो विष्णुः प्रहस्याह सुरारणिम् ।
माता देवि त्वमस्माकं प्रसीद वरदा भव ॥ 5.30.24॥
अदिदिरुवाच
एवमस्तु यथेच्छा ते त्वमशेषैः सुरासुरैः ।
अजेयः पुरुषव्याघ्र सर्त्यलोके भविष्यसि ॥ 5.30.25॥
श्रीपराशर उवाच [Sage Parasara said]
ततः कृष्णस्य पत्नी च शक्रेण सहितादितिम् ।
सत्यभामा प्रणम्याह प्रसीदेति पुनः पुनः ॥ 5.30.26॥
अदितिरुवाच
मत्पx आदान्न ते सुभ्रु जरा वैरूप्यमेव वा ।
भविष्यत्यनवद्याङ्गि सुस्थिरं नवयौवनम् ॥ 5.30.27॥
श्रीपराशर उवाच [Sage Parasara said]
अदित्या तु कृतानुज्ञो देवराजो जनार्दनम् ।
यथावत्पूजयामास बहुमानपुरःसरम् ॥ 5.30.28 ॥
शची च सत्यभामायै पारिजातस्य पुष्पकम् ।
न ददौ मानुषीं मत्वा स्वयं पुष्पैरलङ्कृता ॥ 5.30.29॥
ततो ददर्श कृष्णोऽपि सत्यभामासहायवान् ।
दवोद्यानानि हृद्यानि नन्दनादीनि सत्तम ॥ 5.30.30 ॥
ददर्श च सुगन्धाढ्यं मञ्जरीपुञ्जधारिणम् ।
नित्याह्लादकरं ताम्रबालपल्लवशोभितम् ॥ 5.30.31 ॥
मथ्यमानेऽमृते जातं जातरूपोपमत्वचम् ।
पारिजातं जगन्नाथः केशवः केशिसूदनः ॥ 5.30.32 ॥
तुतोष परमप्रीत्या तरुराजमनुत्तमम् ।
तं दृष्ट्वा प्राह गोविन्दं सत्यभामा द्विजोत्तम ।
कस्मान्न द्वारकामेष नीयते कृष्ण पादपः ॥ 5.30.33 ॥
यदि चेत्त्वद्वचः सत्यं त्वमत्यर्थं प्रियेति मे ।
मद्गेहनिष्कुटार्थाय तदयं नीयतां तरुः ॥ 5.30.34॥
न मे जांबवती तादृगभीष्टा न च रुक्मिणी ।
सत्ये यथा त्वमित्युक्तं त्वया कृष्णासकृत्प्रियम् ॥ 5.30.35॥
सत्यं तद्यदि गोविन्द नोपचारकृतं मम ।
तदस्तु पारिजातोऽयं मम गेहविभूषणम् ॥ 5.30.36॥
बिभ्रती पारिजातस्य केशपक्षेण मञ्जरीम् ।
सपत्नीनामहं मध्ये शोभेयमिति कामये ॥ 5.30.37॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्तःस प्रहस्यैनां पारिजातं गरुत्मति ।
आरोपयामास हरिस्तमूचुर्वनरक्षिणः ॥ 5.30.38 ॥
भो शची देवराजस्य महिषी तत्परीग्रहम् ।
पारिजातं न गोविन्द हर्तुमर्हसि पादपम् ॥ 5.30.39॥
उत्पन्नो देवराजाय दत्तःसोऽपि ददौ पुनः ।
महिष्यै सुमहाभाग देव्यै शच्यै कुरूहलात् ॥ 5.30.40 ॥
शचीविभूषणार्थाय देवैरमृतमन्थने ।
उत्पादितोऽयं न क्षेमी गृहीत्वैनं गमिष्यसि ॥ 5.30.41 ॥
देवराजो मुखप्रेक्षी यस्यास्तस्याः परिग्रहम् ।
मैढ्यात्प्रार्थयसे क्षेमी गृहीत्वैनं हि को व्रजेत् ॥ 5.30.42 ॥
अवश्यमस्य देवेन्द्रो निष्कृतिं कृष्ण यास्यति ।
वज्रोद्यतकरं शक्रमनुयास्यन्ति चामराः ॥ 5.30.43 ॥
तदलं सकलैर्देवैर्विग्रहेण तवाच्युत ।
विपाककटु यत्कर्म तन्न शंसंति पण्डिताः ॥ 5.30.44॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्ते तैरुवाचैतान् सत्यभामातिकोपिनी ।
का शची पारिजातस्य को वा शक्रःसुराधिपः ॥ 5.30.45॥
सामान्यःसर्वलोकस्य यद्येषोऽमृतमन्थने ।
समुत्पन्नस्तरुः कस्मादोको गृह्णाति वासवः ॥ 5.30.46॥
यथा सुरा यथैवेन्दुर्यथा श्रीर्वनरक्षिणः ।
सामान्यःसर्वलोकस्य पारिजातस्तथा द्रुमः ॥ 5.30.47॥
भर्तृ बहुमहागर्वाद्रुणद्ध्येनमथो शची ।
तत्कथ्यतामलं क्षान्त्या सत्वा हारयति द्रुमम् ॥ 5.30.48 ॥
कथ्यतां च द्रुतं गत्वा पौलोम्या वचनं मम ।
सत्यभामा वदत्येतदितिगर्वोद्धताक्षरम् ॥ 5.30.49॥
यदि त्वं दयिता भर्तुर्यदि वश्यः पतिस्तव ।
मद्भर्तुर्हरतो वृक्षं तत्कारय निवारणम् ॥ 5.30.50 ॥
जानामि ते पतिं शक्रं जानामि त्रिदशेश्वरम् ।
पारिजातं तथाप्येनं मानुषी हारयामि ते ॥ 5.30.51 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्ता रक्षिणो गत्वा शच्याः प्रोचुर्यथोदितम् ।
श्रुत्वा चोत्साहयामास शची चक्रं सुराधिपम् ॥ 5.30.52 ॥
ततःसमस्तदेवानां सैन्यैः परिवृतो हरिम् ।
प्रययौ पारिजातार्थमिन्द्रोयोद्धुं द्विजोत्तम ॥ 5.30.53 ॥
ततः परिघनिस्त्रिंशगदाशूलवरायुधाः ।
बभूवुस्त्रिदसाःसज्जाः शक्रे वज्रकरे स्थिते ॥ 5.30.54॥
ततो निरिक्ष्य गोविन्दो नागराजोपरि स्थितम् ।
शक्रं देवपरिवारं युद्धाय समुपस्थितम् ॥ 5.30.55॥
चकार शङ्खनिर्घोषं दिशः शब्देन पूरयन् ।
मुमोच शरसंघातान् सहस्रायुतशः शितान् ॥ 5.30.56॥
ततो दिशो नभश्चैव दृष्ट्वा शरशतैश्चितम् ।
मुमुचुस्त्रिदशाःसर्वे ह्यस्त्रशस्त्राम्यनेकशः ॥ 5.30.57॥
एकैकमस्त्रं शस्त्रं च दैवैर्मुक्तं सहस्रशः ।
चिच्छेद लीलयैवेशो जगतां मधुसूदनः ॥ 5.30.58 ॥
पाशं सलिलराजस्य समाकृष्यीरगात्पुनः ।
चकार खण्डशश्चञ्च्वा बालपन्नगदेहवत् ॥ 5.30.59॥
यमेन प्रहितं दण्डं गदाविक्षेपखण्डितम् ।
पृथिव्यां पातयामास भगवान् देवकीसुतः ॥ 5.30.60 ॥
शिबिकां च धनेशस्य चक्रेण तिलशो विभुः ।
चकार शौरिरर्कं च दृषृदृष्टहतौजसम् ॥ 5.30.61 ॥
नीतोऽग्निः शीततां बाणैर्द्राविता वसवो दिशः ।
चक्रविच्छिन्नशुलाग्रा रुद्रा भुवि निपातिताः ॥ 5.30.62 ॥
साध्या विश्वेऽथ मरुतो गन्धर्वाश्चैव सा यकैः ।
शार्ङ्गिणा प्रेरितैरस्ता व्योम्नि शाल्मलितूलवत् ॥ 5.30.63 ॥
गरुत्मानपि तुण्डेन पक्षाभ्यां च नखाङ्कुरैः ।
भक्षयंस्ताडयन् देवान् दारयंश्च चचार वै ॥ 5.30.64॥
ततः शतसहस्रेण देवेन्द्रमधुसूदनौ ।
परस्परं ववर्षाते धाराभिरिव तोयदौ ॥ 5.30.65॥
ऐरावतेन गरुडो युयुधे तत्र संकुले ।
देवैः समस्तैर्युयुधे शक्रेण च जनार्दनः ॥ 5.30.66॥
भिन्नेष्वशेषबाणेषु शस्त्रेष्वस्त्रेषु च त्वरन् ।
जग्राह वासवो वज्रं कृष्णश्चक्रं सुदर्शनम् ॥ 5.30.67॥
ततो हाहाकृतं सर्वं त्रैलोक्यं द्विजसत्तम ।
वज्रचक्रकरौ दृष्ट्वा देवाराजजनार्दनौ ॥ 5.30.68 ॥
क्षिप्तं वज्रमथेन्द्रेण जग्राह भगवान्हरिः ।
न मुमोच तदा चक्रं शक्रं तिष्ठेति चाब्रवीत् ॥ 5.30.69॥
प्रणष्टवज्रं देवेन्द्रं गरुडक्षतवाहनम् ।
सत्यभामाब्रवीद्वीरं पलायनपरायणम् ॥ 5.30.70 ॥
त्रैलोक्येश न ते युक्तं शचीभर्तुः पलायनम् ।
पारिजातस्रगाभोगा त्वामुपस्थास्यते शची ॥ 5.30.71 ॥
कीदृशं देवराज्यं ते पारिजातिस्रगुज्ज्वलाम् ।
अपक्येतो यथापूर्वं ग्रणयाभ्यागतां शचीम् ॥ 5.30.72 ॥
अलं शक्र प्रयासेन न व्रीडां गन्तुमर्हसि ।
नीयतां पारिजातोयं देवाःसंतु गतव्यथाः ॥ 5.30.73 ॥
परिगर्वावलेपेन बहुमानपुरःसरम् ।
न ददर्श गृहं यातामुपचारेण मां शची ॥ 5.30.74॥
स्त्रीत्वादगुरुचित्ताहं स्वभर्तृश्लाघनापरा ।
ततः कृतवती शक्र भवता सह विग्रहम् ॥ 5.30.75॥
तदल पारीजातेन परस्वेन हृतेन मे ।
रूपेण गर्विता सा तु भर्त्रा का स्त्री न गर्विता ॥ 5.30.76॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्तो वै निववृते देवराजस्तया द्विज ।
प्राह चैनामलं चण्डि सख्युः खे दोक्तिविस्तरैः ॥ 5.30.77॥
इन्द्र उवाच
न चापि सर्गसंहारस्थितिकर्ताखिलस्य यः ।
जितस्य तेन मे व्रीडा जायते विश्वरूपिणा ॥ 5.30.78 ॥
यस्माज्जगत्सकलमेतदनादिमध्याद्यस्मिन्यतश्च न भविष्यति सर्वभूतात् ।
तेनोद्भवप्रलयपालनकारणेन व्रीडा कथं भवति देवि निराकृतस्य ॥ 5.30.79॥
सकलभुवनसूतिर्मूर्तिरल्पाल्पसूक्ष्माविदितसकलबैद्यैर्ज्ञायते यस्य नान्यैः ।
तमजमकृतमीशं शाश्वतं स्वेच्छयैनं जगदुपकृतिमर्त्यं को विजेतुं समर्थः ॥ 5.30.80 ॥
इति श्रीपिष्णुमहापुराणे पञ्चमांसे त्रिंशोध्यायः (30)
श्रीपराशर उवाच [Sage Parasara said]
संस्तुतो भगवानित्थं देवराजेन केशवः ।
प्रहस्य भावगंभीरमुवाचेन्द्रं द्विजोत्तम ॥ 5.31.1 ॥
श्रीकृष्ण उवाच
देवराजो भवानिन्द्रो वयं मर्त्या जगत्पते ।
क्षन्तव्यं भवतैवेदमपराधं कृतं मम ॥ 5.31.2॥
पारिजाततरुश्चायं नीयतामुचितास्पदम् ।
गृहीतोयं मया शक्र सत्यावचनकारणात् ॥ 5.31.3 ॥
वज्रं चेदं गृहाम त्वं यदत्र प्रहितं त्वया ।
तबैवैतत्प्रहरणं शक्र वैरिविदारणम् ॥ 5.31.4 ॥
इन्द्र उवाच
विमोहयसि मामीश मर्त्योऽहमिति किं वदन् ।
जानीमस्त्वां भगवतो न तु सूक्ष्मविदो वयम् ॥ 5.31.5॥
योऽसि सोऽसि जगत्त्रणप्रवृत्तौ नाथ संस्थितः ।
जगतः शल्यनिष्कर्षं करोष्यमुरसूदन ॥ 5.31.6॥
नीयतां पारीजातोऽयं कृष्ण द्वारवतींपुरीम् ।
मर्त्यलोके त्वया त्यक्ते नायं संस्थास्यते भुवि ॥ 5.31.7॥
देवदेव जगन्नाथ कृष्ण विष्णो महाभुज ।
शङ्खचक्रगदापाणे क्षमस्वैतद्व्यतिक्रमम् ॥ 5.31.8॥
श्रीपराशर उवाच [Sage Parasara said]
तथेत्युक्त्वा च देवेन्द्रमाजगाम भुवं हरिः ।
प्रसक्तैः सिद्धगन्धर्वैः स्तूयमानः सुरर्षिभिः ॥ 5.31.8 ॥
ततः शङ्खमुपाध्माय द्वारकोपरि संस्थितः ।
हर्षमुत्पादयामास द्वारकावासिनां द्वज ॥ 5.31.10 ॥
अवतीर्याथ गरुडात्सत्यभामा सहायवान् ।
निष्कुटे स्थापयामास पारिजातं महातरुम् ॥ 5.31.11 ॥
यमभ्येत्य जनः सर्वो जातिं स्मरति पौर्विकीम् ।
वास्यते यस्य पुष्पोत्थगन्धेनोर्वी त्रियोजनम् ॥ 5.31.12 ॥
ततस्ते यादवाःसर्वे देहवन्धानमानुषान् ।
ददृशुः पादपे तस्मिन् कुर्वन्तो मखदर्शनम् ॥ 5.31.13 ॥
किङ्करैः समुपानीतं हस्त्यश्वादि ततो धनम् ।
विभज्य प्रददौ कृष्णो बान्धवानां महामतिः ॥ 5.31.14॥
कन्याश्च कृष्णे जग्राह नरकस्य परिग्रहान् ॥ 5.31.15॥
ततः काले शुभे प्राप्ते उपयेमे जनार्दनः ।
ताः कन्या नरकेणासन्सर्वतो याःसमाहृताः ॥ 5.31.16॥
एकस्मिन्नेव गोविन्दः काले तासां महामुने ।
जग्राह विधिवत्वाणीन्पृथग्गेहेषु धर्मतः ॥ 5.31.17॥
षोडशस्त्रीसहस्राणि शतमेकं ततोधिकम् ।
तावन्ति चक्रेरूपाणि भगवान्मधुसूदनः ॥ 5.31.18 ॥
एकैकमेव ताः कन्या मेनिरे मधुसूदनः ।
ममैव पाणिग्रहणं मैत्रेय कृतवानिति ॥ 5.31.19॥
निशासुच जगत्स्रष्टा तासां गेहेषु केशवः ।
उवास विप्र सर्वासां विश्वरूपधरो हरिः ॥ 5.31.20 ॥
इति श्रीविष्णुमहापुराणे पञ्चमांश एकत्रिंशोऽध्यायः (31)
श्रीपराशर उवाच [Sage Parasara said]
प्रद्युम्नाद्या हरेः पुत्रा रुक्मिण्यां क्वथितास्तव ।
भानुभौमेरिकाद्यंश्च सत्यभामा व्यजायत ॥ 5.32.1 ॥
दीप्तिमत्ताम्रपक्षाद्य रोहिण्यां कथिता हरेः ।
बभूवुर्जाम्बवत्यां च सांबाद्या बाहुशालिनः ॥ 5.32.2॥
तनया भद्रविन्दाद्या नाग्नजित्यां महाबलाः ।
संग्रामजित्प्रधानास्तु शैब्यायां च हरेःसुताः ॥ 5.32.3 ॥
वृकाद्याश्च सुता माद्र्यां गात्रवत्प्रमुखान् सुतान् ।
अवाप लक्ष्माणा पुत्रान्कालिन्द्याश्च श्रुतादयः ॥ 5.32.4 ॥
अन्यासां चैव भार्याणां समुत्पन्नानि चक्रिणः ।
अष्टायुतानि पुत्राणां सहस्राणी शतं तथा ॥ 5.32.5॥
प्रद्युम्नः प्रथमस्तेषां सर्वेषां रुक्मिणीसुतः ।
प्रद्युम्नादनिरुद्धोऽभूद्वज्रस्तस्मादजायत ॥ 5.32.6॥
अनिरुद्धो रणेऽरुद्धो बलेः पौत्रीं महाबलः ।
उषांबाणस्य तनयामुपयेमे द्विजोत्तम ॥ 5.32.7॥
यत्र युद्धमभूद्धोरं हरिशङ्करयोर्महत् ।
छिन्नं सहस्रं बाहूनां यत्र बाणस्य चाक्रिणा ॥ 5.32.8॥
मैत्रेय उवाच
कथं युद्दमभूद्ब्रह्यन्नुषार्थे हरकृष्णयोः ।
कथं क्षयं च बाणस्य बाहूनां कृतवान्हरिः ॥ 5.32.8 ॥
एतत्सर्वं महाभाग ममाख्यातुं त्वमर्हसि ।
महत्कौतूहलं जातं कथां श्रोतुमिमां हरेः ॥ 5.32.10 ॥
श्रीपराशर उवाच [Sage Parasara said]
उषा बाणसुता विप्र पार्वतीं सह शंभुना ।
क्रीडन्तीमुपलक्ष्योच्चैः स्पृहां चक्रे तदाश्रयाम् ॥ 5.32.11 ॥
ततःसकलचित्तज्ञा गौरी तामाह भामिनीम् ।
अलमत्यर्थतापेन भर्त्रा त्वमपि रंस्यसे ॥ 5.32.12 ॥
इत्युक्ता सा तया चक्रे कदेति मतिमात्मनः ।
को वा भर्ता ममेत्याह पुनस्तामाह पार्वती ॥ 5.32.13 ॥
पार्वत्युवाच
वैशाखशुक्लद्वादश्यां स्वप्ने योभिभवं तव ।
करिष्यति स ते भर्ता राजपुत्रि भविष्यति ॥ 5.32.14॥
श्रीपराशर उवाच [Sage Parasara said]
तस्यां तिथाबुषास्वप्ने यथा देव्या समीरितम् ।
तथैवा भिभवं चक्रे कश्चिद्रागं च तत्र सा ॥ 5.32.15॥
ततः प्रबुद्धा पुरुषमपश्यन्ती समुत्मुका ।
क्व गतेसीति निर्लज्जा मैत्रेयोक्तवती सखिम् ॥ 5.32.16॥
बाणस्य मन्त्री कुंभाण्डं चित्ररेखा च तत्सुता ।
तस्याःसख्यभवत्सा च प्राह कोयं त्वयोच्यते ॥ 5.32.17॥
यदा लज्जाकुला नास्यै कथयामास सा सखी ।
तदा विश्वासमानीय सर्वमेवाभ्यवादयत् ॥ 5.32.18 ॥
विदितार्थां तु तामाह पुनश्चोषा यथोदितम् ।
देव्या तथैव तत्प्राप्तौ यो ह्युपायः कुरुष्व तम् ॥ 5.32.19॥
चित्रलेखोवाच
दुर्विज्ञेयमिदं वक्तुं प्राप्तुं वापि न सक्यते ।
तथापि किञ्चत्कर्तव्यमुपकारं प्रिये तव ॥ 5.32.20 ॥
सप्ताष्टदिनपर्यन्तं तावत्कालः प्रतीक्ष्यताम् ।
इत्युक्त्वाभ्यन्तरं गत्वा उपायं तमथाकरोत् ॥ 5.32.21 ॥
श्रीपराशर उवाच [Sage Parasara said]
ततः पदे सुरान्दैत्यन्गन्धर्वांश्च प्रधानतः ।
मनुष्यांश्च विलिख्यास्यै चित्रलेखा व्यदर्शयत् ॥ 5.32.22 ॥
अपास्य सा तु गन्धर्वांस्तथोरगसुरासुरान् ।
मनुष्येषु ददौ दृष्टिं तेष्वप्यन्धकवृष्णिषु ॥ 5.32.23 ॥
कृष्णरामौ विलोक्यासीत्सुभ्रूर्लज्जाजडेव सा ।
प्रद्युम्नदर्शने व्रीडेदृष्टिं निन्येन्यतो द्विज ॥ 5.32.24॥
दृष्टमात्रे ततः कान्ते प्रद्युम्नतनये द्विज ।
दृष्टत्यर्थविलासिन्या लज्जा क्वापि निराकृता ॥ 5.32.25॥
सोयंसोयमितीत्युक्ते तया सा योगगामिनी ।
चित्रलेखाब्रजीदेनामुषां बाणसुरां तदा ॥ 5.32.26॥
चित्रलेखोवाच
अयं कृष्णस्य पौत्रस्ते भर्ता देव्या प्रसादितः ।
अनिरुद्ध इति ख्यातः प्रख्यातः प्रियदर्शनः ॥ 5.32.27॥
प्राप्नोषि यदि भर्तारमिमं प्राप्तं त्वयाखिलम् ।
दुष्प्रवेशा पुरी पूर्वं द्वारका कृष्णपालिता ॥ 5.32.28 ॥
तथापि यत्नाद्भर्तारमानयिष्यामि ते सखि ।
रहस्यमेतद्वक्तव्यं न कस्यचिदपि त्वया ॥ 5.32.29॥
अचिरादागमिष्यामि सहस्व विरहं मम ।
ययौ द्वारवतीं चोषां समाश्वास्य ततः सखीम् ॥ 5.32.30 ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे द्वात्रिंशोऽध्यायः (32)
श्रीपराशर उवाच [Sage Parasara said]
बाणोपि प्रणिपत्याग्रे मैत्रेयाह त्रिलोचनम् ।
देव बाहुसहस्रेण निर्विण्णोस्म्याहवं विना ॥ 5.33.1 ॥
कच्चिन्ममैषां बाहूनां साफल्यजनको रणः ।
भविष्यति विना युद्धं भाराय मम किं भुजैः ॥ 5.33.2॥
श्रीशङ्कर उवाच
मयूरध्वजभङ्गस्ते यदा बाणा भविष्यति ।
पिशिताशिजनानन्दं प्रप्स्यसे त्वं तदा रणम् ॥ 5.33.3 ॥
श्रीपराशर उवाच [Sage Parasara said]
ततः प्रणम्य वरदं शंभुमभ्यागतो गृहम् ।
सभग्नं ध्वजमालोक्य हृष्टो हर्षं पुनर्ययौ ॥ 5.33.4 ॥
एतस्मिन्नेव काले तु योगविद्याबलेन तम् ।
अनिरुद्धमथानिन्ये चित्रलेखा वराप्सराः ॥ 5.33.5॥
कन्यान्तःपुरमभ्येत्य रममाणं सहोषया ।
विज्ञाय रक्षिणो गत्वा शशंसुर्दैत्यभूपते ॥ 5.33.6॥
व्यादिष्टं किङ्कराणां तु सैन्यं तेन महात्मना ।
जघान परिघं घोरमादाय परवीरहा ॥ 5.33.7॥
हतेषु तेषु बाणोपि रथस्थस्तद्वधोद्यतः ।
युध्यमानो यथाशक्ति यदुवीरेण निर्जितः ॥ 5.33.8॥
मायया युयुधे तेन स तदा मन्त्रिचोदितः ।
ततस्तं पन्नगास्त्रेण बबन्ध यदुनन्दनम् ॥ 5.33.8 ॥
द्वारवत्यां क्व यातोऽसावनिरुद्धेति जल्पताम् ।
यदूनामाचचक्षे तं बद्धं बाणेन नारदः ॥ 5.33.10 ॥
तं शोशितपुरं नीतं श्रुत्वा विद्याविदग्धया ।
योषिता प्रत्ययं जग्मुर्यादवा नामरैरिति ॥ 5.33.11 ॥
ततो गरुडमारुह्य स्मृतमात्रागतं हरिः ।
बलप्रद्युम्नसहितो बाणस्य प्रययौ पुरम् ॥ 5.33.12 ॥
पुरप्रवेशे प्रमथैर्युद्धमासीन्महात्मनः ।
ययौ बाणपुराभ्याशं नीत्वा तान्संक्षयं हरिः ॥ 5.33.13 ॥
ततस्त्रिपादस्त्रिशिरा ज्वरो माहेश्वरो महान् ।
बाणरक्षार्थमभ्येत्य युयुधे शार्ङ्गधन्वना ॥ 5.33.14॥
तद्भस्मस्पर्शसंभूततापः कृष्णाङ्गसंगमात् ।
अवाप बलदेवोपि श्रममामीलितेक्षणः ॥ 5.33.15॥
ततःस युद्ध्यमानस्तु सह देवेन शार्ङ्गिणा ।
वैष्णवेन ज्वरेणाशु कृष्णदेहान्निराकृतः ॥ 5.33.16॥
नारायणभुजाघातपारिपीजनविह्वलम् ।
तं वीक्ष्य क्षम्यतामस्येत्याह देवः पितामहः ॥ 5.33.17॥
ततश्च क्षान्तमेवेति प्रोक्त्वा तं वैष्णवं ज्वरम् ।
आत्मन्येवलयं निन्ये भगवान्मधुसूदनः ॥ 5.33.18 ॥
ज्वर उवाच
मम त्वाय समं युद्धं ये स्मरीष्यन्ति मानवाः ।
विज्वरास्ते भविष्यन्ती त्युक्त्वा चैनं ययौ ज्वरः ॥ 5.33.19॥
ततोग्नीन्भगवान्पञ्च जित्वा नीत्वा तथा क्षयम् ।
दानवानां बलं कृष्णश्चूर्णयामास लीलया ॥ 5.33.20 ॥
ततःसमस्तसैन्येन दैतेयानां बलेःसुतः ।
युयुधे शङ्करश्चैव कार्त्तिकेयश्च शौरिणा ॥ 5.33.21 ॥
हरिशङ्करयोर्युद्धमतीवासीत्सुदारुणम् ।
चुक्षुभुःस कला लोकाः शस्त्रास्त्रांशुप्रतापितिः ॥ 5.33.22 ॥
प्रलयोयमशेषस्य जगतो नूनमागतः ।
मेनिरे त्रिदशास्तत्र वर्तमाने महारणे ॥ 5.33.23 ॥
जृंभ कास्त्रेण गोविन्दो जृंभयामास शङ्करम् ।
ततः प्रणेमुर्दैतेयाः प्रमथाश्च समन्ततः ॥ 5.33.24॥
जृंभाभिभूतस्यु हरो रथोपस्थ उपाविशत् ।
न शशाक ततो योद्धुं कृष्णेनाक्लिष्टकर्मणा ॥ 5.33.25॥
गरुजक्षतवाहश्च प्रद्युम्नास्त्रेण पीडितः ।
कृष्णहुङ्कारनिर्धूतशक्तिश्चापययौ गुहः ॥ 5.33.26॥
जृंभिते शङ्करे नष्टे दैत्यसैन्ये गुहे जिते ।
नीते प्रमथसैन्ये च संक्षयं शार्ङ्गधन्वना ॥ 5.33.27॥
नन्दिना संगृहीताश्वमधिरूढो महारथम् ।
बाणस्तत्राययौ योद्धुं कृष्णकार्ष्णिबलैः सह ॥ 5.33.28 ॥
बलभद्रो महावीर्यो बाणसैन्यमनेकधा ।
विव्याध बाणैः प्रभ्रश्य धर्मतश्चापलायत ॥ 5.33.29॥
आकृष्य लाङ्गलाग्रेण मुकलेनाशु ताडितम् ।
बलं बलेन ददृशे बाणो बाणैश्च चक्रिणा ॥ 5.33.30 ॥
ततः कृष्णेन बाणस्य युद्धमासीत्सुदारुणम् ॥ 5.33.31 ॥
समस्यतोरिषून्दीप्तान्कायत्राणविभेदिनः ।
कृष्णश्चिच्छेद बाणैस्तान् बाणेन प्रहिताञ्छितान् ।
विव्याध केशवं बाणो बाणं विव्याध चक्रधृक् ॥ 5.33.32 ॥
मुमुचाते तथास्त्राणि बाणकृष्णौ जिगीषया ।
परस्परक्षतिकरौ लाघवादनिशं द्विज ॥ 5.33.33 ॥
भिद्यमानेष्वशेषेषु शरेष्वस्त्रे च सीदति ।
प्राचुर्येण ततो बाणं हन्तुं चक्रे हरिर्मनः ॥ 5.33.34॥
ततोर्कशतसंघाततेजसा सदृशद्युति ।
जग्राह दैत्यचक्रारिर्हरिश्चक्रं सुदर्शनम् ॥ 5.33.35॥
मुञ्चतो बाणनाशाय ततश्चक्रं मधुद्विषः ।
नग्ना दैतेयविद्याभूत्कोटरी पुरतो हरेः ॥ 5.33.36॥
तामग्रतो हरिर्दृष्ट्वा मीलिताक्षःसुदर्शनम् ।
मुमोच बाणमुद्दिश्य च्छेत्तुं बाहुवनं रिपोः ॥ 5.33.37॥
क्रमेण तत्तु बाहूनां बाणस्याच्युतचोदितम् ।
छेदं चक्रेऽसुरापास्तशस्त्रौ घक्षपणादृतम् ॥ 5.33.38 ॥
छिन्ने बाहुवने तत्तु करस्थं मधुसूतनः ।
मुमुक्षुर्बाणनाशाय विज्ञातस्त्रिपुरद्विषा ॥ 5.33.39॥
समुपेत्याह गोविन्दं सामपूर्वमुमापतिः ।
विलोक्य बामं दादडच्छेदासृक्स्राववर्षिणम् ॥ 5.33.40 ॥
शङ्कर उवाच
कृष्णकृष्ण जगन्नाथ जाने त्वां पुरुषोत्तमम् ।
परेशं परमात्मानमनादिनिधनं हरिम् ॥ 5.33.41 ॥
देवतिर्यङ्मनुष्येषु शरीरग्रहणात्मिका ।
लीलेयं सर्वभूतस्य तव चेष्टोपलक्षणा ॥ 5.33.42 ॥
तत्प्रसीदाभयं दत्तं बाणस्यास्य मया प्रभो ।
तत्त्वाय नानृतं कार्यं यन्मया व्याहृतं वचः ॥ 5.33.43 ॥
अस्मत्संश्रयदृप्तोयं नापराधी तवाव्यय ।
मया दत्तवरो दैत्यस्ततस्त्वां क्षमयाम्यहम् ॥ 5.33.44॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्तः प्राह गोविदः शुलपाणिमुमापतिम् ।
प्रसन्नपदनो भूत्वा गतामर्षोऽसुरं प्रति ॥ 5.33.45॥
श्रीभगवानुवाच
युष्मद्दत्तवरो बाणो जीवतामेष शङ्कर ।
त्वद्वाक्यगौरवादेतन्मया चक्रं निवर्तितम् ॥ 5.33.46॥
त्वया यदभयं दत्तं तद्दत्तमखिलं मया ।
मत्तोऽविभिन्नमात्मानं द्रष्टुमर्हसि शङ्कर ॥ 5.33.47॥
योहं स त्वं जगच्चेदं सदेवासुरमानुषम् ।
मत्तो नान्यदशेषं यत्तत्त्वञ्ज्ञातुमिहार्हसि ॥ 5.33.48 ॥
अविद्यामोहितात्मानः पुरुषा भिन्नदर्शिनः ।
वदन्ति भेदं पश्यन्ति चावयोरन्तरं हर ॥ 5.33.49॥
प्रसन्नोऽहं गमिष्यामि त्वं गच्छ वृषभध्वज ॥ 5.33.50 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्त्वा प्रययौ कृष्णः प्राद्युम्निर्यत्र तिष्ठति ।
तद्बन्धफणिनो नेशुर्गरुडानिलपोथिताः ॥ 5.33.51 ॥
ततोऽनिरुद्धमारोप्य सपत्नीकं गरुत्मति ।
आजग्मुर्द्वारकां रामकार्ष्णिदामोदराः पुरीम् ॥ 5.33.52 ॥
पुत्रपौत्रैः परिवृतस्तत्र रेमे जनार्दनः ।
देवीभिः सततं विप्र भूभारतरमेच्छया ॥ 5.33.53 ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे त्रयस्त्रिंशोऽध्यायः (33)
मैत्रेय उवाच
चक्रे कर्म महच्छौरिर्बीभ्रणो मानुषीं तनुम् ।
जिगाय शक्रं शर्वं च सर्वान्देवांश्च लीलया ॥ 5.34.1 ॥
यच्चान्यदकरोत्कर्म दिव्यचेष्टविघातकृत् ।
तत्कथ्यतां महाभाग परं कौतूहलं हि मे ॥ 5.34.2॥
श्रीपराशर उवाच [Sage Parasara said]
गदतो मम विप्रर्षे श्रूयतामिदमादरात् ।
नरावतारे कृष्णेन दग्धा वाराणसी यथा ॥ 5.34.3 ॥
पैण्ड्रको वासुदेवस्तु वासुदेवोऽभवद्भुवि ।
अवतीर्मस्त्वमित्युक्तो जनैरज्ञानमोहितैः ॥ 5.34.4 ॥
स मेने वासुदेवोहमवतीर्णो महीतले ।
नष्टस्मृतिस्ततःसर्वं विष्णुचिह्नमचीकरत् ॥ 5.34.5॥
दूतं च प्रेषयामास कृष्णाय सुमहात्मने ।
त्यक्त्वा चक्रादिकं चिह्नं मदीयं नाम चात्मनः ॥ 5.34.6॥
वासुदेवात्मकं मूढ त्यक्त्वा सर्वमशेषतः ।
आत्मनो जीवितार्थाय ततो मे प्रणति व्रज ॥ 5.34.7॥
इत्युक्तःसंप्रहस्यैनं दूतं प्राहजनार्दनः ।
निजचिह्नमहं चक्रं समुत्सृक्ष्ये त्वयीति वै ॥ 5.34.8॥
वाच्यश्च पैण्ड्रको गत्वा त्वया दूत वचो मम ।
ज्ञातस्त्वद्वाक्यसद्भावो यत्कार्यं तद्विधीयताम् ॥ 5.34.8 ॥
गृहीतचिह्नवेषोहमागमिष्यामि ते पुरम् ।
उत्स्रक्ष्यामि च तच्चक्रं निजचिह्नमसंशयम् ॥ 5.34.10 ॥
आज्ञापूर्वं च यदिदमागच्छेति त्वयोदितम् ।
संपादयिष्ये श्वस्तुभ्यं समागम्याविलंबितम् ॥ 5.34.11 ॥
शरणं ते समभ्येत्य कर्तास्मि नृपते तथा ।
यथा त्वत्तो भयं भूयो न मे किञ्चिद्भविष्यति ॥ 5.34.12 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्तेपगते दूते संस्मृत्याभ्यागतं हरिः ।
गरुत्मन्तमथारुह्य त्वरितस्तत्पुरं ययौ ॥ 5.34.13 ॥
ततस्तु केशवोद्योगं श्रुत्वा काशीपतिस्तदा ।
सर्वसैन्यपरिवारः पार्ष्णिग्राह उपाययौ ॥ 5.34.14॥
ततो बलेन महता काशीराजबलेन च ।
पैण्ड्रको वासुदेवोऽसौ केशवाभिमुखो ययौ ॥ 5.34.15॥
तं ददर्श हरिर्दूरादुदारस्यन्दने स्थितम् ।
चक्रहस्तं गदाशार्ङ्गबाहुं पाणिगतांबुजम् ॥ 5.34.16॥
स्रग्धरं पीतवसनं सुपर्मरचितध्वजम् ।
वक्षस्थले कृतं चास्य श्रीवत्सं ददृशे हरिः ॥ 5.34.17॥
किरीटकुण्डलधरं नानारत्नोपशोभितम् ।
तं दृष्ट्वा भावगंभीरं जहास गरुडध्वजः ॥ 5.34.18 ॥
युयुधे च बलेनास्य हस्त्यश्वबलिना द्विज ।
निस्त्रिंशासिगदाशूलशक्तिकार्मुकशालिना ॥ 5.34.19॥
क्षणेन शार्ङ्गनिर्मुक्तैः शरैररिविदारणैः ।
गदाचक्रनिपातैश्च सूदयामास तद्बलम् ॥ 5.34.20 ॥
काशीराजबलं चैवं क्षयं नीत्वा जनार्दनः ।
उवाच पैण्ड्रकं मूढमात्मचिह्नोपलक्षितम् ॥ 5.34.21 ॥
श्रीभगवानुवाच
पैण्ड्रकोक्तं त्वया यत्तुदूतवक्त्रेण मां प्रति ।
समुत्सृजेति चिह्नानि तत्ते संपादयाम्यहम् ॥ 5.34.22 ॥
चक्रमेतत्समुत्सृष्टं गदेयं ते विसर्जिता ।
गरुत्मानेष चोत्सृष्टःसमारोहतु ते ध्वजम् ॥ 5.34.23 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युच्चार्य विमुक्तेन चक्रेणासौ विदारितः ।
पातितो गदया भग्नो ध्वजश्चास्य गरुत्मता ॥ 5.34.24॥
ततो हाहाकृते लोके काशीपुर्यधिपो बली ।
युयुधे वासुदेवेन मित्रस्यापचितौ स्थितः ॥ 5.34.25॥
ततः शार्ङ्गधनुर्मुक्तैश्छित्त्वा तस्य शिरः शरैः ।
काशीपुर्यां स चिक्षेप कुर्वंल्लोकस्य विस्मयम् ॥ 5.34.26॥
हत्वा त पौड्रकं शौरि काशीराजं च सानुगम् ।
पुनर्द्वारवतीं प्राप्तो रेमे स्वर्गगतो यता ॥ 5.34.27॥
तच्छिरः पतितं तत्रदृष्ट्वा काशीपतेः पुरे ।
जनः किमेतदित्याह च्छिन्नं केनेति विस्मितः ॥ 5.34.28 ॥
ज्ञात्वा तं वासुदेवेन हतं तस्य सुतस्ततः ।
पुरोहितेन सहितस्तोषयामास शङ्करम् ॥ 5.34.29॥
अविमुक्ते महाक्षेत्रे तोषितस्तेन शङ्करः ।
वरं वृणीष्वेति तदा तं प्रोवाच नृपात्मजम् ॥ 5.34.30 ॥
स वव्रे भगवन्कृत्या पितृहन्तुर्वधाय मे ।
समुतिष्ठतु कृष्णस्य त्वत्प्रसादान्महेश्वर ॥ 5.34.31 ॥
श्रीपराशर उवाच [Sage Parasara said]
एवं भविष्यतीत्युक्ते दक्षिणाग्नेरनन्तरम् ।
महाकृत्या समुत्तस्थौ तस्यैवाग्नेर्विनाशनी ॥ 5.34.32 ॥
ततो ज्वालाकरालास्या ज्वलत्केशकपालिका ।
कृष्णकृष्णेति कुपिता कृत्या द्वारवरीं ययौ ॥ 5.34.33 ॥
तामवेक्ष्य जनस्त्रासाद्विचलल्लोचनो मुने ।
ययौ शरण्यं जगतां शरणं मधुसूदनम् ॥ 5.34.34॥
काशीराजसुतेनेयमाराध्य वृषभध्वजम् ।
उत्पादिता महाकृत्येत्यवगम्याथ चक्रिणा ॥ 5.34.35॥
जहिकृत्यामिमामुग्रां वह्निज्वालाजटालकाम् ।
चक्रमुत्सृष्टमक्षेषु क्रीडासक्तेन लीलया ॥ 5.34.36॥
तदग्निमालाजटिलज्वालोद्गारातिभीषणाम् ।
कृत्यामनुजगामाशु विष्णुचक्रं सुदर्शनम् ॥ 5.34.37॥
चक्रप्रतापनिर्दग्धा कृत्या माहेश्वरी तदा ।
ननाश वेगिनी वेगात्तदप्यनुजगाम ताम् ॥ 5.34.38 ॥
कृत्या वाराणसीमेव प्रविवेश त्वरान्विता ।
विष्णुचक्रप्रतिहतप्रभावा मुनिसत्तम ॥ 5.34.39॥
ततः काशीबलं भूरि प्रमथानां तथा बलम् ।
समस्तशस्त्रास्त्रयुतं चक्रस्याभिमुखं ययौ ॥ 5.34.40 ॥
शस्त्रास्त्रमोक्षचतुरं दग्ध्वा तद्बलमोजसा ।
कृत्या गर्भमशेषां तां तदा वाराणसींपुरीम् ॥ 5.34.41 ॥
सभूभृद्भृत्यपौरां तु साश्वमातङ्गमानवाम् ।
अशेषगोष्ठकोशां तां दुर्निरिक्ष्यां सुरैरपि ॥ 5.34.42 ॥
ज्वालापरिष्कृताशेषगृहप्राकारचत्वराम् ।
ददाह तद्धरेश्चक्रं सकलामेव तां पुरीम् ॥ 5.34.43 ॥
अक्षीणामर्षमत्युग्रं साध्यसाधनसस्पृहम् ।
तच्चक्रं प्रस्फुरद्दीप्ति विष्णोरभ्याययौ करम् ॥ 5.34.44॥
इति श्रीविष्णुमहापुराणे पञ्जमांशे चतुस्त्रिंशोऽध्यायः (34)
मैत्रेय उवाच
भूय एवाहमिच्छामि बलभद्रस्य धीमतः ।
श्रोतुं पराक्रमं ब्रह्मन् तन्ममाख्यातुमर्हसि ॥ 5.35.1 ॥
यमुनाकर्षणादीनि श्रुतानि भगवन्मया ।
तत्कथ्यतां महाभाग यदन्यत्कृतवान्बलः ॥ 5.35.2॥
श्रीपराशर उवाच [Sage Parasara said]
मैत्रेय श्रुयतां कर्म यद्रामेणाभवत्कृतम् ।
अनन्ते नाप्रमेयेन शेषेण धरणीधृता ॥ 5.35.3 ॥
सुयोधनस्य तनयां स्वयंवरकृतक्षणाम् ।
बलादादत्तवान्वीरः सांबो जांबवतीसुतः ॥ 5.35.4 ॥
ततः क्रुद्धामहावीर्याः कर्णदुर्योधनादयः ।
भीष्मद्रोणादयश्चैनं बबन्धुर्युधि निर्जितम् ॥ 5.35.5॥
तच्छुत्वा यादवाःसर्वे क्रोधं दुर्योधनादिषु ।
मैत्रेय चक्रुः कृष्णश्च तान्निहन्तुं महोद्यमम् ॥ 5.35.6॥
तान्निवार्य बलः प्राह मदलोलकलाक्षरम् ।
मोक्ष्यन्ति ते मद्वचनाद्यास्याम्येको हि कौरवान् ॥ 5.35.7॥
श्रीपराशर उवाच [Sage Parasara said]
बलदेवस्ततो दृष्ट्वा नगरं नागसाह्वयम् ।
बाह्योपवनमध्येऽभून्न विवेश च तत्पुरम् ॥ 5.35.8॥
बलमागतमाज्ञाय भूपा दुर्योधनादयः ।
गामर्घ्यमुदकं चैव रामाय प्रत्यवेदयन् ॥ 5.35.8 ॥
गृहीत्वा विधिवत्सर्वं ततस्तानाह कौरवान् ।
आज्ञापयत्युग्रसेनःसांबमाशु विमुञ्चत ॥ 5.35.10 ॥
ततस्तद्वचनं श्रुत्वा भीष्मद्रोणादयो नृपाः ।
कर्मदुर्योधनाद्याश्च चुक्षुभुर्द्विजसत्तम ॥ 5.35.11 ॥
ऊचुश्च कुपिताःसर्वे बाह्लिकाद्याश्च कौरवाः ।
अराज्यार्हं यदोर्वशमवेक्ष्य मुसलायुध ॥ 5.35.12 ॥
भोभोः किमेतद्भवता बलभद्रेरितं वचः ।
आज्ञां कुरुकुलोत्थानां यादवः कः प्रदास्यति ॥ 5.35.13 ॥
उग्रसेनोऽपि यद्याज्ञां कौरवाणां प्रदास्यति ।
तदलं पाण्डुरैश्छत्रैर्नृपयोग्यैर्विडंबनैः ॥ 5.35.14॥
तद्गच्छ बल मा वा त्वं सांबमन्यायचेष्टितम् ।
विमोक्ष्यामो न भवतश्चोग्रसेनस्य शासनात् ॥ 5.35.15॥
प्रणतिर्या कृतास्माकं मान्यानां कुकुरान्धकैः ।
न नाम सा कृता केयमाज्ञा स्वामिनि भृत्यतः ॥ 5.35.16॥
गर्वमारोपिता यूयं समानासनभोजनैः ।
को दोषो भवतां नीतिर्यत्प्रीत्या नावलोकिता ॥ 5.35.17॥
अस्माभिरर्घो भवतो योयं बल निवेदितः ।
प्रेम्णैतन्नैतदस्माकं कुलाद्युष्मत्कुलोचितम् ॥ 5.35.18 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्त्वा कुरवः सांबं मुञ्चामो न हरेःसुतम् ।
कृतैतनिश्चयस्तूर्णं विविशुर्गजसाह्वयम् ॥ 5.35.19॥
मत्तः कोपेन चाघूर्मस्ततोधिक्षेपजन्मना ।
उत्थाय पार्ष्ण्या वसुधां जघान स हलायुधः ॥ 5.35.20 ॥
ततो विदारिता पृथ्वी पार्ष्णिघातान्महात्मनः ।
आस्फोटयामास तदा दिशः शब्देन पूरयन् ॥ 5.35.21 ॥
उवाच चातिताम्राक्षो भृकुटीकुटिलाननः ॥ 5.35.22 ॥
अह मदावलेपोयमसाराणां दुरात्मनाम् ।
कौरवाणां महीपत्वमस्माकं किल कालजम् ।
उग्रसेनस्य येनाज्ञां मन्यन्तेऽद्यपि लङ्घनम् ॥ 5.35.23 ॥
उग्रसेनः समध्यास्ते सुधार्मा न शचीपतिः ।
धिङ्मानुषशतोच्छिष्टे तुष्टिरेषां नृपासने ॥ 5.35.24॥
पारिजाततरोः पुष्पमञ्जरीर्वनिताजनः ।
बिभर्ति यस्य भत्यानां सोऽप्येषां न महीपतिः ॥ 5.35.25॥
समस्तभूभृतां नाथ उग्रसेनः स तिष्ठतु ।
अद्य निष्कौरवामुर्वी कृत्वा यास्यामि तत्पुरीम् ॥ 5.35.26॥
कर्णं दुर्योधनं द्रोणमद्य भीष्मं सबाह्लिकम् ।
दुःशसनादीन्भूरिं च भूरिश्रवसमेव च ॥ 5.35.27॥
सोमदत्तं शलं चैव भीमार्जुनयुधिष्ठिरान् ।
यमौ च कौरवांश्चान्यान्हत्वा साश्वरथद्विपान् ॥ 5.35.28 ॥
वीरमादाय तं सांबं सपत्नीकं ततः पुरीम् ।
द्वारकामुग्रसेनादीन्गत्वा द्रक्ष्यामि बान्धवान् ॥ 5.35.29॥
अथ वा कौरवावासं समस्तैः कुरुभिः सह ।
भागीरथ्यां क्षिपाम्याशु नगरं नागसाह्वयम् ॥ 5.35.30 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्त्वा मदरक्ताक्षः कर्षणाधोमुखं हलम् ।
प्राकारवप्रदुर्गस्य चकर्ष मुसलायुधः ॥ 5.35.31 ॥
आघूर्णितं तत्सहसा ततो वै हास्तिनं पुरम् ।
दृष्ट्वा संक्षुब्धहृदयाश्चुक्षुभुःसर्वकौरवाः ॥ 5.35.32 ॥
रामराम महाबाहो क्षम्यतां क्षम्यतां त्वया ।
उपसंह्रियतां कोपः प्रसीद मुसलायुध ॥ 5.35.33 ॥
एष सांबःसपत्नीकस्तवनिर्यातितो बलात् ।
अविज्ञातप्रभावाणां क्ष्मयतामपराधिनाम् ॥ 5.35.34॥
श्रीपराशर उवाच [Sage Parasara said]
ततो निर्यातयामासुःसांबं पत्नीसमन्वितम् ।
निष्क्रम्य स्वपुरात्तूर्णं कौरवा मुनिपुङ्गव ॥ 5.35.35॥
भीष्मद्रोणकृपादीनां प्रणम्य वदतां प्रियम् ।
क्षान्तमेव मयेत्याह बलो बलवतां वरः ॥ 5.35.36॥
अद्याप्याघूर्णिताकारं लक्ष्यते तत्पुरं द्विज ।
एष प्रभावो रामस्य बलशौर्योपलक्षणः ॥ 5.35.37॥
ततस्तु कौरवाःसांबं संपूज्य बलि ना सह ।
प्रेषयामासुरुद्वाहधनभार्यासमन्वितम् ॥ 5.35.38 ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे पञ्चत्रिंशोऽध्यायः (35)
श्रीपराशर उवाच [Sage Parasara said]
मैत्रेयैतद्बलं तस्य बलस्य बलशालिनः ।
कृतं यदन्यत्तेनाभूत्तदपि श्रूयतां त्वया ॥ 5.36.1 ॥
नरकस्यासुरेद्रस्य देवपक्षविरोधिनः ।
सखाभवन्महावीर्यो द्विविदो वानरर्षभः ॥ 5.36.2॥
वैरानुबन्धं बलवान्स चकार सुरान्प्रति ।
नरकं हतवान्कृष्णो देवराजेन चोदितः ॥ 5.36.3 ॥
करिष्ये सर्वदेवानां तस्मादेतत्प्रतीक्रियाम् ।
यज्ञविध्वंसनं कुर्वन्मर्त्यलोकक्षयं तथा ॥ 5.36.4 ॥
ततो विध्वंसयामास यज्ञानज्ञानमोहितः ।
बिभेद साधुमर्यादां क्षयं चक्रे च देहिनाम् ॥ 5.36.5॥
ददाह सवनान्देशान्पुरग्रमान्तराणि च ।
क्वचिच्च पर्वताक्षेपेर्ग्रमादीन्समचूर्णयत् ॥ 5.36.6॥
शैलानुत्पाट्य तोयेषु मुमोचांबुनिधौ तथा ।
पुनश्चार्मवमध्यस्थः क्षोभयामास सागरम् ॥ 5.36.7॥
तेन विक्षोभितश्चाब्धिरुद्वेलो द्विज जायते ।
प्लावयंस्तीरजान्ग्रमान्पुरादीनतिवेगवान् ॥ 5.36.8॥
कामरूपी महारूपी कृत्वा सस्यान्यशेषतः ।
लुठन्भ्रमणसंमर्दैः संचूर्मयति वानरः ॥ 5.36.8 ॥
तेन विप्रकृतं सर्वं जगदेतद्दुरात्मना ।
निःस्वाध्यायवषट्कारं मैत्रेयासीत्सुदुःखितम् ॥ 5.36.10 ॥
एकदारैवतोद्याने पपौ पानं हला युधः ।
रेवती च महाभागा तथैवान्या वरस्त्रियः ॥ 5.36.11 ॥
उद्गीयमानो विलसल्ललनामौलिमध्यगः ।
रेमे यदुकुलश्रेष्ठः कुबेर इव नन्दने ॥ 5.36.12 ॥
ततःस वानरोऽभ्येत्य गृहीत्वा सीरिणो हलम् ।
मुसलं च चकारास्य संमुखं च विडंबनम् ॥ 5.36.13 ॥
तथैव योषितां तासां जहासाभिमुखं कपिः ।
पानपूर्माश्च करकाञ्चिक्षेपाहत्य वै तदा ॥ 5.36.14॥
ततः कोपपरीतात्मा भर्त्सयामास तं हली ।
तथापि तमवज्ञाय चक्रेकिलकिलध्वनिम् ॥ 5.36.15॥
ततः स्मयित्वा स बलो जग्राह मुसलं रुषा ।
सोऽपि शैलशिलां भीमां जग्राह प्लवगोत्तमः ॥ 5.36.16॥
चिक्षेप स च तां क्षिप्तां मुसलेन सहस्रधा ।
विभेद यादवश्रेष्ठःसा पपात महीतले ॥ 5.36.17॥
अथ तन्मुसलं चासौ समुल्लङ्घ्य प्लवङ्गमः ।
वेगेनागत्य रोषेण करेणोरस्यताडयत् ॥ 5.36.18 ॥
ततो बलेन कोपेन मुष्टिना मूर्ध्नि ताडितः ।
पपात रुधिरोद्गारी द्विविदः क्षीणजीवितः ॥ 5.36.19॥
पतता तच्छरीरेण गिरेः शृगमशीर्यत ।
मैत्रेय शतधा वज्रिवज्रेमेव विदारितम् ॥ 5.36.20 ॥
पुष्पवृष्टिं ततो देवा रामस्योपरि चिक्षिपुः ।
प्रशशंसुस्ततोऽभ्येत्य साध्वेतत्ते महत्कृतम् ॥ 5.36.21 ॥
अनेन दुष्टकपिना दैत्यपक्षोपकारिणा ।
जगन्निराकृतं वीर दिष्ट्या स क्षयमागतः ॥ 5.36.22 ॥
इत्युक्त्वा दिवमाजग्मुर्देवा हृष्टःसगुह्यकाः ॥ 5.36.23 ॥
श्रीपराशर उवाच [Sage Parasara said]
एवंविधान्यनेकानि बलदेवस्य धीमतः ।
कर्माण्यपरिमेयानिशेषस्य धरणीभृतः ॥ 5.36.24॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे षट्त्रिंशोध्यायः (36)
श्रीपराशर उवाच [Sage Parasara said]
एवं दैत्यवधं कृष्णे बलदेव सहायवान् ।
चक्रे दुष्टक्षितीशानां तथैव जगतः कृते ॥ 5.37.1 ॥
क्षितेश्च भारं भगवान्फाल्गुनेन समन्वितः ।
अवतारयामास विभुःसमस्ताक्षोहिणीवधात् ॥ 5.37.2॥
कृत्वा भारावतरमं भुवो हत्वाखिलान्नृपान् ।
शापव्याजेन विप्राणामुपसंहृतवान्कुलम् ॥ 5.37.3 ॥
उत्सृज्य द्वारकां कृष्णस्त्यक्त्वा मानुष्यमात्मनः ।
सांशो विष्णुमयं स्थानं प्रविवेश मुने निजम् ॥ 5.37.4 ॥
मैत्रेय उवाच
स विप्रशापव्याजेन संजह्रेस्वकुलं कथम् ।
कथं च मानुषं देहमुत्ससर्जजनार्दनः ॥ 5.37.5॥
श्रीपराशर उवाच [Sage Parasara said]
विश्वमित्रस्तथाकण्वो नारदश्चमहामुनिः ।
पिण्डारके महारीर्थे दृष्ट्वा यदुकुमारकैः ॥ 5.37.6॥
ततस्ते यौवनोन्मत्ता भाविकार्यप्रचोदिताः ।
सांबं जांबवतीपुत्रं भूषयित्वा स्त्रियं यथा ॥ 5.37.7॥
प्रश्रितास्तान्मुनीनूचुः प्रणिपातपुरःसरम् ।
इयं स्त्री पुत्रकामा वै ब्रूत किं जनयिष्यति ॥ 5.37.8॥
श्रीपराशर उवाच [Sage Parasara said]
दिव्यज्ञानोपपन्नास्ते विप्रलब्धाः कुमारकैः ।
मुनयः कुपिताः प्रोचुर्मुसलं जनयिष्यति ॥ 5.37.8 ॥
सर्वयादवसंहारकारणं भुवनोत्तरम् ।
येनाखिलकुलोत्सादौ यादवानां भविष्यति ॥ 5.37.10 ॥
इत्युक्तास्ते कुमारास्तु आचचक्षुर्यथातथम् ।
उग्रसेनाय मुसलं जज्ञे सांबस्य चोदरात् ॥ 5.37.11 ॥
तदुग्रसेनो मुसलमयश्चूर्णमकारयत् ।
जज्ञे तदेरकायूर्णं प्रक्षिप्तं तैर्महोदधौ ॥ 5.37.12 ॥
मुसलस्याथ लोहस्य पूर्णितस्य तु यादवैः ।
खण्डं चूर्णितशेषं तु ततो यत्तोमराकृति ॥ 5.37.13 ॥
तदप्यंबुनिधौ क्षिप्तं मत्स्यो जग्राह जालिभिः ।
घातितस्योदरात्तस्य लुब्धो जग्रह तज्जाराः ॥ 5.37.14॥
विज्ञातपरमार्थोपि भगवान्मधुसूदनः ।
नैच्छत्तदन्यथा कर्तुं विधिना यत्समीहितम् ॥ 5.37.15॥
देवैश्च प्रहितो वायुः प्रणिपत्त्याह केशवम् ।
रजस्येवमहं दूतः प्रहितो भगवन्सुरैः ॥ 5.37.16॥
वस्वश्विमरुदादित्यरुद्रसाध्यादिभिः सह ।
विज्ञापयति शक्रस्त्वां तदिदं श्रूयतां विभो ॥ 5.37.17॥
भारावतरणार्थाय वर्षाणामधिकं शतम् ।
भगवानवतीर्णोत्र त्रिदशेःसह चोदितः ॥ 5.37.18 ॥
दुर्वृत्ता निहता दैत्या भुवो भारोऽवतारितः ।
त्वया मनाथास्त्रिदशा भवन्तु त्रिदिवे सदा ॥ 5.37.19॥
तदतीतं जगन्नाथ वर्षाणामधिकं शतम् ।
इदानीं गम्यतां स्वर्गो भवता यदि रोचते ॥ 5.37.20 ॥
देवैर्विज्ञाप्यते देव तथात्रैव रतिस्तव ।
तत्स्थीयतां यथाकालमास्थेयमनुजीविभिः ॥ 5.37.21 ॥
श्रीभगवानुवाच
यत्त्वमात्थाखिलं दूत वेद्म्येतदहमप्युत ।
प्रारब्ध एव हि मया यादवानांपरिक्षयः ॥ 5.37.22 ॥
भुवो नाद्यापि भारोऽयं यादवैरनिबर्हितैः ।
अवतार्य करोम्येतत्सप्तरात्रेण सत्वरः ॥ 5.37.23 ॥
यथा गृहीतमंभोधेर्दत्त्वाहं द्वारकाभुवम् ।
यादवानुपसंहृत्य यास्यामि त्रिदशालयम् ॥ 5.37.24॥
मनुष्यदेहमुत्सृज्य संकर्षमसहायवान् ।
प्राप्त एवास्मि मन्तव्यो देवेन्द्रेण तथामरैः ॥ 5.37.25॥
जरासंधादयो येऽन्ये निहता भारहेतवः ।
क्षितेस्तेभ्यः कुमारोऽपि यदूनां नापचीयते ॥ 5.37.26॥
तदेतं सुमहाभारमवतार्य क्षितेरहम् ।
यास्याम्यमरलोकस्य पालनाय ब्रवीहि तान् ॥ 5.37.27॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्तो वासुदेवेन देवदूतः प्रणम्य तम् ।
मैत्रेय दिव्यया गत्या देवराजान्तिकं ययौ ॥ 5.37.28 ॥
भगवानप्यथोत्पातान्दिव्यभौमान्तरिक्षजान् ।
ददर्श द्वारकापुर्यां विनाशाय दिवानिशम् ॥ 5.37.29॥
तान्दृष्ट्वा यादवानाह पश्यध्वमतिदारुणान् ।
महोत्पाताञ्छमायैषां प्रभासं याम मा चिरम् ॥ 5.37.30 ॥
श्रीपराशर उवाच [Sage Parasara said]
एवमुक्ते तु कृष्णेन यादवप्रवारस्ततः ।
महाभागवतः प्राह प्रणिपत्योद्धवो हरिम् ॥ 5.37.31 ॥
भगवन्यन्मया कार्यं तदाज्ञापय सांप्रतम् ।
मन्ये कुलमिदं सर्वं भगवान्संहरिष्यति ॥ 5.37.32 ॥
नाशायास्य निमित्तानि कुलस्याच्युत लक्षये ॥ 5.37.33 ॥
श्रीभगवानुवाच
गच्छ त्वं दिव्यया गत्या मत्प्रसादसमुत्थया ।
यद्बदर्याश्रमं पुण्यं गन्धमादनपर्वते ।
नरनारायणस्थाने तत्पवित्रं महीतले ॥ 5.37.34॥
मन्मना मत्प्रसादेन तत्र सिद्धिमवाप्स्यसि ।
अहं स्वर्गं गमिष्यामि ह्युपसंहृत्य वैकुलम् ॥ 5.37.35॥
द्वारकां च मया त्यक्तां समुद्रः प्लावयिष्यति ।
मद्वेश्म चैकं मुक्त्वातु भयान्मत्तो जलाशये ।
तत्र सन्निहितश्चाहं भक्तानां हितकाम्यया ॥ 5.37.36॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्तः प्रणिपत्यैनं जगामाशु तपेवनम् ।
नरनारायणस्थानं केशवेनानुमोदितः ॥ 5.37.37॥
ततस्ते यादवाःसर्वे रथानारुह्य शीघ्रगान् ।
प्रभासं प्रययुःसार्धं कृष्णरामादिभिर्द्विज ॥ 5.37.38 ॥
प्रभासं समनुप्राप्ताः कुकुरान्धकवृष्णयः ।
चक्रुस्तत्र महापानं वासुदेवेन चोदिताः ॥ 5.37.39॥
पिबतां तत्र चैतेषां संघर्षेण परस्परम् ।
अतिवादेन्धनो जज्ञे कलहाग्निः क्षयावहः ॥ 5.37.40 ॥
मैत्रेय उवाच
स्वंस्वं वै भुञ्जतां तेषां कलहः किंनिमित्तकः ।
संघर्षो वा द्विजश्रेष्ठ तन्ममाख्यातुमर्हसि ॥ 5.37.41 ॥
श्रीपराशर उवाच [Sage Parasara said]
मृष्टं मदीयमन्नं ते न मृष्टमिति जल्पताम् ।
मृष्टामृष्टकथा जज्ञे संघर्षकलहौ ततः ॥ 5.37.42 ॥
ततश्चान्योन्यमभ्येत्य क्रिधसंरक्तलोचनाः ।
जघ्नुः परस्परं ते तु शस्त्रैर्दैवबलात्कृताः ॥ 5.37.43 ॥
क्षीणशस्त्राश्च जगृहुः प्रत्यासन्नामथैरकाम् ॥ 5.37.44॥
एरका तु गृहीता वै वज्रभूतेव लक्ष्यते ।
तया परस्परं जघ्नुःसंप्रहारे सुदारुणे ॥ 5.37.45॥
प्रद्युम्नसांबप्रमुखाः कृतवर्माथ सात्यकिः ।
अनिरुद्धादयश्चान्ये पृथुर्विपृथुरेव च ॥ 5.37.46॥
चारुवर्मा चारुकश्च तथाक्रूरादयो द्विज ।
एरकारूपिभिर्वज्रैस्ते निजघ्नुः परस्परम् ॥ 5.37.47॥
निवारयामास हरिर्यादवांस्ते च केशवम् ।
सहायं मेनिरेरीणां प्राप्तं जघ्नुः परस्परम् ॥ 5.37.48 ॥
कृष्णोऽपि कुपितस्तेषामेरकामुष्टिमाददे ।
वधाय सोऽपि मुसलं मुष्टर्लौहमभूत्तदा ॥ 5.37.49॥
जघान तेन निःशेषान्यादवानाततायिनः ।
जघ्नुस्ते सहसाभ्येत्य तथान्येपि परस्परम् ॥ 5.37.50 ॥
ततश्चार्णवमध्येन जैत्रोऽसौ चक्रिणो रथः ।
पश्यतो दारुकस्याथ प्रायादश्वैर्धृतो द्विज ॥ 5.37.51 ॥
चक्रं गदा तथा शार्ङ्ग तूणीशङ्खोसिरेव च ।
प्रदक्षिणं हरिं कृत्वा जग्मुरादित्यवर्त्मना ॥ 5.37.52 ॥
क्षणेन नाभवत्कश्चिद्यादवानामघातितः ।
ऋते कृष्णं महात्मानं दारुकं च महामुने ॥ 5.37.53 ॥
चङ्क्रम्यमाणौ तौ रामं वृक्षमूले कृतासनम् ।
ददृशाते मुखाच्चास्य निष्क्रामन्तं महोरगम् ॥ 5.37.54॥
निष्क्रम्य स मखात्तस्य महाभोगो भुजङ्गमः ।
प्रययावर्णवं सिद्धैः पुज्यमानस्तथोरगैः ॥ 5.37.55॥
ततोर्घ्यमादाय तदा जलधिःसंमुखं ययौ ।
प्रविवेश ततस्तोयं पूजितः पन्नगोत्तमैः ॥ 5.37.56॥
दृष्ट्वा बलस्य निर्याणं दारुकं प्राह केशवः ।
इदं सर्वं समाचक्ष्व वसुदेवोग्रसेनयोः ॥ 5.37.57॥
निर्याणं बलभद्रस्य यादवानां तथा क्षयम् ।
योगो स्थित्वाहमप्येतत्परित्यक्ष्ये कलेवरम् ॥ 5.37.58 ॥
वाच्यश्च द्वारकावासी जनः सर्वस्तथाहुकः ।
यथोमां नगरीं सर्वां समुद्रः प्लावयिष्यति ॥ 5.37.59॥
तस्माद्भवद्भिः सर्वैस्तु प्रतीक्ष्यो ह्यर्जुनागमः ।
न स्थेयं द्वारकामध्ये निष्क्रान्ते तत्र पाण्डवे ॥ 5.37.60 ॥
तेनैव सह गन्तव्यां यत्र याति स कौरवः ॥ 5.37.61 ॥
गत्वा च ब्रूहि कैन्तेयमर्जुनं वचनान्मम ।
पालनीयस्त्वया शक्त्या जनोऽयं मत्परिग्रहः ॥ 5.37.62 ॥
त्वमर्जुनेन सहितो द्वारवत्यां तथा जनम् ।
गृहीत्वा यादि वज्रश्च यदुराजो भविष्यति ॥ 5.37.63 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्तो दारुकः कृष्णं प्रणिपत्य पुनः पुनः ।
प्रदक्षिणं च बहुशः कृत्वा प्रायाद्यथोदितम् ॥ 5.37.64॥
स च गत्वा तदाचष्ट द्वारकायां तथार्ऽजुनम् ।
आनिनाय महाबुद्धिर्वज्रं चक्रे तथा नृपम् ॥ 5.37.65॥
भगवानपि गोविन्दो वासुदेवात्मकं परम् ।
ब्रह्मात्मनि समारोप्य सर्वभूतेष्वधारयत् ।
निष्प्रपञ्चे महाभाग संयोज्यात्मानमात्मनि ।
तुर्यावस्थसलीलं च शेतेस्म पुरुषोत्तमः ॥ 5.37.66॥
संमानयन्द्विजवचो दुर्वासा यदुवाच ह ।
योगयुक्तोऽभवत्पादं कृत्वा जानुनि सत्तम ॥ 5.37.67॥
आययौ स जरानाम तदा तत्र स लुब्धकः ।
मुसलावशेषलोहैकसायकन्यस्ततोमरः ॥ 5.37.68 ॥
स तत्पादं मृगाकरमवेक्ष्यारादविस्थितः ।
तले विव्याध तेनैव तोमरेण द्विजोत्तम ॥ 5.37.69॥
ततश्च ददृशे तत्र चदुर्बाहुधरं नरम् ।
प्रणिपत्याह चैवैनं प्रसीदेति पुनः पुनः ॥ 5.37.70 ॥
अजानता कृतमिदं मया हरिणशङ्कया ।
क्षम्यतां मम पापेन दग्धं मां त्रातुमर्हसि ॥ 5.37.71 ॥
श्रीपराशर उवाच [Sage Parasara said]
ततस्तं भगवानाह न तेस्तु भयमण्वपि ।
गच्छ त्वं मत्प्रसादेन लुब्ध स्वर्गं सुरास्पदम् ॥ 5.37.72 ॥
श्रीपराशर उवाच [Sage Parasara said]
विमानमागतं सद्यस्तद्वाक्यसमनन्तरम् ।
आरुह्य प्रययौ स्वर्गं लुब्धकस्तत्प्रसादतः ॥ 5.37.73 ॥
गते तस्मिन्सभगवान्संयोज्यात्मानमात्मनि ।
ब्रह्मभूतेऽव्ययेचिन्त्ये वासुदेवमयेऽमले ॥ 5.37.74॥
अजन्मन्यमरे विष्णवाप्रमेयेऽखिलात्मनि ।
तत्याज मानुषं देहमतीत्य त्रिविधां गतिम् ॥ 5.37.75॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे सप्तत्रिंशोध्यायः (37)
श्रीपराशर उवाच [Sage Parasara said]
अर्जुनोपि तदान्वीक्ष्य रामकृष्णकलेवरे ।
संस्कारं लंभयामास तथान्येषामनुक्रमात् ॥ 5.38.1 ॥
अष्टौ महिष्यः कथिता रुक्मिणीप्रमुखास्तु याः ।
उपगुह्य हरेर्देह विविशुस्ता हुताशनम् ॥ 5.38.2॥
रेवती चापि रामस्य देहमाश्लिष्य सत्तमा ।
विवेश ज्वलितं वाह्निं तत्संगाह्लादशीतलम् ॥ 5.38.3 ॥
उग्रसेनस्तु तच्छुत्वा तथैवानकदुन्दुभिः ।
देवकी रोहिणी चैव विविशुर्जातवेदसम् ॥ 5.38.4 ॥
ततोर्जुनः प्रेतकार्यं कृत्वा तेषां यथाविधि ।
निश्चक्राम जनं सर्वे गृहीत्वा वज्रमेव च ॥ 5.38.5॥
द्वारवत्या विनिष्क्रान्ताः कृष्णपत्न्यः सहस्रशः ।
वज्रं जनं च कौतेयः पालयञ्छनकैर्ययौ ॥ 5.38.6॥
सभा सुधर्मा कृष्णेन कर्त्यलोके समुज्झिते ।
स्वर्गं जगाम मैत्रेय पारिजातश्च पादपः ॥ 5.38.7॥
यस्मिन्दिने हरिर्यातो दिवं संत्यज्य मेदिनीम् ।
तस्मिन्नेवावतीर्णोऽयं कालकायो बली कलिः ॥ 5.38.8॥
प्लावयामास तां शून्यां द्वारकां च महोदधिः ।
वासुदेवगृहं त्वेकं न प्लावयति सागरः ॥ 5.38.8 ॥
नातिक्रान्तुमलं ब्रह्मंस्तदद्यापि महोदधिः ।
नित्यं सन्निहितस्तत्र भगवान्केशवो यतः ॥ 5.38.10 ॥
तदतीव महापुण्यं सर्वपातकनाशनम् ।
विष्णुश्रियान्वितं स्थानं दृष्ट्वा पामाद्विमुच्यते ॥ 5.38.11 ॥
पार्थः पञ्चनदे देशे बहुधान्यधनान्विते ।
चकार वासं सर्वस्य जनस्य मुनिसत्तमः ॥ 5.38.12 ॥
ततो लोभःसमभवत्पार्थेनैकेन धन्विना ।
दृष्ट्वास्त्रियो नीयमाना दस्यूनां निहतेश्वराः ॥ 5.38.13 ॥
ततस्ते पापकमाणो लोभोपहृतचेतसः ।
आभीरा मन्त्रयामासुःसमेत्यान्यन्तदुर्मदाः ॥ 5.38.14॥
अयमेकोर्ऽजुनो धन्वी स्त्रीजनं निहतेश्वरम् ।
नयत्यस्मानतिक्रम्य धिगेतद्भवतां बलम् ॥ 5.38.15॥
हत्वा गर्वसमारूढो भीष्मद्रोमजयद्रथान् ।
कर्णादींश्च न जानाति बलं ग्रामनिवासिनाम् ॥ 5.38.16॥
यष्टिहस्तानवेक्ष्यास्मान्धनुष्पाणिःस दुर्मतिः ।
सर्वानेवावजानाति किं वो बाहुभिरुन्नतैः ॥ 5.38.17॥
ततो यष्टिप्रहरणादस्यवो लोष्टधारिणः ।
सहस्रशोभ्यधावन्त तं जनं निहतेश्वरम् ॥ 5.38.18 ॥
ततो निर्भर्त्स्य कौतेयः प्राहाभीरान्हसन्निव ।
निवर्तध्वमधर्मज्ञा यदि न स्थ मुमूर्षवः ॥ 5.38.19॥
अवज्ञाय वचस्तस्य जगृहुस्ते तदा धनम् ।
स्त्रीधनं चैव मैत्रेय विष्वक्सेन पिरग्रहम् ॥ 5.38.20 ॥
ततोर्जुनो धनुर्दिव्यं गाण्डीवमजरं युधि ।
आरोपयितुमारेभे न शशाक च वीर्यवान् ॥ 5.38.21 ॥
चकार सज्यं कृच्छ्राच्चतच्चाभूच्छिथिलं पुनः ।
न सस्मार ततोस्त्राणि चिन्तयन्नपि पाण्डवः ॥ 5.38.22 ॥
शरान्मुमोच चैतेषु पार्था वैरिष्वमर्षितः ।
त्वग्भेदं दे परं चक्रुरस्ता गाण्डीवधन्विना ॥ 5.38.23 ॥
वह्निना येऽक्षया दत्ताः शरास्तेपि क्षयं ययुः ।
युद्ध्यतःसह गोपालैरर्जुनस्य भवक्षये ॥ 5.38.24॥
अचिन्तयच्च कैन्तेयः कृष्णस्यैव हि तद्बलम् ।
यन्मया शरसंघातैः सकला भूभृतो हताः ॥ 5.38.25॥
मिषतः पाण्डुपुत्रस्य ततस्ताः प्रमदोत्तमाः ।
आभीरैरपकृष्यन्त कामं चान्याः प्रदुद्रुवुः ॥ 5.38.26॥
ततः शरेषु क्षीणेषु धनुष्कोट्या धनञ्जयः ।
जघान दस्यूंस्ते चास्य प्रहाराञ्जहसुर्मुने ॥ 5.38.27॥
प्रेक्षतस्तस्य पार्थस्य पुष्ण्यन्धकवरस्त्रियः ।
जग्मुरादाय ते म्लेच्छाः समस्ता मुनिसत्तम ॥ 5.38.28 ॥
ततःसुदुःखितो जिष्णुः कष्टं कष्टमिति ब्रुवन् ।
अहो भगवतानेन मुष्टोस्मीति रुरोद वै ॥ 5.38.29॥
तद्धनुस्तानि शस्त्राणि स रथस्ते च वाजिनः ।
सर्वमेकपदे नष्टं दानमश्रोत्रिये यथा ॥ 5.38.30 ॥
अहोतिबलबद्दैवं विना तेन महात्मना ।
यदसामर्थ्ययुक्तेपि निचवर्गे जयप्रदम् ॥ 5.38.31 ॥
तौ बाहू स च मे मुष्टिः स्थानं तत्सोस्मि चार्जुनः ।
पुण्येनैव विना तेन गतं सर्वमसारताम् ॥ 5.38.32 ॥
ममार्जुनत्वं भीमस्य भीमत्वं तत्कृते ध्रुवम् ।
विना तेन यदा भीरैर्जितोहं रथिनां वरः ॥ 5.38.33 ॥
श्रीपराशर उवाच [Sage Parasara said]
इत्थं वदन्ययौ जिष्मुरिद्रप्रस्थं पुरोत्तमम् ।
चकार तत्र राजानं वज्रं यादवनन्दनम् ॥ 5.38.34॥
स ददर्श ततो व्यासं फाल्गुनः काननाश्रयम् ।
तमुपेत्य महाभागं विनयेनाब्यवादयत् ॥ 5.38.35॥
तं वन्दमानं चरणाववलोक्य मुनिश्चिरम् ।
उवाच वाक्यं विच्छायः कथमद्य त्वमीदृशः ॥ 5.38.36॥
अवीरजोनुगमनं ब्रह्महत्या कृताथ वा ।
दृढाशाभङ्गदुःखीव भ्रष्टच्छायोऽसि सांप्रतम् ॥ 5.38.37॥
सांतानिकादयो वाते याचमाना निराकृताः ।
अगम्यस्त्रीरतिर्वा त्वं येनासि विगतप्रभः ॥ 5.38.38 ॥
भुङ्तेऽप्रदायविप्रेभ्यो मृष्टमेकोथ वा भवान् ।
किं वा कृपणवित्तानि हृतानि भवतार्ऽजुन ॥ 5.38.39॥
कचिन्नु शुर्पवातस्य गोचरत्वं गतोर्ऽजुन ।
दुष्टचक्षुर्हतो वासि निःश्रीकः कथमन्यथा ॥ 5.38.40 ॥
स्पृष्टो नखांभसा वाथ घटवार्युक्षितोपि वा ।
केन त्वं वासि विच्छायो न्यूनैर्वा युधि नीजातः ॥ 5.38.41 ॥
श्रीपराशरौवाच
ततः पार्थो विनिश्वास्य श्रूयतां भगवन्निति ।
प्रोक्त्वा यथावदाचष्टे व्यासायात्मपराभवम् ॥ 5.38.42 ॥
अर्जुन उवाच
यद्बलं यच्च मत्तेजो यद्वीर्यं यः पराक्रमः ।
या श्रीश्छाया च नः सोस्मान्परित्यज्य हरिर्गतः ॥ 5.38.43 ॥
ईश्वरेणापि महता स्मितपूर्वाभिभाषिणा ।
हीना वयं मुने तेन जातास्तृणमया इव ॥ 5.38.44॥
अस्त्राणां सायकानां च गाण्डीवस्य तथा मम ।
सारता याभवन्मूर्तिःस गतः पुरुषोत्तमः ॥ 5.38.45॥
यस्यावलोकनादस्माञ्छ्रीर्जयः संपदुन्नतिः ।
न तत्याज स गोविन्दस्त्यक्त्वास्मान्भगवान्गतः ॥ 5.38.46॥
भीष्मद्रोणाङ्गराजाद्या स्तथा दुर्योधनादयः ।
यत्प्रभावेन निर्दग्धाः स कृष्णस्त्यक्तवान्भुवम् ॥ 5.38.47॥
निर्यौवना गतश्रीका नष्टच्छायेव मेदिनी ।
विभाति तात नैकोहं विरहे तस्य चक्रिणः ॥ 5.38.48 ॥
यस्य प्रभावाद्भीष्माद्यैर्मय्यग्नौ शलभायतम् ।
विना तेनाद्य कृष्णेन गोपालौरस्मि निर्जितः ॥ 5.38.49॥
गाण्डीवस्त्रिषु लोकेषु ख्यातिं यदनुभावतः ।
गतस्तेन विनाऽभीरलगुडैः स तिरस्कृतः ॥ 5.38.50 ॥
स्त्रीसहस्राण्यनेकानि मन्नाथानि महामुने ।
यततो मम नीतानि दस्युभिर्लगुडायुधैः ॥ 5.38.51 ॥
आनीयमानमाभीरैः कृष्ण कृष्णावरोधनम् ।
हृतं यष्टिप्रहरणैः परिभूय बलं मम ॥ 5.38.52 ॥
निःश्रीकता न मे चित्रं यज्जीवामि तदद्भुतम् ।
नीचावमानपङ्काङ्की निर्लज्जोस्मि पितामह ॥ 5.38.53 ॥
व्यास उवाच
अलं ते व्रीडया पार्थ न त्वं शोचितुमर्हसि ।
अवेहि सर्वभूतेषु कालस्य गतिरीदृशी ॥ 5.38.54॥
कालो भवाय भूतानामभवाय च पाण्डव ।
कालमूलमिदं ज्ञात्वा भव स्थैर्यपरोऽर्जुन ॥ 5.38.55॥
नद्यः समुद्रा गिरयःसकला च वसुंधरा ।
देवा मनुष्याः पशवस्तरवश्च सरीसृपाः ॥ 5.38.56॥
सृष्टाः कालेन कालेन पुनर्यास्यन्ति संक्षयम् ।
कालात्मकमिदं सर्वं ज्ञात्वा शममवाप्नुहि ॥ 5.38.57॥
कालस्वरूपी भगवान्कृष्णः कमललोचनः ।
यच्चात्थ कृष्णमाहात्म्यं तत्तथैव धनञ्जय ॥ 5.38.58 ॥
भारावतारकार्यार्थमवतीर्णस्य मेदिनीम् ।
भाराक्रान्ता धरा याता देवानां समितिं पुरा ॥ 5.38.59॥
तदर्थमवतीर्णोऽसौ कालरूपी जनार्दनः ।
तच्च निष्पादिनं कार्यमशेषा भूभुजो हताः ॥ 5.38.60 ॥
वष्ण्यन्धककुलं सर्वं तथा पार्थोपसंहृतम् ।
न किञ्चिदन्यत्कर्तव्यं तस्य भूमितले प्रभोः ॥ 5.38.61 ॥
अतो गतःस भगवान्कतकृत्यो यथेच्छया ।
सृष्टिं सर्गे करोत्येष देवदेवः स्थितौ स्थितिम् ।
अन्तेन्ताय समर्थोयं सांप्रतं वै यथा गतः ॥ 5.38.62 ॥
तस्मात्यार्थ न संतापस्त्वया कार्यः पराभवे ।
भवन्ति भावाः कालेषु पुरुषाणां यतः स्तुतिः ॥ 5.38.63 ॥
त्वयैकेन हता भीष्मद्रोणकर्मादयो रणे ।
तेषामर्जुन कालोत्थः किं न्यूनाभिभवो न सः ॥ 5.38.64॥
विष्णोस्तस्य प्रभावेण यथा तेषां पराभवः ।
कृतस्तथैव भवतो दस्युभ्यः स पराभवः ॥ 5.38.65॥
स देवेशः शरीराणि समाविश्य जगत्स्थितिम् ।
करोति सर्वभूतानां नाशमन्ते जगत्पतिः ॥ 5.38.66॥
भगोदये ते कैन्तेय सहायोऽभूज्जनार्दनः ।
तथान्ते तद्विपक्षास्ते केशवेन विनाशिताः ॥ 5.38.67॥
कः श्रद्दद्ध्यात्सगाङ्गोयान्हन्यास्त्वं कौरवानिति ।
आभीरेभ्यश्च भवतः कः श्रद्दध्यात्पराभवम् ॥ 5.38.68 ॥
पार्थैतत्सर्वभूतस्य हरेर्लीलाविचोष्टितम् ।
त्वया यत्कौरावा ध्वस्ता यदाभीरैर्भवाञ्जितः ॥ 5.38.69॥
गृहीता दस्युभिर्याश्च भवाञ्छोचति ताःस्त्रियः ।
एतस्याहं यथावृत्तं कथयामि तवार्जुन ॥ 5.38.70 ॥
अष्टावकः पुरा विप्रो जलवासरतोऽभवत् ।
बहून्वर्षगणान्पार्थ गृणन्ब्रह्म सनातनम् ॥ 5.38.71 ॥
जितेष्वसुरसंघषु मेरुपृष्ठे महोत्सवः ।
बभूव तत्र गच्छन्त्यो ददृशुस्तं सुरस्त्रियः ॥ 5.38.72 ॥
रंभातिलोत्तमाद्यास्तु शतशोऽथ सहस्रशः ।
तुष्टुवुस्तं महात्मानं प्रशशंसुश्च पाण्डव ॥ 5.38.73 ॥
आकण्ठमग्नं सलिले जटाभारवहं मुनिम् ।
विनयावनताश्चैनं प्रणेमुस्तोत्रतत्पराः ॥ 5.38.74॥
यथायथा प्रसन्नोऽसौ तुष्टुवुस्तं तथातथा ।
सर्वास्ताः कौरवश्रेष्ठ तं वरिष्ठं द्विजन्मनाम् ॥ 5.38.75॥
अष्टावक्र उवाच
प्रसन्नोऽहं महाभागा भवतीनां यदिष्यते ।
मत्तस्तद्व्रयतां सर्वं प्रदास्याम्यतिदुर्लभम् ॥ 5.38.76॥
रंभातिलोत्तमाद्यास्तं वैदिक्योप्सरसोब्रुवन् ।
प्रसन्ने त्वय्यपर्याप्तं किमस्माकमिति द्विज ॥ 5.38.77॥
इतरास्त्वब्रुवन्विप्र प्रसन्नो भगवान्यदि ।
तदिच्छामः पतिं प्राप्तुं विप्रेन्द्र पुरुषोत्तम ॥ 5.38.78 ॥
व्यास उवाच
एवं भविष्यतीत्युक्त्वा ह्युत्ततार जलान्मुनिः ।
तमुत्तीर्णं च दृदृशुर्विरूपं वक्रमष्टधा ॥ 5.38.79॥
तं दृष्ट्वा गूहमानानां यासां हासः स्फुटोऽभवत् ।
ताः शशाप मुनिः कोपमवाप्य कुरुनन्दन ॥ 5.38.80 ॥
यस्माद्विकृतरूपं मां मत्वा हीसा वमानना ।
भवतीभिः कृता तस्मादेतं शापं ददामि वः ॥ 5.38.81 ॥
मत्प्रसादेन भर्तारं लब्ध्वा तु पुरुषोत्तमम् ।
मच्छापोपहताःसर्वा दस्युहस्तं गमिष्यथ ॥ 5.38.82 ॥
व्यास उवाच
इत्युदीरितमाकर्ण्य मुनिस्ताभिः प्रसादितः ।
पुनःसुरेद्रलोकं वै प्राह भूयो गमिष्यथ ॥ 5.38.83 ॥
एवं तस्य मुनेः शापादष्टावक्रस्य चक्रिणम् ।
भर्तारं प्राप्य ता याता दस्युहस्तं सुराङ्गनाः ॥ 5.38.84॥
तत्त्वाय नात्र कर्तव्यः शोकोऽल्पोपि हि पाण्डव ।
तेनैवाखिलनाथेन सर्वं तदुपसंहृतम् ॥ 5.38.85॥
भवतां चोपसंहार आसन्नस्तेन पाण्डव ।
बलं लेजस्तथा वीर्यं माहात्म्यं चोपसंहृतम् ॥ 5.38.86॥
जातस्य नियतो मृत्युः पतनं च तथोन्नतेः ।
विप्रयोगावमानस्तु संयोगः संचये क्षयः ॥ 5.38.87॥
विज्ञाय न बुधाः शोकं न हर्षमुपयान्ति ये ।
तेषामेवेतरे चेष्टां शिक्षन्तःसंति तादृशाः ॥ 5.38.88 ॥
तस्मात्त्वया नरश्रेष्ठ ज्ञात्वैतद्भ्रातृभिः सह ।
परित्यज्याखिलं तन्त्रं गन्तव्यं तपसे वनम् ॥ 5.38.89॥
तद्रच्छ धर्मराजाय निवेद्यौतद्वचो मम ।
परश्वो भ्रातृभिः सार्ध यथा यासि तथा कुरु ॥ 5.38.90 ॥
इत्युक्तोभ्येत्य पार्थाभ्यां यमाभ्यां च सहार्जुनः ।
दृष्टं चैवानुभूतं च सर्वमाख्यातवांस्तथा ॥ 5.38.91 ॥
व्यासवाक्यं च ते सर्वे श्रुत्वार्जुनमुखेरितम् ।
राज्ये परीक्षितं कृत्वा ययुः पाण्डुसुता वनम् ॥ 5.38.92 ॥
इत्येतत्तव मैत्रेय विस्तरेण मयोदितम् ।
जातस्य यद्यदोर्वशे वासुदेवस्य चेष्टितम् ॥ 5.38.93 ॥
यश्चैतच्चरितं तस्य कृष्णस्य शृमुयात्सदा ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ 5.38.94॥
इति श्रीविष्णुमहापुराणे पञ्चमाशेऽष्टत्रिंशोऽध्यायः (38)
मैत्रेय उवाच
व्याख्याता भवता सर्गवंशमन्वन्तरस्थितिः ।
वंशानुचरितं चैव विस्तरेण महामुने ॥ 6.1.1 ॥
श्रोतुमिच्छाम्यहं त्वत्तो यथावदुपसंहृतिम् ।
महाप्रलयसंज्ञां च कल्पान्ते च महामुने ॥ 6.1.2॥
श्रीपराशर उवाच [Sage Parasara said]
मैत्रेय श्रूयतां मत्तो यथावदुपसंहृतिः ।
कल्पान्ते प्राकृते चैव प्रलयो जायते यथा ॥ 6.1.3 ॥
अहोरात्रं पितॄणां तु मासोऽब्दस्त्रिदिवौकसाम् ।
चतुर्युगमहस्रे तु ब्रह्मणो वै द्विजोत्तम ॥ 6.1.4 ॥
कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।
दिव्यैर्वर्षसहस्रैस्तु तद्द्वादशभिरुच्यते ॥ 6.1.5॥
चतुर्युगाण्यशेषाणि सदृशानि स्वरूपतः ।
आद्यं कृतयुगं मुक्त्वा मैत्रेयान्त्यं तथा कलिम् ॥ 6.1.6॥
आद्ये कृतयुगे सर्गो ब्रह्मणा क्रियते यथा ।
क्रियते चोपसंहारस्तथांऽते च कलौ युगे ॥ 6.1.7॥
मैत्रेय उवाच
कलेःस्वरूपं भगवन्विस्तराद्वक्तुमर्हसि ।
धर्मश्चतुष्पाद्भगवान् यस्मिन् विप्लवमृच्छति ॥ 6.1.8॥
श्रीपराशर उवाच [Sage Parasara said]
कलेःस्वरूपं मैत्रेय यद्भवाञ्छ्रोतु मिच्छति ।
तन्निबोध समासेन वर्तते यन्महामुने ॥ 6.1.8 ॥
वर्णाश्रमाचारवती प्रवृत्तिर्न कलौ नृणाम् ।
न सामऋग्यजुर्धर्मविनिष्पादनहैतुकी ॥ 6.1.10 ॥
विवाहा न कलौ धर्म्या न शिष्यगुरुसंस्थितिः ।
न दांपत्यक्रमो नैव वह्निदेवात्मकः क्रमः ॥ 6.1.11 ॥
यत्र कुत्र कुले जातो बली सर्वेश्वरः कलौ ।
सर्वेभ्य एव वर्णेभ्यो योग्यः कन्यावरोधने ॥ 6.1.12 ॥
येन केन च योगेन द्विजातिर्दीक्षितः कलौ ।
यैव सैव च मैत्रेय प्रायश्चित्तं कलौ क्रिया ॥ 6.1.13 ॥
सर्वमेव कलौ शास्त्रं यस्य यद्वजनं द्विज ।
देवता च कलौ सर्वा सर्वःसर्वस्य चाश्रमः ॥ 6.1.14॥
उपवासस्तथाऽयासौ वित्तोत्सर्गस्तपः कलौ ।
धर्मो यथाभिरुचितैरनुष्ठनैरनुष्ठितः ॥ 6.1.15॥
वित्तेन भविता पुंसां स्वल्पेनाढ्यमदः कलौ ।
स्त्रीणां रूपमदश्चैवं केशैरेव भविष्यति ॥ 6.1.16॥
मुवर्णमणिरत्नादौ वस्त्रे चोपक्षयं गते ।
कलौ स्त्रियो भविष्यन्ति तदा केशैरलङ्कृताः ॥ 6.1.17॥
परित्यक्ष्यन्ति भर्तारं वित्तहीनं तथा स्त्रियः ।
भर्ता भविष्यति कलौ वित्तवानेव योषिताम् ॥ 6.1.18 ॥
यो वै ददाति बहुलं स्वं स स्वामी सदा नृणाम् ।
स्वामित्वहेतुःसंबन्धो न चाभिजनता तथा ॥ 6.1.19॥
गृहान्ता द्रव्य्संघाता द्रव्यान्ता च तथा मतिः ।
अर्थाश्चात्मोपभोग्यान्ता भविष्यन्ति कलौ युगे ॥ 6.1.20 ॥
स्त्रियः कलौ भविष्यन्ति स्वैरिण्यो ललितस्पृहाः ।
अन्यायादाप्तवित्तेषु पुरुषाः स्पृहयालबः ॥ 6.1.21 ॥
अभ्यर्थितापि सुहृदा स्वार्थमेव निरीक्ष्यते ।
पणार्धार्धाद्धमात्रेऽपि करिष्यन्ति तथा स्पृहाम् ॥ 6.1.22 ॥
समानपौरुषं चेतो भुवि विप्रेषु वै कलौ ।
क्षीरप्रदानसंबन्धि भावि गोषु च गौरवम् ॥ 6.1.23 ॥
अनावृष्टिभयप्रायाः प्रजाः क्षुद्भयकातराः ।
भविष्यन्ति तदा सर्वे गगनासक्तदृष्टयः ॥ 6.1.24॥
कन्दमूलफलाहारास्तापसा इव मानवाः ।
आत्मानं घातयिष्यन्ति ह्यनावृष्ट्यादिदुःखिताः ॥ 6.1.25॥
दुर्भिक्षमेव सततं तथा क्लेशमनीश्वराः ।
प्राप्स्यन्ति व्याहतसुखप्रमोदा मानवाः कलौ ॥ 6.1.26॥
अस्नानभोजिनो नाग्निदेवतातिथिपूजंनम् ।
करिष्यन्ति कलौ प्राप्ते न च पिण्डोदकक्रियाम् ॥ 6.1.27॥
लोलुपा ह्रस्वदेहाश्च बह्वन्नादनतत्पराः ।
बहुप्रजाल्पभाग्याश्च भविष्यन्ति कलौ स्त्रियः ॥ 6.1.28 ॥
उभाभ्यामपि पाणिभ्यां शिरःकण्डूयनं स्त्रियः ।
कुर्वन्त्यो गुरुभर्तॄणामाज्ञां भर्त्स्यन्त्यनादराः ॥ 6.1.29॥
स्वपोषणपराः क्षुद्रा देहसंस्कारवर्जिताः ।
परुषानृतभाषिण्यो भविष्यन्ति कलौ स्त्रियः ॥ 6.1.30 ॥
दुःशीला दुष्टशीलेषु कुर्वन्त्यःसततं स्पृहाम् ।
असद्वृत्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः ॥ 6.1.31 ॥
वेदादानं करिष्यन्ति बटवश्चाकृतव्रताः ।
गृहस्थाश्च न होष्यन्ति न दास्यन्त्युचितान्यपि ॥ 6.1.32 ॥
वानप्रस्था भविष्यन्ति ग्राम्याहारपरिग्रहाः ।
भिक्षवश्चापि मित्रादिस्नेहसंबन्धयन्त्रणाः ॥ 6.1.33 ॥
अरक्षितारो हर्तारः शुल्कव्याजेन पार्थिवाः ।
हारिणो जनवित्तानां संप्राप्ते तु कलौ युगे ॥ 6.1.34॥
योयोऽश्वरथनागाढ्यःस स राजा भविष्यति ।
यश्च यश्चाबलः सर्वः स स भृत्यः कलौ युगे ॥ 6.1.35॥
वैश्याः कृषिवणिज्यादि संत्यज्य निजकर्म यत् ।
शूद्रवृत्त्या प्रवर्त्स्यन्ति कारुकर्मोपजीविनः ॥ 6.1.36॥
भैक्षव्रतपराः शूद्रा प्रव्रज्यालिङ्गिनोऽधमाः ।
पाषण्डसंश्रयां वृत्तिमाश्रयिष्यन्ति सत्कृताः ॥ 6.1.37॥
दुर्भिक्षकरपीडाभिरतीवोपद्रुता जनाः ।
गोधूमान्नयवान्नाढ्यान्देशान्यास्यन्ति दुःखिताः ॥ 6.1.38 ॥
वेदमार्गे प्रलीने च पाषण्डाढ्ये ततो जने ।
अधर्मवृद्ध्या लोकानामल्पमायुर्भविष्यति ॥ 6.1.39॥
अशास्त्रविहितं घोरं तप्यमानेषु वै तपः ।
नरेषु नृपदोषेण बाल्ये मृत्युर्भविष्यति ॥ 6.1.40 ॥
भविता योषितां सूतिः पञ्चषट्मप्तवार्षिकी ।
नवाष्टदशवर्षाणां मनुष्याणां तथा कलौ ॥ 6.1.41 ॥
पलितोद्भवश्च भविता तथा द्वादशवार्षिकः ।
नातिजीवति वै कश्चित्कलौ वर्षाणि विंशतिः ॥ 6.1.42 ॥
अल्पप्रज्ञा वृथालिङ्गा दुष्टान्तःकरणाः कलौ ।
यतस्ततो विनङ्क्ष्यन्ति कालेनाल्पेन मानवाः ॥ 6.1.43 ॥
यदायादा हि मैत्रेय हानिर्धर्मस्य लक्ष्यते ।
तदातदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥ 6.1.44॥
यदायदा हि पांषडवृद्धिर्मैत्रेय लक्ष्यते ।
तदातदा कलेर्वृद्धिरनुमेया महात्मभिः ॥ 6.1.45॥
यदायदा सतां हीनिर्वेदमार्गानुसारिणाम् ।
तदातदा कलेर्वृद्धिरनुमेया विचक्षणैः ॥ 6.1.46॥
प्रारंभाश्चावसीदन्ति यदा धर्मभृतां नृणाम् ।
तदानुमेयं प्राधान्यं कलेर्मैत्रेय पण्डितैः ॥ 6.1.47॥
यदायाद न यज्ञानामीश्वरः पुरुषोत्तमः ।
इज्यते पुरुषैर्यज्ञैस्तदा ज्ञेयं कलेर्बलम् ॥ 6.1.48 ॥
न प्रीतिर्वेदवादेषु पाषण्डेषु यदा रतिः ।
कलेर्वृद्धिस्तदा प्राज्ञैरनुमेया विचक्षणैः ॥ 6.1.49॥
कलौ जगत्पतिं विष्णुंसर्वस्रष्टारमीश्वरम् ।
नार्चयिष्यन्ति मैत्रेय पाषण्डोपहता जनाः ॥ 6.1.50 ॥
किं देवैः किं द्विजैर्वेदैः किं शौचे नांबुजन्मना ।
इत्येवं विप्रवक्ष्यन्ति पाषण्डोपहता जनाः ॥ 6.1.51 ॥
स्वल्पांबुवृष्टिः पर्जन्यः सस्यं स्वल्पफलं तथा ।
फलं तथाल्पसारं च विप्र प्राप्ते कलौ युगे ॥ 6.1.52 ॥
शाणीप्रायाणि वस्त्राणि शमीप्राया महीरुहाः ।
शूद्रप्रायास्तथा वर्णा भविष्यन्ति कलौ युगे ॥ 6.1.53 ॥
अणुप्रायाणि धान्यानि चाज्यप्रायं तथा पयः ।
भविष्यति कलौ प्राप्ते ह्यौशीरं चानुलेपनम् ॥ 6.1.54॥
श्वश्रूश्वशुरभूयिष्ठा गुरवश्च नृणां कलौ ।
श्यालाद्य हारिभार्याश्च सृहृदो मुनिसत्तम ॥ 6.1.55॥
कस्य माता पिता कस्य यथा कर्मानुगः पुमान् ।
इति चोदाहरिष्यन्ति श्वशुरानुगतानराः ॥ 6.1.56॥
वाङ्मनःकायगैर्दोषैरभिभूताः पुनः पुनः ।
नराः पापान्यनुदिनं करिष्यन्त्यल्पमेधसः ॥ 6.1.57॥
निःसत्त्वानामशौचानां निह्रीकाणां तथा नृणाम् ।
यद्यद्दुःखाय तत्सर्वं कलिकाले भविष्यति ॥ 6.1.58 ॥
निःस्वाध्यायवषट्कारे स्वधास्वाहाविवर्जिते ।
तदा प्रविरलो धर्मः क्वचिल्लोके निवत्स्यति ॥ 6.1.59॥
तत्राल्पेनैव यत्नेन पुण्यस्कन्धमनुत्तमम् ।
करोतियः कृतयुगे क्रियते तपसा हि सः ॥ 6.1.60 ॥
इति श्रीविष्णुमहापुराणे षष्ठांशे प्रथमोऽध्यायः
श्रीपराशर उवाच [Sage Parasara said]
व्यासश्चाह महाबुद्धिर्यदत्रैव हि वस्तुनि ।
तच्छ्रूयतां महाभागा गदतो मम तत्त्वतः ॥ 6.2.1 ॥
कस्मिन्कालेऽल्पको धर्मो ददानि सुमहत्फलम् ।
मुनीनां पुण्यवादोऽभूत्कैश्चासौ क्रियते सुखम् ॥ 6.2.2॥
संदेहनिर्णयार्थाय वेदव्यासं महामुनिम् ।
ययुस्ते संशयं प्रष्टुं मैत्रेय मुनिपुङ्गवाः ॥ 6.2.3 ॥
दृदृशुस्ते मुनिं तत्र जाह्नवीसलिले द्विज ।
वेदव्यासं महाभागमर्धस्नातं सुतं मम ॥ 6.2.4 ॥
स्नानावसानं ते तस्य प्रतीक्षन्तो महर्षयः ।
तस्थुस्तीरे महानद्यास्तरुषण्डमुपाश्रिताः ॥ 6.2.5॥
मग्नोऽथ जाह्नवीतोयादुत्थायाह सुतो मम ।
शुद्रःसाधुः कलिःसाधुरित्येवं शृण्वतां वचः ।
तेषां मुनीनां भूयश्च ममज्ज स नदीजले ॥ 6.2.6॥
साधुसाध्विति चोत्थाय शूद्र धन्योसि चाब्रवीत् ॥ 6.2.7॥
निमग्नश्च समुत्थाय पुनः प्राह महामुनिः ।
योषितः साधु धन्यास्तास्ताब्यो धन्यतरोस्तिकः ॥ 6.2.8॥
ततः स्नात्वा यथान्यायमाचान्तं च कृतक्रियम् ।
उपतस्थुर्महाभागं मुनयस्ते सुतं मम ॥ 6.2.8 ॥
कृतसंवन्दनांश्चाह कृतासनपरिग्रहान् ।
किमर्थ मागता यूयमिति सत्यवतीसुतः ॥ 6.2.10 ॥
श्रीपराशर उवाच [Sage Parasara said]
तमूचुःसंशयं प्रष्टं भवन्तं वयमागताः ।
अलं तेनास्तु तावन्नः कथ्यतामपरं त्वया ॥ 6.2.11 ॥
कलिःसाध्विति यत्प्रोक्तं शूद्रः साध्विति योषितः ।
यदाह भगवान्त्साधु धन्याश्चेति पुनः पुनाः ॥ 6.2.12 ॥
तत्सर्वं श्रोतुमिच्छामो न चेद्गुह्यं महामुने ।
तत्कथ्यतां ततो हृत्स्थं पृच्छामस्त्वां प्रयोजनम् ॥ 6.2.13 ॥
श्रीपराश उवाच
इत्युक्तो मुनिभिर्व्यासः प्रहस्येदमथाब्रवीत् ।
श्रूयतां भो मुनिश्रेष्ठा यदुक्तं साधुसाध्विति ॥ 6.2.14॥
व्यास उवाच
यत्कृते दशभिर्वर्षैस्त्रेतायां हायनेन तत् ।
द्वापरे तच्च मासेन ह्यहोरात्रेण तत्कलौ ॥ 6.2.15॥
तपसो ब्रह्मचर्यस्य जपादेश्च फलं द्विजाः ।
प्राप्नोति पुरषस्तेन कलिःसाध्विति भाषितम् ॥ 6.2.16॥
ध्यायन्कृते यजन्यज्ञैस्त्रेतायां द्वापरेर्ऽचयन् ।
यदाप्नोति तदाप्नोति कलौ संकीर्त्य केशवम् ॥ 6.2.17॥
धर्मोत्कर्षमतीवात्र प्राप्नोति पुरुषः कलौ ।
अल्पायासेन धर्मज्ञास्तेन तुष्टोस्म्यहं कलेः ॥ 6.2.18 ॥
व्रतचर्यापरैर्ग्राह्या वेदाः पूर्वं द्विजातिभिः ।
ततःस धर्मसंप्राप्तैर्यष्टव्यं विधिवद्धनैः ॥ 6.2.19॥
वृथा कथा वृथा भोज्यं वृथेज्या च द्विजन्मनाम् ।
पतनाय ततो भाव्यं तैस्तु संयमिभिः सदा ॥ 6.2.20 ॥
असम्यक्करणे दोषस्तेषां सर्वेषु वस्तुषु ।
भोज्यपेयादिकं चैषां नेच्छाप्राप्तिकरं द्विजाः ॥ 6.2.21 ॥
पारतन्त्र्यं समस्तेषु तेषां कार्येषु वै यतः ।
जयन्ति ते निजांल्लोकान्क्लेशेन महताद्विजाः ॥ 6.2.22 ॥
द्विजशुश्रूषयैवैष पाकयज्ञाधिकारवान् ।
निजाञ्जयति वै लोकाञ्छूद्रो धन्यतरस्ततः ॥ 6.2.23 ॥
भक्ष्याभक्ष्येषु नास्यास्ति पेयापेयेषु वै यतः ।
नियमो मुनिशार्दूलास्तेनासौ साध्वितीरितः ॥ 6.2.24॥
स्वधर्मस्याविरोधेन नरैर्लब्धं धनं सदा ।
प्रतिपादनीयं पात्रेषु यष्टव्यं च यथाविधि ॥ 6.2.25॥
तस्यार्जने महाक्लेशः पालने च द्विजोत्तमाः ।
तथासद्विनियोगेन विज्ञातं गहनं नृणाम् ॥ 6.2.26॥
एवमन्यैस्तथा क्लेशैः पुरुषा द्विजसत्तमाः ।
निजाञ्जयन्ति वै लोकान्प्राजापत्यादिकान्क्रमात् ॥ 6.2.27॥
योषिच्छुश्रूषणाद्भर्तुः कर्मणा मनसा गिरा ।
तद्धिता शुभमाप्नोति तत्सालोक्यं यतो द्विजाः ॥ 6.2.28 ॥
नातिक्लेशेन महता तानेव पुरुषो यथा ।
तृतीयं व्याहृतं तेन मया साध्विति योषितः ॥ 6.2.29॥
एतद्वः कथितं विप्रायन्निमित्तमिहागतः ।
तत्पृच्छतः यथाकामं सव बक्ष्यामि वः स्फुटम् ॥ 6.2.30 ॥
ऋषयस्ते ततः प्रोचुर्यत्प्रष्टव्यं महामुने ।
अस्मिन्नेव च तत्प्रश्ने यथावत्कथितं त्वया ॥ 6.2.31 ॥
श्रीपराशर उवाच [Sage Parasara said]
ततः प्रहस्य तानाह कृष्णद्वैपायनोमुनिः ।
विस्मयोत्फुल्लनयनांस्तापसांस्तानुपागतान् ॥ 6.2.32 ॥
मयैष भवतां प्रश्रो ज्ञातो दिव्येन चक्षुषा ।
ततोहं वः प्रसंगेन साधुसाध्विति भाषितम् ॥ 6.2.33 ॥
स्वल्पेन हि प्रत्यनेनधर्मःसिध्यति वै कलौ ।
नरैरात्मगुणांभोभिः क्षलिताखिलकिल्बिषैः ॥ 6.2.34॥
शुद्रैश्च द्विजशुश्रूषातत्परैर्द्विजसत्तमाः ।
तथा स्त्रीभिरनाया सात्पतिशुश्रूषयैव हि ॥ 6.2.35॥
ततस्त्रितयमप्येतन्मम धन्यतरं मतम् ।
धर्मसंपादने क्लेशो द्विजातीनां कृतादिषु ॥ 6.2.36॥
भवद्भिर्यदभिप्रेतं तदेतत्कथितं मया ।
अपृष्टेनापि धर्मज्ञाः किमन्यत्क्रियतां द्विजाः ॥ 6.2.37॥
श्रीपराशर उवाच [Sage Parasara said]
ततःसंपूज्य ते व्यासं प्रशशंसुः पुनः पुनः ।
यथागतन्द्विजा जग्मुर्व्यासोक्तिकृतनिश्चयाः ॥ 6.2.38 ॥
भवतोऽपि महाभाग रहस्यं कथितं मया ।
अत्यन्तदुष्टस्य कलेरयमेको महान्मुणः ॥ 6.2.39॥
यच्चाहं भवता पृष्टो जगतामुपसंहृतिम् ।
प्राकृतामन्तरालां च तामप्येष वदामि ते ॥ 6.2.40 ॥
इति श्रीविष्णुमाहपुराणे षष्ठांशे द्वितीयोऽध्यायः (2)
श्रीपराशर उवाच [Sage Parasara said]
सर्वेषामेव भूतानां त्रिविधः प्रतिसंचरः ।
नैमित्तिकः प्राकृतिकः तथैवात्यन्तिको लयः ॥ 6.3.1 ॥
ब्राह्मो नैमित्तिकस्तेषां कल्पान्ते प्रतिसंचरः ।
आत्यन्तिकस्तु मोक्षाख्यः प्राकृतो द्विपरार्धकः ॥ 6.3.2॥
मैत्रेय उवाच
परार्धसंख्यां भगवन्ममाचक्ष्व यया तु सः ।
द्विगुणीकृतया ज्ञेयः प्राकृतः प्रतिसंचरः ॥ 6.3.3 ॥
श्रीपराशर उवाच [Sage Parasara said]
स्थानात्स्थानं दशगुणमेकस्माद्रण्यते द्विज ।
ततोष्टादशमे भागे परार्धमभिधीयते ॥ 6.3.4 ॥
परार्धद्विगुणं यत्तु प्राकृतःस लयो द्विज ।
तदाव्यक्तेखिलं व्यक्तं स्वहेतौ लयमेति वै ॥ 6.3.5॥
निमेषो मानुषो योऽसौ मात्रामात्राप्रमाणतः ।
तैः पञ्चदशभिः काष्ठा त्रिंशत्काष्ठ कला स्मृता ॥ 6.3.6॥
नाडिका तु प्रमाणेन सा कला दश पञ्च च ॥ 6.3.7॥
उन्मानेनांभसःसा तु पलान्यर्धत्रयोदश ।
मागधेन तु मानेन जलप्रस्थस्तु स स्मृतः ।
हेममाषैः कृतच्छिद्रचतुर्भिश्चातुरङ्गुलैः ॥ 6.3.8॥
नाडिकाभ्यामथ द्वाभ्यां मुहूर्तो द्विजसत्तम ।
अहोरात्रं मुहुर्तास्तु त्रिंशन्मासो दिनैस्तथा ॥ 6.3.8 ॥
मासैर्द्वादशभिर्वर्षमहोरात्रं तुतद्दिवि ।
त्रिभिर्वर्षशतैर्वर्षं षष्ट्या चैवासुरद्विषाम् ॥ 6.3.10 ॥
तैस्तु द्वादशसाहस्त्रैश्चतुर्युगमुदाहृतम् ।
चतुर्युगसहस्रं तु कथ्यते ब्रह्मणो दिनम् ॥ 6.3.11 ॥
स कल्पस्तत्र मनवश्चतुर्दश महामुने ।
तदन्ते चैव मैत्रेय ब्राह्मो नेमित्तिको लयः ॥ 6.3.12 ॥
तस्य स्वरूपमत्युग्रं मैत्रेय गदतो मम ।
शृणुष्व प्राकृतं भूयस्तव वक्ष्याम्यहं लयम् ॥ 6.3.13 ॥
चतुर्युगसहस्रान्ते क्षीणप्राये महीतले ।
अनावृष्टिरतीवोग्रा जायते शतवार्षिकी ॥ 6.3.14॥
ततो यान्यल्पसाराणि तानि सत्त्वान्यशेषतः ।
क्षयं यान्ति मुनिश्रेष्ठ पार्थिवान्यनुपीजनात् ॥ 6.3.15॥
ततः सभगवान्विष्णु रुद्ररूपधरोऽव्ययः ।
क्षयाय यतते कर्तुमात्मस्थाःसकलाः प्रजाः ॥ 6.3.16॥
ततः स भगवान् विष्णुर्भानोः सप्तसु रश्मिषु ।
स्थितः पिबत्यशेषाणि जलानि मुनिसप्तम ॥ 6.3.17॥
पीत्वांभांसि समस्तानि प्राणिभूमिगतान्यपि ।
शोषं नयति मैत्रेय समस्तं पृथिवीतलम् ॥ 6.3.18 ॥
समुद्रान्सारितः शैलनदीप्रस्रवणानि च ।
पातालेषु च यत्तोयं तत्सर्वं नयति क्षयम् ॥ 6.3.19॥
ततस्तस्यानुभावेन तोयाहारोपबृंहिताः ।
त एव रश्मयःसप्त जायन्ते सप्त भास्कराः ॥ 6.3.20 ॥
अधश्चोर्ध्वं च ते दीप्ता स्ततःसप्त दिवाकराः ।
दहन्त्यशषं त्रैलोक्यं सपातालतलं द्विज ॥ 6.3.21 ॥
दह्यमानं तु तैर्दीप्तैस्त्रैलोक्यं द्विज भास्करैः ।
साद्रिनद्यर्णवाभोगं निस्नेहमभिजायते ॥ 6.3.22 ॥
ततो निर्दग्धवृक्षांबुत्रैलोक्यमाखितं द्विज ।
भवत्येषा च वसुधा कूर्मपृष्ठोपमाकृतिः ॥ 6.3.23 ॥
ततः कालाग्निरुद्रोऽसौ भूत्वा सर्वहरोऽनलः ।
शेषाहिश्वाससंभूतः पातालानि दहत्यधः ॥ 6.3.24॥
पातालानि समस्तानि स दग्ध्वा ज्वलनो महान् ।
भूमिमभ्येत्य सकलं बभस्ति वसुधातलम् ॥ 6.3.25॥
भुवर्लोकं ततःसर्वं स्वर्लोकं च सुदारुणः ।
ज्वालामालामहावर्तस्तत्रैव परिवर्तते ॥ 6.3.26॥
अंबरीषमिवाभाति त्रैलोक्यमखिलं तदा ।
ज्वालावर्तपरिवारमुपक्षीणचराचरम् ॥ 6.3.27॥
ततस्तापपरीतास्तु लोकद्वयनिवासिनः ।
कृताधिकारागच्छन्ति महर्लोकं महामुने ॥ 6.3.28 ॥
तस्मादपि महातापतप्ता लोकात्ततः परम् ।
गञ्च्छन्ति जनलोकं ते दशावृत्त्या परैषिणः ॥ 6.3.29॥
ततो दग्ध्वा जगत्सर्वं रुद्ररूपीजनार्दनः ।
मुखनिश्वासजान्मेघान्करोति मुनिसत्तम ॥ 6.3.30 ॥
ततो गजकुलप्रख्यास्तडित्वन्तोऽतिनादिनः ।
उत्तिष्ठन्ति तथा व्योम्निघोराःसंवर्तका घनाः ॥ 6.3.31 ॥
केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः ।
धूम्रवर्णा घनाः केचित्केचित्पीताः पयो धराः ॥ 6.3.32 ॥
केचिद्रासभवर्णाभा लाक्षारसनिभास्तथा ।
केचिद्वैडूर्यसंकाशा इन्द्रनीलनिभाः क्वचित् ॥ 6.3.33 ॥
शङ्खकुन्दनिभाश्चान्ये जात्यं जननिभाः परे ।
इन्द्रगोपनिभाः केचित्ततः शखिनिभास्तथा ॥ 6.3.34॥
मनःशिलाभाः केचिद्वै हरितालनिभाः परे ।
चाषपत्रनिभाः केचिदुत्तिष्ठन्ते महाघनाः ॥ 6.3.35॥
केचित्पुरवराकाराः केचित्पर्वतसन्निभाः ।
कूटागारनिभाश्चान्ये केचित्स्थलनिबा घनाः ॥ 6.3.36॥
महारावा महाकायाः पूरयन्ति नभःस्थलम् ।
वर्षन्तस्ते महासारास्तमग्निमतिभैरवम् ।
शमयन्त्यखिलं विप्र त्रैलोक्यान्तरधिष्ठितम् ॥ 6.3.37॥
नष्टे चाग्नौ च सततं वर्षमाणा ह्यहर्निशम् ।
प्लावयन्ति जगत्सर्वमंभोबिर्मुनिसत्तम ॥ 6.3.38 ॥
धाराभिरतिमात्राभिः प्लावयित्वाखिलां भुवम् ।
भुवर्लोकं तथेवोर्धू प्लावयन्ति हि ते द्विज ॥ 6.3.39॥
अन्धकारीकृते लोके नष्टे स्थावरजङ्गमे ।
वर्षति ते महामेघा वर्षाणामधिकं शतम् ॥ 6.3.40 ॥
एवं भवति कल्पान्ते समस्तं मुनिसत्तम ।
वासुदेवस्य माहात्म्यान्नित्यस्य परमात्मनः ॥ 6.3.41 ॥
इति श्रीविष्णुमहापुराणे षष्ठांशे तृतीयोऽध्यायः (3)
श्रीपराशर उवाच [Sage Parasara said]
सप्तर्शिस्थानामाक्रम्य स्थितेंभसि महामुने ।
एकार्णवं भवत्येतत्त्रैलोक्यमखिलं ततः ॥ 6.4.1 ॥
मुखनिश्वासजो विष्णोर्वायुस्ताञ्जलदांस्ततः ।
नाशयन्वाति मैत्रेय वर्षाणामपरं शतम् ॥ 6.4.2॥
सर्वभूतमयोऽचिन्त्यो भगवान्भूतभावनः ।
अनादिरादिर्विश्वस्य पीत्वा वायुमशेषतः ॥ 6.4.3 ॥
एकार्णवे ततस्तस्मिञ्छेषशय्यागतः प्रभुः ।
ब्रह्मरूपधरः शेते भगवानादिकृद्धरिः ॥ 6.4.4 ॥
जनलोकगतैः सिद्धैः समकाद्यैरभिष्टुतः ।
ब्रह्मलोकगतैश्चैव चिन्त्यमानो मुमुक्षुभिः ॥ 6.4.5॥
आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः ।
आत्मानं वासुदेवाख्यं चिन्तयन्मधुसूदनः ॥ 6.4.6॥
एष नैमित्तिको नाम मैत्रेयः प्रतिसंचरः ।
निमित्तं तत्र यच्छेते ब्रह्मरूपधरो हरिः ॥ 6.4.7॥
यदा जागर्ति सर्वात्मा स तदा चेष्टते जगत् ।
निमीलत्येतदखिलं मायाशय्यां गतेऽच्युते ॥ 6.4.8॥
पद्मयोनेर्दिनं यत्तु चतुर्युगसहस्रवत् ।
एकार्णवीकृते लोके तावती रात्रिरिष्यते ॥ 6.4.8 ॥
ततः प्रबुद्धो रात्र्यन्ते पुनःसृष्टिं करोत्यजः ।
ब्रह्मस्वरूपधृग्विष्णुर्यथा ते कथितं पुरा ॥ 6.4.10 ॥
इत्येष कल्पसंहारोऽवान्तरप्रलयो द्विज ।
नैमित्तिकस्ते कथितः प्राकृतः शृण्वतः परम् ॥ 6.4.11 ॥
अनावृष्ट्यादिसंपर्कात्कृते संक्षालने मुने ।
समस्तेष्वेव लोकेषु पातालेष्वखिलेषु च ॥ 6.4.12 ॥
महदादेर्विकारस्य विशेषान्तस्य संक्षये ।
कृष्णेच्छाकारिते तस्मिन्प्रवृत्ते प्रतिसंचरे ॥ 6.4.13 ॥
आपो ग्रसंति वै पूर्वं भूमेर्गन्धात्मकं गुणम् ।
आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते ॥ 6.4.14॥
प्रणष्टे गन्धतन्मात्रे भवत्युर्वी जलात्मिका ।
आपस्तदा प्रवृद्धास्तु वेगवत्यो महास्वनाः ॥ 6.4.15॥
सर्वमापूरयन्तीदं तिष्ठन्ति विचरन्ति च ।
सलिलेनोर्मिमालेन आलोकान्तात्समन्ततः ॥ 6.4.16॥
अपामपि गुणो यस्तु ज्योतिषा पीयते तु सः ।
नश्यन्त्यापस्ततस्ताश्च रसतन्मात्रसंक्षयात् ॥ 6.4.17॥
ततश्चापो हृतरसाज्योतिषं प्राप्नुवन्ति वै ।
अग्नावस्थे तु सलिले तेजसा सर्वतो वृते ॥ 6.4.18 ॥
स चाग्निः सर्वतो व्याप्य चादत्ते तज्जलं तथा ।
सर्वमापूर्यतेर्चिर्भिस्तदा जगदिदं शनैः ॥ 6.4.19॥
अर्चिर्भिः संवृते तस्मिंस्तिर्यगूर्ध्वमधस्तदा ।
ज्योतिषोऽपि परं रूपं वायुरत्ति प्रभाकरम् ॥ 6.4.20 ॥
प्रलीने च ततस्तस्मिन्वायुभूतेऽखिलात्मनि ।
प्रनष्टे रूपतन्मात्रे हृतरूपो विभावसुः ॥ 6.4.21 ॥
प्रशाम्यति तदाज्योतिर्वायुर्देधूयते महान् ।
निरा लोके तथा लोके वाय्ववस्थे च तेजसि ॥ 6.4.22 ॥
ततस्तु मूलमासाद्य वायुःसंभवमात्मनः ।
ऊर्ध्वं चाधश्च तिर्यक्च दोधवीति दिशो दश ॥ 6.4.23 ॥
वायोरपि गुणं स्पर्शमाकाशो ग्रसते ततः ।
प्रशाम्यति ततो वायुः खं तु तिष्ठत्यनावृतम् ॥ 6.4.24॥
अरूपरसमस्पर्शमगन्धं न च मूर्तिमत् ।
सर्वमापूरयच्चैव सुमहात्तत्प्रकाशते ॥ 6.4.25॥
भूतेन्द्रियेषु युगपद्भूतादौ संस्थितेषु वै ।
अबिमानात्मको ह्येष भूतादिस्तामसःस्मृतः ॥ 6.4.27॥
भीतादिं ग्रसते चापि महान्वे बुद्धिलक्षणः ॥ 6.4.28 ॥
उर्वी महंश्च जगतः प्रतिन्तर्बाह्यतस्तथा ॥ 6.4.29॥
एवं सप्त महाबुद्धे क्रमात्प्रकृतयःस्मृताः ।
प्रत्याहारे तु ताःसर्वाः प्रविशन्ति परस्परम् ॥ 6.4.30 ॥
येनेदमावृतं सर्वमण्डमप्सु प्रलीयते ।
सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम् ॥ 6.4.31 ॥
उदकावरणं यत्तु ज्योतिषा पीयते तु तम् ।
ज्योतिर्वायौ लयं याति यात्याकाशे समीरमः ॥ 6.4.32 ॥
आकाशं चैव भूतादिर्ग्रसते तं तथा महान् ।
महान्तमेभिः सहितं प्रकृतिर्ग्रसते द्विज ॥ 6.4.33 ॥
गुमसाम्यमनुद्रिक्तमन्यूनं च महामुने ।
प्रोच्यते प्रकतिर्हेतुः प्रधानङ्कारणं परम् ॥ 6.4.34॥
इत्येषा प्रकृतिःसर्वा व्यक्ताव्यक्तस्वरूपिणी ।
व्यक्तस्वरूपमव्यक्ते तस्मान्मैत्रेय लीयते ॥ 6.4.35॥
एकः शुद्धोऽक्षरो नित्यःसर्वव्यापी तथा पुमान् ।
सोऽप्यंशःसर्वभूतस्य मैत्रेय परमात्मनः ॥ 6.4.36॥
न संति यत्र सर्वेशे नामजात्यादिकल्पनाः ।
सत्तामात्रत्मके ज्ञेये ज्ञानात्मन्यात्मनः परे ॥ 6.4.37॥
तद्ब्रह्म परमं धाम परमात्मा स चेश्वरः ।
स विष्णुःसर्वमेवेदं यतो नावर्तते यतिः ॥ 6.4.38 ॥
प्रकृतिर्या मयाख्याता व्यक्ताव्यक्तस्वरूपिणी ।
पुरुषश्चाप्युभावेतौ लियते परमात्मनि ॥ 6.4.39॥
परमात्मा च सर्वेषामाधारः परमेश्वरः ।
विष्णुनामा स वेदेषु वेदान्तेषु च गीयते ॥ 6.4.40 ॥
प्रवृत्तं च निवृत्तं च द्विविधङ्कर्म वैदिकम् ।
ताभ्यामुभाभ्यां पुरुषैः सर्वमूर्तिःस इज्यते ॥ 6.4.41 ॥
ऋग्यजुःसामभिर्मार्गैः प्रवृत्तेरिज्यते ह्यसौ ।
यज्ञेश्वरो यज्ञपुमान्पुरुषैः पुरुषोत्तमः ॥ 6.4.42 ॥
ज्ञानात्मा ज्ञानयोगेन ज्ञानमूर्तिः स चेज्यते ।
निवृत्ते योगिभिर्मार्गे विष्णुर्मुक्तिफलप्रदः ॥ 6.4.43 ॥
ह्रस्वदीर्घप्लुतैर्यत्तु किञ्चिद्वस्त्वभिधीयते ।
यच्च वाचामविषयं तत्सर्वं विष्णुरव्ययः ॥ 6.4.44॥
व्यक्तःस एव चाव्यक्तःस एव पुरुषोत्तमः ।
परमात्मा च विश्वात्मा विश्वरूपधरोहरिः ॥ 6.4.45॥
व्यक्ताव्यक्तात्मिका तस्मिन्प्रकृतिःसंप्रलीयते ।
पुरुषश्चापि मैत्रेय व्यापिन्यव्याहतात्मनि ॥ 6.4.46॥
द्विपरार्धात्मकः कालः कथितो यो मया तव ।
तदहस्तस्य मैत्रेय विष्णोरीशस्य कथ्यते ॥ 6.4.47॥
व्यक्ते च प्रकृतौ लीने प्रकृत्यां पुरुषे तथा ।
तत्र स्थिते निशा चास्य तत्प्रमाणा महामुने ॥ 6.4.48 ॥
नैवाहस्तस्य न निशा नित्यस्य परमात्मनः ।
उपचारस्तथाप्येष तस्येशस्य द्विजोच्यते ॥ 6.4.49॥
इत्येष तव मैत्रेय कथितः प्राकृतो लयः ।
आत्यन्तिकमथो ब्रह्मन्निबोध प्रतिसंचरम् ॥ 6.4.50 ॥
इति श्रीविष्णुमहापुराणे षष्ठांशे चतुर्थोऽध्यायः (4)
श्रीपराशर उवाच [Sage Parasara said]
आध्यात्मिकादि मैत्रेय ज्ञात्वा तापत्रयं बुधः ।
उत्पन्नज्ञानवैराग्यं प्राप्नोत्यात्यन्तिकं लयम् ॥ 6.5.1 ॥
आध्यात्मिकोपि द्विविधः शरीरो मानसस्तथा ।
शरीरो बहुभिर्भेदैर्भिद्यते श्रुयतां च सः ॥ 6.5.2॥
शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः ।
गुल्मार्शः श्वययुश्वासच्छर्द्यादिभिरनेकधा ॥ 6.5.3 ॥
तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञितैः ।
भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि ॥ 6.5.4 ॥
कामक्रोधभयद्वेषलोभमोहविषादजः ।
शोकासूयावमानेर्ष्यामात्सर्यादिमयस्तथा ॥ 6.5.5॥
मानसोऽपि द्विजश्रेष्ठ तापो भवति नैकधा ।
इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ॥ 6.5.6॥
मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः ।
सरीसृपाद्यैश्च नृणां जायते चाधिभौतिकः ॥ 6.5.7॥
शीतवा तोष्णवार्षाबुबैद्युतादिसमुद्भवः ।
तापो द्विजवरश्रेष्ठैः कथ्यते चाधिदैविकः ॥ 6.5.8॥
गर्भजन्मजराज्ञानमृत्युनारकजं तथा ।
दुःखं सहस्रशो भेदैर्भिद्यते मुनिसत्तम ॥ 6.5.8 ॥
सुकुमारतनुर्गर्भे जन्तुर्बहुमलावृते ।
उल्वसंवेष्टितो भुग्नपृष्ठग्रीवास्थिसंहतिः ॥ 6.5.10 ॥
अत्यम्लकटुतीक्ष्मोष्णलवणैर्मातृभोजनैः ।
अत्यन्ततापैरत्यर्थं वर्धमानातिवेदनः ॥ 6.5.11 ॥
प्रसारणाकुञ्चनादौ नाङ्गानां प्रभुरात्मनः ।
शकृन्मूत्रमहापङ्कशायी सर्वत्र पीडितः ॥ 6.5.12 ॥
निरुच्छ्वासः सचैतन्यः स्मरञ्जन्मशतान्यथ ।
आस्ते गर्भेऽतिदुःखेन निजकर्मनिबन्धनः ॥ 6.5.13 ॥
जायमानः पुरीषासृङ्मूत्रशुक्राविलाननः ।
प्राजापत्येन वातेन पीड्यमानास्थिबन्धनः ॥ 6.5.14॥
अधोमुखो वै क्रियते प्रबलैः सूतिमारुतैः ।
क्लेशान्निष्क्रान्तिमाप्नोति जठरान्मातुरातुरः ॥ 6.5.15॥
मुर्छामवाप्य महतीं संस्पृष्टो बाह्यवायुना ।
विज्ञानभ्रंशमाप्नोति जातश्च मुनिसत्तम ॥ 6.5.16॥
कण्टकैरिव तुन्नाङ्गः क्रकचैरिव दारितः ।
पूतिव्रणान्निपतितो धरण्यां क्रिमिको यथा ॥ 6.5.17॥
कण्डूयनेऽपि चाशक्तः परिवर्तेप्यनीश्वरः ।
स्नानपानादिकाहारमप्याप्नोति परेच्छया ॥ 6.5.18 ॥
अशुचिप्रस्तरे सुप्तः कीटद्रंशादिभिस्तथा ।
भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे ॥ 6.5.19॥
जन्मदुःखान्यनेकानि जन्मनोनन्तरिणी च ।
बालभावे यदा प्नोति ह्याधिभौतादिकानि च ॥ 6.5.20 ॥
अज्ञानतमसाच्छन्नो मूढान्तःकरणो नरः ।
न जानाति कुतः कोहं क्वाहं गन्ता किमात्मनः ॥ 6.5.21 ॥
केनबन्धेन बद्धोहं कारणं किमकारणम् ।
किं कार्यं किमकार्यं वा किं वाच्यं किं च नोच्यते ॥ 6.5.22 ॥
को धर्मः कश्च वाधर्मः कस्मिन्वर्तेऽथ वा कथम् ।
किं कर्तव्यमकर्तव्यं किं वा किङ्गुणदोषवत् ॥ 6.5.23 ॥
एवं पशुसमैर्मुढैरज्ञानप्रभवं महत् ।
अवाप्यते नरैर्दुःखं शिश्रोदरपरायणैः ॥ 6.5.24॥
अज्ञानं तामसो भावः कार्यारंभप्रवृत्तयः ।
अज्ञानिनां प्रवर्तन्ते कर्मलोपास्ततो द्विज ॥ 6.5.25॥
नरकं कर्मणां लोपात्फलमाहुर्मनीषिणः ।
तस्मादज्ञानिनां दुःखमिह चामुत्र चोत्तमम् ॥ 6.5.26॥
जराजर्जरदेहश्च शिथिलावयवः पुमान् ।
विचलच्छीर्णदशनो वलिस्नायुशिरावृतः ॥ 6.5.27॥
दूरप्रनष्टनयनो व्योमान्तर्गततारकः ।
नासाविवलनिर्यातलोमपुञ्जश्चलद्वपुः ॥ 6.5.28 ॥
प्रकटीभूतसर्वास्थिर्नतपृष्ठास्थिसंहतिः ।
उत्सन्नजठराग्नित्वादल्पाहारोऽप्लचेष्टितः ॥ 6.5.29॥
कृच्छ्राच्चङ्क्रमणोत्थानशयनासनचेष्टितः ।
मन्दीभवच्छ्रोत्रनेत्रःस्रवल्लालाविलाननः ॥ 6.5.30 ॥
अनायत्तैः समस्तैश्च करणेर्मरणोन्मुखः ।
तत्क्षणेप्यनुभूतानामस्मर्तऽखिलवस्तुनाम् ॥ 6.5.31 ॥
सकृदुच्चारिते वाक्ये समुद्भूत महाश्रमः ।
श्वासकाशसमुद्भूतमहायासप्रजागरः ॥ 6.5.32 ॥
अन्येनोत्थाप्यतेऽन्येन तथा संवेश्यते जरी ।
भृत्यात्मपुत्रदाराणामवामानास्पदी कृतः ॥ 6.5.33 ॥
प्रक्षीणाखिलशौचश्च विहाराहारसस्पृहः ।
हास्यः परिजनस्यापि निर्विण्णाशेषबान्धवः ॥ 6.5.34॥
अनुभूतमिवान्यस्मिञ्जन्मन्यात्मविचेष्टितम् ।
संस्मरन्यौवने दीर्घं निश्वसत्यभितापितः ॥ 6.5.35॥
एवमादीनि दुःखानि जरायामनुबूय वै ।
मरणे यानि दुःखानि प्राप्नोति शृणुतान्यपि ॥ 6.5.36॥
श्लथद्ग्रीवाङ्घ्रिहस्तेऽथ व्याप्तो वेपथुना भृशम् ।
मुहुर्ग्लानिः परवशो मुहुर्ज्ञानलवान्वितः ॥ 6.5.37॥
हिरण्यधान्यतनयभार्याभृत्यगृहादिषु ।
एते कथं भविष्यन्तीत्यतीव ममताकुलः ॥ 6.5.38 ॥
मर्मभिद्भिर्भहारोगैः क्रकचैरिव दारुणैः ।
शरैरिवान्तकस्योग्रैश्छद्यमानासुबन्धनः ॥ 6.5.39॥
परिवर्तितताराक्षो हस्तपादं मुहुः क्षिपन् ।
संशुष्यमाणताल्वोष्ठपुटो घुरघुरायते ॥ 6.5.40 ॥
निरुद्धकण्ठो दोषौघैरुदानश्वसापीडितः ।
तापेन महता व्याप्तस्तृषा चार्तस्तथा क्षुधा ॥ 6.5.41 ॥
क्लेशादुत्क्रान्तिमाप्नोति यमकिङ्करपीडितः ।
ततश्च यातनादेहं क्लेशेन प्रतिपद्यते ॥ 6.5.42 ॥
एतान्यन्यानि चोग्राणि दुःखानि मरणे नृणाम् ।
शृणुष्व नरके यानि प्राप्यन्ते पुरुषैर्मृतैः ॥ 6.5.43 ॥
याम्यकिङ्करपाशादिग्रहणं दण्डताडनम् ।
यमस्य दर्शनं चोग्रमुग्रमार्गविलोकनम् ॥ 6.5.44॥
करंभवालुकावह्नियन्त्रशस्त्रासिभीषणे ।
प्रत्येकं नरकेयाश्च यातना द्विज दुःसहाः ॥ 6.5.45॥
क्रकचैः पाट्यमानानां मूषायां चापि दह्यताम् ।
कुठारैः कृत्यमानानां भूमौ चापि निखन्यताम् ॥ 6.5.46॥
शूलेष्वारोप्यमाणानं व्याघ्रवक्त्रे प्रवेश्यताम् ।
गृध्रैः संभक्ष्यमाणानां द्वीपिभिश्चोपभूज्यताम् ॥ 6.5.47॥
क्वाथ्यतां तैलमध्ये च क्लिद्यतां क्षारकर्दमे ।
उच्चान्निपात्यमानानां क्षिप्यतां क्षेपयन्त्रकैः ॥ 6.5.48 ॥
नरके यानि दुःखानि पापहेतूद्भवानि वै ।
प्राप्यन्ते नारकैर्विप्र तेषां संख्या न विद्यते ॥ 6.5.49॥
न केवलं द्विजश्रेष्ठ नरके दुःखपद्धतिः ।
स्वगंपि पातभीतस्त क्षयिष्णोर्नास्ति निर्वृतिः ॥ 6.5.50 ॥
पुनश्च गर्भे भवति जायते च पुनः पुनः ।
गर्भे विलीयते भूयो जायमानोऽस्तमेति वै ॥ 6.5.51 ॥
जातमात्रश्च म्रियते बालभावेऽथ यौवने ।
मध्यमं वा वयः प्राप्य वार्धके वाथ वा मृतिः ॥ 6.5.52 ॥
यावज्जीवति तावच्च दुःखैर्नानाविधैः प्लुतः ।
तं तु कारणपक्ष्मौघैरास्ते कार्पासबीजवत् ॥ 6.5.53 ॥
द्रव्यनाशे तथोत्पत्तौ पालने च सदा नृणाम् ।
भवन्त्यनेकदुःखानि तथैवेष्टविपत्तिषु ॥ 6.5.54॥
यद्यत्प्रीतिकरं पुंसां वस्तु मैत्रेय जायते ।
तदेव दुःखवृक्षस्य बीजत्वमुपगच्छति ॥ 6.5.55॥
कलत्रपुत्रमित्रार्थगृहक्षेत्रधनादिकैः ।
क्रियते न तथा भूरि सुखं पुंसां यथा सुखम् ॥ 6.5.56॥
इति संसारदुःखार्कतापतापितचेतसाम् ।
विमुक्तिपादपच्छायामृते कुत्र सुखं नृणाम् ॥ 6.5.57॥
तदस्य त्रिविधस्तऽपि दुःखजातस्य वै मम ।
गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः ॥ 6.5.58 ॥
निरस्तातिशयाह्लादसुखभावैकलक्षणा ।
भेषजं भगवत्प्राप्तिरेकान्तात्यन्तिकी मता ॥ 6.5.59॥
तस्मात्तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर्नरैः ।
तत्प्राप्तिहेतुर्ज्ञानं च कर्म चोक्तं महामुने ॥ 6.5.60 ॥
आगमोत्थं विवेकाच्च द्विधा ज्ञानं तदुच्यते ।
शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ॥ 6.5.61 ॥
अन्धं तम इवाज्ञानं दीपवच्चेन्द्रियोद्भवम् ।
यथा सूर्यस्तथा ज्ञानं यद्विप्रर्षे विवेकजम् ॥ 6.5.62 ॥
मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिसत्तम ।
तदेतच्छ्रूयतामत्र संबन्धे गदतो मम ॥ 6.5.63 ॥
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ 6.5.64॥
द्वे वै विद्ये वेदितव्ये इति चाथर्वणी श्रुतिः ।
परया त्वक्षरप्राप्तिरृग्वेदादिमयापरा ॥ 6.5.65॥
यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम् ।
अनिर्देश्यमरूपं च पाणिपादाद्यसंयुतम् ॥ 6.5.66॥
विभु सर्वगतं नित्यं भूतयोनिरकारणम् ।
व्याप्य व्याप्तं यतः सर्वं यद्वै पश्यन्ति सूरयः ॥ 6.5.67॥
तद्ब्रह्म तत्परं धाम तद्ध्येयं मोक्षकांक्षिभिः ।
श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ॥ 6.5.68 ॥
तदेव भगवद्वाच्यं स्वरूपं परमात्मनः ।
वाचको भगवच्छब्दस्तस्याद्यस्वाक्षयात्मनः ॥ 6.5.69॥
एवं निगदितार्थस्त तत्तत्त्वं तस्य तत्त्वतः ।
ज्ञायते येन तज्ज्ञानं परमन्यत्त्रयीमयम् ॥ 6.5.70 ॥
अशब्दगोचरस्यापि तस्य वै ब्रह्मणो द्विज ।
पूजायां भगवच्छब्दः क्रियते ह्युपचारतः ॥ 6.5.71 ॥
शुद्धे महाविभूत्वाख्ये परे ब्रह्मणि शब्दिते ।
मैत्रेय भगवच्छब्दःसर्वकारणकारणे ॥ 6.5.72 ॥
संभर्तेति तथा भर्ता भकारोर्थद्वयान्वितः ।
नेता गमयता स्रष्टा गकारार्थस्तथा मुने ॥ 6.5.73 ॥
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ 6.5.74॥
वसंति तत्र भूतानि भूतात्मन्यखिलात्मनि ।
स च भूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः ॥ 6.5.75॥
एवमेष महाञ्छब्दो मैत्रेय भगवानिति ।
परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥ 6.5.76॥
तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः ।
शब्दोऽयं नोपचारेण त्वन्यत्र ह्युपचारतः ॥ 6.5.77॥
उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् ।
वेत्ति विद्यामाविद्यां च स वाच्यो भगवानिति ॥ 6.5.78 ॥
ज्ञानशक्तिबलैश्वयवीर्यतेजांस्यशेषतः ।
भगवच्छब्दवाच्याति विना हेयैर्गुणादिभिः ॥ 6.5.79॥
सर्वाणि तत्र भूतानि वसांति परमात्मनि ।
भूतेषु च स सर्वात्मा वासुदेवस्ततः स्मृतः ॥ 6.5.80 ॥
खाण्डिक्यजनकायाह पृष्टः केशिध्वजः पुरा ।
नाभव्याख्यामनन्तस्य वासुदेवस्य तत्त्वतः ॥ 6.5.81 ॥
भूतेषु वसते सोंऽतर्वसंत्यत्र च तानि यत् ।
धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥ 6.5.82 ॥
स सर्वभूतप्रकृतिं विकारान्गुणादिदोशांश्च मुने व्यतीतः ।
अतीतसर्वावरणोखिलात्मा तेनास्तृतं यद्भुवनान्तराले ॥ 6.5.83 ॥
समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशावृतभूतवर्गः ।
इच्छागृहीताभिमतोरुदेहःसंसाधिताशेषजगद्वितो यः ॥ 6.5.84॥
तेजोबलैश्वर्यमहावबोध सुवीर्यशक्त्यादिगुणैकराशिः ।
परः पराणां सकला न यत्र क्लेशादयःसंति परावरेशे ॥ 6.5.85॥
स ईश्वरो व्यष्टिसमष्टिरूपो व्यक्तस्वरूपः ।
सर्वेश्वरःसर्वदृक्सर्वविच्च समस्तशक्तिः परमेश्वराख्यः ॥ 6.5.86॥
संज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेकरूपम् ।
संदृश्यते वाप्यवगम्यते वा तज्ज्ञानमज्ञानमतोन्यदुक्तम् ॥ 6.5.87॥
इति श्रीविष्णुमहापुराणे षष्ठांशे पञ्चमोऽध्यायः (5)
श्रीपराशर उवाच [Sage Parasara said]
स्वाध्यायसंयमाभ्यां स दृश्यते पुरुषोत्तमः ।
तत्प्राप्तिक ारणं ब्रह्म तदेतदिति पठ्यते ॥ 6.6.1 ॥
स्वाध्यायाध्योगमासीत योगात्स्वाध्यायमावसेत् ।
स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते ॥ 6.6.2॥
तदीक्षणाय स्वाध्यायश्चक्षुर्योगस्तथा परम् ।
न मां स चक्षुषा द्रष्टुं ब्रह्मभूतःस शक्यते ॥ 6.6.3 ॥
मैत्रेय उवाच
भगवंस्तमहं योगं ज्ञातुमिच्छामि तं वद ।
ज्ञाते यत्राखिलाधारं पश्येयं परमेश्वरम् ॥ 6.6.4 ॥
श्रीपराशर उवाच [Sage Parasara said]
यथा केशिध्वजः प्राह खाण्डिक्याय महात्मने ।
नजकाय पुरा योग तमहं कथयामि ते ॥ 6.6.5॥
मैत्रेय उवाच
खाण्डिक्य कोऽभवद्ब्रह्मन्को वा केशिध्वजः कृती ।
कथं तयोश्च संवादो योगसंबन्धकारणात् ॥ 6.6.6॥
श्रीपराशर उवाच [Sage Parasara said]
धर्मध्वजो वै जनक स्तस्य पुत्रोऽमितध्वजः ।
कृतध्वजश्च नाम्नासीत्सदाध्यात्मरतिर्नृपः ॥ 6.6.7॥
कृतध्वजस्य पुत्रोऽभूत्ख्यातः केशिध्वजो नृपः ।
पुत्रोमितध्वजस्यापि खाण्डिक्यजनकोऽभवत् ॥ 6.6.8॥
कर्ममार्गेण खाण्डिक्यः पृतिव्यामभवत्पतिः ।
केशिध्वजोऽप्यतीवासीदात्मविद्याविशारदः ॥ 6.6.8 ॥
तावुभावपि चैवास्तां विजिगीषू परस्परम् ।
केशिध्यजेन खाण्डिक्यःस्वराज्यादवरोपितः ॥ 6.6.10 ॥
पुरोधसा मन्त्रिभिश्च समवेतोऽल्पसाधनः ।
राज्यान्निराकृतःसोऽथ दुर्गारण्यचरोऽभवत् ॥ 6.6.11 ॥
इयाह सोऽपि सुबहून्यज्ञाञ्ज्ञानव्यपाश्रयः ।
ब्रह्मविद्यामधिष्ठाय तर्त्तु मृत्युमविद्यया ॥ 6.6.12 ॥
एकदा वर्त्तमानस्य यागो योगविदां वर ।
घर्मधेनुं जघानोग्रः शार्दुलो विजने वने ॥ 6.6.13 ॥
ततो राजा हतां श्रुत्वा धनुं व्याघ्रेण चर्त्विजः ।
प्रायश्चितं स पप्रच्छ किमत्रेति विधीयताम् ॥ 6.6.14॥
तेप्यूचुर्न वयं विद्म कशेरुः पृच्छतामिति ।
कशेरुरपि तेनोक्तस्तथैव प्राह भार्गवम् ॥ 6.6.15॥
शुनकं पृच्छ राजैन्द्र नाहं वेद्मि स वेत्स्यति ।
स गत्वा कमपृच्छच्च सोऽप्याह शृणु यन्मुने ॥ 6.6.16॥
न केशरुर्न चैवाहं न चैकःसांप्रतं भुवि ।
वेत्त्येक एव त्वच्छत्रुः खाण्डिक्यो यो जितस्त्वया ॥ 6.6.17॥
स चाह तं व्रजाम्येष प्रष्टुमात्मरीपुं मुने ।
प्राप्त एव महायज्ञो यदि मां स हनिष्यति ॥ 6.6.18 ॥
प्रायश्चित्तमशेषेण स चेत्पृष्टो वदिष्यति ।
ततश्चाविकलो योगो मुनिश्रेष्ठ भविष्यति ॥ 6.6.19॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्त्वा रथमारुह्य कृष्णाजिनधरो नृपः ।
वनं जगाम यत्रास्ते स खाण्डिक्यो महामतिः ॥ 6.6.20 ॥
तमापतन्तमालोक्य खाण्डिक्यो रिपुमात्मनः ।
प्रोवाच क्रोधताम्राक्षःसमारोपितकार्मुकः ॥ 6.6.21 ॥
खाण्डिक्य उवाच
कृष्णाजिनं त्वं कवचमाबध्यास्मान्हनिष्यसि ।
कृष्णाजिनधरे वेत्सि न मयि प्रहरिष्यति ॥ 6.6.22 ॥
मृगाणां वद पृष्ठेषु मूढ कृष्णाजिनं न किम् ।
येषां मया त्वाय चोग्राः प्रहिताः शितसायकाः ॥ 6.6.23 ॥
स त्वामहं हनिष्यामि न मे जीवन्विमोक्ष्यसे ।
आतताय्यसि दुर्बुद्धे मम राज्यहरो रिपुः ॥ 6.6.24॥
केशिध्वज उवाच
खाण्डिक्य संशयं प्रष्टुं भवन्तमहामागतः ।
न त्वां हन्तुं विचार्यैतत्कोपं बाणं विमुञ्च वा ॥ 6.6.25॥
श्रीपराशर उवाच [Sage Parasara said]
ततःस मन्त्रिभिः सार्धमेकान्ते सपुरोहितः ।
मन्त्रयामास खाण्डिक्यःसर्वैरेव महामतिः ॥ 6.6.26॥
तमूचुर्मत्रिणो वध्यो रिपुरेष वशं गतः ।
हतेऽस्मिन् पृथिवी सर्वा तव वश्या भविष्यति ॥ 6.6.27॥
खाण्डिक्यश्चाह तान्सर्वानेवमेतन्न संशयः ।
हतेस्मिन्पृतिवी सर्वा मम वश्या भविष्यति ॥ 6.6.28 ॥
परलोकजयस्तस्य पृथिवी सकला मम ।
न हन्मि चेल्लोकजयो मम तस्य वसुंधरा ॥ 6.6.29॥
नाहं मन्ये लोकजयादधिका स्याद्वसुंधरा ।
परलोकजयोऽनन्तःस्वल्पकालो महीजयः ॥ 6.6.30 ॥
तस्मान्नैनं हनिष्यामि यत्पृच्छति वदामि तत् ॥ 6.6.31 ॥
श्रीपराशर उवाच [Sage Parasara said]
ततस्तमब्युपेत्याह खाण्डिक्यजनको रिपुम् ।
प्रष्टव्यं यत्त्वाय सर्वं तत्पृच्छस्व वदाम्यहम् ॥ 6.6.32 ॥
श्रीपराशर उवाच [Sage Parasara said]
ततः सर्वं यथावृत्तं घर्मधेनुवधं द्विज ।
कथांयत्वा स पप्रच्छ प्रायश्तित्तं हि तद्गतम् ॥ 6.6.33 ॥
स चाचष्ट यथान्यायं द्विज केशिध्वजाय तत् ।
प्रायश्चित्तमशेषेण यद्धै तत्र विधीयते ॥ 6.6.34॥
विदितार्थःस तेनैव ह्यनुज्ञातो महात्मना ।
यागभूमिमुपागम्य चक्रे सर्वाः क्रियाः क्रमात् ॥ 6.6.35॥
क्रमेण विधिवद्यागं नीत्वा सोऽवभृथाप्लुतः ।
कृतकृत्यस्ततो भूत्वा चिन्तयामास पार्थिवः ॥ 6.6.36॥
पूजिताश्च द्विजाःसर्वे सदस्या मानिता मया ।
तथैवार्थिजनोऽप्यर्थैर्योऽर्जितोऽभिमतैर्मया ॥ 6.6.37॥
यथार्हमस्य लोकस्य मया सर्वं विचेष्टितम् ।
अनिष्पन्नक्रियं चेतस्तथापि मम किं यथा ॥ 6.6.38 ॥
इत्थं संचिन्तयन्नैव सस्मार स महीपतिः ।
खाण्डिक्याय न दत्तेति मया वै गुरुदक्षिणा ॥ 6.6.39॥
स जगाम तदा भूयो रथमारुह्य पार्थिवः ।
मैत्रेय दुर्गगहनं खाण्डिक्यो यत्र संस्थितः ॥ 6.6.40 ॥
खाण्डिक्योऽपि पुनर्दृष्ट्वा तमायान्तं धृतायुधम् ।
तस्थौ हन्तुं कृतमतिस्तमाह स पुनर्नृपः ॥ 6.6.41 ॥
भो नाहं तेऽपराधाय प्राप्तः खाण्डिक्य मा क्रुद्धाः ।
गुरोर्निक्रयदानाय मामवेहि त्वमागतम् ॥ 6.6.42 ॥
निष्पादितो मया यागः सम्यक्त्वदुपदेशतः ।
सोऽहं ते दातुमिच्छामि वृणीष्व गुरुदक्षिणाम् ॥ 6.6.43 ॥
श्रीपराशर उवाच [Sage Parasara said]
भूयस्य मन्त्रिभिः सार्धं मन्त्रयामास पार्थिवः ।
गुरुनिष्क्रयकामोऽयं किं मया प्रार्थ्यतामिति ॥ 6.6.44॥
तमूचुर्मत्रिणो राज्यमशंषं प्रार्थ्यतामयम् ।
शत्रिभिः प्रार्थ्यते राज्यमना यासितसैनिकैः ॥ 6.6.45॥
प्रहस्य तानाह नृपःस खाण्डिक्यो महामतिः ।
स्वल्पकालं महीपाल्यं मादृशैः प्रार्थ्यते कथम् ॥ 6.6.46॥
एवमेतद्भवन्तोऽत्र ह्यर्थसाधनमन्त्रिणः ।
परमार्थः कथं कोऽत्र यूयं नात्र विचक्षणाः ॥ 6.6.47॥
श्रीपराशर उवाच [Sage Parasara said]
इत्युक्त्वा समुपेत्यैनं स तु केशिध्वजं नृपः ।
उवाच किमवश्यं त्वं ददासि गुरुदक्षिणाम् ॥ 6.6.48 ॥
बाढमित्येव तेनोक्तः खाण्डिक्यस्तमथाब्रवीत् ।
भवानद्यात्म विज्ञानपरमार्थविचक्षणः ॥ 6.6.49॥
यदि चेद्दीयते मह्यं भवता गुरुनिष्क्रयः ।
तत्क्लेशप्रशमायालं यत्कर्म तदुदीरय ॥ 6.6.50 ॥
इति श्रीविष्णुमहापुराणे षष्ठांशे षष्ठोध्यायः (6)
केशिध्वज उवाच
न प्रार्थितं त्वया कस्मादस्मद्राज्यमकण्टकम् ।
राज्यलाभाद्विना नान्यत्क्षत्रियाणा मतिप्रियम् ॥ 6.7.1 ॥
खाण्डिक्य उवाच
केशिध्वज निबोध त्वं मया न प्रार्थितं यतः ।
राज्यमेतदशेषं ते यत्र गृध्नन्त्यपण्डिताः ॥ 6.7.2॥
क्षत्रियाणामयं धर्मो यत्प्रजापरिपालनम् ।
वधश्च धर्मयुद्धेन स्वराज्यपरिपन्थिनाम् ॥ 6.7.3 ॥
तत्राशक्तस्य मे दोषो नैवास्त्यपहृते त्वया ।
बन्धायैव भवत्येषा ह्यविद्याप्यक्रमोज्झिता ॥ 6.7.4 ॥
अल्पोपभोगलिप्सार्थमियं राज्यस्पृहा मम ।
अन्येषां दोषज सैव धर्मं वै नानुरुध्यते ॥ 6.7.5॥
न याच्ञा क्षत्रबन्धूनां धर्मयैतत्सतां मतम् ।
अतो न याचितं राज्यमविद्यान्तर्गतं तव ॥ 6.7.6॥
राज्ये गृध्नन्त्यविद्वांसो ममत्वाहृतचेतसः ।
अहंमानमहापानमदमत्ता न मादृशाः ॥ 6.7.7॥
श्रीपराशर उवाच [Sage Parasara said]
प्रहृष्टःसाध्विति ततः प्राह केशिध्वजो नृपः ।
खाण्डिक्यजनकं प्रीत्या श्रूयतां वचनं मम ॥ 6.7.8॥
केशिध्वज उवाच
अहं ह्यविद्यया कृत्युं तर्तुकामः करोमि वै ।
राज्यं यागांश्च विविधान्योगैः पुण्यक्षयं तथा ॥ 6.7.8 ॥
तदिदं ते मनो दिष्ट्या विवेकैश्वर्यतां गतम् ।
तच्छ्रूयतामविद्यायाःस्वरूपं कुलनन्दन ॥ 6.7.10 ॥
अनात्मन्यात्मबुद्धिर्या चास्वे स्वमिति या मतिः ।
संसारतरुसंभूतिबीजमेतद्द्विधा स्थितम् ॥ 6.7.11 ॥
पञ्चभूतात्मके देहे देही मोहतमोवृतः ।
अहं ममैतदित्युच्चैः कुरुते कुमतिर्मतिम् ॥ 6.7.12 ॥
आकाशवाय्वग्निजलपृथिवीभ्यः पृथक्स्थिते ।
आत्मन्यात्ममयं भावं कः करोति कलेवरे ॥ 6.7.13 ॥
कलेवरोपभोग्यंहि गृहक्षेत्रादिकं च कः ।
अदेहे ह्यात्मनि प्राज्ञे ममेदमिति मन्यते ॥ 6.7.14॥
इत्थं च पुत्त्रपौत्त्रेषु तद्देहोत्पादितेषु कः ।
करोति पण्डितःस्वाम्यमनात्मनि कलेवरे ॥ 6.7.15॥
सर्वं देहोपभोगाय कुरुते कर्म मानवः ।
देहश्चान्यो यदा पुंसस्तदा बन्धाय तत्परम् ॥ 6.7.16॥
मृण्मयं हि यथा गेहं लिप्यते वै मृदंभसा ।
पार्थिवोऽयं तथा देहो मृदंब्वालेपनस्थितः ॥ 6.7.17॥
पञ्जभूतत्मकैर्भोगोः पञ्चभूतात्मकं वपुः ।
आप्यायते यदि ततः पुंसो भोगोऽत्र किं कृतः ॥ 6.7.18 ॥
अनेकजन्मसाहस्रीं संसारपदवीं व्रजन् ।
मोहश्रमं प्रयातोऽसौ वासनरेमुकुण्ठितः ॥ 6.7.19॥
प्रक्षाल्यते यदा सोस्य रेणुज्ञानोष्णवारिणा ।
तदा संसारपान्थस्य याति मोहश्रमः शमम् ॥ 6.7.20 ॥
मोहश्रमे शमं याते स्वस्थान्तःकरणः पुमान् ।
अनन्यातिशयाबाधं परं निर्वाणमृच्छति ॥ 6.7.21 ॥
निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः ।
दुःखाज्ञानमया धर्माः प्रकृतेस्ते तु नात्मनः ॥ 6.7.22 ॥
जलस्य नाग्निसंसर्गस्थालीसंगात्तथापि हि ।
शब्दोद्रेकादिकान्धर्मांस्तत्करोति यथा नृप ॥ 6.7.23 ॥
तथात्मा प्रकृतेःसंगादहंमानादिदूषितः ।
भजते प्राकृतान् धर्मानन्यस्तेभ्यो हि सोऽव्ययः ॥ 6.7.24॥
तदेतत्कथितं बीजमविद्याया मया तव ।
क्लेशानां च क्षयकरं योगादन्यन्न विद्यते ॥ 6.7.25॥
खाण्डिक्य उवाच
तं ब्रवीहि महाभाग योगं योगविदुत्तम ।
विज्ञातयोगशास्त्रार्थस्त्वमस्यां निमिसंततौ ॥ 6.7.26॥
केशिध्वज उवाच
योगस्वरूपं खाण्डिक्य श्रूयतां गदतो मम ।
यत्र स्थितो न च्यवते प्राप्य ब्रह्मलयं मुनिः ॥ 6.7.27॥
मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
बन्धाय विषयासंगि मुक्त्यै निर्विषयं मनः ॥ 6.7.28 ॥
विषयेभ्यः समाहृत्य विज्ञानात्मामनो मुनिः ।
चिन्तयेन्मुक्तये तेन ब्रह्मभूतं परेश्वरम् ॥ 6.7.29॥
आत्मभावं नयत्येनं तद्बह्य ध्यायिनं मुनिम् ।
विकार्यमात्मनः शक्त्या लोहमाकर्षको यथा ॥ 6.7.30 ॥
आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः ।
तस्य ब्रह्मणि संयोगो योग इत्यभिधीयते ॥ 6.7.31 ॥
एवमत्यन्तवैशिष्ट्ययुक्तधर्मोपलक्षणः ।
यस्य योगःस वै योगी मुमुक्षुरभिधीयते ॥ 6.7.32 ॥
योगयुक्प्रथमं योगी युञ्जानो ह्यभिधीयते ।
विनिष्पन्नसमाधिस्तु परं ब्रह्मोपलब्धिमान् ॥ 6.7.33 ॥
यद्यन्तरायदोषेण दूष्यते चास्य मानसम् ।
जन्मान्तरैरभ्यसतो मुक्तिः पुर्वस्य जायते ॥ 6.7.34॥
विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनि ।
प्राप्नोति योगी योगाग्निदग्धकर्मचयोऽचिरात् ॥ 6.7.35॥
ब्रह्मचर्यमहिंसां च सत्यास्तेयापरिग्रहान् ।
सेवेत योगी निष्कामो योग्यतां स्वमनो नयन् ॥ 6.7.36॥
स्वाध्यायशौचसंतोषतपांसि नियतात्मवान् ।
कुर्वीत ब्रह्मणि तथा परस्मिन्प्रवणंमनः ॥ 6.7.37॥
एते यमाःसनियमाः पञ्च पञ्च च कीर्तिताः ।
विशिष्टफलदाः काम्या निष्कामानां विमुक्तिदाः ॥ 6.7.38 ॥
एकं भद्रासनादीनां समास्थाय गुणैर्युतः ।
यमाख्यैर्नियमाख्यैश्च युञ्जीत नियतो यतिः ॥ 6.7.39॥
प्राणाख्यमनिलं वश्यमभ्यासात्कुरुते तु यत् ।
प्राणायामःसविज्ञेयःसबीजोऽबीज एव च ॥ 6.7.40 ॥
परस्परेणाभिभवं प्राणापानौ यथानिलौ ।
कुरुतःसद्विधानेन तृतीयःसंयमात्तयोः ॥ 6.7.41 ॥
तस्य चालंबनवतः स्थूलरूपं द्विजोत्तम ।
आलंबनमनन्तस्य योगिनोऽभ्यसतः स्मृतम् ॥ 6.7.42 ॥
शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् ।
कुर्याच्चित्तानुकारीणि प्रत्याहारपरायणः ॥ 6.7.43 ॥
वश्यता परमा तेन जायतेति चलात्मनाम् ।
इन्द्रियाणामवश्यैस्तैर्न योगी योगसाधकः ॥ 6.7.44॥
प्राणयामेन पवने प्रत्याहारेण चेन्द्रिये ।
वशीकृते ततः कुर्यात्स्थितं चेतः शुभाश्रये ॥ 6.7.45॥
खाडिक्य उवाच
कथ्यतां मे महाभागा चेतसो यः शुभाश्रयः ।
यदाधारमशेषं तद्धन्ति दोषमलोद्भवम् ॥ 6.7.46॥
केशिध्वाज उवाच
आश्रयश्चेतसो ब्रह्म द्विधा तच्चस्वभावतः ।
भूप मूर्तममूर्तं च परं चापरमेव च ॥ 6.7.47॥
त्रिविधा भावना भूप विश्वमेतन्निबोधताम् ।
ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका ॥ 6.7.48 ॥
कर्मभावात्मिका ह्येकाब्रह्मभावात्मिका परा ।
उभयात्मिका तथैवान्या त्रिविधा भावभावना ॥ 6.7.49॥
सनन्दनादयो ये तु ब्रह्मभावनया युताः ।
कर्मभावनया चान्ये देवाद्याः स्थावरावराः ॥ 6.7.50 ॥
हिरण्यगर्भादिषु च ब्रह्मकर्मात्मिका द्विधा ।
बोधाधिकारयुक्तेषु विद्यते भावभावना ॥ 6.7.51 ॥
अक्षीणेषु समस्तेषु विशेषज्ञानकर्मसु ।
विश्वमेतत्परं चान्यद्भेदभिन्नदृशां नृणाम् ॥ 6.7.52 ॥
प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम् ।
वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥ 6.7.53 ॥
तच्च विष्णोः परं रूपमरूपाख्यमनुत्तमम् ।
विश्वस्वरूपवैरूप्यलक्षणं परमात्मनः ॥ 6.7.54॥
न तद्योगयुजा शक्यं नृप चिन्तयितुंयतः ।
ततःस्थूलं हरे रूपं चिन्तयेद्विश्वगोचरम् ॥ 6.7.55॥
हिरण्यगर्भो भगवान्वासुदेवः प्रजापतिः ।
मरुतो वसवो रुद्रा भास्करास्तारका ग्रहाः ॥ 6.7.56॥
गन्धर्वयक्षदैत्याद्यःसकला देवयोनयः ।
मनुष्याः पशवः शैलाःसमुद्राःसरितो द्रुमाः ॥ 6.7.57॥
भूप भूतान्यशेषाणि भूतानां ये च हेतवः ।
प्रधानादिविशेषान्तं चेतनाचेतनात्मकम् ॥ 6.7.58 ॥
एकपादं द्विपादं च बहुपादमपादकम् ।
मूर्तमेतद्धरे रूपं भावनात्रितयात्मकम् ॥ 6.7.59॥
एतत्सर्वमिदं विश्वं जगदेतच्चराचरम् ।
परब्रह्मस्वरूपस्य विष्णोः शक्तिसमन्वितम् ॥ 6.7.60 ॥
विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा ।
अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते ॥ 6.7.61 ॥
यया क्षेत्रज्ञशक्तिःसा वेष्टिता नृपसर्वगा ।
संसारतापानखिलानवाप्रोत्यतिसंततान् ॥ 6.7.62 ॥
तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता ।
सर्वभूतेषु भूपाल तारतम्येनलक्ष्यते ॥ 6.7.63 ॥
अप्राणवत्सुस्वल्पा सा स्थावरेषु ततोऽधिका ।
सरीसृपेषु तेभ्योपि ह्यतिशक्त्या पतत्त्रिषु ॥ 6.7.64॥
पातत्त्रिंभ्यो मृगास्तेभ्यस्तच्छक्त्या पशवोऽधिकाः ।
पशुभ्यो मनुजाश्चातिशक्त्या पुंसः प्रभाविताः ॥ 6.7.65॥
तेभ्योपि नागगन्धर्वयक्षाद्या देवता नृप ॥ 6.7.66॥
शक्रःसमस्तदेवेभ्यस्ततश्चातिप्रजापतिः ।
हिरण्यगर्भोऽपि ततः पुंसः शक्त्युपलक्षितः ॥ 6.7.67॥
एतान्यशेषरूपाणि तस्य रूपाणि पार्थिव ।
यतस्तच्छक्तियोगेन युक्तानि नभसा यथा ॥ 6.7.68 ॥
द्वितीयं विष्णुसंज्ञस्य योगिध्येयं महामते ।
अमूर्तं ब्रह्मणो रूपं यत्सदित्यु च्यते बुधैः ॥ 6.7.69॥
समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः ।
तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् ॥ 6.7.70 ॥
समस्तशक्तिरूपाणि तत्करोति जनेश्वर ।
देवतिर्यङ्मनुष्यादिचेष्टावन्ति स्वलीलया ॥ 6.7.71 ॥
जगतामुपकाराय न सा कर्मनिमित्तजा ।
चेष्टा तस्याप्रमेयस्य व्यापिन्यव्याहतात्मिका ॥ 6.7.72 ॥
तद्रूपं विश्वरूपस्य तस्य योगयुजा नृप ।
चिन्त्यमात्मविशुद्ध्यर्थं सर्वकिल्बिषनाशनम् ॥ 6.7.73 ॥
यथाग्निरुद्धतशिखः कक्षं दहति सानिलः ।
तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ॥ 6.7.74॥
तस्मात्समस्तशक्तीनामाधारे तत्र चेतसः ।
कुर्वीत संस्थितिं सा तु विज्ञेया शुद्धधारणा ॥ 6.7.75॥
शुभाश्रयस्य चित्तस्य सर्वगस्याचलात्मनः ।
त्रिभावभाघनातीतो मुक्तये योगिनो नृप ॥ 6.7.76॥
अन्ये तु पुरुषव्याघ्र चेतसो ये व्यापाश्रयाः ।
अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः ॥ 6.7.77॥
मूर्तं भगवतो रूपं सर्वापाश्रयनिस्पृहम् ।
एषा वै धारण प्रोक्ता यच्चित्तं तत्र धार्यते ॥ 6.7.78 ॥
यच्च मूर्तं हरे रूपं यादृक्चिन्त्यं नराधिप ।
तच्छ्रूयतामनाधारा धारमा नोपपद्यते ॥ 6.7.79॥
प्रसन्नवदनं चारुपद्मपत्रोपमेक्षणम् ।
सुकपोलं सुविस्तीर्णललाटफलकोज्ज्वलम् ॥ 6.7.80 ॥
समकर्णान्तविन्यस्तचारुकुण्डलभूषणम् ।
कंबुग्रीवं सुवीस्तीर्णश्रीवत्सांकितवक्षसम् ॥ 6.7.81 ॥
वलित्रिभङ्गिना मग्ननाभिना ह्युदरेण च ।
प्रलंबाष्टभुजं विष्णुमथवापि चतुर्भुजम् ॥ 6.7.82 ॥
समस्थितोरुजङ्घं च सुस्थिताङ्घ्रिवरांबुजम् ।
चिन्तयेद्ब्रह्मभूतं तं पीतनिर्मलवाससम् ॥ 6.7.83 ॥
किरीटहारकेयूरकटकादिविभूषितम् ॥ 6.7.84॥
शार्ङ्गशङ्खगदाखड्गचक्राक्षवलयान्वितम् ।
वरदाभयहस्तं च मुद्रिकारत्नभूषितम् ॥ 6.7.85॥
चिन्तयेत्तन्मयो योगी समाधायात्ममानसम् ।
तावद्यावदृढीभूता तत्रैव नृप धारणा ॥ 6.7.86॥
व्रजतस्तिष्ठतोन्यद्वा स्वेच्छया कर्म कुर्वतः ।
नापयाति यदा चित्तत्सिद्धां मन्येत तां तदा ॥ 6.7.87॥
ततः शङ्खगदाचक्रशर्ङ्गीदिरहितं बुधः ।
चिन्तयेद्भगवद्रूपं प्रशान्तं साक्षसूत्रकम् ॥ 6.7.88 ॥
सा यदा धारणा तद्वदवस्थानवती ततः ।
किरिटकेयूरमुखैर्भूषणै रहितं स्मरेत् ॥ 6.7.89॥
तदेकावयवं देवं चेतसा हि पुनर्बुधः ।
कुर्यात्ततोऽवयविनि प्रणिधानपरो भवेत् ॥ 6.7.90 ॥
तद्रूपप्रत्यया चैका संततिश्चान्यनिःस्पृहा ।
तद्ध्यानं प्रथमैरङ्गैः षड्भिर्निष्पाद्यते नृप ॥ 6.7.91 ॥
तस्यैव कल्पनाहीनं स्वरूपग्रहणं हियत् ।
मनसा ध्याननिष्पाद्यं समाधिःसोऽभिधीयते ॥ 6.7.92 ॥
विज्ञानं प्रापकं प्राप्ये परे ब्रह्मणि पार्थिव ।
प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः ॥ 6.7.93 ॥
क्षेत्रज्ञः करणी ज्ञानं करणं तस्य तेन तत् ।
निष्पाद्य मुक्तिकार्यं वै कृतकृत्यं निवर्तते ॥ 6.7.94॥
तद्भावभावमापन्नस्ततोऽसौ परमात्मना ।
भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ॥ 6.7.95॥
विभेदजनके ज्ञाने नाशमात्यन्तिकं गते ।
आत्मनो ब्रह्मणो भेदम संतं कः करीष्यति ॥ 6.7.96॥
इत्युक्तस्ते मया योगः खाण्डिक्य परिपृच्छतः ।
संक्षेपविस्तराभ्यां तु किमन्यत्क्रियतां तव ॥ 6.7.97॥
खाण्डिक्य उवाच
कथिते योगसद्भावे सर्वमेव कृतं मम ।
तवोपदेशेनाशेषो नष्टश्चित्तमलो यतः ॥ 6.7.98 ॥
ममेति यन्मया चोक्तमसदेतन्न चान्यथा ।
नरेद्र गदितुं शक्यमपि विज्ञेयवेदिभिः ॥ 6.7.99॥
अहं ममेत्यविद्येयं व्यवहारस्तथानयोः ।
परमार्थस्त्वसंलापो गोचरे वचसां न यः ॥ 6.7.100 ॥
तद्गच्छ श्रेयसे सर्वं ममैतद्भवता कृतम् ।
यद्विमुक्तिप्रदो योगः प्रोक्तः केशिध्वजाव्ययः ॥ 6.7.101 ॥
श्रीपराशर उवाच [Sage Parasara said]
यथार्हं पूजया तेन खाण्डिक्येन स पूजितः ।
आजगाम पुरं ब्रह्मंस्ततः केशिध्वजो नृपः ॥ 6.7.102 ॥
खाण्डिक्योऽपि सुतं कृत्वा राजानं योगसिद्दये ।
वनं जगाम गोविन्दे विनिवेशितमानसः ॥ 6.7.103 ॥
तत्रैकान्तमतिर्भूत्वा यमादिगुणसंयुतः ।
विष्ण्वाख्ये निर्मले ब्रह्मण्यवाप नृपतिर्लयम् ॥ 6.7.104॥
केशिध्वजो विमुक्त्यर्थं स्वकर्मक्षपणोन्मुखः ।
बुभुजे विषयान्कर्म चक्रे चानभिसंहितम् ॥ 6.7.105॥
अकल्याणोपभोगैश्च क्षीणपापोऽमलस्तथा ।
अवाप सिद्धिमत्यन्तां तापक्षयफलां द्विज ॥ 6.7.106॥
इति श्रीविष्णुमहापुराणे षष्ठांशे सप्तमोऽध्यायः (7)
श्रीपराशर उवाच [Sage Parasara said]
इत्येष कथितःसम्यक्तृतीयः प्रतिसंचरः ।
आत्यन्तिको विमुक्तिर्या लयो ब्रह्मणि शाश्वते ॥ 6.8.1 ॥
सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च ।
वंशानुचरितं चैव भवतो गदितं मया ॥ 6.8.2॥
पुरामं बैष्णवं चैतत्सर्वकिल्बिषनाशनम् ।
विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपपादकम् ॥ 6.8.3 ॥
तुभ्यं यथावन्मैत्रेय प्रोक्तं शुश्रुषवेऽव्ययम् ।
यदन्यदपि वक्तव्यं तृत्पृच्छाद्य वदामि ते ॥ 6.8.4 ॥
मैत्रेय उवाच
भगवन्कथितं सर्वं यत्पृष्टोसि मया मुने ।
श्रुतं चैतन्मया भक्त्या नान्यत्प्रष्टव्यमस्ति मे ॥ 6.8.5॥
विच्छिन्नाःसर्वसंदेहा वैमल्यं मनसः कृतम् ।
त्वत्प्रसादान्मया ज्ञाता उत्पत्तिस्थितिसंक्षयाः ॥ 6.8.6॥
ज्ञातश्च त्रिविधो राशिः शक्तिश्च त्रिविधा गुरो ।
विज्ञाता सा च कार्त्स्न्येन त्रिविधा भावभावना ॥ 6.8.7॥
त्वत्प्रसादान्मया ज्ञातं ज्ञेयमन्यैरलं द्विज ।
यदेतदखिलं विष्णोर्जगन्न व्यतिरिच्यते ॥ 6.8.8॥
कृतार्थोहमसंदेहस्त्वत्प्रसादान्महामुने ।
वर्णधर्मादयो धर्मा विदिता यदशेषतः ॥ 6.8.8 ॥
प्रवृत्तं च निवृत्तं च ज्ञानं कर्ममयाखिलम् ।
प्रसीद विप्रप्रवर नान्यत्प्रष्टव्यमस्ति मे ॥ 6.8.10 ॥
यदस्य कथनायासैर्योऽर्जितोऽसि मया गुरो ।
तत्क्षम्यतां विशेषोस्ति न सतां पुत्रशिष्ययोः ॥ 6.8.11 ॥
श्रीपराशर उवाच [Sage Parasara said]
एतत्ते यन्मयाख्यातं पुराणं वेदसंमतम् ।
श्रुतेऽस्मिन्सर्वदोषोत्थः पापराशिः प्रणश्यति ॥ 6.8.12 ॥
सर्गश्च प्रतिसर्गश्च वंशमन्वन्तरामि च ।
वंशानुचरितं कृत्स्नं मयात्र तव कीर्तितम् ॥ 6.8.13 ॥
अत्र देवास्तथा दैत्या गन्धर्वोरगराक्षसाः ।
यक्षविद्याधराःसिद्धाः कथ्यन्तेऽप्सरसस्तथा ॥ 6.8.14॥
मुनयो भावितात्मानः कथ्यन्ते तपसान्विताः ।
चातुर्वण्यं तथा पुंसा विशिष्टचरितानिच ॥ 6.8.15॥
पुण्याः प्रदेशा मेदिन्याः पुण्या नद्योऽथ सागराः ।
पर्वताश्च महापुण्याश्चरितानि च धीमताम् ॥ 6.8.16॥
वर्णधर्मादयो धर्मावेदशास्त्राणि कृत्स्नशः ।
येषां संस्मरमात्सद्यःसर्वपापैः प्रमुच्यते ॥ 6.8.17॥
उत्पत्तिस्थितिनाशानां हेतुर्यो जगतोऽव्ययः ।
स सर्वभूतःसर्वात्मा कथ्यते भगवान्हरिः ॥ 6.8.18 ॥
अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः ।
पुमान्विमनच्ये सद्यःसिंहत्रस्तैर्मृगैरिव ॥ 6.8.19॥
यन्नामकीर्तनं भक्त्या विलायनमनुत्तमम् ।
मैत्रेयासेषपापानां धातूनामिव पावकः ॥ 6.8.20 ॥
कलिकल्मषमत्युग्रं नरकार्त्तिप्रदं नृणाम् ।
प्रयाति विलयं सद्यःसकृद्यत्र च संस्मृते ॥ 6.8.21 ॥
हिरण्यगर्भदेवेन्द्ररुद्रादित्याश्विवायुभिः ।
पावकैर्वसुभिः साध्यैर्विश्वेदेवादिभिः सुरैः ॥ 6.8.22 ॥
यक्षरक्षोरगैः सिद्धैर्दैत्यगन्धर्वदानवैः ।
अप्सरोभिस्तथा तारानक्षत्रैः सकलैर्ग्रहैः ॥ 6.8.23 ॥
सप्तर्षिभिस्तथा धिष्ण्यैर्धिष्ण्याधिपतिभिस्तथा ।
ब्रह्मणाद्यैर्मनुष्यैश्च तथैव पशुभिर्मृगैः ॥ 6.8.24॥
सरीसृपैर्विहङ्गैश्च पलाशाद्यैर्महीरुहैः ।
वनाग्निसागरसरित्पातालैः ससुराग्निभिः ॥ 6.8.25॥
शब्दादिभिश्चसहितं ब्रह्माण्डमखिलं द्विज ।
मेरोरिवाणुर्यस्यैतद्यन्मयं च द्विजोत्तम ॥ 6.8.26॥
स सर्वः सर्ववित्सर्वस्वरूपो रूपवर्जितः ।
भगवान्कीर्तितो विष्णुरत्र पापप्रणाशनः ॥ 6.8.27॥
यदश्वमेधावभृथे स्नातः प्राप्नोति वै फलम् ।
मानवस्तदवाप्नोति श्रुत्वैतन्मुनिसत्तम ॥ 6.8.28 ॥
प्रयागे पुष्करेचैव कुरुक्षेत्रे तथार्ऽणवे ।
कृतोपवासः प्राप्नोति तदस्य श्रवणान्नरः ॥ 6.8.29॥
यदग्निहोत्रे सुहुते वर्षेणाप्नोति मानवः ।
महापुण्यफलं विप्र तदस्य श्रवणात्सकृत् ॥ 6.8.30 ॥
यज्ज्येष्ठसुक्लद्वादश्यां स्नात्वा वै यमुनाजले ।
मथुरायां हरिं दृष्ट्वा प्राप्नोति पुरुषः फलम् ॥ 6.8.31 ॥
तदाप्नोत्यखिलं सम्यगध्यायं यः शृणोति वै ।
पुराणस्यास्य विप्रर्ष केशवार्पितमानसः ॥ 6.8.32 ॥
यमुनासलिलस्नातः पुरुषो मुनिसत्तम ।
ज्येष्ठामूले सिते पक्षे द्वादश्यां समुपोषितः ॥ 6.8.33 ॥
समभ्यर्च्याच्युतं सम्यङ्मथुरायां समादितः ।
अश्वमेधस्य यज्ञस्य प्राप्नोत्यविकलं फलम् ॥ 6.8.34॥
आलोक्यर्धिमथान्येषामुन्नीतानां स्ववंशजैः ।
एतत्किलोचुरप्येषां पितरः सपितामहाः ॥ 6.8.35॥
कच्चिदस्मत्कुले जातः कालिन्दीसलिलाप्लुतः ।
अर्तयिष्यति गोविन्दं मथुरायामुपोषितः ॥ 6.8.36॥
ज्योष्ठामूले सिते पक्षे केनैवं वयमप्युत ।
परामृद्धिमवाप्स्यामस्तारिताःस्वकुलोद्भवैः ॥ 6.8.37॥
ज्येष्ठामूले सिते पक्षे समभ्यर्च्य जनार्दनम् ।
धन्यानां कुलजः पिण्डान्यमुनायां प्रदास्यति ॥ 6.8.38 ॥
तस्मिन्काले समभ्यर्च्य तत्र कृष्णं समाहितः ।
दत्त्वा पिण्डं पितृभ्यश्च यमुनासलिलाप्लुतः ॥ 6.8.39॥
यदाप्नोति नरः पुण्यं तारयन्स्वपितामहान् ।
श्रुत्वाध्यायं तदाप्नोति पुराणस्यास्य शक्तितः ॥ 6.8.40 ॥
एतत्संसारभीरूणां परित्राणमनुत्तमम् ।
श्राव्याणां परमं श्राव्यं पवित्राणामनुत्तमम् ॥ 6.8.41 ॥
दुःस्वप्ननाशनं नॄणां सर्वदुष्टनिबर्हणम् ।
मङ्गलं मङ्गलानां च पुत्रसंपत्प्रदायकम् ॥ 6.8.42 ॥
इदमार्षं पुरा प्राह ऋभवे कमलोद्भवः ।
ऋभुः प्रियव्रतायाह स च भागुरयेऽबवीत् ॥ 6.8.43 ॥
भागुरिस्तंभमित्राय दधीचाय स चोक्तवान् ।
सारस्वताय तेनोक्तं भृगुःसारस्वतेन च ॥ 6.8.44॥
भृगुणा पुरुकुत्साय नर्मदायै स चोक्तवान् ।
नर्मदा धृतराष्ट्रायनागायापूरणाय च ॥ 6.8.45॥
ताभ्यां च नागराजाय प्रोक्तं वासुकये द्विज ।
वासुकिः प्राह वत्साय वत्सश्चाश्वतराय वै ॥ 6.8.46॥
कंबलाय च तेनोक्तमेलापुत्राय तेन वै ॥ 6.8.47॥
पातालं समनुप्राप्तः ततो वेदशिरा मुनिः ।
प्राप्तवानेतदखिलं स च प्रमतये ददौ ॥ 6.8.48 ॥
दत्तं प्रमतिना चैतज्जातुकर्णाय धीमते ।
जातुकर्णेन चैवोक्तमन्येषां पुण्यकर्मणाम् ॥ 6.8.49॥
पुलस्त्यवरदानेन ममाप्येतत्स्मृतिं गतम् ।
मयापि तूभ्यं मैत्रेय यथावत्कथितं त्बिदम् ॥ 6.8.50 ॥
त्वमप्येतच्छिनीकाय कलेरन्ते वदिष्यसि ॥ 6.8.51 ॥
इत्येतत्परमं गुह्यं कलिकल्मषनाशनम् ।
यः शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते ॥ 6.8.52 ॥
समस्ततीर्थस्नानानि समस्तामरसंस्तुतिः ।
कृता तेन भवेदेतद्यः शृणोतिदिनेदिते ॥ 6.8.53 ॥
कपिलादानजनितं पुम्यमत्यन्तदुर्लभम् ।
श्रुत्वैतस्य दशाध्यायानवाप्नोति न संशयः ॥ 6.8.54॥
यस्त्वेतत्सकलं शृणोतिपुरुषः कृत्वा मनस्यच्युतं सर्वं सर्वमयं समस्तजगतामाधारमात्माश्रयम् ।
ज्ञानज्ञेयमनादिमन्तरहितं सर्वामराणां हितं स प्राप्नोति न संशयोस्त्यविकलं यद्वाजिमेधे फलम् ॥ 6.8.55॥
यत्रादौ भगवांश्चराचरगुरुर्मध्ये तथान्ते च स ब्रह्मज्ञानमयोऽच्युतोऽखिलजगन्मध्यान्तसर्गप्रभुः ।
ततसर्वं पुरुषः पवित्रममलं शृण्वन्पठन्वाचयन्प्राप्नोत्यस्ति न तत्फलं त्रिभुवनेष्वेकान्तसिद्धिर्हरिः ॥ 6.8.56॥
यस्मिन्न्यस्तमनिर्न याति नरकं स्वर्गोऽपि यच्चिन्तने विघ्नो यत्र निवेशितात्ममनसो ब्राह्मोऽपि लोकोऽल्पकः ।
मुक्तिं चेतसि यःस्थितो मलधियां पुंसां ददात्यव्ययः किं चित्रं यदघं प्रयाति विलयं तत्राच्युते कीर्तिते ॥ 6.8.57॥
यज्ञैर्यज्ञविदो यजन्ति सततं यज्ञेश्वरं कर्मिणो यं वै ब्रह्ममयं परावरमयं ध्यायन्ति च ज्ञानिनः ।
यं संचित्य न जायते न म्रियते नो वर्धते हीयते नैवासन्न च सद्भवत्यति ततः किं वा हरेः श्रूयताम् ॥ 6.8.58 ॥
कव्यं यः पुतृरूपधृग्विधिहुतं हव्यं च भुक्तं विभुर्देवत्वे भगवाननादिनिधनःसावहास्वधासंज्ञिते ।
यस्मिन्ब्रह्मणि सर्वशक्तिनिलये मानानि नो मानिनां विष्ठायै प्रभवन्ति हन्ति कलुषं श्रोत्रं स यातो हरिः ॥ 6.8.59॥
नान्तोस्ति यस्य न च यस्य समुद्भवोऽस्ति वृद्धिर्न यस्य परिणामविवर्जितस्य ।
नापक्षयं च समुपैत्यविकारि वस्तु यस्तं नतोस्मि पुरुषोत्ममीशमीड्यम् ॥ 6.8.60 ॥
तस्यैव योनु गुमभुग्बहुधैक एव सुद्धोप्यशुद्ध इव भाति हि मूर्तिभेदैः ।
ज्ञानान्वितःसकलसत्त्वविभूतिकर्ता तस्मै नमोस्तु पुरुषाय सदाव्ययाय ॥ 6.8.61 ॥
ज्ञानप्रवृत्तिनियमैक्यमयाय पुंसो भोगप्रदानपटवे त्रिगुणात्मकाय ।
अव्याकृताय भवबावनकारणाय वन्दे स्वरूपभवनाय सदाजराय ॥ 6.8.62 ॥
व्योमानिलाग्निजलभूरचनामयाय शब्दादिभोग्यविषयोपनयक्षमाय ।
पुंसःसमस्तकरणैरुपकारकाय व्यक्ताय सूक्ष्मबृहदात्मवते नतोस्मि ॥ 6.8.63 ॥
इति विविधमजस्य यस्य रूपं प्रकृतिपरात्ममयं सनातनस्य ।
प्रदिशतु भगवानशेषपुंसां हरिरपजन्मजरादिकां सिद्धिम् ॥ 6.8.64॥
इति श्रीविष्णुमहापुराणे षष्ठांशेऽष्टमोऽध्यायः (8)
समाप्तोऽयं षष्ठांशः
इति श्रीविष्णुमहापुराणं समाप्तम्